SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ भागवतमुच्यते । अतिथेः सङ्गतो निर्दोपो विभागः पश्चात्कादिदोपपरिहारायांशदानरूपोऽतिथिसंविभागस्तद्रूपं व्रतमतिथिसविभागवतम् । आहारादीनां च न्यायार्जितानां प्रासुकैपणीयानां कल्पनीयानां च देशकालश्रद्धासत्कारपूर्वकमात्मानुग्रहबुद्ध्या यतिभ्यो दानमतिथिसंविभागः । यदचु:-नायागयाणं कप्पणि जागं अन्नपाणाइणं दव्वाणं देसकालसद्धासकारकमजुधे पराए भत्तीए आयागुग्गहबुद्धीए संजयाणं दाणं अतिहिसंविभागो। " अनूदितं चैतत् प्रायः शुद्धैत्रिविधविधिना प्रासुकैरेषणीयैः, कल्प्यप्रायैः स्वयमुपहर्वस्तुभिः पानकायैः । काले प्राप्तान सदनमसमश्रद्धया साधुवर्गान , धन्याः केचित्परमवहिता हन्त ! संमानयान्ति ॥ १ ॥ अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलपोछनम् । वसतिफलकप्रख्यं मुख्यं चरित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः ॥२॥ तथा-- साहूण कप्पणिजं जं न वि दिन्नं कहिंचि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥१॥ वैसहीसयणासणभत्तपाणभेसञ्जवत्थपत्ताई । जइ वि न पजत्तधणो थोवाओ वि थोवयं देह ॥ २ ॥ (१) न्यायागतानां कल्पनीयानां अन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारक्रमयुतं परया भक्त्या आत्मानुग्रहबुया संयतानां दानं अतिथिसंविभागः । (२) साधूनां कल्पनीयं यद् नापि दत्तं कस्मिंश्चित् किञ्चित् तस्मिन् । धीरा यथोक्तकारिणः सुश्रावकास्तन्न मुञ्जते ॥१॥ (३) वसतिशयनासनभक्तपानभैषज्यवस्त्रपात्रादि । यद्यपि न पर्याप्तधनः स्तोकादपि स्तोक दद्यात् ।। २ ।। in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy