________________
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः॥ १॥३१॥ तथा सौम्योऽक्रूराकारः, क्रूरो हि लोकस्योद्वेगकारणम् ।। ३२ ॥
तथा परोपकृतौ परोपकारे कर्मठः कर्मशूरः कर्मणि घटते " तत्र घटते कर्मणष्ठः" ॥७।१।१३७॥ इति ठः, परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ॥ ३३ ॥
तथा अन्तरङ्गश्वासावरिषड्वर्गस्तस्य परिहारोऽनासेवनं तत्र परायणस्तत्परः। तत्रायुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः शिष्टगृहस्थानामन्तरङ्गोरिषड्वर्गः। तत्र परपरिगृहीताखनूढासु वा स्त्रीषु दुरभिसन्धिः कामः। परस्यात्मनो वा अपायमविचार्य कोपकरणं क्रोधः। दानाहेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः । कुलबलैश्वर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधनिबन्धनं वा मदः । निर्निमित्तं परदुःखोत्पादनेन खस्स द्यूतपापाद्यनर्थसंश्रयेण वा मनःप्रमोदो हर्षः। एतेषां च परिहार्यत्वमपायहेतुत्वात् । यदाह
दाण्डक्यो नाम भोजः कामाद्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश करालश्च वैदेहः १ । क्रोधाजनमेजयो ब्राह्मणेषु विक्रान्तस्तालजक्चश्व भृगुषु २ । लोभादैलश्चातुर्वर्ण्यमभ्याहारयमाणः सौवीरश्चाजबिन्दुः ३। मानाद्रावणः परदारानप्रयच्छन् दुर्योधनो राज्याभ्रंशं च ४। मदादम्भोद्भवो भूतावमानी हैहयश्चार्जुन: ५। हर्षाद्वातापिरगस्त्यमभ्यासादयन् वृष्णिसङ्घश्च द्वैपायन ६ मिति ॥ ३४ ॥
in Education internatio
For Personal & Private Use Only
www.jainelibrary.org