SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ । पौरगीतेन तौ ततः। अगायतां तारतारमलक्या भवितव्यता ॥४२॥ आकर्ण्य कर्णमधुरं तद्गीतं युवनागरैः । मधुवन्मक्षिकाभिस्तौ मातङ्गौ परिवारितौ ॥४३॥ कावेताविति विज्ञातुं लोकैः कष्टावगुण्ठनौ । अरे तावेव मातङ्गावित्याक्षेपण भाषितौ ॥४४॥ नागरैः कुट्यमानौ तौ यष्टिर्मिलॊष्टुभिस्ततः । श्वानाविव गृहात्पुयों (योः) नतग्रीवो निरीयतुः ॥४५॥ तौ सैन्यशशवल्लोहन्यमानौ पदे पदे । स्खलत्पादौ कथमपि गम्भीरोद्यानमीयतुः ||॥४६॥ तावचिन्तयतामेवं धिग् नौ दुर्जातिषितम् । कलाकौशलरूपादि पयो घ्रातमिवाहिना ॥४७॥ उपकारो गुणैरास्तामपकारोऽयमावयोः । तदिदं क्रियमाणायाः शान्तेर्वेताल उत्थितः ॥४८॥ कलालावण्यरूपाणि स्यूतानि वपुषा सह । तदेवानर्थसदनं तृणवत्त्यज्यतां क्षणात् ॥ ४६ ॥ इति निश्चित्य तौ प्राणपरिहारपरायणौ । मृत्यु साक्षादिव द्रष्टुं चेलतर्दक्षिणामभि॥५०॥ ततो दूरं प्रयातौ तौ गिरिमेकमपश्यताम् । यत्रारूढे वीक्ष्यन्ते कारण: किरिपोतवत् ॥५१॥ भृगुपातेच्छया ताभ्यामाराहद्भ्यां महामुनिः। ददृशे पर्वते तस्मिन् जङ्गमो गुणपवेल : ॥५२॥ प्रावृषण्यमिवाम्भोदं मुनि गिरिशिरःस्थितम् । दृष्ट्वा प्रणष्टसन्तापग्रसरौ तौ बभूवतुः ॥ ५३॥ तौ प्राग्दुःखामिवोज्झन्तावानन्दाश्रुजलच्छलात् । तत्पादपद्मयोर्भङ्गाविव सद्यो निपेततुः ॥ ५४॥ समाप्य मुनिना ध्यानं को युवा किमिहागतौ । इति पृष्टौ स्ववृत्तान्तं तावशेषमशंसताम् ॥ ५५ ॥ स ऊचे भृगुपातेन वपुरेव हि शीर्यते । शीर्यते नाशुभं कमें जन्मान्तरशतार्जितम् ॥ ५६ ॥ त्याज्यं वपुरिदं वां चेद गृहीतं वपुषः फलम् । तच्चापवर्गस्वगोदिकारणं परमं तपः ॥ ५७॥ इत्यादिदेशनावाक्यसुधानिध/तमानसौ । तस्य पार्श्व जगृहतुतिधर्ममुभावपि ॥ ५॥ अधीयानौ क्रमेणाथ तौ गीतार्थों बभूवतुः । आदरण गृहीतं हि किंवा न स्यान्मनस्विनाम् ॥ ५९ ॥ षष्ठाष्टमग्र For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy