SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ विद्यया दर्पणाङ्गुष्ठकुडयासिष्ववतारिता। विधिना देवता पृष्टा ब्रूते कालस्य निर्णयम्॥१७३॥ सूर्येन्दुग्रहणे विद्यों नरवीरठवेत्यसौ । साध्या दशसहस्याष्टोत्तरया जपकर्मतः ॥ १७४॥ अष्टोत्तरसहस्रस्य जापात् कार्यक्षणे पुनः। देवता लीयतेऽस्यादौ ततः कन्याऽऽह निर्णयम् ।१७५ सत्साधकगुणाकृष्टा स्वयमेवाथ देवता । त्रिकालविषयं ब्रूते निर्णयं गतसंशयम् ॥ १७६ ॥ स्पष्टाः ॥ १७३-१७६ ।। अथ शकुनद्वारेण पञ्चभिः श्लोकैः कालज्ञानमाहअथवा शकुनाद्विन्द्यात्सज्जो वा यदिवाऽऽतुरः। स्वतो वा परतो वाऽपि गृहे वा यदिवा बहिः।१७७॥ अहिवृश्चिककृम्याखुगृहगोधापिपीलिकाः । यूकामत्कुणलूताश्च वल्मीकोऽथोपदेहिकाः ॥१७॥ कीटिका घृतवर्णाश्च भ्रमर्यश्च यदाऽधिकाः । उद्वेगकलहव्याधिमरणानि तदा दिशेत् ॥१७॥ उपानद्वाहनच्छत्रशस्त्रच्छायाङ्गकुन्तलान् । चञ्च्चा चुम्बेद्यदा काकस्तदाऽऽसन्नैव पञ्चता ॥१०॥ अश्रुपूर्णदृशो गावो गाढं पादैर्वसुन्धराम् । खनन्ति चेत्तदानीं स्याद्रोगो मृत्युश्च तत्प्रभोः ॥१८॥ स्पष्टाः ॥ १७७-१८१ ॥ प्रकारान्तरेण स्तौतिअनातुरकृते ह्येतच्छकुनं परिकीर्तितम् । अधुनाऽऽतुरमुद्दिश्य शकुनं परिकीर्त्यते ॥ १८२ ॥ in Education Inter For Personal & Private Use Only LI www.janelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy