SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् तृतीयः प्रकाशः। ॥१६॥ महाजनपूज्या एवमुपदिशन्ति । अपि च । निवृत्तिस्तु महाफलेति वदद्भिर्येषां निवृत्तिर्महाफला तेषां प्रवृत्तिर्न दोषवतीति खयमेव स्ववचनविरोध आविष्कृत इति किमन्य महे ॥ २५ ॥ निरुक्तबलेनापि मांसस्य परिहार्यत्वमाहमां स भक्षयिताऽमुत्र यस्य मांसमिहाझ्यहम् । एतन्मांसस्य मांसत्वे निरुक्तं मनुरब्रवीत्॥२६॥ ___मां स भवयितेति अत्र स इति सर्वनामसामान्यापेक्ष योग्येनार्थेन निराकासीकरोति-यस्य मांसमहमबि, इहेति इहलोके, अमुत्रेति परलोके, एतन्मासस्य मांसत्वे मांसरूपतायां, निरुक्तं नामधेयनिर्वचनं मनुरब्रवीत् ॥ २६ ॥ मांसभक्षणे महादोषमाहमांसास्वादनलुब्धस्य देहिनं देहिनं प्रति । हन्तुं प्रवर्त्तते बुद्धिः शाकिन्याइव दुर्धियः ॥२७॥ ___ मांसभक्षणलम्पटस्य देहिनं देहिनं प्रति यं यं पश्यति जलचरं मत्स्यादिकं, स्थलचरं मृगवराहादि अजाऽवि| कादि च, खेचरं तित्तिरिलावकादि, अन्ततो मूषिकाद्यपि तं तं प्रति हन्तुं हननाय बुद्धिःप्रवर्तते; दुर्धियो दुर्बुद्धेः। शाकिन्या इव-यथा हि शाकिनी यं यं पुरुषं त्रियमन्यं वा प्राणिनं पश्यति, तं तं हन्तुं तस्या बुद्धिः प्रवर्तते, तथा मांसास्वादनलुब्धस्यापीति ॥ २७॥ ___ अपि च मांसभक्षिणामुत्तमपदार्थपरिहारेण नीचपदार्थोपादानं महद्बुद्धिवैगुण्यं दर्शयतीति दर्शयन्नाहये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि। सुधारसं परित्यज्य मुञ्जते ते हलाहलम् ॥२८॥ ॥१६॥ in Education interna l For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy