SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ । अथाष्टमः प्रकाशः।८ ओं अहं ॥ अथ पदस्थस्य ध्येयस्य लक्षणमाहयत्पदानि पवित्राणि समालम्व्य विधीयते । तत्पदस्थं समाख्यातं ध्यानं सिद्धान्तपारगैः ॥१॥ स्पष्टः॥१॥ विशेष त्रिभिः श्लोकैराहतत्र षोडशपत्राढथे नाभिकन्दगतेऽम्बुजे । स्वरमालां यथापत्रं भ्रमन्तीं परिचिन्तयेत् ॥२॥ चतुर्विंशतिपत्रं च हृदि पद्मं सकर्णिकम् । वर्णान् यथाक्रमं तत्र चिन्तयेत् पञ्चविंशतिम् ॥३॥ वक्त्राब्जेऽष्टदले वर्णाष्टकमन्यत्ततः स्मरेत् । संस्मरन्मातृकामेवं स्याच्छुतज्ञानपारगः ॥४॥ ___स्पष्टाः ॥२-४॥ अस्य फलमाहध्यायतोऽनादिसंसिद्धान् वर्णानेतान् यथाविधि। नष्टादिविषये ज्ञानं ध्यातुरुत्पद्यते क्षणात्॥५॥ स्पष्टः । उक्तं च-" जापाजयेत्क्षयमरोचकमग्निमान्यं, कुष्ठोदरास्मकसनश्वसनादिरोगान् । प्रामोति चाप्रतिमवाग्महतीं महद्भ्यः , पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् ॥ १॥" इति ॥ ५॥ प्रकारान्तरेण पदमयीं देवतां ध्येयतया द्वादशभिः श्लोकैः निर्दिशति in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy