SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ दो वारे विजयाइसु गयस्स तिप्पच्चुए अहव ताई । अइरेग नरभवियं नाणाजीवाण सम्बद्धं ॥१॥ चयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च निर्मूलनाशः। चयः प्रयोजनमस्य क्षायिकं तच्च साधनन्तम् । अत्र चान्तरश्लोकाः मृलं बोधिद्रुमस्यैतत् द्वारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य निधानं सर्वसम्पदाम् ॥१॥ गुणानामेक आधारो रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य सम्यक्त्वं श्लाघ्यते न कैः ॥ २॥ अवतिष्ठेत नाज्ञानं जन्तौ सम्यक्त्ववासिते । प्रचारस्तमसः कीदृक् भुवने भानुभासिते ॥३॥ तिर्यग्नरकयोद्वारे दृढा सम्यक्त्वमर्गला । देवमानवनिर्वाणसुखद्वारैककुश्चिका ॥ ४ ॥ भवेद्वैमानिकोऽवश्यं जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो बद्धायुवापि नो पुरा ॥५॥ अन्तर्मुहुर्तमपि यः समुपास्य जन्तुः, सम्यक्त्वरत्नममलं विजहाति सद्यः। बम्भ्रम्यते भवपथे सुचिरं न सोऽपि, तद्विभ्रतश्चिरतरं किमुदीरयामः ॥ ६ ॥ इति ॥ विपक्षज्ञाने सति विवक्षितं सुज्ञानं भवतीति सम्यक्वविपचं मिथ्यात्वमाहअदेवे देवबुद्धिर्या गुरुधीरगुरौ च या। अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ॥ ३ ॥ ____ अदेवोऽगुरुरधर्मश्च वक्ष्यमाणलक्षणस्तत्र देवत्वगुरुत्वधर्मत्वप्रतिपत्तिलक्षणं मिथ्यात्वं तस्य लक्षणं तद्वि (१) द्वौ वारौ विजयादिषु गतस्य त्रीन् अच्युतेऽथवा तान् । अतिरेक नरभविकं नानाजीवानां सर्वार्धम् ॥ Jain Education Interati For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy