SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 1 सुखावतारो मार्गः । तच्च द्विधा द्रव्यतीर्थ भावतीर्थ च । द्रव्यतीर्थ तीर्थकृतां जन्मदीक्षाज्ञाननिर्वाणस्थानम् । यदाह जम्मं दिक्खा नाणं तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं आगाढं दंसणं होइ ॥ १॥ भावतीर्थे तु चतुर्विधः श्रमणसः प्रथमगणधरो वा । यदाह-“तित्थं भन्ते तित्थं तित्थयरे तित्थं ? * गोयमा! अरिहा ताव नियमा तित्थंकरे, वित्थं पुण चाउव्वले समणसंधे पढमगणहरे वा" । तीर्थस्य सेवा तीर्थसेवा ॥१६॥ अस्य सम्यक्त्वस्य भूषणान्युक्त्वा दूषणान्याहशङ्काकाङ्क्षाविचिकित्सामिथ्यादृष्टिप्रशंसनम्। तत्संस्तवश्व पश्चापि सम्यक्त्वं दूषयन्त्यलम्॥१७॥ पश्चापि शङ्कादयो निर्दोषमपि सम्यक्त्वं दूषयन्ति अलमतिशयेन । शङ्का सन्देहः सा च सर्वविषया देशविषया च । सर्वविषया अस्ति वा नास्ति वा धर्म इत्यादि । देशशङ्का एकैकवस्तुधर्मगोचरा। यथा अस्ति जीवः केवलं सर्वगतोऽसर्वगतो वा सप्रदेशोदेशो वेति । इयं च द्विधाऽपि भगवदर्हत्प्रणीतप्रवचनेषु अप्रत्ययरूपा सम्य (१) जन्म दीक्षा ज्ञानं तीर्थकराणां महानुभावानाम् । यत्र च किल निर्वाणं आगाढं दर्शनं भवति ॥ (२) चतुर्वर्णः । (३) तीर्थ भगवन् तीर्थ तीर्थकरः तीर्थ ! गौतम ! अर्हन् तावन्नियमेन तीर्थंकरस्तीर्थ पुनश्चातुर्वर्णो श्रमणसङ्घः प्रथमगणधरो वा। in Education Internat For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy