SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ पीयूषमिव वर्षन्ती सर्वगात्रेषु सर्वदा । वामाऽमृतमयी नाडी सम्मताऽभीष्टसूचिका ॥६॥ | वहन्त्यनिष्टशंसित्री संही दक्षिणा पुनः। सुषुम्णा तु भवेत् सिद्धिनिर्वाणफलकारणम् ॥१३॥ _ स्पष्टौ । नवरं सिद्धयोऽणिमाद्याः, निर्वाणं मुक्तिः ।। ६२ ।। ६३ ॥ वामदक्षिणयोः कार्य प्रति विशेषमाहवामैवाभ्युदयादीष्टशस्तकार्येषु सम्मता । दक्षिणा तु रताहारयुद्धादी दीप्तकर्मणि ॥ ६४ ॥ अभ्युदयादीनीष्टानि शस्तानि च यानि कार्याणि तेषु वामैव नाडी सम्मता, दक्षिणा तु रतारम्भे, भोजनकाले, युद्धे, आदिशब्दादन्यत्रापि दीप्ते कर्मणि सम्मता ॥ ६४ ॥ पुनर्वामदक्षिणयोर्विषयविभागमाहवामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा। त्रीणि त्रीणि दिनानीन्दुसूर्ययोरुदयः शुभः॥६५॥ . सिते पक्षे आदित्योदयकाले वहन्ती वामा शस्ता भवति, कृष्णपक्षे तु दक्षिणा शस्ता । किं सकलेऽपि पक्षे ? नेत्याह-इन्दुसूर्ययोर्वामदक्षिणयोर्नाड्योस्त्रीणि त्रीणि दिनानि उदयः शुभः ॥६५॥ उदयनियममुक्त्वाऽस्तनियममाह| शशाङ्केनोदये वायोः सूर्येणास्तं शुभावहम्।उदये रविणा त्वस्य शशिनास्तं शिवं मतम् ॥६६॥ यत्र दिने शशाङ्केन वायोरुदयस्तत्रास्तं सूर्येण शुभावह, यत्र च सूर्येणोदयस्तत्रास्तं शशाङ्केन शुभावहम् ॥६६॥ पूर्वोक्तमेवार्थ त्रिभिः श्लोकैर्विस्तरेणाह Jan Education.in For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy