SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् पश्चमः प्रकाशः। ॥३४३॥ गच्छति यः स तथा, स्वस्थानं मन्यादि तद्गतरेचनपूरणाभ्यां जेयः ॥ १६ ॥ ____ अथ समानस्यशुक्लः समानो हृन्नाभिसर्वसन्धिष्ववस्थितः। जेयः स्वस्थानयोगेनासकृद्रेचनपूरणात् ॥१७॥ शुक्लो वर्णेन । हृदये नाभौ सर्वसन्धिषु च स्थानमस्य स स्वस्थानेऽसकृद्रेचनात् पूरणाच्च जेयः॥ १७ ॥ अथोदानस्यरक्तो हृत्कण्ठतालुभ्रूमध्यमूर्धनि संस्थितः। उदानो वश्यतां नेयो गत्यागतिनियोगतः॥१८॥ रक्तो वर्णेन । हृदयं कण्ठः तालु भ्रूमध्यं मूर्धा च स्थानमस्य । स उदानो गत्यागतिप्रयोगेण वशमायत्ततां नेयः॥१८॥ ___ गत्यागतिप्रयोगमेवाह-- नासाकर्षणयोगेन स्थापयेत्तं हृदादिषु। बलादुत्कृष्यमाणं च रुध्ध्वा रुध्ध्वा वशं नयेत्॥१९॥ तमुदानं हृदयादिषु स्थापयेत् । केन ? नासाकर्षणयोगेन नासयाऽऽकर्षणभधस्तान्नयनं स एव योगस्तेन, तथाऽप्यजीयमानं बलादाकृष्यमाणं ऊर्ध्व नीयमानं रुध्ध्वा रुध्ध्वा विधार्य विधार्य वशं नयेत् ॥ १६॥ अथ व्यानस्यसर्वत्वग्वृत्तिको व्यानःशककार्मुकसन्निभः। जेतव्यः कुम्भकाभ्यासात्सङ्कोचप्रमृतिकमात्॥२०॥ सर्वस्यां त्वचि वर्तमानः इति स्थाननिर्देशः । शक्रकार्मुकसनिभ इति वर्णनिर्देशः । कुम्भकाभ्यासाजेतव्यः । । ३४३। Lain Education Interna For Personal & Private Use Only Pawww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy