SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ योग तृतीयः प्रकाशः। शास्त्रम् ॥२४७॥ F ततश्च निन्दाद्वारणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणम् , प्रत्युत्पन्नविषयमपि संवरद्वारेण अनागतमपि प्रत्याख्यानद्वारेणेति न कश्चिद् दोषः। तच्च दैवसिकादिभेदात् पञ्चधा-दिवसस्यान्ते देवसिकम, रात्रेरन्ते रात्रिकम् , पक्षस्यान्ते पाचिकम् , चतुर्णा मासानामन्ते चातुर्मासिकम् , संवत्सरस्यान्ते सांवत्सरिकम् । पुनधा -ध्रुवम् , अध्रुवं च । ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो भवतु वा मा वा, उभयकालं प्रतिक्रमणम् । अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणजाते प्रतिक्रमणम् ; यदाह, सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स। मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥१॥ प्रतिक्रमणविधिश्चैताभ्यो गाथाभ्योऽवसेयः,पंञ्चविहायारविसुडिहेउमिह साहू सावगो वावि । पडिक्कमणं सह गुरुणा गुरुविरहे कुणइ इको वि ॥१॥ वंदित्तु चेइआई दाउं चउराइए खमासमणे । भूनिहिअसिरो सयलाइयारमिच्छोकडं देइ ॥२॥ सामाइअपुव्वमिच्छा मि ठाइउं काउस्सग्गमिच्चाई । सुत्तं भणि पलंबिअभुयकुप्परधरियपहिरणो॥३॥ (१) सप्रतिक्रमणो धर्मः प्रथमस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां कारणे जाते प्रतिक्रमणम् ॥ १ ॥ (२) पञ्चविधाचारविशुद्धिहेतोरिह साधुः श्रावको वापि । प्रतिक्रमणं सह गुरुणा गुरुविरहे करोत्येकोऽपि ॥ १ ॥ वन्दित्वा चैत्यानि दत्त्वा चतुरादिकान् क्षमाश्रमणान् । भूनिहितशिराः सकलातिचारमिथ्यादुप्कृतं दद्यात् ॥ २॥ सामायिकपूर्वमिच्छा मे स्थापयितुं कायोत्सर्गमित्यादि । सूत्रं भणित्वा प्रलम्बितभुजकूर्परधृतपरिधानः ॥ ३ ॥ ॥२४७॥ in Education Internat For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy