SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ साम्यं स्याद् निर्ममत्वेन तत्कृते भावना:श्रयेत्। अनित्यतामशेरणं भवमेकत्वमन्यताम् ॥५५॥ अशौचमाधैवविधि संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं द्वादशी बोधिभावनाम् ॥५६॥ . साम्यं यथोक्तस्वरूपं निर्ममत्वेनोपायेन स्यात् । ननु साम्यनिर्ममत्वयोः को भेदः १ उच्यते-साम्यं राग-द्वेषयोरुभयोरपि प्रतिपक्षभूतम् , निर्ममत्वं रागस्यैकस्य प्रतिपचभूतम् । तद्दोषद्वयनिवारणाय साम्ये चिकीर्षिते भवति बलवत्तरस्य रागस्य प्रतिपक्षभूतं निर्ममत्वमुपायः। यथा हि बलवत्यां सेनायां बलवत्तरस्य कस्यचिद् विनाश इतरेषां विनाशाय, तथा रागनिग्रहहेतु निर्ममत्वं हीनबलानां द्वेषादीनां विनाशायेति अलं प्रसङ्गेन । निर्ममत्वस्याप्युपायं दर्शयति-तत्कृते निर्ममत्वनिमित्तं भावना अनुप्रेक्षाः श्रयेद् योगी । प्रकृता भावना नामतः कथ- । यति-अनित्यतामित्यादि, स्पष्टं चैतत् ॥ ५५ ॥ ५६ ॥ तद्यथा । तद्यथा इत्युपस्कारपूर्वकमनित्यताख्यां प्रथमा भावनां दर्शयतियत्प्रातस्तन्न मध्याह्ने यन्मध्याह्ने नतनिशि। निरीक्ष्यते भवेऽस्मिन्ही! पदार्थानामनित्यता।५७ शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम् । प्रचण्डपवनोधूतघनाघनविनश्वरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः संगमाः स्वप्नसंनिभाः। वात्याव्यतिकरोक्षिप्ततूलतुल्यं च यौवनम् ॥५९॥ श्लोकत्रयं स्पष्टम् , नवरं शरीरमित्यादिश्लोके पूर्वार्द्ध यदिति शेषः; उत्तरार्द्ध तदिति शेषः । अत्रान्तरश्लोकाः Jan Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy