SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ ततो भ्रमन्तं पत्रेषु संचरन्तं नभस्तले । ध्वंसयन्तं मनोध्वान्तं स्रवन्तं च सुधारसम् ॥५०॥ || तालुरन्ध्रण गच्छन्तं लसन्तं भूलतान्तरे। त्रैलोक्याचिन्त्यमाहात्म्यं ज्योतिर्मयमिवाद्भुतम्॥५१॥ इत्यमुं ध्यायतो मन्त्रं पुण्यमेकाग्रचेतसः । वाग्मनोमलमुक्तस्य श्रुतज्ञानं प्रकाशते ॥५२॥ मासैः षभिः कृताभ्यास: स्थिरीभूतमनास्ततः। निःसरन्तीं मुखाम्भोजाच्छिखां धूमस्य पश्यति॥ संवत्सरं कृताभ्यासस्ततो ज्वालां विलोकते । ततः संजातसंवेगः सर्वज्ञमुखपङ्कजम् ॥५४॥ स्फुरत्कल्याणमाहात्म्यं संपन्नातिशयं ततः। भामण्डलगतं साक्षादिव सर्वज्ञमीक्षते ॥५५॥ ततः स्थिरीकृतस्वान्तस्तत्र संजातनिश्चयः। मुक्त्वा संसारकान्तारमध्यास्ते सिद्धिमन्दिरं ॥५६॥ ___ मायाबीजं ही इति । शेषं स्पष्टम् ।। ४७-५६ ॥ तथाशशिबिम्बादिवोद्धृतां स्रवन्तीममृतं सदा। विद्यां वी इति भालस्थां ध्यायेत्कल्याणकारणम्॥ स्पष्टः ॥ ५७ ॥ तथाक्षीराम्भोधेविनिर्यान्तीं प्लावयन्ती सुधाम्बुभि:।भाले शशिकलां ध्यायेत् सिद्धिसोपानपद्धतिम्॥ स्पष्टः ॥५८ ॥ अस्या ध्याने फलमाह in Ede For Personel Private Use Only liww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy