SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ त्यभिधानतः । अजायत महाबुद्धिः पाण्डोरिव युधिष्ठिरः॥३२पार्श्वे चीरकदम्बस्य गुरोः पर्वतकः सुतः। राजपुत्रो वसुच्छात्रोनारदश्वापठंखयः॥४॥ सौधोपरि शयानेषु तेषु पाठश्रमानिशि । चारणश्रमणौ व्योग्नि यान्तावित्यूचतुर्मिथः ॥शा एषामेकतमः स्वर्ग गमिष्यत्यपरौ पुनः। नरकं यास्यतस्तच्चाश्रौषीत्तीरकदम्बकः॥६॥ तच्छ्रुत्वाचिन्तयामास खिनःचीरकदम्बकः मय्यप्यध्यापके शिष्यौ यास्यतोनरकं हहा॥७॥ एभ्यः को यास्यति स्वर्ग नरक कौ च यास्यतः। जिज्ञासुरित्युपाध्यायस्तांस्त्रीन् युगपदाहत ॥॥ यावपूर्ण समप्येषामेकैकं पिष्टकुकुटम् । स ऊचेऽमी तत्र वध्या * यत्र कोपि न पश्यति ॥8॥ वसुपर्वतको तत्र गत्वा शून्यप्रदेशयोः। आत्मनीनां गतिमिव जनतः पिष्टकुक्कुटौ ॥१०॥ महात्मा नारदस्तत्र व्रजित्वा नगरादहिः । स्थित्वा च विजने देशे दिशःप्रेक्ष्य व्यतर्कयत् ॥११॥ गुरुपादैरदस्तावदादिष्टं वत्स यत्त्वया। वध्योऽयं कुक्कुटस्तत्र यत्र कोऽपि न पश्यति ॥ १२॥ असौ पश्यत्यह पश्याम्यमी पश्यन्ति खेचराः । लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि च ॥ १३ ॥ नास्त्येव स्थानमपि तद्यत्र कोऽपि न पश्यति । तात्पर्य तद्गुरुगिरां न वध्यः खलु कुक्कुटः ॥ १४ ॥ गुरुपादा दयावन्तः सदा हिंसाप राङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ॥१५॥ विमृश्यैवमहत्वैव कुक्कुटं स समाययौ । कुकुटाहनने न हेतुं गुरोर्व्यज्ञपयञ्च तम् ॥ १६ ॥ स्वर्ग यास्यत्यसौ तावदिति निश्चित्य सस्वजे । गुरुणा नारदः स्नेहात् साधु साध्विति भाषिणा ॥१७॥ वसुपर्वतको पश्चादागत्यैवं शशंसतुः । निहतो कुकुटौ तत्र यत्र कोऽपि न पश्यति ॥ १८ ॥ अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुक्कुटौ रे पापावित्यशपद्गुरुः ॥ १६ ॥ ततः खेदादुपाध्यायो दध्यौ विध्यातपाठधीः । सुधा मेऽध्यापनक्लेशो वसुपर्वतयोरभूत ॥२०॥ गुरूपदेशो हि यथापात्रं in Education Internal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy