SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ विगईओ पच्चक्खाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह । मनसो विकृतिहेतुत्वाद् विकृतयः, ताश्च दश, यदाहुः,छीरं दहि नवणीअं घयं तहा तेल्नमेव गुड मजं । महु मंसं चेव तहा ओगाहिमगं च विगईओ ॥१॥ तत्र पञ्च क्षीराणि, गोमहिष्यजोष्ट्रयेलकासंबन्धभेदात् । दधि-नवनीत-घृतानि तु चतुर्भेदानि, उष्ट्रीणां तद-|| भावात् । तैलानि चत्वारि, तिलातसीलट्टासर्षपसंबन्धभेदात्। शेषतैलानि तु न विकृतयः, लेपकृतानि तु भवन्ति । गुड इक्षुरसक्वाथः । स द्विधा, पिण्डो द्रवश्च । मद्यं द्वेधा काष्ठपिष्टोद्भवत्वात् । मधु त्रेधा-माक्षिकम् कौत्तिकं भ्रामरं च । मांसं त्रिविधम् , जल-स्थल-खेचरजन्तूद्भवत्वात् ; अथवा मांसं त्रिविधम् , चर्म-रुधिर-मांसभेदात् । अवगाहेन स्नेहबोलनेन निवृत्तमवगाहिमं पक्वान्नम् “ भावादिमः" (सिद्धहेम-६-४२११ ) इतीमः, यत् तापिकायां घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते, तस्यामेव तापिकायां तेनैव घृतेन द्वितीयं तृतीयं च खाद्यकादि विकृतिः, ततः परं पक्कान्नानि योगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते । अथैकेनैव पूपकेन तापिका पूर्यते तदा द्वितीयं पकानं निर्विकृतिप्रत्याख्यानेऽपि कल्पते, लेपकृतं तु भवति । इत्येषा वृद्धसामाचारी । एतासु च दशसु विकृतिषु मद्यमांसमधुनवनीतलक्षणाश्चतस्रो विकृतयोऽभक्ष्याः। शेषास्तु षद् भक्ष्याः । तत्र भक्ष्यासु विकतिष्वेकादिविकृतिप्रत्याख्यानं षड्विकृतिप्रत्याख्यानं च निर्विकृतिकसंज्ञं विकृतिप्रत्याख्यानेन संगृहीतम् । आकाराः (१) क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यम् । मधु मांसं चैव तथाऽवगाहिमकं च विकृतयः ॥१॥ Jain Education Intel For Personal & Private Use Only wwwanyong
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy