________________
न
एतदपि घटमानकमेव न दुरापेतम् । तथा परिवादभौतब्राह्मणादयो विषयानुपभुजाना एव परलोकेऽपि सुखन युज्यन्त इति साधीयानेषोऽपि धर्म इति । एवं च काङ्गापि परमार्थतो भगवदर्हत्प्रणीतागमानाश्वासरूपा सम्यक्त्व दूषयति । विचिकित्सा चित्तविप्लवः, सा च सत्यपि युक्त्यागमोपपन्ने जिनधर्मेऽस्य महतस्तपःक्लेशस्य सिकताकणकवलवनिःस्वादस्यायत्यां फलसम्पद्भवित्री । अथ क्लेशमात्रमेवेदं निर्जराफलविकलमिति । उभयथा हि क्रिया दश्यन्ते सफला अफलाश्च कृषीवलादीनामिव इयमपि तथा सम्भाव्यते । यदाह
पुव्वपुरिसा जहोइअमग्गचरा घडइ तेसि फलजोगो । अम्हेसु य धीसंघयणविरहो न तह तेसि फलं ॥१॥ इति ॥
विचिकित्सापि भगवद्वचनानाश्वासरूपत्वात्सम्यक्त्वस्य दोषः। न च शङ्कातो नेयं भिद्यते । शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया, इयं तु क्रियाविषयैव । यद्वा विचिकित्सा निन्दा सा च सदाचारमुनिविषया यथा अस्त्रानेन प्रस्वेदजलक्लिन्नमलत्वाद्दुर्गन्धिवपुष एत इति । को दोषः स्याद्यदि प्रासुकवारिणाऽङ्गक्षालन | कुर्वीरनिति । इयमपि तत्त्वतो भगवद्धआनाश्वासरूपत्वात सम्यक्त्वदोषः३। मिथ्या जिनागमविपरीता दृष्टिदेशनं येषां ते मिथ्यादृष्टयस्तेषां प्रशंसनं प्रशंसा तच्च सर्वविषयं देशविषयं च । सर्वविषयं सर्वाण्यपि कपिलादिदर्शनानि युक्तियुक्तानीति माध्यस्थ्यसारा स्तुतिः सम्यक्त्वस्य षणम् । यदाचक्ष्महि स्तुती
(१) पूर्वपुरुषा यथोचितमार्गचरा घटते तेषां फलयोगः । अस्मासु च धीसंहननविरहतः न तथा तेषां फलम् ॥
in Education Internation
व
१२
For Personal & Private Use Only