SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ ८० ॥ *03/000/-----*+C Jain Education International द्वारं तद्द्वारं प्रविशाधुना ॥ ६५ ॥ आतोद्यपुटवत्सोऽथ पाणिनाऽऽस्फोट्य भूपुटम् । सुरङ्गया समित्रोऽगाद्रत्नरन्ध्रेण सूत्रवत् ।। ६६ ।। सुरङ्गान्ते धनुधृतौ तुरङ्गावध्यरोहताम् । राजमन्त्रिकुमारौ तौ रेवन्तश्रीविडम्बकौ ||६७|| पञ्चाशद्योजनीं क्रोशमिव पञ्चमधारया । अश्वौ जग्मतुरुच्छ्वासौ ततः पञ्चत्वमापतुः ॥ ६८ ॥ ततस्तौ पादचारेण प्राणत्राणपरायणौ । जग्मतुर्निकषा ग्रामं कृच्छ्रात्कोष्टकनामकम् ।। ६६ । प्रोवाच ब्रह्मदत्तोऽथ सखे वरधनोऽधुना । स्पर्द्धमाने इवान्योऽन्यं बाधेते क्षुत्तृषा च माम् ॥ ७० ॥ क्षणमत्र प्रतीक्षस्वेत्युक्त्वा तं मन्त्रिनन्दनः । ग्रामादाकारयामास नापितं वपनेच्छयो ॥ ७१ ॥ मन्त्रिपुत्रस्य मन्त्रेण तत्रैव ब्रह्मनन्दनः । वपनं कारयामास चूलामात्रमधारयत् ।। ७२ ।। तथा कषायवस्त्राणि पवित्राणि स धारयन् । सन्ध्याभ्रच्छन्नवालांशुमालिलीलामधारयत् ॥ ७३ ॥ कण्ठे वरधनुन्यस्तं ब्रह्मसूत्रमधत्त च । ब्रह्मपुत्रो ब्रह्मपुत्रसादृश्यमुदुवाह च ॥ ७४ ॥ मन्त्रिसूर्ब्रह्मदत्तस्य वक्षः श्रीवत्सलाञ्छितम् । पट्टेन पिदधे प्रावृट् पयोदेनेव भास्करम् ॥ ७५ ॥ एवं वेषपरावर्त्तं ब्रह्मसूः सूत्रधारवत् । पारिपार्श्विकवन्मन्त्रिपुत्रोऽपि विदधे तथा ॥ ७६ ॥ ततः प्रविष्टौ ग्रामे तौ पार्वणाविन्दुभास्करौ । केनापि द्विजवर्येण भोजनाय निमन्त्रितौ ॥ ७७ ॥ सोऽथ तौ भोजयामास भक्त्या राजानुरूपया । प्रायस्तेजोऽनुमानेन जायन्ते प्रतिपत्तयः ॥ ७८ ॥ कुमारस्याक्षतान्मूर्ध्नि क्षिपन्ती विप्रगेहिनी । श्वेतवस्त्रयुगं कन्यां चोपनिन्येऽप्सरः समाम् ॥ ७६ ॥ ऊचे ततो वरधनुर्बटोरस्याकलापटोः । कण्ठे बनासि किमिमां मूढे शण्डस्य गामिव ॥ ८० ॥ ततो द्विजवरेणोचे ममेयं गुणबन्धुरा । कन्या बन्धुमती नास्या विनासुमपरो वरः ॥ ८१ ॥ षट्खण्डपृथिवीपाता पतिरस्या भविष्यति । इत्याख्यायि निमित्तज्ञैर्निश्चितं चायमेव सः ॥ ८२ ॥ तैरेवाख्यायि मे पट्टच्छन्नश्रीवत्सलाञ्छनः । For Personal & Private Use Only द्वितीयः प्रकाश: । ॥ ८० ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy