SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम्। द्वितीयः प्रकाश ॥६८॥ प्रतिमाः प्रतिषद्यते पुत्रादिसन्ततिपालनाय यो वा विशेष स्वयंभूरमणादिगतं मत्स्यादिमांसं स्थूलहिंसादिकं वा कचिदवस्थाविशेषे प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोति । इत्यल्पविषयत्वानोच्यते । बाहुल्येन तु द्विविधं त्रिविधेनेति । द्विविधत्रिविध आदिर्यस्य द्विविधत्रिविधादेर्भङ्गजालस्य तेन ॥ द्विविधं द्विविधेनेति द्वितीयो मङ्गः द्विविधमिति स्थलहिंसां न करोति न कारयति द्विविधेनेति मनसा वचसा यद्वा मनसा कायेन यद्वा वाचा कायेनेति । तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसा अभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना असंज्ञिवत्करोति । यदा तु मनसा कायेन न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरनेवानाभोगाद्वाचैव हन्मि घातयामि वेति ब्रूते । यदा तु वाचा कायेन न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोति कारयति च । अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्ति । एवं शेषविकल्पा अपि भावनीयाः । द्विविधमेकविधेनेति तृतीयः द्विविधं करणं कारणं च एकविधेन मनसा यद्वा वचसा यद्वा कायेन । एकविधं त्रिविधेनेति चतुर्थः एकविधं करणं यद्वा कारणं मनसा वाचा कायेन च । एकविधं द्विविधेनेति पञ्चमः एकविधं करणं यद्वा कारणं द्विविधेन मनसा वाचा यद्वा मनसा कायेन यद्वा वाचा कायेन । एकविधमेकविधेनेति षष्ठः एकविधं करणं यद्वा कारणं एकविधेन मनसा यद्वा वाचा यद्वा कायेन । यदाह ॥६८॥ in Education interna For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy