SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आलोक्यन्त चिरं हर्षाद्रत्नताडङ्कशङ्कया ।। 8८॥ प्रतिवनं च चत्वारि गोपुराणि बभासिरे । चतुर्विधस्य धर्मस्य क्रीडावातायना इव || 88 ॥ चक्रे समवसरणान्तरेऽशोकतरुः सुरैः। क्रोशत्रयोदयो रत्नत्रयोदयमिवोद्दिशन् M॥ २०॥ तस्याधःपूर्वदिग्भागे रत्नसिंहासनं सुराः । सपादपीठं विदधुः सारं स्वर्गश्रियामिव ॥ १॥ प्रविश्य - पूर्वद्वारेण नत्वा तीर्थ तमश्छिदे । स्वामी सिंहासनं भेजे पूर्वाचलमिवार्यमा ॥२॥ रत्नसिंहासनस्थानि दिक्ष्व न्यास्वपि तत्क्षणम् । भगवत्प्रतिबिम्बानि त्रीणि देवा विचक्रिरे ॥३॥ वराकीकृतराकेन्दुमण्डलं परमेशितुः । त्रैलोक्यस्वामिताचिह्नमिव च्छत्रत्रयं बभौ ॥ ४॥ भगवानेक एवायं स्वामीत्यूवीकृतो भुजः । इन्द्रेणेव प्रभोरग्रे रेजे रत्नमयो ध्वजः॥५॥ चकाशे केवलज्ञानिचक्रवर्तित्वसूचकम् । अत्यद्भूतप्रभाचक्रं धर्मचक्रं प्रभोः पुरः ॥६॥ रेजतुर्जाह्ववीवीचिसोदरे चारुचामरे । हंसाविवानुधावन्तौ स्वामिनो मुखपङ्कजम् ॥७॥ आविबंभूवानुवपुस्तदा भामण्डलं विभोः । खद्योतपोतवद्यस्य पुरो मार्तण्डमण्डलम् ॥८॥ प्रतिध्वानश्चतस्रोऽपि दिशो मुखरयन् भृशम् । अम्भोद इव गम्भीरो दिवि दध्वान दुन्दुभिः ॥ ६ ॥ अधोवृन्ताः सुमनसो विष्वग्ववृषिरे सुरैः। शान्तीभूते जने त्यक्तान्यस्त्राणीव मनोभुवा ॥ १०॥ पञ्चत्रिंशदतिशयान्वितया भगवान् गिरा । त्रैलोक्यानुग्रहायाथ पारेभे धर्मदेशनाम् ॥ ११ ॥ भगवत्केवलज्ञानोत्सवं चारा अचीकथन् । भरतस्य तदा चक्ररत्नमप्युदपद्यत ॥१२॥ उत्पन्न केवलस्तात इतश्चक्रमितोऽभ्यगात् । आदौ करोमि कस्याचामिति दध्यो क्षणं नृपः ॥१३॥ क विश्वाभयदस्तातः क चक्र प्राणिघातकम् । विमृश्येति स्वामिपूजाहेतोः स्वानादिदेश सः॥१४॥ सूनोः परीषहोदन्तदुःखाश्रुत्पन्नग्रुजम् । मरुदेवामथोपेत्य नत्वा चासौ व्यजिज्ञपत् ॥१५॥ आदिशः in Education Interne For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy