SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 64 रागत्यागत्य पार्थिवः । प्रचक्र चक्रवर्तित्वाभिषेको भरतेशितः ॥७० ।। कुर्वता स्वकुटुम्बस्य सारां च दशे कृशाम् । सुन्दरी चास्थिभतां च चुकोप भरतेश्वरः ।। ७१ ॥ ऊचे प्राहरिकान् किं रे मद्गहे नास्ति भोजनम् । यदेवमीशी जाता अस्थि चर्ममयी कथम् ॥ ७२ ॥ स्वामिन विजययात्राभूत्तय तावत्प्रभृत्यपि । आचामाम्लान्यविश्रान्तमकापीत्सुन्दरी यतः ।। ७३ ॥ अत्रान्तरे च भगवान विहत्य वसुधातले । भगवान् समवासापदिष्टापदगिरौ ततः ॥ ७४ । श्रुत्वा च भरताधीशः स्वामिवन्दनहेतवे । आगाचदेशनां श्रुत्वा व्रतं जग्राह सुन्दरी ।।। ७५ ।। भ्रातृननागतान् ज्ञात्वा तम्मिन्नपि महोत्सवे । तेषामेकैकशो दृतान् प्राहिणोद्भरतेश्वरः ॥ ७६ ॥ राज्यानि चेत्समीहवे सेवध्वं भरतं ततः। दूतैरित्युदिताः सर्वेऽप्यालोच्येवावदन्निदम् ।। ७७ ॥ विभज्य राज्यं दत्तं नस्तातेन भरतस्य च । संसेव्यमानो भरतोऽधिकं किं नः करिष्यति ।। ७८ ॥ समापतन्तं किं काले कालं प्रस्खलयिष्यति । किं जराराक्षसी देहग्राहिणी निग्रहीष्यति ॥ ७९ ॥ बाधाविधायिनः किं वा व्याधिव्याधान् हनिष्यति । यथोत्तरं बर्द्धमानां तृष्णां वा दलयिष्यति ।। ८०॥ ईक्सेवाफलं दातुं न चेद्भरत ईश्वरः । मनुष्य11. भावे सामान्ये तर्हि कः केन सेव्यताम् ।। ८१॥ प्राज्यराज्योऽप्यसन्तोषादस्मद्राज्यं जिघृक्षति । स्थाना चेत्तद्वय मपि तस्य तातस्य सूनवः ॥ ८२ ॥ अविज्ञपय्य तातं तु सोदर्येणाग्रजन्मना । दृत त्वत्स्वामिना योधुं न वयं प्रोत्सहामहे ।। ८३ ॥ ते दूतानभिधायैवमृषभस्वामिनं ययुः । नत्वा भरतसन्दिष्टं तच्च सर्च व्यजिज्ञपन् ।। ८४ ॥ अम्लान केवलादर्शसंक्रान्ताशेपविष्टपः । कृपावान भगवानादिनाथोऽपीत्यादिदेश तान् ।। ८५ ॥ अनेकयोनिस-1 (१) तत्स्वरूपं व्यजिज्ञपन् । www.jainelibrary.org Jain Education international For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy