SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ योगशाखम् ॥११॥ 4-FADA विनिर्यातो बाह्यारक्षगणेष्वहम् । कैवर्तहस्तविसस्तो जाले मत्स्य इवापतम् ॥४८॥ ततो निरपराधोऽपि बध्ध्वा चोर द्वितीयः इवाधुना । अहमेभिरिहानीतो नीतिसार विचारय । ४६॥ ततस्तं भूपतिर्गुप्तौ प्रेषयामास तत्क्षणात् । तत्प्रवृत्ति- प्रकाशः। ज्ञानहेतोस्तत्र ग्रामे च पूरुषम् ।। ५ ।। सोऽग्रेऽपि ग्राहितो ग्रामः सङ्केतं तेन दस्युना । चौराणामपि केषाश्चिच्चित्रमायतिचिन्तनम् ॥ ५१॥ तत्स्वरूपं राजपुंसा ग्रामः पृष्टोऽब्रवीदिदम् । दुर्गचण्डोत्र वास्तव्यः परं ग्रामान्तरं गतः ॥५२॥ तत्रार्थे तेन विज्ञप्ते दध्यौ श्रेणिकमूरिदम् । अहो सुकृतदम्भस्य ब्रह्माऽप्यन्तं न गच्छति ॥ ५३ ।। अभयोऽसजयदथ प्रासादं सप्तभूमिकम् । महार्यरत्नखचितं विमानमिव नाकिनाम् ॥ ५४ ॥ श्रियाऽप्सरायमाणाभी रमणीभिरलङ्कृतम् । दिवोऽमरावतीखण्डमिव भ्रष्टमतर्कि सः ॥५५॥ गन्धर्ववर्गप्रारब्धसङ्गी तकमहोत्सवः। सोऽधादकस्मादुद्भूतगन्धर्वनगरश्रियम् ॥५६॥ ततोऽभयो मद्यपानमूढं निर्माय तस्करम् । परिधाप्य - | देवदूप्ये अधितल्पमशाययत् ॥५७।। मदे परिणते यावदुदस्थात्तावदैवत । सोऽकस्माद्विस्मयकरीमपूर्वी दिव्यसंपदम् ॥५८॥ अत्रान्तरेऽभयादिष्टैनरनारीगणैस्ततः । उदचारि जय जय नन्देत्यादिकमङ्गलम् ॥५६।। अस्मिन्महाविमाने त्वमुत्पन्नस्त्रिदशोऽधुना। अस्माकं स्वामिभूतोऽसि त्वदीयाः किङ्करा वयम् ॥ ६ ॥ अप्सरोभिः सहैताभी रमस्व स्वैरमिन्द्रवत् । इत्यादि चतुरं चाटुगर्भमचे च तैरसौ ॥६१॥ जातः सुरः किमस्मीति दध्यौ यावत्स तस्करः । संगीतकार्थ तावत्तैः प्रदत्तः समहस्तकः ।। ६२ ॥ उपेत्य पुंसा केनापि स्वर्णदण्डभृता ततः । सहसा भोः किमारब्धमेतदेवमभाष्यत ॥ ६३ ॥ ततः प्रतिवभाषे तैः प्रतिहार निजप्रभोः । प्रदर्शयितुमारब्धं स्वकं विज्ञानकौशलम् । ॥६४॥ सोऽप्युवाच स्वनाथस्य दर्श्यतां निजकौशलम् । देवलोकसमाचारं कार्यतां किं वसाविति ॥६५॥ तैरुक्तं ॥११८॥ मुदे परिणश्रयम् ॥५६॥ सत्पन्नत्रिदोऽभयादिना माकमङ्गलम् ॥EMA दिव्यसंपदम । For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy