SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ परीषहोपसर्गेभ्यो निर्भीको जिनभक्तिभाक् । प्रतिपद्येत मरणमानन्दः श्रावको यथा ॥१५३॥ व्याख्या-स श्रावकः, अथानम्तरम, आवश्यका अवश्यं करणीया ये योगाः संयमव्यापारास्तेषां भने कर्तमशक्तावित्येकं कारणम् । अथ द्वितीयं-मृत्योरागमे मृत्युसमये संप्राप्त, संलिख्यते तनूक्रियते शरीरं कषायाश्चानयेति संलेखना, तत्र शरीरसंलेखना क्रमेण भोजनत्यागः, कपायसंलेखना तु क्रोधादिकषायपरिहारः । तत्र प्रथमायाः कारणमिदम्, 'देहम्मि असंलिहिए सहसा धाऊहिं खिजमाणेहिं । जायइ अट्टज्झाणं सरीरिणो चरमकालम्मि ॥१॥ द्वितीयायाः पुनरिदम् :न ते एयं पसंसामि किसं साहु सरीरयं । कीस ते अंगुली भग्गा भावं संलिह मा तुर ! ॥ १ ॥ इत्यादिना प्रबन्धेनोक्तम् । संयमं च यथौचित्येन प्रतिपद्यते । तत्रेयं सामाचारी-श्रावकः किल सकलस्य श्रावकधमेस्योद्यापनार्थमिवान्ते संयम प्रतिपद्यते तस्य साधुधर्मशेषभूतैव संलेखना, यदाह-संलहणा उ अंते न निप्रोप्रा जेण पव्वअइ कोई । ततो यः संयमं प्रतिपद्यते स संयमानन्तरं काले संलेखनां कृत्वा मरणं प्रतिपद्यते; (१) देहेऽसंलिखिते सहसा धातुभिः खिद्यमानैः । जायत आर्तध्यानं शरीरिणश्चरमकाले ॥१॥ (२) न ते एतत् प्रशंसामि कृशं साधो ! शरीरकम् । कस्मात् तेऽङ्गुलिर्भग्ना भावं संलिख मा त्वरस्व ॥ १ ॥ (३) संलेखना त्वन्ते न नियोगादू येन प्रव्रजति कोऽपि । in Education For Personel Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy