SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ शुक्रशोणितसम्भूतो मलनिःस्यन्दवर्धितः । गर्भे जरायुसंछन्नः शुचिः कायः कथं भवेत् ? ॥१॥ मातृजग्धानपानोत्थरसं नाडीक्रमागतम् । पायं पायं विवृद्धः सन् शौचं मन्येत कस्तनौ ? ॥ २॥ दोषधातुमलाकीर्ण कृमिगण्डूपदास्पदम् । रोगभोगिगणैर्जग्धं शरीरं को वदेत् शुचि ।। ३ । सुस्वादून्यन्नपानानि क्षीरेक्षुविकृती अपि । भुक्तानि यत्र विष्टायै तच्छरीरं कथं शुचि ? ॥ ४॥ विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । मलीभवति यत्राशु क शौचं तत्र वर्मणि ? || ५॥ जग्ध्वा सुगन्धि ताम्बूलं सुप्तो निश्युत्थितः प्रगे । जुगुप्सते वक्त्रगन्धं यत्र तत् किं वपुः शुचि ॥ ६ ॥ स्वतः सुगन्धयो गन्धधूपपुष्परगादयः । यत्सङ्गाद् यान्ति दौगन्ध्यं सोऽपि कायः शुचीयते ? ॥७॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः। न याति शुचितां कायः शुण्डाघट इवाशुचिः ||८|| मृजलानलवातांशुस्नानः शौचं वदन्ति ये । गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ।।६।। शरीरकस्यैवमशीचभावनां, मदाभिमानस्सरसाददायिनीम् । विभावयन् निर्ममतामहाभरं, वोढुं दृढः स्याद् बहुमोदितेन किम् ? ॥१०॥ अशौचभावना ॥६॥७३ ।। अथाश्रवभावनामाहमनोवाकायकर्माणि योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूनामावास्तेन कीर्तिताः।७४। मनश्च वाक् च कायश्च मनोवाकायास्तेषां कर्माणि व्यापारा योगशब्देनोच्यन्ते तत्रात्मना शरीरवता सर्वप्रदेशैर्गृहीता मनोयोग्याः पुद्गलाः शुभादिमननार्थ करणभावमालम्बन्ते, तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः, स च पश्चेन्द्रियाणां समनस्कानां भवति । तथा आत्मना शरीरवता वाग्योग्यपुद्गला गृहीता विसज्यमाना बाक्त्वेन करणातामापद्यन्ते, तेन वाकरणेन सम्बन्धादात्मनो भाषणशक्तिर्वाग्योगः । सा च द्वीन्द्रिया JanEducation.indeta - For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy