SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ धातकीखण्डे द्वाभ्यामिषुकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभक्ताः, एभिरेव नामभिर्जम्बूद्वीपकसमसङ्ख्याः , पूर्वार्धे चापरार्धे च चक्रारसंस्थिता (जबूद्वीपसंबन्धि) निषधादिसमोच्छ्रायाः कालोदधिलवणजलस्पर्शिनो वर्षधराः सेवाकारपर्वताः, अरविवरसंस्थिताश्च वर्षा इति । धातकीखण्डपरिक्षेपी अष्टयोजनलक्षविष्कम्भः कालोदः समुद्रः॥ कालोदपरिक्षेपी तद्विगुणविस्तारः पुष्करवरद्वीपः, तदर्घ यावन्मानुषं क्षेत्रं । यश्च धातकीखण्डे मेर्वादीनां सेष्वाकारपर्वतानां सङख्याविषयनियमः स एव पुष्करार्धे वेदितव्यः, धातकीखण्डक्षेत्रादिविभागतो द्विगुण*त्रादिविभागश्च । धातकीखण्डपुष्करार्धयोश्च क्षुद्रमेरवश्चत्वारोऽपि महामेरोः पञ्चदशभिर्योजनसहस्रहीनोच्छ्रायाः (८५०००) षड्भिर्योजनशतैर्धरणितले हीनविष्कम्भाः , तेषां प्रथमं काण्डं महामेरुतुल्यं (१०००), द्वितीयं सप्तभिर्योजनसहस्रहीनं (५६०००), तृतीयमष्टाभिः (२८०००), भद्रशालनन्दनवने महामेरुवत् सार्धपश्चपञ्चाशयोजनसहस्रोपरि पञ्चयोजनशतविस्तृत सौमनसं, ततोऽष्टाविंशतियोजनसहस्रोपरि चतुर्णवत्यधिकचतुर्योजनशतविस्तृतं पाण्डकवनम् , उपरि चाधश्च विष्कम्भोऽवगाहश्च (१०००-१००००-१०००) तुल्यो महामेरुणा, चूलिका चेति ॥ तदेवं मानुषं क्षेत्रमर्धतृतीया द्वीपाः, समुद्रद्वयं, पञ्च मेरवः, पञ्चत्रिंशत्क्षेत्राणि, त्रिंशद्वर्षधरपर्वताः, पञ्च देवकुरवः, पञ्चोत्तराः कुरवः, शतं षष्टयधिकं विजयानामिति ।। ततः परं मानुषोत्तरो नाम पर्वतो मानुषलोकपरिक्षेपी महानगरप्राकारवृत्तः पुष्करवरद्वीपार्धविनिविष्टः काञ्च JanEducation For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy