SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ बाग श्री तृतीयः शास्रम् ॥१३७॥ व्याख्यानान्तरं-भोगोपभोगसाधनं यद्रव्यं तदुपार्जनाय यत्कर्म व्यापारस्तदपि भोगोपभोगशब्देनोच्यते, कारणे कार्योपचारात । ततश्च कर्मतः कर्माश्रित्य, खरं कठोरं प्राणिवाधकं यत्कर्म कोट्टपालनगुप्तिपालनवीतपालनादिरूपं प्रकाशः। तत्त्याज्यं, तस्मिन् खरकर्मत्यागलक्षणे भोगोपभोगव्रते, पञ्चदश मलानतिचारान् संत्यजेत। ते च कर्मादानशन्देनोच्यन्तेः कर्मणां पापप्रकृतीनामादानानि कारणानीति कृत्वा ॥ ६ ॥ तानेव नामतः श्लोकद्वयेन दर्शयतिअङ्गारवनशकटभाटकस्फोटजीविका। दन्तलाक्षारसकेशविषवाणिज्यकानि च ॥ १० ॥ यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा । दवदानं सर शोष इति पञ्चदश त्यजेत् ॥१०१॥ जीविकाशब्दः प्रत्येक सम्बध्यते । अङ्गारजीविका १ वनजीविका २ शकटजीविका ३ भाटकजीविका ४ म्फोटजीविका ५। उत्तरार्धेऽपि वाणिज्यशब्दः प्रत्येकमभिसम्बध्यते । दन्तवाणिज्यं ६ लाक्षावाणिज्यं ७ रसवाणिज्यं ८ केशवाणिज्यं ६ विषवाणिज्यं १० यन्त्रपीडा ११ निर्लाञ्छनं १२ असतीपोषणं १३ दवदानं १४ सर-शोषः १५ इत्येतान् पञ्चदशातिचारान् त्यजेत् ॥ १०॥ १०१॥ क्रमेण पञ्चदशाप्यतिचारान् व्याचष्टे तत्राङ्गारजीविकामाहअङ्गारभ्राष्ट्रकरणं कुम्भायःस्वर्णकारिता । ठठारत्वेष्टकापाकाविति ह्यङ्गारजीविका ॥१२॥ अङ्गारकरणे काष्ठदाहेनाङ्गारनिष्पादनं तद्विक्रयश्च, अङ्गारकरणे हि षयां जीवनिकायानां विराधनासम्भवः ।। ॥१७॥ Jun Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy