SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ तृतीयः शाचम् प्रकाश ॥२१७॥ चयाद् मनःपर्यायज्ञानसहितम्, घातिचये चानन्तमनन्तविषयं निःशेषभावाभावखभावावभासकं केवलज्ञानम् १। माहात्म्यं प्रभावातिशयः, तच्च सर्वकल्याणकेषु नारकाणामपि सुखोत्पादकत्वेन नित्यसन्तमसेष्वपि नरकेषु प्रकाशजनकत्वेन गर्भनिवासात् प्रभृति कुलस्य धनादिवर्धनेनाप्रणतसामन्तानां च प्रणत्यतिमारिवरोपहतिवर्जितराज्यकरणेनाऽतिवृष्ट्यनावृष्टिप्रभृत्युपद्रवरहितजनपदत्वेन चलितासनसकलसुरासुरप्रणतपादपद्मत्वेन चाऽवसेयम् २ । यशस्तु रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थमाकालप्रतिष्ठं यत्सर्वदा दिवि सुरसुन्दरीभिः पाताले नागकन्याभिर्गीयते सुरासुरैनित्यमभिष्ट्रयते च ३ । वैराग्यं मरुन्नरेन्द्रलक्ष्मीमनुभवतामपि यत्र तत्र रतिर्नाम, यदा तु सर्वविषयत्यागपूर्वकं प्रव्रज्यां प्रतिपद्यन्ते तदाऽलमेभिरिति, यदा तु क्षीणकर्मा)णो भवन्ति तदा सुखदुःखयोर्भवमोचयोरौदासीन्यमिति त्रिविधमप्यतिशायि भवति । यदवोचाम वीतरागस्तोत्रे यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥१॥ नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे । अलमभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥ २॥ सुखे दुःखे भवे मोक्षे यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति कुत्र नाऽसि विरागवान् ॥३॥ इति ॥४॥ मुक्तिश्च सकलनेशप्रहाणलक्षणा सन्निहितैवेति ॥ ५॥ रूपं तुसबसुरा जइ रुवं अंगुट्ठपमाणयं विउविज्जा । जिणपायंगुढ पइ न सोहए तं जहिंगालो ॥१॥ इति निदर्शनात् सिद्धं सर्वातिशायि ६ । वीर्य च मेरोर्दण्डरूपतां धरित्र्याश्च छत्ररूपतां कर्तुं सामर्थ्यम्, (१) सर्वसुरा यदि रूपमङ्गुष्टप्रमाणकं विकुंर्वेयुः । जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाङ्कारः ॥ १ ॥ ॥२१७॥ Lain Education interneta For Personal & Private Use Only JC www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy