SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna लनं वृचशाखादौ दोलाखेलनं; श्रादिशब्दात्पुष्पावचयादि; तथा जन्तूनां कुक्कुटादीनां योधनं परस्परेणाभ्याहननम् ; तथा रिपोः शत्रोः सम्बन्धिना पुत्रपौत्रादिना वैरम्; श्रयमर्थो येन तावत्कथञ्चिदायातं वैरं तद्यः परिहर्तु न शक्नोति तस्यापि पुत्रपौत्रादिना यद्वैरं तत्प्रमादाचरणम् ; तथा भक्तकथा यथा इदं चेदं च मांस्पाकमामोदकादिसाधु भोज्यं, साध्वनेन भुज्यते, अहमपि वा इदं भोच्ये इत्यादिरूपा; तथा स्त्रीकथा स्त्रीणां नेपथ्याङ्गहारहावभावादिवर्णनरूपा " कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया " इत्यादिरूपा वा; तथा देशकथा, यथा दक्षिणापथः प्रचुरान्नपानः स्त्रीसम्भोगप्रधानः, पूर्वदेशो विचित्रवनगुडखण्डशालिमद्यादिप्रधानः, उत्तरापथे शूराः पुरुषा जविनो वाजिनो गोधूमप्रधानानि धान्यानि सुलभं कुङ्कुमं मधुराणि द्राचादाडिमकपित्थादीनि; पश्चिमदेशे सुखस्पर्शानि च वस्त्राणि सुलभा इक्षवः शीतं वारीत्येवमादिः राकथा राजकथा यथा शूरोऽस्मदीयो राजा, सधनचौडः, गजपतिर्गौडः, अश्वपतिस्तुरुष्क इत्यादि । एवं प्रतिकूला अपि भक्तादिकथा वाच्या; तथा रोगो ज्वरादिः, मार्गश्रमो मार्गखेदः, तौ मुक्त्वा सकलां निशां स्वापो निद्रा । रोगमार्गश्रमयोस्तु न प्रमादाचरयम् । एवमादिपूर्वोक्तस्वरूपं प्रमादाचरणं परिहरेत् । सुधीः श्रमणोपासकः । प्रमादाचरितं च १ 'मजं विसयकसाया निद्दा विगहा य पश्चमी भणिया । एए पञ्च पमाया जीवं पाडेन्ति संसारे ॥ १ ॥ इति पञ्चविधस्य प्रमादस्य प्रपञ्चः ॥ ७८ ॥ ७६ ॥ ८० ॥ देशविशेषे प्रमादपरिहारमाह (१) मद्यं विषयकषाया निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादा जीवं पातयन्ति संसारे ॥ १ ॥ For Personal & Private Use Only •10184 >>**********++ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy