SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ योगशास्रम् 1-06-0+C/84-13++0.3+0 स्य तु तथाविधप्रत्याख्यानाऽभावात् परेण नयनानयनयोर्न दोषः २ । ३ । ४ । तथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतः वृद्धिर्वर्धनं पश्चिमादि क्षेत्रान्तरपरिमाण प्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिरिति पञ्चमोऽतिचारः । तथाहि — केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं # १६६ ॥ हैं योजनानि व्यवस्थाप्य अन्यस्यां दिशि तु दशोत्तरयोजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति । यदि वाऽनाभोगात् क्षेत्रपरिमाणमतिक्रान्तो भवति तदा निवर्तितव्यं, ज्ञाते वा न गन्तव्यम्, अन्योऽपि न विसर्जनीयः । अथानाज्ञया तो भवेत् तदा यत् तेन लब्धं, स्वयं वा विस्मृतितो गतेन लब्धं तत् परिहर्तव्यम् ॥ ६७ ॥ or द्वितीयगुणत्रतस्य भोगोपभोगमानरूपस्यातिचारानाह Jain Education Intemation सचित्तस्तेन सम्बद्धः सन्मिश्रोऽभिषत्रस्तथा । दुष्पक्काहार इत्येते भोगोपभोगमानगाः ॥ ९८ ॥ सह चित्तेन चेतनया वर्तते यः स सचित आहार एव, आहारस्तु दुष्पकाहार इत्यस्मादाकृष्य सम्बध्यते, एवमुत्तरेष्वप्याहारशब्दो योजनीयः । सचित्तस्तु कन्दमूलफलादिः पृथ्वी कायादिर्वा । इह च निवृत्तिविषयीकृतप्रवृत्तौ भङ्गसद्भावेऽप्यतिचाराभिधानं व्रतसापेक्षस्यानाभोगातिक्रमादिना प्रवृत्तौ द्रष्टव्यम् १ । तेन सचित्तेन सम्बद्धः प्रतिबद्धः सचित्तसंबद्धः, सचेतनवृक्षादिना सम्बद्धो गुन्दादिः पकफलादिर्वा, सचित्तान्तवजः खर्जूराम्रादिः, तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः । अथवा बीजं त्यच्यामि तस्यैव सचेतनत्वात्, कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्ध्या पक्वं खर्जूरादिफलं मुखे प्रक्षिपतः सचिचवर्जकस्य For Personal & Private Use Only: 000 तृतीय : प्रकाशः। ।। १६६ । www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy