________________ पञ्चापि चेन्द्रियार्थाः क्षणान्मनोज्ञीभवन्ति तदुपान्ते।को वा न गुणोत्कर्ष सविधे महतामवाप्नोति अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते। भवशतसंचितकर्मच्छेदं दृष्ट्व भीतानि३८ शमयन्ति तदभ्यर्णे रजांसि गन्धजलवृष्टिभिर्देवाः।। उन्निद्रकुसुमवृष्टिभिरशेषत: सुरभयन्ति भुवम् // 39 // छत्रत्रयी पवित्रा विभोरुपरि भक्तितस्त्रिदशराजैः। गङ्गाश्रोतस्त्रितयीव धार्यते मण्डलीकृत्य॥४०॥ अयमेक एव नः प्रभुरित्याख्यातुं बिडौजसोन्नमितः / अङ्गुलिदण्ड इवोच्चैश्चकास्ति रत्नध्वजस्तस्य // 41 // अस्य शरदिन्दुदीधितिचारूणि चचामराणि धूयन्ते / वदनारविन्दसंपातिराजहंसभ्रमं दधति४२ प्राकारास्त्रय उच्चैविभान्ति समवसरणस्थितस्यास्य / ___ कृतविग्रहाणि सम्यक्चारित्रज्ञानदर्शनानीव // 43 // चतुराशावर्तिजनान् युगपदिवानुग्रहीतुकामस्य / चत्वारि भवन्ति मुखान्यङ्गानि च धर्ममुपदिशतः in Education I I For Personal & Private Use Only Twww.jainelibrary.org