SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ननु निर्विकृतिक एवाकाराभिधानाद् विकृतिपरिमाणप्रत्याख्याने कुत आकारा अवगम्यन्ते ?। उच्यतेनिर्विकृतिकग्रहणे विकृतिपरिमाणस्यापि संग्रहो भवति, त एव चाकारा भवन्ति यथा-एकासनस्य पौरुष्याः पूवर्धिस्यैव च सूत्रेऽभिधानेऽपि व्यासनकस्य सार्धपौरुष्या अपार्धस्य च प्रत्याख्यानमदुष्टम् , अप्रमादवृद्धः संभवात् । आकारा अप्येकासनादिसंबन्धिन एवान्येष्वपि न्याय्याः, आसनादिशब्दसाम्यात् चतुर्विधाहारपाठेऽपि द्विविधत्रिविधाहारप्रत्याख्यानवत् । ननु व्यासनादीनि अभिग्रहप्रत्याख्यानानि ततस्तेषु चत्वार एवाकाराः प्राप्नुवन्ति । न, । एकासनादिभिस्तुल्ययोगक्षेमत्वात् । अन्ये तु मन्यन्ते,-एवं हि प्रत्याख्याने संख्या विशीर्येत । तत एकासनादीन्येव प्रत्याख्यानानि, तदशक्तस्तु यावत्सहिष्णुस्तावत् पौरुष्यादिकं प्रत्याख्याति, तदुपरि ग्रन्थिसहितादिकमिति । प्रत्याख्यानं च स्पर्शनादिगुणोपेतं सुप्रत्याख्यानं भवति यदाहु:फासिनं पालियं चेव सोहिअं तीरिअं तहा । किट्टियमाराहियं चेव एरिसयम्मि पयइअव्वं ॥ १॥ तत्र स्पृष्टं प्रत्याख्यानकाले विधिना प्राप्तम् । १। पालितं पुनःपुनरुपयोगप्रतिजागरणेन रक्षितम् ।२। शोभितं | गुर्वोदिप्रदत्तशेषभोजनासेवनेन ।३। तीरितं पूर्णेऽपि कालावधौ किश्चित्कालावस्थानेन ।४। कीर्तितं भोजनवेलायाममुकं मया प्रत्याख्यातमधुना पूर्ण भोक्ष्य इत्युच्चारणेन ।। आराधितमेभिः प्रकारैः संपूर्णैर्निष्ठा नीतमिति ।६। प्रत्याख्यानस्य चानन्तर्येण पारम्पर्येण च फलमिदम् - (१) स्पष्टं पालितं चापि शोभितं तीरितं तथा । कीर्तितमाराधितं चैवेदृशे प्रयतितव्यम् ॥ १ ॥ in Education inter For Personal & Private Use Only Twww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy