SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Jain Education International यस्तृणमयीमपि कुटीं कुर्य्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? ॥ १ ॥ किं पुनरुपचितवन शिलासमुद्घातघटित जिन भवनम् ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः ॥ २॥ राजादेस्तु विधापयितुः प्रचुरदरभाण्डागारग्रामनगरमण्डल गोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम्, तथा जीर्णशीर्णानां चैत्यानां समारचनम् नष्टभ्रष्टानां समुद्धरणं चेति । ननु निरवद्यजिनधर्मसमाचरणचतुरायां जिनभवनविम्बपूजादिकरण मनुचितमिव प्रतिभासते पड्जीवनिकाय विराधना हेतुत्वाचस्य भूमीखननदल पाटकानयनागतपूरणेष्टका चयन जलप्लावनवनस्पतित्र सकायविराधनामन्तरेण न हि तद्भवति । उच्चते-य आरम्भपरिग्रहप्रसक्तः कुटुम्ब परिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्ययः श्रेयानेव । न च धर्मार्थं धनोपार्जनं युक्तम् यतः - धर्मार्थं यस्य वित्तेहा तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १ ॥ इत्युक्तमेव । न च वापी कूपतडागादि खननवदशुभोदर्क जिनभवनादिकरणम् अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेत्र । षड्जीव निकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहु: जा जयमाणस्स भवे विगहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला अन्भत्थविसोहिजुत्तस्स ॥ १ ॥ ( १ ) या यतमानस्य भवेद् विराधना सूत्रविधिसमग्रस्य । सा भवति निर्नरफलाम्यर्थनाविशोधियुक्तस्य ॥ १ ॥ For Personal & Private Use Only - www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy