SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat 14-08+0.03++-→ विवि पढो दुविहं दुविहे बीओ होइ । दुविहं एगविहेां एगविहं चेव तिविद्देण ॥ १ ॥ एगविहं दुविहेणं एगेगविहेण छठ्ठओ हो । एते च मङ्गाः करणत्रिकेण योगत्रिकेण च विशेष्यमाणा एकोनपञ्चाशद्भवन्ति । तथाहि हिंसां न करोति मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७ एते करणेन सप्त भङ्गाः । एवं कारणेन सप्त । अनुमत्या सप्त । तथा हिंसां न करोति न कारयति च मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७ । एते करणकारणाभ्यां सप्त भङ्गाः । एवं करणानुमतिभ्यां सप्त । कारणानुमतिभ्यामपि सप्त । करणकारणानुमतिभिरपि सप्त । एवं सर्वे मीलिता एकोनपञ्चाशद्भवन्ति । एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशदधिकं शतं भवन्ति । यदाह - 'सेयालं भंगसयं पच्चक्खाणम्मि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसलाभो ॥ १ ॥ (१) द्विविधत्रिविधेन प्रथमो द्विविधं द्विविधेन द्वितीयो भवति । द्विविधं एकविधेन एकविधं चैव त्रिविधेन । एकविधं द्विविधेन एकविधेन षष्ठको भवतीति । (१) सप्तचत्वारिंशत्भङ्गशतं प्रत्याख्याने यस्य उपलब्धम् । स खलु प्रत्याख्याने कुशलः शेषा अकुशलाः ॥ For Personal & Private Use Only R-60%-*0-10 www.jainvelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy