SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ तत्समक्षं, गुरुबिरहे तु गुरुस्थापना मनसि कृत्वा ईर्यापथप्रतिक्रमणं निर्वयं चैत्यवन्दनमुत्कृष्टमारभ्यते, जघन्यमध्यमे तु चैत्यवन्दने ऐोपथिकीप्रतिक्रमणमन्तरेणापि भवतः। अत्र नमस्कारेण नमो अरिहंताणमित्यनेन वपुरेव तवाचष्टे भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ तरुर्भवति शाङ्कलः ॥१॥ इत्यादिना कविकृतेन च जघन्या चैत्यवन्दना भवति । अन्ये तु प्रणाममात्ररूपा जघन्यां चैत्यवन्दना वदन्ति । प्रणामस्तु पश्चधा एकाङ्गः शिरसो नामे स द्वयङ्गः करयोर्द्वयोः। त्रयाणां नमने व्यङ्गः करयोः शिरसस्तथा ॥१॥ चतुर्णा करयोर्जान्वोनमने चतुरङ्गकः । शिरसः करयोर्जान्वोः पञ्चाङ्गः पञ्चके नते ॥२॥ मध्यमा तु स्थापनार्हतः स्तवदण्डकेन स्तुत्या चैकया भवति । यदाहनवकारेण जहन्ना दंडगथुइजुगल मज्झिमा णेया। संपुरमा उक्कोसा विहिणा खलु वंदणा तिविहा ॥१॥ इत्युत्कृष्टया चैत्यवन्दनया वन्दितुकामो विरतः साधुः श्रावकश्च अविरतसम्यग्दृष्टिरपुर्नबन्धको वा यथामद्रको यथोचितं प्रतिलखितप्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाञ्चकञ्चुको मुदश्रुपूर्णलोचनः अतिदुर्लभं भगवत्पादवन्दनमिति बहु मन्यमानो योगमुद्रया अस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भ प्रणिपातदण्डकसूत्रं पठति । तत्र च त्रयस्त्रिंशदालापका आलापकद्विकादिप्रमाणाश्च विश्रामभूमिरूपा नवसम्पदो भवन्ति । यदाह (१) नमस्कारेण जघन्या दण्डकस्तुति युगलाद् मध्यमा ज्ञेया । सम्पूर्णोत्कृष्टा विधिना खलु वन्दना त्रिविधा ॥१॥ in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy