SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ भियोग्यादिस्थानव्यवच्छेदार्थम्, तत्रोत्पन्नश्च मोदते प्राप्तरत्नविमानमहोद्यानमज्जनवापीविचित्ररत्नवस्त्राभरणः सुरसुन्दरीचामरव्यजनव्याजवार्यमाणमौलिमन्दारमान्यमधुकरोहमहमिकासेवासमायातत्रिदशकोटीचाटुकारजयजयध्वनिप्रतिध्वनितनभोङ्गणो मनोमात्रपरिश्रमसंमिलितसकलवैषयिकसुखलालितो नानासिद्धायतनयात्रासमुत्पन्नहर्षप्रकर्षः सन् प्रमोदमाग भवति । अथ हेतुमाह-अनुत्तरा अनन्यसाधारणाः प्राज्या बहवो ये पुण्यसंभारास्तान भजते तद्भाक् ॥ १५४॥ ततः कन्पेभ्यश्युत्वा मनुष्यायुर्निबन्धेन च्यवनमनुभूय मनुष्येषु विशिष्टदेशजातिकुलबलैश्वर्यरूपवत्सूत्पद्यौदारिकशरीरत्वेन जन्म लब्ध्वा, भुक्त्वाऽनुभूय भोगान् शब्द-रूप-रस-गन्ध-स्पर्शलक्षणानकृतपुण्यरतिशयेन दुर्लभान, यत किञ्चिद् निमित्तमवाप्य सांसारिकेभ्यः सुखेभ्यो विरक्तो वैराग्यस्यैव परमप्रकर्षयोगेन सर्वविरतिं प्रतिपद्य तत्रैव जन्मनि आपकश्रेण्याक्रमणक्रमेण केवलज्ञानमुत्पाद्य निःशेषकर्मनिर्मूलनेन शुद्धात्मा मुक्तिमामोति । अथ न तत्रैव जन्मनि मुक्तिस्तदा कियत्सु जन्मान्तरेषु मुक्तिः स्यादित्याह-'अन्तर्भ: वाष्टकम् ' इति भवाष्टकाभ्यन्तर इत्यर्थः ॥ १५५ ॥ प्रकाशत्रयोक्तमर्थमुपसंहरतिइति संक्षेपतः सम्यग्रत्नत्रयमुदीरितम् । सर्वोऽपि यदनासाद्य नासादयति निर्वृतिम् ॥१५६॥ - इति प्रकाशत्रयेण रत्नत्रयं ज्ञानदर्शनचारित्रात्मकं योगत्वेन प्रत्याख्यातमुदीरितं कथितम् । कथम् ? सम्यग् जिनागमाविरोधेन । विस्तरस्यासर्वविदा वक्तुमशक्यत्वादाह-संक्षेपतः । रत्नत्रयं विनाऽन्यतोऽपि कारणाद् * निर्वाणप्राप्तिं शङ्कमानं प्रत्याह-सर्वोऽपि, प्रास्तां कश्चिदेकः, यद् रत्नत्रयमनासाद्य काकतालीयेनापि न्यायेन For Personel Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy