SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ बोग चतुर्थ । प्रकाशः। ॥३२॥ तत्र सर्वासां पृथिवीनामधो घनोदधयः मध्योत्सेधे विंशतियोजनसहस्राणि, महावाताः उत्सेधे घनोदधितोऽसंख्यानि योजनसहस्राणि, तनुवाताश्च महावातेभ्योऽसंख्यानि योजनसहस्राणि, ततोऽप्यसंख्येयानि योजनसहस्राण्याकाशम् । एतच्च मध्ये उत्सेधमानम् । ततः परं क्रमेण हीयमानं प्रान्ते वलयतुल्यमानमिति । घनोदधिवलयविष्कम्भमानं रत्नप्रभायाः षड्योजनानि, धनवातवलयविष्कम्भमानमर्धपश्चमयोजनानि, तनुवातवलयविष्कम्भमानं साध योजनम् । रत्नप्रभावलयमानादुपरि योजनविभागो घनोदधौ, घनवाते गव्यूतम् , तनुवाते च गव्यूतत्रिभागो वर्त्तते । एतच्छर्कराप्रभायां वलयमानम् । एवं शर्कराप्रभावलयमानादुपर्ययमेव प्रक्षेपः । एवं पूर्वपूर्ववलयमानादुपर्ययमेव प्रक्षेपः सप्तमपृथिवीं यावत् , यदाह तिभागो गाउयं चेव तिभागो गाउयस्स य । आइधुवे पक्खेवो अहो अहो जाव सत्तमिश्रा ॥ १ ॥ प्रक्षेपे सति वलयविष्कम्भमानमाभ्यो गाथाभ्योऽवसेयम् , तद्यथाछस्सतिभाग पउणा य पंच वलयाण जोपणपरिमाणं । एगं बारसभागा सत्त कमा बीयपुढवीए ॥१॥ जोअणसत्ततिभागोण पंच एगं च वलयपरिमाणं । बारसभागा अट्ठ उ तइयाइ जहकमं नेयं ॥२॥ (१) त्रिभागो गव्यूतं चैव त्रिभागो गव्यूतस्य च । आध्रुिवे प्रक्षेपोऽधोऽधो यावत् सप्तमीम् ॥ १ ॥ (२) षट्रकत्रिभागः प्रनूनाश्च पञ्च वलयानां योजनपरिमाणम् । एकं द्वादशभागाः सप्त क्रमेण द्वितीयटथिव्याम् ॥ १ ॥ योजनसप्तत्रिभागोनं पञ्चैकं च वलयपरिमाणम् । द्वादशभागा अष्ट तु तृतीयायां यथाक्रमं ने(ज्ञे)यम् ॥ २ ॥ ॥३२॥ Jain Education intenar For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy