SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ एवं चिय चउमासे वरिसे अजहक्कम विही गणेो । पक्खचउमास वरिसेसु नवरि नामम्मि नाणत्तं ॥३२॥ तह उस्सग्गोजोबा बारस वीसा समंगलिग चत्ता। संबुद्धखामणं ति पण सत्त साहूण जहसंखं ॥ ३३ ॥ प्रतिक्रमणसूत्रविवरणं तु ग्रन्थविस्तरभयाद् नोक्तम् ।। अथ कायोत्सर्गः । कायस्य शरीस्य स्थानमौनध्यानक्रियाव्यतिरेकेणान्यत्रोच्लसितादिभ्यः क्रियान्तराध्यासमधिकृत्य य उत्सर्गस्त्यागो 'नमो अरहताणं' इति वचनात् प्राक् स कायोत्सर्गः । स च द्विविधः, चेष्टायामभिभवे च । चेष्टायां गमनागमनादावीर्यापथिकादिप्रतिक्रमणभावी, अभिभवे उपसर्गजयार्थम् ; यदाहुः सो उस्सग्गो दुविहो चेट्टाए अभिभवे अनायव्वो। भिक्खायरिया पढमो उसग्गभिउंजणे बीओ ॥१॥ तत्र चेष्टाकायोत्सर्गोऽष्ट-पञ्चविंशति-सप्तविंशति-त्रिशती-पञ्चशती-अष्टोत्तरसहस्रोच्छ्वासान् यावद् भवति, | अभिभवकायोत्सर्गस्तु मुहूर्तादारभ्य संवत्सरं यावद् बाहुबलेरिव भवति । स च कायोत्सर्ग उच्छ्रित-निषण शयितभेदेन त्रेधा । एकैकश्चतुर्धा-उच्छितोच्छितो द्रव्यत उच्छित ऊर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यानशुक्नध्याने इति प्रथमः । तथा द्रव्यत उच्छुित ऊर्ध्वस्थानं भावतोऽनुच्छ्रितः कृष्णादिलेश्यापरिणाम इति द्वितीयः । द्रव्यतो नोच्छ्रितो नो स्थानं भावत उच्छ्रितो धर्मध्यान-शुक्लध्याने इति तृतीयः । न द्रव्यतो नापि भावत उच्छित (१) एवमेव चतुर्मासे वर्षे च यथाक्रमं विधि यः । पक्षचतुर्मासवर्षेषु, नवरं नाम्नि नानात्वम् ।। ३२ ॥ तथोत्सर्ग उद्योता द्वादश विंशतिः समङ्गलिकाश्चत्वारिंशत् । संबुद्धक्षमणास्तिस्त्रः पञ्च सप्त साधूनां यथासंख्यम् ।३३। (२) स उत्सर्गों द्विविधश्चेष्टायामभिभवे च ज्ञातव्यः । भिक्षेर्यायां प्रथम उत्सर्गाभियोजने द्वितीयः ॥ १॥ in Education Internation For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy