SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ सत्त सवाया पंच उ पउणा दो जोअण्णा चउत्थीए । घणउअहिमाइयाणं वलयाणं माणमयं तु ॥३॥ सतिभागसत्त तह अद्धछह वलयाण माणमेयं तु । जोअणमेगं बारसभागा दस पंचमीए तहा ।। ४ ।। अटुं तिभागोणाई पउणाइ छच्च वलयमाणं तु । छट्ठीए जोअणं तहा बारसभागा य एक्कारा ॥ ५ ॥ अट्ठ य छच्चि य दु च्चिय घणोअहीमाइमाण माणं तु | सत्तममहीए नेयं जहासंखेण तिण्हं पि ॥६॥ एतानि च वलयानि पृथिव्याधारभूतघनोदध्यादिभ्यः पृथ्वीपर्यन्तपरिधिप्रान्तेषु वलयाकारतया एतावद्विकम्भाणि पृथिव्युत्सेधसमोत्सेधानि च ।। १०४ ॥ पुनर्लोकखरूपमाहवेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिभः। अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः॥१०५॥ अधस्तादधोभागे वेत्रासनमधस्ताद् विस्तीर्णमुपर्युपरिसङ्कोचवत् तत्समस्तदाकारः, मध्यतो मध्ये झल्लरी वाद्यविशेषस्तत्सदृशः, अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च संकुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः। • (१) सप्त सपादाः पञ्च तु प्रनूने द्वे योजने चतुर्थ्याम् । घनोदध्यादिकानां वलयानां मानमेतत्तु ।। ३ ॥ सत्रिभागसप्त तथा अर्धषष्ठं वलयानां मानमेतत्तु । योजनमेकं द्वादशभागा दश पञ्चम्यां तथा ॥ ४॥ अष्ट त्रिभागोनानि प्रनूनानि षट् च वलयमानं तु । षष्ठयां योजनं तथा द्वादशभागाश्चैकादश ॥ ५ ॥ अष्ट च षट् चैव द्वौ चैव घनोदध्यादिकानां मानं तु | सप्तममयां ने(ज्ञे)यं यथासंख्येन त्रयाणामपि ॥ ६ ॥ Education For Personel Private Use Only SIww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy