SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ योग चतुर्थः शास्त्रम् प्रकाशः। ॥३१॥ धर्मो नरकपातालपातादवति देहिनः। धर्मो निरुपम यच्छत्यपि सर्वज्ञवैभवम् ॥ १०२ ॥ ____ नरकपातरक्षणलक्षणा अनर्थनिवृत्तिः सर्वज्ञवैभवप्राप्तिवार्थप्राप्तिप्रधानभूता धर्मस्य फलम् , शेषं त्वानुषङ्गिकमुक्तमिति । अत्रान्तरश्लोकाः अयं दशविधो धर्मो मिथ्याग्भिने वीचितः । योऽपि कश्चित् कचित् प्रोक्षे सोऽपि वाङ्मात्रवर्णनम् ॥१॥ तत्त्वार्थो वाचि सर्वेषां केषाश्चन मनस्यपि । क्रिययापि नरीनतिं नित्यं जिनमतस्पृशाम् ।। २ ।। वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः । न लेशमपि जानन्ति धर्मरत्नस्य तत्त्वतः ॥ ३॥ गोमेधनरमेधाश्वमेधाद्यध्वरकारिणाम् । यानिकानां कुतो धर्मः प्राणिघातविधायिनाम् ॥४॥ अश्रद्धेयमसद्भूतं परस्परविरोधि च । वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ? ॥ ५॥ असद्भूतव्यवस्थाभिः पराद्रव्यं जिघृक्षताम् । मृत्पानीयादिभिः शौचं स्मार्तादीनां कुतो ननु ॥६॥ ऋतुकाले व्यतिक्रान्ते भ्रूणहत्याविधायिनाम् । ब्राह्मणानां कुतो ब्रह्म ब्रह्मचर्यापलापिनाम् ? ॥७॥ अदित्सतोऽपि सर्वस्वं यजमानाजिघृक्षताम् । अर्थार्थे त्यजतां प्राणान् काकिश्चन्यं द्विजन्मनाम् ! ॥८॥ दिवसे च रजन्यां च मुखमापृच्छय भक्षताम् । भक्ष्याभक्ष्याविवेकानां सौगतानां कुतस्तपः ॥६॥ मृद्वी शय्या प्रातः पेया मध्ये भक्तं सायं पानम् । द्राचाखण्डं रात्रेमध्ये शाक्योपज्ञः साधुर्धर्मः ॥ १०॥ स्वल्पेप्वप्यपराधेषु क्षणात शापं प्रयच्छताम् । लौकिकानामृषीणां न आमालेशोऽपि दृश्यते ॥ ११ ॥ जात्यादिमददुवृत्तपरिनर्तितचेतसाम् । क मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ॥ १२ ॥ दम्भसंरम्भगर्भाणां बकवृत्तिजुषां पहिः । भवेदार्जवलेशोऽपि पाखण्डव्रतिनां कथम् १ ॥ १३ ॥ गृहिणीगृहपुत्रादिपरिग्रहवतां सदा । द्विजन्मनां कथं मुक्ति- ३१६ । Jain Education interna For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy