________________
Jain Education Internation
***********
'विणओवयारमाणस्स भजणा पूणा गुरुजणस्स । तित्थयराण य आणा सुअधम्माराहणाकिरिया ॥ १ ॥ अथ प्रतिक्रमणं - प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा; क्रमू पादविक्षेपे, अस्य प्रतिपूर्वस्य भावानडन्तस्य प्रतीपं क्रमणं प्रतिक्रमणम् ; अयमर्थः - शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपंक्रमणम् ; यदाहस्वस्थानाद् यत् परस्थानं प्रमादस्य वशाद् गतः । तत्रैव क्रमयं भूयः प्रतिक्रमणमुच्यते ॥ १ ॥ प्रतिकूलं वा गमनं प्रतिक्रमणम् ; यदाह,, -
क्षायोपशमिकाद् भावादौदयिकवशं गतः । तत्रापि च स एवार्थः प्रतिकूलगमात् स्मृतः ॥ १ ॥ प्रति प्रतिक्रमणं वा प्रतिक्रमणम् ; उक्तं च
प्रति प्रतिप्रवर्तनं वा शुभेषु योगेषु मोचफलदेषु । निःशल्यस्य यतेर्यत् तद् विज्ञेयं प्रतिक्रमणम् ॥ १ ॥ तच्चातीतानागतवर्तमान कालत्रयविषयम् । नन्वतीतविषयमेव प्रतिक्रमणम्, यत उक्तम्, “इयं पडिकमामि, पडुप्पन्नं संवरेमि, अणागयं पञ्चक्खामि " इति, तत् कथं त्रिकालविषयता ? । उच्यते-अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः-
"मिच्छत्तपडिकमणं तदेव अस्संजमे पडिकमणं । कसायाण पडिकमणं जोगाण य अप्पसत्थाणं ॥ १ ॥ (१) विनयोपचारमानस्य भजना पूजना गुरुजनस्य । तीर्थकराणां चाज्ञा श्रुतधर्माराधनाक्रिया ॥ १ ॥ (२) अतीतं प्रतिक्रमामि प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामि ।
(३) मिध्यात्वप्रतिक्रमणं तथैवासंयमे प्रतिक्रमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ १ ॥
ર
For Personal & Private Use Only
www.jainelibrary.org