________________
योग
शास्त्रम्
॥२३४॥
Jain Education Interna
k
14064-.--
गुर्वा, शिरसि मस्तके गुरुदर्शनसमकालमञ्जलिसंश्लेषः करकोरककरणं नमो खमासमणाणं ति वचनोश्चारपूर्वकं स्वयमित्यात्मना न तु परप्रेषणेन आसनढौकनमासनसन्निधापनम् || १२६ ॥ आसनाऽभिग्रहः आसन उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रहः आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशुद्धं वन्दनं स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्युपासनं सेवा तेषां गुरूणां याने गमनेऽनुगमनं पृष्ठतः कतिपयपदानुसरणमियं प्रतिपत्तिरुपचारविनयरूपा गुरोर्धर्माचार्यस्य ॥ १२७ ॥
04-0.•--
ततो गुरुपार्श्वे धर्मदेशनां श्रुत्वा -
ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधीर्धर्माऽविरोधेन विदधीतार्थचिन्तनम् ॥१२८ ततो देवगृहात् प्रतिनिवृत्तो व्यावृत्तः सन् यथोचितं स्थानं गत्वा यथोचितमिति यदा राजादिस्तदा धवलगृहं यद्यमात्यादिस्तदाकरणम्ः प्रथ वणिगादिस्तदा श्रापणमिति सुधीर्बुद्धिमान् विदधीत अर्थचिन्तनमर्थोपायचिन्तां धर्माविरोधेनेति धर्मस्य जिनधर्मस्य विरोधेन अबाधया । अत्र चार्थचिन्तनमित्यनुवाद्यं तस्य स्वतः सिद्धत्वात्, धर्माविरोधेनेति विधेयमप्राप्तत्वात् । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमनीचयोर्माध्यस्थ्येन न्यायदर्शनात्, नियोगिनां च राजार्थप्रजार्थसाधनेन, वणिजां च कूटतुलाकूटमानादिपरिहारेण पञ्चदशकर्मादानपरिहारेण च बोद्धव्यः ॥ १३८ ॥
वृतयः प्रकाश: ।
ततो माध्याह्निकीं पूजां कुर्यात् कृत्वा च भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् १२९ ॥२३४॥
For Personal & Private Use Only
www.jainelibrary.org