SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ भूवंश्चत्वारश्च वजा गवाम् ॥ ५ ॥ तत्पुरादुत्तरप्राच्यां कोल्लाकाख्योपपत्तने । आनन्दस्यातिबहवो बन्धुसंवन्धिनोऽ- | भवन् ॥ ६ ॥ तदा च पृथिवीं विहरन् जिनः सिद्धार्थनन्दनः । तत्पुरोपवने दृतिपलाशे समवासरत् ॥ ७॥ जितशत्रुर्महीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद् वन्दितुं सपरिच्छदः ॥ ८ ॥ आनन्दोऽपि ययौ पद्भयां पादमूले जगत्पतेः । कर्णपीयूषगण्डपकल्पां शुश्राव देशनाम् ।। 8॥ अथानन्दः प्रणम्याही त्रिजगत्स्वामिनः पुरः। जग्राह द्वादशविधं गृहिधर्म महामनाः ॥१०॥ शिवनन्दामन्तरेण स्त्रीः स तत्याज हेम तु । चतस्रश्चतस्रः स्वर्णकोटीनिध्यादिगा विना ।। ११ । प्रत्याचख्यौ बजानेष ऋते च चतुरो बजान् । क्षेत्रत्यागं च विदधे हलपञ्चशतीं विना ।। १२ ।। शकटान् वर्जयामास पञ्च पञ्च शतान्यते । दिग्यात्राव्यापूतानां च बहतां चानसामसौ ॥ १३ ॥ दिग्यात्रिकाणि चत्वारि स सांवहनिकानि च । विहाय वहनान्यन्यवहनानि व्यवर्जयत् ॥ १४ ॥ अपरं गन्धकाषाय्याः स तत्याजाङ्गपुंसनम् । दन्तधावनमाद्राया मधुयष्टेऋते जहौ ॥ १५ ॥ वर्जयामास च क्षीरामलकादपरं फलम् । अभ्यङ्गं च विना तैले सहस्रशतपाकिमे ॥ १६ ॥ अन्यत् सुरभिगन्धाढयादुद्वर्तनकमत्यजत् । अष्टभ्य औष्ट्रिकपयस्कुम्भेभ्योऽन्यच्च मजनम् ॥ १७ ॥ अपरं क्षौमयुगलाद् वासः सर्वमवर्जयत् । श्रीखण्डागुरुघुसणान्यपास्यान्यद् विलेपनम् ॥ १८॥ ऋते च मालतीमान्यात् पद्माच्च कुसुमं जहौ । कर्णिकानाममुद्राभ्यामन्यच्चाशेषभूषणम् ॥ १६ ॥ तुरुष्कागुरुधृपेभ्य ऋते धूपविधि जहौ । घृतपूरात् खण्डखाद्यादपरं भक्ष्यमत्यजत् ॥ २० ॥ काष्ठपेयां विना पेयां कलमादन्यदोदनम् । माषमुद्गकलायेभ्य ऋते सूपमपाकरोत् ॥ २१ ॥ घृतं च वर्जयामास विना शारदगोघृतात् । शाकं स्वस्तिकमण्डूकी पालक्यां च विना जहौ ।। २२ ॥ अते स्नेहाम्ल Education For Personel Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy