Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
Catalog link: https://jainqq.org/explore/006149/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ याकरणसिद्धान्तकौमुदी बालमनोरमा-तत्त्वबोधिनीसहिता (समासप्रभृतितद्धितप्रकरणान्ता) (द्वितीय भाग) म०म० पं० गिरिधरशर्मा चतुर्वेदः म०म० पं० परमेश्वरानन्दशर्मा विद्याभास्करः मोतीलाल बनारसीदास दिल्ली । वाराणसी . पटना Page #2 -------------------------------------------------------------------------- ________________ श्रीः . श्रीमभट्टोजिदीक्षितविरचिता वैयाकरणसिद्धान्तकौमुदी (समासप्रभृतितद्धितप्रकरणान्ता) श्रीमद्वासुदेवदीक्षितप्रणीतया बालमनोरमाख्यव्याख्यया श्रीमज्ज्ञानेन्द्र सरस्वतीविरचितया तत्त्वबोधिन्याख्यव्याख्यया च सनाथिता महामहोपाध्याय व्याकरणाचार्य-न्यायशास्त्र्याद्यनेकविरुदभाजा चतुर्वेदोपाह्वश्रीमद गरिधरशर्मणा महामहोपाध्यायश्रीपरमेश्वरानन्दशर्मणा च संशोध्य सम्पादिता योतीलाल बनारसीदास दिल्ली - नाराणसी । पठना Page #3 -------------------------------------------------------------------------- ________________ मोती लाल बनारसी दास भारतीय संस्कृति साहित्य के प्रमुख प्रकाशक एवं पुस्तक विक्रेता मुख्य कार्यालय : बंगलो रोड, जवाहर नगर, दिल्ली-७ शाखाएं: १. चौक, वाराणसी-१ (उ० प्र०) २. अशोक राजपथ, पटना-४ (बिहार) पुनर्मुद्रण : दिल्ली, १९७७, १९८२ ६० (सजिल्द) मूल्य : १० ४० मिजिल्द) भारत सरकार द्वारा उपलब्ध किए गये रियायती मूल्य के कागज पर मुद्रित । श्री नरेन्द्र प्रकाश जैन, मोतीलाल बनारसीदास, बंगलो रोड, जवाहर नगर, दिल्ली-७ द्वारा प्रकाशित तथा श्री मान्तिलाल जैन, श्री जैनेन प्रेस, ए-४५, फेज १, इंडस्ट्रियल एरिया, नारायणा, नई दिल्ली-२८ द्वारा मुद्रित Page #4 -------------------------------------------------------------------------- ________________ अथाव्ययीभावसमासप्रकरणम् । १७ । ६४७ समर्थः पदविधिः । (२-१-१) पदसंबन्धी यो विधिः स अथ समासाः । तदेवं विभक्त्यर्थं निरूप्य तदाश्रितसमासान्निरूपयिष्यन् तदुपोद्वातत्वेनाह - समर्थः पदविधिः । विधीयते इति विधिः- कार्यम् । पदस्य विधिः पदविधिरिति शेषषष्ठया समासः । तदाह- पदसंबन्धी यो विधिरिति । 1 समर्थः पदविधिः । सामर्थ्यं च द्विविधं व्यपेक्षालक्षणमेकार्थीभावलक्षणं चेति । तत्र स्वार्थपर्यवसायिनां पदानामा कालादिवशायः परस्परसंबन्धः सा व्यपेक्षा । सैव वाक्ये राज्ञः पुरुष इत्यादौ । तत्र अपेक्षायां सत्यां यो यः संनिहितो योग्यश्च तेन तेन संबन्धोऽभ्युपेयते । यथा राज्ञः पुरुषोऽश्वश्व । राशो देवदत्तस्य च पुरुष इति । एकार्थीभावस्तु राजपुरुष इत्यादिवृत्तावेव । स च प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरूपः । श्रत एव राजपुरुष इत्यत्र राशि ऋद्धस्येति विशेषणं नान्वेति, पदार्थैकदेशत्वात् । न चैवं देवदत्तस्य गुरुकुलमित्यादावनन्वयापत्तिः, तत्रापि देवदत्तोत्तरषष्ठयर्थस्य गुरुरणान्वयादिति वाच्यम्, देवदत्तस्य प्रधानभूतकुलेनैवान्वयात् । संबन्धस्तूपस्थितगुरुद्वारक एव षष्ठयर्थः, न तु तदितरः । उक्तं च 'समुदायेन संबन्धो येषां गुरुकुलादिना । संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह' इति । यद्वाससंबन्धिकपदार्थस्यैकदेशत्वेऽपि भवत्येव विशेषणान्वयः । उक्तं च- - 'संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते' इति । नन्वेवं राज्ञोऽपि नित्यसापेक्षत्वादेकदेशत्वेऽपि श्रद्धस्येति विशेषणेनान्वयोऽस्तु । मैवम्, राज्ञ ईशितुरीशितव्यं प्रति साकाङ्क्षत्वेऽपि ऋद्धं प्रत्यनाकाङ्क्षत्वात् । ननु वाक्ये क्लृप्तयैवावयवशक्त्योपपत्तौ विशिष्टार्थविषयकशक्तयन्तरमेव मास्तु । सत्यम् - ' बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव आस्थितः ॥ चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यं ते, न्यायसिद्धं त्वस्माकं तदिति स्थितम् । तथाहि—धवखदिराविति वृत्त्यैव कोडी कृतार्थत्वाच्चकारो न प्रयुज्यते, तथा चित्रग्वादी यत्पदम्। त्वया तु वचनं कर्तव्यम् । निरूढभलक्षणा तु शक्तितो नातीव भिद्यते । किंच प्रातमुदकं यमिति व्यस्ते समीचीनमुदकामेति विशेषणवत्समस्तेऽपि उदकविशेषणप्रयोगः समासघटकपदार्थानां प्राप्तः, स च ' वृत्तस्य विशेषणयोगो न' इति वचनेनैव वारणीयः । ‘नामार्थयोरभेदान्वयः' 'प्रत्ययार्थः प्रधानम्' इति व्युत्पत्तित्यागश्च प्राप्तो Page #5 -------------------------------------------------------------------------- ________________ २] सिद्धान्तकौमुदी। [अव्ययीभाव समर्थाश्रित इति । सूत्रे समर्थशब्दः समाश्रिते लागणिक इति भावः । सामर्थ्य द्विविधम्-व्यपेक्षालक्षणम् एकार्थीभावलक्षणं च । नत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परान्वयः तद् व्यपेक्षाभिधं नामर्थ्यम् , विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पत्तेः, संबद्धार्थः समर्थ इति व्युत्पत्तेश्च । इदं च राज्ञः पुरुष इत्यादिवाक्य एव भवति । तत्र च एकैकस्य शब्दस्य यो यः संनिहितो योग्यश्च तेन तेनान्वयो भवति । यथा राज्ञः पुरुषोऽश्वश्चेति, राज्ञो देवदत्तस्य च पुरुष इति, ऋद्धस्य राज्ञः पुरुष इति च । एकार्थीभावलक्षणसामर्थ्य तु प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन पृथग् गृहीतानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रतिपाद तारूपम् । संगतार्थः समर्थः, संसृष्टार्थः समर्थ इति व्युत्पत्तेः । संगतिः संसर्गश्च एकीभाव एव । यथासंगतं घृतं तैलेनेति एकीभूतमिति गम्यते, यथा वा संसृष्टोऽ मेरिति एकीभूत इति गम्यत इति भाष्याच्च । इदं च सामर्थ्य राजपुरुष इत्यादिवृत्तावेन । अत एव ऋद्धस्य राजपुरुष इत्येवं राशि पुरुषविशेषणे ऋद्धत्वविशेषणं नान्वेति, विशिष्टस्य एकपदार्थतया राज्ञः पदार्थैकदेशत्वात् । देवदत्तस्य गुरुकुलमित्यत्र तु उपपजनस्य नित्यसापेक्षत्वात् समासः । यद्वा गुरुवद्देवदत्तोऽपि विशेष्ये प्रधाने कुल । वान्वेति, तत्र गुरुणा कुलस्य उत्पाद्यत्वसंबन्धेनान्वयः । देवदत्तेन तु कुलस्य तदायगुरुत्पाद्यतयाऽन्वयो गुरुगर्भः । उक्तं च हरिणा “संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते ॥” इति "समुदायेन संबन्धो येषां गुरुकुलादिना। संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥” इति च । एतेन 'अयश्शूल-' इति सूत्रे भाष्ये 'शिवस्य भगवतो भक्तः' इत्यर्थे शिवभागवत इत्यादि व्याख्यातम् । एकार्थीभावश्चायमलौकिकविग्रहवाक्ये कल्प्यते, यथा लादेशभूतशतृशानचोः अप्रथमासानाधिकरण्यं कल्प्यते, तत् । अत एव 'लस्य अप्रथमासमानाधिकरणनार्थेनायोगादादेशानुपपत्तिः, तस्य कारि प्रयोगाभावादित्याक्षिप्य आदेशे सामानाधिकरण्यं द्रष्ट्वा अनुमानाद् गन्तव्यं प्रकृतेरपि तद्भवति' इति 'लटश्शतृशानचौ-' इति सूत्रभाष्ये समाहितम् । 'सिद्धानां शब्दानामन्वाख्यानात् पचन्तं दक इत्यादौ उदककर्तृकप्राप्तिकर्मेत्याद्यर्थाभ्युपगमात् । एकार्थ भावे तु लाघवमिति दिक । पदग्रहणं किम् , वर्णविधौ समर्थपरिभाषा मा भूत् । तितु दध्यानय तक्रम् , इह स्यादेव यण । विधिग्रहणं तु पदस्य विधिः पदयोविधिः पदानां विधिरित्यनेकविभक्त्यन्तसमासलाभार्थम् । पदस्थेत्युक्ती तु 'उपपदमति इत्यादावेवास्योपस्थितिः Page #6 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [३ समर्थाश्रितो बोध्यः । ६४८ प्राकडारात्समासः । (२-१-३) 'कडाराः कर्मधारये (सू ०५७) इत्यतः प्राक् समास इत्यधिक्रियते । ६४६ सह सुपा। देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लस्य प्रक्रियार्थ कल्पितस्य अप्रयमासामानाधिकरण्यमनुमीयते' इति कैयटः । अत्र प्रक्रियाथ कल्पितस्येत्युक्त्या अन्यस्यापि प्रक्रिया कल्पितस्य बोधकत्वकल्पना सुचिता। अलौकिकविग्रहवाक्ये श्रूयमाणानां च शब्दानां क्लृप्तशक्तित्यागे मानाभावात् प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः । ततश्च अयमेकार्थीभावः अजहत्स्वार्थी वृत्तिरिष्यते । वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्थी वृत्तिस्तु नाश्रयितुं युक्ता, महाबाहुः, सुपन्था इत्यादी आत्त्वायनापत्तेः, वृत्तौ महदादिशब्दानामनर्थकत्वाद् अर्थवग्रहणसंभवे अनर्थकस्य 'आत्महतः-' इत्यादौ ग्रहणायोगात् । तदुक्तम् 'जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी।' इति । अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः । यथा अश्वकर्णमण्डपादौ । विस्तरस्तु शब्देन्दुशेखरे मञ्जूषायां चानुसंधेयः । समर्थः किम् ? पश्य कृष्णं श्रितो राममित्रम् । अत्र कृष्णश्रितयोः परस्परान्वयाभावाद्विशिष्टैकार्थोपस्थित्यजनकत्वान सामर्थ्यम् । प्राकडारात् । 'आकडारात्' इत्येव प्रागिति सिद्धे प्राग्ग्रहणमेक सज्ञाधिकारेऽपि अव्ययीभावादिसंज्ञासमुच्चयार्थमिति भाष्ये स्पष्टम् । संपूर्वकस्य अस्यतेरे. कीकरणात्मकः संश्लेषोऽर्थः । समस्यते अनेकं पदमिति समासः । 'अकर्तरि च कारके संज्ञायाम्' इति कर्मणि घञ् । अत एव मूले समस्यत इति वक्ष्यते । तथा च अन्वर्थेयं संज्ञा । सह सुपा । 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । सुबन्तं सुबन्तेन सहोचारितं समाससंशं भवतीति फलति । एवं सति पर्यभूषयदित्यादौ सुबन्तस्य तिङन्तेन स्यादित्याहुः । सूत्रे समर्थशब्दो लाक्षणिक इति ध्वनयन्नाह--समर्थाश्रित इति । समयेति किम् , पश्यति कृष्णं श्रितो देवदत्तमित्यादौ कृष्णश्रित इत्यादि समासो मा भूत् । तथा वस्त्रमुपगोरपत्यं चैत्रस्येत्यत्र 'तस्यापत्यम्' इत्युपगुशब्दादण् मा भूदिति । कचित्तु सापेक्षत्वेऽपि भाष्यप्रामाण्याद् वृत्तिरङ्गीक्रियते। तद्यथा-किमोदनं शालीनाम् । केषां शालीनामोदनमित्यर्थः । सक्त्वाढकमापणीयानाम्। पापणीयानां सक्तूनामाढकमित्यर्थः । कुतो भवान् पाटलिपुत्रकः । द्वे पाटलिपुत्रे, तत्र कस्मात्पाटलिपुत्राद्भवानागत इत्यर्थः । 'रोपधेतोः प्राचाम्' इति वुञ् । प्राकडारात्समासः। प्राग्ग्रहणमावर्तते, तेन पूर्व समाससंज्ञा ततः संज्ञान्तरमपीति लभ्यते । तेनाव्ययीभावादिभिः समावेशः सिद्धयति । अन्यथा पर्यायः स्यात् । समसनं समासः, भावे घञ् । अनेकस्य पदस्य एकपदीभवनमित्यर्थ इत्येके । वस्तुतस्तु-'अकर्तरि च कारके-' इति कर्मणि घश् । Page #7 -------------------------------------------------------------------------- ________________ ४] सिद्धान्तकौमुदी। [अव्ययीभाव(२-१-४) 'सह' इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्पेष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः स च छन्दस्येव । पर्यभूषयत् । अनुग्यचलत् । 'सुपा' । सुप्सुपा सह समस्यते । समासस्वात्प्रातिसमासो न स्यात् , तत्राह-सहेति योगो विभज्यत इति । समाससंज्ञाया अन्वर्थत्वादेकस्याप्रसङ्गात् सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागाथमिति भावः । सहेत्यत्र 'सुबामन्त्रिते-' इत्यतः सुबित्यनुवर्तते। प्रत्ययग्रहणपरि भाषया तदन्तग्रहणम् । 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिगम्यते तदाह-सुबन्तमित्यादिना । समस्यत इति । एकीक्रियते प्रयोकाभिरित्यर्थः । समाससंज्ञां लभत इति यावत् । केचित्तु सुबन्तं कर्तृ समर्थन समस्यते-कीभवतीत्यर्थः। कर्तरि लट् । 'उपसर्गादस्यत्यूह्योः' इत्यात्मनेपदम् । समासशब्दोऽपि कर्तरि बाहुलकाद्धान्त एव, कर्मणि घअन्तो वा । तथा सति समस्यत इति कर्ता : तिङन्तं फलितार्थकथनपरमित्याहुः । ननु घटो भवतीत्यत्र समासे घटभवतात्यपि लोके प्रयोगः स्यादित्यत आह-योगविभागस्येति । कतिपयेति । कतिपयानि तिङन्तानि उत्तरपदानि यस्येति विग्रहः । पर्यभूषयदिति । समासान्तोदात्तत्वे शेषनिघात इति 'कुगति -' इति सूत्रे कैयटः । देवो देवान् क्रतुना पर्यभूषयदित्यत्र तु स्वरव्यत्ययो बोध्यः । अनुव्यचलदिति । अचलदित्यनेन वेः पूर्व समासे सति तेन अंनोः समासः । न त्वनुव्योर्युगपत्समासः, सुबित्येकत्वस्य विरक्षितत्वात् । अत एव महिष्या अजायाश्च क्षीरमित्यत्र क्षीरशब्देन सुबन्तयोर्न समास ति कैयटः । सुपा। 'सुबामन्त्रिते-' इत्यतः सुबित्यनुवर्तते, समास इत्यधिकृतम् , दाह-सुप्सुपेति । सुबन्तं सुबन्तेनेत्यर्थः । ततश्च पूर्व भूत इति विग्रहे समाससं ना स्थिता। समासअन्यथा सुबन्तं समस्यत इत्युत्तरग्रन्थो न संगच्छते। ननु अन्वर्थत्वात्समाससंज्ञायाः प्रत्येकम प्रसङ्गात्सहग्रहणं व्यर्थमित्याशङ्कयाह--योगो विभज्यत इति । 'सुबामत्रिते-' इत्यतः सुबित्यनुवर्तते तदाह-सुबन्तमिति । सम्स्य त इति । संपूर्वादस्यतेः कर्मणि तङ् । आचार्येणेति शेषः। समर्थेनेति तु सहयोगे तृतीया । समसन. कियां प्रति सुबन्तं कर्म, न तु कर्तृ । यद्यपि सुबन्तस्य कर्तृत्वा युपगमेऽपि 'उपसर्गादस्यत्यूह्योः' इति वार्तिकेन समस्यत इत्यत्रात्मनेपदं लभ्यते, त? ापि समास इति व्याख्येयग्रन्थे कर्तरि घञ् दुर्लभः। बाहुलकं तु अगतिकगतिरिनि कर्मत्वाभ्युपगम एव ज्यायान् । स चेति । एतदपि योगविभागस्येष्टसिद्धयर्थत्वादेव लभ्यते । छन्दस्येवेति । यदि लोकेऽपि स्यात्तर्हि यत्प्रकुरुते इत्यादौ स्वायत्पत्तिः स्यात् । लिङ्गसर्वनाम तामभ्युपेत्य 'स्वमोर्नपुंसकात्' इति लुकि कृतेऽपि 'हस्वो नपुंसक-' इति हस्खः स्यादि Page #8 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५ पदिकत्वम् । ६५० सुपो धातुप्रातिपदिकयोः। (२-४-७१) एतयोरवयवस्य सुपो लुक्स्यात् । भूतपूर्वे चर' (सू १६६६) इति निर्देशाद् भूतशब्दस पूर्वनिपातः । पूर्व भूतो भूतपूर्वः । 'इवेन समासो विभक्त्यखोपत्र' (वा १२५६, त्वात् प्रातिपदिकसंक्षेति । 'कृत्तद्धितसमासाश्च' इत्यनेनेति शेषः । सुपो धातु। धातुप्रातिपदिकयोरित्यवयवषष्ठीत्याह-एतयोरवयवस्येति । लुक् स्यादिति । 'ण्यक्षत्रियार्षञितो यूनि लुक्' इत्यतस्तदनुवृत्तेरिति भावः । न च सुप इत्यनेन सप्तमी. बहुवचनस्यैव ग्रहणं किं न स्यादिति वाच्यम्, 'पञ्चम्याः स्तोकादिभ्यः' इत्यलुग्विधानात् सुप्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात् । न चैवमपि पूर्व भूत इति लौकिकविग्रहवाक्ये परिनिष्ठितसंधिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत। पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाभावात् कथं लुगिति वाच्यम् , 'सुपो धातु-' इति लुग्विषये 'अन्तरजानपि विधीन् बहिरङ्गो लुग् बाधते' इत्याश्रित्य संधिकार्यप्रवृत्तेः प्रागेवालौकिकविग्रहवाक्ये समासप्रवृत्तिरिति 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम्। 'कृत्तद्धितसमासाश्च' इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिदम्। 'भौषा-' इति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । एवं च पूर्व अम् भूत स् इत्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्ते!क्तदोषः । तथा च सुपो लुकि भूतपूर्वेति स्थितम् । ननु 'सुबन्तं सुबन्तेन समस्यते' इति समासशास्त्रे सुबन्तं प्रथमानिर्दिष्टम् । सुबन्तत्वं च द्वयोरप्यविशिष्टम् । ततश्च 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वाद् ‘उपसर्जनं पूर्वम्' इत्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह-भूतपूर्वे चरडिति । पूर्व भूत इति । लौकिकविग्रहोऽयम् । पूर्वमिति क्रियाविशेषणम् । भूतपूर्व इति । समासत्वेन प्रातिपदिकत्वात् समुदायात् पुनर्यथा. यथं सुबुत्पत्तिरिति भावः । इवेनेति । इवेत्यव्ययेन सुबन्तस्य समासः । 'सुपो धातु-' त्यादि दूषणं कर्मणो यमभिप्रैति-' इति सूत्रेऽस्माभिरुद्भावितम् । अनुव्यचलदिति। सुबित्येकत्वस्य विवक्षितत्वात्पर्यायेण समासो बोध्यः । समासान्तोदात्तत्वे शेषनिघात इति 'कुगति-' इति सूत्रे कैयटः। सुपो धातु । सुप इति प्रत्याहारस्य ग्रहणं 'पञ्चम्याः स्तोकादिभ्यः' इत्याद्यलुक्समासविधानाज्ज्ञापकात् । निर्देशादिति । अन्यथा हि प्रथमानिर्दिष्टत्वाविशेषेऽपि उपसर्जनसंज्ञाया अन्वर्थत्वेन पूर्वशब्दस्यैव पूर्वनिपातः स्यादिति भावः ॥ इवेनेति । अयमपि समासः पूर्ववत् क्वाचित्क एव । तेन जीमूतस्येवेत्यादौ तैत्तिरीयाणां पृथक्पदत्वेन पाठः । 'उद्बाहुरिव वामनः' इत्यादौ व्यस्तप्रयोगश्च संगच्छत इति मनोरमायां स्थितम् । विभक्त्यलोपश्चेति । समासावयवस्य सुपोऽलुम्विधाने Page #9 -------------------------------------------------------------------------- ________________ ६] सिद्धान्तकौमुदी [अव्ययीभाव. १३४१)। जीमूतस्येव । ६५१ अव्ययीभावः । (२-१-५) अधिकारोऽयम्। ६५२ अव्ययं विभक्तिसमीपसमृद्धिव्यूद्धयर्थाभावात्र यासंप्रतिशब्दप्रादुर्भावपश्चाधथानुपूर्व्ययोगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु । (२१-६) 'अव्ययम्' इति योगो विभज्यते । अव्ययं समर्थन सह समस्यते, सोऽव्ययीभावः । ६५३ प्रथमानिर्दिष्टं समास उपसर्जनम् । (१-२-४३) इति लुगभावः । पूर्वपदस्य प्रकृतिसिद्धस्वरश्च भवति, न तु सम् सस्वर इति वक्तव्यमित्यर्थः । 'सह सुपा' इति सिद्धे समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम् । अन्यथा अत्र इवशब्दस्यापि सुबन्तत्वाविशेषात् समासशास्त्रे प्रथ मानिर्दिष्टत्वेनोपसर्जनत्वात् पूर्वनिपातः स्यात् । जीमूतस्येवेति । अत्र जीमूतशब्दस्य पूर्वपदस्य फिरस्वरेणान्तोदात्तत्वमेव, न तु समासस्येत्यन्तोदात्तत्वम् । अत्र यथार्थत्वप्रयुक्तोऽव्ययी. भावस्तु न, 'तत्र तस्येव' इति निर्देशात् । काचित्कश्चायं समार : । अत एव बचा एव पदपाठे अवगृह्णन्ति, याजुषास्तु भिन्ने एवं पदे पठन्ति 'उद्वाहुरिव वामनः' इत्यादिव्यस्तप्रयोगाश्च संगच्छन्ते । 'हरीतकी भुड्क्ष्व राजन् मातेव हितकारिणीम् ।' इत्यत्र तु मातरमिवेति भवितव्यम् । 'तिङ्समानाधिकरणे प्रथा' 'अभिहिते प्रथम' इति वार्तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्तिपरभाष्ये। च क्रियायोग एव प्रथमायाः प्रवृत्त्या मातेति प्रथमायाः मातृसदृशीमित्यर्थे असा त्वादिल्यास्तां तावत् । अव्ययीभावः । अधिकारोऽमिति । एकसंज्ञाधिकारेऽपि अनया संज्ञया समाससंज्ञा न वाध्यत इति 'प्राकडारात्-' इत्यत्रोक्तम् । अव्ययं विभक्ति । विभक्त्यर्थाद्यभावेऽप्यपदिशमित्यादि साधयितुमाह-अव्ययमिति योगी विभज्यत इति । अत्र ‘समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीया ततया विपरिणम्यते। समास इति अव्ययीभाव इति चाधिकृतम् । तदाह-अव्ययं समर्थनेति । सोऽव्ययीभाव इति । स समासः अव्ययीभावसंज्ञः स्यादित्यर्थः । तथा च दिशयोर्मध्यमित्यस्वपदविग्रहे मध्यार्थकस्य अपेत्यव्ययस्य दिशयोरित्यनेन समाससंज्ञा । तस्य समासस्याव्ययीभावसंज्ञा च सिद्धा । तथा च समासत्वात् प्रातिपदिकत्वे सुपो धातु-' इति सुब्लुकि सति दिशा अप इति स्थितम् । अत्र उपसर्जनकार्य वक्ष्यन्नुपस निसंज्ञामाह-प्रथमा. निर्दिष्टम् । ननु समासे प्रथमानिर्दिष्टमुपसर्जनम् इति व्या' याने असंभवः, समासे ऽपि समासादुत्पन्नस्य सोः अव्ययात्-'इति लुग् भवत्येव,अनुपसनने तदन्तस्याप्यव्ययत्वादिति बोध्यम् । अव्ययं विभक्ति । विभक्तिरिह कारकर्शा कः । विभज्यते अनया प्रातिपदिकार्थ इति व्युत्पत्तेः । अत एव वक्ष्यति--विभक्त्यादिषु विद्यमानमव्ययमिति । प्रथमानिर्दिष्टम् । अत्र समासपदं तद्विधायके लार्भा गकम् । अन्यथा चिकी Page #10 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ७ समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् । ६५४ उपसर्जनं पूर्वम् । ( २ - २ - ३० ) समासे उपसर्जनं प्राक्प्रयोज्यम् । ६५५ एकविभक्ति चापूर्वनिपाते । ( १-२-४४ ) विग्रहे यनियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात्, न सति 'सुपो धातु-' इति प्रथमाया लुप्तत्वात् । समासे चिकीर्षिते प्रथमानिर्दिष्टम् इति व्याख्याने तु कृष्णं श्रितः कृष्णश्रित इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वं न स्यात् । श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुपसर्जत्वं स्यात् । श्रतो व्याचष्टेसमासशास्त्र इति । समासपदं समासविधायकशास्त्रपरमिति मावः । एवं च 'द्वितीया श्रित -' इति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम् । एवं च 'अव्ययम् -' इति समासविधावपेत्यस्य प्रथमानिष्र्ष्टित्वादुपसर्जनत्वं स्थितम् । उपसर्जनं पूर्वम् । प्राक्कडारात् समास इत्यधिकृतम्। समास इति प्रथमान्तं योग्यतया सप्तम्यन्तं विपरिणम्यते, तदाह – समासे उपसर्जनं प्राक् प्रयोज्यमिति । पूर्वमित्यस्य पूर्व प्रयोज्यमित्यर्थ इति भावः । एवं च प्रकृते अपेत्यस्य पूर्व प्रयोगनियमः सिद्धः । श्रपदिशा इति स्थितम् । श्रत्र दिशाशब्दस्यापि उपसर्जनत्वमाह – एकविभक्ति । 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इत्यतः समास इति उपसर्जनमिति चानुवर्तते । समास इत्यनेन विग्रहवाक्यं लक्ष्यते । एकैव विभक्तिर्यस्य तदेकविभक्ति, नियतविभक्तिकमिति यावत् । एवं च विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्नकार्ये कर्तव्य उपसर्जनं स्यादित्यर्थः । फलितमाह - विग्रहे यन्नियतेति । निष्कौशाम्बिशब्द उदाहरणम् । तत्र कौशाम्ब्या निष्क्रान्तो निष्कान्तं निष्क्रान्तेन निष्क्रान्ताय निष्कन्ताद् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषु 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासे निष्कौशाम्बिः निष्कौशाम्बि निष्कौशाम्बिना इत्यादि, इति स्थितिः । अत्र कौशाम्बीशब्द एव विप्रहे नियतविभक्तिक इति तस्योपसर्जनत्वमनेन भवति । समासशास्त्रे कौशाम्बीशब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति 'प्रथमानिर्दिष्टम् -' इत्यनेनोपसर्जनत्वा प्राप्तौ वचनम् । तत्र कौशाम्बीशब्दस्य अनेन उपसर्जनत्वेऽपि न पूर्वनिपातः । तत्तद्विभक्तयन्तैरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम् । ‘तुल्यार्थैः-' इति सूत्रे भाष्ये स्पष्टमिदम् । प्रथमान्तपदेनैव समास इति 'अनेकम् -' इति सूत्रे भाष्ये स्थितम् । प्रकृते च दिशयोर्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात् समासविधौ प्रथमानिर्दिष्टत्वाभावेऽपि र्षिते समासे यत्प्रथमान्तमिति व्याख्यानप्रसक्त्या कृष्णश्रित इत्यादौ श्रितादिष्वति - प्रसङ्ग इत्याशयेनाह—–समासशास्त्र इति । विग्रह इति । अनुवर्तमानेन समास Page #11 -------------------------------------------------------------------------- ________________ ८] सिद्धान्तकौमुदी। [अव्ययीभावतु तस्य पूर्वनिपातः । ६५६ गोस्त्रियोरुपसर्जनस्य । (१-२-४८) उप. सर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह स्वः स्यात् । 'अव्ययीभावश्च' (सू ४५१) इत्यव्ययत्वम् । ६५७ नाव्य यीभावादतोऽम्त्व. पञ्चम्याः । (२-४-८३) अदन्तादव्यीभावारसुपो न लुक् तस्य तु पञ्चमी विना अनेनोपसर्जनत्वं भवति । पूर्वनिपातस्तु न भवतीति स्थितम् । गोस्त्रियोः । ‘ह्रस्वो नपुंसके प्रातिपदिकस्य' इत्यतो ह्रस्व इति प्रातिपदिकस्येति चान् वर्तते। उपसर्जनस्येति गोस्त्रियोर्विशेषणम् । प्रत्येकाभिप्रायमेकवचनम् । स्त्रीशब्देन स्त्रीः त्ययो गृह्यते । प्रत्ययग्रहणपरिभाषया तदन्तविधिः । उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते । तदुभयं प्रातिपदिकस्य विशेषणम्। तदन्तविधिः। तदाह--उपसर्जनमित्यादिना। अत्र च शास्त्रीयमेवोपसर्जनं गृह्यते, न त्वप्रधानमात्रम् , कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारीत्यत्रातिप्रसङ्गात् । अव्ययीभावश्चत्यव्ययत्वमिति । तथा च अव्ययीभावसमासादुत्पन्नानां सुपाम् 'अव्ययादाप्सुपः' इति लुक् स्यादिति शयिामाह-नाव्ययीभावात् । अम् तु अपञ्चम्या इति छदः । 'नाव्ययीभावादतः' इत्येकं वाक्यम् । ‘ण्यक्षत्रियार्ष-' इत्यतो लुगित्यनुवर्तते। 'अव्ययादाप्सुपः' इत्यतः सुप इति च । श्रता अव्ययीभावो विशेष्यते, तदन्तविधिः, तदाह-अदन्तादव्ययीभावात् सुपो न लुगिति । अम् तु अपञ्चम्या इति वाक्यान्तरम् । पञ्चमीभिन्नस्य तु सुपः श्रमादेशः स्यात् । पञ्चम्यास्तु अम् न भवतीति लभ्यते । प्रहणेन विग्रहो लक्ष्यत इति भावः। न तु तस्येति । 'अनन्तर य-' इति न्यायात्पूर्वसूत्रेण विहितस्य पूर्वनिपातत्वं न निषिध्यते। तेन कुमारीश्रिर इत्यादौ न दोषः । गोस्त्रियोः। उपसर्जनस्येति गोत्रियोर्विशेषणम् । एकवचनं तु प्रत्येकाभिप्रायेण । गोत्रीभ्यां तु प्रातिपदिकं विशेष्यते । विशेषणेन तदन्तविधिरि याशयेनाह-उपसजनं य इति । उपसर्जनमिह शास्त्रीयं गृह्यते, न त्वप्रधानलचरणम् । तेन कुमारीवाचरन्ब्राह्मणः कुमारीत्यत्र न दोष इत्युक्तम् । स्त्रीप्रत्ययान्तमिति । त्यधिकारोक्तटाबाद्यन्तमित्यर्थः । तेनातिलक्ष्मीरित्यादौ नातिप्रसङ्गः । नन्त वमपि राजकुमारीपुत्र इत्यादावतिप्रसङ्ग इति चेत् , अत्राहुः-उपसर्जनस्य ससंबन्धिः तया यस्य प्रातिपदिकस्य हखो विधीयते तदर्थ प्रति यद्युत्तरपदभूतयो!स्त्रियोर्गुणीभावस्तदैव ह्रखत्वमिति भाष्यादावुक्तत्वान दोषः । भाष्यादावापे उत्तरपदभूतयोरित्यर्थ नाभस्तु 'कृत्तद्धित-' इत्यतः समासपदानुवर्तनादिति बोध्यमिति । नाव्ययी। अत्र 'प्रपञ्चम्याः' इति प्रतिषेधोऽनन्तरत्वादम एव, न तुव्यवहितस्यालुकोऽपि। अमुमेवार्थ द्योतयितुं सूत्रे तुशब्दः। तस्य पञ्चमी विनेति । एवं चादन्तादव्ययीभावात्परस्य पञ्चमीभिन्नस्य सुपो Page #12 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [. अमादेशश्च स्यात् । दिशयोर्मध्येऽपदिशम्। 'क्रीवाव्ययं स्वपदिशं दिशोमध्ये विदिक स्त्रियाम् ।' इत्यमरः । ६५८ तृतीया सप्तम्योर्बहुलम् । (२-४-८४) अदन्तादण्ययीभावात्तृतीयासप्तम्योबहुखमम्भावः स्यात् । अपदिशम्, अपदिशेन अपदिशम् , अपदिशे। बहुलग्रहणात् सुमद्रम् उन्मत्तगङ्गम् इत्यादौ सप्तम्या नित्यमम्भावः। 'विभक्ति-' इत्यादेरयमर्थः-विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः । विभक्तौ तावत्-हरौ इत्यधिहरि । सप्त. तदाह-तस्य पञ्चमी विना अमादेश इति । अत्रापञ्चम्या इति प्रतिषेधोऽयम् अनन्तरत्वादम एव भवति, न तु लुनिषेधस्यापि । एवं चादन्तादव्ययीभावात् परस्य सुपो न लुक् , किंत्वमादेशः । पञ्चम्यास्तु लुग् अमादेशश्च न भवतीति स्थितिः । सूत्रे एतत्सूचनार्थमेव तुशब्दः । 'अव्ययीभावादतोऽम्त्वपञ्चम्याः' इत्येवोक्तौ तु अदन्तादव्ययीभावात् परस्य पञ्चमीभिन्नस्य सुपो लुकोऽपवादः अमादेशः स्यादित्येव लभ्येत । एवं सति पञ्चम्या अमोऽभावे 'अव्ययादाप्सुपः' इति लुक् स्यात् । अतो लुङ् निषिध्यत इत्यास्तां तावत् । अपदिशमिति । पञ्चमीभिन्न विभक्तीनामुदाहरणम्। पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । यद्यपि नपुंसकह्रस्वत्वेनाप्येतत् सिध्यति, 'अव्ययीभावश्च' इति नपुंसकत्वस्य वक्ष्यमाणत्वात् । तथापि 'गोस्त्रियोः-' इति सूत्रं चित्रगुः, अतिखट्व इत्याद्यर्थमावश्यकमिति इहापि न्याय्यत्वादुपन्यस्तम् । तदेवमव्ययमिति भाष्यादृष्टेनापि योगविभागेन अपदिशमिति रूपसाधनं वृद्धसंमतमित्याह-क्लीबाव्ययमिति। तृतीया। 'नाव्ययीभावात्-' इत्यस्माद् अत इत्यनुवर्तते, तदाह-अदन्तादिति । अमादेशाभावे तु 'नाव्ययीभावात्-' इत्यलुक् । ननु वेति सिद्धे किं बहुलग्रहणे. नेत्यत आह-बहुलग्रहणादिति तदेवमव्ययमिति योगं विभज्य व्याख्याय तदुत्तरखण्डं व्याख्यातुमुपक्रमते-विभक्तीत्यादेरयमर्थ इति । विभक्तीत्यनेन विभक्तयों विवक्षितः । उच्यन्त इति वचनाः । कर्मणि ल्युट् । विभक्ति, समीप, समृद्धि, व्यृद्धि, अर्थाभाव, अत्यय, असंप्रति, शब्दप्रादुर्भाव, पश्चात्, यथा, आनुपूर्व्य, योगपद्य, सादृश्य, संपत्ति, साकल्य, अन्त एतेषां षोडशानां द्वन्द्वः । ते च ते वचनाश्च इति विग्रहः । विभक्त्यर्थादिषु वाच्येष्वित्यर्थः । अव्ययीभावः समास इति चाधिकृतम् । तदाह-विभक्त्यर्थादिग्विति । विभक्तौ तावदिति । विभक्त्यर्थे प्रथममुदाहियत इत्यर्थः । हरी इत्यधिहरीति । हरौ इति लौकिकविग्रहः । तेन यावदवलुङ् न, पञ्चम्यास्तु लुगादेशावुभावपि न भवत इति स्थितम् । अतः किम् , अधिहरि । दिशयोरिति । दिशोरिति हलन्तेन विग्रहेऽपि एतदेव रूपम् । दिशशब्दस्य शरदादिषु पाठादृच् । अपदिशमिति । पञ्चमीव्यतिरिक्तविभक्तीनामुदाहरणमिदम् । Page #13 -------------------------------------------------------------------------- ________________ १०] सिद्धान्तकौमुदी। अव्ययीभावम्यर्थस्यैवात्र द्योतकोऽधिः । हरि हि अधि इस्यलौकिकं विरहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी । ६५६ अ ययीभावश्च । गम्यते तावदेवाधिहरीति समासेनाप्युच्यत इत्यर्थः । अधिशब्दस्य इरावित्यनेन अव्ययीभावसमासे सुब्लुकि समासविधावव्ययमिति प्रथमानिर्दिष्टत्वाद् अधेः पूर्वनिपाते समासादुत्पन्नस्य सुपः 'अव्ययादाप्सुपः' इति लुगिति भावः। ननु ल'किकविग्रहे समस्यमानः अधिशब्दः कुतो नोपात्त इत्यत आह-सप्तम्यर्थस्यैवात्र द्योतकोऽधिरिति । तथा चाधिद्योत्यार्थस्य अधिकरणत्वस्य सप्तम्यैव उक्तत्व द् अधिशब्दो न पृथगुपात्तः, नित्यसमासताया वक्ष्यमाणत्वेन स्वपदविग्रहानौचित्यादिति भावः । ननु हरौ इति परिनिष्ठतसंधिकार्यस्य समासे सति औ इत्यस्य सुपो लु १ समासे रेफादिकारः कुतः श्रूयेतेत्यत आह-हरि ङि इति । संधिकार्यात् प्राग नौकिकविग्रहवाक्य एव समासप्रवृत्तेः 'प्रत्ययोत्तरपदयोश्च' इति भाष्यसंमतत्वादिति भावः । यथा चैतत् तथा भूतपूर्व इत्यत्रानुपदमेवोक्तम् । नन्वधिना निपातेनाधिकरणत्वस्योक्तत्वात् कथं हराविति सप्तमीत्यत आह-अत्र निपातेनेति । वचनेति । सुपेत्यनुवर्त्य सुबन्तेनात्र समासविधिसार्थ्यात् सप्तमी स्यादेवेति भावः । वस्तुतस्तु उ नभिहितसूत्रभाष्ये तिङ्कृत्तद्धितसमासरित्येव परिगणनं दृष्टम् । अतो निपातेनाधिना अभिहितेऽप्यधिकरणत्व सप्तमी निर्बाधा । 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' इत्यत्र तु एष्टव्य इत्यध्याहार्यम् । कृताऽभिधानाद् विषवृक्षाद् द्वितीया न भवति न च कृत्तद्धितसमासैरिति परिगणनं भाष्ये प्रत्याख्यातमिति वाच्यम् , 'कटं करोति भीष्ममुदारं दर्शनीयम्' इत्यत्र परिगणनफलस्यान्यथासिद्धेरेव तत्रोक्तत्वादित्यास्तां त वत् । अव्ययी. पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । विभक्तौ तावदिति । तावच् छन्दः क्रमार्थः । लौकिकं विग्रहवाक्यं प्रदर्शयति--हराविति । प्राचा तु हरौ अधिकृत्येति विगृहीतम् । तदसत् , अधिहरीत्यत्र अधिकृत्येत्यर्थस्याप्रतीतेः । हरि ङाति । अलौकिके डिशब्दस्यैव प्रवेश उचितः 'अन्तरझानपि-' इति न्यायात् । अन्य था ढेरौत्त्वे कृते अधिहरीति समासे हरिशब्देकारो दुर्लभः स्यादिति भावः । इह द्रावधीति स्थिते इति प्राचोक्तमुपेक्षितम् , नित्यसमासेषु अस्वपदविग्रहस्यैवोचितत्वात् अभिहिते. पीति । गोतितेऽपीत्यर्थः । वचनसामर्थ्यादिति । सुपेत्यनुवर्त्य सुबन्तेन समासविधानसामर्थ्यात्सप्तमी स्यादेवेति भावः । नन्वलिहितेऽधिकरणे 'प्रातिपदिकार्थमात्र-' इति प्रथमैव स्यान्न तु सप्तमीति चेत् , अत्राहुः--अधीत्यस्य सुबन्तेन समासस्यावश्यकत्वेऽधिशब्दद्योत्याधिकरणार्थवाचकविभक्तरेवेह स्वीकर्तुमुचितत्वादितिः । यत्तु प्रसादकृता व्याख्यातम्-तिकृत्तद्धितसमासैरिति परिगणनादधिनाभिति तेऽपि सप्तमी Page #14 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ११ ( २-४ -१८) अयं नपुंसकं स्यात् । 'हस्वो नपुंसके प्रातिपदिकस्य' ( सू ३१८ ) । गोपायतीति गाः पातीति वा गोपाः, तस्मिनित्यधिगोपम् । समीपे - कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम् भाराद्वनादित्यत्र तु नाव्ययीभावः, 'अभितः परितः - ' ( वा १४४२ ) 'अन्यारात् -' ( सू २१५ ) इति भावश्च । श्रयं नपुंसकं स्यादिति । 'स नपुंसकम्' इत्यतः तदनुत्रृत्तेरिति भावः। नपुंसकत्वस्य फलमाह–ह्रस्वो नपुंसक इति । गोपायतीति । रक्षतीत्यर्थः । 'गुपू रक्षणे' विच् । 'आयादय आर्धधातुके वा' इत्यायप्रत्ययः । 'लोपो व्योः -' इति यलोपः । ‘वेरपृक्तस्य' इति वकारलोपः । गोपाशब्द आकारान्तः । गाः पातीति । पातेर्विचि उपपदसमासे गोपाशब्द इति भावः । अधिगोपमिति । विभक्त्यर्थेऽव्ययीभावसमासे सुब्लुकि नपुंसकत्वे ह्रस्वत्वे सति 'नाव्ययीभावात् -' इत्यमि पूर्वरूपमिति भावः । ' गोस्त्रियो:-' इति तु नात्र प्रसज्यते, स्त्रीप्रत्ययान्तत्वाभावात् । समीप इति । समीपार्थकाव्ययस्य समासे उदाहरणं वक्ष्यत इत्यर्थः । कृष्णस्य समीपमिति । लौकिकविग्रहवाक्यमेतत् । अत्र समस्यमानस्य उपशब्दस्य स्थाने समीप - मिति प्रयुक्तम् । कृष्णस्य उप इति तु न विग्रहः, नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । ननु समया ग्रामम्, निकषा लङ्काम्, आराद्वनात् इत्यत्रापि समयाद्यव्ययानां समीपार्थकत्वाद् अव्ययीभावः स्यात्, ततश्च 'प्रामं समया, प्रामं निकषा वनादारात्' इति प्रयोगो न स्यात् । अव्ययीभावसमासे अव्ययस्य पूर्वनिपातनियमादित्यत आह-समयेति । स्यादेवेति । तन्न, परिगणनस्याकरे प्रत्याख्यातत्वात् 'कर्मणि द्वितीया' इति सूत्रे स्वयमपि तथैवोक्तत्वात् । ' क्रमादमुं नारद इत्यबोधि सः' इति प्रयोगविरोधाच्च । श्रत्र व्याचक्षते --' वचनग्रहणं विभक्त्यादिभिः प्रत्येकं संबध्यते' 'साकल्यान्तेषु' इत्येव वक्तव्ये वचनग्रहणात् । एवं च तत्सामर्थ्याद्विभक्त्यर्थमात्रवृत्तेरव्ययस्येह ग्रहणम् । तेन वृक्ष - स्योपरि, वृक्षस्य पुर इत्यत्र समासो न भवति । उपर्यादयो हि दिग्देशकालेष्वपि वर्तन्ते, न तु विभक्त्यर्थमात्रे । अत एव 'क्रमादमुं नारद इत्यबोधि सः' इत्यादौ नातिप्रसङ्गः, इति शब्दस्य सर्वनामवत्प्रकृतपरामर्शकत्वेन कर्मत्वमात्रानभिधायकत्वात् । एवं च विभक्तिशब्दः सप्तम्यां पर्यवस्यति । अत एव परिशिष्टे - 'अधिकरणे' इत्येव सूत्रितम् । पाणिनिस्तु मात्रालाघवमभिप्रेस्य विभक्तिशब्दं प्रायुङ्क्त' इति । अन्ये तु - ' लाघवात् 'डिसमीपसमृद्धि-' इति वक्तव्ये विभक्तिग्रहणाद्विभक्तिशब्दो न सप्तम्यां पर्यवस्यति । ततश्च कर्मत्वमात्रद्योतकतायाम् ' इति नारदम्' इति समासो भवत्येव' इत्याहुः । नपुंसकं स्यादिति । एतच्च 'स नपुंसकम्' इत्यतो लभ्यते । समीप इति । श्रव्ययीभाव इत्यन्वर्थसंज्ञाश्रयणात्सप्तमी रूपाव्ययार्थ प्राधान्य एवायं समासः । समीपवर्तिप्राधान्ये 1 Page #15 -------------------------------------------------------------------------- ________________ १२ ] सिद्धान्तकौमुदी । | अव्ययीभाव द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः संमंद्रम् । यवनानां व्यृद्धिदुर्यवनम् । विगता ऋद्धिब्यृद्धिः । मक्षिकाणामभावो निर्मत्तिकम् । हिमस्यास्यविधानसामर्थ्यादिति । 'समया ग्रामम्, निकषा लङ्काम्, आराद्व नातू' इत्यत्र शेषषष्ठयां सत्यामपि अव्ययीभावसमासे सति प्रातिपदिकावयवत्वाद् उपपदविभक्त्योः द्वितीयापञ्चम्योः षष्ठया वा लुकि समासात् प्रातिपदिकार्थादिविवक्षायां सर्वासु विभक्तिषु जातासु यथायथम् अम्भावे तद्विकल्पे च 'समयाप्रामम्, निकषालङ्कम्, प्राराद्वनम्, समयाप्रामेण निकषालङ्केन, आराद्वनेन, समयाप्रामे, निकषालङ्के, आराद्वने' इति स्यादेव । ततश्च द्वितीयापञ्चम्योर्विधिर्व्यर्थः स्यात्, षष्ठ्यैव गतार्थत्वात् । न च समासात् पुनरुपपदविभक्ती द्वितीयापञ्चम्यौ शङ्कधे, सकृत्प्रवृत्तयोः पुनः प्रवृत्त्ययोगात् । वस्तुतस्तु मध्यार्थकसमयाशब्दयोगे द्वितीयाविधानस्य दूरार्थकाराच्छब्दयोगे पञ्चमीविधानस्य चरितार्थत्वाद् इदमयुक्तम् । न चैवं सति 'समया ग्रामम्' इत्यादौ अव्ययीभावः शङ्कयः, अभक्ष इत्यादाविव विभक्त्यर्थसमीपादिमात्रवृत्त्यव्ययस्यैव ग्रहणात् समयानिकषाssराच्छब्दानां चाधिकरणशक्तिप्रधानतया समीपमात्रवृत्तित्वाभावात् । ग्रामस्य समीपे इति हि तेषामर्थः । उपशब्दस्तु तन्मात्रवाची । उपकृष्णं भक्ता इत्यत्र कृष्णसामीप्य - वन्त इति बोधात् । मद्राणां समृद्धिरिति । संमित्यव्ययपर्यायः समृद्धिशब्दो विग्रहवाक्ये ज्ञेयः । एतत्सूत्रविहितसमासस्य नित्यतया स्वपदविग्रहः । एवमग्रेऽपि ज्ञेयम् । संमद्रमिति । सर्वत्र सुब्लुगादि पूर्ववज् ज्ञेयम् । समृद्वा मद्राः संमद्रा इत्यादौ तु नाव्ययीभावः, वचनग्रहणसामर्थ्येनाव्ययार्थप्राधान्य एव तत्प्रवृत्तेरिति भाष्ये स्पष्टम् । यवनानां व्यृद्धिदुर्यवनमिति । दुर्शब्दार्थको व्यृद्विशब्दो विग्रहे ज्ञेयः । विगतेति । श्रभावप्रतियोगिनीत्यर्थः । ऋद्धेरभावो व्यृद्धिरिति यावत् । न चार्थाभावेऽयमिति भ्रमितव्यम् समस्यमानपदार्थाभावस्यैव तत्र विवक्षितत्वात्, इह च यवनाभावस्याप्रतीतेः । यवनीयवृद्ध्यभावस्यैव प्रतीतेः । तद् वनयन्न् अर्थाभाव उदाहरति-मक्षिकाणामभावो निर्मक्षिकमिति । विग्रहे निशब्दसमानार्थतु ‘संख्ययाव्ययासन्ना-’इति बहुव्रीहिर्वक्ष्यति 'उपदशाः' इति यथा। विधानसामर्थ्यादिति । ननु समया ग्राममित्यादौ द्वितीयाविधानसामर्थ्यान्मास्त्वव्ययीभावः, श्राराद्वनादित्यत्र तु भवेदेव, ‘अन्यारात् -' इति इति पञ्चमी विधानस्य दूरार्थकाराच्छब्दयोगे सावकाशत्वादिति चेत्, अत्र केचिदुत्प्रेक्ष्यन्ति - ' दूरान्तिकार्थैः षष्ठयन्यतरस्याम्' इति षष्ठीपञ्चम्योः प्राप्तयोस्तदपवादतया पञ्चम्येव तेन विधीयते । तथा चान्तिकार्थकाराच्छब्दयोगे षष्ठयपवादतया पञ्चमीविधानं निरवकाशमेवेति तत्सामर्थ्यादव्ययीभावो नेत्युक्तिः सम्यगेवेति । तदपरॆ न क्षमन्ते । 'अन्तिकार्थाराच्छब्दयोगे विशिष्य पञ्चमीविधाना१ अयं पाठो बालमनोरमानुरोधी । इतरत्र तु 'सुमद्रम्' इति पाठः । , Page #16 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १३ 1 योsतिहिमम् । श्रत्ययो ध्वंसः । निद्रा संप्रति न युज्यत इत्यतिनिद्रम् । हरिकमभावपदमिति भावः । घटः पटो नेत्यत्र तु नाव्ययीभावः, अर्थग्रहणसामर्थ्येनात्यन्ताभावस्यैव विवक्षितत्वात् । हिमस्यात्ययो ऽतिहिममिति । अतीत्यव्ययपर्यायः प्रत्ययशब्दो विग्रहे ज्ञेयः । श्रर्थाभावेत्यनेन पौनरुक्त्यं निरस्यति — प्रत्ययो ध्वंस इति । अर्थाभावशब्देनात्यन्ताभाव एव विवक्षितः । तेन पटस्य प्रागभावो निष्पटमिति न भवतीति भावः । सूत्रे संप्रतीत्यस्य संप्रति न युज्यत इत्यर्थः । 'एतर्हि संप्रतीदानीम्' इत्यमरः । युजिक्रियान्तर्भावेण एकार्थीभावान्नञ्समासः । तदाहनिद्रा संप्रति न युज्यत इत्यतिनिद्रमिति । श्रतीत्यव्ययस्यासंप्रत्यर्थकस्य स्थाने 'संप्रति न युज्यते' इति विग्रहवाक्यं ज्ञेयम् । सूत्रे शब्दप्रादुर्भाव इत्यनेन शब्दस्य भावात्, 'अन्यारात् -' इति सूत्रस्य त्वन्यत्र कृतार्थत्वाच्च, सामीप्ये चाराद्वनमित्यव्ययी - भावो दुर्वार एवेति । एवं हि व्याकुर्वतां 'पदस्येत्यपकर्षाभावे भृशार्थे सावकाशोऽयं यङ् पौनःपुन्ये परेण द्विर्वचनेन बाध्येत' इति 'नित्यवीप्सयोः' इति सूत्रस्थमनोरमाग्रन्थो - Sनुकूल इति दिक् । सुमद्रमिति । उत्तरपदार्थप्राधान्ये तु 'कुगति -' इति तत्पुरुषः । समृद्धा मद्राः सुमद्राः । दुर्यवनमिति । न चार्थाभावेनेह सिद्धिः, येन समस्यते तदीयार्थाभावेऽत्र समासस्वीकारात् । न चेह यवनानामभावः, येनार्थाभावे समासः स्यात्, किं तु तदीयाया ऋद्धेरभाव इति । निर्मक्षिकमिति । संसर्गाभावेऽयं समासो न त्वन्योन्याभावेऽपि । अर्थग्रहणसामर्थ्येन समस्यमानपदजन्य प्रतीतिविशेष्यविरोधिन एवाभावस्य ग्रहणात् । अन्योन्याभावस्य तु प्रतियोगितावच्छेदकेनैव विरोधात्तस्य च प्रकारत्वेऽप्यविशेष्यत्वात् । ये तु वदन्ति - 'घटः पटो नेत्यत्रापि पटत्वात्यन्ताभाव एवार्थः, आनृत्यधिकरणन्यायेन जातेः पदार्थत्वादिति तेषामपि मते अर्थग्रहणसामर्थ्यादेवाक्षिप्तधर्म्यभावे अयं समासो न तु धर्माभाव इति न दोषः । प्रत्यय इति । स्पष्टाथर्मतेत्, अर्थाभावेन गतार्थत्वात् । अर्थाभावेन संसर्गाभावो विवक्षितो न त्वन्योन्याभावः । घटः पटो नेत्यत्रातिप्रसङ्गादिति निष्कर्षात् । संप्रति नेति । संप्रतीत्यव्ययमिदानीमित्यर्थे । 'एतर्हि संप्रतीदानीम्' इत्यमरोक्तेः । तच्चाधिकरणशक्ति प्रधानत्वात्क्रियापदेनैवान्वयार्हम् । निषेधोऽपि क्रियाया एवोचितः, तदेतदाह - युज्यत इति । असं प्रतीति सौत्रप्रयोगे तु युजिक्रियान्तर्भावेण नञ्समास इति बोध्यम् । यत्तु प्रसाद - कृतोक्लम् —'असंप्रति संप्रत्यभाव इत्यर्थः । अनेन उपभोग्यवस्तुनो यो वर्तमानः कालः स निषिध्यते' इति । तन्न, अधिकरणशक्तिप्रधानस्य क्रिययैवान्वयार्हस्य निषेध प्रति प्रतियोगित्वेनान्वयस्यायुक्तत्वात् । न हि भूतले घटो नास्तीत्यनेन भूतलं निषिध्यत इति १ 'निषेधप्रतियोगित्वेन' इति क्वचित् पाठः । Page #17 -------------------------------------------------------------------------- ________________ १४ ] सिद्धान्तकौमुदी। [अव्ययीभाव. शब्दस्य प्रकाश इतिहरि । वियोः पादनुविष्णु । पमानन्दस्य तु नायं समासः, 'ततः पश्चात्त्रस्यते ध्वंस्पते' इति भाट्यप्रयोगात् । योग्यतावीप्सापदा नतिवृत्तिसारयानि यथार्थाः । अनुरूपम् , रूपस्य योग्यमित्यर्थः । अर्थमर्थ प्रति प्रत्यर्थम् । प्रतिराब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामोत्तयोगे प्रकाशन विवक्षितम् , तदाह-हरिशब्दस्य प्रकाश इतिहरि इति । इतीत्य. व्ययं शब्दप्रकाशे वर्तते। तस्य हरिशब्देन स्वरूपपरेण षष्ठ्यन्तेन समास इति भावः । विष्णोः पश्चादनुविष्णुइति। अनु इत्यव्ययं पश्चादर्थे वर्वत इत्यर्थः।भाष्येति। 'अचः परस्मिन्-' इति सूत्रभाष्य इत्यर्थः । ततः पश्चात्' इत्यत्राव्ययीभावे तु पश्चाच्छन्दस्य पूर्वनिपातः स्यादिति भावः । एतद्भाष्यप्रयोगादेव एतत् सूत्र तत्तदर्थबोधकपदघटकतया गृहीताव्ययेन तत्तदर्थकेनायं समासो नेति विज्ञायते । अत एव 'यथाऽसादृश्ये' इति सूत्रे सादृश्यसंपत्तीति प्राप्नोतीत्येवोक्तं भाष्ये । यथाशब्देन तु भवत्येव समासः, उत्तरसूत्रारम्भात् । सूत्र यथाशब्देन तदर्थो लक्ष्यते । यथार्थे विद्यमानमव्ययं समस्यत इति लभ्यत इत्यभिप्रेत्याह-योग्यतेति। अनुरूपमिति। अत्रानु इत्यव्ययं योग्यतायाम् , अतो यथार्थे वर्तत इति भावः । अर्थमर्थ प्रतीति । लौकिकविग्रहवाक्यम् । अत्र वीप्सायां द्विवचनम् । 'लक्षणेत्यंभूताख्यान-' इति वीप्सायां द्योत्यायां प्रतेः कर्मप्रवचनीयत्वात् तद्योगे द्वितीया । समासे तु द्विवचनं न, समासेन वीप्साया घोतितत्वाद् इति 'हयवरट्' इति सूत्रे कैयटः । प्रतिना तस्योकत्वादिति तु तत्त्वम् । नन्वर्थमर्थ प्रतीति लौकिकविग्रहप्रदर्शनं न संभवति । नित्यसमासत्वादित्यत आह-प्रतिशब्दस्येति । सामर्थ्यादिति । अध्ययीभावसमासस्य नित्यत्वं तु शेषषष्ठ्यामपि अव्ययीभावे सुब्लुकि समासात् सर्वविभक्तीनामम्भावे तद्विकल्पे च प्रत्यर्थ प्रत्यर्थेनेत्यादिसिद्ध द्वितीयाफलकं प्रतेः कर्मप्रवचनीयत्वविधानमनर्थकं स्यादिति भावः । वस्तुतस्तु प्रतिस्थानमित्यादौ 'उपसर्गात्सुनोति-' इति षत्वाभावसंपादनेन कर्मप्रवचनीयत्वं चरितार्थमेव । 'अर्थमर्थ प्रति प्रत्यर्थम्' इति 'सरूपाणाम्-' इति सूत्रे कश्चिदभ्युपैति, येनात्र वर्तमानकालनिषेधो युक्त्यर्हः स्यात् । इतिहरीति । स्वरूप. परे षष्ठयन्तेन हरिशब्देन सह प्रकाशार्थस्येतिशब्दस्य समासः । ततः पश्चादिति। सति चात्राव्ययीभावे पश्चाच्छब्दस्य पूर्वनिपातः स्यादिति भावः । भाष्यप्रयोगादिति । 'अनेकमन्यपदार्थे' इति सूत्रे 'सर्वपश्चात्' इति भाष्यप्रयोगाचेत्यपि बोध्यम् । प्रत्यर्थमिति । वृत्तौ वीप्सान्त वान्न द्विवचनम् । प्रतिशब्दस्येति । यत्त्वाः'प्रामस्य वृक्षं वृक्षं प्रतीत्यत्र सापेक्षत्वेन समासाभावे द्वितीयाविधानं सावकाशमिति । Page #18 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १५ द्वितीयागर्भं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वच्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे६६० अव्ययीभावे चाकाले । ( ६-३-८१ ) सहस्य सः स्यादव्ययीभावे, नै तु काले । सचक्रम् | काले तु सहपूर्वाहम् । सदृशः सख्या ससखि । यथार्थस्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां संपत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः, अनुरूप आत्मभाव: संपत्तिभाष्ये प्रयोगदर्शनाद् इह वैकल्पिकसमास इति तत्त्वम् । शक्तिमनतिक्रम्य यथाशक्तीति । 'परवरयोगे च' इति क्त्वाप्रत्ययः । परावरत्वं च बौद्धम् । अत्र यथेत्यव्ययं पदार्थानतिक्रमे वर्तत इत्यर्थः । हरेः सादृश्यं सहरीति । अत्र सहेत्यव्ययं सादृश्ये वर्तत इति भावः । वक्ष्यमाणेनेति । 'अव्ययीभावे चाकाले' इत्यनेनेत्यर्थः । ज्येष्ठस्यानुपूर्व्यणेत्यनुज्येष्ठमिति । कार्यं कृतमिति शेषः । तत्तद्विभक्त्या विग्रह इति पक्षाभिप्रायेणेदम् । पूर्वस्य क्रमेण इत्यनुपूर्वम्, ततः स्वार्थे ष्यञ् । यद्यपि एतत्सूत्रगृहीताव्ययेन समास नेत्यनुपदमेवोक्तम्, तथापि सूत्रगृहीतानुनाप्यनुज्येष्टमिति समासः, अनुपूर्वेति निर्देशात् । सूत्रे युगपच्छब्दात् स्वार्थे ष्यञ् यौगपद्यशब्दः । तद् ध्वनयनाह - चक्रेण युगपदिति । युगपत्पयार्यस्य सहशब्दस्य चक्रेण इत्यनेन समासे कृते सतीत्यर्थः । युगपच्छब्देन तु न समासः, सूत्रे गृहीतत्वादिति भावः । अव्ययी· भावे । सहस्य सः स्यादिति । 'सहस्य सः संज्ञायाम्' इत्यतः तदनुवृत्तेरिति भावः । न तु काल इति । कालवाचके परे सहस्य सो नेत्यर्थः । सचक्रमिति । चक्रेण युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्णमिति । समीपादौ अव्ययीभावः । सूत्रे सादृश्येति स्वार्थे ष्यञ् । तद् ध्वनयन्नाह – सदृशः सख्या ससखीति । सहेत्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थ्येनाव्ययार्थप्राधान्य एव समासप्रवृत्तेः गुणीभूतसादृश्य प्राप्त्या तद्ग्रहणमिति भावः । क्षत्राणां संपत्तिः सक्षत्रमिति । क्षत्रियाणामनुरूपं कर्मेत्यर्थः । सहेत्यव्ययमत्र संपत्तौ वर्तत इति भावः । संपत्तिसमृद्धिशब्दयोः पौनरुक्त्यं परिहरति — ऋद्धेरिति । धनधान्यादेरित्यर्थः । तन्न, नित्यसमासेषु ‘सविशेषणानां वृत्तिर्न' इत्यस्याप्रवृत्तेः । आनुपूर्व्येणेति । अनुपूर्वस्य भाव आनुपूर्व्यम्, ब्राह्मणादित्वात् ष्यञ् । चक्रेण युगपदिति । अत्र केचित्युगपञ्चकमिति समासेनैव भवितव्यम्, युगपच्छब्दस्याप्यव्ययत्वात्, किंतु 'चक्रेणैककाले' इत्यादि विग्रहीतुमुचितमित्याहुः । सहपूर्वाह्णमिति । साकल्येऽव्ययीभावः । गुणभूतेऽपीति । यदि सादृश्य इति नोच्यते, तर्हि यत्र सादृश्यं प्रधानमवगम्यते तत्रैव १यद्यपि 'यद्यपि' इति क्वचिदपि नास्ति तथापि उत्तरत्र ' तथापि' इति दर्शनादू अस्माभिर्निवेशितम् । Page #19 -------------------------------------------------------------------------- ________________ १६ ] सिद्धान्तकौमुदी । [ अव्ययीभाव रिति भेदः । तृणमप्यपरित्यज्य सतृणमन्ति । साकल्येनेत्यर्थः । न त्वत्र तृणभक्षणे तात्पर्यम् । अन्ते-अभिग्रन्थपर्यन्तमधीते सानि । ६६१ यथाऽसादृश्ये । ( २-१-७ ) असाहश्य एव यथाशब्दः समस्यते । तेनेह न यथा हरिस्तथा अनुरूप इति । अनुरूपो योग्य आत्मभावः, स्वोचितं कर्मेति यावत् । तृणमप्यपरित्यज्य सतृणमन्तीति । 'परावरयोगे च' इति क्त्वा । परावरत्वं बौद्धमेव । सहशब्दोऽत्रापरिवर्जने वर्तते । न तु तृणसहभावेऽपीति भावः । नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत आह – साकल्येनेत्यर्थ इति । पात्रे परिविष्टं सकलं भक्षयतीति यावत् । न त्वत्रेति । तृणभक्षणस्याप्रसक्तेरिति भावः । श्रन्त इति । उदाहरणं वक्ष्यत इति शेषः । सूत्रे अन्तशब्देन श्रन्तावयवसाहित्यं विवचितमित्यभि - प्रेत्योदाहरति-अग्निग्रन्थपर्यन्तमधीते सानीति । श्रभिशब्देन श्रभिचयनप्रतिपादको ग्रन्थो विवक्षितः । तेनान्तावयवेन सहितं ग्रन्थमिति विग्रहः । श्रभिग्रन्थपर्यन्तमिति बहुव्रीहिः । ग्रन्थमिति अन्यपदार्थाध्याहारः । अधीत इति तु न समासप्रविष्टम् । अन्तावयवेन श्रभिग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीत इत्यर्थः । अत्र कृत्स्नस्यानध्येतव्यत्वाद् श्रभिमन्थपर्यन्ताध्ययने तत्कात्स्न्यनवगमात् साकल्यात्पृथगुक्तिः । यथाऽसादृश्ये | असादृश्य इति छेदः, व्याख्यानात् । श्रसादृश्ये योग्यतावीप्सापदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यत इत्यर्थस्य यथार्थत्वादेव सिद्धेः नियमार्थमिदमित्याह--असादृश्य एवेति । ननु 'प्रकारवचने थाल्' इति विहितथास्यात्,अव्ययार्थप्राधान्यस्याव्ययीभावे औत्सर्गिकत्वादिति भावः । श्रन्त इति । इदानी तावान् प्रदशोऽध्येतव्य इति यावतो ग्रन्थ प्रदेशस्य परिग्रहः कृतस्तदपेक्षा समाप्तिरिहान्तशब्देन विवक्षिता, सा चासकलेऽप्यध्ययने भवतीति साकल्यात्पृथगुच्यते । साग्नीति | अग्निशब्दस्तत्प्रतिपादकग्रन्थे वर्तते, स च तृतीयान्तो नित्यं समस्यते । न चैवमग्निना सहेति प्रयोगो दुर्लभ इति वाच्यम्, साहित्यमात्रस्य विवक्षायां तत्प्रयोगस्योपपत्तेः । अन्तत्वविवक्षायां तु समासस्य नित्यत्वादग्निग्रन्थपर्यन्तमित्यस्वपदविग्रहो दर्शितः । यत्तु केचित् - अग्निरन्तोऽस्येति प्रथमान्तेनाग्नेरन्तत्वमिति षप्तपन्तेन वा विग्रहः, समासोऽपि प्रथमान्तेन षष्ठयन्तेन वेत्याहुः, तन्न, सहशब्दस्यान्तवाचकत्वाभावादन्तत्वस्य तु सुतरामलाभात्, सहयुक्ते तृतीयाया न्याय्यत्वाच्च सतृणमतीत्यत्र साकल्यस्येव सानीत्यत्रान्तत्वस्यापि साहित्यद्योत्यतया तत्र तृतीयान्तेन समासं स्वीकृत्य इह तत्परित्यागस्य निष्प्रमाणत्वाच्च । श्रत्रेदं बोध्यम् —' तदधीते-' इत्यध्येतृप्रत्ययस्य वैकल्पिकत्वात्साम्ग्नीत्यत्राण् नोक्तः । कृतेऽप्यध्येrणि 'सर्वादेः सादेश्व लुग्वक्तव्यः' इति वदयमाणत्वात्सामीत्येव रूपमिति । यथाऽसा । निःसंदेहाय 'सादृश्ये यथा' इत्येव वक्तव्ये Page #20 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्वबोधिनीसहिता । [ १७ हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन 'सादृश्य' इति वा 'यथार्थ' इति वा प्राप्तं निषिध्यते । ६६२ यावदवधारणे । ( २-१-८ ) यावन्तः श्लोकास्तावन्तो ऽच्युतप्रणामा यावच्छ्लोकम् । ६६३ सुप्प्रतिना मात्रार्थे । (२-१-१) शाकस्य लेशः शाकप्रति । मात्रार्थे किम्-वृक्षं वृक्षं प्रति विद्योतते विद्युत् । ६६४ ल्प्रत्यान्तस्य कथं सादृश्ये वृत्तिरित्यत आह- हरेरिति । सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन् प्रकारे थालिति 'प्रकारवचने थाल' इत्यस्यार्थः । ततश्च यद्विशेषधर्मवान् हरिः तद्विशेषधर्मवान् हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोः अभेदावगमाद् उपमानत्वप्रतीतिरिति भावः । तेनेति । प्राप्तमित्यत्रान्वयः । सादृश्यार्थकत्वेनेत्यर्थः । सादृश्य इति वेति । 'अव्ययं विभक्ति -' इति सूत्रगतेन सादृश्य वर्त - मानमव्ययं समस्यत इत्यंशेन वा यथार्थे विद्यमानमव्ययं समस्यत इत्यंशेन वा प्राप्त - मव्ययीभावसमासकार्यं निषिध्यत इति भावः । भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृश्येत्यनेनैव प्राप्तिरुक्ता, न तु यथार्थत्वेन प्राप्तिरुक्ता । यथाशब्दस्य सूत्रगृहत्विन तद्योगे यथार्थैत्यप्रवृत्तेरिति तदाशय इति शब्देन्दुशेखरे विस्तरः । यावदवधारणे । इयत्तापरिच्छेद गम्ये यावदित्यव्ययं समस्यते । सोऽव्ययीभाव इत्यर्थः । यावन्त इति । यत् परिमाणे येषामिति विग्रहे 'यत्तदेतेभ्यः परिमाणे वतुप्' इति वतुप्प्रत्ययः । यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेन स्वपदविग्रहौचित्यात् । अवधारणे किम् । यावद्दत्तं तावद्भुक्तम् । इयद् भुक्तमिति नावधारयतीत्यर्थः । सुप्रतिना मात्रार्थे । सुबिति छेदः । माता लेशः । तस्मिन्नर्थे विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः । सुबित्यनुवर्तमाने पुनः सुग्रहणं संनिहितस्याव्ययमित्यस्याननुवृत्त्यर्थम् । तद् ध्वनयन्नुदाहरति — शाकस्य लेशः शाकप्रतीति । अत्र प्रतीत्यव्ययं मात्रार्थकम् । अतस्तेन शाकस्येति सुबन्तस्य समासः । समासविधौ सुबन्तस्य प्रथमानिर्दिष्टत्वेन उपसर्जनत्वापूर्वनिपातः, न तु प्रतेः, तस्य समासविधौ तृतीयानिर्दिष्टत्वात् । वृक्षं वृक्षं प्रतीति । अत्र प्रतेः मात्रार्थकत्वाभावाद् न तेन समासः । विपरीतोच्चारणं नञः श्लेषलाभार्थमिति व्याचष्टे - सादृश्य इति । यावन्त इति । यत्परिमाणमेषां ते । ‘यत्तदेतेभ्यः -' इति वतुप् । यावच्लोकमिति । यावदित्यव्ययं समस्यते, विग्रहस्तु तद्धितान्तेनेत्यस्वपदविग्रहत्वमस्त्येव । अवधारणे किम्, यावद्दत्तं तावद्भुक्तम्, कियद् भुक्कं वा नावधारयतीत्यर्थः । सुप्प्रतिना । सुबित्यनुवर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थमिति ध्वनयन्नुदाहरति — शाकप्रतीति । नन्वारम्भसामर्थ्यादव्ययभिन्नमेव सुप्समस्यत इति चेत्, अत्राहुः - पुनः सुब्ग्रहणाभावे दोषामन्यमहः, दिवामन्या रात्रिरिति वृत्तिविषये सत्त्वप्रधानतादर्शनात्तादृशान्यया. Page #21 -------------------------------------------------------------------------- ________________ १८] सिद्धान्तकौमुदी । [ अव्ययीभाव , अक्षशलाकासंख्याः परिणा । ( २-१-१०) द्यूतव्यवहारे पराजय एवायं समासः । श्रक्षेण विपरीतं वृत्तमक्षपरि । शलाकापरि । एकपरि । ६६५ विभाषा । न च 'लक्षणेत्थम् -' इति कर्मप्रवचनीयत्वविधानसामर्थ्यादेवाल समासो न भविष्यति, सति समासे द्वितीयायाः षष्ठ्या वा लुकि अविशेषात् सकृत्प्रवृत्ततया समासात्तद्विभक्त्यनुत्पत्तेरिति वाच्यम्, वृक्षं प्रति सिञ्चति इत्यादौ ' उपसर्गात् सुनोति -' इति षत्वनिवृत्त्या कर्मप्रवचनीयत्वस्य चरितार्थत्वादित्यन्यत्र विस्तरः । अक्षशलाका । समस्यन्ते सोऽव्ययीभाव इति शेषः । द्यूतव्यवहार इति । वार्तिकमिदम् । इदं द्यूतं तावत् पञ्चभिः अक्षैः शलाकाभिर्वा भवति । यदि अक्षाः शलाका वा कृत्स्ना उत्ताना अवाञ्च वा पतन्ति, तदा पातयिता जयति । अन्यथा पराजयत इति स्थितिः । श्रक्षेणेति । कर्तरि तृतीया । विपरीतं वृत्तमित्यत्र वृतेर्भावे क्तः । विपरीतमिति क्रियाविशेषणम् । जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः । शलाकापरीति । शलाकया विपरीतं वृत्तमिति भावः । एकपरीति । एकेन विपरीतं वृत्तमित्यर्थः । एवं द्विपरि न्येव मात्रार्थे प्रतिना समस्येरन् तथा च दिवसस्य लेशो दिवाप्रति दोषाप्रतीत्यादीनामेवोदाहरणत्वं संभाव्येतेति । वृक्षं प्रतीति । ननु लक्षणादौ प्रतेः कर्मप्रवचनीयसंज्ञाविधानसामर्थ्याद् द्वितीयागर्भ वाक्यमेव स्यात्, न तु समासः, तस्य लेशार्थे सावकाशत्वादिति चेत् । मैवम् वृक्षं प्रति सिञ्चन्तीत्यादौ षत्वनिवारकत्वेन कर्मप्रवचनीयसंज्ञाविधानस्य चरितार्थत्वान्मात्रार्थग्रहणाभावे लक्षणादावप्यनेन समासप्रसङ्गात् । वीप्सायामव्ययीभावे तु प्रत्यादेः पूर्वनिपातत्वे प्रत्यर्थं सिञ्चन्तीत्यादौ षत्वाप्रसक्त्या कर्म - प्रवचनीयविधानस्याचरितार्थतया तत्सामर्थ्याद् द्वितीयागर्भं वाक्यमपीत्युक्तं मूलकृता 'अव्यये विभक्ति -' इति सूत्रे । अत्र नव्याः – प्रत्यर्थमित्यव्ययीभावे वीप्सायां द्योतक - त्वेन विद्यमानमव्ययं समस्यते । वीप्साद्योतकस्य यदि कर्मप्रवचनीयसंज्ञाविधिः स्वीक्रियते, तदापि प्रतिस्तवनं प्रतिस्थानमित्यादौ षत्वनिवारणाय प्रतीत्यस्य कर्मप्रवचनी - यसंज्ञा चरितार्थैव । वस्तुतस्तु वीप्सायां विषयभूतायां प्रत्यादेः कर्मप्रवचनीयसंज्ञा, न तु वीप्साद्योतकस्यैव । अन्यथा वृक्षं वृक्षं प्रति सिचन्तीत्यत्र 'द्विर्वचनेनैव वीप्सा द्योत्यते । प्रतिशब्दस्तु क्रियया संबध्यते । कर्मणि द्वितीया । कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् षत्वं न' इत्यादिमनोरमाग्रन्थो ' लक्षणेत्थंभूता -' इति सूत्रस्थो दत्तजलाञ्जलिः स्यात् । ततश्च संज्ञाविधानसामर्थ्यस्योपक्षीणत्वाद् अर्थमर्थं प्रतीत्यादिभाष्यप्रयोगादेव द्वितीयागर्भ वाक्यमपि भवतीत्येवं व्याख्येयमित्याहुः । पराजयं द्योतयितुमाहविपरीतं वृत्तमिति । पूर्वं जये यथा वृत्तं तथा न वृत्तमित्यर्थः । एकपरीति । एकेन विपरीतं वृत्तमित्यर्थः । एवं द्विपरीत्यादि - ' विभाषापपरिबहिर् -' इति योगं " 1 Page #22 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६ ( २ - १ - ११ ) अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचानानां नित्यसमासत्वम् । 'सुसुपा' इति तु न नित्यसमासः । श्रव्ययम् इत्यादिसमासविधानाज्ज्ञापकात् । त्रिपरि इत्यादि । विभाषा । अधिकारोऽयमिति । ततश्च उत्तरत्र समासविधिषु एतदनुवर्तत इति लभ्यते । ननु 'प्राक्कडारात् समासः' इत्यत ऊर्ध्वं 'सह सुपा' इत्यतः प्रागेव कुतो विभाषाधिकारो न कृत इंत्यत आह - एतत्सामर्थ्यादिति । मध्ये विभाषाधिकारपाठसामर्थ्यादेवेतः प्राचीनानां नित्यसमासत्वं गम्यत इत्यर्थः । यद्यपीतः प्राचीनानां विकल्पे प्रमाणाभावादेव नित्यत्वं सिद्धम् । तथापि तस्यैव लिङ्गेन दृढीकरणमिति बोध्यम् । नन्वेवं सति 'सुप्सुपा' इत्यपि नित्यसमासः स्यात् । ततश्च पूर्वं भूतः इति लौकिकविग्रहवाक्यमनुपपन्नं स्यात् । 'सुप्सुपा' इति विषये विस्पष्टं पटुः विस्पष्टपटुरिति विग्रहप्रदर्शनपरम् 'श्रा कडारात् -' इति सूत्रस्थभाष्यमपि विरुध्येतेत्यत आहसुप्सुपेति तु न नित्यसमास इति । कुत इत्यत आह - अव्ययमित्यादीति । 'आ कडारात्' इत्येव सिद्धे 'प्राक्कडारात्' इति प्राग्ग्रहणं समाससंज्ञाया श्रव्ययीभावादिसंज्ञासमावेशार्थम् । अन्यथा एकसंज्ञाधिकारात् पर्यायः स्यादिति 'श्रा कडारात् -' इति सूत्रे भाष्ये स्थितम् । तत्र 'अव्ययं विभक्ति - ' इत्याद्यव्ययीभावादिविधिषु 'सुप्सुपा' इति समासमनूद्य नाव्ययीभावादिसंज्ञा विधेयाः । 'उपपदमतिङ्' 'कर्तृकरणे कृता बहुलम्' 'आख्यातमाख्यातेन क्रियासातत्ये' इत्यादौ सुबन्तस्य सुबन्तेन समासस्य उद्देश्यस्याप्रसिद्धेः । अतस्तेषु समासविधानस्यावश्यकत्वाद् अर्थाधिकारानुरोधात् सर्वत्र समा इत्यनुवृत्तं विधेयसमर्पकमित्यास्थेयम् । तत्र 'सुप्सुपा' इत्येव सिद्धे 'अव्ययं विभक्ति-' इत्याद्यव्ययीभावादिविधिषु समाससंज्ञाविधानं व्यर्थ सत् ततः प्राचीनविधेवैकल्पिकत्वं ज्ञापयति । न चाव्ययीभावादिविधिषु समासविध्यभावे अव्ययादीनां समासशास्त्रे प्रथमा - विभज्य व्याचष्टे – विभाषेति । इतः प्राचीनानां समासानां विघुभादिसंज्ञानामिव वाग्रहणाभावान्नित्यत्वं न्यायत एव सिद्धम्, तच्च लिङ्गेनापि द्रढयति - एतदिति । नन्वेवं 'सुप्सुपा' इत्यपि नित्यं स्यात्, इष्टापत्तौ तु 'पूर्वं भूतो भूतपूर्वः सुप्सुपेति समासः' इति वृत्तिग्रन्थो विरुध्येत । तथा शाकलसूत्रे 'सिन्नित्यसमासयोः शाकलप्रतिषेधः' इत्यत्र 'नित्यग्रहणेन नार्थः, इदमपि सिद्धं भवति वाप्यामश्वो वाप्यश्वः' इति भाष्यं कैयटो व्याख्यत् - 'वाप्यश्व इति 'सुप्सुपा' इति समासः, 'संज्ञायाम्' इति सप्तमीसमासस्य तु नित्यत्वात्सिद्धः प्रतिषेध इति, सोऽपि ग्रन्थो विरुध्येतेत्याशङ्कायामाह – सुप्लुपति त्विति । नन्वत्र किं प्रमाणमित्यत आह-अव्ययमित्यादीति । सुप्सुप्रत्ययेनैव सिद्धे समासे ‘अव्ययम् -' इत्यादिसूत्रैः पुनः समासविधानं प्राचीनस्य क्वाचित्कतां ज्ञापयतीत्यर्थः । एवं च इवेन समासत्यापि काचित्कत्वाद् 'उद्वाहुरिव वामनः' इत्यादि Page #23 -------------------------------------------------------------------------- ________________ २० ] सिद्धान्तकौमुदी । [ श्रव्ययीभाव ६६६ अपपरिबहिरञ्चवः पञ्चम्या । ( २-१ -१२ ) अपविष्णु संसारः, अप विष्णोः । परिविष्णु, परि विष्णोः । बहिर्वनम्, बहिर्वनात् । प्राग्वनम्, प्राग्वनात् । ६६७ आङ् मर्यादाऽभिविध्योः । ( २-१-१३ ) एतयोराड् पञ्चम्यन्तेन वा निर्दिष्टत्वाभावेन उपसर्जनत्वाभावात् पूर्वनिपातनियमो न स्यात्, तदर्थमव्ययीभावादिविधिषु समासविधानं चरितार्थमिति वाच्यम्, 'प्रथमानिर्दिष्टम् -' इति सूत्रे समास इत्यस्य समासत्वव्याप्याव्ययीभावादिविधायके शास्त्रे इत्यर्थाभ्युपगमेन अव्ययादीनाम् उपसर्जनत्वसिद्धेर्वक्तुं शक्यत्वात् । तस्मादव्ययीभावादिविधिषु समासविधानं 'सुप्सुपा' इति समासस्य वैकल्पिकत्वं ज्ञापयतीति स्थितम् । 'आ कडारात् -' इति सूत्रे 'सुप्पा' इति समासविषये 'विस्पष्टं पटुर्विस्पष्टपटुः' इति विग्रहप्रदर्शनपर भाष्यं चेह लिङ्गमित्यलं बहुना । एवं च 'इवेन समासः -' इत्यादि वैकल्पिकमिति सिद्धम् । यद्यपि नित्यसमासाधिकारे 'कुगति -' इत्यत्रापि इवेनेति वार्तिकं पठितम् तथापि 'सुप्सुपा' इत्यत्र पठितमेव तत्रापि स्मार्यत इति कैयटः । , अपपरिबहिः । समस्यते सोऽव्ययीभाव इति शेषः । अपविष्विति । अत्र अप इत्यव्ययं वर्जने । विष्णुं वर्जयित्वा संसरणमित्यर्थः । अप विष्णोरिति । लौकिकविग्रहवाक्यम्, समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाभावात् । 'पपरी वर्जने' इति श्रपेत्यव्ययस्य कर्मप्रवचनीयत्वात् तद्योगे पञ्चम्यपापरिभिः' इति पञ्चमी । तदन्तेन अपेत्यस्याव्ययीभावसमासः, सुब्लुकं । प्रपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । समासात् सुबुत्पत्तिः । 'अव्ययादाप्सुपः' इति लुक् । एवं यथायथमग्रेऽपि ज्ञेयम् । परिविष्णिवति । अत्रापि परिवर्जने । पञ्चम्यादि पूर्ववत् । बहिर्वनम् बहिर्वनादिति । श्रस्मादेव ज्ञापकाद् बहिर्योगे पञ्चमी । इतरत् पूर्ववत् । श्रदन्तत्वादम्भावः । प्राग्वनम्, प्राग्वनादिति । श्रञ्चूत्तरपदयोगे पञ्चमी । आङ् मर्यादाभिविध्योः । एतयोरिति । मर्यादाभिविध्योः विद्यमान इत्यर्थः । मर्यादाया सिद्धम् । 'इवेन -' इति वार्तिकं तु यद्यपि 'कुगति-' इत्यत्र पठ्यते, तथापि 'सुप्सुपा' इत्यत्रत्यमेव नित्याधिकारे स्मारितमिति कैयटः । एवं स्थिते 'उद्वाहुरिव वामनः' इत्यादि - लोकप्रयोगसिद्धये इवेन समासस्य छन्दोविषयकत्वं कल्पयन्तः प्रत्युक्ताः । छन्दस्यपि तत्समासस्य नित्यत्वानभ्युपगमात् । जीमूतस्येवेत्यत्र हि बहूवचैः समासाभ्युपगमेऽपि तैत्तिरीयैर्व्यस्तस्यैव पाठात् । एतच्च मनोरमायां स्थितम् । श्रपपरिबहि । अपपरियोगे 'पञ्चम्यपाड्परिभिः' इति पञ्चमी विहिता, अञ्चूत्तरपदयोगेऽपि 'अन्यारात् -' इत्यादिना विहितैव । तेनात्र 'पञ्चम्या' इति ग्रहणं 'बहिर्योगे पञ्चमी भवति' इति ज्ञापना 1 Page #24 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २१ समस्यते, सोऽव्ययीभावः । श्रामुक्ति संसारः, श्रा मुक्तेः । आबालं हरिभक्तिः, श्रा बालेभ्यः । ६६८ लक्षणेनाभिप्रती श्रभिमुख्ये । (२-१-१४) श्राभिमुख्यद्योतकाभिप्रती चिह्नवाचिना सह प्राग्वत् । श्रभ्यग्नि शलभाः पतन्ति, अभिमभि । प्रत्यग्नि, अग्निं प्रति। ६६६ अनुर्यत्समया । (२-१-१५) यं पदार्थ समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते, सोऽव्ययीभावः । श्रनुवनमशनिर्गतः । वनस्य समीपं मुदाहरति — मुक्तीति । मुक्तेः प्रागित्यर्थः । अभिविधावुदाहरति — आबालमिति । बालानारभ्य इत्यर्थः । 'आङ् मर्यादावचने' इत्युभयत्रापि कर्मप्रवचनीयत्वात् ''पञ्चम्यपापरिभिः' इति पञ्चमी । लक्षणेनाभि । लक्षणेनेत्येतद्याचष्टे – चिह्नवाचिनेति । प्राग्वदिति । समस्येते सोऽव्ययीभाव इत्यर्थः । अभ्यग्नि शलभाः पतन्तीति । शलभाः क्षुद्रजन्तुविशेषाः स्थूलमक्षिकाः । अग्निमभीति । विग्रहोऽयम् । ‘अभिरभागे’ इति ‘लक्षणेत्थम् -' इति चाभिप्रत्योः कर्मप्रवचनीयत्वम्, अग्निज्ञाप्यं तदभिमुखं च शलभपतनमित्यर्थः । श्रनुर्यत्समया । लक्षणेनेत्यनुवर्तते । यदिति समयायोगे 'अभितः परितः -' इति द्वितीयान्तं सामान्ये नपुंसकम्, तदाहयं पदार्थमिति । श्रनुवनमिति । श्रत्र वनशब्दो वनसमीपदेशे लाक्षणिकः । र्थम् । 'ज्ञापकसिद्धं न सर्वत्र' इति 'करस्य करभो बहिः' इत्यपि सिद्धम् । आबालमिति । आ परमाणोरा च भूगोलकम्' इति किरणावली प्रयोगस्तु प्रामादिकः । समासमध्ये चशब्दप्रयोगासंभवात् । ' च भूगोलकात्' इति पाठस्तूचितः । लक्ष. रोना । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरस्तदाह - चिह्नवाचिनेति । इहाभिप्रती लक्ष्यलक्षणभावम् श्रभिमुख्यं चेत्युभयं द्योतयत इति फलितम् । श्रग्निमभि । अग्निं प्रतीति । 'अभिरभागे' 'लक्षणेत्थंभूता-' इत्यनेन च अभिप्रत्योः कर्मप्रवचनीयत्वाद् द्वितीया । लक्षणेनेति किम् स्रुघ्नं प्रतिगतः । स्रुघ्नादागतस्तमेव प्रवृत्त इत्यर्थः । अत्र हि स्रघ्नः कर्म, न तु लक्षणम् । अभिप्रतीति किम्, येनाग्निस्तेन गतः । येन पथा अग्निर्गतस्तेन गत इति प्रतीतेर्भवति गमनस्याग्निर्लक्षणम् श्रभिमुख्यमप्यस्तीति येनतेनशब्दयोरग्निशब्देन समासः स्यात् । श्रभिमुख्ये किम् अभ्यङ्का गावः । प्रत्यङ्काः । अभिनवः प्रतिनवश्चाङ्क श्रासामिति बहुव्रीहिः । श्रङ्को ह्यत्र भवति गव लक्षणम्, ; श्राभिमुख्यं तु नास्ति । ननूत्सर्गत श्रव्ययार्थ प्राधान्येऽव्ययीभावस्वीकारात्कथमिह प्रसङ्गः । अत्राहुः - इह प्रकरणे बहुव्रीहिविषये श्रव्ययीभावो भवतीति ज्ञापनार्थमिदम् । तेन ‘संख्या वंश्येन, द्विमुनि व्याकरणमित्यादि सिद्धमिति । अनुर्यत्स । यदिति समयायोगे द्वितीयेति ध्वनयति-यं पदार्थमिति । यस्य पदार्थस्य समीप - 'मित्यर्थः । लक्षणेनेत्यनुवर्तत इत्याह- लक्षणभूतेनेति । चिह्नवाचिनेत्यर्थः । 'श्रव्ययं > ु · > । Page #25 -------------------------------------------------------------------------- ________________ २२] सिद्धान्तकौमुदी। [अव्ययीभाव गत इत्यर्थः।६७० यस्य चायामः। (२-१-१६) यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी । गङ्गाया अनु । गङ्गादैर्ध्यसदृशवनसमीपस्य लक्षणत्वं वस्तुसदेव निमित्तम् , तदाह-वनस्य समीपंगत इत्यर्थ इति । वस्तुतो लक्षणीभूतस्य वनस्य समीपं गत इति यावत् । 'अव्ययं विभक्तिइत्यादिना सिद्धे विभाषार्थमिदं सूत्रम् । ततश्च वनस्यानु इति लौकिकविग्रहवाक्यमुदाहार्यम् । नात्र कर्मप्रवचनीयसंज्ञा शङ्कया, वस्तुसत एवात्र लक्षणत्वस्य निमित्तत्वाश्रयणात् । लक्षणत्वस्य निमित्तत्वे तु वनमनु इत्येव वाक्यमुदाहार्यम् । यस्य चायामः। लक्षणेनेत्यनुवर्तते । अनुरित्यनुवर्त्य आवर्त्य तृतीयया विपरिणम्यते । तत्र एक लक्षणेनेत्यत्र संबध्यते। द्वितीयं तु अनुनेत्येतद् 'यस्य चायामः' इत्यनन्तरं संबध्यते। द्योत्यत इति शेषः । श्रआयामो दैर्घ्यम् , तदाह—यस्य दैर्ध्यमिति । यदैर्घ्यसदृशं दैर्ध्यमित्यर्थः । समस्यत इति । सोऽव्ययीभाव इत्यपि बोध्यम् । अनुगङ्गमिति समासः । लौकिकविग्रहं दर्शयति-गङ्गाया अन्विति । इहापि लक्षणत्वं वस्तुसदेव निमित्तम् न त्वनुद्योत्यम् । अतो न कर्मप्रवचनीयत्वम् । द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम् । अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैर्ध्यसदृशं दैर्घ्य लक्ष्यते । तदेविभक्ति-' इत्यनेन सिद्ध विभाषार्थ सूत्रम् । तेन पक्षे 'वनस्यानु' इत्युदाहार्यमिति मनोरमायां स्थितम् । अत्र वदन्ति-वनस्येति षष्ठीह दुलेभा, कर्मप्रवचनीययुक्ते द्विती. याया दुरित्वात् , तत्सामर्थ्यात्समया लङ्कामितिवत्समासबाधे प्रसक्ते अस्य विध्यर्थत्वात्। न चायमनुः सामीप्यमात्रद्योतकः,न लक्ष्यलक्षणभावद्योतकश्चेति वाच्यम् , लक्षणेनेत्यनुवृत्तिवैयर्थ्यात् । न चैवमपि लक्षणमात्रद्योतकत्वं नास्तीति वाच्यम् , 'लक्षणेत्थम्-' इत्यत्र मात्रपदाभावात् । अग्निमभि, अमिं प्रतीति पूर्वसूत्रस्थोदाहरणप्रत्युदाहरणविरोधाच्च । अतोऽत्र पक्षे वनमनु इत्युदाहार्यम् । वनस्य समीपं गत इति मूलस्थं विवरणवाक्यं तु लक्षणभूतस्य वनस्य समीपं गत इति व्याख्येयमिति । अन्विति किम् , ग्राम समया । यत्समयेति किम् , वृक्षमनु विद्योतते विद्युत् । लक्षणेन किम् , अनुवनम् । उपकृष्णमितिवदत्र नित्यमव्ययीभावः । यस्य चा । इहानुरित्यनुवत्य आवृत्त्यैकं तृतीयान्तत्वेन विपरिणमय्य व्याचष्टे-अनुनेति । लक्षणभूतेनेति । लक्षणेनेत्यनुवर्तत इति भावः । अनुगङ्गमिति । इहायामोपलक्षणत्वं चानुना द्योत्यते, लक्ष्यं तु समासार्थः । अत एव वाराणस्या सामानाधिकरण्यम् । एवं स्थिते फलितमाहगङ्गादैर्येति । वाराणसीति । वरं च तदनश्च वरानः श्रेष्टोदकम् । 'अनः क्लीबं जले शोके मातृस्यन्दनयोर्द्वयोः' इति रुदरभसौ। तस्यादूरे भवा । 'अदूरभवश्च' इत्या , आदिवृद्धिः, 'पूर्वपदात्संज्ञायाम्-' इति णत्वम् । गङ्गाया अन्विति । समासाभावपक्ष Page #26 -------------------------------------------------------------------------- ________________ प्रकरणम् १७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३ दैोपलक्षितेत्यर्थः । ६७१ तिष्ठद्गुप्रभृतीनि च । (२-१-१७) एतानि निपात्यन्ते । तिष्ठन्ति गावो यस्मिन् काले स तिष्ठद्गु दोहनकालः। प्रायतीगवम्। इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते । इत्यादि । ६७२ पारे मध्ये षष्ठया वा।(२-१-१८) पारमध्यशब्दौ षष्टयन्तेन सह वा समस्येते। एदन्तस्वं चानयोनिपात्यते । पते षष्ठीतत्पुरुषः । पारेगङ्गादानय, गङ्गापारात् । वानुद्योत्यम् । तदाह-गङ्गादैयेति । तिष्ठद्गुप्रभृतीनि च । एतानीति । शब्दरूपाणीत्यर्थः । तिष्ठन्ति गाव इति । फलितार्थकथनम् । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गु इत्येव वक्तव्यम् , 'सुप्सुपा' इत्यनुवृत्तेः । दोहनकाल इति । तदा गवां शयनोपवेशनयोरभावादिति भावः । आयतीगवमिति । आयत्यो गावो यस्मिन् काले इति विग्रहः । इहेति । उदाहरणद्वय इत्यर्थः। शत्रादेश इति । तिष्ठन्त्यो गाव इति आयत्यो गाव इति च प्रथमासमानाधिकरणत्वाद् ‘लटश्शतृशानचौ-' इत्यप्राप्तौ तन्निपातनमिति भावः । पुंवद्भावेति । तिष्ठन्तीशब्दस्येव आयतीशब्द. स्यापि 'स्त्रियाः पुंवत्-' इति पुंवत्त्वस्य प्राप्तौ तदभावो निपात्यत इति भावः । समासान्तश्चेति । आयतीगोशब्दस्य टच समासान्तो निपात्यते, तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः । समासान्तश्चेति चकाराद् अव्ययीभावश्च निपात्यत इति ज्ञेयम् । तथा च तिष्ठद्गोशब्दस्य नपुंसकह्रस्वत्वम् । अव्ययत्वात् सुपो लुक् । आयतीगवशब्दात्तु 'नाव्ययीभावात्-' इत्यम्भाव इत्यादि फलति । इत्यादीति। खलेयवं खलेबुसम् इति सप्तम्या अलुग इत्यादि ग्राह्यम् । पारे मध्ये षष्ठया वा। पारे मध्ये इति न सप्तम्यन्तयोर्ग्रहणम् । किं तु पारमध्यशब्दयोरेवेत्याह-पारमध्यशब्दाविति । समस्यते इति । अव्ययीभावसंज्ञौ चेत्यपि बोध्यम् । ननु पारमध्यशब्दयोरकारान्तयोः ग्रहणे कथमेकारनिर्देश इत्यत आह-एदन्तत्वं चेति । ननु विभाषा इत्यधिकारादेव सिद्धे वाग्रहणं किमर्थमित्यत आह-पक्षे षष्ठीतत्पुरुष इति । वाग्रहणाभावेऽयमव्ययीभावसमासो विशेषविहित्वात् षष्ठीसमास बाधेत । तदबाधार्थ वाग्रहणमिति भावः । पारेगङ्गादानयेति । गङ्गायाः पाराद् इति विग्रहे अव्ययीप्रागुक्तरीत्या गङ्गामन्वित्युदाहार्यमित्याहुः । तिष्ठद्गुप्रभृतीनि च । चकार एक्कारार्थे । तेनैषां वृत्त्यन्तरं न भवति, परमतिष्ठद्गु इत्यादि न भवतीत्यर्थः । तिष्ठदग्विति । गोस्नियोः-' इति ह्रस्वः । प्रथमासमानाधिकरणे शत्रादेशस्यासंभवादाहइह शत्रादेश इति । इत्यादीति । आदिशब्देन खलेयवम् , खलेबुसम् । सप्तम्या अलुक् । लूनयवम्-लूयमानयवमित्यादि ग्राह्यम् । पारेमध्ये । निपात्यत इति। यत्र सप्तम्यर्थो न संभवति तदर्थमेकारान्तत्वनिपातनम् । सप्तम्यर्थसंभवे तु 'तत्पुरुषे Page #27 -------------------------------------------------------------------------- ________________ २४ ] सिद्धान्तकौमुदी | [ अव्ययीभाव मध्येगङ्गात्,गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गाया भावसमासे सति सुब्लुकि पारशब्दस्य पूर्वनिपाते निपातनादेत्वे नपुंसकहस्वत्वे पारेगङ्गशब्दात् समासात् पुनः पञ्चम्युत्पत्तिः । 'अव्ययादाप्-' इति न लुक्, अदन्ततया 'नाव्ययीभावात् -' इति निषेधात् । पञ्चम्या इति पर्युदासादम्भावश्च नेति भावः । गङ्गापारादिति । षष्ठीसमासपक्षे ज्ञेयम् । मध्येगङ्गादिति । पारेगङ्गादितिवद्रूपम् । गङ्गामध्यादिति । षष्ठीसमासे ज्ञेयम् । पारे मध्ये इति सप्तम्यन्ते षष्ठ्या समस्येत इति व्याख्याने तु गङ्गायाः पारे मध्ये इति विग्रहे समासे सति 'तत्पुरुषे कृति बहुलम्' इति बहुलग्रहणात् सप्तम्योरलुकि नपुंसकहस्वत्वे समासात् पुनरुत्पन्नायाः सप्तम्या अम्भाव पारेमध्यं पारेगङ्गम् इति सिद्धेः एकारनिर्देशो व्यर्थः स्यात् । अतो यत्र सप्तम्यर्थो न संभवति तदर्थमेकारनिपातनमिति भाष्ये स्पष्टम् । एतत्सूचनायैव पञ्चम्यन्तोदाहरणमिति बोध्यम् । ननु यदि वाग्रहणमिह पक्षे षष्ठीसमास प्राप्त्यर्थमेव स्यात्, तर्हि गङ्गाया मध्यादिति वाक्यं न स्यादित्यत आह- महाविभाषयेति । विभाषेत्यधिकृता महाविभाषा । सर्वेषु समासविधिषु प्रायेण तस्यानुवृत्तेः महत्त्वं बोध्यम् । ननु अव्ययीभावसमासस्य षष्ठीसमासापवादत्वेऽपि तस्य महाविभाषया वैकिल्पकत्वात् तदभावपक्षे उत्सर्गतः षष्ठीतत्पुरुषः प्रवर्तत एव । तस्यापि षष्ठीसमासस्य विभाषाधिकारस्थत्वेन वैकल्पिकत्वात् तदभावपक्षे वाक्यमपि सिध्यत्येव । तस्मादिह सूत्रे वाग्रहणं व्यर्थमेवेति चेत्, उच्यते, 'यत्र उत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति ज्ञापनार्थमिह वाग्रहणम् । तेन पूर्वं कायस्येत्यत्र एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति । दक्षस्यापत्यं दाक्षिरित्यत्र श्रत इञा मुक्ते 'तस्यापत्यम्' इत्यण् न भवति, किं तु वाक्यमेवेति भाष्ये स्पष्टम् । कृति बहुलम्' इति बहुलग्रहणादलुकापि सिद्धेः, अतोऽत्र सप्तम्यर्थाभाव सूचनाय पञ्चम्यन्तमुदाहरति — पारेगङ्गादिति । महाविभाषयेति । नन्वपवादेऽव्ययीभावे महाविभाषया विकल्पिते पक्षे तदुत्सर्गः षष्ठीतत्पुरुषः प्रवर्तते, तस्यापि विभाषाधिकारस्थत्वेन वैकल्पिकत्वात्पक्षे वाक्यमपि सिध्यतीति सूत्रे वाग्रहणं व्यर्थमेवेति चेत्, अत्राहुः — महाविभाषया एकार्थीभावस्य पाक्षिकत्वे यदा एकार्थीभावस्तदा षष्ठीसमासं बाधित्वा नित्यमव्ययीभावे प्राप्ते पते षष्ठीसमाससमावेशार्थमिह वाग्रहणम् । व्यपेक्षा - सामर्थ्यमेके' इति पक्षे तु वृत्तावपि व्यपेक्षालक्षणमेव सामर्थ्यमिति वाक्यस्य निय प्रसक्ते तया वृत्तिर्विकल्प्यते । तथा चाव्ययीभावे विकल्पिते पूर्वोक्तरीत्या पक्षे तत्पुरुषस्तस्यापि वैकल्पिकत्वाद्वाक्यमपि सिद्धयत्येव, तथापि 'यत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति ज्ञापनायेदम् । तेन पूर्वकाय Page #28 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २५ 1 मध्यात् । ६७३ संख्या वंश्येन । ( २-१-१६) वंशो द्विधा, विद्यया जन्मना च, तत्र भवो वंश्यः, तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ द्विमुनि व्याकरणस्य | त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशतिभारद्वाजम् । ६७४ नदीभिश्च । ( २-१ -२० ) नदीभिः सह संख्या संख्या वंश्येन । वंशो द्विधति । वंशः संततिः । ' संततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः संतानः' इत्यमरः । विद्यया जन्मनेति । तत्र जन्मना वंशः पुत्रादिपरम्परेति प्रसिद्धमेव । विद्यया तु वंशः गुरुपरम्परा, 'यस्माद्धर्मानाचिनोति स आचार्यः । तस्मै न दुह्येत् कदाचन । स हि विद्यतस्तं जनयति । 'तच्छ्रेष्ठं जन्म । शरीरमेव मातापितरौ जनयतः' इत्याद्यापस्तम्बस्मरणात् । तत्र भवो वंश्य इति । दिगादित्वाद् यत् । वा समस्यत इति । सोव्ययीभाव इत्यपि बोध्यम् । I मुनी वंश्याविति । विग्रहोऽयम् । मुनिशब्दो विद्यावंश्यवाचीति सूचनाय वंश्यावित्युक्तम् । द्विमुनि व्याकरणस्येति । द्वौ च तौ मुनी चेति विग्रहे 'विशेषणं विशेष्येण बहुलम्’इति कर्मधारयं बाधित्वा अव्ययीभावः । अव्ययत्वात् सुब्लुक् । व्याकरणविद्यायाः प्रर्वतकौ द्वौ मुनी पाणिनिकात्यायनावित्यर्थः । त्रिमुनीति । त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः । नन्वेवं त्रिमुनि व्याकरणमिति सामानाधिकरण्यानुपपत्तिरित्यत आह - विद्यातद्वतामिति । यद्यपि बहुव्रीहिणाप्येतत् सिद्धम् । तथापि विभक्त्यन्तरेषु रूपभेद इत्याहुः । अथ जन्मना वंश्यमुदाहरति - एकविंशतिभारद्वाजमिति । एकविंशतिः भरद्वाजा इति कर्मधारयं बाधित्वा अव्ययीभावः । तत्र विग्रहवाक्ये भरद्वाजशब्दाद् विदादित्वादञ् । 'यनञोश्व' इति लुक् । समासे तु ‘उपक्रादिभ्योऽन्यतरस्यामद्वन्द्वे ' इति लुगभावः । ' तृतीयासप्तम्योर्बहुलम्' इति सूत्रे 'एकविंशतिभारद्वाजम्' इति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात् । स्येत्येकदेशिसमागन मुक्ते षष्ठीसमासो न भवति, दक्षस्यापत्यं दाक्षिरित्यत्र अतइना मुक्ते अण् न भवति, किंतूभयत्र वाक्यमेवेति । संख्या वंश्येन । वंशः संतानस्तत्र भवो वंश्यः । दिगादित्वात् । द्विमुनीति | प्राणिनिकात्यायनौ । त्रिमुनीति । तौ द्वौ पतञ्जलिश्चेति त्रयो वंश्याः । व्याकरणस्येति संबन्धे षष्ठी | स्वपदार्थ प्राधान्य एवायं समासः । यदा त्वन्यपदार्थप्राधान्यविवक्षा त्रयो मुनयो वंश्या यस्येति तदा बहुव्रीहिरेवेत्याहुः । त्रिमुनि व्याकरणमिति । यद्यप्येतद्बहुव्रीहिणाऽप्युपपन्नम्, तथापि विभत्तयन्तर रूपेऽपि विशेषोऽस्त्येवेति भावः । वस्तुतस्तु 'लक्षणेनाभिप्रती -' इति साभिमुख्यग्रहणाद्बहुव्रीहिविषयेऽप्यव्ययीभावो भवतीति द्विमुनि व्याकरणमित्यादि १ अयं विरामो बालमनोरमानुरोधेन । तत्त्वबोधिनीमते तु 'द्विमुनि' इत्येवं द्विमुनिशब्दानन्तरं विरामः । Page #29 -------------------------------------------------------------------------- ________________ २६ ] सिद्धान्तकौमुदी। [अव्ययीभाव. प्राग्वत् । 'समाहारे चायमिष्यते' ( वा १२४६ )। सप्तगङ्गम् । द्वियमुनम् । ६७५ अन्यपदार्थे च संज्ञायाम् ।(२-१-२१) अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन संज्ञानवगमादिह नदीभिश्च । प्राग्वदिति । नदीभिः संख्या समस्यते सोऽव्ययीभाव इत्यर्थः । समाहारे चेति । वार्तिकम् । चकार एवार्थे, भाष्ये चकारविहीनस्यैव पाठात् । सप्तगङ्गमिति । सप्तानां गङ्गानां समाहार इति विग्रहे 'तद्धितार्थोत्तरपदसमाहारे च' इति द्विगुसमासं बाधित्वा अव्ययीभावसमासः । द्वियमनुमिति । द्वयोर्यमुनयोः समाहार इति विग्रहः । अत्र नदीशब्देन नदीशब्दविशेषस्य नदीवाचकानां च ग्रहणम् इति संख्यासंज्ञासूत्रे भाष्ये स्पष्टम् । तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्यति । अन्यपदार्थे च । संख्येति निवृत्तम् । नदीभिरित्यनुवर्तते । तदाह-सुबन्तं नदीभिरिति । समस्यत इति । सोऽव्ययीभाव इत्यपि बोध्यम्। संज्ञानवगमादिति । सम्यग् ज्ञायत इति संज्ञा । 'आतश्चोपसर्गे' इति कर्मण्यङ् । उन्मत्ता गङ्गा यस्मिन्निति वाक्येन देशविशेषस्यानवगमादिह नित्यसमास इत्यर्थः । ततश्च नास्ति लौकिकविग्रहः, अस्वपदविग्रहो वेति फलति । वस्तुतस्तु विभाषाधिकारादयमपि समासो वैकल्पिक एव । अत एव 'द्वितीयतृतीय-' इति सूत्रे अन्यतरस्यांग्रहणेन उत्सर्गापवासिद्धमित्यवोचाम । जन्मनोदाहरति-एकविंशतिभारद्वाजमिति । एकविंशति. भरद्वाजवंश्या इति विग्रहः । ननु भरद्वाजाद्विदायो 'यजमोश्च' इति लुक् प्राप्नोति । न च वर्तिपदानां स्वार्थोपसर्जनैकत्वविशिष्टार्थान्तरोपसंक्रमाल्लुगभाव इति कैयटोक्तमादर्तव्यम् । वृत्तिप्रवेशात्प्रागेव प्राप्नुवतोऽन्तरङ्गस्य लुको दुर्वारत्वात् । अन्यथा गर्गाणां कुलं गर्गकुलमित्यपि न स्यात् । अत्राहुः-भाष्यकारप्रयोगादेव लुगभावोऽत्र बोध्य इति । एतच 'तृतीयासप्तम्योः-' इति सूत्रे शब्दकौस्तुभे स्पष्टम् । नदीभिश्च । स्वरूपस्य संज्ञायाश्च नेह ग्रहणं बहुवचननिर्देशात् , किं त्वर्थस्य । न च तस्य समासः संभवति, अतस्तद्वाचिनामयं समासः,ते च न केवलं विशेषशब्दा एव, किंतु सामान्यशब्दा अपि । तेन पश्चनदं सप्तगोदावरमिति सिद्धम् । 'गोदावर्याश्च नद्याश्च' इति वक्ष्यमाणेन समासान्तोऽच् । चकारेण संख्येत्यनुकृष्यत इत्याह-संख्येति । स्यादेतत् , पुरस्तादपवादन्यायेन 'पूर्वकालैक-' इत्यस्यैवेदं बाधकं स्यात्ततश्चैकनदीत्यत्राव्ययीभावे तन्निबन्धनस्य 'नदीपौर्णमास्या-' इति टचः प्रसङ्गः । समाहारे तु परत्वाद् द्विगुरेव स्यादित्यत आह-समाहारे चायमिति । एवकारार्थश्चकारः । एवं च द्विगोरपवादोऽयमव्ययीभाव इति फलितम् । अन्यपदार्थे च । संख्येति निवृत्तम् । नदी. ग्रहणमनुवर्तते । तदाह -सुबन्तं नदीभिः सहेति । अन्यपदार्थ इति किम् , कृष्णवेणी । संज्ञानवगमादिति । सम्यग् ज्ञायत इति संज्ञा, 'आतश्चोपसर्गे' Page #30 -------------------------------------------------------------------------- ________________ प्रकरणम् १७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७ नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् । ६७६ समासान्ताः। (५-४-६८) इत्यधिकृत्य । ६७७ अव्ययीभावे शरत्प्रभृतिभ्यः । (५-४ १०७) शरदादिभ्यष्टस्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । दयोर्महाविभाषाविषयत्वाद् अपवादाभावे उत्सर्गस्याप्रवृत्तिरिति ज्ञापितेऽर्थे उन्मत्तगङ्गमित्युदाहृतम् । 'अव्ययीभावेन मुक्ते बहुव्रीहिर्न' इति चोक्तं भाष्ये । अस्य समासस्य नित्यत्वे तु तदसंगतिः स्पष्टैव, कदाप्यव्ययीभावमुक्त्यसंभवात् । समासान्ताः । इत्यधिकृत्येति । आपादपरिसमाप्तेरिति भावः । अत्र समासपदम् अलौकिकविग्रहवाक्यपरमेव । अत एव बहुकुमारीक इत्यत्र ह्रखो न। 'गोस्त्रियोः-' इति सूत्रे 'अन्तः' इति सूत्रे च भाष्ये स्पष्टमेतत् । एवं चालौकिकविग्रहवाक्ये समाससंज्ञासमकालमेव समासान्ता इति सिद्धान्तः। अन्तशब्दश्वरमावयववाची। अत एव उपशरदमित्यादौ 'नाव्ययीभावात्-' इत्यम् । तत्र टचस्तदनवयवत्वे टजन्तस्याव्ययीभावसमासत्वाभावादम् न स्यात् । तथा च टचस्तदनवयवत्वे 'अव्ययानां भमात्रे टिलोपः' इति प्रसज्येत। टचस्तदवयवत्वे तु तदन्तस्यैवायव्यीभावसमासतया अव्ययत्वादुपशरद् इत्यस्याव्ययत्वाभावान्न टिलोपः । समासान्तप्रत्ययाश्चालौकिकविग्रहवाक्ये सुपः परस्तादेव भवन्ति। अत एव 'प्रत्ययस्थात्-' इति सूत्रभाष्ये 'बहुचर्मिका' इत्युदाहृतं संगच्छते। विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः। अव्ययीभावे । 'राजाहस्सखिभ्यष्टच्' इत्यतः टजित्यनुवर्तते। तदाह-शरदादिभ्य इति । अव्ययीभावे उत्तरपदं यत् शरदादिप्रकृतिकं सुबन्तं तदन्तात् टच् स्यात् । स च अलौकिकविग्रहवाक्यान्तावयव इत्यर्थः। उपशरदमिति । 'अव्ययं विभक्ति-' इत्यादिना समीपार्थकस्य उपेत्यव्ययस्य शरद इति षष्ठयन्तेनाव्ययीभावः । टच । टचः समासावयवत्वेन तदन्तस्याव्यीभावसमासत्वाभावाद् अनव्ययत्वाद् 'अव्ययानां भमात्रे टिलोपः' इति न भवति । विपाट्शब्दो नदीविशेषे वर्तते। 'विपाशा तु विपाट् स्त्रियाम्' इत्यमरः । 'लक्षणेनाभिप्रती-' इति अव्ययीभावसमासः। इति कर्मण्य । संज्ञिनो देशविशेषस्यानवगमादित्यर्थः । अन्यपदार्थानवगमादिति तु नोक्तम् , यस्येत्यादिपदान्तरसमभिव्याहारेणान्यपदार्थप्रतीतेः। अत एव बहुव्रीहिर्न नित्यसमास इति भावः। संज्ञायां किम् , शीघ्रगङ्गो देशः । अथाव्ययीभावेऽसाधारणान् समासान्तानाह-अव्ययी । शरदादिभ्य इति वक्तव्ये 'पर्यायेषु लाघवचिन्ता नाद्रियते' इति प्रभृतिग्रहणं कृतम् । टच स्यादिति । 'राजाहःसखिभ्यः-' इत्यतष्टजनुवर्तत इति भावः । समासान्त इति । समासस्य समासार्थोत्तरपदस्य वा चरमावयव इत्यर्थः । तेनोपशरदमित्यत्र 'नाव्ययीभावात्-' इत्यम् सिध्यति, अव्ययीभावस्यादन्तत्वात् , द्विपुरीत्यादौ तु 'ऋक्पूरब्धः-' इत्यप्रत्यय उत्तरपदस्यावयव इति Page #31 -------------------------------------------------------------------------- ________________ __ सिद्धान्तकौमुदी। [अव्ययीभाव २८] प्रतिविपाशम् । शरद् , विपाश् , अनस् , मनस् , उपानह् , दिव् , हिमवत्, अनडुङ्, दिश, दृश् , विश्, चेतस् , चतुर , त्यद् , तद् , यद् , कियत् , 'जराया जरस् च' (ग १४७ )। उपजरसम् । 'प्रतिपरसमनुभ्योऽषणः' (ग १४८)। 'यस्येति च' (सू ३११)। प्रत्यक्षम् । प्रचणः परम् इति विग्रहे समासान्तविधानसामर्थ्यादग्ययीभावः । 'परोक्ष लिट्' (स २१७१) इति निपातनात्परस्यौकाराशरदादिगणं पठति-शरदित्यादिना । अत्र झयन्तानां 'झयः' इति विकल्प प्राप्ते नित्यार्थः पाठः । 'जराया जरश्च' इति शरदादिगणसूत्रम् । जराशब्दस्य जरसादेशश्चास्मिन् गणे वाच्य इत्यर्थः । उपजरसमिति । जरायाः समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्य जराया इति षष्ठयन्तेनाव्ययीभावसमासे कृते टच , सुब्लुक्, उपेल्यस्य पूर्वनिपातः । टचो विभक्तित्वाभावात् तस्मिन् परेऽप्राप्ते जरसि अनेन जरस् । टजन्ताद्यथायथं सुपः अम्भाव इति भावः । 'प्रतिपरसम्-' इत्यपि गणसूत्रम् । एतेभ्यः परस्याक्षिशब्दस्य इह गणे पाठ इत्यर्थः । यस्येति चेति । टचस्तद्धितत्वात्तस्मिन् परे इकारस्य लोप इति भावः । प्रत्यक्षमिति । अक्षिणी प्रतीति विग्रहः । अक्षणो. रभिमुखमित्यर्थः । लक्षणेत्थम्-' इति कर्मप्रवचनीयत्वाद् द्वितीया। 'लक्षणेनाभिप्रती-' इत्यव्ययीभावः । टच् , सुब्लुक्, 'यस्येति च' इति इकारलोपः । प्रत्यक्षशब्दाद् यथायथं सुबुत्पत्तिः, अम्भाव इति भावः । परमिति । व्यवहितमित्यर्थः । अविषय इति यावत् । अक्ष्णः परमिति विग्रहे अव्ययीभाव इत्यन्वयः । ननु परशब्दस्यानव्ययत्वात् कथमिहाव्ययीभाव इत्यत आह-समासान्तविधानसामर्थ्यादिति । प्रतिपरसमिति परशब्दात् परस्याक्षिशब्दस्य टजर्थ शरदादिगणे पाठोऽवगतः। 'अव्ययीभावे शरत्प्रभृतिभ्यः' इत्यव्ययीभावे टज्विहितः । तत्सामर्थ्यादनव्ययस्यापि परशब्दस्याव्ययीभाव इत्यर्थः। परोक्षमिति । अक्षणः परमिति विग्रहे परमित्यस्य 'अकारान्तोत्तरपदो द्विगुः स्त्रियाम्-' इति स्त्रीत्वे 'द्विगोः' इति डीप सिध्यतीति बोध्यम् प्रतिविपाशमिति । 'लक्षणेनाभिप्रती-' इति समासः । 'विपाशा तु विपाट् स्त्रियाम्' इत्यमरः । गणं पठति-शरदित्यादिना । अत्र ये भयन्तास्तेषां "झयः' इति विकल्पे प्राप्ते नित्यार्थः पाठः। इह 'जराया जरस्-' 'प्रतिपर-' इति च द्वयं गणसूत्रम् । उपजरसमिति । जरायाः समीप इत्यर्थः ॥ यस्येति चेति । टचस्तद्धितत्वात्तस्मिन्परे इकारलोप इति भावः । प्रत्यक्षमिति । वीप्साया यथार्थत्वेन समासः । अक्ष्णोराभिमुख्यमित्यर्थे 'लक्षणेनाभिप्रती-' इति वा समासः । अक्ष्णः परमिति । अविषय इत्यर्थः । वृत्तिविषये अक्षिशब्द इन्द्रियमात्रपरः । अव्ययाघटितसमुदायस्य कथमिहाव्ययीभावो विधायकसूत्राभावादित्याशङ्कयाह Page #32 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २६ 1 देश: - परोक्षम् । 'परोक्षा क्रिया' इत्यादि तु श्रर्शश्राद्यचि । समत्तम् । अन्वत्तम् । ६७८ अनश्च । (५-४- १०८) अन्नन्तादव्ययीभावादृच्स्यात् । ६७६ नस्तद्धिते । ( ६-४-१४४ ) नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् । ६८० नपुंसकादन्यतरस्याम् । ( ५-४ -१०६) अन्नन्तं यक्लीबं तदन्तादव्ययीभावादृज्वा अक्षि इत्यनेनाव्ययीभावसमासः । टच्, सुब्लुक् । परशब्दस्य ओकारोऽन्तादेशः, पररूपम् । परोक्षायथायथं सुप्, अम्भाव इति भावः । अर्शश्राद्यचीति । परोक्षमस्यास्तीत्यर्थे परोक्षशब्दाद् धर्मप्रधानाद् 'अर्शादिभ्योऽच्' इति मत्वर्थीये प्रत्यये कृते ‘यस्येति च ' इत्यकारलोपे टापि च कृते, परोक्षा क्रिया इत्यादि ज्ञेयमित्यर्थः । अत्र गणसूत्रे परग्रहणं प्रक्षिप्तमिति युक्तम्, परोक्षे लिट्' इति सूत्रस्थभाष्य कैयटयोरत्र समासान्तस्यापि निपातनेनैव साधितत्वात् । समक्षमिति । अणोर्योग्यमित्यर्थः। यथार्थेऽव्ययीभावः । टच्, इकारलोप इति भावः । अन्वक्षमिति । अक्ष्णोः पश्चादित्यर्थः । पश्चादर्थे अव्ययीभावः । शेषं समक्षवत् । अनश्च । अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणम्यते । अन इति तद्विशेषणम् । तदन्तविधिः । तदाहअन्नन्तादिति । नस्तद्धिते । न इति षष्ठयन्तम् । तेन भस्येत्यधिकृतं विशेष्यते, तदन्तविधिः । देरिति सूत्रमनुवर्तते, 'अल्लोपोऽनः' इत्यस्माल्लोप इति च । तदाहनान्तस्येति । उपराजमिति । राज्ञः समीपमित्यर्थः । सामीप्ये उपेत्यस्याव्ययी - भावः । 'अनश्च' इति टच् सुब्लुक्, टिलोपः, उपराजशब्दाद्यथायथं सुप्, अम्भावः । टजन्तस्यैवाव्ययीभावसमासत्वादृचि परे अव्ययानां भमात्रे टिलोपाप्रवृत्तेः 'नस्तद्धिते' इत्यारम्भः । अध्यात्ममिति | आत्मनीत्यर्थः । विभक्तधर्थे अव्ययीभावः । शेषं पूर्ववत् । नपुंसकादन्यतरस्याम् । अन इत्यनुवृत्तं नपुंसकस्य विशेषणम्, तदन्तविधानसामर्थ्यादिति । समक्षमिति । श्रदणो योग्यम् । अन्वक्षमिति । अक्ष्णः पश्चादित्यर्थेऽव्ययीभावः । नस्तद्धिते । न इत्यनेन भस्येत्यधिकृतं विशिष्यते, विशेषणेन तदन्तविधिरत आह— नान्तस्य भस्येति । ननूपराजमित्यत्र 'नस्तद्धिते' इति व्यर्थम्, 'अव्ययानां भमात्र -' इति टिलोपेनैव सिद्धेः । न चाव्ययत्वं विशिष्टे पर्याप्तमिति वाच्यम्, अव्ययीभावसंज्ञाया उपजीव्यत्वेन टचः पूर्वभागस्याप्यव्ययत्वानपायात् । अत्राहुः- भाष्ये लुङ्मुखस्वरोपचारेषु त्रिष्वेव कार्षेषु अव्ययीभावस्याव्ययसंज्ञाविधानान्न दोष इति । युक्तं चैतत् अन्यथा उपशरदमित्यादौ टिलोपः प्रसज्येत ॥ अध्यात्ममिति । श्रात्मनीत्यध्यात्मम् । विभक्तयर्थेऽव्ययीभावः । नपुंसकादन्य । नपुंसक ग्रहणमन्नन्तस्य विशेषणं नाव्ययीभावस्य श्रव्यभिचारादित्याह - अन्नन्तं यत्क्लीबमिति । अन्नन्तेन " → Page #33 -------------------------------------------------------------------------- ________________ ३० ] सिद्धान्तकौमुदी | [ अव्ययीभाव स्यात् । उपचर्मम्, उपचर्म । ६८१ नदीपौर्णमास्याग्रहायणीभ्यः । ( ५-४-११०) वा टच्स्यात् । उपनदम्, उपनदि । उपपौर्णमासम्, उपपौर्णमासि । उपाग्रहायणम्, उपाग्रहायणि । ६८२ भयः । ( ५-४ - १११) भयन्तादव्ययीभावादृज्वा स्यात् । उपसमिधम्, उपसमित् । ६८३ गिरेश्व सेनकस्य । ( ५-४-११२ ) गिर्यन्तादव्ययीभावाट्टज्वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम्, उपगिरि ॥ ॥ इत्यव्ययीभावसमासप्रकरणम् ॥ विधिः, अन्नन्तात् क्लीवादिति लब्धम् । तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः । तदाह - अन्नन्तादिति । उपचर्मम्, उपचर्मेति । चर्मणः समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्याव्ययीभावः । टचि टिलोपः, अम्भावः । टजभावे उपचर्मेति रूपम् । नदीपौर्णमासी । शेषपूरणेन सूत्रं व्याचष्टे – वा टजिति । अन्यतरस्यामिति टजिति चानुवर्तत इति भावः । नदी पौर्णमासी आग्र हायणी एतदन्तादव्ययीभावसमासादृज्वा स्यादिति यावत् । अत्र नदीसंज्ञकस्य न ग्रहणम्, पौर्णमास्याग्रहायणी ग्रहणाल्लिङ्गात् । उपनदमिति । नद्याः समीपमित्यर्थः । सामीप्ये उपेत्यस्याव्ययीभावसमासः । टच् 'यस्येति च' इतीकारलोपः । उपनदशब्दात् सुप्, अम्भाव इति भावः । उपनदीति । टजभावे रूपम् । नपुंसकहखः । 'अव्ययादाप्सुपः' इति लुक्। उपपौर्णमासमिति । पौर्णमास्याः समीपमित्यर्थः । टचि उपनदमितिवद्रूपम्। उपपौर्णमासीति । टजभावे रूपम् । एवम् उपाग्रहायणम् उपाग्रहायणीति ज्ञेयम् । अ हायनमस्या आग्रहायणी मार्गशीर्षपौर्णमासी, श्रत ऊर्ध्व मकरायनप्रवृत्त्या उदगयनप्रवृत्तेः । उदगयनादिरेव हि संवत्सरस्यादिः, 'अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः । इति प्रसिद्धेः । भयः । भया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः । अन्यतरस्यामिति टजिति चानुवर्तते । तदाह - भयन्तादिति । गिरेश्च सेनकस्य । सेनको नामाचार्य: । पूजार्थ - मिति । अन्यतरस्यांग्रहणानुवृत्त्यैव विकल्पसिद्धेरिति भावः । उपगिरमिति । गिरेः चाव्ययीभावविशेषणात्तदन्तविधिरित्याह-- तदन्तादिति । उपचर्ममिति । टचि टिलोपोऽदन्तत्वादम्भावश्च । नदीपौर्ण । इह स्वरूपस्यैव ग्रहणं न संज्ञायाः, पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात् । उपनदीति । टजभावे नपुंसकह्रस्वः । अन व्याचक्षते - ' वृत्तिप्रन्थमनुरुध्येदं विकल्पकथनम् । परमार्थतस्तु नेहान्यतरस्यामित्यनुवर्तते, 'बहुगण -' इति सूत्रस्थभाष्यविरोधात् । तत्र हि नदीशब्देन नदीविशेषाणां गङ्गायमुनादीनां ग्रहणमाशङ्कय शरत्प्रभृतिषु विपाट्शब्दपाठान्नेति समाहितम् । न Page #34 -------------------------------------------------------------------------- ________________ प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१ अथ तत्पुरुषसमासप्रकरणम् । १८ । ६८४ तत्पुरुषः । (२-१-२२) अधिकारोऽयम् , प्राग्बहुव्रीहेः। ६८५ द्विगुश्च । (२-१-२२) द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम्। 'संख्यापूर्वो द्विगुश्च' इति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् । ६८६ द्वितीया श्रितातीतपतितगसमीपमित्यर्थः । टचि 'यस्येति च' इति इकारलोपः, अम्भावः । इह सेनकग्रहणाद् 'नदीपौर्णमासी-' इत्यत्र ‘झयः' इत्यत्र चान्यतरस्यांग्रहणं नानुवर्तत इति केचित् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां अव्ययीभावसमासप्रकरणम् ॥ अथ तत्पुरुषसमासनिरूपणम् । तत्पुरुषः । प्रागिति । 'शेषो बहुव्रीहिः' इत्यतः प्रागित्यर्थः । द्विगुश्च । द्विगुरपीति । 'तद्धितार्थोत्तरपदसमाहारे च' इति वक्ष्यमाणसमासस्य 'संख्यापूर्वो द्विगुः' इति द्विगुसंज्ञा विधास्यते । स द्विगुसमासोऽपि तत्पुरुषसंज्ञक इति यावत् । एतत्सूत्राभावे एकसंज्ञाधिकाराद् द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः । इदमिति । 'द्विगुश्च' इत्येतदित्यर्थः। तर्हि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आह-संख्येति । 'संख्यापूर्वो द्विगुः' इति द्विगुसंज्ञाविधायकं सूत्रम् । तत्र चकारः पठनीयः। ततश्च संख्यापूर्वसमासो द्विगुसंज्ञकस्तत्पुरुषसंज्ञकश्च स्यादिति लभ्यते । एवं च चकारेण लघुना तत्पुरुषसंज्ञासमुच्चय. लाभाद् 'द्विगुश्च' इति गुरुभूतं सूत्रं न कर्तव्यमित्यर्थः । ननु मास्तु द्विगोस्तत्पुरुषत्वमित्यत आह-समासान्तः प्रयोजनमिति । तदुदाहृत्य दर्शयति-पञ्चराजमिति । पञ्चानां राज्ञां समाहार इति विग्रहे 'तद्धितार्थ-' इति द्विगुः । तस्य तत्पुरुषत्वाद् 'राजाहस्सखिभ्यष्टच्' इति टच । 'स नपुंसकम्' इति नपुंसकत्वम् । 'अकाचेदं भाष्यं 'नदीपौणमासी-' इत्यत्र टचः पाक्षिकत्वे संगच्छते, नित्यार्थतया तत्पाठस्योपपत्तेः । अत एव सेनकग्रहणमुत्तरत्रार्थवत् । कैयटस्तु व्यवस्थितविभाषामाश्रित्य वृत्तिग्रन्थं कथंचित्समर्थितवानिति । गिरेश्च सेनकस्य । पूजार्थमिति । अन्यतरस्यामित्यनुवृत्त्या विकल्पसिद्धेरिति भावः ॥ द्विगुश्च । चकारबलेन संज्ञाद्वयसमावेशस्येति । न चैवं द्विगुतत्पुरुषयाः पर्यायता स्यादिति शङ्कयम् , योगं विभज्य संख्यापूर्वस्य तत्पुरुषसंज्ञां विधाय पश्चाद् द्विगुसंज्ञाविधानेन चकारपठनमन्तरेणापि पर्यायत्वसिद्धेः । नापि द्वौ अन्यौ यस्य द्वयन्य इत्यत्रातिप्रसङ्गः शङ्कयः, 'तद्धितार्थोत्तरपद-' इति सूत्रमनुवर्त्य 'तद्धितार्थ-' इत्यत्र 'उक्तस्त्रिविधः संख्यापूर्वः' इति व्याख्यानात् । द्विगोस्तत्पुरुषत्वे Page #35 -------------------------------------------------------------------------- ________________ ३२ ] सिद्धान्तकौमुदी। [ तत्पुरुषसमास तात्यस्तप्राप्तापनः । (२-१-२४) द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते, स तत्पुरुषः। कृष्णं श्रितः कृष्णश्रितः। दुःखमतीतो दुःखातीत इत्यादि। रान्तोत्तरपदो द्विगुः स्त्रियाम्' इति तु न भवति, समासान्तस्य टचः समुदायावयवत्वेन उत्तरपदावयवत्वाभावात् । न च 'संख्यापूर्वो द्विगुश्च' इति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात् , अतः समुच्चयार्थ 'द्विगुश्च' इति पृथक्सूत्रमस्त्विति वाच्यम् , संख्यापूर्व इति द्विगुरिति च योगौ विभज्य पूर्वेण संख्यापूर्वस्य तपुरुषसंज्ञाविधिः, द्विगु. रित्यनेन द्विगुसंज्ञाविधिरित्याश्रयणे सति, चकारमन्तरेणापि पर्यायेण प्रवृत्तिसिद्धया चका. रस्य समुच्चयार्थत्वोपपत्तः । द्वितीया श्रित । द्वितीयान्तमिति । प्रत्ययग्रहणपरिभाषया लभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायग्रहणं लभ्यते । तथा च सुबन्तैरित्यस्य सुप्तत्प्रकृतिसमुदायैरित्यर्थः पर्यवस्यति । श्रितादिशब्दास्तु प्रत्ययान्ता एव, न तु सुबन्ताः, तेषां सुब्घटितसमुदायात्मकत्वाभावादित्यत आह-श्रितादिप्रकृतिकैः सुबन्तैरिति । श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भावः । 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' इत्यस्य तु नायं विषयः, 'कर्तृकरणे कृता-' 'साधनं कृता' इतिवत् कारकविशेषानुपादानादिति प्रौढमनोरमायां स्थितम् । न च श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितान्तादिशब्दप्रकृतिकरित्यर्थलाभात् कृष्णं परमश्रित इत्यत्रापि समासः स्यादिति वाच्यम् , समास प्रत्ययविधौ तदन्तविधिप्रतिषेधात् । कृष्णं श्रित इति । श्रयतेर्गतिविशेषार्थकत्वाद् ‘गत्यर्थाकर्मक-' इति कर्तरि क्तः। 'न लोक-' इति कृद्योगषष्ठीनिषे. धात् कर्मणि द्वितीया। समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात् कृष्णशब्दस्य पूर्वनिपातः । दुःखातीत इति । दुःखमतीत इति विग्रहः । 'इण गतौ' । अतिपूर्वात् कतति क्तः । इत्यादीति । गत पतितो गर्तपतितः । 'पत्ल गतौ कर्तरि क्लः । तनिफलमाह-समासान्त इति । टजचावित्यर्थः । अचि तूदाहरणम् -'तत्पुरुषस्याङ्गुलेः-' इत्यचि द्वयङ्गुलमिति बोध्यम्। पश्चराजमिति । समाहारद्विगौ 'राजाहःसखिभ्यः-' इति टच् समासस्यैवायमन्तावयव इति उत्तरपदस्यानकारान्तत्वात् स्त्रीत्वाभावः । 'समासार्थोत्तरपदान्ताः समासान्ताः' इति पक्षे तु अकारान्तोत्तरपदत्वेऽपि पात्रादित्वामेति बोध्यम् । काशिकायां तु पञ्चराजीत्युदाहृतम् । स क्वाचित्कोऽपपाठ इति हरदत्तः । अत्र केचित्-पात्रादित्वकल्पने मानाभावात्पञ्चराजीति काशिकोक्लोदा. हरणमपि सम्यगेवेत्याहुः ॥ द्वितीया श्रितातीत- यादीनां गतिविशेषवाचित्वाद् ‘गत्यर्थाकर्मक-' इति कर्तरि कः । 'प्रत्ययग्रहणे तदन्तग्रहणम्' इत्याशयेनाह Page #36 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३ पतिदरिद्रातिभ्यः सनो वेटकत्वेन 'यस्य विभाषा' इति इरिनषेधप्राप्तावपि अत एवं निपातनादिट् । ग्रामं गतः ग्रामगतः, ग्राममत्यस्तः अतिक्रान्तः ग्रामात्यस्तः, ग्रामं प्राप्तः द्वितीयान्तमिति । श्रितादिप्रकृतिकैरिति । यद्यपि संबोधने सुबन्तत्वं संभवति तथाप्यन्यत्रापि समासस्येष्टत्वात् श्रितादयस्तद्घटितसमुदाये लाक्षणिका इह गृह्यन्त इति भावः । एवं 'खट्वा क्षेपे' 'गर्गादिभ्यो यज्' इत्यादावप्यूयम् । न हि खट्वेत्यस्य द्वितीयान्तत्वम् , गर्गादीनां षष्ठयन्तत्वं वा संभवति । स्यादेतत् , द्वितीयान्तस्य श्रितप्रकृतिकसुबन्तेन समासे काष्ठश्रितेयो न सिध्येत् । श्रितशब्दाथापि ततः सुपि काठं श्रिता काष्ठश्रितेति समासे श्रिताशब्दस्यैव टाबन्तत्वात् , ततः 'स्त्रीभ्यो ढक्' इति ढकि काष्ठश्रेतेय इति स्यात् । 'गतिकारकोपपदानाम् -' इति सुबुत्पत्तेः प्राक् कृदन्तेन समासे तु श्रितान्तस्य टाबन्तत्वादिष्टं सिध्यतीति चेत् । मैवम्, प्रधामन्त्रीप्रत्यये तदादिनियमाभावेन काष्ठश्रितेयस्य निर्बाधत्वात् । न च कदाचित् त्रिताशब्दादपि ढक् स्यादिति वाच्यम् , जहत्स्वार्थायां वृत्तौ श्रिताशब्दस्यानर्थकत्वेनापत्ययोगासंभवात् । अजहत्स्वार्थायामपि न दोषः, समुदायावयवसंनिधौ समुदायस्यैव कार्यप्रयोजकत्वात् । अन्यथा सुन्दरदुहितुरपत्यं सुन्दरदौहित्र इत्यापत्तेरिति दिक् । कृष्णं श्रित इति । 'न लोका-' इति षष्ठीनिषेधः । कृष्णभित इति । 'प्रथमानिर्दिष्टम्-' इति द्वितीयान्तस्य पूर्वनिपातः । यद्यपीह श्रितशब्दोऽपि प्रथमानिर्दिष्टस्तथापि समासविधायके 'प्रथमानिर्दिष्टमुपसर्जनम्' इत्युक्तमिति नास्त्यतिप्रसङ्गः । नन्वेवमव्ययादीनामुपसर्जनसंज्ञार्थम् 'अव्ययं विभक्ति-' इत्यादिना समासविधानस्यावश्यकत्वात् 'सुप्सुपा' इति समासस्यानित्यत्वे प्रागुतज्ञापकं न संभवत्येव, तथा चाव्ययीभावतत्पुरुषादिसमासाभावपक्षे 'सुप्सुपा' इति समासप्रवृत्त्या अप विष्णोः, परि विष्णोः, 'कृष्णं श्रितः, राज्ञः पुरुष इत्यादिविग्रहवाक्यानि न सिध्यरनिति चेत्', अत्राहुः-पुनः समासविधानं न केवलमुपसर्जनसंज्ञार्थम् , तस्याः प्रकारान्तरेणापि सिद्धेः। तथाहि-'प्राक्कडारात्समासः' इत्यनन्तरं 'प्रथमानिर्दिष्टमुपसर्जनम्' 'एकविभक्ति चापूर्वनिपाते' इति पठित्वा समासाधिकारे प्रथमानिर्दिष्टमिति व्याख्यायामुपसर्जनसंज्ञा सिम्यत्येव, विभक्त्यर्थादिषु विद्यमानमव्ययं सुबन्तेन चेत्समस्यते स समासोऽव्ययी. भावः स्यात् , द्वितीयान्तं चेत्स समासस्तत्पुरुषः, इत्येवं व्याख्यानादव्ययीभावतत्पु. रुषादिसंज्ञापि सिध्यतीति पुनः समासविधानं व्यर्थ सज्ज्ञापयतीति । ननु 'अध्ययं विभक्ति-' इत्यादीनां समासविधा कत्वे सिद्धे भवदुक्तमेतत्स्यात् , तत्रैव मानं न पश्याम इति चेत्, अत्र केचित्-उक्तात्यैवोपसर्जनसंज्ञायां सिद्धायां 'प्रथमानिर्दिष्टम्-' इति सूत्रे समासप्रहणं व्यर्थ सत्समासविधायके प्रथमानिर्दिष्टमित्यर्थलाभार्थम् , तेनामीषां Page #37 -------------------------------------------------------------------------- ________________ ३४ ] सिद्धान्तकौमुदी | [ तत्पुरुषसमास 'गम्यादीनामुपसंख्यानम्' ( वा १२४७) ग्रामं गमी ग्रामगमी । अनं बुभुङः अब्रबुभुचुः । ६८७ स्वयं क्लेन। (२-१-२५) 'द्वितीया-' (सू०६८६ ) इति न संबध्यते, अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः । ६८८ खट्वा क्षेपे । (२-१-२६) 1 ग्राम प्राप्तः । संशयमापन्नः संशयापन्नः । गम्यादीनामिति । गम्यादिप्रकृतिकैः सुबन्तैरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत् । ग्रामं गमीति । 'गमेरिनि:' इति श्रौणादिक इनिप्रत्ययः, स च 'भविष्यति गम्यादयः' इति वचनाद् भविष्यति काले भवति । ‘अकेनोः -' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । ग्रामं गमिष्यन्नित्यर्थः । अन्नं बुभुक्षुरिति । भुजेः सन् । 'सनाशंसभिक्ष उ:' । 'न लोक- ' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । बुभुक्षुशब्दो गम्यादौ पठित इति भावः । स्वयं क्लेन । क्तप्रत्ययान्त प्रकृतिकसुबन्तेन स्वयमित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः । योग्यत्वादिति । स्वयमित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृतीयाया एवोचितत्वादिति भावः । स्वयमित्यव्ययस्य समासे असमासेऽपि को भेदः । असमासेऽपि 'अव्ययादाप्सुपः' इति लुकः प्रवृत्तेरित्यत आह-- स्वयंकृतस्यापत्यं समासविधायकत्वं सिध्यतीति । अथवा 'सुप्सुपा' इति समासस्यानित्यत्वे आकरग्रन्थ एव प्रमाणम्, अन्यथा 'सिन्नित्यसमासयोः' इति वार्तिके 'नित्यग्रहणेन नार्थ:' इदमपि सिद्धं भवति–वाप्यामश्वो वाप्यश्वः, इत्यादिप्रागुक्तभाष्यकैयटग्रन्थस्यासामञ्जस्यापत्तेरिति दिक् । ननु कृष्णश्रित इत्यस्य कृष्णकर्मकश्रयणकर्तेति ह्यर्थः, स च कृष्णः श्रितो येनेति कर्मणि क्लान्तेन बहुव्रीहिणापि सुलभ इति किमनेन समासारम्भेण । मैवम् । बहुत्री श्रितकृष्ण इति निष्ठान्तस्य पूर्वनिपातप्रसङ्गात् । ' शेषाद्विभाषा' इति समासान्तः कप् प्रसज्येतेति दिक् । दुःखातीत इति । अतिपूर्वकादिणः कर्तरि क्तः । अवशिष्टान्यप्युदाहरणान्यूयानि । कूपपतितः । यद्यपि 'तनिपतिदरिद्रातिभ्यः-’ इति विकल्पितेट्कत्वाद् 'यस्य विभाषा' इतीरिनषेधेन भाव्यम्, तथाप्यत एव निपातनादिडित्याहुः । वस्तुतस्तु चुरादावदन्तेषु पठितस्य 'पत गतौ च' इत्यस्याश्रयणेन पतितः सिध्यति, 'यस्य विभाषा' इत्यत्रैकाच इत्यनुवृत्तेः सर्वसंमतत्वात् । ग्रामगतः । तुहिनात्यस्तः । अत्यासो व्यतिक्रमः । सोऽपि गतिविशेष एवेति कर्तरि क्तः, आदिकर्मणि क्लो वात्राभ्युपेयः । सुखप्राप्तः । दुःखापन्नः । गम्यादीनामिति । गम्यादयश्च प्रयोगतो ज्ञेयाः । ग्रामगमीति । 'गमेरिनिः' इत्यौणादिक इनिः, स च 'भविष्यति गम्यादयः' इति भविष्यत्काले । 'अकेनोः -' इति षष्ठीनिषेधात्कर्मरिण द्वितीया । अयोग्यत्वादिति । स्वयमित्यस्यात्मनेत्यर्थकस्य कर्त्रर्थतया द्वितीयान्तत्वानुपपत्तिरिति भावः । स्वायंकृतिरिति 1 असति समासे कार्तिरिति स्यादिति I Page #38 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५ खट्वाप्रकृतिकं द्वितीयान्तं कान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम् । खट्वारूढो जाल्मः। नित्यसमासोऽयम्। न हि वाक्येन निन्दाऽवगम्यते।६८६ सामि। (२-१-२७) सामिकृतम् । ६६० कालाः । (२-१-२८) 'क्लेन' इत्येव । अनत्यन्तसंयोगार्थ वचनम् । मासप्रमितः प्रतिपश्चन्द्रः ।मासं परिच्छेत्तुमारग्धवास्वायंकृतिरिति । स्वयंकृतस्यापत्यमित्यर्थे 'अत इञ्' इति स्वयंकृतशब्दात् षष्ठयन्तादिनि तद्धितान्तप्रातिपदिकावयवत्वात् सुब्लुकि, 'यस्येति च' इत्यकारलोपे, आदिवृद्धौ, स्वायंकृतिशब्दः । समासाभावे तु कृतशब्दस्यैव षष्ठयन्तत्वात्तत इञि ऋकारस्यादिवृद्धौ रपरत्वे स्वयंकार्तिः इत्येव स्यादिति भावः। वस्तुतस्तु असामर्थ्यादिह न तद्धितः। स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम् । खवा क्षेपे। क्तेनेत्यनुवर्तते । प्रत्ययग्रहणात्तदन्तविधिः । क्षेपो निन्दा । द्वितीयेति सुपेति चानुवर्तते । तदुभयमपि प्रत्यय. ग्रहणपरिभाषया तदन्तपरं सत् प्रकृतिप्रत्ययसमुदायपरम् । खट्वाशब्दस्य च सुब्धटितसमुदायात्मकत्वासंभवाद् अत्र खट्वाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह-खवाप्रकृतिकमिति । खवारूढो जाल्म इति । 'जाल्मोऽसमीक्ष्यकारी' इत्यमरः । खट्वा अम् श्रारूढ स् इत्यलौकिकविग्रहः । लौकिकविग्रहस्तु नास्तीत्याह-नित्यसमासोऽयमिति । तत् कुत इत्यत आह-न हि वाक्येन निन्दाऽवगम्यत इति । वृत्त्यर्थबोधकं वाक्यं लौकिकविग्रहः । तत्र खट्वामारूढ इति वाक्यं हि गृहस्थाश्रमिणि निन्दा न गमयति । खट्वारूढ इति समासस्तु रूढ्या निन्दा गमयति । तथा च भाष्यम् 'अधीत्य स्नात्वा गुर्वनुज्ञातेन खट्वा आरोढव्या । यस्तावदन्यथा करोति, स खट्वारूढोऽयं जाल्म इत्युच्यते' इति । अत्र जाल्म इत्यनेन उद्वृत्ते अयं शब्दो रूढः, अवयवार्थे तु नाभिनिवेष्टव्यम् इति सूचितम् । सामि । सामीत्यव्ययमर्धे वर्तते । तत् क्तान्तप्रकृतिकसुबन्तेन समस्यंत इत्यर्थः । सामिकृतमिति । समासाभावे तु तद्धितवृत्तौ सामिकार्तिरिति स्यादिति भावः । कालाः । तेनेत्येवेति । क्वेनेत्यनुवर्तत एवेत्यर्थः । कालवाचिप्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः । ननु 'अत्यन्तसंयोगे च' इत्युत्तरसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-अनत्यन्तेति ।मासप्रमित इति। भावः । खदारूढ इति । 'जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः । वेदं व्रतानि च समाप्य समावृत्तेन हि खट्वारोढव्या । ब्रह्मचर्य एव भूमिशयना.ऽपि यः खवामारोहति स जाल्मः । रूढश्चायम् । तेन खट्वामारोहतु मा वा, निषिद्धानुष्ठानपरः सर्वोऽपि खट्वारूढ इत्युच्यते । अत एवाह-नित्येति । सामि । सामीत्येतदव्ययमर्धशब्दपर्यायः । कालाः । बहुवचननिर्देशः स्वरूपनिरासार्थः । कालवाचिनो Page #39 -------------------------------------------------------------------------- ________________ ३६] सिद्धान्तकौमुदी। [तत्पुरुषसमासनित्यर्थः । ६६१ अत्यन्तसंयोगे च । (२-१-२६) 'कालाः' इत्येव । प्रकान्तार्थ वचनम् । मुहूर्त सुखं मुहूर्तसुखम् । ६६२ तृतीया तत्कृतार्थेन गुणवचनेन । (२-१-३०) 'तस्कृत' इति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्कलया खण्डः शङ्कलाखण्डः । मासं प्रमित इति विग्रहः । प्रपूर्वकाद् माधातोः 'आदिकर्मणि क्तः कर्तरि च' इति कर्तरि क्तः । तदाह-मासं परिच्छेत्तुमिति । इह प्रतिपचन्द्रेण मासस्य नात्यन्तसंयोग इति भावः । अत्यन्तसंयोगे च । काला इत्येवेति । तेन अत्यन्तसंयोगे कालवाचिनो द्वितीयान्ताः सुबन्तेन सह वा समस्यन्त इति लभ्यत इत्यर्थः । ननु 'कालाः' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह–अक्कान्तार्थमिति । अत्र केनेति निवृत्तमिति भावः । मुहूर्त सुखमिति । अत्यन्तसंयोगे द्वितीया । मुहूर्तव्यापि सुखमित्यर्थः । तृतीया तत्कृत । तत्कृतेत्यस्याव्यवहितमप्यर्थेनेति परित्यज्य गुणवचनेनेत्यत्रान्वयं वक्तुमाह-तत्कृतेति लुप्ततृतीयाकमिति । तत्र तृतीयेत्यनेन तृतीयान्तं विवक्षितम् । तत्कृतेति लुप्ततृतीयाकं भिन्नं पदम् । तच्छब्देन तृतीयान्तपरामशिना तदर्थो लक्ष्यते । तत्कृतेत्येतच्च गुणद्वारा गुणवचनेऽन्वेति । ततश्च तृतीयान्तं तृतीयान्तार्थकृतो यो गुणस्तद्वाचिना समस्यते, अर्थशब्देन च तृतीयान्तं समस्यत इति वाक्यद्वयं संपद्यत इति भाष्ये स्थितम् । तदाह-तृतीयान्तमित्यादिना । गुणेत्यस्य तत्कृतत्वसापेक्षत्वेऽपि सौत्रः समासः । इदं सूत्रं कृतशब्दाथेद्वारक एव सामर्थ्ये प्रवर्तते, न तु साक्षात्परस्परान्वये- इति भाष्ये स्पष्टम् । न च घृतेव पाटमित्यत्रातिप्रसङ्गः शङ्कयः, गुणेनेति सिद्धे वचनग्रहणाद् गुणोपसर्जनद्रव्यवाचिशब्दो गृह्यत इति व्याख्यानात् । शङ्कुलया खण्डः शकुलाखण्ड इति । देवदत्त इति शेषः । शकुलाखण्डो देवदत्त इत्येव भाष्य उदाहृतम् । 'खडि द्वितीयान्ताः क्लान्तेन सह वा समस्यन्त इति सूत्रार्थः । ननु 'काला अत्यन्तसंयोगे' इत्येवास्तु केनेति निवृत्तम् , नार्थो योगविभागेनेत्यत श्राह-अनत्यन्तेति । मासप्रमित इति । 'माङ् माने', श्रादिकर्मणि क्तः कर्तरि । इह प्रतिपच्चन्द्रेण नास्त्यत्यन्तसंयोगः । मुहूर्तमिति । मुहूर्तव्यापीत्यर्थः । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । तृतीया तत्कृता । लुप्तेति । सौत्रत्वादिति भावः । तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते। तदर्थकृतत्वं च गुणवाचकस्यार्थद्वारा विशेषणम् । तृतीयान्तार्थकृतो यो गुणस्तद्वचनेनेति । तदेतद्याचष्टे-तृतीयान्तार्थेत्यादिना । अर्थशब्देन चेति । सोऽपि स्वतन्त्रं निमित्तमिति भाव । नन्वर्थेन समासासंभवात्तवाची शब्दो प्रहीष्यते, किमत्र वचनग्रहणेन। अत्राहः-गुणमुक्तवान गुणवचनः । Page #40 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७ धान्येनार्या धान्यार्थः । 'तस्कृत' इति किम्-अक्षणा काणः । ६६३ पूर्वभेदने' भावे घञ् । खण्डनं खण्डः । मत्वर्थीयः अर्शआद्यच् । शकुलयेति करणे तृतीया । शकुलाकृतखण्डनक्रियावानित्यर्थः । यत्तु 'आकडारात्-' इति सूत्रभाष्ये 'समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दस्वरूपं गुणवचनसंज्ञं भवति' इत्युक्तम् । तदेतत् प्रकृते न प्रवर्तते, गुणमुक्तवता गुणवचनेनेति भाष्येण यौगिकत्वावगमात् । अतोऽत्र गुणशब्देन धर्ममात्रं विवक्षितम् । एवं च खण्डशब्दस्य क्रियावचनत्वेऽपि न क्षतिः । तत्त्वबोधिन्यां तु 'वोतो गुणवचनात्' इत्यत्र 'सत्त्वे निविशतेऽपैति-' इत्यादिलक्षणलक्षितो गुणोऽत्र गृह्यत इत्युक्तम् । तयाख्यावसरे क्रियाया गुणत्वं नास्तीत्यप्युक्तम् । इह तु खण्डशब्दस्य क्रियावाचिनोऽपि गुणवचनत्वमास्थितम् । तत्तु प्रकृतसूत्रस्थभाष्यविरुद्धत्वात् पूर्वोत्तरविरुद्धत्वाच्चो. पेक्ष्यम् । अर्थशब्देन समासमुदाहरति-धान्येनेति । अर्थशब्दो धनपरः । हेतौ तृतीया । धान्यहेतुकं धनमित्यर्थः । अत्र धनस्य धान्यहेतुकत्वेऽपि तत्करणकत्वाभावादप्राप्तौ पृथगुक्तिः, धान्येनेति प्रकृत्यादित्वात्तृतीया, धान्याभिन्नं धनमित्यर्थ इति केचित् । ननु शङ्कुलया खण्ड इत्यत्र 'कर्तृकरणे कृता बहुलम्' इत्येव सिद्धे तत्कृतेति व्यर्थमिति पृच्छति--तत्कृत इति किमिति । गुणवचनेन चेत् तत्कृतेनैवेति नियमार्थ तत्कृतग्रहणमित्यभिप्रेत्य प्रत्युदाहरति-अक्षणा काण इति । नाक्षणा काणत्वं कृतम् , किं तु रोगादिनेति भावः । गुणवचनेनेति किम् ? गोभिर्वपावान् । गोसं'कृत्यल्युटो बहुलम्' इति भूते कर्तरि ल्युट् । गुणमुक्त्वा यो द्रव्यमुक्तवान् स गुणवचनः, स्तेन घृतेन पाटवमिति गुणमात्रनिष्ठेन समासो न भवति । गुणश्चात्र 'सत्त्वे निविशतेऽपैति-' इत्यादिलक्षणलक्षितो गृह्यते, न तु प्रवृत्तिनिमित्तं घटत्वादिः, तत्कृत. त्वासंभवादिति । शङ्कलया खण्ड इति । करणेऽत्र तृतीया । 'खडि भेदने' इत्यस्माद्भावे घमि व्युत्पादितः खण्डशब्दः क्रियारूपापन्ने गुणे वर्तित्वा पश्चान्मत्वर्थलक्षणया तद्वति द्रव्ये वर्तत इति गुणवचनो भवति । धान्येनेति । करणे तृतीया । अर्थ्यत इत्यर्थः प्रयोजनम् । कर्मणि घञ् । अर्थनमर्थः अभिलाषो वा । भावे घञ् । अर्थशब्दस्य रूढत्वे तु धान्येनेति हेतौ तृतीया, 'कर्तृकरणे कृता-' इत्यनेन गतार्थत्वशङ्कवात्र नेति रूढत्वाभ्युपगमपक्ष एव श्रेयान् । तत्कृतेति किमिति । 'कर्तृकरणे कृता-' इति सिद्धमिति प्रश्नः । इतरो गुणवचनेन चेत्तत्कृतेनैवेति नियमार्थमिदमित्याशयेन प्रत्युदाहरति-अक्ष्णेति । न त्वक्षणा काणत्वं कृतं किं तु कर्मादिनैवेति भावः । तृतीया त्विह 'येनाविकारः' इत्यनेन । काण इति । 'कण निमीलने' इत्यस्माद्धम् । गुणवचनत्वं तकरीत्या खण्डशब्दस्येवास्यापि बोध्यम् । गुणवचननेति Page #41 -------------------------------------------------------------------------- ________________ ३८) सिद्धान्तकौमुदी। [तत्पुरुषसमास सदृशसमोनार्थकलहनिपुणमिश्रलक्ष्णैः । (२-१-३१) तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः। ऊनार्थे–माषोनं कार्षापणम् । माषविकलम् । वाकलहः । प्राचारनिपुणः । गुडमिश्रः। प्राचारलषणः । मिश्र बन्धिक्षीरादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वम् , किं तु न गुणवचनोंऽसौ । पूर्वसदृश । एतैरिति । पूर्व, सदृश, सम, ऊनार्थ, कलह, निपुण, मिश्र, श्लक्ष्ण एतैरित्यर्थः । मासपूर्व इति । मासेन पूर्व इति विग्रहः। मासात् प्रागुत्पन्न इत्यर्थः । यद्यप्यवधित्वसंबन्धे 'अन्यारादितरर्ते-' इति दिक्शब्दयोगे पञ्चमी प्राप्ता, दिशि दृष्टः शब्दो दिक्शब्द इत्यभ्युपगमात् । तथाप्यत एव ज्ञापकात् तृतीया । हेतौ तृतीयेत्यन्ये । मातृसदृश इति । मात्रा सदृश इति विग्रहः । पितृसम इति। पित्रा सम इति विग्रहः। 'तुल्यार्थैरतुलोपमाभ्याम्-' इति तृतीया। 'तुल्यार्थैः । इति षष्ठयां षष्ठीसमासेनैव सिद्धमित्याहुः । ऊनार्थेति । उदाहरणसूचनमिदम् । माषोनमिति । माषाख्यपरिमाणविशेषेण ऊनं परिमाणमित्यर्थः । अत एव ज्ञापकादवधित्वे तृतीया, हेतौ वा । अर्थग्रहणं च ऊनेनैव संबध्यते, न तु पूर्वादिभिरपि, समसदृशयोः पृथगुपादानात् । अर्थग्रहणस्य प्रयोजनमाह--माषविकलमिति । माषेण विकलमिति विग्रहः । हीनमित्यर्थः । पूर्ववत् तृतीया । वाक्कलह इति । वाचा कलह इति विग्रहः । आचारनिपुण इति । श्राचारेण निपुण इति विग्रहः। आचारहेतुकनैपुण्यवानित्यर्थः। गुडमिश्र इति । गुडेन मिश्र इति विग्रहः । आचारश्लदण इति । आचारेण श्लक्ष्ण इति विग्रहः । आचारहेतुककुशलत्ववानित्यर्थः । ननु गुडसंमिश्रा इत्यत्र कथं समासः ? सुबन्तविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तत्राह--मिश्रग्रहणे सोपसर्गस्यापि ग्रहण किम् , गोभिर्वपावान् । गोसंबन्धिदध्यादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वम् , न त्वसौ गुणवचनः । पूर्वसदृश । इह समसदृशाभ्यां योगे 'तुल्याथैःइति तृतीया। अन्यैर्योगे त्वत एव वचनात्, 'हेतौ' इति वा तृतीया । इह सदृशग्रहणं व्यर्थ षष्ठीसमासेन गतार्थत्वात् । न च 'तत्पुरुषे तुल्यार्थतृतीया-' इति पूर्वपदप्रकृतिस्वरार्थमिदमिति वाच्यम् । 'सदृशप्रतिरूपयोः सादृश्ये' इति सूत्रेण तत्सिद्धेरिति मनोरमायां स्थितम् । विद्यया सदृशो विद्यासदृश इत्यादौ हेतुत्वप्रकारकबोधार्थ तृतीयासमासोऽप्यावश्यक इति त्वन्ये । पूर्वसूत्रेणैव तत्कृतत्वात्तृतीयासमासोऽपि सिध्यतीत्यपरे । ऊनार्थ इति । पूर्वसूत्रेऽर्थशब्देन समासस्योक्तत्वादिहार्थग्रहणमभिधेयपरम् । तबोनशन्देनैव संबध्यते, न तु पूर्वादिभिः, समसदृशयोः पृथग्ग्रहणादिति भावः । Page #42 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६ ग्रहणे सोपसर्गस्यापि ग्रहणम्, 'मिनं चानुपसर्गमसन्धौ' (सू ३८८८) इत्यत्रानुपसर्गग्रहणात् । गुडसंमिश्रा धानाः । 'प्रवरस्योपसंख्यानम्' (वा १२५६) मासेनावरो मासावरः । ६६४ कर्तृकरणे कृता बहुलम् । (२-१-३२) कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा बातो हरित्रातः । नखैभित्रो नखभिन्नः । कृग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् (प २६) नलनिर्भिवः । कर्तृकरणे इति किम्-मिचाभिरुषितः । हेतावेषा तृतीया । बहुलग्रहणं सर्वोपाधिम्यभिचारार्थम् । तेन 'दात्रेय लूनवान्' इत्यादी न । कृता किम्-काष्ठैः पचतितराम् । ६६५ कृत्यैरधिकार्थवचने । (२-१-३३) मिति । कुत इत्यत आह--मिश्रं चेति । असन्धौ मिश्रेत्युत्तरपदमुपसर्गहीनं तृतीयान्तात् परमन्तोदात्तमिति तदर्थः । अत्रानुपसर्गग्रहणादितरत्र मिश्रग्रहणे सोपसर्गग्रहणं विज्ञायत इत्यर्थः । मासेनावर इति । मासेन पूर्व इत्यर्थः । न्यून इत्यर्थे ऊनार्थकत्वादेव सिद्धम् । कर्तृकरणे । कर्ता च करणं चेति समाहारद्वन्द्वात् सप्तमी। तृतीयेत्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । कृतेत्यपि तथैव । तदाह-- कर्तरि करणे चेति । प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । इह कृद्ग्रहणेन क्तप्रत्यय एव गृह्यते, बहुलग्रहणादिति भाष्यम् । अतः कान्तमेवोदाहरति-- हरिणा त्रात इति । पालित इत्यर्थः । ननु कृदन्तस्य समर्थविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधान्नखनिर्भिन्न इत्यत्र न स्यादित्यत आह-कृदग्रहण इति । परिभाषेयं 'गतिरनन्तरः' इति सूत्रे भाष्ये स्थिता । पचतितरामिति । मिश्रं चेति । 'पणबन्धेनैकार्थ्य संधिस्तत्राप्रयुज्यमानो मिश्रशब्द उपसर्गरहितोऽन्तोदात्तः' इति सूत्रार्थः । अवरस्येति । अत्र व्याचक्षते-ऊनार्थेत्येव सिद्धत्वादिदं सुत्यजमेव । न चावरशब्दस्योनार्थकत्वमप्रसिद्धमिति वाच्यम् । 'सप्तदशावराः सत्रमासीरन्' इति श्रुतौ 'अव्यक्तानुकरणाद् द्वयजवरार्धात्' इति सूत्रे च तत्प्रसिद्धेरिति । कर्तृकरणे । समाहारद्वन्द्वात्सप्तमीत्याशयेनाह-कर्तरि करणे चेति । अत्र केचित्-कर्तृकरणे इति प्रथमाद्विवचनं तृतीयया विशेष्यते, विशेषणेन च तदन्तविधिस्तेन तृतीयान्ते कर्तृकरणे कृदन्तेन समस्येते इति व्याख्यान्तरमित्याहुः । सर्वोपाधीति । कर्तरि करणे च या तृतीया तदन्तमपि बहुलग्रहणात् कचिन्न समस्यते । क्वचित्तु विभक्त्यन्तरमपि समस्यते बहुलग्रहणादेवेत्यर्थः । समासाभावं प्रदर्शयति-दात्रेण लूनवानित्यादाविति । आदिशब्देन दात्रेण छिन्नवान् हस्तेन कुर्वन् इत्यादि ग्राह्यम् । विभक्तयन्तरमपि समस्यत इत्यस्योदाहरणं तु पादहारकः, गलेचोपकः । ह्रियत इति हारकः, बाहुलकाल्कर्मणि एवुल् । पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः । 'चुप मन्दायां गतौ हेतुमरिणजन्तात्कर्मणि एवुल । Page #43 -------------------------------------------------------------------------- ________________ ४०] सिद्धान्तकौमुदी। [तत्पुरुषसमासस्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनम् , तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी । ६६६ अन्नेन व्यजनम् । (२-१-३४) संस्कारद्रव्यवाचकं तृतीयान्तमबेन प्राग्वत् । दना प्रोदनो दध्योदनः । इहान्तभूतोपसेकक्रियाद्वारा सामर्थ्यम् । ६६७ भक्ष्येण मिश्रीअतिशयेन पचतीत्यर्थः । ‘अतिशायने' "तिङश्च' इत्यनुवृत्तौ 'द्विवचनविमज्य-' इति तरप् । 'किमेत्तिव्ययघादाम्वद्रव्यप्रकर्षे' इत्याम् । अत्र तद्धितान्तेन समासनिवृत्त्यर्थ कृद्ग्रहणमिति भावः । कृत्यैरधिकार्थवचने । अर्थवादवचनमिति । अविधायकोक्तिरित्यर्थः । वातच्छेद्यं तृणमिति । वातेन छेद्यमिति विग्रहः । छेत्तुं योग्यमित्यर्थः । 'ऋहलोर्ण्यत्' इति कृत्यप्रत्ययः। कोमलत्वेन स्तुतिः, दुर्बलत्वेन निन्दा वा । काकपेयेति । 'अचो यत्' इति यत् , 'ईद्यति' इति ईत्त्वम् , गुणः । अत्र पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा । अन्नेन व्यञ्जनम् । व्यजनशब्द व्याचष्टे--संस्कारेति । संस्क्रियते गुणविशेषवत्तया क्रियते अनेनेति संस्कारः, उपसेकादिसाधनं दध्यादि, तद्वाचकमित्यर्थः । अन्नेनेति । अन्नम् अोदनः, तद्वाचकशब्देनेत्यर्थः । 'भिस्सा स्त्री भक्तमन्धोऽन्नम् ' इति कोशः । दध्ना ओदनो दध्योदन इति । नन्विह द ति करणत्वस्य उपसिक्तपदापेक्षत्वाद् असामर्थ्यात् कथमिह समास इत्यत आह--अन्तर्भूतेति । उपसेकक्रियां विना दनोऽन्नसंस्कारकत्वानुपपत्त्या दना इत्यस्य दधिकरणकोपसेके वृत्ते सामर्थ्यमिति भावः । तदुक्तं भाष्ये--'युक्लार्थसंप्रत्ययाच सामर्थ्यम्' इति । भक्ष्येण मिश्रीकरणम् । मिश्री'अमूर्धमस्तकात्-' इत्यलुक् । कर्तृत्वकरणत्वयोः क्रियानिरूपितत्वेन क्रियासमर्पककृदन्तेनैव भवेत्समासः, 'सुपा' इत्यधिकारात्तिङन्तेन तु नातिप्रसङ्ग इत्याशयेन पृच्छतिकृता किमिति । इतरस्तु तिङन्तप्रकृतिकतद्धितान्तप्रकृतिकसुबन्तेनासमासस्तत्फलमित्याशयेन प्रत्युदाहरति-काष्ठुरिति । कृत्यैरधिकार्थ । पूर्वसूत्रस्यैव प्रपश्चोऽयं न तु नियमार्थमित्याहुः । वातच्छेद्यमिति । पूर्ववत् कृत्यः । कोमलत्वाद्वातेनापि छेत्तुं शक्यत इति स्तुतिः, वातेनापि छेत्तुं शक्यते निर्बलत्वादिति निन्दा वा। काकपेयेति । 'शकि लिङ् च' इति शक्यार्थे कृत्यः । पूर्णतोयत्वात्तटस्थैः काकैरपि पातुं शक्येति स्तुतिः, अल्पतोयत्वेन निन्दा वा । अनेन । 'भिस्सा स्त्री भक्तमन्धोऽनमोदनोऽत्री' इत्यमरः । व्याख्यानानेह स्वरूपग्रहणं तदाह-संस्कारकेत्यादि । भक्ष्येण । खरविशदमभ्यवहार्य भक्ष्यम् । खरं कठिनं विशदं विविक्तावयवं खोयं मक्ष्यमित्यर्थः । यत्प्रत्ययान्तस्य एरजन्तस्य च भक्षयतस्तत्रैव प्रयोगात् । अम्भत , 'असदुक्तिः' इति क्वचित् पाठः । Page #44 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४१ करणम् । (२-१-३५) गुडेन धाना गुडधानाः। मिश्रणक्रियाद्वारा सामय॑म् । ६६८ चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । (२-१-३६) चतुर्यन्तार्थाय यत्तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्त वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभाव एव, बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेहक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरण गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यत इत्यर्थः । कठिनद्रव्यं खाद्यं पृथुकााद भक्ष्यं विवक्षितम् । गुडेन धाना गुडधाना इति । 'धाना भृष्टयवे स्त्रियः' इत्यमरः । गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदापेक्षत्वान सामर्थ्यमित्यत आह--मिश्रणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्ते सामर्थ्यमिति भावः । चतुर्थी । प्रत्ययग्रहणपरिभाषया चतुर्थीत्यनेन चतुर्थ्यन्तं गृह्यते । तदर्थ, अर्थ, बलि, हित, सुख, रक्षित एषां द्वन्द्वः । चतुर्थ्यन्तमेतैः षड्भिः समस्यते, स तत्पुरुष इति फलितम् । तदर्थेत्यत्र तच्छन्देन चतुर्थ्यन्तार्थो विवक्षितः । तस्मै चतुर्थ्यन्तार्थाय इदं तदर्थम् । 'अर्थेन नित्यसमास-' इति वक्ष्यमाणः समासः । चतुर्थ्यन्तवाच्यप्रयोजनकं यत् तत् तदर्थमिति पर्यवस्यति । तदाह--चतुर्थ्यन्तार्थायेत्यादिना । तदर्थेनेति । तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृतिभाव एव भवति; न त्वन्यत्रेत्यर्थः । कुत इत्यत आह--बलिरक्षितेति । यदि तादर्थ्यमात्रे अयं समासः स्यात्, प्रकृतिविकृतिभाव इत्यादिप्रयोगस्तु भाक्तः । गुडधाना इति । ननु धानानां प्रत्येकं विभक्कावयवत्वाभावात्कथमेतदुदाहरणं संगच्छत इति चेत् । मैवम् । भृष्टयवसमुदायस्य धानात्वात्समुदाय प्रति समुदायिनामवयवत्वाच तदुपपत्तेः । चतुर्थी तदर्थाथे । तच्छब्देन प्रकृता चतुर्थी परामृश्यते, प्रत्ययग्रहणात्तदन्तग्रहणम् , चतुर्थ्यन्तेन सामर्थ्यात्तदर्थो लक्ष्यत इत्याशयेनाह-चतुर्थ्यन्तार्थाय यदिति । चतुर्थ्यन्तवाच्याय यूपाय यहार्वादि तद्वाचिना चतुर्थ्यन्तं समस्यत इत्यर्थः । बलिरक्षितग्रहणादिति । हितसुखग्रहणं तु न ज्ञापकम् , तद्योगे 'चतुर्थी चाशिषि-' इति अतादर्थेऽपि चतुर्थीसंभवादिति भावः । ननु 'चतुर्थी चाशिषि-' इति विहिता या चतुर्थी तदन्तस्य समासो न भवति, समासादाशिषोऽनवगमादिति केचिदाहुरिति कैयटेनोक्तम् । ततश्च तत्पने हितसुखग्रहणमपि बलिरक्षितग्रहणवज्ज्ञापकमेवेति चेत् । अत्र नव्याः-ब्राह्मणाय हितं ब्राह्मणहितम् , गोहितम् , गोसुखमित्यतादर्थ्यचतुर्थ्यन्तेनापि समासः स्वीक्रियते। साचातादर्थ्यचतुर्थी 'हितयोगे च' इति वार्तिकात् 'चतुर्थी तदर्था-' इत्यादिना हितसुखशब्दाभ्यां समासविधानाज्ज्ञापकाद्वा सभवतीति हितसुखग्रहणं न ज्ञापकमिति सम्यगेवेत्याहुः । यूपायेति । तादर्थे चतुर्थी । एवमग्रेऽपि यथासंभवमूह्यम् । Page #45 -------------------------------------------------------------------------- ________________ ४२] सिद्धान्तकौमुदी। [तत्पुरुषसमासरन्धनाय स्थाली । अश्वघासादयस्तु षष्ठीसमासाः। 'अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वनग्यम्' (वा १२०३-१२७४)। द्विजायायं द्विजार्थः एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थ स्यात् । भूतेभ्यो बलिः, गोभ्यो रक्षितं तृणमित्यत्रापि बले तार्थतया रक्षिततृणस्य गवार्थतया च तदर्थेत्येव समाससिद्धेरिति भावः । यूपायति । अत्र चतुर्थ्यन्तवाच्ययूपार्थ दारु । अतो दारुशब्देन यूपायेत्यस्य समासः, यूपस्य दारुविकृतित्वाच्च, तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह-नेहेति । रन्धनायेति । पाकायेत्यर्थः । 'रध हिंसायाम् । इह पाको विवक्षितः । भावे ल्युट , अनादेशः । 'रधिजभोरचि' इति नुम् । स्थाल्याश्चतुर्थ्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभावविरहान समासः । ननु अश्वेभ्यो घासः-अश्वघासः, धर्माय नियमो धर्मनियम इत्यादौ कथं तदर्थेन समासः, प्रकृतिविकृतिभावविरहादित्यत आह-अश्वघासादयस्तु षष्ठीसमासा इति । नचैवं रन्धनाय स्थालीत्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभावनियमो व्यर्थ इति वाच्यम्, शाब्दबोधे संबन्धत्वतादर्थ्यत्वकृतवलक्षण्येन उक्तनियमसाफल्यात् । एवं च रन्धनस्य स्थालीति संबन्धत्वेन भाने षष्ठीसमास इष्ट एव । तादर्थ्यत्वेन भाने चतुर्थीसमासवारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यास्तां तावत् । तदेवं तदर्थेत्यंशः प्रपञ्चितः । अथेदानीमर्थशब्देन चतुर्थ्यन्तस्य समासे विशेषमाह--अर्थेनेति । अर्थशब्देन चतुर्थ्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पः स्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्गं तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुंल्लिङ्गत्वात् 'परवल्लिङ्गम्-' इति सर्वत्र पुंल्लिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । इह उपकारक वस्तु विवक्षितमित्यभिप्रेत्योदाहरति--द्विजायायं द्विजार्थः सूप इति । तत्र द्विजायायमित्यस्वपदविग्रहः । तत्र अर्थशब्दस्थाने अयअश्वघासादय इति । एतच्च भाष्यकृतोक्तम् । नन्वेवं रन्धनाय स्थालीत्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभाव एवेति नियमो निष्फल एव । न च स्वरे विशेषः, 'चतुर्थी तदर्था-' इति पूर्वपदप्रकृतिस्वरस्यापि प्रकृतिविकृतिभाव एवेष्यमाणत्वात् । अत्राहुः-'संबन्धत्वतादर्थ्यत्वकृतवैलक्षण्येनोक्तनियमसाफल्यान्न दोषः। अत्र च मानमेतदेव भाष्यम्-'न माषाणामश्नीयात्' 'दाशरथाय मैथिली' इत्यादिप्रयोगा अपि इत्थमेव विवक्षाभेदेन निर्वाह्याः । एवं च 'पूर्वसदृश-' इति सूत्रे सदृशग्रहणं व्यर्थमिति कैयटहरदत्तादीनामुक्तिः प्रामादिकीत्यवधेयम् । शाब्दबोधकृतवैलक्षरयस्य तत्रापि सत्त्वादिति । अर्थेन नित्येति । अन्यथा विभाषाधिकारात्पक्षे Page #46 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३ सूपः। द्विजार्था यवागूः । द्विजार्थ पयः। भूतबलिः । गोहितम् । गोमुखम् । गोरक्षितम् । ६६६ पञ्चमी भयेन । (२-१-३७) चोरादयं चोरभयम् । 'भयभीतभीतिभीभिरिति वाच्यम्' (वा १२७५) वृकभीतः। ७०० अपेतामिति शब्दः, नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । द्विजायेति तादर्थ्यचतुर्थी । तदन्तस्य अर्थशब्देन समासः, विशेष्यसूपशब्दस्य पुँल्लिङ्गत्वात् समासस्य पुँल्लिङ्गता च । द्विजस्य उपकारकः सूप इत्यर्थः । द्विजार्था यवागूरिति । द्विजायेयमिति विग्रहः । अर्थशब्दस्य नित्यपुँल्लिङ्गत्वेऽपि 'परवल्लिङ्गम्-' इति पुंल्लिङ्गं बाधित्वा अनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थ पय इति । द्विजायेदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुर्युव तादर्थ्यस्योक्तत्वाद् 'उक्लाथा - मप्रयोगः' इति न्यायेन अर्थशब्देन विग्रहाप्रसक्तेर्नित्यसमासत्वं न्यायसिद्धमेव । गुरोरिदं गुर्वर्थमित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रहः । तादर्थ्यचतुर्थ्यन्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति विग्रहः । गवामनुकूलमित्यर्थः । 'हित. योगे च' इति शेषषष्ठयपवादश्चतुर्थी । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति । तृणादिकमिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादर्थ्यचतुर्थ्यन्तस्य रक्षितशब्देन समासः। पश्चमी भयेन । पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः । चो. रायं चोरभयमिति । 'भीत्रार्थानां भयहेतुः' इत्यपादानत्वात् पञ्चमी। भयभीतभीतिभीभिरिति । सूत्रे भयशब्दस्यैव ग्रहणाद् भीतादेरप्राप्ते समासे वचनम् । वृकभीत इति। वृकभीतिः, वृकभीरित्यप्युदाहार्यम् । अत्र भाष्ये अपर आहेत्युक्त्वा ‘भयनिर्गतजुगुप्सुभिरिति वक्तव्यम्' इत्युक्त्वा वृकभयम् , ग्रामनिर्गतः, अधमजुगुप्सुः-इत्युदाहृतम् । चोरत्रस्तः, भोगोपरत इत्यादौ 'सुप्सुपा' इति वा मयूरव्यंसकादित्वाद्वा समासः । अपेतापोढ । 'अल्पश-' इति स्वार्थे शस्, अत एव निपाद्विजायार्थ इति प्रयोगः स्यादिति भावः । विशेष्यलिङ्गता चेति । वचनाभावे त्वर्थशब्दस्य नित्यपुंस्त्वात् 'परवल्लिङ्गम्-' इति सर्वत्र पुँल्लिङ्गप्रयोग एव स्यादिति भावः । पञ्चमी भयेन । भयेनेति स्वरूपग्रहणम् नार्थस्य, प्रमाणाभावात् , भयभीत-' इति वार्तिकारम्भाच्च । तेन वृकात्त्रास इत्यादौ समासो न । कथं तर्हि 'भोगोपरतो प्रामनिर्गतः' इत्यादिप्रयोगाः । अत्राहुः-बहुलग्रहणात् क्वचिद्विभक्त्यन्तरमपि कृता समस्यत इति प्रागेवोकत्वात् , 'सुप्सुपा' इत्यनेन वा तदुपपत्तिरिति । अपेतापोढ । पञ्चमीति वर्तते, प्रत्ययग्रहणात्तदन्तग्रहणम् । अल्पश इत्यत्र 'बह्वल्पार्थाच्छस्कारकात्-' Page #47 -------------------------------------------------------------------------- ________________ ४४ ] सिद्धान्तकौमुदी। [तत्पुरुषसमास. पोढमुक्तपतितापत्रस्तैरल्पशः । (२-१-३८) एतैः सहाल्पं पञ्चम्यन्तं समस्यते, स तत्पुरुषः। सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम्-प्रासादापतितः ७०१ स्तोकान्तिकदूरार्थकृच्छ्राणि क्लेन । (२-१-३६) स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः। अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः। 'पञ्चम्याः स्तोकादिभ्यः' (सू १५६ ) इत्यलुक् । ७०२ षष्ठी। (२-२-८) राज्ञः पुरुषो राजपुरुषः । ७०३ याजकादिभिश्च । (२-२-६) एभिः षष्ठयन्तं समस्यते। 'तृजकाभ्यां कर्तरि (सू ७०६) इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । तनात् । तदाह-अल्पं पञ्चम्यन्तमिति । 'बह्वल्पार्थात्-' इति शस् तु न भवति, 'बह्वल्पार्थान्मङ्गलामङ्गलवचनम्' इति वक्ष्यमाणत्वात् । स्तोकान्तिक । स्तोक, अन्तिक, दूर एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्तानि क्तप्रत्ययान्तेन समस्यन्त इत्यर्थः । अर्थग्रहणं स्तोकान्तिकदूरेषु संबध्यते । अल्पान्मुक्त इति । स्तोकपर्यायस्योदाहरणम् । अभ्याशादागत इति । अन्तिकपर्यायस्योदाहरणम् । विप्रकृष्टादागत इति । दूरशब्दपर्याय उदाहार्यः । 'करणे च स्तोक-' इति पञ्चमी । दूरादागत इत्यत्र तु ‘दूरान्तिकार्थेभ्यः-' इति पञ्चमी । अत्र 'सुपो धातु-' इति लुकमाशङ्कयाह-पञ्चम्याः स्तोकादिभ्य इत्यलुगिति । षष्ठी। षष्ठयन्तं सुबन्तेन समस्यते, स तत्पुरुष इत्यर्थः । राजपुरुष इति । राजन् अस् पुरुष स् इत्यलौकिकविग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनी विभक्तिं प्रत्ययलक्षणेनाश्रित्य न लोपः । न च लुका लुप्तत्वान्न प्रत्ययलक्षणमिति । वाच्यम् , पदत्वस्य सुब्घटितसमुदायधर्मत्वेन तस्य अङ्गकार्यत्वाभावादिति भावः । याजकादिभिश्च । ननु 'षष्ठी' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-तृजकाभ्यामिति । ब्राह्मणयाजक इति । ब्राह्मणस्य याजक इति विग्रहः, यजतेय॑न्तात् कर्तरि ण्वुल् , अकादेशः । 'कर्तृकर्मणोः कृति' इति कर्मणि इति शस् । यद्यपि 'बह्वल्पार्थान्मङ्गलामङ्गलवचनम्' इति वक्ष्यति, तथाप्यत एव निपातनाच्छसिति बोध्यम् । कारकत्वं तु समसनक्रियां प्रति पञ्चम्यन्तस्य कर्मत्वात्तदभिधायित्वाचाल्पशब्दस्य, तदेतदाह-अल्पं पञ्चम्यन्तमिति । स्तोकान्मुक्त इत्यादि । 'करणे च स्तोकाल्प-' इति पञ्चमी । दूरादागत इत्यादौ तु 'दूरान्तिकार्थेभ्यः-' इत्यनेन । षष्ठीराजपुरुष इति । राजन् अस् पुरुष सु इत्यलौकिकविग्रहे समासे कृते सुपो लुक्यन्तवर्तिनीं विभक्तिमाश्रित्य पदव्याभलोपः । याजकादिभिश्च । याजक । पूजक । परिचारक । परिवेषक । स्नातक । अध्यापक । उत्पादक । होतृ । Page #48 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५ देवपूजकः । 'गुणात्तरेण तरलोपश्चेति वक्तव्यम्' ( वा ३८४१)। तरबन्तं यद्गुणवाचि तेन सह समासस्तरलोपश्च । 'न निर्धारणे' (सू ७०४ ) इति 'पूरणगुण-' (सू ७०५) इति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् । 'कृयोगा च षष्ठी समस्यत इति वाच्यम्' (वा १३१७) इध्मस्य प्रवचन इध्मप्रव्रश्चनः । ७०४ न निर्धारण । (२२-१०) निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः । 'प्रतिपदषष्ठी । देवपूजक इति । देवानां पूजक इति विग्रहः । पूजकशब्दो याजकादिरिति भावः। भूभतेति तृजन्तस्योदाहार्यम् , भर्तृशब्दस्य याजकादित्वात् । गुणात्तरेणेति । वार्तिकमिदं 'सर्व गुण-' इति सूत्रे भाष्ये स्थितम् । गुणवाचकाद् विहितो यस्तरप् तदन्तेन षष्ठी वा समस्यते , तरपो लोपश्चेत्यर्थः । फलितमाह-तरबन्तं यदिति । ननु 'षष्ठी' इति सूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-न निर्धारण इति । 'सर्व गुण-' इति सूत्रे भाष्ये तु 'पूरणगुण इत्यस्यापवाद' इत्येवोक्तम् । सर्वशब्दानुवृत्तेः सर्वशब्द एवेदं वार्तिकमित्यभिप्रेत्योदाहरति-सर्वेषां श्वेततरः सर्वश्वेत इति । बकानां गुण इति शेषः । द्रव्यान्तरवृत्तिश्वेतरूपापेक्षया सर्वेषां बकानां श्वेतगुणोऽयमधिक इत्यर्थः । 'द्विवचनविभज्य-' इति विभक्तव्योपपदे तरप् । अत्र सर्वेषामिति षष्ठयन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् । सर्वमहानिति । ईश्वर इति शेषः। पूर्ववत्तरप्। सर्वेषां महत्तर इति विग्रहः । इतरसंबन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिकमित्यर्थः । कृद्योगेति । कृता योगो यस्या इति विग्रहः । 'कर्तृकर्मणोः कृति' इति विहितेति भाष्यम् । इध्मप्रवचन इति । कुठार इति शेषः । प्रवृश्चयतेऽनेनेति प्रव्रश्चनः । करणे ल्युट् । इध्मानां प्रव्रश्चन इति विग्रहः । कर्मणि षष्टी । 'प्रतिपदविधाना-' इति वक्ष्यमाणनिषेधस्यापवादोऽयम्। न निर्धारणे । नृणां द्विजः श्रेष्ठ इति । अत्र नृणामिति षष्ठयन्तस्य द्विजशब्देन समासो न भवति । पुरुषाणामुत्तमः पुरुषोत्तम इत्यत्र तु शेषषष्ठयेव, न तु पोतृ । भर्तृ । रथगणक । पत्तिगणक । वृत् । गुणात्तरेणेति । एतच्च वार्तिकं 'सर्व गुणकात्स्न्र्ये' इत्यत्र पठितम् । कृद्योगा षष्ठीति । 'कर्तृकर्मणोः कृति' इति कृत्संनियोगेन कृतेत्यर्थः । यदा तु 'प्रतिपदविधाना-' इत्यादिनिषेधवचनमारभ्यते, तदेदं तद्बाधनायारब्धव्यम् । तस्यैवानारभ्यत्वमनुपदं वक्ष्यामः । इध्मवश्वन इति। वृश्च्यते छिद्यतेऽनेनेति व्रश्चनः कुठारादिः, करण ल्युट । इध्मानामिति कर्मषष्ठयन्तस्यानेन समासः । नृणामिति । 'यतश्च निर्धारणम्' इति षष्टी । द्विजशब्देनात्र समासप्रसङ्गः, तदपेक्षया हि षष्ठी। श्रेष्ठत्वं द्विजेतरमनुष्येभ्यः, तेषां सामान्यशब्देनोप Page #49 -------------------------------------------------------------------------- ________________ ४६ ] सिद्धान्तकौमुदी । [ तत्पुरुषसमास विधाना षष्ठी न समस्यत इति वाच्यम्' ( वा १३२० ) । सर्पिषो ज्ञानम् । निर्धारणषष्ठी । यतो निर्धारणम्, यच्च निर्धार्यते, यच्च निर्धारणहेतुः, एतत्त्रितय - संनिधान एव तस्याः प्रवृत्तेरिति कैयटः । गुणेन निषेधस्त्वनित्य इति तरप्सूत्रे कैयटः । केचित्तु ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।' इति गीतावाक्यात् कर्मधारय एव । उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात इत्याहुः । प्रतिपदविधानेति । पदं पदं प्रतीति वीप्सायामव्ययीभावः । प्रतिपदं विधानं यस्याः सा प्रतिपदविधाना । ' षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्टी प्रतिपदविधानेति भाष्यम् । सर्पिषो ज्ञानमिति । अत्र 'ज्ञोऽविदर्थस्य करणे' इति स्थिततया तान्विहायानुपस्थितकल्पनाया अन्याय्यत्वात् । अथ कथं पुरुषोत्तम इति । यस्मान्निर्धार्यते, यश्चैकदेशो निर्धार्यते, यश्च निर्धारणहेतुः, एतत्त्रितयसंनिधाने सत्येवायं निषेध इति ‘द्विवचनविभज्योप-' इति सूत्रे कैयटः । अन्ये तु — पुरुषेषूत्तम इति निर्धारणसप्तम्याः ‘संज्ञायाम्' इति समासः । न चैवं 'न निर्धारणे' इति व्यर्थम् । स्वरे भेदात् । सप्तमीसमासे हि 'तत्पुरुषे तुल्यार्थ -' इत्यादिना पूर्वपदप्रकृतिस्वरः, षष्ठीसमासे तु 'समासस्य' इत्यन्तोदात्तत्वं स्यात्तचानिष्टमित्याहुः । तन्मन्दम् । 'संज्ञायाम्' इति समासस्य नित्यत्वेन स्वपदविग्रहा संगतिप्रसङ्गात् । तस्मात्कैयटोक्तसमाधानमेव समीचीनमिति नव्याः । प्रतिपदविधानेति । पदं पदं प्रति विहिता प्रतिपदविधाना । ‘षष्ठी शेषे' इति विहायान्येन 'ज्ञोऽविदर्थस्य -' इत्यादिना विहिता सर्वैव षष्ठीत्यर्थः । धातुकारकविशेषं गृहीत्वैव 'ज्ञोऽविदर्थस्य -' इत्यादिना षष्ठी विधीयत इति भवति तस्याः प्रतिपदविधानत्वम् । नन्वनेनैव गतार्थत्वाद् 'न निर्धारणे' इति व्यर्थमिति चेद् । अत्राहुः— 'यतश्च निर्धारणम्' इति सूत्रं न षष्ठीं विधत्ते, किं तु सप्तमीमेव । षष्ठी तु तया मा बाधीति प्रतिप्रसूयत इत्यन्यदेतत् । एवं 'स्वामीश्वराधिपति—' इत्यादिष्वपि । तेन गृहस्वामी, सर्वेश्वरः, निषादाधिपतिरित्यादि सिद्धमिति । वस्तुतस्तु ‘ज्ञोऽविदर्थस्य -' इत्यादिचतुर्दशसूत्रीमध्ये 'दिवस्तदर्थस्य' इत्यादिषट्सूत्रीं विहायावशिष्टायामष्टसूत्र्यां 'शेषे' इति वर्तते, तथा च 'न माषाणामश्नीयात्' इत्यादाविव ‘षष्ठी शेषे’ इत्येव सिद्धे नियमार्थं प्रकरणम्, 'इह षष्ठयेव न तु तल्लुक्' इति । तथा च लुकः प्रयोजकीभूतः समास एव नेति फलितोऽर्थः । ततश्च प्रतिपदविधाना-' इति वचनं न कर्तव्यम् । एवं स्थिते 'कृयोगा षष्ठी - ' इति वचनमपि मास्तु । ‘कर्तृकर्मणोः कृति' इत्यत्र हि 'शेषे' इति निवृत्तम् । तथा चाप्राप्तषष्ठीविधानार्थमेव तदिति समासनिवृत्तिप्रसङ्गाभावात् ' षष्ठी' इत्यनेनैव समाससिद्धेः । सर्पिषो ज्ञानमिति । वस्तुतः करणस्य संबन्धमात्रविवक्षया 'ज्ञोऽविदर्थस्य -' इति Page #50 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमात्तत्त्वबोधिनीसहिता। [४७ ७०५ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन । (२-२-११) पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते । पूरणे-सतां षष्ठः । गुणे-काकस्य कार्यम् , ब्राह्मणस्य शुक्राः । यदाप्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदे. विहितषष्ठयाः समासो न भवति । 'न निर्धारणे' इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमित्यलम् । पूरणगुण । पूरणगुणसुहितानि अर्था येषां ते पूरणगुणसुहितार्थाः, ते च सच्च अव्ययं च तव्यश्च समानाधिकरणं चेति समाहारद्वन्द्वात् तृतीया । तदाह-- पूरणाद्यथैरिति । पूरण इति । उदाहरणं वक्ष्यत इति शेषः । सतां षष्ठ इति । षराणां पूरण इत्यर्थे 'तस्य पूरणे डट' 'षट्कतिकतिपयचतुरां थुक्' । न च कुम्भपूरणमित्यत्रापि स निषेधः स्यादिति काच्यम् , 'सोऽचि लोपे चेत् पादपूरणम् , इति निर्देशन पूरणार्थकप्रत्ययस्यैव ग्रहणात् । 'उञ्छषष्ठाङ्कितसैकतानि' इत्यत्र तु उञ्छात्मकः षष्ठ इति व्याख्येयम् । गुण इति । उदाहरणं वक्ष्यत इत्यर्थः। प्रधानत्वेन वा उपसर्जनत्वेन वा गुणवाची गुणशब्दः व्याख्यानात् । तदाह-काकस्य कार्यम् , ब्राह्मणस्य शुक्ला इति । कृष्णशब्दाद् ‘गुणवचनब्राह्मणादिभ्यः-' इति भावे ष्यञ् । शुक्लशब्दात्तु 'गुणवचनेभ्यो मतुपो लुक्' इति लुक् । ननु दन्ता इति शेषपूरणेन ब्राह्मणस्य दन्ताः शुक्ला इत्यर्थे ब्राह्मणशब्दस्य दन्तशब्देनैवान्वयात् शुक्लशब्देनान्वयाभावादसामर्थ्यात् कथमिह समासप्रवृत्तिरित्यत आह—यदा प्रकरणादिनेति । प्रकरणादर्थाद्वेत्यर्थः । दन्ताः संयुक्ताः शुभावहाः, न तु विरला इत्याषष्ठी । सर्पिःसंबन्धि प्रवर्तनमित्यर्थः । पूरणगुण । अर्थशब्दस्य त्रिषु संबन्धादाहपूरणाद्यथैरिति । अत्र प्राचोक्तम् ‘एतदर्थैः षष्टी न समस्यते' इति, तन्न्यूनम् । तथा हि सती सुहितान्तानामेव ग्रहणं स्यात् , तावतामेवार्थशब्देन समस्तत्वादिति ध्वनयन्नाह सदादिभिश्चेति । षष्ठ इति । षण्णां पूरणः षष्ठः । 'तस्य पूरणे डट', 'षट्कतिकतिपयचतुरां थुक्' । कथं तर्हि 'तान्युञ्छषष्ठाङ्कितसैकतानि' इति । प्रमाद एवायमित्येके। उञ्छेषु षष्ठ उञ्छात्मकः षष्ठ इति वा व्याख्येयमिति मनोरमायां स्थितम् । गुण इति । 'सत्त्वे निविशतेऽपैति-' इत्यादिलक्षणलक्षितो गुणोऽत्र गृह्यते, न त्वदेङलक्षणः, अर्थग्रहणात् । नापि संख्या। 'क्रोशशतयोजनशतयोः' इति वार्तिके निर्देशात् । काकस्य कार्यम् । ब्राह्मणस्य शुक्ला इति । व्याप्तिन्यायात्केवलगुणवाची गुणोपसर्जनद्रव्यवाची च गुणशब्देन गृह्यत इति भावः । ननु ब्राह्मणस्य शुक्ला इत्यत्र समासप्रसङ्ग एव नास्ति, ब्राह्मणशब्दस्य दन्तैरेवान्वयाद् ब्राह्मणस्य ये दन्तास्ते शुक्ला इत्यर्थादत आह-यदेति । शुक्लशब्द एवेह विशेष्यसमर्पक इति भावः । चन्दनगन्धो घटरूपमित्यादावनेन निषेधे प्राप्ते 'तत्स्थैश्च गुणैः समासो वक्तव्यः' Page #51 -------------------------------------------------------------------------- ________________ ४८] सिद्धान्तकौमुदी। [ तत्पुरुषसमासदमुदाहरणम् । अनित्योऽयं गुणेन निषेधः, 'तदशियं संज्ञाप्रमाणत्वात् (सू १२६५) इत्यादिनिर्देशात् । तेन अर्थगौरवम् , बुद्धिमान्यम् इत्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । तृतीयासमासस्तु स्यादेव । स्वरे विशेषः। दिदन्तवर्णने प्रकृते यदा ब्राह्मणस्य शुक्ला इत्युच्यते, तदा प्रकरणाद् दन्ता इति विशेष्योपस्थितिः । यदा वा सर्ववर्णेषु दन्तवस्त्रभूषणेषु प्रकृतेषु ब्राह्मणस्य शुक्ला इत्युच्यते, तदा अर्थाद् दन्ता इति विशेष्योपस्थितिः, तत्र सामर्थ्यसत्त्वात् समासे प्राप्ते निषेध इत्यर्थः । अत्र 'आकडारात्-' इति सूत्रोक्तगुणवचनसंज्ञकानां 'तृतीया तत्कृत-' इति सूत्रे प्रपञ्चितानां गुणानां न ग्रहणम् , अत्र गुणवचनशब्दाभावात् । किं तु 'वोत्तो गणवचनात्' इति सूत्रभाष्ये प्रपञ्चितानां 'सत्त्वे निविशतेऽपैति-' इत्यादिलक्षणलक्षितगुणानामेव ग्रहणमिति बोध्यम् । एतेन 'आकडारात्-' इति सूत्रभाष्ये तद्धितान्तस्य गुणवचनत्वपर्युदासात् कथं काष्र्यादिशब्दानां गुणवाचित्वमिति निरस्तम् । अथ अर्थगौरवमित्यादौ षष्ठीसमासं साधयितुमाह-अनित्योऽयमिति । संक्षाप्रमाणत्वादिति । संज्ञायाः प्रमाणत्वं संज्ञाप्रमाणत्वम् , तस्मादिति विग्रहः। अत्र प्रमाणत्वस्य गुणत्वात् तेन षष्ठीसमासनिषेधात्समासनिर्देशोऽनुपपन्नः स्यात् । अतो गुणेन समासनिषेधोऽनित्य इति विज्ञायत इत्यर्थः । इत्यादीति । श्रादिना गुणकात्यमित्यादिसंग्रहः । वस्तुतस्तु अनित्यो गुणेन निषेध इत्ययमों भाष्ये न दृश्यते, न च कृष्णैकत्वमित्यादौ समासानुपपत्तिरिति वाच्यम् , 'पङ्क्तिविंशति-' इति सूत्रे विंशत्यादिशब्दा भाववचना भवन्तीत्युक्त्वा गवां विंशतिर्गवां सहस्रमित्यर्थे गोविंशतिर्गासहस्रमित्यादिप्रयोगात् । अर्थगौरवमित्यादौ तु अर्थगतं गौरवमिति मध्यमपदलोपिसमासो बोध्य इति शब्देन्दुशेखरे प्रपञ्चितम् । सुहितपदं व्याचष्टे-सुहितार्थास्तुप्त्यर्था इति । नपुंसके भावे क्त इति भावः । फलानां सुहित इति । करणत्वस्याविवक्षयां संबन्धविवक्षायां षष्ठी। अर्थग्रहणात् फलानां तृप्तिरित्यादावपि न समासः। फलसुहितमिति कथं समास इत्यत आह-तृतीयासमासस्तु स्यादेवेति । करणत्वविवक्षायां तृतीया । 'कर्तृकरणे कृता बहुलम्' इति समास इति भावः । तर्हि सुहितयोगे षष्ठीसमासनिषेधो व्यर्थ इत्यत आह-स्वरे विशेष इति । इति वार्तिकेन समासः प्रतिप्रसूयते । गन्धत्वेन प्रतीयमानो गन्धो न कदापि गुणिसमानाधिकरणः । किं तु स्वप्रधानः इदमेव हि तात्स्थ्यं नाम । ननु 'पिनष्टि गन्धान्' इति प्रयोगदर्शनात् शुक्लशब्दादितुल्य एव गन्धशब्दो न तत्स्थगुणवचन इति चेत् । न । पिनष्टीति प्रयोगे हि गन्धानिति न गुणशब्दः, मालतीकुसुमादिषु गन्धशब्दप्रयोगदर्शनात् । किं तु चन्दनत्वादिजातिनिमित्तकोऽन्य एव सः । तस्माचन्दनगन्ध Page #52 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६ सत्-द्विजस्य कुर्वन् , कुर्वाणो वा, किङ्कर इत्यर्थः । अव्ययम्-ब्राह्मणस्य कृत्वा। पूर्वोत्तरसाहचर्यास्कृदन्ययमेव गृह्यते, तेन तदुपरि इत्यादि सिद्धमिति रक्षितः । तव्यः-ग्राह्मणस्य कर्तव्यम् । तग्यता तु भवत्येव, स्वकर्तव्यम् । स्वरे भेदः । तृतीयासमासे 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः । षष्ठीसमासे तु समासस्येत्यन्तोदात्तत्वमिति फलभेद इति भावः । सदिति । सद्योगे षष्ठीसमासनिषेध उदाह्रियत इत्यर्थः । 'तौ सत्' इति शतृशानचोः सदिति संज्ञा वक्ष्यते। ननु द्विजस्य कुर्वनिति न कर्मणि षष्ठी, 'न लोक-' इति निषेधात् । नापि द्विजस्य घटं कुर्वन्निति घटाद्यपेक्षया शेषषष्ठी, तर्हि सापेक्षत्वेनासामर्थ्यात् कुर्वन्नित्यनेन समासाप्रवृत्तेरित्यत आह-किङ्कर इत्यर्थ इति । द्विजं परिचरन्नित्यर्थ इति यावत् । कृधातुरिह परिचरणे वर्तत इति फलितम् । अव्ययमिति । उदाहरणं वक्ष्यत इति शेषः । पूर्वोत्तरेति । सत्तव्याभ्यां कृयामित्यर्थः । 'अनेकमन्यपदार्थे' इति सूत्रभाध्ये सर्वपश्चादिति प्रयोगश्चेह लिङ्गम् । तव्य इति । उदाहरणं वक्ष्यत इत्यर्थः । ब्राह्मणस्य कर्तव्यमिति । 'अर्हे कृत्यतृचश्च' 'तव्यत्तव्यानीयरः' इति कृत्यस्तव्यः । 'कृत्यानां कर्तरि वा' इति षष्ठी । तव्यता तु भवत्येवेति । षष्ठीसमास इति शेषः। तकारानुबन्धरहितस्यैव तव्यस्य सूत्रे ग्रहणात्तव्यतो न ग्रहणमिति भावः । स्वकर्तव्यमिति । स्वस्य कर्तव्यमिति विग्रहः। 'कृत्यानां कर्तरि वा' इति षष्ठी। अत्र तव्यता योगात् समासनिषेधो नेति भावः । ननु तव्यत्प्रत्ययमाश्रित्य ब्राह्मणकर्तव्यमिति समाससंभवात् किं तव्ययोगे तन्निषेधेनत्यत आह-स्वरे भेद इति । तव्यति कृते इत्यादौ तत्स्थत्वं सुस्थमेव । एवं घटरूपमित्यादावपि। नन्वेवमपि 'बलाकायाः शौक्लयम्' 'केशस्य नैल्यम्' इत्यादावतिप्रसङ्ग इति चेत् , अत्राहुः-'गुणिवचनादुत्पन्नध्या शुक्लादिगुणस्यैवाभिधानात्तद्वाचकपदानां गुणिसामानाधिकरण्यसत्त्वान्न दोषः। तथा च प्राधान्येनाप्राधान्येन वा द्रव्याप्रतिपादकत्वे सति गुणप्रतिपादकत्वं तत्स्थगुणवाचित्वम्' इत्यर्थ इति । फलानामिति । करणस्य शेषत्वविवक्षायां षष्ठी । स्वरे विशेष इति । 'तत्पुरुषे तुल्यार्थ-' इति पूर्वपदप्रकृतिस्वरं बाधित्वा 'थाथ-' आदिसूत्रेणान्तो दात्तत्वे प्राप्त तदपवादेन 'तृतीया कर्मणि' इत्यनेन पूर्वपदप्रकृतिस्वरे सत्यायुदात्त इष्टः, षष्ठीसमासे तु अन्तोदात्तत्वं स्यात्तच्च नेष्यत इति भावः। तृपिश्च सकर्मकोऽप्यस्ति 'पितृनताप्सीत्सममंस्त बन्धून् ' इति भट्टिप्रयोगात् । तेनास्मात् कर्मणि को नास्तीति न शकुनीयम् । द्विजस्य कुर्वन् कुर्वाण इति । नेयं घटाद्यपेक्षया षष्ठी द्विजस्य घटं कुर्वनिति। तथा हि सत्यसामर्थ्यादेव समासाप्रसक्तौ निषेधोऽयं व्यर्थः स्यादतो व्याचष्टे-किंकर इत्यर्थ इति । ब्राह्मणस्य कृत्वेति । तादर्थ्यरूपसंबन्धस्य सामान्य Page #53 -------------------------------------------------------------------------- ________________ ५० ] सिद्धान्तकौमुदी। तत्पुरुषसमाससमानाधिकरणेन-तक्षकस्य सर्पस्य । विशेषणसमासस्विह बहुलग्रहणान्न । 'गोर्धेनोः' इत्यादिषु पोटायुवति-' (सू ७४४) इत्यादीनां विभक्स्यन्तरे चरिकृदुत्तरपदप्रकृतिस्वरण प्रकृतिस्वरः, तव्ये तु नेति फलभेद इति भावः । समाना धिकरण इति । समानाधिकरणेन 'षष्ठयन्तं न समस्यते इत्यत्रोदाहरणं वक्ष्यत इत्यर्थः । तक्षकस्य सर्पस्येति । अत्र समासे सति पुनः समासात् षष्ठयत्पत्तौ तक्षकसर्पस्येति न भवतीत्यर्थः । ननु षष्ठीसमासस्य निषेधेऽपि 'विशेषणं विशेष्येण बहुलम्' इति कर्मधारयसमासो दुर्वारः । अतः किं षष्ठीसमासनिषेधेनेत्यत आहविशेषणसमासस्त्विति । ननु षष्ठीसमासनिषेधसामर्थ्यादेवात्र कर्मधारयो न भविष्यति । तत् किमगतिकगत्या बहुलग्रहणाश्रयणेन । न च कर्मधारयस्वर एव यथा स्यात् , न तु षष्टीसमासस्वर इत्येतदर्थः षष्ठीसमासनिषेध इति वाच्यम् , उभयथापि 'समासस्य' इत्यन्तोदात्तत्वस्याविशिष्टत्वादिति चेत् , मैवम्-कर्मधारये हि सति गमनस्य श्रेयस इत्यादौ 'श्रज्यावमकन्पापवत्सु भावे, इति पूर्वपदप्रकृतिस्वरः । षष्ठीसमासे त्वन्तोदात्तत्वं स्यात् । तन्मा भूदित्येतदर्थं षष्ठीसमासनिषेध आवश्यक इति समासनिषेधस्य चरितार्थत्वान्न तस्य विशेषणसमासनिवृत्तिसामर्थ्यमिति बहुलग्रहणमाश्रितम् । न चैवमपि तक्षकसर्प इति प्रथमान्तविग्रहे कर्मधारये सति तक्षकसर्पस्येति दुर्निवारमिति वाच्यम् , निषेधसमार्थ्यादेव प्रथमान्तकर्मधारयमाश्रित्य तक्षकसर्पस्येत्येवंजातीयकप्रयोगाभावोन्नयनात् । अथ समानाधिकरणेन निषेधे उदाहरणान्तरमाह-गोर्धेनोरिति । गोर्धेनोरित्यादिषु षष्टीसमासः प्राप्तः, सोऽप्यनेन वार्यत इत्यन्वयः। आदिना यूनः खलते. रित्यादिसंग्रहः । ननु षष्ठीसमास एवात्र न प्रसज्यते, 'पोटायुवति-' 'युवा खलति-' इत्यादिविशेषविहितकर्मधारयेणात्र परस्यापि षष्ठीसमासस्य बाधितत्वादित्यत आहपोटायुवतीत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद्वाधक इति । 'पोटायुवति-' 'युवा खलति-' इत्यादिविधयो गौर्धेनुः, युवा खलतिरित्यादिषु प्रथमारूपेण विवक्षायां षष्ठी । ब्राह्मणसंबन्धिनी या क्रिया तदनन्तरमित्यर्थः । कृदव्ययमेवेति । 'अनेकमन्यपदार्थे' इति सूत्रे 'सर्वपश्चात्-' इति भाष्यप्रयोगादिति भावः । इत्यादीति । तथा च भट्टिः प्रायुत-'यत्कृतेऽरीन्निगृह्णीमः' । 'आदेयाः किंकृते भोगाः कुम्भकर्ण त्वया विना' इति । रक्षित इति । कैयटहरदत्तौ तु अव्ययप्रतिषेधे 'वृक्षस्योपरि' इत्युदाहरन्तौ अकृदव्ययेनापि निषेधं मन्येते, तौ च प्रागुक्तभाष्यप्रयोगविरोधादुपक्ष्याविति भावः । तव्यता तु भवत्येवेति । सूत्रे निरनुबन्धग्रहणादिति भावः । स्वकर्तव्यमिति । कर्तृषष्ठया समासः। स्वरे भेद इति । कृदुतरपदप्रकृतिस्वरेण तित्स्वरस्याषस्थानादन्तस्वरित इष्टः । तव्येन तु समासे मध्यो Page #54 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१ तार्थानां परस्वादाधकः षष्ठीसमासः प्रातः, सोऽप्यनेन वार्यते । ७०६ क्तेन च पूजायाम् । (२-२-१२) 'मतिबुद्धि-' (सू ३०८६) इति सूत्रेण विहितो यः कस्तदन्तेन षष्ठी न समस्यते। राज्ञां मतो बुद्धः पूजितो वा। राजपूजित इत्यादी तु भूते कान्तेन सह तृतीयान्तस्य समासः १७०७ अधिकरणवाचिनाच। विभक्त्यन्तेषु सावकाशाः । षष्ठीसमासस्तु राज्ञः पुरुष इत्यादावसमानाधिकरणे सावकाशः । गोर्धेनोः, यूनः खलतेरित्यादिषु उभयं प्राप्तम् । तत्र 'पोटायुवति' 'युवा खलति' इत्यादिविधीन् बाधित्वा षष्ठीसमासः प्राप्तः, सोऽप्यनेन समानाधिकरणेनेति निषेधेन वार्यत इत्यर्थः । न च निषेधसामर्थ्यादेव पोटायुवति-' इत्यादिसमासोऽपि बाध्यतामिति वाच्यम् , षष्ठीसमासे गोर्धेनोरित्यादौ अन्यतरस्य पूर्वनिपातः। 'पोटायुवति-' इत्यादिसमासे तु गोयुवादिशब्दस्यैवेति फलभेदस्य स्पष्टत्वात् । समानाधिकरणेन निषेधश्वायं क्वाचित्क एव, अन्यस्य पदस्यार्थ इत्यर्थे अन्यपदार्थ इति निर्देशात् । तेन नीलोत्पलस्य गन्ध इत्यादिसिद्धः । तेन च पूजायाम् । अत्र पूजाग्रहणं 'मतिबुद्धिपूजार्थेभ्यश्च' इति सूत्रोपलक्षणम् । तदाह--मतिबुद्धीति सूत्रेणेति । राक्षां मतो बुद्धः पूजितो वेति । राज्ञा इष्यमाणो ज्ञायमानः पुज्यमान इति क्रमेणार्थः। 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः । 'क्लस्य च वर्तमाने' इति षष्ठी । नन्वेवं सति राजपूजितो राजमतो राजबुद्ध इति कथं समास इत्यत आह-राजपूजित इत्यादाविति । अधिकरणवाचिना च । शेषपूरणेन सूत्रं व्याचष्टे--केनेति । दात्तत्वं स्यात् , तच्च नेष्यत इति भावः । सोऽप्यनेनेति । षष्ठीसमासेन 'पोटायुवति-' इति समासो वारितः, सोऽपि षष्ठीसमासः 'पूरणगुण-' इत्यनेन वार्यत इत्यर्थः। क्नेन च पूजायाम् । सूत्रोपलक्षणं पूजाग्रहणं व्याख्यानादित्याह-मतिबुद्धीति । राशामिति । 'क्तस्य च वर्तमाने' इति कर्तरि षष्ठी। भूत इति । न च तक्रकौण्डिन्यन्यायेन मत्यादिभ्यः तस्य वर्तमानकालो भूतकालतां बाधत इति वाच्यम् । 'तेनैकदिक्' इत्यतः 'तेन' इत्यधिकारे 'उपज्ञाते' इति निर्देशेन भूतकालस्याबाधज्ञापनात्। 'उपज्ञाते' इत्यत्र हि भूते क्लः, न तु वर्तमाने । अन्यथा 'क्लस्य च वर्तमाने' इति षष्ठी विधानादुपज्ञातशब्दस्य तेनेति तृतीयायोगो न स्यात् । न चैवमपि ज्ञानार्थेष्वेव ज्ञापकत्वमस्त्विति वाच्यम् । 'पूजितो यः सुरासुरैः' इति प्रयोगानुरोधेन सामान्यविषयज्ञापकत्वस्यैव न्याय्यत्वात् । अन्ये तु कारकषष्ठया एव समासनिषेधोऽयम् , शेषषष्ठया तु समासः स्यादेवेत्याहुः । एतेन 'कलहं स राममहितः कृतवान्' इति भप्रियोगो व्याख्यातः । राममहितः स कलहं कृतवानित्यन्वयः। अधिकरणवाचिना च । Page #55 -------------------------------------------------------------------------- ________________ ५२] सिद्धान्तकौमुदी। [तत्पुरुषसमास(२-२-१३) क्रेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा । ७०८ कर्मणि च । (२-२-१४) 'उभयप्रासौ कर्मणि' (स ६२५) इति या षष्ठी सा न समस्यते । पाश्चर्यो गवां दोहोऽगोपेन । ७०६ तृजकाभ्यां कर्तरि । इदमेषामासितं शयितं गतं भुक्तं वेति । 'लोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इत्यधिकरणे क्तः । 'अधिकरणवाचिनश्च' इति षष्टी । कर्मणि च । केनेति निवृत्तम् । कर्मणि या षष्ठी सा न समस्यते-इत्यर्थे अपां स्रष्टेत्यादावपि निषेधसिद्धेः 'तृजकाभ्यां कर्तरि' इति व्यर्थ स्यात् । किं तु चकार इतिपर्यायः । कर्मणीति सप्तम्येकवचनमुच्चार्य या षष्ठी विहिता सा न समस्यत इत्यर्थः । फलितमाह--उभयेत्यादिना । आश्चर्य इति । यद्यप्यत्र 'कर्तृकर्मणोः कृति' इत्येव कमेणि षष्ठी, न तु 'उभयप्राप्ती कर्मणि' इति सूत्रेण, तस्य सूत्रस्य कर्मण्येव षष्ठी, न तु कर्तरीति नियमपरत्वात् । तथापि नियमसूत्राणां विधिरूपेण निषेधरूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः। शब्दानुशासनमित्यत्र तु वस्तुत आचार्यस्य कर्तृत्वेऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याप्रवृत्तेयिं निषेधः, 'कृत्वोऽर्थप्रयोगे-''इत्यतःप्रयोगे' इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः । यद्वा 'शेषे विभाषा' अविशेषेण विभात्याश्रित्य उभयप्राप्तावित्यभावपक्षे 'कर्तृकर्मणोः कृति' इत्येव षष्ठयाः प्राप्त यं निषेध इत्यलम् । तुजकाभ्यां कर्तरि । कर्तरीति तृजकयोरेव विशेषणम्, श्रुतत्वात् । न वाचिग्रहणं चिन्त्यप्रयोजनमिति हरदत्तादयः । इदमेषामिति । 'कोऽधिकरणे च-' इति क्तः । 'अधिकरणवाचिनश्च' इति कर्तरि षष्ठी । 'अधिकरणे च' इत्येव सिद्ध सूत्रद्वयेऽपि वाचिग्रहणं स्पष्टार्थमित्याहुः । ननु किंवृत्तं यवृत्तमित्यत्र न कर्मणि क्तः, वृतेरकर्मकत्वात् । तथा चाधिकरणक्लान्तेन कथमिह समास इति चेन् मैवम् , नायमधिकरणे क्तः, किंतु 'गत्यर्थाकर्मक-' इति कर्तरि । किमा वृत्तं निष्पन्नमित्यर्थः । कर्मणि च । क्लेनेति नानुवर्तते. 'क्केन च पूजायाम्' इति निषेधवैयर्थ्यप्रसङ्गात् । षष्ठी त्वनुवर्तते, किंतु सापि या काचिकर्मणि षष्ठी न गृह्यते । 'अपां स्रष्टा' इत्यादावनेनैव सिद्धौ ‘तृजकाभ्यां कर्तरि' इति निषेधवैयापत्तेः । किं च 'इध्मव्रश्चनः' इत्यादौ समाससिद्धये वचनं कर्तव्यं स्यात् । न च 'कृद्योगलक्षणा षष्ठी समस्यते' इति वार्तिकमस्त्येवेति वाच्यम् , तस्य सिद्धान्ते प्रत्याख्यानात्। ततश्च निपातानामनेकार्थत्वादितीत्यर्थे चशब्दोऽयम् तदाह-कर्मणीति या षष्ठीति । सप्तम्येकवचनान्तं पदमुच्चार्य या षष्ठी विहिता परिशेषिता वेत्यर्थः । नियमसूत्राणां विधिमुखेन निषेधमुखेन वेति द्वेधा प्रवृत्तेः स्वीकृतत्वात् । गवां दोह इति । अगोपेनेत्युपन्यासस्त्विह उभयप्राप्तिप्रदर्शनार्थः। ननु कथम् अथ शब्दानुशासनमिति। अत्र व्याचख्युः-शब्दानामितीयं Page #56 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३ (२-२-१५) कर्बर्थतजकाभ्यां षष्या न समासः । प्रपा स्रष्टा । वज्रस्य भने । प्रोदनस्य पाचकः । कर्तरि किम्-इथूणां भक्षणमितुमक्षिका । पत्यर्थभर्तृशब्दस्य तु याजकादित्वात्समासः । भूभः कथं तर्हि 'घटानां निर्मातुभिभुवनतु षष्ठयाः। तदाह-कर्बर्थतजकाभ्यामिति । अपां स्रष्टा, वज्रस्य भर्तेति । 'एवुल्तृचौ' इति कर्तरि तृच् , 'कर्तृकर्मणोः-' इति कर्मणि षष्ठी । एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल । अकादेश इति विशेषः । इशुभतिकेति । "स्त्रियां किन्' इत्यधिकारे धात्वर्थनिदेशे एवुल । कर्मणि षष्ठयाः समासः । 'कर्मणि च' इति निषेधस्तु न, कर्तुः प्रयोग एव तत्प्रवृत्तेः । ननु 'भुवो भर्ता भूभर्ता' इत्यत्रापि निषेधः स्यात् । न च भतुशब्दस्य याजकादौ पाठाद् भवत्येव षष्ठीसमासः। 'याजकादिभिश्व' इत्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम् , एवं तर्हि वज्रस्य भर्तेत्यत्रापि समासप्रसङ्गादित्यत आह-पत्यर्थेति । याजकादौ पत्यर्थकस्यैव भर्तृशब्दस्य ग्रहणम् , व्याख्यानात् । ततश्च वज्रस्य भर्तेत्यत्र 'याजकादिभिश्च' इति समासो नेति भावः । कथं तहीति । त्रयाणां भुवनानां समाहारत्रिभुवनम् , तद्धितार्थ इति द्विगुः । 'अकारान्तो. षष्ठी 'कर्तृकर्मणोः-' इति विहिता, न तु 'उभयप्राप्तौ- इत्यनेन, आचार्यस्य कर्तुः वस्तुतः सत्त्वेऽपि इहानुपादानात् । 'कृत्वोर्थप्रयोगे-' इत्यतः 'प्रयोगे' इत्यनुवर्तनात्कर्तृकर्मणोरुभयोरुपादान एवायं नियम इति स्वीकारात् । 'आश्चर्यो गवां दोहोऽगोपेन' इत्यत्र हि आश्चर्य प्रतिपाद्यम् , तच्च यद्यशिक्षितो दोग्धा दुर्दोहा गावश्च दोग्धव्यास्त. देव निर्वहति, न त्वन्यथा । अतः कर्तृकर्मणोविशिष्योपादानादस्तुभयप्राप्तिः, इह तु 'शब्दानामिदमनुशासनम् ,न त्वर्थानाम्' इत्यर्थनिवृत्तिपरं वाक्यम् न तु कर्तृविशेषनिवृत्तिपरमतो नास्त्युभयप्राप्तिः । अस्तु वा यथाकथंचिदुभयप्राप्तिः, तथापि न क्षतिः, 'उभयप्राप्तौ-' इति सूत्रे 'अविशेषेण विभाषा' इति पक्षस्यापि विद्यमानतया नियमाप्रवृत्तिपक्षे 'आचार्यस्य शब्दानुशासनम्' इति प्रयोगसंभवात् । यदि वा शेषलक्षणा षष्ठीति व्याख्यायते, तदा तु समासनिषेधशकैवात्र नास्तीति । तुजकाभ्याम् । इह 'कर्तृषष्ठया तृजकाभ्याम्' इति वृत्तिकारव्याख्यानमयुक्तमिति ध्वनयनाह-कर्बर्थतुजकाभ्यामिति । कर्तृग्रहणं तृजकयोरेव विशेषणमिति युक्तम् , तयोः श्रुतत्वात् , न तु षष्ठया इति भावः । यद्यपि कर्तरीति तृचो न विशेषणम् , व्यभिचारात् , तथाप्यकस्य विशेषणत्वेन तदावश्यकमित्याह--इभक्षिकेति । 'पर्यायार्हणा-' इति भावे एवुच् । कर्मणि षष्ठया समासः । ननु वज्रस्य भर्तेत्युदाहरणमयुक्तम् । भर्तृशब्दस्य याजकादित्वेन समासावश्यंभावादित्याशङ्कयाह-पत्यर्थभर्तृशब्दस्येति । यद्यपि याजकादिष्वर्थविशेषविशिष्टतया भर्तृशब्दो न पठितः, तथापि रूढेर्बलीयस्त्वात्पतिपर्याय Page #57 -------------------------------------------------------------------------- ________________ ५४ ] सिद्धान्तकौमुदी। [तत्पुरुषसमासविधातुश्च कलहः' इति । शेषषष्टया समास इति कैयटः । ७१० कर्तरि च (२-२-१६) कर्तरि षष्ट्या अकेन न समासः। भवतः शायिका। नेह तृज. नुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठया प्रभावात् । ७११ नित्यं क्रीडाजीविकयोः। (२-२-५७) एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा। 'संज्ञायाम् (सू ३२८६) इति भावे एषुल् । जीविकायाम्-दन्तलेखकः । तत्र क्रीडायां विकल्पे, जीविकायां 'तृजकाभ्यां त्तरपदो द्विगुः स्त्रियाम्' इति तु न भवति, पात्राद्यन्तस्य नेत्युक्तेः । त्रिभुवनस्य विधा. तेति तृचो योगे कथं कर्मणि षष्ठयाः समास इत्याक्षेपः। परिहरति-शेषषष्ठयेति । प्रत्यासत्त्या कारकषष्ठया एवायं निषेध इति 'बहुषु-' इति सूत्रे कैयट आहेत्यर्थः। कर्तरि च । कर्तरीत्येतत् षष्ठीत्यनुवृत्ते अन्वेति, तदाह-कर्तरि षष्ठया इति । अकेनेति । 'तृजकाभ्यां कर्तरि' इत्यतस्तदनुवृत्तेरिति भावः । भवतः शायिकेति । 'स्त्रियां क्लिन्' इत्यधिकारे धात्वर्थनिर्देश एवुल , अकादेशः, टाप् । 'कर्तृकर्मणोः-' इति कर्तरि षष्ठी। अत्र अकस्य कर्बर्थकत्वाभावात् 'तृजकाभ्याम्-' इत्यस्य न प्राप्तिः । ननु पूर्वसूत्रे 'तृजकाभ्याम्-' इति समस्तपदोपादानात् कथमिहाकस्यैवानुवृत्तिः, न तु तृच इत्यत पाह-नेहेति । तद्योग इति । तृचः कर्तरि विहितत्वेन स्रष्टा कृष्ण इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ठया एवाप्रसक्त्या तत्समासनिषेधस्य शशशृङ्गेण कण्डूयनं न कर्तव्यमितिवदसंभवपराहतत्वादित्यर्थः। नित्यं क्रीडाजीविकयोः । उद्दालकपुष्पभलिकेति । उद्दालकः श्लेष्मातकः, तस्य पुष्पाणि, तेषां भञ्जनमित्यस्वपदविग्रहः । संज्ञायामिति । 'स्त्रियां क्लिन्' इत्यधिकारे 'संज्ञायाम्' इति भावे रावुलित्यर्थः । अत्र कर्मणि षष्ठयाः समासः। वस्तुतस्तु 'स्त्रियां क्तिन्' इत्यधिकारे 'धात्वर्थनिर्देशे एवुल्' इति भावे एवुलित्येव युक्तम् । 'संज्ञायाम्' इति तु अधिकरणार्थमिति कृदन्ते वक्ष्यते। तथा सति उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहः । जीविकायामिति । उदाहरणं वक्ष्यत इत्यर्थः । दन्तलेखक इति। दन्तानां लेखनेन जीवतीत्यस्वपदविग्रहः, लिखेः कर्तरि ण्वुल । अकादेशः । जीविका समासगम्या । ननु 'षष्ठी' इति सूत्रेणैवात्र षष्ठीसमाससिद्धेः किमर्थस्यैव तत्र ग्रहणम् , न तु यौगिकस्येति भावः । शेषषष्ठयेति । न्यासकारस्तु तृनन्तमेतत् ,'न लोका-' इति निषेधस्त्वनित्यः, 'त्रकाभ्याम्-' इति वक्तव्ये तृचः सानुबन्धग्रहणाज्ज्ञापकादित्याह । केचित्तु-'जनिकर्तुः-' 'तत्प्रयोजको हेतुश्च' इति निर्देशादनित्योऽयं समासनि घ इत्याहुः । तन्मन्दम् , शेषषष्ठीसमासेनोक्लनिर्देशोपपत्तेः। कर्तरि च। नेह वृजितिान चोत्तरार्थत्वं शङ्कयम् । तृच् क्रीडाजीविकयोर्नास्तीति जयादित्ये Page #58 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५५ कर्तरि' ( सू ७०६ ) इति निषेधे प्राप्ते वचनम् । । ७१२ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे । ( २-२ - १ ) श्रवयविना सह पूर्वादयः समस्यन्ते, एकत्व संख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । मिदमित्यत आह-तत्रेति । तत्र तस्मिन् उदाहरणद्वये क्रीडाबोधक उद्दालकपुष्पभजिकेत्यत्र विभाषाधिकारात् षष्ठीसमासविकल्पे प्राप्ते, जीविका बोध के तु दन्तलेखक इत्यत्र 'तृजकाभ्याम् -' इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्धमित्यर्थः । पूर्वापर । 'पूर्वापराधरोत्तम्' इति समाहारद्वन्द्वात् प्रथमैकवचनम् । एकदेशशब्दोsara रूढः । एकदेशोऽस्यास्तीत्येकदेशी अवयवी, तेनेति लभ्यते । अधिकरणं द्रव्यम् । एकमधिकरणम् एकाधिकरणम् । एकत्वविशिष्टद्रव्ये वर्तमानेन श्रवयविवा - चकसुबन्तेन पूर्वापराधरोत्तरशब्दाः सुबन्ताः समस्यन्ते स तत्पुरुष इत्यर्थः । फलित. माह - श्रवयविना सहेत्यादिना । ननु पूर्वश्वासौ कायश्चेति कर्मधारयेणैव पूर्व - काय इत्यादि सिद्धम् । भक्त्या कायशब्दस्य कायावयववाचित्वेन सामानाधिकरण्योपपत्तेरित्यत आह – षष्ठीसमासापवाद इति । पूर्वं कायस्येति विग्रहे ' षष्ठी' इति सूत्रेण समासे सति षष्ठयन्तस्य समासविधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातः स्यात् । तन्निवृत्त्यर्थमिदं वचनमित्यर्थः । पूर्व कायस्येति । अत्र पूर्वं कायस्येति विग्रहवाक्यम् । अर्धमिति गम्यम् । विशेष्याभिप्रायं नपुंसकत्वम् । 'तस्य परमाम्रेड - तम्' इति निर्देशादवयववृत्तिदिक्शब्दयोगे पञ्चम्यभावात् षष्ठी । पूर्वकाय इति । पूर्वशब्दस्य समासविधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । ' परवल्लिङ्गम् -' इति पुंस्त्वमिति भावः । 'यत्र उत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्के पुन > नोक्तत्वादिति भावः । वामनस्तु – 'के जीविकार्थे' इत्यत्र 'अक' इति किम्, 'रमणीयकर्ता' इति प्रत्युदाहरन् जीविकायां तृचमिच्छति । भावे वलिति । भजनं भञ्जिका । पुष्पाणामिति कर्मणि षष्ठी । 'भावे' इत्युपलक्षणम्, अधिकरणे वुल्यपि बाधकाभावादिति मत्वा 'संज्ञायाम्' इति सूत्रे कृदन्ते मनोरमायामुक्तम् — 'उद्दालकः श्लेष्मातकस्तस्य पुष्पाणि भज्यन्ते यस्यां क्रीडायां सा उद्दालकपुष्पभञ्जिका' इति । पूर्वापर । एकदेशशब्दोऽवयवे रूढः । अत एव तस्य कर्मधारयत्वेऽपि ततौ मत्वर्थीयः । 'कृष्णसर्पवान्' इत्यत्रेव 'न कर्मधारयान्मत्वर्थीयः' इति निषेधस्य रूढेष्वप्रवृत्तेः यद्यपी 'एकगोपूर्वात्' इति ठञ् प्राप्तः, तथाप्यतएव निर्देशादिनिस्तदेतदाह-वयविनेति । नन्विदं सूत्रं व्यर्थम्, पूर्वकाय इत्यादिप्रयोगाणां कर्मधारयेणैव सिद्धेः, ऊर्ध्वकाय इतिवत्, 'समुदाये हि वृत्ताः शब्दा श्रवयवेष्वपि प्रवर्तन्ते' इति न्यायादत आह--षष्ठीसमासापवाद इति । तथा च कायपूर्व इत्याद्यनिष्टप्रयोगनिवृत्तये 1 Page #59 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [तत्पुरुषसमासअपरकायः । एकदेशिना किम्-पूर्व नाभेः कायस्य । एकाधिकरणे किम्-पूर्वरछात्राणाम् । सर्वोऽप्येकदेशोऽहा समस्यते । 'संख्याविसाय-' (स् २३८) इति ज्ञापकात् । मध्याहः । सायाह्नः । केचित्तु सर्व एकदेशः कालेन समस्यते रुत्सर्गो न प्रवर्तते' इति 'पारे मध्ये षष्ठया वा' इत्यत्रोक्तम् । ततश्च एकदेशिसमासाभावे षष्ठीसमासो न भवति । अपरकाय इति । अपरं कायस्येति विग्रहः । अधरकायः । उत्तरकायः । एकदेशिना किमिति । एकद्रव्यवाचिना पूर्वादयः समस्यन्त इत्येवास्त्वित्यर्थः । पूर्व नामे कायस्येति । अत्र नाभेरिति पूर्वशब्देऽन्वेति । दिग्योगे पञ्चमी । नाभ्यपेक्षया यत् पूर्वमधं तत् कायावयवभूतमित्यर्थः । अत्र नाभिशब्दस्य नाभ्यपेक्षया पूर्वाशेऽन्वयः । अत्र पूर्वस्यांशस्य नाभिरवधिरेव, न त्ववयवी । अतो नाभिशब्देन पूर्वशब्दस्य समासो न भवतीत्यर्थः । पूर्वश्छात्राणामिति । अत्र छात्रशब्दः छात्रसमुदायपरः । उद्भूतावयवसमुदायापेक्षं बहुवचनम् । अवयवावयविभावसम्बन्धे षष्ठी । छात्रसमुदायस्य पूर्वमर्धमित्यर्थः। अत्र छात्रसमुदायस्य एकत्वेऽपि उद्भूतावयवकतया बहुत्वादेकत्वसंख्यावैशिष्टयाभावाम समास इति भावः । ननु अहो मध्यं मध्याह्न इत्यत्र कथमेकदेशिसमासः । मध्यशब्दस्य पूर्वादिश्वनन्तर्भावादित्यत आह-सर्वोऽप्येकदेश इति । पूर्वादिभिन्नोऽपीत्यर्थः । शापकादिति । 'तत्पुरुषस्य-' इति 'अहस्सर्वैकदेशसंख्यातपुण्याच्च-' इति च प्रकृते 'अहोऽह एतेभ्यः' इत्येकदेशवाचकात् परस्य अहन्शब्दस्य अह्लादेशो विधीयते । ततश्चाह्नः साय इति विग्रहे अवयविवृत्तिना अहन्शब्देन षष्ठयन्तेन अवयववृत्तिसायशब्दस्य तत्पुरुषसमासे सति प्रथमानिर्दिष्टत्वात् सायशब्दस्य पूर्वनिपाते सति एकदेशवृत्तिसायशब्दात् परस्य अहन्शब्दस्य अह्लादेशे 'रात्राहाहाः पुंसि' इति पुंस्त्वे सायाह इति भवति । तस्मात् सप्तम्येकवचने परे 'संख्याविसाय-' इति सायशब्दपूर्वकस्य अह्नशब्दस्य अहन्नासूत्रमिति भावः । पूर्व कायस्येति । यद्यपि 'अन्यारात्-' इति सूत्रे दिशि दृष्टः शब्दा दिक्शब्द इति व्याख्यानेन संप्रत्यदिग्वृत्तिनापि योगे पञ्चमी स्वीकृतेति षष्ठीह दुर्लभा, तथापि तस्य परमानेडितम्' इति लिङ्गाद् 'अवयववाचिदिकशब्दयोगे पञ्चमी न' इत्युक्तत्वात् षष्ठयेव भवतीति भावः। पूर्व नामेरिति । नाभेर्यः पूर्वो भागः स कायस्यावयव इत्यर्थः । नाभेरिति दिग्योगलक्षणा पञ्चमी। तेनात्र पूर्वस्य भागस्य नाभिरवधिः, न त्वेकदेशीति नाभ्या सह समासो नेत्यर्थः । कायेन तु स्यादेव 'पूर्वकाबो नाभेः' इति । पूर्वशब्दस्य नित्यसापेक्षत्वात् प्रधानत्वाच्च । पूर्वश्छात्राणामिति । नासौ निर्धारणे षष्ठी, किंतु समुदायसमुदायिसंबन्धे । बहुवचनं तूभृतावयवभेदसमुदावविवक्षया । ततश्छात्राणामेकदेशित्वे सत्यप्येकत्ववैशिष्टपाभावान समासः । सर्वो Page #60 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७ न स्वहेव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः, उपारताः पश्चिमरानगोचरा इत्यादि सिद्धमिल्याहुः । ७१३ अर्ध नपुंसकम् । (२-२-२) समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत् । 'एकविभक्कावषष्ठ्यन्तवचनम्' (वा देशविकल्प उक्तः । सायाह्नि, सायाहनि, सायाह्ने इत्युदाहरणम् । तत्र अह्नः साय इति विग्रहे यदि सायशब्दस्य पूर्वाद्यप्रविष्टत्वादहशब्देन समासो न स्यात् तदा 'षष्ठी' इति सूत्रेण अहन्शब्दस्य षष्ठयन्तस्य सायशब्देन समासे सति षष्ठयन्तस्यैव समासशास्त्रे प्रथमानिर्दिष्टत्वात् पूर्वनिपाते सति सायशब्दात् परस्याह्नशब्दस्य अहन्नादेशविधानं निर्विषयं स्यात् । अतः 'सर्वोऽप्येकदेशोऽह्ना समस्यते' इति विज्ञायत इत्यर्थः । मध्याह्न इति । अहो मध्यमिति विग्रहे अयं समासः । 'राजाहस्सखिभ्यष्टच्' इति टच् । 'अहोऽह्न एतेभ्यः' इत्यह्लादेशः । सायाह्न इति । अह्नः साय इति विग्रहः । मध्याह्नवत् । ननु 'सर्वोऽप्येकदेशः कालेन समस्यते' इत्ययुक्तम् , 'संख्याविसाय-' इति सूत्रे अहन्शब्दस्यैवोपात्ततया तदितरकालवाचिना सर्वस्यैकदेशस्य समासज्ञापनानुपपत्तेरित्यत आह--ज्ञापकस्येति । अहन्शब्देन सह सायशब्दस्य एकदेशिसमासं सिद्धवत्कृत्य सायशब्दादहशब्दोपादानात् सर्वेणापि अवयविवृत्तिकालवाचिना सर्वस्यैकदेशस्य समासो ज्ञाप्यते, ज्ञापकस्य सामान्यापेक्षत्वात् । नत्वहन्शब्देन सायशब्दस्यैव पूर्वाद्यप्रविष्टत्वेऽपि समासो ज्ञाप्यत इति भावः । मध्यरात्र इति । रात्रेमध्यमित्यर्थः। पश्चिमरात्रेति। रात्रः पश्चिममिति विग्रहः । 'अहस्सर्वेकदेश-' इत्यच्समासान्तः । अर्ध नपुंसकम् । अर्धमिति नपुंसकलिङ्गनिर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकप्रहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्याह--समांशवाच्यर्धशब्दोनित्यं क्लीव इति । वर्तत इति शेषः। 'वा पुंस्योऽध समेंऽशके' इति कोशादिति भावः । अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति । समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः । भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः । अंशसामान्यवाची तु पुँल्लिङ्ग इत्युक्तम् । स प्राग्वदिति । स नित्यनपुंसकलिङ्गः अर्धशब्दः ऽपीति । पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति । अन्यथा अहस्य सायपूर्वत्वं न स्यादिति भावः । मध्याह्न इति । 'राजाहःसखिभ्यः-' इति टच् । 'अहोह-' इत्याहा. देशः । अयं चादेशो मध्याह्नसायाह्नशब्दयोरूर्ध्वकायवत्कर्मधारयेण न निर्वहति, संस्यैकदेशिसमासप्रयुक्तत्वात् , अतोऽत्र ज्ञापकाश्रयणं युक्तमेवेति बोध्यम् । इत्याहुरिति। न चैवं दिनमध्यो रात्रिमध्य इत्यादि न सिध्येदिति वाच्यम् , ज्ञापकसिद्धस्यासार्वत्रिकत्वात् । अर्ध नपुंसकम् । खण्डवाच्यर्धशब्दो न नित्यनपुंसकः, प्रामा? नगराध इति यथा । समांशवाची तु नित्यनपुंसकः, स एवेह गृह्यते, 'पूर्वापरा-' इति पूर्वसूत्र Page #61 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [तत्पुरुषसमास१७३)। एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन 'पञ्चखट्वी' इत्यादि सिध्यति । अधं पिप्पल्या अर्धपिप्पली । 'क्रीबे' किम्-प्रामार्थः । अवयविवाचिना समस्यत इत्यर्थः । अर्धशब्दस्य पूर्वाद्यनन्तर्भावात् पूर्वेण न प्राप्तिः । ननु अर्ध पिप्पल्या अर्धपिप्पलीत्युदाहरणं वक्ष्यति । तत्र अर्ध पिप्पल्या अर्धपिप्पली, अर्धेन पिप्पल्या अर्धपिप्पल्या, अर्धाय पिप्पल्या अर्धपिप्पल्यै, अर्धात्पिप्पल्या अर्धपिप्पल्याः, अर्धस्य पिप्पल्या अर्धपिप्पल्याः, अर्धे पिप्पल्या अर्धपिप्पल्याम् इति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतया 'एकविभक्ति चापूर्वनिपाते' इत्युपसर्जनत्वात् 'गोस्त्रियोः-' इति ह्रस्वः स्यादित्यत श्राह-एकविभक्ताविति। 'एकविभक्ति चापूर्वनिपाते' इति सूत्रे 'अषष्ठयन्तम्' इति वक्तव्यमित्यर्थः। ततश्च पिप्पलीशब्दस्य षष्ठयन्तत्वानोपसर्जनत्वमिति न ह्रख इत्यर्थः । नन्वय सति पञ्चानां खट्वानां समाहारः समाहारं समाहारणेत्यादिविग्रहेषु खम्वाशब्दस्य नियतविभक्तिकत्वेऽपि षष्ठयन्तत्वाद् अनुपसर्जनत्वाद् ‘गोस्त्रियोः-' इति ह्रखाभावे अदन्तत्वाभावेन 'द्विगोः' इति डीबभावे पञ्चखट्वेति स्यात् , पञ्चखट्वीति न स्यादित्यत आह--एकदेशिसमासविषयकोऽयमिति । 'अपथं नपुंसकम्' इति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमत्र लिङ्गमिति भावः । अर्धपिप्पलीति । प्रथमानिर्दिष्टमित्यर्धशब्दस्योपसर्जनत्वात् पूर्वनिपातः । पिप्पलीशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि 'एकविभक्तौ-' इति निषेधादुपसर्जनत्वाभावान ह्रख इति भावः । प्रामार्ध इति । ग्रामस्यार्ध इति विग्रहः । ग्रामस्यांश इत्यर्थः । अर्धशब्दस्य समांशवाचित्वाभावेन नित्यनपुंसकत्वाभावान्नायं समासः । एवार्धशब्दे पठनीये 'अर्धम्' इति योगविभागेन निर्देशानपुंसकत्वे लब्धे, पुनर्नपुंसकग्रहणादित्याशयेन व्याचष्टे-नित्यं क्लीबे स इति । यो नित्यनपुंसकलिङ्गः स इत्यर्थः । प्राग्वदिति । एकत्वविशिष्टेनावयविना समस्यत इत्यर्थः । अन्ये तु व्याचख्युः-'अर्धम्' इति निर्देशादेव नपुंसकत्वे सिद्धे नपुंसकग्रहणं 'सूत्रेषु लिङ्गनिर्देशो न विवक्षितः' इति ज्ञापयितुम् , तेन 'तस्येदम्' इत्यादि लिङ्गत्रयेऽपि भवतीति । अर्धपिप्पलीत्यत्र 'एकविभक्ति चापूर्वनिपाते' इत्युपसर्जनसंज्ञायां 'गोत्रियोः' इति हस्खः स्यादित्याशङ्कय समाधत्ते--अषष्ठयन्तवचनमिति । तेन पिप्पलीशब्दस्यानुपसर्जनत्वान्न दोष इति भावः । नन्वेवं पञ्चानां खट्वानां समाहारः पञ्चखट्वीति न सिद्धयेत् , उपसर्जनसंज्ञानिषेधेन खट्वेत्याकारे ह्रखाप्रवृत्तेरदन्तत्वाभावेन 'द्विगोः' इति पोsप्रवृत्तेः, अत आह-एकदेशिसमासविषयकोऽयमिति। 'पञ्चखट्वी' इति भाष्योदाहरणमेव 'अषष्ठयन्त' इत्यस्य संकोचे लिङ्गमिति भावः। अर्धपिप्पलीति । Page #62 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५६ द्रव्यैक्य एव । अर्धं पिप्पलीनाम् । ७१४ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् । ( २-२-३ ) एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिचाया द्वितीभिक्षा | 'एकदेशिना ' किम्-द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्याग्रहयसामर्थ्यात् 'पूरणगुण-' ( सू ७०५ ) इति निषेधं बाधित्वा पचे षष्ठीसमासः । किन्तु ‘षष्ठी' इत्येव समास इति षष्ठयन्तस्य पूर्वनिपातः । द्रव्यैक्य एवेति । एकाधिकरण इत्यनुवर्तत एवेत्यर्थः । अर्ध पिप्पलीनामिति । अत्र द्रव्यैक्याभावान्न समासः । सति समासे अर्धपिप्पलीत्येव स्यात्, विशेष्यैक्यात् । इदं सूत्रं 'परवल्लिङ्गम् -' इति सूत्रभाष्ये प्रत्याख्यातम् । द्वितीयतृतीय । द्वितीयं भिक्षाया इति विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । 'परवल्लिङ्गम् -' इति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति । भिक्षाया द्वितीयं भागं भिक्षुकस्येत्यन्वयः । भिक्षाया इत्यवयवषष्ठी द्वितीयमित्यत्रान्वेति । द्वितीयमित्येतत्तु भिक्षुकस्येत्यत्र कर्मत्वेनान्वेति । 'न लोक- ' इति निषेधान्न षष्ठी । अत्र द्वितीयमित्यस्य भिक्षुकस्येत्यनेन समासो न भवति । द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाभावादित्यर्थः । ननु विभाषाधिकारेण विकल्पे सिद्धे अन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह--- अन्यतरस्यामिति । अन्यतरस्यान्प्रहणसामर्थ्यात् पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठयपवादभूतेनानेन समासेन मुक्के उत्सर्गो न प्रवर्तेत । महाविभाषाधिकारे 'अपवादन मुक्ते उत्सर्गो न प्रवर्तते' इति 'पारे मध्ये षष्ठया वा' इति वाग्रहणेन ज्ञापितत्वादिति भावः । ननु ' पूरणगुण-' इति निषेधात् कथमिह षष्ठीसमास इत्यत आह-- पूरणगुणेति निषेधं बाधित्वेति । परवृल्लिङ्गत्वात्स्त्रीत्वम् । अर्ध पिप्पलीनामिति । सति समासे अर्धपिप्पलीत्येव स्यात्, विशेष्यैक्यात्, परवल्लिङ्गमिति लिङ्गातिदेशेऽपि वचनातिदेशाभावाच्चेति भावः । 'अर्धपिप्पल्यः' इति प्रयोगस्तु 'अर्धानि पिप्पलीनाम्' इति विग्रहे साधुश्चेदपि खण्डसमुच्चये साधुरेव, अर्धं पिप्पल्या अर्धपिप्पली, अर्धपिप्पली च अर्धपिप्पली चेत्यादिविग्रहात् । एकदेशिना किम्, अर्धं पशोर्देवदत्तस्य । अत्र देवदत्तः स्वामी, न त्ववयवीति न तेन समासः । इदं सूत्रं 'परवल्लिङ्गम् -' इत्यत्र भाष्ये प्रत्याख्यातम् । तद्यथा अर्ध पिप्पलीति हि कर्मधारयेण सिद्धम्, 'समुदाये दृष्टा: शब्दा अवयवेष्वपि वर्तन्ते' इति न्यायात् । समप्रविभागादन्यत्र तवाप्येषैव गतिः, 'अर्धाहारः ' 'अर्धोक्तम्' 'अर्धविलो - कितम्' इत्यादिप्रयोगदर्शनात् । न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम्, षष्ठीसमासस्यापीष्टत्वात् । श्रत एव कालिदासः प्रयुङ्क - - ' प्रेम्णा शरीरार्ध - हरा हरस्य' इति । द्वितीयतृतीय । षष्ठीसमासापवादोऽयं योग इति वृत्तिकृतोक् Page #63 -------------------------------------------------------------------------- ________________ ६०] सिद्धान्तकौमुदी। [तत्पुरुषसमासमिधाद्वितीयम् । ७१५ प्राप्तापन्ने च द्वितीयया। (२-२-४ ) पक्षे 'द्वितीया श्रित-(सू ६८६) इति समासः । प्राप्तो जीविकां प्राप्तजीविकः, जीविकाप्रातः । प्रापन्नजीविकाः, जीविकापन्नः । इह सूत्रे 'द्वितीयया अ' इति छित्त्वा प्रकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका। पापन्नजीविका । ७१६ कालाः परिमाणिना । (२-२-५) परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । ब्यहजातः। द्वयोरहोः समाहारो अन्यथा अन्यतरस्याग्रहणवैयर्थ्यादिति भावः । इत्येकदेशिसमासनिरूपणम् । प्राप्तापन्ने च द्वितीयया । प्राप्त, आपन्न एतौ शब्दौ द्वितीयान्तेन समस्येते इत्यर्थः । चकारो द्वितीयासमाससमुच्चयार्थः । तदाह--पक्ष इति । वस्तुतस्तु 'द्वितीया श्रित-' इति सूत्रे 'प्राप्तापनशब्दाभ्यां द्वितीयायाः समासविधानमपि निरवकाशमेव इति तत्समुच्चयस्य सिद्धत्वात् चकारो न तत्समुच्चयार्थः' इति भाष्ये स्थितम् । तत्र प्रकृतसूत्रेण समासे प्राप्तापन्नयोः पूर्वनिपातः । 'द्वितीयाश्रित-' इति समासे तु द्वितीयान्तस्य पूर्वनिपातः । तदाह-प्राप्तजीविक इत्यादि । अथ जीविकां प्राप्ता स्त्री जीविकामापन्ना स्त्री इति विग्रहे प्रकृतसूत्रेण समासे सति पूर्वपदयोरकारमन्तादेशं साधयितुमाह-इह सूत्र इति । आकारोऽपीति । प्राप्तापन्ने द्वितीयया समस्येते, तयोरकारोऽन्तादेशश्चेत्यर्थलाभादिति भावः । तेनेति । प्राप्तापन्नयोराकारस्यान्तस्य स्थाने अकारविधानेनेत्यर्थः । कालाः परिमाणिना । परिमाणिपदं व्याचष्टेपरिच्छेद्यवाचिनेति । काला इति बहुवचनात् कालविशेषवाचका इत्यर्थः । मासो जातस्य मासजात इति । अत्र विग्रहे मासः प्रधानम् । समासे तु जातः प्रधामयुक्तमिति ध्वनयन्नाह-निषेधं बाधित्वेति।प्राप्तजीविक इति । 'गोस्त्रियो:-' इत्युपसर्जनहखः । 'द्विगुप्राप्तापन्ना-' इति वक्ष्यमाणेन परवल्लिङ्गनिषेधः । न चेदं बहुव्रीहिणा गतार्थमिति शङ्कथम् , स्वरे विशेषात् । प्राप्तसुख इत्यादौ निष्ठान्तस्य 'जातिकालसुखादिभ्यः-' इति परनिपातापत्तेश्च । प्राप्तापने च-' इति चकारेण विधेयसमुच्चयार्थेनाकारप्रश्लेषानुमानात् । प्राप्तापन्ने समस्येते अच अत्वं च तयोः स्यादिति भाष्ये स्थितम् । तत्र चकारात्पूर्वमेवाकारं छित्त्वा सौत्रत्वात्प्रकृतिभावो नेति प्राश्चः । इमं क्लेशं परिहरनाह--द्वितीयया अ इति ।प्राप्ता स्त्रीति । एकादेशस्य पूर्वान्तत्वेन ग्रहणाल्लिङ्गविशिष्टपरिभाषया वा टाबन्तयोरपि प्राप्तापन्नयोः समासः । कालाः परिमाणिना। परिमीयते परिच्छिद्यते येन तत्परिमाणं परिच्छेदकम् , तद्वान्परिमाणी तदाह-परिच्छेधवाचिनेति । काला इति । कालविशेषवाचका इत्यर्थः । सूत्रे बहुवचननिर्देशात्कालसामान्यस्यापरिच्छेदकत्वाच्च । मासो जातस्येति । षष्ठीसमासे Page #64 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [६१ यहः । व्यहो जातस्य इति विग्रहे 'उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूना नम् । मासजातो दृश्यतामित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतः। विशेषणविशेष्यभावस्तु एकार्थीभावसम्बन्धसाध्यः । एतदेवाभिप्रेत्य मूले क्वचित् पुस्तके मासो जातस्य यस्य स इति पठितम् । तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी । जातपरिच्छेदको मास इति विग्रहवाक्ये बोधः । मासपरिच्छेद्यो जात इति समासाद्बोधः । तत्र मासस्तावज् जननं साक्षात् परिच्छिनत्ति । जननाश्रयं तु देवदत्तं जननद्वारा परिच्छिनत्ति । तथा च मासपरिच्छेद्यजननाश्रयो देवदत्त इति समासाद्बोधः फलति । षष्ठीसमासापवादोऽयम् । षष्ठीसमासे तु जातमास इति स्यात् । न च मासो जातस्य यस्य स मासजात इति बहुव्रीहिणैवैतत्सिद्धमिति वाच्यम् , समानाधिकरणानामेव बहुव्रीहिविधानात्, 'निष्ठा' इति जातशब्दस्य पूर्वनिपातापत्तेश्च । 'जातिकालसुखा. दिभ्यः परा निष्ठा वाच्या' इति जातशब्दस्य परनिपातस्तु न, सुखादावस्य पाठकल्पनायां प्रमाणाभावादित्यलम् । द्वयहो जातस्येति । 'तद्धितार्थ-' इति समाहारे द्विगुः । 'राजाहस्सखिभ्यः' इति टच् । 'रात्राहाहाः पुंसि' इति पुंस्त्वम् । उत्तरपदेनेति । 'तद्धितार्थ-' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । तेन हि सूत्रेण उत्तरपदे परे दिक्संख्ययोस्सुबन्तेन द्विगुसमासो विहितः । उत्तरशब्दश्च समासस्य चरमावयवे रूढः । ततश्च द्वे अहनी जातस्य यस्येति विग्रह त्रयाणां समासे सति जातप्राप्ते वचनम् । ननु जातः पुरुषस्तस्य तु हस्तवितस्त्यादिकं परिच्छेदकम् , न तु कालः, तस्य क्रियामात्रपरिच्छेदकत्वादिति चेत्, अत्राहुः-साक्षाकियां परिच्छिन्दन्नपि कालस्तद्द्वारा देवदत्तं परिच्छिनत्ति । यस्य हि जननादूर्ध्व मासो गतः स मासजात इति व्यवह्रियते । तत्र व्यवहारकालजननक्षणयोरन्तरालभावी मासो जननद्वारा जातमपि परिच्छिनत्त्येवेति । इह विग्रहे षष्ठीनिर्दिष्टस्यापि वृत्तौ प्राधान्य द्योतयितुं 'यस्य सः' इत्युक्तम् । अलौकिक तु प्रक्रियावाक्ये नास्य प्रवेशः । एवं बहुव्रीहावपीति बोध्यम् । ननु 'जातस्य मासः' इति विग्रहे वृत्तौ मासशब्दस्य पूर्वनिपातार्थ. मेतत्सूत्रारम्भस्यावश्यकत्वेऽपि मासविशेष्यकबोध एवात्रोचित इति किमनेन 'जातस्य यस्य सः' इति कथनेनेति चेत्, अत्राहुः—'मासजातो मृतः' इत्यादिप्रयोगानुरोधेन विग्रहे 'यस्य सः' इति स्वीक्रियत इति । मासजात इति । यद्यपि मासो जातो यस्येति बहुव्रीहिणापीदं सिध्यति, 'जातिकालसुखादिभ्यः परा निष्ठा वाच्या' इति वचनात् । न च खरे विशेषः, 'वा जाते' इत्यन्तोदात्तत्वस्यापि सिद्धेः। तथापि षष्ठीसमासा. पवादार्थमिदमारम्भणीयमेव । किं च मासो जातवतो यस्य.स मासजातवानित्येतदर्थमपीदमवश्यारम्भणीयमिति दिक् । उत्तरपदेनेति । परिमाण्युत्तरपदहेतुकद्विगुसिद्धये Page #65 -------------------------------------------------------------------------- ________________ ६२ ] सिद्धान्तकौमुदी। [तत्पुरुषसमासतत्पुरुषस्योपसंख्यानम्' (वा १२८८)। वे पहनी जातस्य यस्य स व्यहजावः । 'अहोऽह-' (सू.१०) इति वषयमाणोऽहादेशः । पूर्वत्र तु 'न संख्यादेः समाहारे' (सू ०१३) इति निषेधः ७१७ सप्तमी शौण्डैः । (२-१-४०) ससम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डोऽक्षशौण्डः । अधिशब्दोऽत्र पव्यते । 'अध्युत्तरपदात्-' (सू २०७६) इति सः । ईश्वराधीनः । ७१८ शब्दे उत्तरपदे संपन्ने पूर्वयोस्सुबन्तयोढिगुसमासप्रवृत्तिर्वक्तव्या । स च समासस्त्रयाणां 'कालाः परिमाणिना' इति पूर्वसूत्रेण न सम्भवति, 'सुप्सुपा' इत्येकत्वस्य विवक्षितत्वात् । अत उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोस्सिद्धये बहूनां तत्पुरुषस्योपसंख्यानं वक्तव्यमित्यर्थः। उत्तरपदभूतपरनिमित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत् । 'सुप्सुपा' इत्येकत्वं विवक्षितमित्यत्र इदमेव लिङ्गम् । द्वे अहनी इति । द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि यहन् जात इति जातशब्दे उत्तरपदे परे द्वि अहन् इत्यनयोः 'तद्धितार्थ-' इति द्विगु. समासे 'राजाहस्सखिभ्य-' इति टचि 'अहोऽह एतेभ्यः' इत्यहादेशे यह्नजात इति रूपमित्यर्थः । अत्र पूर्वयोर्द्विगुतत्पुरुषत्वाभावे टच् अह्लादेशश्च न स्यातामिति भावः। ननु द्वयोरहोस्समाहारो यह इति कथं पूर्वमुक्तम् । तत्राप्यनादेशप्रसङ्गादित्यत । आह-पूर्वत्र त्विति । निषेध इति । अनादेशनिषेध इत्यर्थः । इति षष्ठीसमासनिरूपणम् । . सप्तमी शौण्डैः। शौण्डादिभिरिति । बहुवचननिर्देशाद् गणपाठाच्च शौण्डशब्दस्तदादिपरः । अक्षेषु शौण्ड इति । शौण्डः क्रियाकुशलः । वैषयिकाधिकरणत्वे सप्तमी । अक्षविषयकक्रीडाकुशल इत्यर्थः । अत्रेति । शौण्डादावित्यर्थः। ईश्वराधीन इति । प्रपञ्च इति शेषः । 'ईश्वरे अधि' इति विग्रहः । 'अधिरीश्वरे' त्रिपदतत्पुरुषो वक्तव्य इत्यर्थः । 'सुप्सुपा' इत्येकत्वस्य विवक्षितत्वादप्राप्ते वचनम् । अस्मादेव वार्तिकारम्भात् 'सुप्सुपा' इत्येकत्वं विवक्षितमिति ज्ञायते । अहादेश इति। त्रिपदतत्पुरुषे सत्युत्तरपदे परतः 'तद्धितार्थ-' इत्यवान्तरद्विगौ सतीति भावः। पूर्वति। यहजात इत्यत्रेत्यर्थः । सप्तमी शौण्डैः । बहुवचननिर्देशागणपाठसामर्थ्याच्च श्रा द्यर्थावगतिरित्यभिप्रेत्याह-शौण्डादिभिरिति । अक्षशौण्ड इति । शौण्डः प्रवीणः । इह श्रासक्तिरूपा क्रिया वृत्तावन्तर्भवतीति तद्द्वारकं च सामार्थ्यम् । यथा दध्योदनगुडधानादौ उपसेचनमिश्रीकरणादिद्वारा सामर्थ्यम् । तेन कारकाणां क्रिययैव संबन्ध इति नियमस्य न व्यभिचारः। अधिशब्द इति । आधेयप्रधान इति शेषः । अधिकरणप्रधानस्य त्वव्ययीभाव एव, अधिहरीति यथा ।ख इति । नित्यमिति Page #66 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६३ सिद्धशुष्क पक्कबन्धैश्च । (२-१-४१) एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । भ्रातपशुष्कः । स्थास्त्रीपक्कः । चक्रबन्धः । ७१६ ध्वाङ्क्षेण क्षेपे (२-१-४२) ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् | तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः। तीर्थकाकः । ७२० कृत्यैर्ऋणे । (२-१-४३) सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयम् ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् । इत्यधेः कर्मप्रचनीयत्वम् । 'यस्मादधिकम् -' इति सप्तमी । तदन्तस्य अधिना समासः, सुब्लुक्, 'अषडक्ष -' इति अध्युत्तरपदत्वात् खः, ईनादेशः, ईश्वराधीन इति रूपम् । सिद्धशुष्क । सप्तमीत्यनुवर्तते । तदाह – एतैस्सप्तम्यन्तं प्राग्वदिति । सांकाश्यसिद्ध इति । संकाशेन निर्वृत्तं नगरं साङ्काश्यम्, तत्र सिद्ध उत्पन्नो ज्ञातो वेत्यर्थः । श्रतपशुष्क इति । तपे शुष्क इति विप्रहः । स्थालीपक्व इति । स्थाल्यां पक्व इति विग्रहः । चक्रबन्ध इति । चक्रे बन्ध इति विग्रहः । शौण्डादिगणे एतेषां पाठाभावात् । पृथगुक्तिः । ध्याज्ञेण क्षेपे । ध्वांक्षेत्यर्थग्रहणम्, व्याख्यानात् । तदाह—ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यत इति । क्षेपपदं व्याचष्टे – निन्दायामिति । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्ष इति । ध्वाङ्ङ्क्षः काकः, स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति । अर्थग्रहणस्य प्रयोजनमाह - तीर्थकाक इति । कृत्यैर्ऋणे । सप्तमीत्यनुवर्तते । कृत्य ग्रहणेन प्रत्ययग्रहणपरिभाषया कृत्यसंज्ञक प्रत्ययान्तग्रहणम् । ' ऋणपदमावश्यकोपलक्षणम्' इति भाष्यम्, तदाह-- सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यक इति । मास इति । सामीप्याधिकरणत्वे सप्तमी । मासाव्यव शेषः । 'विभाषाञ्चे:-' इति विभाषाग्रहणसामर्थ्यादिति वक्ष्यमाणत्वात् । अन्तः शब्दोऽत्र पठ्यते, स चाधिकरणप्रधानः, मध्ये इत्यर्थात् । तद्योगे श्रवयविन आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति । वने अन्तर्वमान्तर्वसति । यस्त्वधिकरणत्वमात्रवृत्तिरन्तः शब्दस्तस्य तु (विभक्त्यर्थे' इति नित्यमव्ययीभावः । 'प्रतिरन्तःशर-' इति णत्वम् । वने इति अन्तर्वणम् । यत्तु तत्पुरुषस्य वैकल्पिकत्वात्पक्षे अव्ययीभाव इति हरदत्तेनोक्लम्, तच्चिन्त्यम्, तत्पुरुषस्य वैकल्पिकत्वेऽपि अव्ययीभावस्य नित्यत्वाद्वने अन्तरिति तदुक्तस्वपदविग्रहस्यायोगात् । किं च विभक्त्यर्थमात्रवृत्तेरव्ययीभावः, वचनग्रहणसामर्थ्यात् । अन्यथा वृक्षस्योपरीत्यादावतिप्रसङ्गः स्यात् । ततश्च मध्यवाचिनः प्रसङ्ग एव नास्तीति दिक् । शौण्ड । धूर्त । कितव । व्याड । प्रवीण । संवीत । अन्तर । अधि । पटु । पण्डित। कुशल । चपल । निपुण । वृत् । कृत्यैः । कृत्प्रत्ययान्तेनैव समास इष्यते । 'अल्पशः' इत्यनुवृत्तेः । बहुवचनं तु प्रकृतिभेदाभिप्रायम् । तथैवो 1 Page #67 -------------------------------------------------------------------------- ________________ ६४] सिद्धान्तकौमुदी। तत्पुरुषसमास. पूढे गेयं साम । ७२१ संज्ञायाम् । (२-१-४४ ) सप्तम्यन्तं सुपा प्राग्वत्संज्ञायाम् । वाक्येन संज्ञानवगमालित्यसमासोऽयम् । भरण्येतिलकाः । वनेकशेरुकाः । 'हलदन्तात्सप्तम्याः-(सू ६६९) इत्यलुक् । ७२२ लेनाहोरात्रावयवाः। (२-१-४५) अहो रात्रेश्चावयवाः सप्तम्यन्ताः कान्तेन सह प्राग्वत् । पूर्वालकृतम्, अपररात्रकृतम् । अवयवग्रहणं किम्-अहि दृष्टम् । ७२३ तत्र। (२-१-४६) 'तत्र' इत्येतत्सप्तम्यन्तं क्रान्तेन सह प्राग्वत् । तत्रभुकम् । ७२४ तेपे । (२-१-४७) सप्तम्यन्तं कान्तेन प्राग्वनिन्दायाम् । 'अवतप्तेनकुलस्थितं त एतत्' ७२५ पात्रेसमितादयश्च (२-१-४८) एते निपात्यन्ते हितोत्तरकाले प्रत्यर्पणीयमृणमित्यर्थः । ऋणपदस्यावश्यकोपलक्षणतायाः प्रयोजनमाह-पूर्वाहणेगेयं सामेति । 'तत्पुरुषे कृति-' इत्यलुक् । यत्प्रत्यय एव कृत्योऽत्र विवक्षित इति भाष्यम् , तेनेह न-पूर्वाहणे दातव्या भिक्षेति । संज्ञायाम् । सप्तमीत्यनुवर्तते, तदाह--सप्तम्यन्तं सुपा प्राग्वत् संज्ञायामिति । अररयेतिलका इति वनेकशेरुका इति च संज्ञाशब्दौ । 'हलदन्तात् सप्तम्याः-' इत्यलुक् । क्तेनाहोरात्रावयवाः । अहोरात्रयोः अवयवा इति विग्रहः । सप्तमीत्यनुवर्तते । क्तेनेति तदन्तग्रहणम् , तदाह-अह्नो रात्रेश्चावयवा इति । अहरवयवस्योदाहरति-पूर्वाह्वकृतमिति । राज्यवयस्योदाहरति-अपररात्रकृतमिति । तत्र । तत्रेति शब्दस्वरूपग्रहणम् । सप्तमीति केनेति चानुवर्तते । तदाह-तत्रेत्येतत् सप्तम्यन्तं क्लेन सह प्राग्वदिति । तत्रभुक्तमिति । समासस्वरः प्रयोजनम् । तत्रभुक्तस्येद तात्रभुक्तम् इति च । क्षेपे । सप्तमीति क्लेनेति चानुवर्तते, तदाह-सप्तम्यन्तं क्वान्तेन प्राग्वन्निन्दायामिति । अवतप्तेनकुलस्थितं त एतदिति । स्थितमिति भावे क्तः । नकुलेन स्थितम् । 'कर्तृकरणे कृता बहुलम्' इति समासः । 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति परिभाषया नकुलस्थितशब्दोऽपि क्लान्तः । तेन सहावतप्ते इति सप्तम्यन्तस्य अनेन समासे कृते 'तत्पुरुषे कृति-' इत्यलुक् । हे देवदत्त, ते तव, एतद् अवस्थानम् , अवतप्त नकुलस्थितमित्यन्वयः । यथा अवतप्तप्रदेशे नकुला न चिरं तिष्ठन्ति तथा कार्याएयुपक्रम्य तान्यनिवर्त्य इतस्ततो धावनमित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया। पात्रेसमितादयश्च । निपात्यन्त इति । कृतसमासादिकार्या एते शब्दा दाहरति-मासेदेयमिति। 'तत्पुरुषे कृति-' इत्यलुक् । नेह मासे दातव्यम् । नियोगोपलक्षणार्थमिति । नियोगो निर्धारणम । आवश्यकोपलक्षणार्थमित्यर्थः । नित्यसमासोऽयमिति । अत एव 'पुरुषेपूत्तमः' इति स्वपदविग्रहोऽसंगत इत्य Page #68 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा तत्वबोधिनीसहिता। [६५ पे । पात्रेसमिताः । भोजनसमय एव सङ्गताः, न तु कार्ये । गेहेशूरः । गेहेनर्दी । प्राकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः । ७२६ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । (२-१-४६) 'विशेषणं विशेष्येण-' (स् ७३६) इति सिद्धे पूर्वनिपातनियमार्थ सूत्रम् । एकशब्दस्य 'दिक्संख्ये संज्ञायाम्' निर्दिश्यन्त इत्यर्थः । पात्रेसमिता इति । इण् गतौ, संपूर्वाद् ‘गत्यर्थाकर्मक' इति कर्तरि क्तः । निपातनात् सप्तम्या अलुक् । भोजनपात्रे निहिते सति संगता इत्यर्थः । फलितमाह-भोजनेति । गेहेशूर इति । गेह एव प्रकटितंशौर्यः, न तु युद्ध इत्यर्थः । गेहेनर्दीति । नर्द शब्दे, 'सुप्यजातौ-' इति णिनिः। समासे सति निपातनादलुक् । गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः । चकारोऽवधारणार्थ इति । ततश्च एते यथा गणे पठितास्तथैव भवन्तीत्यर्थः । ततः किमित्यत आह-तेनेति । ततश्चं परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति । पूर्वकालैक । सुबित्यनुवृत्तं बहुवचमेन विपरिणम्यते । सुपेति चानुवर्तते । पूर्वः कालो यस्य स पूर्वकालः । पूर्वकालवृत्तिरित्यर्थः । ततश्च पूर्वकालेत्यनेन पूर्वकालवृत्त्यर्थकशब्दस्य ग्रहणम् । एकादिशब्दास्तु षट् स्वरूपपरा एव । तथा च पूर्वकालादयस्सप्त सुबन्ताः समानाधिकरणेन सुबन्तन समस्यन्ते, स तत्पुरुष इत्यर्थः । समानम् एकम् अधिकरणं वाच्यं यस्येति विग्रहः । एकार्थवृत्तित्वं सामानाधिकरण्यमिति फलितम् । पूर्वनिपातेति । पश्चादनुलिप्तः पूर्व स्नातत्वेन, पूर्व स्नातो वा पश्चादनुलिप्तत्वेन विशेष्टुं शक्यते । अतो 'विशेषणं विशेष्येण-' इति समासे सति अन्यतरस्य पूर्वनिपाते प्राप्ते पूर्वकालवृत्तिशब्दस्यैव पूर्वनिपातार्थमिदं वचनम् । एवमेका दीनामपीत्यर्थः । एकशब्दविषये प्रयोजनान्तरमप्याह-एकशब्दस्येति । 'दिक्संख्ये संज्ञायां समस्येते' इति नियमस्य वक्ष्यमाणतया एकनाथ इत्यत्र विशेषणसमासस्य वोचाम । अवतप्त इति । नकुलेन स्थितं नकुलस्थितम् । 'कर्तृकरणे कृता-' इति समासः । कृग्रहणपरिभाषया नकुलस्थितशब्दोऽपि क्लान्त इति तेन सह सप्तम्यन्तस्य समासः। 'तत्पुरुषे कृति-' इति सप्तम्या अलुक् । अव्यवस्थितत्वप्रतिपत्त्यात्र निन्दावगम्यते। पात्रेसमितादयश्च । संपूर्वादिणः क्तः।गेहेनर्दीति। 'नर्द शब्दे' इत्य. स्मात् 'सुप्यजातौ-' इति णिनिः । घटकतया प्रवेशो नेति । 'परमाः पात्रेसमिताः' इति वाक्यमेव भवति, न तु 'सन्महत्-' इत्यादिना समासान्तरमिति भावः एतच्च शब्दकौस्तुभे स्थितम् । अन्ये तु 'केवलाः पात्रेसमिताः' इति वाक्यमेव, न तु 'पूर्वकालैक-' इत्यादिना समासान्तरमित्याहुः । पूर्वकालैक। पूर्वकाल इत्यर्थ ' 'प्रकटितयशाः' इति क्वचित् पाठः । Page #69 -------------------------------------------------------------------------- ________________ ६६ ] सिद्धान्तकौमुदी। [तत्पुरुषसमास(सू ७२७) इति नियमबाधनार्थ च । पूर्व स्वातः पश्चादनुलिसः खातानुलिसः । एकनाथः । सर्वयाज्ञिकाः । जरबैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः । ७२७ दिक्संख्ये संज्ञायाम् । (२-१-५०) 'समानाधिकरणेन' इत्यापादपरिसमातेरधिकारः । संज्ञायामेवेति नियमार्थ सूत्रम् । पूर्वेषुबाधे प्राप्ते तत्प्रतिप्रसवार्थमप्येकग्रहणमित्यर्थः । स्नातानुलिप्त इति । विग्रहवाक्यवदिह पूर्वपश्चाच्छब्दाभावेऽपि स्नानानुलेपनयोः पौर्वापर्य समासगम्यमेव । पूर्वकालः समस्यत इत्युक्ते परकालेनेत्यर्थात्प्रतीतेः । एकनाथ इति । एकश्चासौ नाथश्चेति विग्रहः । सर्वयाशिका इति । यज्ञमधीयते विदन्ति वा याज्ञिकाः । 'क्रतूक्थादिसूत्रान्ताट ठक् । सर्वं च ते याज्ञिकाश्चेति विग्रहः । जरनैयायिका इति । जरन्तश्च ते नैयायिकाश्चेति विग्रहः । न्यायमधीयते विदन्ति वा नैयायिकाः । पूर्ववत् ठक् । 'न स्वाभ्याम्-' इत्यैजागमो वृद्धिनिषेधश्च । 'जीयतेरतृन्' इति भूते अतॄन् । जीर्णनैयायिका इत्यर्थः । पुराणमीमांसका इति । मीमांसामधीयते मीमांसकाः । 'क्रमादिभ्यो वुन्' । पुराणाश्च ते मीमांसकाश्चेति विग्रहः । नवपाठका इति । ,नवाश्च ते पाठकाश्चेति विग्रहः । अत्र पुराणसाहचर्यानवशब्दो नूतनवाच्येव गृह्यते । न तु संख्याविशषवाची । केवलवैयाकरणा इति । व्याकरणमधीयते विदन्ति वा वैयाकरणाः । 'तदधीते तद्वेद' इत्यया । 'न स्वाभ्याम् -' इति वृद्धिनिषेध ऐजागमश्च । केवलाश्च ते वैयाकरणाश्चेति विग्रहः । दिक्संख्ये संज्ञायाम् । अधिकार इति । 'पूर्वकालैक-' इति सूत्रस्थं समानाधिकरणेनेत्येतद् आपादसमाप्तेरनुवर्तत इत्यर्थः । ततश्च दिक्संख्ये समानाधिकरणेन सुबन्तेन समस्येते, स तत्पुरुष इत्यर्थः । ननु 'विशेषणं विशेष्येण-' इत्येव सिद्धे किमर्थमिदं वचनमित्यत आहसंज्ञायामेवेति । न चैवं सति पञ्च गावो यस्य स पञ्चगुरिति बहुव्रीहिने स्यात् , निर्देशः । इतरेषां तु षण्णां स्वरूपग्रहणम् । पूर्वत्वस्य ससंबन्धिकत्वात्पूर्वकालोऽपरकालेन समस्यते । तथैवोदाहरति-स्नातानुलिप्त इति । अत्र क्रियाशब्दत्वात्पाचकपाठकवत्पर्यायः प्राप्तः।याशिका इत्यादि। यज्ञमधीयते विदन्ति वा याज्ञिकाः। 'ऋतूक्थादि-' इति ठक् । एवं नेयायिकाः । 'जीर्यतेरतृन्' इति भूतेर्थेऽतृन् । जरन्तश्च ते नैयायिकाश्च । जीर्णनैयायिका इत्यर्थः। मीमांसामधीयते विदन्ति वा मीमांसकाः, 'क्रमादिभ्यो वुन्'। नवपाठका इति । पठन्तीति पाठकाः । 'गवुल्तृचौ' इति ण्वुल् संख्यावाची नवशब्दोऽत्र न गृह्यते, 'दिक्संख्ये संज्ञायाम्' इति नियमात् । समानाधिकरणेनेति किम् , एकस्या शौक्लयम् । षष्ठीसमासोऽपि इह न भवति । 'पूरणगण-' इति निषेधात् । दिकसंख्ये संशायाम् । नियमार्थमिति । 'तत्पुरुषे Page #70 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [६७ कामशमी सप्तर्षयः । नेह, उत्तरा वृत्ताः । पञ्च ब्राह्मणाः । ७२८ तद्धितायोत्तरपदसमाहारे च । (२-१-५१) तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा । पूर्वस्यां शालायां भवः पौवंशावः । पञ्चानां गवां समाहारः पञ्चगवमित्यत्र 'तद्धितार्थ-' इति समासश्च न स्यादिति वाच्यम् । 'विशेषणं विशेष्येण--' इति यदि दिक्संख्ययोस्समासः स्यात् तर्हि संज्ञायामेवेति नियमशरीराभ्युपगमात् । पूर्वसूत्रम्, पूवमासः, पूर्वसमुद्र इत्यादौ तु संज्ञात्वाभावेऽपि कालदेशवाचकत्वात् समासो भवत्येव । ननु 'त्रिलोकनाथः पितृसद्मगोचरः' इति कथं कालिदासप्रयोगः, त्रिलोकशब्दस्य असंज्ञात्वात् । त्रयाणां लोकानां समाहार इति विग्रहे 'तद्धितार्थ-' इति द्विगुसमासे तु 'द्विगोः' इति डीप्प्रसङ्गः । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीलिङ्गत्वात् । पात्रादित्वाद् न स्त्रीत्वमित्यभ्युपगमे 'यदि त्रिलोकी गणनापरा स्यात्' इत्यादिप्रयोगा न युज्येरनिति चेत् , सत्यम् । लोकशब्दोऽत्र लोकसमु. दायपरः । व्यवयवो लोकस्त्रिलोक इति मध्यमपदलोपी समासः । एतच्च 'द्विगोलुंग. नपत्ये' इति भाष्ये स्पष्टम् । षोडशपदार्थानामित्यत्र तु षोडशसंख्याकाः पदार्था इति मध्यमदलोपी समास इत्यलम् । पूर्वेषुकामशमीति । पूर्वशब्दस्य इषुकामशमीशन्देन समासः । देशविशेषस्य संज्ञेयम् । सप्तर्षय इति । मरीच्यत्रिप्रभृतीनां सप्तानामृषीणां संज्ञेयम् । नेहेति। असंज्ञात्वादिति भावः । तद्धितार्थ। एकापि सप्तमी विषयभेदाद् भिद्यते । तत्र तद्धितार्थत्यंशे वैषयिकाधारत्वे । उत्तरपदेयंशे सामीपिकमाधारत्वमादय परसप्तमी पर्यवस्यति । समाहारशि तु बाच्यतया आधारत्वे सप्तमी । पूर्वसूत्राद् दिक्संख्य इत्यनुवर्तते, तदाह-तद्धितार्थे विषय इति । तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः। तद्धिते भविष्यतीति यावत्।प्राग्वदिति । समानाधिकरणेन समस्यते, स तत्पुरुष इत्यर्थः । तद्धिताथै दिक्समासमुदासंज्ञायामेव दिक्संख्ये समस्येते' इति नियमशरीरम् । तेन पञ्चगुरित्यादि सिध्यति । कथं तर्हि 'त्रिलोकनाथः पितृसद्भगोचरः' इति कालिदासः, त्रिलोकशब्दस्यासंज्ञात्वात् । न च सभाहारे द्विगुः, 'द्वियोः' इति डीप्प्रसङ्गात् । न च पात्रादित्वं कल्प्यम् , 'यदि त्रिलोकी गणना परास्यात्' इत्यादिप्रयोगाणामसंगत्यापत्तेः । न च 'उत्तरपदें इति समासः, त्रिपदतत्पुरुषस्य इह दुर्लभत्वाद् । अत्राहुः- लोकशब्दोऽत्र लोकसमुदायपरः । यचयवो लोकत्रिलोकः । 'शाकपार्थिवादित्वादुत्तरपदलोपः' इति । पञ्च ब्राह्मणा इति । यद्यायत्र कृतऽपि समसि रूप विशेषो नास्ति, तथापि विभक्त्यन्तरे पञ्चभिर्बाह्मणैरित्यादौ विशेषों बोध्यः । तद्धितार्थो। असंज्ञार्य वचनम् । एकापि सप्तमी विषयभदाद्भिद्यत इत्याशयेनाह-तद्धितार्थे विषय इत्यादि । यदि त् Page #71 -------------------------------------------------------------------------- ________________ ६८] सिद्धान्तकौमुदी। [ तत्पुरुषसमाससमासे कृते 'दिक्पूर्वपदादसंज्ञायां मः' (सू १९२८) इति अः । 'सर्वनानो चिमाने पुंवद्रावः' (वा १३७६)। प्रापरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीही कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शालाशब्दे माकार उदात्तः । पूर्वशालाप्रियः । दिउ समाहारो नास्त्यनभिधानात् । संख्या हरति-पूर्वस्यामिति । समासे कृत इति । पूर्वस्यां शालायां भव इति विग्रहे 'तद्धितार्थे-' इति समासे कृते 'दिक्पूर्वपदात्-' इति अप्रत्यये कृते 'यस्येति च' इत्याकारलोपे आदिवृद्धिरिति भावः । सर्वनाम्न इति । मात्रशब्दः कात्स्न्ये । समासतद्धितादिवृत्तिगतसर्वनाम्नां पुंवत्त्वमिति तदर्थः । यदि तु तद्धिते परे दिक्संख्ये समस्येते इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः, समासे कृते दिक्पूर्वपदत्वात्तद्धित इत्यन्योन्याश्रयप्रसाः । तद्धितार्थे वाच्ये दिक्संख्ये समस्येते इति तु न व्याख्यातम् । तद्धि. तार्थस्य तद्धितवाच्यतया समासार्थत्वाभावात् । अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम् । आपरशाल इति । अपरस्यां शालायां भव इति विग्रहः । समासादि पौर्वशालवत् । उत्तरपदे परतो दिक्समासमुदाहरति-पूर्वा शाला प्रिया यस्येत्यादिना । ननु बहुव्रीहिसमासे कृते सुपा लुप्तत्वाद् उत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह-तेन शालाशब्दे आकार उदात्त इति । अवान्तरतत्पुरुषे सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः । असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वं स्यादिति भावः । ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासः स्यादित्यत आह-दिदिवति । दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः । 'तद्धितार्थे वाच्ये' इति व्याख्यायेत, तर्हि पौर्वशाल इत्यादौ तद्धितो न स्यात् । तद. र्थस्य समासेनैवोकत्वात् । 'द्विगोलुंगनपत्ये' इति ज्ञापकादुक्तेऽपि तद्धितार्थे तद्धितो भवतीति कल्पनायां प्रतिपत्तिगौरवमिति भावः । 'तद्धिते परे' इति तु न व्याख्येयमेव । तद्धिते परतः समासः, समासे कृते 'दिक्पूर्वपदात्-' इत्यादिना तद्धित इत्यन्योन्याश्रयप्रसङ्गात् । समाहारे च वाच्य इति । तेन पञ्चगवमित्यादौ समासेनैव समाहारस्योकत्वात्समूहार्थप्रत्ययो नोत्पद्यते। अन्यथा अत्र 'गोरतद्धितलुकि' इति टज्न स्यात् , सामूहिकप्रत्ययस्य 'द्विगो गनपत्ये' इति लुकः प्रवृत्तेरिति भावः । सर्वनाम्न इति । एतच्च पूर्वापरोदाहरणान्वयि । यद्यपि 'स्त्रियाः पुंवत्-' इत्यनेनापि प्रकृतरूपसिद्धिः, तथाप्युत्तरपूर्वेत्याद्यर्थे 'सर्वनान-' इति वचनमावश्यकम् , प्रतिपदोक्तत्वाद् । इहापि तदुपन्यासो न्याय्य इति भावः । वृत्तिमात्र इति। तद्धितवृत्तौ समासवृत्तौ चेति कैयटःआकार उदात्त इति । असति त्ववान्तरे तत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्या Page #72 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा तत्त्वबोधिनीसहिता । [ ६६ यास्तद्धितार्थे-षण्णां मातृणामपत्यं वारमातुरः । पच गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते 'द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्' ( १२८७ ) ७२६ गोरतद्धितलुकि । ( ५-४ -१२) गोऽन्वात्तत्पुरुषाट्टच् स्यात्समासान्तः, न तडितलुकि । पञ्चगवधनः । पञ्चानां गवां समाहारः । समाहारे दिक्पूर्वपदसमासो नास्तीति यावत् । संख्यायास्तद्धितार्थ इति । समास उदाह्रियत इत्यर्थः । तत्र तद्धितार्थ उदाहरति-- बारामातुर इति । 'मातुरुत्संख्यासम्भद्रपूर्वायाः' इत्यण्, प्रकृतेरुकारश्चादेशः, आदिवृद्धिश्च । अथ उत्तरपदे परत उदाहरति - पञ्च गाव इति । श्रवान्तरतत्पुरुषस्येति । उत्तरपदे परतो विहितस्येत्यर्थः । विकल्पे प्राप्त इति । महाविभाषाधिकारादिति शेषः । ततश्च पञ्चगोशब्दयोस्तत्पुरुषाभावपत्ते 'गोरतद्धितलुकि' इति तत्पुरुष प्रयुक्तटजभावे पञ्चगोधन इत्यपि स्यादिति भावः । द्वन्द्वतत्पुरुषयोरिति । उत्तरपदे परतो यौ द्वन्द्वतत्पुरुषौ तयोर्नित्यत्वं वक्तव्यमित्यर्थः । समासग्रहणं तु संपातायातम्, अनन्वयाद् उत्तरपदे परतः समाससंज्ञाया अव्यभिचाराच्च, उत्तरपदशब्दस्य समासोत्तरखण्डे रूढत्वात् । गोरतद्धितलुकि । 'तत्पुरुषस्याङ्गुले -' इत्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चम्या विपरिणतं गोरित्यनेन विशेष्यते । तदन्तविधिः । 'राजाह स्सखिभ्यः -' इत्यतष्टजित्यनुवर्तते । समासान्त इत्यधिकृतम् । तदाह-गोऽन्तादित्यादिना । श्रतद्धितलुकीति किम् ? पञ्चभिर्गोभिः क्रीतः पञ्चगुः । अत्र तद्धितस्य 'अध्यर्ध-' इति लुक् । पञ्चगवधन इति । त्रिपदबहुव्रीहौ कृते सति धनशब्दे उत्तरपदे परे पूर्वयोस्तत्पुरुषे टचि अवादेश इति भावः । अत्र 'द्वन्द्वतत्पुरुषयोः -' इति वार्तिके द्वन्द्वस्योदाहरणं तु वाक् च त्वक् च प्रिया यस्य स वाक्त्वचप्रिय इति बोध्यम् । इह त्रिपदबहुव्रीहौ कृते पूर्वयोनित्यद्वन्द्वः । तेन 'द्वन्द्वाच्चुदषहान्तात् समाहारे' इति टजपि नित्य एव । न च वाक्त्वक्छब्दयोः परस्परसामानाधिकरण्याभावात् कथमिह त्रिपदबहुव्रीहिरिति वाच्यम् । द्वयोः प्रियाशब्दसामानाधिकरण्यमादाय तदुपपत्तेः । 'सप्तमीविशेषणे बहुव्रीहौ' इति ज्ञापकेन कण्ठेकाल इत्यादाविव व्यधिकरणबहुव्रीहिसंभवाश्च । 'वाक्त्वचप्रियः' इति भाष्ये उदाहरणमेवात्र लिङ्गमित्यलम् । अथ समाहारे उदाहर्तु विग्रहं दर्शयतिपञ्चानां गवां समाहार इति । यत्र समासे सति 'गोरतद्धितलुकि' इति चि युदात्तत्वमेव स्यादिति भावः । षाण्मातुर इति । 'मातुरुत्संख्यासंभद्रपूर्वायाः' इत्लुदादेशः । 'अनपत्ये' इत्युक्तेः 'द्विगोर्लुग्-' इति लुग् न । विकल्पे प्राप्त इति महाविभाषयेति शेषः । ततश्च तत्पुरुष प्रयुक्तटजभावे पञ्चगोधन इत्यपि स्यादिति भावः । मनोरमाया तु—विकल्पे प्राप्ते नित्यसमासार्थं द्वन्द्वतत्पुरुषयोरित्येतद्वचनमिति प्राचां Page #73 -------------------------------------------------------------------------- ________________ ७०] सिद्धान्तकौमुदी। [तत्पुरुषसमास७३० संख्यापूर्वो द्विगुः । (२-१-५२) तद्धितार्थ-' (सू ७२८) इत्यत्रोऋविविधः संख्यापूर्वो द्विगुः स्यात् । ७३१ द्विगुरेकवचनम् । (२-४-१) अवादेशे पञ्चगवशब्दस्य द्विगुकार्य विधास्यन् द्विगुसंज्ञामाह। संख्यापूर्वो द्विगुः । संख्या पूर्वोऽवयवो यस्येति बहुव्रीहिः । तद्धितार्थ-' इति पूर्वसूत्रविहितसमासः अन्यपदार्थः, प्रत्यासत्तेः, तदाह-तद्धितार्थत्यत्रोक्नस्त्रिविध इति । तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः संख्यापूर्वः समास उक्तः स द्विगुरिति यावत् । तथा च पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वाद् द्विगुसंज्ञा स्थिता । तद्धितार्थे तु पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । 'संस्कृतं भक्षाः' इत्यण । 'द्विगोलुंगनपत्ये' इति लुक् । उत्तेरपदे यथा-पञ्चनावप्रियः। 'नावो द्विगोः' इति समासान्तष्टच् । द्विगुरेकवचनम् । अत्र 'समाहारग्रहणं कर्तव्यम्' इति वार्तिकात् समाहार इति लभ्यते । वक्तीति वचनम् । बाहुलकः कर्तरि ल्युट् । सामान्ये नपुंसकम् । समाहारे द्विगुः एकार्थप्रतिपादकः स्यादिति लभ्यते । तत्र यदि समाहियत इति कर्मणि घनि समाहारशब्दः समाहृतप्रधानः, तदा समाहृतगतप्रन्थमनुसृत्योक्तम् । वस्तुतस्तु त्रयाणां समासे कृते अन्यपदार्थोपसंक्रमेण परस्परसंबन्धाभावाद् द्वन्द्वतत्पुरुषयोरप्राप्तौ सत्यां वचनमिदमित्यादि स्थितम् । द्वन्द्वस्योदाहरणं तु-वाक् च दृषञ्च प्रिये अस्य वाग्दृषदप्रियः । छत्रोपानहप्रियः । इह त्रिपदे बहुवीही कृते पूर्वयोर्नित्यं द्वन्द्वः, तेन 'द्वन्द्वाच्चुदषहान्तात्-' इति समासान्तष्टजपि नित्य एव । गोरतद्धित । 'तत्पुरुषस्य-' इत्यनुवर्तते टच्च, तदाह-गोन्तादित्यादि । ननु ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावात्तत्पुरुषस्यावयवो यो गोशब्दस्तस्मादृजित्यर्थः स्यात् । तथा च गोमूत्रमित्यादावतिप्रसङ्गः स्यादत आह-समासान्त इति । अयं भावः-'समासान्ताः' इत्यधिकाराट्टचा समासान्तेन भवितव्यम् । गोरिति पञ्चमीश्रवणात्ततः परेणापि । न चैतत्तदन्तविधिमन्तरेणोपपद्यत इति सामर्थ्यात्तदन्तविधिलाभः, ततश्च तत्पुरुषस्येति षष्ठयन्तं पञ्चम्यन्तेन विपरिणम्यत इति । न तद्धितलुकीति । लुग्विषय इत्यर्थः, न तु तद्धितलुकि सतीति । समासान्तानामन्तरगत्वात् । अतद्धितलुकीति किम् , पञ्चभिर्गोभिः क्रीतः पञ्चगुः । अत्र तद्धितस्य ठकः 'अध्यर्धपूर्व-' इति लुक् । संख्यापूर्वो द्विगुः । अत्रोक्त इति । अयं भावः-पूर्वसूत्रविषयैरेवेयं संज्ञा । 'अनन्तरस्यैव-' इति न्यायात् । एतदर्यमेव हि सूत्रद्वयं कृतम् , अन्यथा 'दिक्संख्ये संज्ञातद्धितार्थोत्तरपदसमाहारेषु' इत्येव ब्रूयात् । तेन सप्तर्षय इत्यत्र 'इगन्तकालकपाल-' इत्यादिना पूर्वपदप्रकृतिस्वरो न भवति । किंतु समासान्तोदात्त एव । तथा च लक्ष्यम्-'सप्त ऋषयस्तपसे ये Page #74 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [७१ द्विग्वर्थः समाहार एकवत्स्यात् । 'स नपुंसकम्' (सू ८२१) इति नपुसकत्वम् । द्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशस्सम्पद्यते । तदाह--द्विग्वर्थः समाहार एकवदिति । यदा समाहरणं समाहारः समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम् । केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेदविवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम् । एवं चात्र उद्भूतावयवमेदविवक्षा न कर्तव्येति फलतीत्याहुः । स नपंसमिति । समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यादिति निषेदुः' । 'सप्तऋषणां सुकृतां यत्र लोकः' इत्यादि । त्रिविधः संख्यापूर्व इति । तद्धितार्थे विधये, उत्तरपदे च परतः, समाहारे च वाच्ये, संख्यापूर्वो यः समासः स इत्यर्थः । तद्धितार्थे यथा-पञ्चकपालः । 'संस्कृतं भक्षाः' इत्यणो 'द्विगोलुंगनपत्ये' इति लुक् । उत्तरपदे यथा-पचनावप्रियः । 'नावो द्विगोः' इति समासान्तष्टच् । समाहारे-पञ्चमूली । 'द्विगोः' इति डीप । द्विगुरेकवचनम् । वक्तीति वचनम् , बाहुन्नकात्कर्तरि ल्युट् । 'सामान्ये नपुंसकम्' । द्विगुः समास एकार्थप्रतिपादको भवतीत्यर्थ । न च वस्तुतोऽनेकार्थस्यैकार्थ्यं कथंचिदुपपद्यत इति सामर्थ्या दतिदेशः संपद्यत इत्याह--एकवत्स्यादिति । समाहारे इति तूपसंख्यानाल्लभ्यते। समाहारे यो द्विगुस्तदर्थ एकवदित्यन्वयः । समाहारे किम् , तद्धितार्थे मा भूत् । पञ्चसु कपालेषु संस्कृताः पञ्चकपालाः, पञ्चभिर्गोभिः क्रीताः पञ्चगवः पटाः । पञ्चगवे पञ्चगवानीत्यत्र तु प्रथमद्विग्वर्थस्यकवद्भावे कृते योऽयमेकशेषे कृते द्विग्वर्थसमुदाय. स्तस्याद्विग्वर्थत्वादहिरङ्ग वाच्चैकवद्भावो न भवतीति स्थितमाकरे । यदा 'तद्धितार्थ-' इंति सूत्रे 'समाहारे' इति कर्मसाधनस्तदा समाहृतप्रधानो द्विगुरिति बहुत्वे प्राप्ते अनेन एकवद्भावः क्रियते । यहा तु भावसाधन एव समाहारस्तदा समूहप्रधानत्वाद् द्विगोः समूहस्य चैकत्वात्सिद्धमेकत्वमिति नास्य प्रयोजनम् । न च ‘स नपुंसकम्' इति नपुंसकत्वार्थमेकत्वविधानमिति वाच्यम् , समुदायवाचकेषु 'सामान्ये नपुंसकम्' इत्यभ्युपगमे बाधकाभावादित्याहुः । वस्तुतस्तु 'तद्धितार्थ-' इति सूत्रे समाहार इति भावे घञ् न तु कर्मणि । पञ्चगवमित्यत्र पञ्च गावः समाहृता इत्यर्थाभ्युपगमे समाहियमाणानां बहुत्वेन एकवचनानुपपत्तेः । न च 'द्विगुरेकवचनम्' इति सूत्रानैवमिति वाच्यम् , पञ्चखट्वीत्यसिद्धेः । तत्र हि पञ्च खट्वाः समाहृताः, पञ्चसु खट्वासु समाहवास्वित्येवं विग्रहसंभवेन नियतविभक्तित्वाभावाद् “एकविभक्ति चापूर्वनिपाते' इत्यप्रवृत्तेरनुपसर्जनत्वाद् 'गोस्त्रियोः-' इति ह्रस्वो न स्यात् । ततश्च 'आवन्तो वा' इति स्त्रीत्वपक्षे 'द्विगोः' इत्यदन्तलक्षणो डीन स्यात् । भावसाधनवे त्वेकविभक्तित्वादुपसर्जनत्वमव्याहतमेव । समाहारापेक्षया नियमेन वर्तिपदानां षष्ठयन्तत्वात् , तथा च पन्नखट्वीत्यादिरूपं निर्वाधमेवेति दिक् । स नपुंसकमिति । एतस्यार्थो मूल Page #75 -------------------------------------------------------------------------- ________________ ७२ ] सिद्धान्तकौमुद्री। [तत्पुरुषसमासपञ्चगवम् । ७३२ कुत्सितानि कुत्सनैः । (२-१-५३) कुरस्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूटः । ७३३ पापाणके कुत्सितैः। (२-१-५४) पूर्वसूत्रापवादः । पापनापितः । अणककुलालः । तदर्थो मूले वक्ष्यते । इति द्विगुसमासः । कुत्सितानि कुत्सनैः । वर्तमाने क्तः, व्याख्यानात् । तदाह-कुत्स्यमानानीति । कुत्सनैरिति करणे ल्युट । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः। वैयाकरणखसूचिरिति । वैयाकरणश्वासौ खसूचिश्चेति विग्रहः । यः प्रक्रियां पृष्टस्सन् प्रश्नं विस्मारयितुमाकाशं दर्शयति पश्यति वा स एवमुच्यते । अत्र वैयाकरणः प्रक्रियाविस्मरणानिन्द्यः । खसूचनं निन्दाहेतुः । मीमांसकदुर्दुरूढ इति । 'दुल उत्क्षेपे' चुरादिः । दुपूर्वादौणादिकः कूटप्रत्ययः । 'बहुलमन्यत्रापि' इति गर्लुक् । रलयोरभेदाद् रः । यो मीमांसामधीत्यान्यथा जानानो दुराक्षेपं करोति स एवमुच्यते। विशेष्यस्य पूर्वनिपातार्थ सूत्रम् । विशेषणसमासे तु विशेषणस्य पूर्वनिपातः स्यात् । पापाणके कुत्सितैः। पापशब्दः अणकशब्दश्च कुत्सितवाचकैः समस्यते, स तत्पुरुष इत्यर्थः । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह-पूर्वसूत्रेति । पापमस्यास्तीति मत्वर्थीयः अर्शश्राद्यच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते। 'कुरूपकुत्सितावद्यखेटगाणकास्समाः।' इत्यमरः । ततश्च पापाणकशब्दौ निन्दाहेतुभूतपापकुरूपात्मकप्रवृत्तिनिमित्तौ कुत्सनाभिधायिनौ । ततश्चानयोः पूर्वसूत्रेण समासे परनिपातः स्यात् । अतः पूर्वनिपातनियमार्थमिदं सूत्रमित्यर्थः । पापनापित इति । पापश्चासौ नापितश्चेति विग्रहः । अणककुलाल इति । अणकश्चासौ एव स्फुटीभविष्यति। कुत्सितानि । 'कुत्स अवक्षेपणे' कर्मणि क्तः । स च 'मतिबुद्धि-' इति सूत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने विहित इत्याशयेनाहकुत्स्यमानानीति । तत्प्रतिपादकानीत्यर्थः । उभयत्र बहुवचननिर्देशः स्वरूपविधिनिरासार्थः । वैयाकरणखसूचिरिति । सूचयतेः 'अच इ.' । यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयत्यभ्यासवैधुर्यात्स एवमुच्यते । न तु वस्तुतो व्याकरणं तदध्ययनं वा कुत्सितम् । वेदाङ्गत्वेन तस्य प्रशस्तत्वात् । तथापि तस्य प्रतिभाना. भावेन निष्फलत्वात्कुत्स्यते । दुर्दुरूट इति । 'दुल उत्क्षेपे' दुरपूर्वः । औणादिकः कूटप्रत्ययः । 'बहुलमन्यत्रापि' इति णेलृक् । रलयोरेकत्वस्मरणालस्य रः । विशेष्यस्य पूर्वनिपातनियमार्थ सूत्रम् । शब्दप्रवृत्तिनिमित्तकुत्सायामेवायं संनिधानात् । तेनेह ननैयायिको दुराचारः । पापाणके । एतौ कुत्सनाभिधायिनौ । 'कुपूर्वकुत्सितावद्यखेट. गर्वाणकाः समाः' इत्यमरः । ततश्चानयोः पूर्वसूत्रेण समासे परनिपातः स्यात् , १ कचित्तु 'दुर्दुरूढः' इति पाठः । Page #76 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमात्तत्त्वबोधिनीसहिता। [७३ ७३४ उपमानानि सामान्यवचनैः। (२-१-५५) धन इव श्यामो धनश्यामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः कुलालश्चेति विग्रह । उपमानानि सामान्यवचनैः। उपमीयन्ते सदृशतया परिच्छिद्यन्ते यैस्तान्युपमानानि सादृश्यनिरूपकाणीत्यर्थः । सामान्य उपमानोपमेय. साधारणधर्मः, तमुक्तवन्तः शब्दाः सामान्यवचनाः । बाहुलकः कर्तरि ल्युट् । पूर्व सामान्यमुक्त्वा तद्वति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत् । तथा च सादृश्यनिरूपकशब्दापरपर्याया उपमानशब्दा उपमानोपमेयसाधारणधमेविशिष्टवाचिभिः समानाधिकरणः समस्यन्ते, स तत्पुरुष इत्यर्थः । घन इव श्यामो घनश्याम इति । नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्याभावात् कथमिह समासः, इवशब्दापेक्षत्वेनासामर्थ्याच्चेत्यत आह-इह पूर्वपदमिति । एवं च घनशब्दो लक्षणया घनसदृशे रामे वर्तते, श्यामशब्दोऽपि रामे वर्तत इति सामानाधिकरण्यम् । अत एव मृगीव चपला भृगचपला इत्यत्र 'पुंवत्कर्मधारय-' इति पुंवत्त्वं सिध्यति । घनशब्दस्य भूतपूर्वगत्योपमानपरत्वं निर्वाह्यम् । तथा च 'घनसदृशश्यामः' इति बोधः । सादृश्यं तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । एवं च सादृश्यप्रतियोग्यनुयोगिनोस्साधारणधर्मवत्त्वं लब्धम् । स चेह साधारणधर्म उत्तरपदोपस्थाप्य एव गृह्यते, संनिहितत्वात् । तथा च धनगतश्यामत्वसदृशश्यामत्ववान् इति बोधपर्यवसानम् । ननु विशेषणसमासेन सिद्धे तस्मात्पूर्वनिपातनियमार्थमिदं सूत्रमित्याशयेनाह-पूर्वसूत्रापवाद इति । उपमानानि । उपमीयते येन तदुपमानम् । उपपूर्वान्माङः करणे ल्युट । प्रादिसमासः। उपपूर्वको माङ् सादृश्यवाचके परिच्छेदे रूढः । येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानमित्यर्थः । यथा गौरिव गवयः । इह हि गौः करणं सादृश्ये हेतुः, पुरुषः परिच्छेत्ता । स हि गौः सादृश्येन गवयं परिच्छिनत्ति । सामान्यवचनैरिति । समानो धर्मः सामान्यम् । चातुर्वर्यादित्वात्स्वार्थे ध्यञ् । उपमानोपमेयसाधारणो यो धर्मस्तद्विशिष्टवचरित्यर्थः । न तु साधारणधर्ममात्रवचनैरिति । एतच्च वचनग्रहणालभ्यते । सामान्यमुक्तवन्तः सामान्यवचनाः । बाहुलकात्कर्तरि भूते ल्युट । ये पूर्व सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः । तच्च सामान्यविशिष्टमुषमानशब्दस्य संबन्धिशब्दत्वादाक्षिप्तमुपमेयमेव विज्ञायते । लाक्षणिकमिति । अत एव सामानाधिकरण्यान्मृगीव चपला मृगचपलेत्यादौ पुंवद्भावः । उत्तरपदोपस्थितश्यामत्वचपलत्वादिद्वारकमेवेह सादृश्यं गृह्यते, संनिधानात् । कथं तर्हि उपमानपरतेति चेत्, Page #77 -------------------------------------------------------------------------- ________________ ७४] सिद्धान्तकौमुदी। [तत्पुरुषसमासप्रयुज्यते । पूर्वनिपातनियमार्थ सूत्रम् । ७३५ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । (२-१-५६ ) उपमेयं व्याघ्रादिभिः सह प्राग्वसाधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनिपातार्थ सूत्रम् । पुरुषव्याघ्रः । नृसोमः । म्यानादिराकृतिगणः । सामान्याप्रयोगे किम्-पुरुषो व्याघ्र इव शूरः । ७३६ विशेषणं विशेष्येण बहुलम् । (२-१-५७) भेदकं समानाधिकरणेन भेयेन किमर्थमिदं सूत्रमित्यत आह–पूर्वनिपातेति । अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्यभाव कामचारात् खञ्जकुब्जः कुब्जखञ्ज इतिवदनियमः स्यादिति भावः। उपमितम् । प्राग्वदिति । समानाधिकरणैस्समस्यते, स तत्पुरुष इत्यर्थः। अत्रोपमितस्य नित्यमुपमानाकाक्षत्वादुपमानभूतव्याघ्रादिभिरित्यथेसिद्धम् । ननु विशेषण. समासेनैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-विशेष्यस्येति । उपमानोपमेयसममिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्वनिपाते प्राप्त विशेष्यस्य पूर्वनिपातनार्थमिदमित्यर्थः । पुरुषव्याघ्र इति । पुरुषो व्याघ्र इवेति विग्रहः । अत्र सादृश्योपपादकः शौर्यात्मकः साधारणधर्मः, स इह नोपात्त इति भवति समासः। पुरुषो व्याघ्र इव शूर इति । शौर्येण व्याघ्रसदृश इति यावत् । अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः । 'भाष्याब्धिः क्वातिगम्भीरः' इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः । भाष्यमेवाब्धिरिति रूपकं वा । न च पुरुषशब्दस्य शूरशब्दसापेक्षत्वादसामर्थ्यादेवात्र समासस्य न प्रवृत्तिः। अतः '-सामान्याप्रयोगे' इति व्यर्थमिति वाच्यम् , समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सामथ्यविघातकम् , न तु प्रधानस्य । तथा चात्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामर्थ्यमिति समासप्रवृत्तेः, तन्निवृत्त्यर्थ सामान्याप्रयोग इति वचनम् । इदमेव प्रधानस्य सापेक्षत्वेऽपि न सामर्थ्यविघातकत्वमिति ज्ञापयति । तेन राजपुरुषः सुन्दर इत्यादौ समासः सिद्धो भवतीति भाष्ये स्पष्टम् । विशेषणं विशेष्येण बहुलम् । विशिष्यते अनेनेति विशेषणम् , इतरस्माद्यावर्तकम् । व्यावयं तु विशेष्यं भिन्नत्वेन ज्ञायमानम् । समानाधिकरणेनेत्यधिकृभूतपूर्वगत्या शक्यार्थमादाय तत्परतेत्यवेहि । पूर्वनिपातेति । अन्यथाऽनियमः स्यात् खनकुन्जवदिति भावः । किं च 'तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्यय-' इति सूत्रे प्रतिपदोक्तस्यास्यैवोपमानग्रहणेन ग्रहणार्थमपीदं सूत्रम् । अत एव मयूरव्यंसकादित्वासमासे उपमानस्वरो न प्रवर्तत इति सिद्धान्तः । उपमितम् । उपमेयमुपमितम् । भूतकालोऽत्र न विवक्षितः। तच्च संबन्धिशब्दत्वादुपमानमाक्षिपति । तथा चोपमानभूतैर्व्याघ्रादिभिरित्यर्थः । पुरुषो व्याघ्र इव शूर इति । तत्र हि शूरसपिक्षस्यापि Page #78 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [७५ बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात् क्वचिन्नित्यम्, कृष्णसर्पः । क्वचिन्न, रामो जामदग्न्यः । ७३७ पूर्वापरप्रथमचरमजघन्यसमानतम् , तदाह-भेदकमिति । प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । नीलमुत्पलं नीलोत्पलमिति । नीलपदं तावदुत्पलमनीलादुत्पलायावर्तयतीति विशेषणसमर्पकम् । तस्य उत्पलपदेन विशेष्यसमर्पकेण समासः । प्रथमानिर्दिष्टत्वाद्विशेषणस्य पूर्वनिपात इति भावः । न च उत्पलपदम् अनुत्पलान्नीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यम् , जातिशब्दो गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषणसमर्पकः, स्वभावात् । यथा--नीलोत्पलम् , पाचकब्राह्मण इति । गुणशब्दयोः समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः । यथा-खजकुब्जः कुब्जखञ्ज इति । क्रियाशब्दयोरप्यनियमः । यथा-पाचकपाठकः पाठक पीचक इति । तथा गुणक्रियाशब्दयोरप्यनियमः । यथा-खजपाचकः पाचकखज इति भाष्ये स्पष्टम् । तथा कैलासादिः, मन्दरादिः, अयोध्यानगरी इत्यादौ संज्ञाशब्दा अपि विशेषणसमर्पका एव, स्वभावात् । सामान्यजातिविशेषजातिशब्दयोः समभिव्याहारे तु विशेषजातिरेव विशेषणम् , शिंशपावृक्ष इत्यादि ज्ञेयम् । ननु वाग्रहणेन सिद्धे बहुलग्रहणं किमर्थमित्यत आह-बहुलग्रहणादिति । पूर्वापर । पूर्वादयः समानाधिकरणेन समस्यन्त इत्यर्थः । विशेषणसमासेपुरुषस्य प्रधानत्वात् 'राजपुरुषः सुन्दरः' इतिवदनापि समासः स्यात् , स मा भूदिति 'सामान्याप्रयोगे' इत्युक्तमिति भावः । कथं तर्हि 'भाष्याब्धिः कातिगम्भीरः' इति कैयटः । सामान्यप्रयोगसत्त्वेनास्याप्राप्तेः । अत्र केचित् प्रमाद एवायमित्याहुः । इह गाम्भीर्येण सादृश्य न विवक्षितम् , किंतु विततदुरवगाहत्वादिना। तस्य हि विततत्वादेरप्रयोगोऽस्त्येवेति निधिः समास इति मनोरमायां स्थितम् । विशेषणम् । विशि. ष्यते येन तद्विशेषणम् , कर्तुः करणत्वविवक्षायां ल्युट् , तदाह-भेदकमिति । व्यावर्तकमित्यर्थः । विशेषणविशेष्ययोः स संबन्धिकतया अन्यतरोपादानमात्रेणेतराक्षेपसंभवे उभयोरुपादानं स्पष्टार्थमिति कैयटः । एतच्च 'कुत्सितानि कुत्सनैः' इत्यत्रापि तुल्यम् । हरदत्तस्त्वाह-समस्यमानपदद्वयजन्यबोधप्रकारकयोर्विशेषणविशेष्यधर्मयोर्यत्र परस्परव्यभिचारस्तत्रैव समासो यथा स्यात् , नान्यत्रेत्येतदर्थमुभयोपादानम् । तथा च नीलोत्पलादौ समासो भवति, न तु 'तक्षकः सर्पः' इत्यादौ । न हि तक्षकत्वं सर्पत्वं व्यभिचरतीति । तन्मन्दम् । कैलासाद्रिः, मन्दराद्रिः, भावपदार्थः, तर्कविद्या, व्याकरणशास्त्रम् , भोजराजः, इत्यादिधयोगाणामसंगत्यापत्तेः । ननु विशेषणविशष्यभावे कामचारात्पाचकपाठकादाविव नीलोत्पलादावप्यव्यवस्थितः पूर्वनिपातः स्यात् । इति चेदत्राहुः Page #79 -------------------------------------------------------------------------- ________________ ७६ ] सिद्धान्तकौमुदी । [ तत्पुरुषसमास. मध्यमध्यमवीराश्च । (२-१-५८) पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणाः । अपराध्यापकः । 'अपरस्पार्धे पश्चभावो वक्तव्य:' (वा ३२५३ ) अपरश्वासावर्धश्च पश्चार्धः । कथम् 'एकवीरः' इति । 'पूर्वकालैक-' ( सू ७२६ ) इति बाधित्वा परस्वादनेन समासे 'वीरकः' इति हि स्यात् । बहुलग्रहणाद्भविष्यति । ७३८ श्रेण्यादयः कृतादिभिः । ( २-१-५६ ) ' श्रेण्यादिषु व्यर्थवचनं कर्तव्यम्' ( वा १२६६ ) । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः । ७३६ लेन नैव सिद्धे किमर्थमिदमित्यत आह- पूर्वनिपातेति । अपराध्यापक इति । बहुलग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषां न समास इति समर्थसूत्रे भाष्ये स्थितम् । ततश्च 'अपराध्यापकः' इत्युदाहरणमुपेक्ष्यम् । अपरमीमांसक इत्युदाहरणमुचितम् । श्रपरस्यार्थ इति । 'पश्चात्' इति सूत्रभाष्ये इदं वार्तिकं स्थितम् । प्रथमवैयाकरणः, चरमवैयाकरणः, 'मध्यान्मः' मध्यमवैयाकरणः, वीरवैयाकरणः 1 त्रिपति — कथमेकवीर इति । हि यतः, श्रनेन प्रकृतसूत्रेण, वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैक इति स्यात् । अतः 'एकवीरः ' इति कथमित्यन्वयः । ननु ' पूर्वकालेक -' इति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति ‘एकवीरः' इति निर्बाधमित्यत आह- पूर्वकालै केति बाधित्वा परत्वादिति । परिहरति--- बहुलग्रहणादिति । बहुलग्रहणानुवृत्तेरस्य सूत्रस्याप्रवृत्तौ पूर्वकालेत्येव समासो भवतीत्यर्थः । श्रेण्यादयः । श्रेण्यादयः कृतादिभिः समानाधिकरणैः समस्यन्ते, स तत्पुरुष इत्यर्थः । श्रेण्यादिष्विति । श्रेण्यादिषु समासविधौ च्व्यर्थवचनम् - विप्रत्ययार्थेऽभूततद्भावे गम्ये श्रेण्यादीनां समासो वक्तव्य इत्यर्थः । श्रश्रेय इति । शिल्पेन परायेन वा जीविनां समूहाः श्रेणयः । पूर्व शिल्पेन परायेन वा जातिशब्दस्य गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पकतैव । तेन नीलोत्पलं पाचकब्राह्मण इति व्यवस्थित एव प्रयोगः । गुणशब्दयोः क्रियाशब्दयोर्गुणक्रियाशब्दयोश्चानियम एव । खञ्जकुब्जः कुब्जखजः । पाचकपाठकः पाठकपाचकः । खजपाचकः पाचकखञ्ज इति । अत्र मूलमुपसर्जनमिति महासंज्ञा । अप्रधानं ह्युपसर्जनम् । गुण क्रिययोश्च द्रव्यं प्रत्यप्राधान्यं स्पष्टमेवेति । श्रपरस्यार्ध इति एतच 'पश्चात् ' इति सूत्रे भाष्ये स्थितम् । बहुलग्रहणादिति । एकेषु मुख्येषु वीरयते पराक्रमते इति वा बोध्यम् । श्रेण्यादयः । आद्य आदिशब्दो व्यवस्थावाची । द्वितीयस्तु प्रकारवाची । 'श्रेण्यादयः पठ्यन्ते, कृतादिराकृतिगणः' इति भाष्यात् । श्रेणि, एक, पूग, मुकुन्द, शशि, विशिख, निचय. निधनादिः श्रेण्यादिः । कृत, मित, मत. भूतादिः कृतादिः यदा तु सिद्धा एव श्रेणयः सम्यक् कृतास्तदा समासो नेष्यत इत्याशयेनाह - अश्वे. Page #80 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ७७ नञ्विशिष्टेनानञ् । ( २-१-६० ) नव्विशिष्टेन क्लान्तेनानम् क्लान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् । 'शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्' ( वा १३१० ) । शाकप्रियः पार्थिवः शाकपार्थिवः । देवब्राह्मणः । ७४० सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । (२-१-६१) सद्वैद्यः । वचय जीवितुमसमर्था इदानीं तेन जीवितुं समर्थाः कृता इत्यर्थे समासे सति श्रेणिकृताः ' इति भवतीत्यर्थः । श्राणशब्दो हस्वान्तः भाष्ये तथैवोदाहरणात् । यदा तु सिद्धा एव श्रेणयः परिष्कृत स्तदा तु न समासः, च्व्यर्थाभावात् । विप्रत्ययान्तस्य तु पर त्वात् 'कुगति-' इति नित्यसमासः । ततः 'च्वौ च' इति श्रेणिशब्दस्य दीर्घः । क्तेन नञ्वशिष्टेन नञ् । नञ्विशिष्टेन क्लान्तेन समानाधिकरणेन सह नत्रहितं क्लान्तं समस्यते, स तत्पुरुष इत्यर्थः । कृतं च तदिति । एकदेशस्य करणात्कृतम्, एक देशान्तरस्याकरणात्तदेवाकृतम् । पूर्वनिपातनियमार्थम् । सिद्धं च तदभुक्तं चेत्यत्र तु नायं समासः, विशिष्ट शब्दो ह्यत्राधिकवाची । यथा देवदत्ताद्यज्ञदत्तः स्वाध्यायेन विशिष्ट इत्युक्ते अधिक इति गम्यते । नञैव विशिष्टं नञ्मात्राधिकेन क्तान्तेनेति लभ्यते । एवं च समानप्रकृतिकत्वं क्लान्तयोः पर्यवसन्नमिति बोध्यम् । शाकपार्थिवादीनामिति । 'बर्णो वर्णेन' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । शाकप्रियः पार्थिवः शाकपार्थिव इति । शाकः प्रियो यस्य स शाकप्रियः । ' वा प्रियस्य' इति प्रियशब्दस्य परनिपातः शाकप्रियश्चासौ पार्थिवश्च इति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः । तत्र पूर्वखर डे बहुव्रीहौ उत्तरपदस्य प्रियशब्दस्य लोपः । देवब्राह्मण इति । देवाः प्रिया यस्य स देवप्रियः, स चासौ ब्राह्मणश्चेति विग्रहः । पूर्ववदुत्तरपदलोपः । देवपूजको ब्राह्मण इति वा विग्रहः | सन्महत्परम । समानाधिकरणैः समस्यन्ते, स तत्पुरुष इति शेषः । सद्वैद्य इति । सन् वैद्य इति विग्रहः । चिकित्सा 1 यः श्रेय इति । एकेन शिल्पेन परायेन वा ये जीवन्ति तेषां समूहः श्रेणिः । च्व्यन्तानां तु ‘कुगति-' इति नित्यसमासः, परत्वात् । श्रेणीकृतम् । इह तु 'च्वौ च' इति दीर्घः । क्तेन । विशिष्टशब्दोऽवधारणार्थः । नञ्मात्राधिकेन नजरहितं समस्यत इति सूत्रार्थः । तेनेह न - सिद्धं चाभुक्तं च । नुडिडधिकेनापीति वाच्यम् । अशितं चानशितं च प्रशितानशितम् । क्लिष्टाक्लिशितम् । 'क्लिशः क्त्वानिष्ठयोः' इति वेट् । कृताकृतमिति । एकदेशकरणात्कृतम् । एकदेशान्तरस्याकरणात्तदेवाकृतम् शाकपार्थिव इति । पृथिव्या ईश्वरः पार्थिवः । ' तस्येश्वरः' इत्यण् । शाकप्रिय इति बहुव्रीहिः, तस्य पार्थिवशब्देन समासे कृते पूर्वसमासे यदुत्तरपदं प्रिय इति तस्य लोपः । तथा देवब्राह्मण इत्यत्र देवस्य पूजको देवपूजक इति पूर्वस्मिन् षष्ठीसमासे Page #81 -------------------------------------------------------------------------- ________________ ७८] सिद्धान्तकौमुदी। [तत्पुरुषसमासमायेन महत भाकारः । महावैयाकरणः । पूज्यमानैः किम्-उत्कृष्टो गौः । पवाद् उद्धत इत्यर्थः । वृन्दारकनागकुखरैः पूज्यमानम् । (२-१-६२) गोवृन्दारकः । व्याघ्रादेराकृतिगणवादेव सिद्धे सामान्यप्रयोगार्थं वचनम् । ७४२ कतरकतमौ जातिपरिप्रश्ने । (२-१-६३) कतरकठः । कतमकलापः। शास्त्रकूलंकषज्ञानत्वं सत्त्वम् । तेन वैद्यस्य पूजा गम्यते । पूर्वनिपातनियमार्थ सूत्रम् । वदयमाणेनेति । महाश्चासौ वैयाकरणश्चेति विग्रहे अनेन समासे सति महच्छब्दस्य 'प्रान्महतः-' इति वक्ष्यमाणेन आकारे अन्तादेशे सवर्णदीर्घ महावैयाकरण इति भवतीत्यर्थः । ननु उत्कृष्टो गौरित्यत्रोत्कृष्टशब्दस्य अतिशयितवाचितया तेन गोः पूजावगमात् कथमिह समासो न भवतीत्यत आह-पङ्कादुधृत इत्यर्थ इति । उत्पूर्वकः कृषधातुरिहोदरणार्थक इति भावः । परमवैद्यः, उत्तमवैद्यः, उत्कृष्टवैद्यः । गुणक्रियाशब्दैः समासे सदादीनां पूर्वनिपातनियमार्थमिदं सूत्रम् । वृन्दारकनागकुञ्जरैः। समानाधिकरणैः समस्यत इति शेषः। विशेषणसमासेनव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थ सूत्रम् । गोवृन्दारक इति। वृन्दारकशब्दो देवतावाची । 'अमरा निर्जरा देवाः' इत्युपक्रम्य 'वृन्दारका दैवतानि' इत्यमरः । गौः वृन्दारक इवेति विग्रहः । गौः नाग इव गोनागः । गौः कुञ्जर इव गोकुञ्जरः । नागशब्दः कुञ्जरशब्दश्च गजवाची । अत्र गोन्दारकादितुल्यत्वात् श्रेष्ठयं गम्यत इति पूज्यमानता । ननु व्याघ्रादेराकृतिगणत्वाद् 'उपमितं व्याघ्रादिभिः-' इत्येव सिद्धे किमर्थमिदमित्यत श्राह--व्याघ्रादेरिति । सामान्येति । गोकुञ्जरः श्रेष्ठ इत्यादाविति भावः । कतरकतमौ । जातिपारिप्रश्ने गम्ये कतरकतमौ समानाधिकरणेन समस्येते इत्यर्थः । कतरकठ इति । अनयोः कः कठ इत्यर्थः । “किंयत्तदोर्निर्धारणे द्वयो. रेकस्य डतरच्' कठेन प्रोक्तमधीते कठः । वैशम्पायनान्तेवासित्वात् प्रोक्ते णिनिः । 'कठचरकाल्लुक्' इति तस्य लुक् । ततः 'तदधीते-' इत्यणः 'प्रोक्ताल्लुक्' इति लुक् । कतमकलाप इति । एषां कः कलाप इति विग्रहः । कलापिना प्रोक्तमधीते कलापः। 'कलापिनोऽण ' 'सब्रह्मचारि' इति टिलोपः। 'वा बहूनां जातिपरिप्रश्ने डतमच्' । ननु घटत्वादिवत् कठशाखाध्येतृत्वादिकं न जातिः । 'प्राकृतिग्रहणा जातिः' इति लक्षणस्य 'लिङ्गानां च न सर्वभा', 'सकृदाख्यातनिर्याह्या' इति लक्षणस्य च तत्रायदुत्तरपदं पूजक इति तस्य लोपो ज्ञेयः । सन्महत् । गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थ सूत्रम् । कतरकतमौ । जातिपरिप्रश्ने किम् । कतरो देवदत्तः। 'वा बहूनां जातिपरिप्रश्ने डतमच्' इति व्युत्पादितकतमशब्दसाहचर्यात्तादृशस्यैव कतरशब्दस्यापि ग्रहणे सिद्धे जातिपरिप्रश्नग्रहणं शापयति 'कतमशब्दोऽर्था. Page #82 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ७६ 'गोत्रं च चरणैः सह' इति जातित्वम् । ७४३ किं क्षेपे । (२-१-६४) कुत्सितो राजा किंराजा, यो न रक्षति । ७४४ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः । ( २-१-६५ ) ७४५ तत्पुरुषः समानाधिकरणः कर्मधारयः । ( १-२-४२ ) ७४६ पुंवत्कर्मधारयजातीयदेशीयेषु । (६-३-४२) कर्मधारये जातीयदेशीययोश्च प्रवृत्तेरित्यत आह-- गोत्रं चेति । अत्र कतमशब्दस्य जातिपरिप्रश्न एव व्युत्पादनात् कतरार्थमेव जातिपरिप्रश्नग्रहणम् । एवं च अनयोः कतरो देवदत्त इत्यत्र न भवति समासः । एषां कतमो देवदत्त इति तु नास्त्येव । जातिपरिप्रश्न एव डतमचो विधानात् । वस्तुतस्तु डत रडतमविधौ द्वयोरिति बहूनामिति जातिपरिप्रश्ने इति प्रत्याख्यातं भाष्ये । एवं च काम एषां देवदत्त इत्यप्यस्ति । तत्र समासाभावाय ज्ञातपरिप्रश्नग्रहणम् इति शब्देन्दुशेखरे स्थितम् । किं क्षेपे । क्षेपो निन्दा । तत्र गम्ये किमित्यव्ययं समानाधिकर णेन समस्यते स तत्पुरुष इत्यर्थः । कुत्सितो राजेति । अस्खपदविग्रहोऽयम् । किम् पदस्थाने कुत्सितपदमिति ज्ञेयम्, वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहासम्भवत् । किंराजेति । ' राजाहस्सखिभ्यः -' इति टच् तु न, 'किमः क्षेप' इति निषेधात् । ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह--यो न रक्षतीति । स किंराजेश्यन्वयः । 9 पोटायुवति । पोटादिभिः समानाधिकरणैर्जातिवाचकं समस्यते स तत्पुरुष इत्यर्थः । अथ कर्मधारयकार्यं वक्ष्यन् कर्मधारय संज्ञामाह - तत्पुरुषः समान । समानम् एकमधिकरणं वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्तइति समानाधिकरणः, मत्वर्थीय: श्रश्रद्यच् । समानाधिकरणानेकपदावयवकस्तत्पुरुषः कर्मधारसंज्ञको भवतीत्यर्थः । तत्पुरुषाधिकारे इयं संज्ञा न कृता, तथा सत्येकसंज्ञाधिकारात् कर्मधारयसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्याहुः । पुंवत्कर्मधारय । स्त्रियाः पुंवद्भाषितपुंस्कादनूङिति वर्तते । एकापि सप्तमी विषयभेदाद्भिद्यते । कर्मधारयांश अधिकरणसप्तमी । जाती देशीयविषये परसप्तमी । तदाह — कर्मधारय इति । तथाभूतमित्यनन्तरं स्त्रीवाचकमिति शेषः । भाषितपुंस्कादनूङित्येतत् 'स्त्रियाः पुंवत् - ' इति सूत्रे स्फुटीकरिष्यते । ननु कर्मधारये 'स्त्रियाः पुंवत् -' इत्यनेन सिद्धं पुंवत्त्वम्, 1 न्तरेऽपि साधुः' इति। तथा च प्रत्युदाहृतं प्राचीनवृत्तिषु ' कतरो भवतोर्देवदत्तः । कतमो भवतां देवदत्तः' इनि । किं क्षेपे । किंराजेति । 'किमः क्षेपे' इति समासान्तनिषेधः। क्षेपे किम्, को राजा पाटलिपुत्रे ? । एवं 'किंसखा यो द्रुह्यति' 'किंगौः यो न वहति' इत्यप्युदाहरणं बोध्यम् । तत्पुरुषः । समानाधिकरणशब्दः अर्शआय 1 Page #83 -------------------------------------------------------------------------- ________________ ८० सिद्धान्तकौमुदी। [ तत्पुरुषसमासपरतो भाषितपुंस्कात्पर ऊभावो यस्मिस्तथाभूतं पूर्व पुंवत् । पूरणीप्रियादिवप्राप्तः पुंवझावो विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया। तथा कोपधादेः प्रतिषिद्धः पुंवद्रावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री, वत्सभार्या, पञ्चमभार्या, सोनभार्या, सुकेशभार्या, ब्राह्मणभार्या । एवं पाचकजातीयदेशीययोस्सु 'तसिलादिष्वाकृत्वसुचः' इत्यनेन सिद्धमित्यत आह-पूरणीप्रियादिष्वप्राप्त इति । अपूरणीप्रियादिष्विति पर्युदासादिति भावः। महानवमीति । महती चासौ नवमी चेति विग्रहः । 'सन्महत्-' इत्यादिना समासः । नवानां पूरणी नवमी । 'तस्य पूरणे डट् 'नान्तादसंख्यादेर्मट् । टित्त्वाद् डीप् । अत्र नवमी शब्दस्य पूरणप्रत्ययान्तत्वात्तस्मिन् परे 'स्त्रियाः पुंवत्-' इति पुंवत्त्वमप्राप्तमनेन विधी. यते । कृते पुंवत्त्वे 'श्रान्महतः- इत्यात्त्वमिति भावः । कृष्णचतुर्दशीति । चतुर्दशानां पूरणी चतुर्दशी डट् । 'नस्तद्धिते' इति टिलोपः । टित्त्वान्डीप् । कृष्णा चासौ चतुर्दशी चेति विग्रहः । महाप्रियेति । महती चासौ प्रिया चेति कर्मधारयः । अत्रापि प्रियादिपर्युदासादप्राप्तमनेन विधीयत इति भावः। 'पुंवत्कर्मधारय-' इत्यस्य प्रयोजनान्तरमाह--तथा कोपधादेरिति । 'न कोपधायाः' 'संज्ञापूरण्योश्च' 'वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' 'स्वाजाच्चतः' 'जातेश्च' इति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः । कर्मधारयादाविति । कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः । पाचकस्त्रीति । पाचिका चासो स्त्री चेति कर्मधारयः । अत्र 'न कोपधायाः' इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः । दत्तभार्या, पञ्चमभायेति । दत्ता चासौ भार्या चति, पञ्चमी चासौ भार्या चेति च कर्मधारयः। अत्र 'संज्ञापूरण्योश्च' इति प्रतिषेधः प्राप्तः । सौनभायेति । स्रौनी चासौ भार्या चेति कर्मधारयः । अत्र 'वृद्धिनिमित्तस्य च-' इति प्रतिषेधः प्राप्तः । सुकेशभायेति । सुकशी चासौ भार्या चेति कर्मधारयः। अत्र 'स्वाशाच्च' इति निषेधः प्राप्तः । ब्राह्मणभायेति । ब्राह्मणी चासौ भार्या चेति जन्तः । समानाधिकरणपदक इत्यर्थः । भाषितपुंस्कादित्यादि । एतच्च 'स्त्रियाः पुंवत्-' इति सूत्रे स्फुटीकरिष्यते। ननु तेनैव कर्मधारयेपि सिद्धम् , जातीयदेशीययोस्तु 'तसिलादिषु-' इति सिद्धम् , तत्किमनेन सूत्रेणेत्यत आह-पूरणीप्रियादिष्विति । तथेति च । महानवमीति । नवानां पूरणी । 'तस्य पूरणे डट् 'नान्तादसंख्यादेर्मट्' टित्त्वान्ङीप् । महती चासौ नवमी चेति विग्रहः । वद्भावे कृते वक्ष्यमाणेन महत आकारः । कोपधादेरिति । 'न कोपधायाः' 'संज्ञापूरण्योश्च' 'वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' 'स्वाजाच्चेतः' 'जातेश्च' इति पञ्चसूच्या प्रतिषिद्ध इत्यर्थः । क्रमेणोदाहरति-पाचकस्त्रीति । जातीयदेशीययोरपि प्रतिप्रसवमुदाहरति Page #84 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ८१ जातीया पाचकदेशीया इत्यादि । इभपोटा | पोटा स्त्रीपुंसलक्षणा । इभयुवतिः । श्रग्निस्तोकः । उदविष्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूता, गोधेनुः । वशा वन्ध्या गोवशा । वेहगर्भघातिनी गोवेहत् । बष्कयण्यतरुणवत्सा, गोबष्कय णी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः । कर्मधारयः । अत्र 'जाते श्च' इति निषेधः प्राप्तः । अथ जातीयदेशीययोः प्रतिप्रसवमुदाहरति-— एवं पाचकचातीया पाचकदेशीयेति । 'प्रकारवचने-' इति जातीयर्, 'ईषदसमाप्तौ -' इ ते देशीयर् । उभयत्रापि ' तसिलादिषु -' इति पुंवत्त्वस्य 'न कोपधायाः' इति निषेधः प्राप्तः । इत्यादीति । दत्तजातीया, दत्तदेशीया, पञ्चमजातीया, पञ्चमदेशीया, स्रौघ्न्नजातीया, स्रौघ्नदेशीया, सुकेशजातीया, सुकेशदेशीया, ब्राह्मणजातीया, ब्राह्मण शीया । तदेवं पुंवत्कमधारय ' इति सूत्रं निरूप्य 'पोटायुवति -' इति सूत्रस्य क्रम् गोदाहरणान्याह - इभपोटेति । पोटा चासौ इभी चेति कर्मधारयः । इभीशब्दस्य पुंवत्त्वम् । जातेः पूर्वनिपातार्थमिदं सूत्रम् । पोटा स्त्रीपुंसलक्षणा इति । कोशवाक्यमिदम् । स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः । इभयुवतिरेति । युवतिश्चासौ इभी चेति विग्रहः । कर्मधारये पुंवत्त्वम् । अग्निस्तोक इति । स्तोकः अल्पः, स चासौ अभिश्चेति विग्रहः । उदश्वित्कतिपयमिति । 'तक्रं हादश्वित्' इत्यमरः । कतिपयं च तदुदश्विच्चेति कर्मधारयः । सृष्टिः सकृत्प्रसूति । कोशवाक्यमिदम् । गोगृष्टिरिति । गृष्टिश्चासौ गौश्चेति कर्मधारयः । धेनुर्नवप्रसूतेति । कोशवाक्यमिदम् । गोधेनुरिति । धेनुश्चासौ गौश्चेति विग्रहः । वशा वन्ध्येति । कोशवाक्यमिदम् । गोवशेति । वशा चासौ गौश्चेति । विग्रहः । वेह गर्भघातिनीति । कोशवाक्यमिदम् । गोवेहदिति । बेहच्चासौ गौश्चेति विग्रहः । बष्कयण्यतरुणवत्सेति । 'चिरसूता बष्कयणी' इत्यमरः । तरुणवत्सेत्यपपाठः । गोबष्कयणीति । बष्कयणी चासौ गौश्चेति विग्रहः । कठप्रवक्तेति । प्रवक्त अध्यापकः, स चासौ कठश्चेति विग्रहः । कठाध्यापक इति । श्रध्यापकश्चासौ व ठश्चेति विग्रहः । कठधूर्त इति । धूर्तश्चासौ कठश्चेति एवमिति । पाचिकाप्रकारवती पाचकजातीया । ' प्रकारचचने जातीयर्' । पाचकदेशीयेति । 'ईषदसमाप्तौ -' इति देशीयर । उभयत्र ' तसिलादिषु -' इति पुंवद्भावस्य 'न कोपधायाः' इति निषेधः प्राप्तः, पटुजातीया पटुदेशीयेत्यादौ तस्य चरितार्थ - त्वात् । इत्यादीति । श्रादिपदाद् दत्तजातीया, पञ्चमजातीया, स्रौघ्नजातीया, सुकेशजातीया, ब्राह्मणजातीया । एवं दत्तदेशीयेत्यायुदाहार्यम् । स्त्रीपुंसलक्षणेति । स्तनश्मश्वादियुक्ता स्त्रीत्यर्थः । उदश्विदिति । 'तक्रं यदश्विन्मथितं पादाम्ब्वर्धाम्बु Page #85 -------------------------------------------------------------------------- ________________ ८२] सिद्धान्तकौमुदी। [तत्पुरुषसमास७४७ प्रशंसावचनैश्च । (२-१-६६) एतैः सह जातिः प्राग्वत् । गोमतलिका । मोमचर्चिका । गोप्रकाण्डम् । गवोद्धः । गोतबजः। प्रशस्ता गौरित्यर्थः। मतलिकादयो नियतलिकाः, न तु विशेष्यनिन्नाः । जाति: किम्-कुमारी मतलिका । ७४८ युवा खलतिपलितवलिनजरतीभिः । (२-१-६७) विग्रहः । 'धूर्तोऽक्षदेवी' इत्यमरः। विट इत्यन्ये । न च 'कुत्सितानि कुत्सनैः' इत्यनेन सिद्धिः शङ्कया, प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तः। न हि कठत्वं कुत्सितम् । प्रशंसावचनैश्च । एतैरिति । रूढपा प्रशंसावाचकैरित्यर्थः । जातिरिति । 'पोटायुवति-' इत्यतस्तदनुवृत्तेरिति भावः। प्राग्वदिति । समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः । जातेः पूर्वनिपातनियमार्थ सूत्रम् । गोमतल्लिकेति । मतल्लिका चासौ गौश्चेति विग्रहः । गोमचर्चिकेति। मचर्चिका चासौ गौश्चेति विग्रहः । गोप्रकाएडमिति । प्रकाण्डं चासौ गौश्चेति विग्रहः। गवोद्ध इति । उद्धश्चासौ गौश्चेति विग्रहः । 'अवङ् स्फोटायनस्य' 'आद् गुणः' । गोतल्लज इति । तल्लजश्वासौ गौश्चेति विग्रहः । सर्वत्र परवल्लिङ्गता । मतल्लिकादिशब्दानामप्रसिद्धत्वाद्याचष्टेप्रशस्ता गौरित्यर्थ इति । गोशब्दस्य स्त्रीलिङ्गत्वाभिप्रायात्प्रशस्तेति स्त्रीलिङ्गनिर्देशः । गोशब्दस्य पुँल्लिङ्गत्वे तु प्रशस्त इति पाठयम् । ननु गोशब्दस्य पुँल्लिङ्गत्वे मतल्लिकामचर्चिकाप्रकाण्डशब्दानामपि विशेष्यनिघ्नत्वात् पुँल्लिङ्गतापत्तिः । गोशब्दस्य स्त्रीलिङ्गत्वे तु प्रकाण्डोद्धतल्लजानामपि स्त्रीलिङ्गतापत्तिश्चेत्यत आह-मतल्लिकादय इति । 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि' इत्यमरः । कुमारी मतल्लिकेति । अवस्थाविशेषात्मकवयोविशेषवाचित्वान्न जातिवाची कुमारीशब्द इति न समासः। समासे तु 'पुंवत्कर्मधारय-' इति पुंवत्त्वं स्यादिति भावः । युवा खलति । युवन्शब्दः खलत्यादिभिः समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः । विशेषणसमासेन सिद्ध किमर्थमिदमित्यत अाह--पूर्वेति । युवन्शब्दस्य खलत्यादिशब्दानां च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्यानियमे प्राप्ते तन्नियमार्थमिदं सूत्रमित्यर्थः । खलतिः केशहीनशिराः । 'पलितं जरसा शौक्लायम् ' 'वलिनो वलिभः समौ' इत्यमरः । युवा खलतिः युवखलतिरिति । निर्जलम्' इत्यमरः । कठधूर्त इति । नात्र कठत्वं कुत्स्यते, अतः 'कुत्सितानि कुत्सनैः' इति गतार्थता न शङ्कया, प्रवृत्तिनिमित्तकुत्सायामेव तस्य प्रवृत्तेः । 'जनयति कुमुदभ्रान्ति धूर्तबको बालमत्स्यानाम्' इत्यत्र धूर्तबक इत्यसाधुरेव । प्रशंसावचनैश्च । वचनग्रहणं रूढिशब्दपरिग्रहार्थम् । तेन ये यौगिकाः प्रशस्तशोभनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वादयः, ये तु गौण्या वृत्त्या प्रशंसा गमयन्ति 'सिंहो माणवकः' Page #86 -------------------------------------------------------------------------- ________________ प्रकरणम् १८. बालमनोरमा-तत्त्वबोधिनीसहिता। [८३ पूर्वनिपातनियमार्थ सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतियुवख नतिः । युवतिः खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपासामानाधिकरण्यम् । ७४६ कृत्यतुल्याख्या अजात्या । (२-१-६८) भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः । प्रजात्या किम्-भोज्य श्रोदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न । ७५० वर्णो अन्तर्वर्तिनीं विभक्ति माश्रित्य पदत्वान्नलोपः । ननु युवेति पुंल्लिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आह--लिङ्गविशिष्टेति । युवतिः खलतिः युवखलतिरिति । 'पुंवत्कर्म वारय-' इति पुंवत्त्वम् । युवजरतीति । जरती वृद्धा । युवतिश्वासौ जरती चेति दि ग्रहः । 'पुंवत्कर्मधारय-' इति पुंवत्त्वम् । ननु युवतिः कथं जरती स्यादित्यत आह-शुवत्यामेवेति । कृत्यतुल्याख्या । कृत्यप्रत्ययान्ताः तुल्यवाचकाश्च जातिभिन्न वाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः । भोज्योष्णमिति । भोज्यं च तदुष्णं चेति विग्रहः । 'ऋहलोपर्यत्' इति ण्यत् ! अर्हे कृत्यप्रत्ययः । ॐ ज्योष्णशब्दयोः क्रियागुणशब्दत्वात् विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते 'नेयमार्थमिदम् । तुल्यश्वेत इति। तुल्यश्चासौ श्वेतश्चेति विग्रहः । उभयोर्गुणाचनतया विशेषणत्वानियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः । आख्याग्रहणस्य प्रयोजनमाह--सदृशश्वेत इति । सदृशशब्दस्य तुल्यपर्यायत्वादिति भावः । भोज्य अोदन इति । अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः । नन्वेतत्समासाभावेऽपि विशेषणसमासो दुरि इत्यत आहप्रतिषेधेति । भोज्य ाब्दपूर्वनिपातस्योभयत्राप्यविशिष्टतया 'अजात्या' इति पर्युदाइत्यादयस्ते सर्वे व्युदयन्ते । गवोद्ध इति । 'अवङ् स्फोटायनस्य' इत्यवडि 'आद् गुणः' । 'मताजका मचर्चिका प्रकाण्डमुद्धतल्लजी । प्रशस्तवाचकान्यमूनि' इत्यमरः । 'प्रशंसावचन मोटायुवति-' इत्येकयोगसंभव पृथग्योगकरणं चिन्त्य फलम् । युवखलतीति । 'कदिकारादक्तिनः' इति ङीष् । 'पुंवत्कर्मधारय-' इति युवतिशब्दस्य पुंवद्भावः । जातीति । 'जीर्यतेरतृन्', 'उगितश्च' इति डीप । एवं युवपलितः, युववलिन इत्युद हार्यम् । वलिनशब्दः पामादिः । कृत्यतुल्याख्या । तुल्यमहान् सदृशमहानित्यादौ तु परत्वादनेन 'सन्महत्-' इति बाध्यते । 'तस्य सत्कृत्यशालिनः' इति भट्टिप्रयोग तु 'सतां कृत्यं सत्कृत्यम्' इति षष्ठीसमासो बोध्यः । एवं 'परमपूज्यः' इत्यादिष्वपि । वर्णो । समानाधिकरणेन वर्णवाचिना वर्णवाचि समस्यत इत्यर्थः । 'विशेषणं विशे येण-' इत्यनेनैव सिद्ध पृथग्विधानं 'वर्णो वर्णेष्वनेते' इति १ क्वचित्तु '-भ यथा' इति पाठः । Page #87 -------------------------------------------------------------------------- ________________ ८४] सिद्धान्तकौमुदी। [ तत्पुरुषसमासवर्णेन । (२-१-६६) समानाधिकरणेन सह प्राग्वत् । कृष्णसारकः । ७५१ कडाराः कर्मधारये (२-२-३८) कडारादयः शब्दाः कर्मधारये वा पूर्व प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः । ७५२ कुमारः श्रमणादिभिः। (२-१-७०) कुमारी श्रमणा कुमारश्रमणा। इह गणे श्रमणा प्रव्रजिता सवैयर्थ्यादिति भावः । वर्णो। शेषपूरणेन सूत्रं व्याचष्टे--समानाधिकरणेनेति । वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते, स तत्पुरुष इत्यर्थः । कृष्णसारङ्ग इति । सारङ्गश्चित्रवर्णवान् । कृष्णशब्दः कृष्ण वयवके लाक्षणिक इति सामानाधिकरण्यम् । कृष्णश्चासौ सारङ्गश्चेति विग्रहः । विशेषणसमासेन सिद्धे इदं प्रपञ्चार्थमेव। यत्तु 'वर्णो वर्णेष्वनेते' इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम् । तेन सारङ्गस्यावयवः कृष्णः सारङ्गकृष्ण इत्यत्र 'वर्णो वर्णेषु-' इति स्वरो नेति, तचिन्त्यम्, कर्मधारयस्वरप्रकरणे 'वर्णो वर्णेष्वनेते' इति सूत्रस्य पाठेनैव सिद्धेरिति दिक् । कडाराः कर्मधारये । 'उपसर्जनं पूर्वम्' इत्यतः पूर्वमित्यनुवर्तते । कडारा इति बहुवचननिर्देशात्तदादिग्रहणम् , तदाह-कडारादय इति । 'उपसर्जनं पूर्वम्' इति नित्ये प्राप्ते विकल्पोऽयम् । कडारजैमिनिरिति । कडारश्चासौ जैमिनिश्चेति विग्रहः । कुमारः श्रमणादिभिः । कुमारशब्दः श्रमणादिभिः समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः । कुमारी श्रमणा कुमारश्रमणेति । 'पुंवत्कर्मधारय-' इति पुंवत्त्वम् । श्रमणा परित्यक्तसर्वराजा । ननु सूत्रे कुमारशब्दस्य पुँल्लिङ्गस्यैव पाठात् कथमिह स्त्रीलिङ्गस्योदाहरणमित्यत श्राहइहेति । ननु गणे स्त्रीलिङ्गानामेव पाठे सूत्रस्य कथं तेषु प्रवृत्तिः । न च लिङ्गविशिष्टपूर्वपदप्रकृतिस्वरो विधीयमानः प्रतिपदोनत्वादेतत्समासपूर्वपदस्यैव भवतु नान्यस्येत्ये तदर्थम् । कृष्णसारङ्ग इति । सारङ्गश्चित्रपर्यायः, स च गुणोपसर्जनद्रव्यपरः । कृष्णशब्दोऽपि कृष्णावयवके भावः । एवं च गौणे सामानाधिकरण्ये 'विशेषणं विशेध्येण-' इत्यप्रवृत्तौ समासार्थमपीदमारब्धव्यमित्याहुः । ननु 'तृतीया तत्कृता-' इत्यनेनैवायं समासः सिध्यति, सारङ्गत्वस्य कृष्णादिकृतत्वात् । नापि स्वरे भेदः, 'तत्पुरुषे तुल्यार्थतृतीया' इत्यनेनैव पूर्वपदप्रकृतिस्वरसिद्धरिति चेत् । अत्राहु:-कृष्णशुको हरितशुक्ल इत्याद्यर्थ समासोऽनेनावश्यं विधेयः । नहीह तत्कृतत्वमस्ति । यद्यपीह 'विशेषणं विशेष्येण-' इत्यनेन समासः सिध्यति, तथापीष्टः स्वरो न सिध्यति । न च प्रतिपदोकसमासोऽकिंचित्करः, व्यावालाभादिति वाच्यम् , कृष्णशुक्रौ इत्यादेयावर्त्यस्य संभवादिति । कडारादय इति । बहुवचननिर्देशादिति भावः । प्रादिशब्देन गडुलशाण्डिल्यः, शाण्डिल्यगडुल इत्यादि । एतच भाष्ये स्पष्टम् । एत. Page #88 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्वबोधिनीसहिता । [ व गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् । ७५३ चतुष्पादो गर्भिण्या । ( २-१-७१ ) चतुष्पाजातिवाचिनो गर्भिणीशब्देन सह प्राग्वत् । गोगर्भिणी । 'चतुष्पाज्जातिरिति वक्तव्यम्' ( वा १३११ ) । नेह | स्वस्तिमती गर्भिणी । ७५४ मयूरव्यंसकाद्यश्च । ( २ - १ - ७२ ) एते निपात्यन्ते । मयूरो व्यंसकः मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक्योच्चावचम् । निश्चितं च प्रचितं च निश्श्रप्रचम् । नास्ति किञ्चन यस्य परिभाषयेति वाच्यम्, तत्सद्भावे प्रमाणाभावादित्यत आह--लिङ्गेति । एतदेवेति । एतदपीत्यर्थः, 'युवा खलति -' इतिसूत्रे जरतीग्रहणस्यापि तज्ज्ञापकत्वात् । न हि युवन्शब्दस्य जरतीसामानाधिकरण्यमस्ति । चतुष्पादो गर्भिण्या | 'जातिग्रहणं कर्तव्यम्' इति वार्तिकमभिप्रेत्य आह - चतुष्पादजातीति । गोगर्भिणीति । गर्भिणी चासौ गौश्चेति विग्रहः। विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम् । जातिरिति किम् ? कालाक्षी गर्भिणी । मयूरव्यंसकादयश्च । एते निपात्यन्त इति । कृतसमासकार्या निदिश्यन्त इत्यर्थः । मयूरव्यंसक इति । व्यंसकश्चासौ मयूरश्चेति विग्रहः । व्यंसको धूर्त इति । अत्र कोषो मृग्यः । गुणवचनत्वाद् व्यंसकशब्दस्य पूर्वनिपाते प्राप्ते इदं वचनम् । उच्चावचमिति । उदक्शब्दस्य उच्चेयादेशः । अवाक्शब्स्य श्रवचादेशश्च । ‘उच्चावच नैकभेदम्' इत्यमरः । निश्चप्रचमिति । निश्चितशब्दस्य निश्चादेशः । प्रचितशब्दस्य प्रचादेशः । नास्ति किञ्चनेति । चनेत्यव्ययमप्यर्थे । नास्ति किमपि यस्येत्यर्थे बहुव्रीह्यपवादस्त्रिपदस्तत्पुरुषः । मञो नकारस्य लोपश्च निपात्यते । 'न लोपो नञः' इति तु नात्र प्रवर्तते, किंशब्दस्य उत्तरपदत्वाभावात् समासचर मखण्ड एव देवेति । एवकारः स्फुटसिद्धत्वद्योतनार्थो न त्ववधारणार्थः । 'युवा खलति-' इति सूत्रे जरतीग्रहणस्यापि ज्ञापकत्वसंभवात् । न हि युवन्शब्दस्य पुंस्त्वे जरतीसामानाधिकरण्यं संगच्छते । चतुष्पादो । मण्डूकप्लुत्या श्रत्र 'जातिः' इत्यनुवर्तत इत्याह-- जातिवाचीति । जातिः किम्, कालाक्षी गर्भिणी । चतुष्पात्किम्, ब्राह्मणी गर्भिणी । प्रत्युदाहरणे 'विशेषणम् -' इति समासः स्यादेव । गर्भिणीकालाक्षीत्यादिपूर्वनिपाते विशेषः । मयूर । चकारोऽत्रावधारणार्थः । तेन 'परममयूरव्यंसकः' इत्यादि समासान्तरं न भवति । धूर्त इति । एवं च गुणवचनत्वात्पूर्वनिपाते प्राप्ते इदं वचनमारब्धमिति भावः । अन्ये तु मयूर इव व्यंसको मयूरव्यंसक इत्यादौ 'उपमानानि सामान्यवचनैः' इति समासस्यापवादोऽयम् । तेन 'समासस्य' इत्यन्तोदात्तत्वमिह सिध्यति । 'तत्पुरुषे तुल्यार्थ -' इत्युपमानपूर्वपदप्रकृतिस्वरस्योप Page #89 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [तत्पुरुषसमाससोऽकिचनः । नास्ति कुतो भयं यस्य सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् । 'पाख्यातमाख्यातेन क्रियासातस्ये' (ग २०)। अनीत पिबतेत्येवं सततं यत्राभिधीयते सा प्रश्नोतपिबता । पचतभृजता । खादतमोदता। 'एहीडादयोऽन्यपदार्थे' (ग १८) एहीड इति यस्मिन्कर्मणि तदेहीडम् । एहियवम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सोद्धरोत्सृजा । उद्धमविधमा। असातत्यार्थमिह पाठः । 'जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति'। (ग २६)। जहीत्येतस्कर्मणा बहुलं समस्यते भाभीक्ष्ण्ये गम्ये समासेन चेस्कर्ताभिधीयत इत्यर्थः । जहिजोडः। जहिस्तम्बः। ७५५ ईषदकृता। (२-२-७) उत्तरपदशब्दस्य रूढत्वात् । नास्ति कुत इति । कुतोऽपि भयमस्य नास्तीति विग्रहस्यार्थः । अकुतो भय इति । बहुव्रीह्यपवादस्तत्पुरुषः। अन्यो राजा राजान्तरमिति । अत्र अन्तरशब्दः अन्यपर्यायः । तस्य स्थाने अन्यशब्दो विग्रहवाक्ये ज्ञेयः, नित्यसमासत्वेन अस्वपदविग्रहौचित्यात् । नित्यसमासत्वं च राजान्तरमित्यस्य व्याख्यानादेव ज्ञेयम् । अत्र अन्तरशब्दस्य परनिपातः । चिदेव चिन्मात्रमिति । 'मानं कात्स्येऽवधारणे' इत्यमरः । नित्यसमासत्वसूचनाय अस्वपदविग्रहः । निपातनादनुनासिकनित्यतेत्याहुः । आख्यातमिति । गणसूत्रम् । क्रियासातत्ये गम्ये तिङन्तं तिङन्तन समस्यते, स तत्पुरुष इत्यर्थः। अश्नीतपिबतेति । इहासुबन्तत्वेऽपि समासः । क्रियारूपस्यान्यपदार्थस्य प्राधान्यात् स्त्रीत्वाट्टाप् । एवं पच नभृजतेत्यादावपि । एहीडादय इति । इदमपि गणसूत्रम् । अन्यपदार्थे एहीडादयो निपात्यन्त इत्यर्थः । एहि ईडे इति विग्रहः । इडे इति लडुत्तमपुरुषैकवचनम् । डकारांदेकारस्य अकारादे. शः । एहियवमिति । यौमीत्यस्य यवादेशः । उत्सृजेत्यस्य विवरणम्-देहीति । इह पाठ इति । एहीडादिश्वित्यर्थः । 'जहि कर्मणा बहुलम्-' इत्यपि गणसूत्रम् । कर्ता अभिधीयत इति । उक्तेः कर्तेत्यर्थः । जहिजोड इति । जोड इति कस्यचित् संज्ञा । जहि जोडं जहि जोडमित्याभीक्ष्ण्येन य ह स जहिजोडः । जहिस्तम्ब इति। जहि स्तम्बम् , जहि स्तम्बमिति य आहेति विग्रहः इति समानाधिकरणाधिकारः। ईषदकृता । ईषच्छब्दः अकृदन्तप्रकृतिकसुबन्तेन समस्यते, स तत्पुरुष मानसंशब्दनेन विहिते प्रतिपदोक्तसमासे चरितार्थत्वादित्याहुः । राजान्तरमिति । अन्तरशब्दोऽत्र भिन्नवाची। चिन्मात्रमिति । 'मात्रं कास्न्येऽवधारणे' इत्यमरः अन्तरमात्रशब्दाभ्यां सह नित्यसमास इत्युभयत्र अस्वपदविग्रहो दर्शितः । नित्यसमा. सत्वं तु अवधारणार्थकचकारेण लब्धमित्याहुः । प्रश्नीतपिबतेति । इह कियारूपस्थान्यपदार्थस्य प्राधान्यात् स्त्रीत्वाट्टाप् । एवमग्रेऽपि-उद्धर कोष्ठादित्यादि । उद्धर Page #90 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तस्वबोधिनीसहिता। [८७ ईपत्पिादः । 'ईषद् गुणवचनेनेति वाच्यम्' (वा १३१६)। ईषद्रकम् । ७५६ नम् । (२-२-६) नम्सुपासह समस्यते । ७५७ नलोपो नमः। (६-३-७३) नमो नस्य बोपः स्यादुत्तरपदे । न ब्राह्मणोऽब्राह्मणः । ७५८ तस्मान्नुडचि । इत्यर्थः । ईषत्पिङ्गल इति । पिङ्गलशब्दः अव्युत्पन्न प्रातिपदिकमिति भावः। ईषद्रणवचनेनेति । अकृतेत्यपहायेति शेषः । न । इदं समानाधिकरणाधिकारस्थं नेत्यभिप्रेत्याह-सुपा समस्यत इति। न लोपोनञः। नेति लुप्तषष्ठीकं पदम् । तदाह-नो नस्येति । उत्तरपद इति । 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः । नमोऽशिति सिद्ध लोपवचनम् अकब्राह्मण इति साकच्कार्थमित्याहुः । अब्राह्मण इति । अत्रारोपितत्वं नमः । आरोपितत्वं च ब्राह्मणत्वद्वारा ब्राह्मणेऽन्वेति । आरोपितब्राह्मणत्ववानिति बोधः । अर्थाद् ब्राह्मणभिन्न इति पर्यवस्यति । केचित्तु नञ् भिनवाची, ब्राह्मणाद्विम इत्यर्थ इत्याहुः । तदयुक्तम् , ब्राह्मणाद्भिन्न इत्यर्थे पूर्वपदप्राधान्यापत्तेः। तथा च 'उत्तरपदार्थप्रधानस्तत्पुरुष' इति भाष्योद्घोषो विरुध्यत । किं च अते, अतस्मै, अतस्मादित्यादौ सर्वनामकार्य शीभावस्मायादिकं न स्यात्, तच्छन्दार्थस्य नमये प्रति विशेषणत्वे अप्रधानत्वात् 'संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इत्युक्तः । तथा अस इत्यादौ 'तदोः सः सावनन्त्ययोः' इति सर्वाद्यन्तर्गतत्यदादिकार्य सत्वं च न स्यात् । अनेकमित्यत्र एकवचनानुपपत्तिश्च । एकभिनस्य एकत्वासंभवेन द्वित्वबहुत्वनियमेन च द्विबहुवचनापत्तेः । तथा सति 'अनेकमन्यपदार्थ' इति नोपपद्यत, 'एतत्तदोःसुलोपः-' इत्यत्र अनसमासग्रहणं चात्र लिङ्गम् । तद्धि असः शिवः, अनेषः शिव इत्यादी सुलोपाभावार्थम् । तद्भिन एतभिन्न इत्यर्थे तु तच्छन्दाद्यर्थस्य उपउत्सृजेत्येताबानेव विग्रहः । उत्सृजेत्यस्य विवरणं देहोति । कोष्ठादिति तूद्धरेत्यस्याकाक्षापूरणार्थमुक्तम् । समासेन चेत्कर्तेति । जहिजोडमिति अाभीक्षायेन य आह स जहिजोडः । एवं जाहे स्तम्बमिति य ाह स जहिस्तम्बः। नम् । इह 'नलोपो नमः' इत्यत्र विशेषणार्थो अकारः । तत्फलं च नैकधेत्यत्रालोपः । 'अव्यये नकुनिपातानाम्' इत्यव्ययपूर्वपदप्रकृतिस्वरार्थ अकारोचारणमित्यन्ये । सुपा सह समस्यत इति । उत्तरपदार्थप्रधानोऽयं समासः । तथा हि आरोपितत्व नमा द्योत्यते । तथा च अब्राह्मणशन्दाद् 'पारोपितो ब्राह्मणः' इति बोधे अर्थाद् 'ब्राह्मणभिन्नः' इत्यर्थः पर्यवस्यति । अतएवानुपसर्जनत्वादतस्मिन् अस इत्यादौ सर्वनामकार्य सिध्यति । तत्पुरुषस्यौत्सर्गिकमुत्तरपदार्थप्राधान्यमप्येवं सति निर्वाधम् । एतत्तदोःइति सूत्रे अनम्समासग्रहणं चेह लिमित्यादि मनोरमायामनुसन्धेयम् । नलोपो नमः । 'नमोऽश्' इति वाव्ये नलोपवचनं साकच्कार्थम् । तेन नमोऽकधि प्रक Page #91 -------------------------------------------------------------------------- ________________ ८] सिद्धान्तकौमुदी। [तत्पुरुषसमास(६-३-७४ ) लुप्तनकाराधन उत्तरपदस्याजादेर्नुहागमः स्यात् । अनश्वः । अर्था सर्जनतया त्यदाद्यत्वानापत्तौ हल्ल्यादिलोपस्य दुर्वारत्वात्तद्वैयर्थं स्पष्टमेव । तस्मादु. त्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपितत्वमेव नमर्थ इति युक्तम् । विस्तरस्तु प्रौढमनोरमायां शब्दरत्ने मञ्जूषायां च ज्ञेयः । प्राचीनास्तु 'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नर्थाः षट् प्रकीर्तिताः'। इति पठित्वा अब्राह्मणः, अपापम् , अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये गोअश्वेभ्यः, अधर्म इत्युदाजहः तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः । तस्मान्नुडचि । तच्छन्देन पूर्वसूत्रावगतो लुप्तनकारो नञ् परामृश्यते। उत्तरपद इत्यनुवृत्तम् अचीत्यनेन विशेष्यते। तदादिविधिः । 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वात्' इतिपरिभाषया सप्तमी षष्ठी प्रकल्पयति । तदाह-लुप्तनकारादिति । अनश्व इति । समासे सति नमो नकारस्य लोपे तत्परिशिष्टाकारस्य नुट ,टकार इत् , उकार उच्चारणार्थः । टित्त्वादाद्यवयव इति भावः । नुक् तु न कृतः । मुदप्रसङ्गात् । ननु 'उत्तरे कर्मण्यविघ्नमस्तु' इत्यादौ विनानामभाव इत्यर्थे नञ्तत्पुरुषे सति परवल्लित्वे अविघ्न इति स्यात् । न च अर्थाभावे अव्ययीभावेन तत्सिद्धिरिति वाच्यम्, अव्ययीभावस्य निर्मक्षिकमित्यादौ सावका ब्राह्मणः, अकनश्व इत्यादि सिद्धमित्याहुः । उत्तरपद इति । 'अलुगुत्तरपदे' इत्यधिकारादिति भावः। उत्तरपदे किम्, घटो नास्ति, पटो नास्ति । नन्वेवमपि 'बणार्थः' इत्यत्र नलोपः स्यादिति चेत् । अत्राहुः-उत्तरपदाक्षिप्तपूर्वपदेन । नमें विशेष्य 'पूर्वपदभूतस्य नमः, इति व्याख्यानान भवति । 'स्त्रीपुंसाभ्याम्-' इति विहितस्य नञ्प्रत्ययस्यापूर्वपदत्वात् । अतएव चात्र 'प्रत्ययाप्रत्यययोः प्रत्ययस्यैव प्रहणम्' इति परिभाषा नोपतिष्ठते । न च प्रत्ययप्ररणे तदन्तग्रहणानप्रत्ययान्तस्य पूर्वपदत्वं संभवत्येवेति 'प्रत्ययाप्रत्यययोः-' इत्येतदुपतिष्ठत एवेति वाच्यम् । 'हृदयस्य हृल्लेख-' इति सूत्रे अणग्रहणात्पृथग् लेखग्रहणेन 'उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' इति ज्ञापनात् । यद्वा 'अमूधेमस्तकात्- 'विभक्तावप्रथमायाम्' इत्या दिज्ञापकाद् 'नलोपो नञः' इत्यत्राव्ययमेव नञ् गृह्यते, न तु प्रत्यय इति । तस्मान्नुडचि । 'डः सि धुट्' इत्यत्रेवाचीति सप्तम्याः षष्ठी प्रकल्प्यत इत्याह-अजादरिति । अचा उत्तरपदविशेषणाद् 'यस्मिन्विधिः-' इति तदादिविधिर्लभ्यत इति भावः । अनश्व इति । नुटः परादित्वेन अपदान्तत्वाद् 'डमो ह्रस्वात्-' इति डमुण्न भवति । ननु विघ्नानामभावोऽविघ्नमित्यत्रापि परत्वात्तत्पुरुषः स्यादव्ययीभावस्य निर्मचिकादौ सावकाशत्वात् । अन्यथा अनुपलब्धिः, अविवाद इति न सियेदित्या Page #92 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा तत्त्वबोधिनीसहिता। [८६ भावेऽव्ययीभावेन सहायं विकल्प्यते । 'रोहागमनम्वसन्देहाः प्रयोजनम्' इति 'भदवायामसंहितम्' (वा ११६७) इति च भाष्यवार्तिकप्रयोगात् । तेन मनुपलब्धिः, अविवादः, अविनम् इत्यादि सिद्धम् । 'नमो नलोपस्तिति क्षेपे' (वा १९८४)। अपचसि त्वं जाम । नेकधा इत्यादौ तु नशब्देन सह 'सुपा' (स १४६) इति समासः । ७५६ नभ्राएनपान्नवेदानासत्यानमुचिनशतया परत्वात्तत्पुरुषस्यैव प्रसज्ञादित्यत आह-अर्थाभाव इति । रक्षेति । पस्पशाहिकभाष्ये इदं वाक्यम् । रक्षा च ऊहश्च आगमश्च लघु च असंदेहश्च इति द्वन्द्वः। 'परवल्लिङ्गम्-' इति पुंस्त्वम् । अत्र संदेहाभाव इत्यर्थे असंदेहशब्दस्य असंदेहा इति प्रयोगात् तत्पुरुषो विज्ञायते। अव्ययीभावे रक्षोहागमलध्वसंदेहमिति स्यात् । अद्रुता. यामसंहितमिति । 'परः सन्निकर्षः संहिता' इति सूत्रे पठितमिदं वार्तिकम् । अद्रुता यां वृत्तौ संहिताभाव इत्यर्थः । अत्र अव्ययीभावे सति असंहितमिति प्रयोगाद् अव्यययोभावेऽपि अर्थाभावो ना गम्यो भवतीति विज्ञायते । अन्यथा तत्पुरुषे सति परवल्लिगत्वादसंहितेति स्यात् । ततश्च ना गम्ये अभावे तत्पुरुषाव्ययीभावयोर्विकल्प इति स्थितम् । तेनेति । अनुपलब्धिरित्यत्र अविवाद इत्यत्र च तत्पुरुषः, अविनमित्यत्र अव्ययीभावश्च सिध्यतीत्यर्थः । शब्देन्दुशेखरे तु अन्यथा प्रपञ्चितम् । नमो नलोपस्तिङि क्षेप इति । 'न लोपो नमः' इति सूत्रस्थवार्तिकमिदम् । नमो नकारस्य लोपः स्यात् तिछि परे निन्दायामिति वक्तव्यमित्यर्थः । अपचसि त्वं जाल्मेति । कुत्सितं पचसीत्यर्थः । अत्र श्र इति भिन्नं पदम् , तिङन्तेन समासाभावात् । वार्तिकमिदं प्रसादुपन्यस्तम् । नसमानार्थकेन अ इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव । केचित्तु अस्मादेव वार्तिकादव्ययेषु अ इत्यस्य पाठः अप्रामाणिक इत्याहुः । ननु मैकधेत्यत्रापि नसमासे 'न लोपो नत्रः' इति नकारस्य लोपे 'तस्मान्नुडचि' इति नुटि अनेकधेत्येव स्यादित्यत आह-नैकधेत्यादौ त्विति । एतदर्थमेव 'नञ्' इति सूत्रे 'न लोपो नमः' इति सूत्रे च अकारानुबन्धग्रहणमिति भावः । नभ्रायनपात्-। सुगशड्याह-अर्थाभावेऽव्ययीभावेन सहेत्यादि । अविघ्नमिति । यद्यप्य. विद्यमाना विघ्ना यस्मिनिति बहुव्रीहिण। अविघ्नं कर्मेत्यादिप्रयोगः सिद्धयति, तथापि 'उत्तरे कर्मण्यविघ्नमस्तु' इत्यादिप्रयोगा अव्ययीभावं विना स्वरसतो न सिद्धयन्तीति भावः । नमो नलोप इति । तिङन्तेन समासाभावादप्राप्ते वचनम् । अपचसीति । कुत्सितं पचसीत्यर्थः । नशब्देनेति । नत्रा समासे त्वनेकधेत्येव स्यादिति भावः । नभ्राद् । सत्सु साधवः सत्याः । 'तत्र साधुः' इति यत् । न सत्या असत्याः । म असत्या नासत्याः । इह बहुवचनमविवक्षितम् । तेन 'नासत्यावश्विनौ दसौ' इति Page #93 -------------------------------------------------------------------------- ________________ ६० ] सिद्धान्तकौमुदी । तत्पुरुषसमास कुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । ( ६-३-७४) पाद् इति शत्रन्तः । वेदा इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चतीति नमुचिः । न कुल्लमस्य । न खमस्य । न स्त्री पुमान् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न चरतीति नक्षत्रम् । चीयतेः चरतेर्वा चत्रमिति निपात्यते । न क्रामतीति नक्रः । ' क्रमेर्ड : ' । न अकमस्मिन्निति नाकः । ७६० नगोऽप्राणिष्वन्यतरस्याम् । ( ६- ३-७७ ) नग इत्यत्र नम्प्रकृत्या वा । नगाः - श्रगाः पर्वताः । श्रप्राणिषु इति किम्-श्रगो वृषलः शीतेन । 'नित्यं क्रीडा -' ( सू ७११ ) इत्यतो नित्यम् इत्यनुवर्तमाने - ७६१ कुगतिप्रादयः । ( २ - २ - १८ ) एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । 'गतिश्च' ( सू २३ ) इत्यनुवर्तमाने । ७६२ ऊर्यादिच्विडाचश्च । ( १४-६१ ) एते क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटा मम् । अनुवर्तमान इति । समासविधयो वक्ष्यन्त इति शेषः । कुगतिप्रादयः । समस्यन्त इति । स तत्पुरुष इत्यपि ज्ञेयम् । कुत्सितः पुरुष इति । नित्यसमा - सत्वादस्वपदविग्रहः । कुत्सितार्थकस्य कु इत्यव्ययस्यैवात्र ग्रहणम्, न तु पृथ्वीपर्यायस्य, गत्यादिसाहचर्यात् । गतिश्चेत्यनुवर्तमान इति । क्रियायोग इति चेति बोध्यम् । ऊर्यादिच्विडाचश्च । चिवडाचौ प्रत्ययौ । ऊरीकृत्येति । ऊरीत्यव्य यमङ्गीकारे, तस्य कृत्वेत्यनेन गतिसमासः । समासेऽनन्पूर्वे क्त्वो ल्यप् । शुक्लीकृत्येति । अशुक्कं शुक्रं कृत्वेत्यर्थः।‘कुभ्वस्तियोगे -' इत्यभूततद्भावे च्विः । गतिसमासे सति क्वो ल्यप्, येरपृ I सिद्धम् । नुमचिरिति । 'सर्वधातुभ्य इन्' । 'इगुपधात्कित्' इति कित्त्वान्न गुणः । क्षरतेः क्षीयतेर्वेति । 'तर संचलने' भ्वादि: । 'ति निवासगत्योः ' तुदादिः । कुगति । कुशब्दोऽत्राव्ययं गृह्यते, न तु पृथिवीवाचकः, गत्यादिसाहचर्यात् । ऊर्यादिच्विडाचश्च । 'उपसर्गाः क्रियायोगे' इत्यतोनुवर्तनादाह – क्रियायोग इति । विडाचौ कृभ्वस्तियोगे विहितौ तत्साहचर्यादूर्यादीनामपि तत्रैव गतिसंज्ञा । तेनेह न- ऊरीपक्त्वा । माधवादिप्रन्थे तु 'आविः प्रादुःशब्दौ मुक्त्वा श्रन्येषां करोतिनैव योगे गति संज्ञा' इति स्थितम् । तथैवोदाहरति — ऊरीकृत्येति । एतच्च मनोरमा - नुसारेणोक्तम् । वस्तुस्तु ऊरीभूयेति भाष्योदाहरणाद्दिङ्मात्रमुदाहरति, ऊरीकृतेत्यवतरितुयुक्तम् | संज्ञाफलं समासस्तत्फलं च ल्यबिति बोध्यम् । ऊरी उररी एतावङ्गीकारे । विः शब्दस्य तु साक्षात्प्रभृतिषु पाठात् कृञो योगे गतिसंज्ञाविकल्पः, भ्वस्तियोगे त्वनेन नित्यमिति बोध्यम् । कथं तर्हि 'वारुणीमदविशङ्कुमथाविश्चक्षुषो भवदसाविव रागः' इति माघ इति चेत् । अत्राहुः - - ' ते प्राग्धातो:' इतिसूत्रस्य प्रयोगनियमार्थत्व Page #94 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमात्तत्त्वबोधिनीसहिता। [६१ कृत्य । 'कारिकाशब्दस्योपसंख्यानम्' (वा ११३२) कारिका किया । कारिकाकृत्य । ७६३ अनुकरणं चानितिपरम् । (१-४-६२) खाद्कृत्य । भनितिपरं किम्-खाडिति कृत्वा निरष्ठीवत् । ७६४ आदरानादरयोः सदसती। स्येति वलोपः । 'अस्य च्वौ' इति ईत्त्वम् । पटपटाकत्येति । पटपटा इति शन्दं कृत्वेत्यर्थः । 'अव्यक्तानुकरणाद्वयजवराधादनितौ डाच्' इति पटच्छन्दााचि द्वित्त्वम् , टिलोपः । 'नित्यमानेडिते डाचि' इति तकारपकारयोः पकार एकादशः । गतिसमासे क्त्वो ल्यप् । कारिकाशब्दस्योपसंख्यानमिति । गतिसंज्ञाया इति शेषः। कारिकाशब्दं व्याचष्टे-कारिका क्रियेति । 'स्त्रियां किन्' इत्यधिकारे धात्वर्थनिर्देश एवुल् । कारिकाकृत्येति । क्रियां कृत्वेत्यर्थः। द्वितीयान्तस्य गतिसमासे क्त्वो ल्यप, सुब्लुक्, कारिकाशब्दोऽत्र न कींवाची, न श्लोकवाची च, व्याख्यानात् । अनुकरणं चानितिपरम। अनुकरणं गतिसंज्ञं स्याद् इतिपरं वर्जयित्वेत्यर्थः । खादक. त्येति । खाडिति शब्दं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप् खाडिति कृत्वेति । न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाभावादेव गति संज्ञा न भविष्यति, तत्किमनितिपरग्रहणेनेति वाच्यम् , यथाकथंचित्क्रियायोगसत्त्वात् । 'ते प्राग्धातोः' इति सूत्रं तु ते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत इति प्रयोगनियमपरमेवेति भावः । आदरानादरयोः सदसती। सदिति असदिति च अव्यय भादसनादरयोः क्रमेण पक्षे प्रकृते अनुपपत्तावपि संज्ञानियमार्थत्वपक्षे दोषलेशोऽपि नास्तीति ।-शुक्लीति । 'कृभ्वस्तियोगे संपद्य कर्तरि विः' । 'अस्य च्वौ' इतीकारः। पटपटाकृत्येति । 'डाचि बहुलं द्वे भवतः' इति पटच्छब्दस्य द्वित्वम् । 'अव्यक्तानुकरणाद्-' इति डाचि टिलोपः । 'नित्यमानेडिते डाचि' इति तकारपकारयोः पकार एकादेशः। निपातसंज्ञायाः समावेशार्थ सूत्रे चकारः । तेन ऊरीकृतमित्यत्र 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरे क्रियमाणे निपातप्रयुक्तमायुदात्तत्वं भवति । कारिकेति । भावे 'पर्यायाहण-' इति एवुच् । तदाह-क्रियेति । "क्रियायोगे' इत्यनेन कारिकाशब्दस्य विशेषणात् श्लोकवाची कारिकाशब्दोऽत्र नं गृह्यत इति भावः । क्रियाशब्दस्यात्र मर्यादास्थितिरर्थः । यत्न इत्यन्ये । अनुकरणं चा। 'ते प्राग् धातोः' इत्यस्य संज्ञानियमपक्षेऽनितीति व्यर्थमिति मत्वा पृच्छति । अनितिपरं किमिति । इतरस्तु प्रयोगनियमपक्षे खाडित्यनुकरणस्येतिशब्दे परे गतिसंज्ञानिवारणायानितिपरमित्यावश्यकमिति प्रत्युदाहरति--खाडिति कृत्वेति । सत्यां संज्ञायाम् एष प्रयोगो नैव स्यात् , किंतु 'इति खाटकृत्य' इत्येव स्यादिति भावः । न च 'इति खाकृत्य' इति न भवति, इतेः परस्यानुकरणस्य गतिसंज्ञानिषेधादिति वाच्यम् , Page #95 -------------------------------------------------------------------------- ________________ १२] सिद्धान्तकौमुदी। [तत्पुरुषसमास(१-४-६३) सस्कृत्य । असत्कृत्य । ७६५ भूषणेऽलम् । (१-४-६४) अखंकृत्य । भूषणे किम्-अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । 'अनुकरणम्-' (सू ७६३) इत्यादित्रिसूत्री स्वभावास्कृम्विषया। ७६६ अन्तरपरिग्रहे । (१-४-६५) अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम्-अन्तईस्वा गतः । हतं परिगृह्य गत इत्यर्थः । ७६७ कणेमनसी श्रद्धाप्रतीपाते । (१-४-६६) कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातः अभिलाषातिशये वर्तते । मनश्शब्दोऽप्यत्रैव । ७६८ पुरोविद्यमाने गतिसंशके स्त इत्यर्थः । सत्कृत्येति । भादरं कृत्वेत्यर्थः । असत्कृत्येति । अनादरं कृत्वेत्यर्थः। गतिसमासे क्त्वो ल्यप् । भूषणऽलम् । भूषणे विद्यमानम् अलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । अलंकृत्येति । कटकादिधारणेन परिष्कारं कृत्वे. त्यर्थः । कृविषयेति । कृञ्योग एव भवतीत्यर्थः । वस्तुतस्तु संकोचे प्रमाणाभावाद् धात्वन्तरयोगेऽपि त्रिसूत्रीप्रवृत्तियुक्ता । अत एव अल भुक्त्वा ओदनं गत इति वृत्तिकता प्रत्युदाहृतम् । अन्तरपरिग्रहे। अपरिग्रहे वर्तमानम् अन्तरित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। हतं परिगृह्येति । हत्वा गमनं हतम् अपरिगृह्य परिगृह्य वा भवति । तत्र आद्यमुदाहरणम् , द्वितीयं प्रत्युदाहरणमित्यर्थः । अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम् । कणेमनसी श्रद्धाप्रतीघाते । कणे ज्ञब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञको स्तः । अत्यन्ताभिलाषः श्रद्धा, तस्या निवृत्तिः प्रतीघातः । कणेहत्येति । गतिसमासे क्त्वो ल्यप् । मनोहत्येति । पयः पिबतीत्यनुषज्यते । ननु समासे कृते कणे इति सप्तम्याः कथं न लुगित्यत आह-कणे शब्द इति । ननु श्रद्धाप्रतीघातस्य कथमिहावगतिः, श्रद्धावाचकशब्दाभावात् । मनसो घाते सति कथं वा पयःपानमित्यत आह-अभिलाषातिशय इति । कणेशब्द इत्यनुष'अनितिपरम्' इत्यत्र इतिः परो यस्मात्तद् इतिपरम् , न इतिपरमनितिपरमिति बहुव्रीहिघटितनञ्तत्पुरुषाश्रयणात् । स्यादेतत्-अनुकरणस्येतिशब्दपरत्वे क्रियायोगाभावाद्गतिसंज्ञा नास्तीति खाडिति कृत्वेति रूपं निर्बाधम् , किमनेनानितिपरग्रहणेनेति चेत् , अत्राहुः-इतिकृत्वेति समुदाय एवायं कृत्वेत्यर्थे वर्तते। तथा च इतिशब्दः क्रियाविशेषकः, इति तटितसमुदायस्य क्रियावाचकत्वादस्त्येव क्रियायोग इति । हतं परिगृह्येति । हत्व' गमनं द्विधा--हतं त्यक्त्वा परिगृह्य चेति । आद्यमुदाहरणम् , द्वितीयं तु प्रत्युदाहरणम् । अपरिग्रह इति च प्रयोगोपाधिः, न तु वाच्यकोटिनिविष्टमिति भावः । कणेहत्येति । अत्यन्तमभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः । तथा च श्रद्धाया अपगमात्तत्प्रतिघात्मे गम्यते। प्रत्युदाहरणं तु कणे हत्वा गतः । सूक्ष्म Page #96 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६३ ऽव्ययम् । (१-४-६७) पुरस्कृत्य । ७६६ अस्तं च । ( १-४-६६ ) अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् । श्रस्तंगस्य । ७७० अच्छ गत्यर्थवदेषु । ( १ -४-६६ ) अव्ययम् इत्येव । प्रच्छुगस्य । प्रच्छोच । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् - जलमच्छं गच्छति । ७७१ श्रदोऽनुपदेशे । ( १-४-७० ) अद-कृत्य भदः कृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम्-प्रदः कृत्वा अदः कुरु । ७७२ तिरोऽन्तर्छौं । (१-४-७१ ) । तिरोभूय । ७७३ I ज्यते । 'परावरयोगे च' इति सूत्रेण क्त्वा । श्रभिलाषनिवृत्तिपर्यन्तं पयः पिबतीत्यर्थः । श्रद्धाप्रतीघाते किम् ? कणे हत्वा गतः । सूक्ष्मस्तण्डुलावयवः कणः, तद्विषये हत्वा गत इत्यर्थः । मनो हत्वा गतः, विषपानादौ मनःप्रवृतिं प्रतिबध्य गत इत्यर्थः । पुरोऽव्ययम् । पुर इत्यव्ययं गतिसंज्ञकं स्यात् । पुरस्कृत्येति । गतिसमासे क्त्वो ल्यप् । अव्ययं किम् ? पुरम्, पुरौ, पुरः कृत्वा गतः । अस्तं च । पूर्वसूत्रादव्ययमित्यनुवर्तत इत्याह- मान्तमव्ययमिति । अस्तङ्गत्येति । तिरोधानं प्राप्येत्यर्थः । अव्ययं किम् ? काण्डम् श्रस्तं कृत्वा । प्रक्षिप्तं कृत्वेत्यर्थः । श्रच्छुगत्यर्थवदेषु । गत्यर्थधातुषु वदधातौ च प्रयुज्यमानेषु अच्छेश्यव्ययं गतिसंज्ञकं स्यात् । श्रच्छ्रगत्येति । गतिसमासे क्त्वो ल्यप् । श्रच्छोघेति । वदधातोः क्त्वा । गतिसमासे क्त्वो ल्यप् । अच्छेत्यव्ययमाभिमुख्ये, तद्यथा-बर्हिरच्छंतीति । तदाह - श्रभिमुखमिति । जलमच्छं गच्छतीति । अत्राच्छशब्दस्य नाव्ययत्वम्, न गतिसंज्ञा, नापि 'प्रामीश्वरान्निपाताः' इत्यधिकृतनिपातसंज्ञा । निपातत्वे सति हि अव्ययत्वाद् विभक्तिलुक् स्यादिति मावः । अदोSनुपदेशे । प्रदश्शब्दः अनुपदेशे गतिसंज्ञः स्यात् । श्रदः कृत्येति । गतिसमासे क्त्वो ल्यप् । अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक् च । श्रद कृतमिति । 'गतिरनन्तरः' इति स्वरः फलम् । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् । परं प्रतीति । श्रदः कुर्वित्यादावित्यर्थः । तिरोऽन्तर्धौ । अन्तर्धिः व्यवधानम्, तत्र तिरस् इत्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । तिरोभूयेति । गतिसमासे क्स्वो ल्यप् । स्तण्डुलाबयवः कणः, तस्मिन् हत्वेत्यर्थः । पुरस्कृत्येति । 'पूर्वाधरावराणाम्–' इत्यसिप्रत्ययान्तोऽयमव्ययम् । 'नमस्पुरसोः -' इति विसर्गस्य सः । 'अमुं पुरः पश्यसि ' इत्यत्र तु स्थितमित्यध्याहारेण दृर्शि प्रत्यगतित्वात्सत्वाभावः । श्रन्ययं किम्, पुरं पुरौ पुरः कृत्वा गतः । श्रस्तं च । श्रव्ययमिति किम्, अस्तं कृत्वा काराडं गतः, क्षिप्तमित्वर्थः । अच्छमिति । सत्यां हि गतिसंज्ञायां निपातसंज्ञाकत्वेनाव्ययत्वात्सुतुक् स्यादिति भावः । अद्ःकृत्येति । यदा स्वयमेव पर्यालोचयति 'अदः कृतम्' इवि Page #97 -------------------------------------------------------------------------- ________________ ६४] सिद्धान्तकौमुदी। [तत्पुरुषसमासविभाषा कृत्रि। (१-४-७२)। तिरस्कृत्य, तिर कृत्य, तिरः कृत्वा । ७७४ उपाजेऽन्वाजे । (१-४-७३)। एतौ कृषि वा गतिसंज्ञौ स्तः । उपाजेकृत्य, उपाजे कृत्वा । अन्वाजेकृत्य, अन्वाजे कृत्वा । दुर्बलस्य बलमाधायेत्यर्थः । ७७५ साक्षात्प्रभृतीनि च । (१-४-७४) कृषि वा गतिसंज्ञानि स्युः। 'व्यर्थ इति वाच्यम्' (वा ११४२) । साक्षात्कृत्य, साक्षात् कृत्वा । लवणंकृस्य, बवणं कृत्वा । मान्तत्वं निपातनात् । ७७६ अनत्याधान उरसिमनसी। (१-४-७५)। उरसिकृत्य, उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य, व्यवहितो भूत्वेत्यर्थः । विभाषा कृत्रि । कृषि प्रयुज्यमाने तिरस् इत्यव्ययं गतिसंज्ञं वा स्यादित्यर्थः । तिरस्कृत्य तिर कृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप् । 'तिरसोऽन्यतरस्याम् ' इति सत्वविकल्पः । तिरः कृत्वेति । गतित्वाभावपक्षे सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेरित्याहुः । केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनात् सत्वविधौ गतिग्रहणं नानुवर्तयन्ति । उपाजऽन्वाजे । उपाजेकृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप्। अन्वाजेकृत्येत्यपि तथैव । उपाजे, अन्वाजे इत्यव्यये दुर्बलस्य बलाधाने वर्तते । तदाह-दुर्बलस्येति । साक्षात्प्रभृ. तीनि च । शेषपूरणेन सूत्रं व्याचष्टे-कृषि वेति । साक्षादित्यव्ययम् । व्यर्थ इति । अभूततद्भावे गम्ये सतीति वक्तव्यमित्यर्थः। साक्षात्कृत्येति । अप्रत्यक्षं प्रत्यक्षं कृत्वेत्यर्थः। गतित्वपक्षे क्त्वो ल्यप्। तत्र सुब्लुकमाशङ्कयाह-मान्तत्वमिति। लवणम् , उष्णम् , शीतम् , उदकम् , आद्यम् इति पञ्चानां साक्षात्प्रभृतिगणे मान्तत्वं निपात्यत इत्यर्थः । अनत्याधाने । उरसि मनसि इति विभक्तिप्रतिरूपके अव्यये गतिसंज्ञे वा स्तः अनत्याधाने। उरसिकृत्येति । गतित्वपक्षे क्त्वो ल्यप् । इह अत्याधानं न गम्यत इत्याह-अभ्युपगम्येत्यर्थ इति । मनसिकृत्येति । गतित्वपक्षे क्त्वो ल्यप् । तदेदमुदाहरणम् । 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वम् । प्रत्युदाहरणमिति । अदःकृत्वा अदःकुर्वित्यादीत्यर्थः । तिरोऽन्तौ । अन्तर्धा किम् , तिरोभूत्वा स्थितः । पार्वतो भूत्वेत्यर्थः । विभाषा कृषि । तिरस्कृत्वति । गतित्वाभावपक्षे 'तिरसोऽन्यतरस्याम्' इति सत्वमपि न भवति । तद्विधौ गतिग्रहणानुवृत्तेः । माधवस्तु--पराभवे तिरस्कार इति प्रयोगदर्शनात्सत्वविधौ गतिग्रहणानुवृत्ति केचिनच्छन्तीत्याह--उपाजेऽन्वाजे । एतौ विभक्तिप्रतिरूपको निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते, तदाह-दुर्बलस्येति । साक्षात्प्रभृ । साक्षात् । मिथ्या । अमा। श्रद्धा । लवणम् । उष्णम् । शीतम् । उदकम् । आर्द्रम् । गतिसंज्ञासंनियोगेन लवणादीनां पञ्चानां मकारान्तत्वं निपात्यते। प्रादुस् । नमस् । आविस् । इत्यादि । प्राकृति Page #98 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५ मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपरखेषणम्, तत्र न । उरसि कृत्वा पाणि शेते । ७७७ मध्ये पदे निवचने च । (१-४-७६)। एते कृमि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य, मध्ये कृस्वा । पदेकृत्य, पदे कृत्वा । निवचनेकृस्य, निवचने कृरवा । वाचं नियम्येत्यर्थः । ७७८ नित्यं हस्ते पाणावुपयमने। (१-४-७७) कृषि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तकृत्य । पाणौकृत्य । ७७६ प्राध्वं बन्धने । (१-४-७८) प्राध्वम् इत्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे इहापि नात्याधानं गम्यत इत्याह-निश्चित्येत्यर्थ इति । अत्याधानशब्दं वित्रएवन् तस्य प्रयोजनमाह-अत्याधानमुपश्लेषणमिति। संयोग इत्यर्थः । उरसि कृत्वेति । उरसि पाणिं निधाय शेत इत्यर्थः । अत्र पाणिसंश्लेषणावगमान्न गति. संज्ञेति भावः । मध्ये पदे । गतित्वे तदभावे च त्रयाणामेदन्तत्वं निपात्यते । मध्ये कृत्येति । गतिसमासे क्त्वो ल्यप् । मध्यं कृत्वेत्यर्थः । पदेकृत्येति । गतिसमासे क्त्वो ल्यप् । पदं कृत्वेत्यर्थः । निवचनेकृत्येति। वचनाभावं कृत्वेत्यर्थः । तदाहवाचं नियम्येत्यर्थ इति । वचनस्य अभावो निवचनम् । अर्थाभावे अव्ययीभाव इति भावः । नित्यं हस्ते । शेषपूरणेन सूत्रं व्याचष्टे-कृतीति । हस्ते इति पाणाविति च शब्दौ कृत्रि नित्यं गतिसंज्ञौ भवत उपयमन इति यावत् । हस्तेकृत्य पाणौकृत्येति । कन्यां स्वीकर्तुं पाणिं गृहीत्वेत्यर्थः । एदन्तत्वमौदन्तत्वं चानयो. निपात्यते । उपयमने किम् ? हस्ते कृत्वा सुवर्ण गतः। अन्यदीयमिति बुद्धघा दातुं परावृत्त इत्यर्थः । प्राध्वं बन्धने । प्राध्वमिति न द्वितीयान्तमित्याह–प्राध्वमित्यव्ययमिति । बन्धने गम्ये प्राध्वमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । प्राध्वंगणोऽयम् । साक्षात्कृत्येति । असाक्षाद्भूतं यथा साक्षाद् भवति तथा कृत्वेत्यर्थः । च्च्यन्तेषु तु पूर्वविप्रतिषेधाद् 'ऊर्यादिच्चिडाचश्च' इति नित्यैव संज्ञा । तेन लवणीकृत्येत्यत्र मान्तत्वं न भवति। तद्धि पाक्षिकम् , गतिसंज्ञासंनियोगेनेह गणे निपातनात् । भाष्यकृता लवणशब्दस्य लवणीशब्दस्य वा विकल्पेन लवणशब्द प्रादिश्यते तस्य च संज्ञाविकल्प इत्युक्तम् । उभयथापि त्रैरूप्यं निधिम् । अनत्या । उरसिमनसीविभक्तिप्रतिरूपको। मध्ये पदे । 'विभाषा कृत्रि' इति वर्तते । चकाराद् 'अनत्याधाने' इति च । एषामनत्याधानरूपार्थविशेषे एदन्तत्वमविशेषेण निपात्यते, न तु गति. संज्ञसंनियोगेन । अनत्याधाने किम् , पदे कृत्वा शिरो नमति । वाचं नियम्येति । निवचनं हि वचनाभावः । अर्थाभावेऽव्ययीभावः । नित्यं हस्ते । उपयमनरूपार्थ एवैतयोरेदन्तमौदन्तत्वं च निपात्यते। हस्तेकृत्येति । परिणीयेत्यर्थः । उपयमने Page #99 -------------------------------------------------------------------------- ________________ ६६ ] सिद्धान्तकौमुदी । [ तत्पुरुषसमास प्राध्वं कृत्वा । ७८० जीविकोपनिषदावौपम्ये । (१-४-७६ ) जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम्जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि । 'प्रादयो ताद्यर्थे प्रथमया' ( वा १३३५ ) प्रगत प्राचार्यः प्राचार्य: । 'प्रत्यादयः क्रान्ता कृत्येति । गतिसमासे क्त्वो ल्यप् । अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन श्रानु कूल्ये वर्तते, तदाह — बन्धनेनेति । बन्धनग्रहणस्य प्रयोजनमाह -- प्रार्थनादि - नेति । जीविकोपनिष । उपमैव औपम्यम्, तस्मिन्विषये जीविकाशब्दः, उपनिषच्छब्दश्च कृञा योगे गतिसंज्ञौ स्तः । जीविकामिवेति । अशनपानादिजीवनोपायो जीविका । तामिव श्रवश्यं कृत्वेत्यर्थः । जीविकाकृत्येति । गतिसमासे क्त्वो ल्यप् । उपनिषदमिव कृत्वेति । उपनिषद् वेदान्तभागः, तामिव रहसि ग्राह्यत्वेन कृत्वेत्यर्थः । उपनिषत्कृत्येति । गतिसमासे क्त्वो ल्यप् । उभयत्रापि सुब्लुक् । तदेवं 'कुगतिप्रादयः' इत्यत्रत्यगतिसमासाः प्रपञ्चिताः । ननु गतिप्रहणेनैव सिद्धे प्रादिग्रहणं व्यर्थमित्यत आह— प्रादिग्रहणमगत्यर्थमिति । सुपुरुष इति । अत्र क्रियायोगाभावादगतित्वेऽपि समासः । सोः पूजार्थकत्वेऽपि धातुवाच्यक्रियायोगाभावान गतित्वम् । भाष्ये तु ‘कुगतिप्रादयः' इति सूत्रमपनीय तत्स्थाने 'कास्वतिदुर्गतयः समस्यन्त इति वक्तव्यम्' इत्युक्त्वा 'कुब्राह्मणः, आकडारः, सुब्राह्मणः, अतिब्राह्मणः, दुर्ब्राह्मणः, दूरीकृत्य' इत्युदाहृतम् । स्वती पूजायाम्, दुर्निन्दायाम्, प्राङीषदर्थे, कुः पापार्थे इति सौनागव्याकरणवचनम् इति भाष्ये स्पष्टम् । अत्र वार्तिकानीति । 'प्रादयो गताद्यर्थे समस्यन्त इति वक्तव्यम् ' इति वार्तिकं पठित्वा तत्र व्यवस्थापकानि पञ्च वार्तिकानि सौनागव्याकरणसिद्धानि भाष्ये यानि पठितानि तानि प्रदर्श्यन्त इत्यर्थः । प्रादय इति । गताद्यर्थे विद्यमानाः प्रादयः समस्यन्त इत्यर्थः । प्रगत श्राचार्य इति । प्रेत्यस्य विवरणं गत इति, गत श्राचार्य इत्येव श्रस्वपदविग्रहः, नित्यसमासत्वात् । श्रभिगतो मुखम् श्रभिमुखः, प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि । किम्, हस्ते कृत्वा कार्षापणं गतः । स्वीकारमात्रमिति पक्षे तु नालमिति बुद्धया परावृत्त्य दानार्थ गत इति योज्यम् । एवं तावद् गतिसमासनुदाहृत्य प्रादिसमासान् वक्तुमारभते । प्रादिग्रहणमिति । सुपुरुष इति । क्रियायोगाभावाद् गतित्वाभावः । अव्यवस्थया समासप्रसक्तौ व्यवस्थाप्रवचनानि पठ्यन्ते । प्रादय इति । आदिशब्द उभयत्र प्रकारे । तेन दुराचारः पुरुषो दुष्पुरुष इत्यादि सिद्धम् । प्रगत श्राचार्य इति । अनेन गतार्थे वृत्तिमस्वपदविग्रहेण नित्यसमासतां च दर्शयति । एवं प्रगतः पितामहः प्रपितामहः । प्रमातामह इत्यादि । श्रत्यादय इति । आदिपदादमिनतो Page #100 -------------------------------------------------------------------------- ________________ प्रकणरम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६७ । द्यर्थे द्वितीयया' ( वा १३३६ ) | ( प्रतिकान्तो मालामतिमालः । 'अवादयः क्रुष्टाद्यर्थे तृतीयया' ( वा १३३७ ) (अक्कुष्टः कोकिलया अवकोकिलः । 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' ( वा १३३८) । (परिग्लानोऽध्ययनाय पर्यध्ययनः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' ( वा १३३६ ) निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । 'कर्मप्रवचनीयानां प्रतिषेधः' ( वा १३३६ ) वृक्षं प्रति । ७८१ तत्रोपपदं सप्तमीस्थम् । ( ३-१-१२ ) सप्तम्यन्ते पदे 'कर्मणि -' ( सू २११३ ) 1 अत्यादय इति । क्रान्ताद्यर्थे प्रत्यादयः समस्यन्त इत्यर्थः । अतिक्रान्तो मालामिति । प्रतिशब्दः कान्ते वर्तते । क्रान्तो मालामित्यस्वपदविग्रहः । तत्र क्रमुधातोरतिक्रमणमर्थः । तिमाल इति । 'एकविभक्ति च-' इति मालाशब्दस्य उपसर्जनत्वाद् ‘गोस्त्रियोः-' इति ह्रस्वः । श्रवादय इति । कुष्टाद्यर्थे प्रवादयः समस्यन्त इत्यर्थः । अवकोकिल इति । कोकिलया आहूत इत्यर्थः । पर्यादय इति । ग्लानाद्यर्थे पर्यादयः समस्यन्त इत्यर्थः । अध्ययनाय अध्ययनार्थम्, तेन श्रान्त इत्यर्थः । परिरत्र ग्लाने वर्तते । निरादय इति । क्रान्ताद्यर्थे निरादयः समस्यन्त इत्यर्थः । निष्कौशाम्बिरिति । अतिमालवद् ह्रस्वः । निरित्यव्ययं निर्गमने वर्तते । कर्मप्रवचनीयानां प्रतिषेध इति । वार्तिकमेतत् । वृक्षं प्रतीति । 'लक्षणेत्थम् -' इति कर्मप्रवचनीयत्वान्न प्रादिसमासः । इदं तु वार्तिकं भाष्ये प्रत्याख्यातम् । अथोपपदसमासं वक्ष्यन्नुपपदसंज्ञामाह - तत्रोपपदं सप्तमीस्थम् । अधिकारोऽयम् । सप्तमीति तदन्तग्रहणम् । सप्तम्यन्ते पदे वाच्यवाचकभावसंबन्धेन तिष्ठतीति सप्तमी - स्थम् । सप्तम्यन्तवाच्यमिति यावत् । धातोरित्यधिकारसूत्रादुत्तरसूत्रमिदम् । ततश्च तदधिकारान्तर्गतेषु 'कर्मण्यण्' इत्यादिसूत्रेषु यत्सप्तम्यन्तमुच्चारितं तदेव इह विवक्षितम् । एवं च तदुदाहरणे कुम्भं करोति कुम्भकार इत्यत्र सप्तम्यन्तवाच्यं कुम्भादीति पर्यवसन्नम् । कुम्भादेश्च उपपदसंज्ञायां प्रयोजनाभावात्तद्वाचकपदेषु विश्राम्यति । तथा च धातोरित्यधिकारान्तर्गत कर्मणीत्यादिसूत्रे यत्सप्तम्यन्तं कर्मणीत्यादि तद्वाच्यं यत् कुम्भादि तद्वाचकं पदम् उपपदसंज्ञं स्यादित्यधिकृतं वेदितव्यमित्यर्थः फलति । तदाह – सप्तम्यन्ते पद इत्यादिना । तत्र ' धातोः कर्मणः समानकर्तृकात्- ' मुखमभिमुखः । उद्भतो वेलामुद्वेलः । प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि सिद्धम् । श्रतिमाल इति । 'गोस्त्रियोः -' इति ह्रस्वः । अवादय इति । आदिपदात् परिणद्धो वीरुधा परिवीत् । संनद्धो वर्मणा संवर्मेति । पर्यादय इति । दिपदादुद्युक्तः सङ्ग्रामाय उत्सङ्ग्रामः । अध्ययनायेति । तादर्थ्ये चतुर्थी । गुरुकुलवासादिना परिग्लानोऽध्ययनार्थमित्यर्थः । निरादय इति । आदिपदादुत्क्रान्तः कुलादुत्कुलः । निर्गतमङ्गु Page #101 -------------------------------------------------------------------------- ________________ १८] सिद्धान्तकौमुदी। [तत्पुरुषसमासइत्यादौ वाच्यत्वेन स्थितं कुम्भादि, तद्वाचकं पदमुपपदसंशं स्यात् । तस्मिंश्च सत्येव वश्यमाणः प्रत्ययः स्यात् । ७८२ उपपदमतिङ् । (२-२-१६) उपपदं इति, 'धातोरेकाचो हलादेः-' इति 'धातोः' इति च क्रमेण त्रयो धात्वधिकाराः। तत्र प्रत्यासत्या तृतीयधात्वधिकारस्थसप्तम्यन्तस्यैव ग्रहणाद् 'धातोरेकाचः-' इत्यधिकारे 'च्लि लुङि' इत्यत्र सप्तम्यन्तं न गृह्यते । अन्यथा कर्मणीत्यादाविव लुङन्ते अभूदित्यादावुपपदे धातोः चिलरित्यर्थः स्यात् । ननु तत्रति व्यर्थम् , तृतीयधात्वधिकारस्य प्रकृतत्वादेव ग्रहणसंभवादित्याशङ्कयाह-तस्मिश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यादिति । अयमाशयः । तत्रेति भिन्नं वाक्यं क्रमव्यत्यासेन योज्यम् । सप्तमीस्थमुपपदसंज्ञं स्यात् । तत्र-तस्मिन्सति इति चाधिकृतं वेदितव्यमिति । तथा चोपपदे सति वक्ष्यमाणः प्रत्ययः स्यादिति तत्रेत्यस्यार्थः फलति। तथा च 'कर्मण्यण' इत्यत्र इदं सूत्रमुपस्थितम् । कर्मणीति सप्तम्यन्तं प्रथमान्तत्वेन विपरिणम्यते। सप्तमीनिर्देशस्तु उपपदसंज्ञाप्रवृत्त्यर्थः। धातोरण स्यात् कर्तर्यर्थे, कर्मवाचकं तु कुम्भादिपदम् उपपदसंज्ञं प्रत्येतव्यम् , तस्मिन्नुपपदे सत्येव अण स्यादिति फलति । तस्मिन् सत्येवाण स्यादित्यभावे तु कार इत्येवं केवलादपि धातोः कर्तर्यर्थे अण्प्रत्ययः स्यात् । लिभ्यो निरगुलम् । प्रतिषेध इति । 'कुगतिप्रादयः' इति प्रसक्तसमासस्य वक्तव्यः प्रतिषेधः, स च 'सुराजा, अतिसखा' इति भाष्यादिप्रयोगात्स्वतिभिन्नानामेव कर्मप्रवचनीयानामित्यर्थः । वृक्षं प्रतीति । 'लक्षणेत्थंभूता-' इति कर्मप्रवचनीयत्वविधिसामर्थ्यादिह समासो नेति चेत् , तर्हि अपिस्तुतमित्युदाहार्यम् । 'अपि स्तुयाद्विष्णुम्' इत्यादौ 'अपिः पदार्थसंभावना-' इत्यस्य सावकाशत्वात्स्वरे विशेषसत्त्वाच्चेत्याहुः । तत्रोपपदम् । सप्तमीस्थमित्येतद्याचष्टे--सप्तम्यन्त इत्यादिना तद्वाचकं पदमिति । एतच्चोपपदमित्यन्वर्थसंज्ञाबलाल्लभ्यते। अत एव संज्ञाविधावपि सप्तमीग्रहणेन सप्तम्यन्तं गृह्यते । 'धातोः' इति पृथगधिकारबलात् 'संनिहिते धात्वधिकारे' इति लभ्यते । तेन 'च्लि लुटि' इत्यस्य लुङन्ते अभूदित्यादावुपपदे धातोश्च्लिरित्यर्थो न भवति । तत्रग्रहणं व्याचष्टे-तस्मिन् सत्येवेति । उपपदे सत्येवेत्यर्थः । तत्रग्रहणाभावे तु 'धः कर्मणि ष्ट्रन्' इत्यादाविव 'कर्मण्यम्' इत्यादावपि कर्मण्य. भिधेये अणित्याद्यर्थः स्यात् । तथा च कर्तर्यण प्रत्ययो न स्यात् । किं च सप्तम्यन्तनिर्देशस्योपपदसंज्ञार्थतया चरितार्थत्वात्केवलादपि धातोः कर्तर्यणप्रत्ययः संभाव्येत, कृते तु तत्रग्रहणे कुम्भायुपपदस्य प्रत्ययोत्पत्ती निमित्तत्वप्रतीत्या केवलादणप्रत्ययशव नास्ति । एवं स्थिते 'धः कर्मणि-' इत्यादौ क्वचिदर्थग्रहणं व्याख्यानादित्याहुः। अन्ये तु 'तत्रोपपदम्-' इत्यस्य 'कर्मण्यण' इत्यादेश्चैकवाक्यतया प्रवृत्तावुपपदसंज्ञाया Page #102 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ εε , सुबन्तं समर्थेन नित्यं समस्यते । श्रतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिङ् किम् - मा भवान् भूत् । 'माङि लुङ्' ( सू २२११ ) इति सप्तमीनिर्देशान्माडुपपदम् । कर्मणीति सप्तम्यन्तनिर्देशस्तु कुम्भकार इत्यादौ उपपदसंज्ञां प्रापय्य ' उपपदमतिङ् इति नित्यसमाससपादनेन कुम्भ इत्यस्य कार इत्यस्य च साधुत्वप्रापणार्थतया चरितार्थः । तस्मिन्नुपपदे सत्येवाग् स्यादित्युक्ते तु कुम्भाद्युपपदस्य अण्प्रत्ययोत्पत्तौ निमित्तत्वावगमाः केवलादरप्रत्ययः, उपपदसंज्ञायाः प्रत्ययविधिसंनियोगशिष्टत्वलाभात् । ‘धः कर्म ॥ ष्ट्न्’ 'भुवो भावे' इत्यादौ सप्तम्यन्तमर्थनिर्देशपरमेव, व्याख्यानादिति भाष्यकैयादिषु स्पष्टम् । उपपदमतिङ् । सुबन्तमिति । 'सुबामन्त्रिते' इत्यतस्तदनुवृत्तेरिति भावः । समर्थेनेति । प्रथमान्तं समर्थग्रहणं तृतीयान्ततया विपरिणम्यत इति भावः । तिङन्तश्चायं समास इति । सूत्रे तिङिति तदन्तप्रहणमिति भात्रः । समासः तिङन्तघटितो न भवतीत्यर्थः । तिङ् किम् ? कारको व्रजति । 'तुमुलौ क्रियायां क्रियार्थायाम्' इति व्रजतावुपपदे कृञो वुल् अकादेशः । उपपदं समर्थेनेत्येतावत्युक्ते इहाप्युपपदसमासः स्यात् । अतः अतिङ्ग्रहणम् । नचैवं सुबित्यनुवृनेः प्रयोजनाभाव इति वाच्यम्, चर्मकार इत्यत्र नलोपार्थकत्वात् । उपपदमतिङन्तं समर्थेन समस्यत इति व्याख्याने तु सुबिति नानुवर्तेत । ततश्च चर्मकार इत्यत्र लोपो न स्यादिति भावः । कुम्भमिति । कुम्भं करोतीत्यर्थे 'कर्मरायण' इति भूतकुम्भवाचकपदे उपपदे कृञ्धातोः कर्तरि प्रत्यये 'चो ति' इति वृद्धं रपरत्वे कारशब्दः । तेन कुम्भशब्दस्य समासे कुम्भकारशब्द इत्यर्थः । ननु कुम्भं करोतीति कथं विग्रहप्रदर्शनम् अतिङन्तः समास इत्युक्तत्वादित्यत आह—म्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यमिति । लोके प्रयोगानईत्वमलौकिकत्वम् । ' प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या अलौकिकविग्रहवाक्य एव समासप्रवृत्तिः । कुम्भं करोतीति तदर्थप्रदर्शनमात्रमिति भावः । कुम्भ अम् कार इत्यपाठः, कुद्योगे षष्ठया विधानात । मा भवान् भूदिति । अत्र भूदिति तिङन्तेन माङः समासनिवृत्त्यर्थमतिङ्ग्रहणमिति भावः । भवानिति पदं तु निर्विषयत्वापत्तेस्त त्रग्रहणं विनापीष्टं सिद्धयत्येवेत्याहुः । उपपदमतिङ् । समर्थेनेति । तेन महान्तं कुम्भं करोतीत्यादौ नातिप्रसङ्गः । तिङन्तश्चेति । सुबिति तु अनुवर्तत एवेति तिङन्तमिति नोक्तमिति भावः । कुम्भ असिति । श्रमिति तु नोक्तम्, कृद्योगे षष्ठीविधानात् । अतिङ् किमिति । 'सुपा' इत्यधिकारात्किमनेनेति प्रश्नः । इतरो वक्ष्यमाणं ज्ञापकं मनसि निधाय प्रत्युदाहरति-- मा भवानिति । समासाभावसूच , Page #103 -------------------------------------------------------------------------- ________________ १०० ] सिद्धान्तकौमुदी । [ तत्पुरुषसमास प्रतिग्रहणं ज्ञापयति सुपा इत्येतत्रेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिग्रहणं तत्रापकृष्यते । सुपा इति च निवृत्तम् । तथा च 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' ( प ७६ ) इति सिद्धम् । ब्यानी । अश्वक्रीती । कच्छपी । ७८३ श्रमैवाव्ययेन । (२-२-२० ) अमैव 1 2 समासाभावसूचनाय मध्ये प्रयुक्तम् । ननु माङ: तृतीयधात्वधिकारे सप्तमीनिर्दिष्टत्वं तु दृष्टम् येन तस्य उपपदत्वात् समासः प्रसज्यत इत्यत आह-- माङिति । ननु अतिङ्ङ्ग्रहणं व्यर्थम्, मा भवान् भूदित्यत्र सुपेत्यनुवृत्त्यैव समासनिवृत्तिसंभवादित्यत आह— अतिङ्ग्रहणमिति । एवं च उपपदम् सुबन्तेन समस्यत इति फलितम् । गतिसमासोऽप्यसुबन्तेनेत्याह - पूर्वसूत्र इति । उत्तरसूत्रात्पूर्वसूत्रे अनुवृत्तिरपकर्षः । ' कुप्रादयः' इति 'गति' इति च योगो विभज्यते । कुप्रादयः सुबन्तेन समस्यन्ते । गतिस्तु समर्थेन समस्यते । अतिङन्तश्च समास इति व्याख्येयमिति यावत् । ततः किमित्यत आह—तथा चेति । गतिकारकोपपदानां कृदन्तैः सह सुबुत्पत्तेः प्राक् समासो वक्तव्य इति प्राचीनव्याकरणोक्तं सिद्धं भवतीत्यर्थः । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः, तथाप्येकदेशानुमतिद्वारा प्राचीनपरिभाषेयं सिध्यति अथ परिभाषायाः फलं दर्शयितुं गतिसमासमुदाहरति-- व्याघ्रीति । व्याजिघ्रतीति व्याघ्रः । व्याङ्पूर्वाद् घ्राधातोः ‘श्रतश्चोपसर्गे' इति कः, 'आतो लोप इटि च' इत्याल्लोपः । 'पाघ्रामाहशश्शः' इति तु न भवति, 'जिघ्रतः संज्ञायां नेति वाच्यम्' इति निषेधात् । आये प्रशब्देन गतिसमासः । घ्रशब्देन वेः गतिसमासः । तत्र यदि प्रशब्दस्य सुबन्तत्वमपेक्ष्येत तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिः स्यात, स्वार्थद्रन्यलिङ्गसंख्याकारकप्रयुक्तकार्याणां क्रमिकत्वस्य ' कुत्सिते' इति सूत्रस्थभाष्यदर्शितस्य ब्याप्प्रातिपदिकात् इत्यत्र अस्माभिः प्रपञ्चितत्वात् । ततश्च सुबुत्पत्तये लिङ्गसंख्याकारकं क्रमेण अपेक्ष्यमिति प्रथमं लिङ्गसंयोगे सति प्रदन्तत्वात् टाप् स्यात् । न तु जातिलक्षणङीष्, प्रशब्दमात्रस्य जातिवाचित्वाभावात् । ततश्च घ्राशब्देन सुबन्तेन समासे सति व्याघ्राशब्दस्य नाय भवानिति मध्ये प्रयुक्तम् । पूर्वसूत्र इति । 'कुप्रादयः गतिः' इति योगं विभज्य 'कुप्रादयः सुबन्ताः सुवन्तेन समस्यन्ते, गतिस्तु सुबन्तोऽतिङन्तेन समस्यत इति व्याख्येयमित्यर्थः । तथा चेति । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभ:, तथापि त्रितयविषयिणी प्राचां परिभाषा एकदेशानुमतिद्वारा इहापि ज्ञाप्यत इति भवः । कारकांशे तु 'कर्तकरणे कृता-' इति सूत्रस्थबहुलग्रहणमुक्तार्थे साधकमित्यपि मनोरमायां स्थितम् । प्रागिति । कृदन्ताश्चरमपदात्सुबुत्पत्तेः पूर्वं समास इत्यर्थः । प्रथमान्तसुब्ग्रहणं विहानुवर्तत एव । तेन राजदर्शीत्यादौ पूर्वपदे नलोपादि कार्य सिद्धयति । परिभाषा - Page #104 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१०१ अदन्तत्वाभावाद् जातिलक्षणो जी ने स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिवम् , तथापि गतित्वसंभवमात्रणेदमित्याहुः । वस्तुतस्तु आगे घ्राशब्देन उपपदसमासः, 'आतश्योपसर्गे' इति सप्तमीनिर्देशात् । वेस्तु आघ्रशब्देन गतिसमास इति तदंश गतिसमासोदाहरणमित्याहुः । अथ कारकसमासमुदाहरति--प्रश्वक्रीतीति । परवेन क्रीतेति विग्रहे 'कर्तृकरणे कृता-' इति समासः । 'क्रीतात्करणपूर्वात्' इति ष् । सुबन्तेन समासे तु उक्तरीत्या पूर्व टापि अदन्तत्वाभावाद् अष् न स्यादिति भावः । उपपदसमासमुदाहरति--कच्छपीति । कच्छः तीरम् , तेन तस्मिन् वा पिवीति कच्छपी। 'सुपि स्थः' इत्यत्र 'सुपि' इति योगविभागात् कः, उपपदसमासः । तस्व सुबन्तापेक्षायाम् उक्तरीत्या टाबेव स्यात् , न तु जातिलक्षणीषिति भावः । अमैवाव्ययेन । अमेवेत्यनन्तरं तुल्यविधानमित्यध्याहार्यम् । 'तुल्याईरतुलोफलं दर्शयन् गतिमुदाहरति-व्याघ्रीति । व्याजिघ्रतीति व्याघ्री। 'आतश्चोपसर्गे' इति कः । 'पाघ्राध्माधेट-' इति शस्तु संज्ञायां न भवति, व्याघ्रादिमिरिति निर्देशादिति वक्ष्यते । व्याडोभ्रंशन्देन गतिसमासः । स यदि घ्रशब्दस्य सुबन्ततामपेक्षेत, तर्हि सुबुत्पत्तये संख्याद्यपेक्षेत । ततः प्रागेव लिङ्गयोग इति लिङ्गनिमित्तप्रत्ययेन टापा भाव्यं न तु ङीषा । घ्रशब्दमात्रस्य जातिवाचित्वाभावात् , ततो घ्रशन्देन समास इत्यदन्तत्वाभावाजातिलक्षणो जीष् न स्यादिति भावः। यद्यप्युपपदत्वेनाप्येतसिद्धम् , तथापि गतिग्रहणमाडो घ्रशब्देन सामासे पश्चादाघ्रशन्देन विशब्दस्य समासार्थमावश्यकमेव । आपूर्वाद्धातोः कप्रत्ययविधानादाव्यपपदसंज्ञाभ्युपगमेऽपि विशन्दे तदनभ्युपगमादिति बोध्यम् । कारकमुदाहरति-अश्वक्रीतीति । अश्वेन क्रीता । 'कर्तृकरणे कृता-' इति समासः । 'क्रीतात्करणपूर्वात्' इति छी । सुबन्तेन समासे तु टापा भाव्यमित्यदन्तत्वाभावात् 'क्रीतात्करण-' इत्ययं ीष् न स्यादिति झेयम् । उपपदमुदाहरति-कच्छपीति । कच्छेन पिबतीति कच्छपी। 'सुपि' इति योगविभागात्कः । इहापि समासस्य सुबन्ततापेक्षायां टावेव स्यान मीषिल्यादिव्याघ्रीत्यत्रेय बोध्यम् । प्राचा तु 'उपपदमतिङन्तं समस्यते' इत्युक्तम् , तदसत् । तथा सति प्रथमान्तसुग्रहणनिवृत्त्यापत्त्या राजदर्शी चर्मकार इत्यादौ नलोपो न स्यादपदान्तत्वात् । प्राटितत्यादौ 'अतो गुणे' इति पररूपं च स्यात् । स्यादेतत्--कच्छेन साधनेन पिवती. त्यर्थाभ्युपगमे कच्छस्य कारकत्वेन कच्छपीति रूपसिद्धौ नेदमुपपदस्यासाधारणोदाहरणमिति चेत् , एवं तर्हि माषवापिणीत्युदाहर्तव्यम् । 'सुप्यजाती-' इति णिनौ कृते माषोपपदस्य कृदन्तेन समासे 'प्रातिपदिकान्त-' इत्यादिना पूर्वपदस्थानिमित्तात्परस्य समासप्रातिपदिकान्तनकारस्य णत्वं सिद्धयति । सुबन्तेन समासे त्वन्तरत्वानान्त Page #105 -------------------------------------------------------------------------- ________________ १०२ ] सिद्धान्तकौमुदी । [ तत्पुरुषसमास तुल्यविधानं यदुपपदं तदेवान्ययेन सह समस्यते । स्वादुङ्कारम् । नेह - 'कालसमयवेलासु तुमुन्' ( सू ३१७९ ) । कालः समयो वेला वा भोक्तुम् । श्रमैवेति किम्- श्रग्रे भोजम् — श्रग्रे भुक्वा । ' विभाषाऽप्रेप्रथमपूर्वेषु' ( सू ३३४५) इति क्वाणमुलौ । श्रमा चान्येन च तुल्यविधानमेतत् । ७८४ तृतीयाप्रभृतीन्यन्यतरस्याम् । ( २-२-२१) 'उपदंशस्तृतीयायाम्' ( सू पमाभ्याम्—' इति तृतीया । श्रमैव तुल्येति । अम्प्रत्ययमात्रविधायकशास्त्रेण मैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत् । पूर्वसूत्रेणैव सिद्धे नियमार्थमिदमित्याह —तदेवेति । विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते श्रमा तुल्यविधानत्वे अवधारणार्थत्वात् । स्वादुंकारमिति । स्वादुं कृत्वेत्यर्थः । श्रोदनं भुङ्क्त इति शेषः । ' स्वादुमि णमुल्' इति णमुल्, स्वादुशब्दस्य मान्तत्वं निपातनात् । 'कृन्मेजन्तः' इत्यव्ययत्वम् । तदेवेति नियमस्य प्रयोजनमाह -- नेहेति । उपपदसमास इति शेषः । भोक्तुमिति । यद्यपि 'कालसमयवेलासु-' इति सप्तमीनिर्देशात् कालसमय वेलानामुपपदत्वम्, तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, न त्वमा । अत एव काला दीनामुपपदत्वेऽपि न समास इत्यर्थः । श्रमैवेति किमिति । श्रमैवेत्येवकारः किमर्थ इि प्रश्नः । श्रमा चान्येन चेति । श्रम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसंज्ञा अग्रेथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य श्रमैव तुल्यविधानत्वाभावाद् न उपपदसमास इति भावः । तृतीयाप्रभृतीन्यन्यतरस्याम् । तृतीयाशब्देन 'उपदंशस्तृतीयायाम्' इत्यारभ्य ‘अन्वच्यानुलोम्ये' इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि | अमेति, अव्ययेनेति चानुवर्तते, एवकारस्तु नानुवर्तते, अस्वरितत्वात् । अमेत्येतदव्ययविशेषलक्षणे ङीपि पश्चाद्वापिनीशब्देन समासे गर्गभगिनीत्यत्रेव णत्वं न स्यादित्येके । अन्ये तु कच्छेन हेतुना पिबतीत्यर्थविवक्षायां कच्छ स्याकारकत्वात्कच्छपीत्युपपदस्योदाहरणं सम्यगेवेत्याहुः । श्रमैवाव्ययेन । पूर्वेण सिद्धे नियमार्थमिदम् । तुल्यविधानमिति । एतच्चाध्याहारेण लभ्यम् । तदेवेति । यस्मिन्नुपपदे येन वाक्येन मेव विहितस्तदेवोपपदमव्ययेन समस्यते नान्यदित्यर्थः । नियमबललभ्योऽयमेवकारो न तु सूत्रस्थः । स्वादुंकारमिति । ' स्वादुमि णमुल् ' । व्य कारः । असति ह्यव्ययग्रहणे मैव यत्तुल्यविधानं तदेव केनचित्समर्थेन समस्यते । तथा सति ‘स्वादुंकारः' इत्यत्रैव समासः स्यान्न तु कुम्भकार इत्यत्र । अथ पूर्वसूत्रवैयर्थ्यभीत्या अव्ययविषयकनियम इति चेत्, तर्हि श्रमन्तविषयक एव किं न स्यात्, 'अमन्तेन यः समासः सोऽमैव तुल्यविधानस्य' इति । तथा चाग्रेभोजमित्यत्र समासो कुम्भ Page #106 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०३ ३३६८) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदेशं भुङ्क्ते - मूलकोपदंशम् । उचै-कारम् । ७८५ क्त्वा च । ( २-२-२२) नृतीयाप्रभृतीन्युपपदानि क्स्वान्तेन सह वा समस्यन्ते । उच्चैः कृत्य, उच्चैः कृत्वा । 'अव्ययेऽयथाभिप्रेत-' ( सू ३३८१ ) इति क्वा । तृतीयाप्रभृतीनीति किम्अलं कृत्वा, खलु कृत्वा । ७८६ तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः । णम् । तदाह--उपदंशस्तृतीयायामित्यादिना । मूलकेन उपदंशं भुङ्क्ते मूलकोपदंशमिति । 'उपदंशस्तृतीयायाम्' इति णमुल् । अमेव तुल्यविधानत्वात् पूर्वसूत्रेण नित्यं' प्राप्ते विकल्पोऽयम् । ननु मूलकेनेत्यस्य भुङ्क्त इत्यत्रैवान्वयाद् उपदंश इत्यत्रानन्वयादसामर्थ्यात् कथमिह समास इति चेत्, मैवम् - - उपदंशनक्रियां प्रति हि मूलकस्य आर्थिकं कर्मत्वमादाय सामर्थ्यमुपपाद्यम् । तृतीया तु प्रधानक्रियानुरोधात् परत्वाच्चोपपाद्येत्यन्यत्र विस्तरः । उच्चै कारमिति । उच्चैः कृत्वेत्यत्र तु 'अव्ययेsयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ' । तत्र उच्च कारमित्यत्र उपपदत्वस्य श्रमैव तुल्यविधानत्वाभावाद् ‘अमैवाव्ययेन' इत्यप्राप्ते अनेन विकल्पः । समासपक्षे 'आदिर्णमुल्य - न्यतरस्याम्' इति कृदुत्तरपदप्रकृतिस्वर श्रायुदात्तत्वम् । समासपचे तु उच्चैरिति फिट्सू. त्रेण अन्तोदात्तत्वमिति फले भेदः । श्रमन्तेनेति किम् ? पर्याप्तो भोक्तुम् । 'पर्याप्तिवचनेषु' इति तुमुन्। क्त्वा च । तृतीयाप्रभृतीनीति पूर्वसूत्रमनुवर्तते । क्त्वेति तृतीयार्थे प्रथमा । टायां ‘सुपां सुलुक् पूर्वसवर्ण-' इति पूर्वसर्वणदीर्घ इत्यपरे । तदाहतृतीयेति । ननु 'उपदंशस्तृतीयायाम्' इत्यतः प्रागेव समानकतृकयोरिति क्त्वाविधेः पाठात् कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह-- अव्यये ऽयथेति । 'अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ' इति सूत्रेणेत्यर्थः । श्रलं कृत्वेति । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इत्येतद् ' उपदंशस्तृतीयायाम्' इत्यतः पूर्वमेव पठितम् । अतः तद्विहितक्त्वो मान्तेन सह समासाभावाद् न ल्यबिति भावः । इत्युपपदसमासाः । मा भूत् अग्रे भुक्त्वा कालो भोक्तुमित्यत्र तु स्यादेवेति भावः । तदेवेति किम् कालो भोक्तुम्, समयों भोक्तुम् । श्रमैवेत्येवकारेणामा चान्येन च तुल्यविधानस्योपपदस्य समासनिवारणेऽपि तुमुना तुल्यविधानस्य स्यादेव, अतस्तन्निवारणाय तदेवेत्युक्तम् । तृतीयाप्रभृतीन्यन्यतरस्याम् । उभयत्र विभाषेयम् । श्रमैव तुल्यविधानस्य प्राप्ते - Sमा चान्येन च तुल्यविधानस्याप्राप्ते चारम्भात् । प्राप्ते यथा - ' 'उपदंशस्तृतीयायाम्' मूलकेनोपदंशं मूलको पदंशम् । अप्राप्ते यथा - 'अव्ययेऽयथाभिप्रेताख्यान -' इति क्त्वाणमुलौ । उच्चैःकारम् । इह समासपक्षे कृदुत्तरपदप्रकृतिस्वरः 'श्रादिमुल्यन्यतरस्याम्' इत्याद्युदात्तत्वम् । समासे तु उच्चैरित्यन्तोदात्तत्वम् । 'उदि चेर्डेसिः' इति १ 'नित्ये' इति क्वचित् पाठः । , --- Page #107 -------------------------------------------------------------------------- ________________ १०४] सिद्धान्तकौमुदी। [तत्पुरुषसमास(५-४-८६) संख्याव्ययादेरङ्गल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । हे अगली प्रमाणमस्य ब्यङ्गलं दारु । निर्गतमखिम्यो निरङ्गलम् । ७८७ अहस्सर्वैकदेशसंख्यातपुण्याच रात्रेः । (५-४-८७) एभ्यो रानेरच्स्यात्, चासंख्याज्ययादेः । 'अहम्रहणं द्वन्द्वार्थम्' ( वा ३३५३) अहश्च रात्रिश्चाहो. अथ तत्पुरुषेषु असाधारणसमासान्तान् वक्तुमुपक्रमते-तत्पुरुषस्यांगुले संख्याव्ययादेः। 'अच्प्रत्यन्ववपूर्वात्-' इत्यतः अजित्यनुवर्तते, समासान्त इत्यधिकतम् । तेन समासस्य अन्तावयव इति लभ्यते । प्रत्ययः परश्च इत्यधिकाराद् अच्प्रत्ययस्य तत्पुरुषात् परत्वेऽपि तस्य तदवयवत्वाद् अगुलेरिति अवयवषष्टी। अद्गुलेरिति तत्पुरुषविशेषणम् , तदन्तविधिः। तदाह-संख्याव्ययादेरिति । संख्या च अव्ययं च संख्याव्यये, ते आदी यस्येति विग्रहः। द्वयगुलमिति। तद्धितार्थे-' इति द्विगुः । 'प्रमाणे द्वयसज्दनञ्मात्रचः' 'प्रमाणे लः' 'द्विगोनित्यम्' इति लुक् । द्वयङ्गुलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परे 'यस्येति च' इति इकारलोपः । निरगुलमिति । 'निरादयः कान्ताद्यर्थे-' इति समासः, अच्, इलोपः । अहस्सवैकदेशसंख्यातपुण्याश्च । एभ्यो रात्रेरिति । अहन् , सर्व, एकदेश, संख्यात, पुण्य एभ्यः परस्य रात्रिशब्दस्येत्यर्थः। अहन्नादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत् । ननु अहरादिः रात्र्यन्तस्तत्पुरुषो नास्त्येव । अहो रात्रिरिति वा अहश्चासौ रात्रिश्चेति वा असंभवादित्यत आह-अहर्ग्रहणं द्वन्द्वार्थमिति । न च ब्रह्मणो यदहः तस्यावयवव्युत्पत्तिपक्षे प्रत्ययस्वरस्य, अव्युत्पत्तिपक्षे तु 'फिषः' इत्यस्य च प्रवृत्तेरित्याहुः । मनोरमायां तु उच्चैरित्यन्तोदात्तस्वरादिषु तथा पाठादिति स्थितम् । अमेत्यनुवर्तत इत्याह--अमन्तेनेति । तेनेह न-पर्याप्तो भोक्तुम् । 'पर्याप्तिवचनेषु-' इति तुमुन् । क्त्वा च । क्त्वेति तृतीयान्तम् । 'प्रातः' इति योगविभागादालोपः, "क्त्वि स्कन्दिस्यन्दोः' इतिवदिति हरदत्तः । तन्न । सवर्णदीर्घेणापि तृतीयान्तत्वोपपत्तेः । प्रलं कृत्वेति । 'अलंखल्योः प्रतिषेधयोः' इति सूत्रस्य 'उपदंशस्तृतीयायाम्' इत्यस्मात्पूर्वत्वान्नेह समासः । तत्पुरुषे असाधारणान्समासान्तानाह-तत्पुरुषस्येति। अलोन्त्यविधि बाधित्वा 'प्रत्ययः' 'परश्च' इति परत्वात्तत्पुरुषात्पर एवाच्प्रत्ययो भवति । यथा गापोष्टकः कित्त्वऽपि गापाभ्यां पर एव टग् भवति, न त्वन्तावयवः । नमस्तु अनुबन्धकरणसामर्थ्यात्परविधिर्बाध्यते । एवं च लाघवात् 'तत्पुरुषादगुलेः-' इति वक्तव्ये 'तत्पुरुषस्याङ्गुलेः- इति तु समासान्तापेक्षया अवयवषष्ठीत्याहुः । द्यगुलमिति । तद्धितार्थ-' इति समासः। 'द्विगोर्नित्यम्' इति मात्रचो लोप इति वृत्तिकृत् । मनोरमायां तु द्वयसचो लुगिति स्थितम् । द्वन्द्वार्थमिति । अहो रात्रिरिति Page #108 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१०५ रात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्व रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः। द्वयो रात्र्योः समाहारो द्विरात्रम् । प्रतिक्रान्तो रात्रिमतिरानः । ७८८ राजाहस्सखिभ्यष्टच् । (५-४-६१) एतदन्तात्तत्पुरुषाट्टकस्यात् । परमराजः। प्रतिराजी कृष्णसखः । ७८ अष्टखोरेव । (६-४-१४५) एतयोरेव परतोऽहष्टिलोपः भूता या मानुषी रात्रिरिति षष्ठीतत्पुरुषः संभवतीति वाच्यम् , अहर्ग्रहणं द्वन्द्वार्थमिति भाष्यप्रामाण्येन एवं जातीयकतत्पुरुषस्य प्रयोगाभावोन्नयनात् । अहोरात्र इति । द्वन्द्वादच् , इलोपः, 'जातिरप्राणिनाम्' इत्येकवत्त्वम् । ‘स नपुंसकम्' इति बाधित्वा, 'रात्राहाहाःपुंसि' इति पुंस्त्वम् । सर्वारात्रिः सर्वरात्र इति । सर्वा रात्रिरिति विग्रहे 'पूर्वकालैक-' इति कर्मधारयः। अच, इकारलोपः। 'रात्राला-' इति पुंस्त्वम् । 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वम् । एकदेशत्यर्थग्रहणमित्यभिप्रेत्योदाहरति-पूर्वमिति । पूर्व रात्रेरिति विग्रहे 'पूर्वापराधरोत्तरम्-' इत्येकदेशिसमासः। अच् , इलोपः,'रात्राहा-' इति पुंस्त्वम् । संख्यातरात्र इति । संख्याता रात्रिरिति विग्रहे कर्मधारयः । 'पुंवकर्मधारय-' इति पुंवत्त्वम्। पुण्यरात्र इति । पुण्या रात्रिरिति विग्रहे कर्मधारयः । 'पुंवत्कर्मधारय-' इति पुंवत्त्वम् । अच् इलोपः 'रात्राहा-' इति पुंस्त्वम् । द्विरात्रमिति। तद्धितार्थ इति द्विगुः । संख्यादित्वादच् , इलोपः । 'संख्यापूर्व रात्रं क्लीबम्' इति नपुं. सकत्वम् । अतिरात्र इति । 'अत्यादयः क्रान्ताद्यर्थे-' इति समासः । अव्ययादित्वा दच, इलोपः, 'रात्राहा-' इति पुंस्त्वम् । राजाहस्सखिभ्यष्टच् । 'तत्पुरुषस्या गुलेः-' इत्यतः तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवचनत्वेन विपरिणतं राजाहस्सखिभ्य इत्यनेन विशेष्यते । तदन्तविधिः, तदाह-एतदन्तादिति । परमराज इति । परमश्चासौ राजा चेति विग्रहः । समासान्तष्टच् । 'नस्तद्धिते' इति टिलोपः । अतिराज इति । अतिक्रान्तो राजानमिति विग्रहः, 'अत्यादयः-' इति समासः । टचि टिलोपः । कृष्णसख इति । कृष्णस्य सखेति विग्रहः समासान्तष्टच् । 'यस्येति च' षष्ठीतत्पुरुषस्यासंभवादिति भावः । ननु अहःशब्दस्याहस्तुल्यतायां रात्रिशब्दस्य वा रात्रितुल्यतायां गौणत्वसंभवादहश्चासौ रात्रिश्चेति कर्मधारयोऽस्त्विति चेन्न । मुख्यसंभवे गौणग्रहणायोगात् । 'हेमन्तशिशिरावहोरात्रे च-' इत्यत्र द्वन्द्व समासान्तदर्शनाच्च । अहोरात्र इति । 'जातिरप्राणिनाम्' इत्येकवद्भावः । ‘स नपुंसकम्' इत्येतद्बाधित्वा परत्वाद् 'रात्राहाहा:-' इति पुंस्त्वम् । एतेनैकवद्भावात् क्लीबतेति प्राची ग्रन्थः परास्तः । 'मासेन स्यादहोरात्रः' इत्यादिग्रन्थविरोधाच । सर्वरात्र इति । 'पूर्वकालैक-' इति समासः । पूर्वरात्र इति । 'पूर्वापराधरोत्तरम्-' इत्येकदेशि. समासः । यदा तु रात्रिशब्दस्यैकदेशे लक्षणां स्वीकृत्य कर्मधारयोऽभ्युपगम्यते तदा पूर्वरात्रिरित्येव भवति । द्विरात्रमिति । 'संख्यापूर्व रात्रं क्लीबम्' इति वक्ष्यते। Page #109 -------------------------------------------------------------------------- ________________ १०६ ] सिद्धान्तकौमुदी | [ तत्पुरुषसमास स्यात्, नान्यत्र । उत्तमाहः । द्वे अहनी भृतो द्वयहीनः क्रतुः । तद्धितार्थे द्विगुः । 'तमधीष्टः-' (सू १७४४ ) इत्यधिकारे 'द्विगोर्वा' इत्यनुवृत्तौ 'राज्यहस्संवत्सरा' ( सू १७५१ ) इति खः । लिङ्गविशिष्टपरिभाषाया श्रनित्यत्वाब्वेह-मद्राणां राज्ञी मद्रराज्ञी । ७६० अहोऽह्न एतेभ्यः । ( ५-४-८८ ) सर्वादिभ्यः परइति इकारलोपः । अह्नष्टखोः । शेषपूरणेन सूत्रं व्याचष्टे – टिलोपः स्यादिति । टेरित्यनुवर्तते, 'अल्लोपोऽनः' इत्यस्माद् लोप इति चेति भावः । ' नस्तद्धिते' इत्येव सिद्धे नियमार्थमिदमित्याह -- नान्यत्रेति । एवकारस्तु अह्न एव खोरिति विपरीतनियमव्यावृत्त्यर्थः । टखोरेवेति किम् ? श्रह्ना निरृत्तम् आह्निकम्,' कालाट्ठञ्' इत्यधिकारे 'तेन निवृत्तम्' इति ठञ् । टिलोपाभावादल्लोपः । टप्रत्यये उदाहरति — उत्तमाह इति । उत्तमं च तदहश्चेति विशेषण समासः । ' राजाहस्सखिभ्यष्टच्' इति टच् । 'अह्नष्टखोरेव' इति प्रकृतिसूत्रेण टिलोपः, 'रात्राह्रा हाः पुंसि' इति पुंस्त्वम् । ख उदाहरतिद्वे नी भृत इति । अत्यन्तसंयोगे द्वितीया । भृतः परिक्रीत इत्यर्थः । द्वहीन इत्यत्र प्रक्रियां दर्शयति-तद्धितार्थे द्विगुरिति । कोऽत्र तद्धित इत्यत आह-तमधीष्ट इत्यादि । तथा च द्वयहन् शब्दात् खस्य ईनादेशे 'अह्नष्टखोरेव' इति टिलोपे · to इतिरूपमित्यर्थः । नन्वत्र 'अहोऽह्न एतेभ्यः' इत्यह्नादेशः कुतो न स्यात् । न च खे टिलोपविधिसामर्थ्यान्नाहादेश इति वाच्यम्, अहीन इत्यत्र खे टिलोपविधेः चरितार्थत्वात् इति चेत्, न -- समासान्ते पर एवाह्लादेशविधानात् । प्रकृते तु समासान्तविधेरनित्यत्वाद् 'राजाह स्सखिभ्यः -' इति न टच् । यद्यपि उत्तमाद्द् इत्यत्र द्वयहीन इत्यत्र च 'नस्तद्धिते' इत्येव टिलोपः सिद्धः, तथापि आह्निकमित्यादावावश्यकस्य नियमविधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः । ननु मद्राणां राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया 'राजाहस्सखिभ्यः -' इति टच् स्यादित्याशङ्कयाहलिङ्गेति । अनित्यत्वादिति । समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा ति 'ङयाप्प्रातिपदिकात् -' इत्यत्र भाष्ये उक्तत्वादिति भावः । मद्रराशीति । न चटचि सत्यपि 'यस्येति च' इतीकारलोपे मद्रराज्ञशब्दात् टित्त्वाद् ङीपि मद्रराज्ञीति निर्बाध - मिति वाच्यम्, चि हि सति 'भस्याढे तद्धिते' इति पुंवत्त्वे टिलोपे मद्रराजी इति स्यादिति भावः । अह्नोऽह्न एतेभ्यः । पूर्वसूत्रे अहस्सर्वैकदेशसंख्यातपुण्यशब्दा अह्नष्टखोरेव । 'नस्तद्धिते' इत्येव सिद्धे नियमार्थमिदम् । एवकारस्त्वह्न एव टखयो - रिति विपरीत नियमशङ्कानिरासार्थः । ' आत्माध्वानौ खे' इति प्रकृतिभावविधानेन तन्निरासे प्रतिपत्तिगौरवं स्यादिति भावः । टखोरेवेति किम्, अह्ना निर्वृत्तमाह्निकम् । 'कालात्' इत्यधिकारे 'तेन निर्वृत्तम्' इति ठञ् । टिलोपाभावाद् 'अल्लोपोऽन:' इत्यकारलोपः । उत्तमाह इति । 'सर्वैकदेशसंख्यात - ' इत्यत्र उत्तमशब्दस्यापाठादहा Page #110 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०७ स्याहन्शब्दस्याह्वादेशः स्यात् समासान्ते परे । ७६१ अह्नो ऽदन्तात् । ( ८-४-७) श्रदन्तपूर्वपदस्थाद्रे फात्परस्याऽह्लादेशस्य नस्य णः स्थात् । सर्वाह्नः । पूर्वाह्नः । संख्याताह्नः । द्वयोरह्वोर्भवः, 'कालाट्ठञ्' ( सू १३८१ ) 'द्विगोर्लुगनपत्ये' ( सू १०८०) इति ठञो लुक् द्वयह्नः । स्त्रियामदन्तस्वाट्टाप्, द्वयह्वा । द्वयह्नप्रियः । निर्दिष्टाः । तत्र चकारेण संख्याव्यये अनुकृष्टे । अहश्शब्दवर्ज ते सर्वे एतच्छब्देन परामृश्यन्ते, न त्वहश्शब्दः, अहश्शब्दात् परस्य अनुशब्दस्य तत्पुरुषे असंभवादित्यभिप्रेत्य व्याचष्टे--सर्वादिभ्य इति । समासान्ते पर इति । एतत् तु प्रकरणाल्लब्धम् । अह्नोऽदन्तात् । 'पूर्वपदात्संज्ञायाम् -' इत्यतः पूर्वपदादित्यनुवृत्तम् अदन्तादित्यत्रान्वेति । ‘रषाभ्यां नो णः -' इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम्, तदाह - श्रदन्तपूर्वेति । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहस्सु भवो लक्षाण इत्यत्र गत्वार्थं षादित्यपि बोध्यम् । समासान्ते पर इति किम् ? द्वे अहनी भृतो द्वयहीनः । अत्र समासान्तविधेरनित्यत्वात् टजभावे अह्नादेशो न । सर्वा इति । सर्वमहरिति विग्रहे 'पूर्वकाल - ' इति समासे ‘राजाहस्सखिभ्यः' इति टच्, अह्नादेशः, णत्वम्, 'रात्राह्नाहाः-' इति पुंस्त्वम् । पूर्वा इति । समासादि सर्वाह्नवत् । संख्याताह्न इति । संख्यातमहरिति विग्रहः । विशेषणसमासः, टच्, अह्नादेशः । निमित्ताभावान्न णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । संख्यापूर्वस्य उदाहरति-द्वयोरह्नोरित्यादि । द्वयह्न इति । तद्धितार्थे द्विगुः । टच्, ततो भवार्थे ठञ्, तस्य लुक्, अह्नादेशः । प्रसङ्गादाह - स्त्रियामिति । द्वयह्नेति । द्वयोर होर्भवेत्यर्थः । ठञ् लुक् च पूर्ववत् । 'अपरिमाणविस्त-' इति न ङीप् । ठज्निमित्तस्तु ङीप् नेत्यपरिमाणबिस्तेत्यत्रोक्तम् । टचष्टित्त्वेऽप्युपसर्जनत्वात् 'टिड्ढ -' इति न ङीप् । वस्तुतस्तु स्त्रीत्वमेवात्र नास्ति, रात्राह्वाहाः पुंसीत्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम् । संख्यापूर्वस्योदाहरणान्तरमाह - द्वयह्नप्रिय इति । द्वे 1 देशो न । यहीन इति । समासान्तविधेरनित्यत्वान्न टच् । सति तु तस्मिन्नह्रादेशः प्रसज्येत । न च नान्तस्य खे परे टिलोपविधिसामर्थ्यान्न टजिति वाच्यम्, हीन इयत्र तस्य सावकाशत्वात् । अनित्यत्वादिति । अत्र च लिङ्गं 'शक्तिलाङ्गलाङ्कुश - ' इत्यत्र घटीग्रहणम् । मद्रराशीति । यद्यत्र टच् स्यात्तदा 'भस्याढे -' इति पुंवद्भावे टिलोपे च मद्रराजीत्यनिष्टरूपं स्यादिति भावः । अह्नोऽह्न एतेभ्यः । एतच्छब्देन 'अहः सर्वैकदेश-' इति सूत्रस्थाः परामृश्यन्ते । सूत्रे तु तस्मिन्नहरादयो निर्दिष्टाश्चकारेण च संख्याव्यये अनुकृष्टे तत्र सर्वेषां बुद्धिस्थत्वाविशेषेऽप्यहः शब्द इहं न गृह्यते, असंभवादित्याशयेनाह —– सर्वादिभ्य इति । समासान्ते पर इति । एतच्च Page #111 -------------------------------------------------------------------------- ________________ १०८ ] सिद्धान्तकौमुदी। [तत्पुरुषसमासप्रत्यक्षः । ७५२ सुम्नादिषु च (८-४-३६ ) एषु सत्वं न स्यात् । दीर्घाडी अहनी प्रिये यस्येतिविग्रहः । तद्धितार्थ-' इत्युत्तरपदे द्विगुः, टच् ,अह्लादेश इति भावः। अव्ययपूर्वस्योदाहरति-अत्यह्न इति । अहरतिक्रान्त इति विग्रहः। 'अत्यादयः-' इति समासः।टच् , अहादेश इति भावः। शुभ्नादिषु च। 'रषाभ्याम्-' इत्यतो णं इति 'न भाभूपूकमि-' इत्यतो नेति चानुवर्तते, तदाह-एग्विति । दीर्घाही प्रावृ. डिति । वर्षौँ प्रावृशन्दः स्त्रीलिङ्गः । 'स्त्रियां प्राकृट् स्त्रियां भूम्नि वर्षाः' इत्यप्रकरणाल्लब्धम् । भाष्ये तु अहादेशः प्रत्याख्यातः 'अह एभ्यः अच् स्याट्टचोऽपवादः' इति व्याख्यायाम् , 'अष्टखोरेव' इति नियमाडिलोपाभावे 'अल्लोपोऽनः' इत्यकार: लोपात्सर्वाह इत्यादिरूपसिद्धेः । रेफादिति । यदि तु लक्षे अहस्सु भव इत्यादिव्युत्पत्त्या लाक्षाह्न इत्यपि प्रयोगोऽस्ति, तर्हि षादित्यपि बोध्यम् । 'रषाभ्याम्-' इत्यधिकारात् । ठओ लुगिति । अणो लुगिति वृत्तिकाराद्युक्तमयुक्तमिति भावः । प्रसङ्गादाह स्त्रियामिति । नन्विह स्त्रीत्वं दुर्लभं 'रात्राहाहाः पुंसि' इति वचनादिति चेत् , मैवम् । सर्वमहः सर्वाह्न इत्यादावुपक्षीणस्य तद्वचनस्य लुप्ततद्धितायामप्रवृत्तेः । “लुपि युक्तवत्-' इति लिङ्गातिदेशो ह्यत्र प्रमाणम् । प्राकृतलिङ्गानुशासनानां लुप्तप्रत्ययेषु प्रवृत्तौ तद्वैयर्थ्यापत्तेः । अत एव लवणः सूपः, लवणा यवागूरित्यादौ न क्लीबत्वम् । किं च 'द्विगुप्राप्तापन्ना- इत्यादिना परवल्लित्वे प्रतिषिद्धे तदपवादस्य 'रात्राहाहाःइत्यस्याप्राप्तिरेवेति यह्नशब्दोऽयं विशेष्यनिघ्न एव, न तु नियतपुंल्लिङ्गः। एवं चात्र भवार्थकतद्धिते लुप्तेऽपि 'यः शिष्यते स लुप्यमानार्थाभिधायी' इति न्यायेन भवार्थवत्तन्निष्ठस्त्रीत्वाभिधानमपि न्याय्यमेवेति दिक् । टाबिति । न चेह ठअन्तत्वाद् डीप् स्यादिति शङ्कयम् , ठमो लुप्तत्वात् । न च प्रत्ययलक्षणम् , वर्णाश्रयत्वात् । ठमओ योऽकारस्तदम्तान्डीबिति तत्र व्याख्यातत्वात् । अत एव वृत्तिकाराद्युक्लाणो लुक्पक्षेऽपि न डीप् , 'अण्योकारः' इति तत्र व्याख्यातत्वात् । न चैवमपि टजन्तत्वान्डीप् स्यादेवेति वाच्यम् ,टचः समासान्ततया तदन्तस्य तद्धितार्थ प्रत्युपसर्जनत्वात् । अत एव हि आपिशलिना प्रोक्तमधीयाना ब्राह्मणी आपिशलेत्युदाहृतं भाष्ये । 'द्विगोः' इति डीप तु न शकष एव , 'अपरिमाण-' इति निषेधात् । अतष्टावेवात्र युक्तस्तथैवोदाहरति-यज्ञेति । 'अहोऽह्न-' इति सूत्रे अहादेशं प्रत्याख्याय 'अप्रत्यन्वव-' इत्यतोऽचमनुवर्त्य 'टजपवादोऽच्' इति व्याचक्षाणस्य भाष्यकारस्य मते तु निर्विवाद एवात्र टाप । कथं तर्हि कालनिर्णयदीपिकायां यहीति प्रयोग इति चेत् । अत्राहुःद्वे अहनी यस्यां तिथाविति बहुव्रीहौ नान्तलक्षणो डीब् बोध्यः । द्वयोरहोर्भव इति व्याख्यानग्रन्थस्तु फलितार्थकथनपरतया ज्ञेय इति । संख्यादिभिन्नस्य तत्पुरुषस्य Page #112 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०६ प्रावृट् । एवं चैतदर्थमह इत्यदम्तानुकरबक्स्वेशो न कर्तव्यः । 'प्रातिपदिकान्त - ' ( सू १०५५ ) इति व्यस्ववारणाय चुम्नादिषु पाठस्यावश्यकत्वात् । श्रदन्तादिति तपरकरयाह-परागतमहः पराङः । ७६३ न संख्यादेः समाहारे । (५-४-८९) समाहारे वर्तमानस्य संख्यादेरादेशो न स्यात् । 'संख्यादेः' इति स्पष्टार्थम् । द्वयोरहोः समाहारो द्वयहः । त्र्यहः । ७६४ उत्तमैकाभ्यां च । (५-४-१०) प्राभ्यामङ्कादेशो न । उत्तमशब्दोऽन्त्यार्थः पुण्यशब्दमाह । 'पुण्यैकाभ्याम्' इत्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम्। सुदिनशब्दः प्रशस्त 1 मरः । दीर्घाण्यहानि यस्मिन्निति बहुव्रीहिः । 'अन उपधालोपिनोऽन्यतरस्याम्' इति ङीप्, 'अल्लोपोऽनः' इत्युपधालोपः । 'अहोऽदन्तात्' इति णत्वं तु क्षुम्नादित्वान्नेति भावः । ननु क्षुभ्नादिषु दीर्घाहीत्यस्य पाठो व्यर्थः, 'अहोऽदन्तात्' इत्यत्र हि श्रह इत्यदन्तात् षष्ठयर्थे प्रथमा । श्रदन्तपूर्वदस्थान्निमित्तात् परस्य अह्नशब्दस्य नस्य णत्वं स्यादिति तदर्थः । दीर्घाहीत्यत्र च श्रहादेशस्याप्रसक्त्या श्रदन्तत्वाभावादेव णत्वस्याप्राप्तौ किं तन्निवृत्त्यर्थेन सुभ्नादिपाठेनेत्यतश्राह एवं चेति । एवं सति - दीर्घाही - शब्दस्य क्षुभ्नादिपाठे सति एतदर्थम् -'अहोऽदन्तात्' इति णत्वनिवृत्त्यर्थम्, श्रह्न इत्यस्य दन्तत्वानुसरणं षष्ठपर्थे व्यत्ययेन प्रथमानुसरणं क्लेशावहं न कर्तव्यमि - त्यर्थः, क्षुभ्नादिपाठादेव णत्वनिवृत्तिसिद्धेरिति भावः । ननु दीर्घाह्रीत्यस्य णत्वाभावाय किं नादिपाठोऽभ्युपगम्यताम् उत् अह्न इत्यस्य दन्तत्वमित्यत्र विनिगमनाविरह . इत्यत आह- प्रातिपदिकान्तेति । अथ 'अहोऽदन्तात्' इत्यत्र पूर्वपदविशेषणे अदन्तादिति तपरत्वस्य प्रयोजनमाह - श्रदन्तादिति । पराह्न इति । 'प्रादयो गताद्यर्थे-' इति समासः, टच्, अव्ययात्परत्वादह्णादेशः । परेति पूर्वपदस्यादन्तत्वाभावाद् न णत्वमिति भावः । न संख्यादेः समाहारे । अह्नादेश इति । 'अहोऽह्नः-’ इत्यतस्तदनुवृत्तेरिति भावः । ननु संख्यादिभिन्नस्य तत्पुरुषस्य समाहारे प्रभावादेव सिद्धे संख्यादेरिति व्यर्थमित्यत आह-स्पष्टार्थमिति । द्वयह इति । समाहारे द्विगुः । टच्, 'रात्राहा -' इति पुंस्त्वम् । संख्यादित्वात्प्राप्तस्य श्रह्लादेशस्य निषेधः । त्र्यह इति । त्रयाणामह्नां समाहार इति विग्रहः । समासादि द्वयहवत् । उत्तमैकाभ्यां च । ननु उत्तमशब्दात्परस्याद्दन्शब्दस्य प्रह्लादेशाप्रसक्तेरुत्तमग्रहणं व्यर्थमित्यत आह-- उत्तमशब्द इति । उत्तमशब्दः अन्त्ये वर्तते । यथा द्वादशाहे 'उदयनीयातिरात्र उत्तममहः' इति अन्त्यमिति गम्यते । 'अहस्सर्वैकदेश संख्यातपुण्याद्-' इत्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हि पुण्यैकाभ्याम् इत्येव कुतो न सूत्रितमित्याशङ्कय स्वतन्त्रेच्छ्रुत्वान्महर्षेरित्याह-- पुण्यैकाभ्यामित्येवेति । 1 Page #113 -------------------------------------------------------------------------- ________________ ११० ] सिद्धान्तकौमुदी । [ तत्पुरुषसमास वाची । एकाहः । ' उत्तमग्रहणमुपान्त्यस्यापि सग्रहार्थम्' इत्येके । संख्याताहः । ७६५ अग्राख्यायामुरसः । ( ५-४-६३) टकस्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः । ७६६ अनोश्मायस्सरसां जातिसंशयोः । (५-४-६४ ) टकस्याज्जातौ संज्ञायां च । उपानसम्, अमृताश्मः, कालायसम्, मण्डूकसरसम् इति जातिः । महानसम्, पिण्डाश्मः, लोहितायसम्, जल्लसरसम् इति संज्ञा । ७९७ ग्रामकौठाभ्यां च तक्ष्णः । ( ५-४ - ६५ ) ग्रामस्य तचा पुण्याहमिति । पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः, 'पुण्यसुदिनाभ्यां च' इति नपुंसकत्वम् । एकाह इति । एकमहरिति विग्रहे 'पूर्वकाल -' इति समासः । टच्, टिलोपः । उपान्त्यस्यापीति । लक्षणयेति शेषः । पुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम् उत्तमं च एकं चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः । संख्याताह इति । संख्यातमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः । ' रात्राहा -' इति पुंस्त्वम् । उपान्त्य संख्यातशब्दपूर्वकत्वाद् नाह्रादेशः । अप्राख्यायामुरसः । शेषपूरणेन सूत्रं व्य चष्टे -- टच् स्यादिति । पञ्चम्यर्थे सप्तमी । अयं प्रधानं तद्वाची य उरश्शब्दः तदन्तात् तत्पुरुषात् टच् स्यादित्यर्थः । 'अध्याख्यायाम्' इति पाठान्तरम् । अग्रे भवमध्यम्, मुख्यमिति यावत् । अश्वानामुर इवेति । उरो यथा प्रधानं तथेत्यर्थः । उरश्शब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम् । अश्वोरसमिति । उरश्शब्देन मुख्यवाचिना षष्ठीसमासः, टच्, 'परवल्लिङ्गम् -' इति नपुंसकत्वम् । श्राख्यायामिति किम् ? देवदत्तस्योरः देवदत्तोरः । अनोऽश्मायस् । उपानसमिति । उपगतमन इति प्रादिसमासः । अमृताश्म इति । अमृतः श्रश्मेति विग्रहः । टचि, टिलोपः । कालायसमिति । कालम् इति विग्रहः, टच् 'परवल्लिङ्गम् -' इति नपुंसकत्वम् । मण्डूकसरसमिति । षष्ठीसमासः । टच् । जातिविशेषा एते । महानसम्, पिण्डाश्मः, लोहितायसम्, जलसरसमिति संज्ञाविशेषाः । ग्रामकौटाभ्यां च तक्ष्णः । श्रभ्यां टजिति । 1 समाहारे वृत्त्यसंभवादाह-—स्पष्टार्थमिति । पुण्याहमिति । 'पुण्यसुदिनाभ्याम् - ' इति क्लीबत्वं वक्ष्यति । उपान्त्यस्यापीति । यथा 'प्रथमयोः -' इति प्रथमाद्वितीययोर्ग्रहणं द्विवचननिर्देशात्, तथेहापि उत्तमग्रहणसामर्थ्यादन्त्ययोर्द्वयोर्ग्रहणम् । उत्तमौ चैकश्चेति विग्रहे सौत्रं द्विवचनमिति तेषामाशयः । अग्राख्यायाम् । पञ्चम्यर्थे सप्तमी । प्रधानम् । अग्रवाची य उरःशब्दस्तदन्तात्तत्पुरुषाट्टच् स्यात् । अग्राख्यायां किम्, देवदत्तस्योरो देवदत्तोरः । ग्रामकौटाभ्याम् । ‘जातिसंज्ञयोः' इति नानुवर्तते । ग्रामेति किम् राज्ञस्तता राजता । श्रतिश्व इति । श्वानमतिक्रान्तो ? Page #114 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१११ ग्रामतक्षः। साधारण इत्यर्थः । कुट्यां भवः कौटः, स्वतन्त्रः । स चासौ तक्षा च कौटतक्षः । ७६, अतेः शुनः। (५-४-६६ ) अतिश्वो वराहः । अतिश्वी सेवा । ७६६ उपमानादप्राणिषु । (५-४-६७) अप्राणिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेवाकर्षश्वः । अप्राणिषु किम्-वानरः श्वेव वानरश्वा । ८०० उत्तरमृगपूर्वाञ्च सक्नः । (५-४-६८) चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् । ८०१ नावो द्विगोः। (५-४-६६) नौशब्दान्ताद् द्विगोष्टस्यात् , न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतो द्विनावरूप्यः । 'द्विगोलुंगनपत्ये' (सू ग्रामकौटाभ्यां परो यस्तक्षशब्दः तदन्तात्तत्पुरुषादृच् स्यादित्यर्थः । ग्रामतक्ष इति । टचि टिलोप । साधारण इति । ग्रामे यावन्तो जनाः सन्ति तावतां विधेय इत्यर्थः । कुट.यां भव इति । कुटीमेकां क्रयादिना सम्पाद्य तत्र यो वसति, न तु परकीयभूमिप्रदेशे, स कौट इत्यर्थः। फलितमाह-स्वतन्त्र इति । कौट. तक्ष इति । टचि, टेलोपः । अतेश्शुनः । अतीत्यव्ययात् परो यः श्वन्शब्दः, तदन्तात्तत्पुरुषादृजित्ट र्थः । अतिश्व इति । श्वानमतिकान्त इति विग्रहः । अत्यादय इति समासः । टचि, टिलोपः । श्वापेक्षयाधिकवेगवान् वराह इत्यर्थः । अतिश्वी सेवेति । श्वानमति कान्तेत्यर्थः, श्वापेक्षया नीचा सेवेति यावत् , टच् , टिलोपः । टित्त्वाद् ङीप् , 'यस्येति च' इत्यकारलोपः । उपमानादप्राणिषु। आकर्षः श्वेवेति। आकृष्यते कुसूलादिगतधान्यमनेनेत्याकर्षः, पञ्चागुलो दारुविशेषः । 'उपमितं व्याघ्रादिभिः' इति समास । टच , टिलोपः, आकर्षश्व इति रूपम् । उपमानात् किम् ? शुनो निष्क्रान्तो निश्शा । उत्तरमृग । उत्तर, मृग, पूर्व एभ्य उपमानाच्च परो यः सक्थिशब्दः तदन्तात्त पुरुषाच् स्यादित्यर्थः । उत्तरसक्थमिति । उत्तरं सक्थीति विग्रहः । पूर्व सक्थीति विग्रह 'पूर्वकाल-' इति समासः । फलकसक्थमिति । फलकमिव सक्थीति विनोई मयूरव्यंसकादित्वात् समासः । सर्वत्र टच ,टिलोपः। नावो द्विगोः । न तु द्रितलुकीति । 'गोरतद्धितलुकि' इत्यतो मण्डूकप्लुत्या तदनुवृत्तरिति भावः । द्विनावरूप्य इति । तद्धितार्थ समासः, टच , आवादेशः । 'हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः' तस्य 'द्विगोलुंगनपत्ये' इति लुकमाशङ्कयाह-द्विगोजवेनेत्यर्थः । अतिश्वीति । नीचेत्यर्थः । आकर्षः श्वेति । 'उपमितं व्याघ्रादिइति समासः । आकृष्ट तेऽनेन खलादिगतं धान्यमित्याकर्षः काष्ठविशेषः । उपमानात्किम् , निष्कान्तः शुनो निश्वा । फलकसक्थमिति । अत एव ज्ञापकादसामान्यवचनेनाप्युपमानस्य स-पास इति माधवः। द्विनावरूप्य इति । 'हेतुमनुष्येभ्यः-' Page #115 -------------------------------------------------------------------------- ________________ ११२] सिद्धान्तकौमुदी। [तत्पुरुषसमास१०८०) इत्यत्र अचि इस्यस्यापकर्षमाखलादेन लुक् । पञ्चनावप्रियः । द्विनावम् त्रिनावम् । अतद्धितलुकीति किम्-पञ्चभिनौभिः क्रीतः पञ्चनौः । ८०२ अर्धाश्च । (५-४-१००) अर्धाचावष्टम्स्यात् । नावोऽर्धम् अर्धनावम् । क्रीबस्वं लोकात् । ८०३ खार्याः प्राचाम् । (५-४-१०१) द्विगोरर्धाच खार्याष्टज्वा स्यात् । द्विखारम्, द्विखारि । अर्धखारम्, अर्धखारी । ८०४ द्वित्रिभ्यामञ्जलेः। (५-४-१०२) टज्वा स्याद् द्विगौ । द्यालम्, व्यञ्जलि । अतद्धितलुकीत्येव । द्वाभ्यामअलिभ्यां क्रीतो बञ्जलिः । ८०५ ब्रह्मणो जानपदाख्यायाम् लुंगनपत्य इत्यत्रेति । अपकर्षणादिति । 'गोत्रेऽलुगचि' इत्युत्तरसूत्रादित्यर्थः । पश्चनावप्रिय इति । पञ्च नावः प्रिया यस्येति विग्रहे उत्तरपदे द्विगुः, टच , आवादेशः । द्विनावमिति । द्वयोः नावोः समाहार इति विग्रहे द्विगुः, टच् , आवादेशः, 'स नपुंसकम्' इति नपुंसकत्वम् । त्रिनावमिति । तिसृणां नावां समाहार इति विग्रहः, द्विनाववत् । पञ्चनौरिति । तद्धितार्थ समास:। श्राीयष्ठक्, 'अध्यर्ध-' इति लुक् । अर्धाच्च । अर्धशब्दात् परो यो नौशब्दः तदन्तात् तत्पुरुषादृजित्यर्थः । अर्धनावमिति । 'अधं नपुंसकम्' इति समासः, टच , आवादेशः । अत्र 'परवल्लिङ्गम्-' इति स्त्रीत्वमाशङ्कयाह-क्लीबत्वं लोकादिति ।खार्या प्राचाम्। खारीशब्दान्ताद् द्विगोः, अर्धपूर्वकाद् खारीशब्दान्तात्तत्पुरुषाच्चेत्यर्थः । द्विखारमिति । द्वयोः खार्योः समाहार इति विग्रहे द्विगुः। टच् , 'यस्येति च'। ‘स नपुंसकम्' इति नपुंसकत्वम् । टजभावपक्षे ‘स नपुंसकम्' इति नपुंसकत्वानपुंसकह्रस्वः । अर्धखारमिति । खार्या अर्धमिति विग्रहः । 'अर्ध नपुंसकम्' इति समासः, टच् , 'यस्येति च' । क्लीबत्वं लोकात् । अर्धखारीति । पूर्ववत् समासः । टजभावपक्षे 'परवल्लिङ्गम्-' इति स्त्रीत्वम् । एकविभक्तावषष्ठयन्तवचनादुपसजेनत्वाभावान ह्रस्वः । अर्धखारि इति कचिद् ध्रस्वान्तपाठः, तदा क्लीबत्व लोकात् , ततो नपुंसकह्रस्वः। द्वित्रिभ्यामअलेः शेषपूरणेन सूत्रं व्याचष्टे-टज्वा स्यादिति। द्विगाविति । द्वयञ्जलमिति । द्वयोरञ्जल्योः समाहार इति विग्रहे द्विगुः, टच , 'यस्येति च' 'स नपुंसकम्' । द्वयञ्जलीति । समाहारे द्विगुः । टजभावे सति नपुंसकहस्वत्वम् । अतद्धितलुकीत्येवेति । अनुवर्तत एवेत्यर्थः । अञ्जलिभ्यां क्रीत इति। इति रूप्यः । पञ्चमौरिति । आीयष्ठक् । 'अध्यर्धपूर्व-' इति लुक् । खार्याः । द्विगोरिति । खारीशब्दान्ताद् द्विगोरित्यर्थः । अर्धखारमिति । अर्धनावमिव क्रीवत्वं लोकात् । अर्धखारीति 'परवल्लिङ्गम्-' इति स्त्रीत्वम् ।टज्वा स्याद् द्विगाविति । द्विगाविति किम् , द्वयोरञ्जलिः द्यञ्जलिः। द्वयजलमिति । समाहारे द्विगुः। Page #116 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [११३ . (५-४-१०४) ब्रह्मान्तात्तपुरुषादृस्यात्समासेन जानपदत्वमाख्यायते चेत् , सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः। ८०६ कुमहद्भयामन्यतरस्याम् । (५-४-१०५) श्राभ्यां ब्रह्मणो वा टन्स्यात्तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः , कुब्रह्मा । ८०७ आन्महतः समानाधिकरणजातीययोः । (६-३-४६) महत श्राकारोअञ्जलिशब्दः अञ्जलिपरिमितधान्यादौ वर्तते, केवलस्याजलेः मूल्यत्वासम्भवात् । परिमाणत्वात् ठञ् । 'अध्यर्ध-' इति तस्य लुक् । ब्रह्मणो जानपदाख्यायाम् । जनपदे भवो जानपदः, भावप्रधानो निर्देशः। तस्य केनाख्येत्याकाङ्क्षायां प्रकृतत्वात् समासेनेति लभ्यते, तदाह-समासेन जानपदत्वमाख्यायते चेदिति । जानपदत्वमित्यनन्तरं ब्रह्मण इति शेषः । सुराष्ट्रे ब्रह्मेति । ब्रह्मशब्दोऽत्र पुँल्लिङ्गः । ब्रह्मा विप्रः । 'वेदास्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । सप्तमीति योगविभागात् समासः । टच ,टिलोपः, 'परवल्लिङ्गम्-' इति पुंस्त्वम्। जानपदेति किम् ? देवब्रह्मा नारदः । कुमहद्भयामन्यतरस्याम् । कुब्रह्मेति । टजभावे रूपम् । 'कुगतिप्रादयः' इति समासः। कुब्रह्म इति । टचि रूपम् , टिलोपः। अथ महत्पूर्वस्य टविकल्पमुदाहारष्यन् विशेषमाह-प्रान्महतः। 'अलुगुत्तरपदे' इत्युत्तरपदाधि. कारस्थमिदं सूत्रम् । उत्तरपदे इत्यनुवृत्तं समानाधिकरणपदे अन्वेति, न तु जातीय इति, तस्य प्रत्ययत्वात् , तदाह-महत प्रात्त्वमित्यादिना। महाब्रह्म इति। महांश्चासौ ब्रह्मा चेति विग्रहः । 'सन्महत्-' इत्यादिना समासः । आत्त्वम् । सवणेदीर्घः । 'कुमहद्भ्याम्--' इति टच । टिलोपः, 'परवल्लिङ्गम्-' इति पुंस्त्वम् । महा. ब्रह्मेति । टजभावे आवे रूपम् । अथ प्रसङ्गादुक्तमात्त्वविधिं प्रपञ्चयिष्यन् समानाधिकरणे पुनरुदाहरति---महादेव इति । जातीये उदाहरति-महाजातीय इति । महत्सदृश इत्यर्थः । प्रकारवचने जातीयर , आत्त्वम् , सवर्णदीर्घः । समानाधिकरणे किमिति । 'अान्महतो जातीये च' इत्येवास्तु । चकारादुत्तरपदसमुच्चये अतद्धितलुकीत्येवेति । एतच्च पूर्वसूत्रेऽपि बोध्यम् । अञ्जलिभ्यां क्रीत इति। नात्राञ्जलिः पाणिद्वयम् , तस्य मूल्यत्वासंभवात् , कि तु अञ्जलिपरिमितो व्रीह्यादिविवक्षितः । ततश्च परिमारात्वाद् द्यञ्जलिरित्यत्र ठञ् । तस्य तु 'अध्यर्धपूर्व-' इति लुक् । ब्रह्मणो । जनपदे भवो जानपदः । 'येकयोः-' इतिवद्भावप्रधानो निर्देशस्तस्याख्यायां प्रत्यासत्त्या समासेनेत्येतल्लभ्यते, तदाह-समासेन जानपदत्वमिति । कस्येत्याकाङ्क्षायां संनिधानाद् ब्रह्मण इति लभ्यते। सुराष्ट्रब्रह्म इति । 'सप्तमी' इति योगविभागात्समासः । जानपदेति किम् , देवब्रह्मा नारदः। कुब्रह्म इति । ब्राह्मणपर्यायो ब्रह्मन्शब्दः । प्रान्महतः । तकार उच्चारणार्थः, न तु सर्वादेशार्थ Page #117 -------------------------------------------------------------------------- ________________ ११४ ] सिद्धान्तकौमुदी। [ तत्पुरुषसमासऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः, महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम्-महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोनः 'सन्महत्-' (सू ७४०) इति समासो ग्रहीष्या इति चेत्, महाबाहुः न स्यात् । तस्मात् 'लक्षणप्रतिपदोक्कयोः प्रतिपदोकस्य-' (प ११४) इति परिभाषा नेह प्रवर्तते , समानाधिकरणग्रहणसामर्थ्यात् । सति महत आत्त्वं स्याद् उत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः किं समानाधिकरणेनेति प्रश्नः । महतः सेवा महत्सेवेति । अत्र षष्ठी. समासे आत्त्वनिवृत्त्यर्थ समानाधिकरणग्रहणमिति भावः। ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्य अनुच्चार्य सामान्यशास्त्रत एव निवर्तितत्वात् । 'सन्महत्-' इत्ययं समासस्तु सन्महदादिशब्दं समस्यमानं विशिष्योचार्य विहितत्वात् प्रतिपदोक्तः । ततश्च लक्षणप्रतिपदोक्तपरिभाषया 'आन्महतो जातीये च' इत्यत्र 'सन्महत्-' इति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससंभवाद्यर्थमेव समानाधिकरणग्रहणमिति शङ्कते--लाक्षणिकमित्यादिना । परिहरति-महाबाहुन स्यादिति । महान्तौ बाहू यस्येति विग्रहः । अस्य समासस्य 'अनेकमन्यपदार्थे' इति सामान्यविहितत्वात् प्रतिपदोक्लत्वाभावात्तदुत्तरपदे परे आत्त्वं न स्यात् , अतः समाना धिकरणग्रहणमित्यर्थः । ननु कृतेऽपि समानाधिकरणग्रहणे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तेदुरित्वाद् महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह-तस्मादिति । तच्छ. ब्दार्थमाह- समानाधिकरणग्रहणसामर्थ्यादिति । एवं च लक्षणप्रतिपदोक्तइत्याह-आकारोऽन्तादेशः स्यादिति । इहोत्तरपदाधिकारे पूर्वपदमाक्षिप्यते । तच्च महता विशेषितमिति तदन्तविधिलभ्यते । 'प्रहणवता-' इति निषेधस्तु प्रत्ययविधिविषय इत्युक्तत्वात् । तेन महाबाहुवदतिमहाबाहुरिति प्रयोगो भवति । परममहत्परिमाणमित्यत्र तु परममहतो द्रव्यस्य परिमाणमिति षष्ठीतत्पुरुषोऽभ्युपगम्यत इति न तत्रात्वप्रसक्तिरिति वृद्धाः। यत्तु वर्धमानेनोक्तम्-'इष्टकेषीकामालानाम्-' इत्यत्र तदन्तविध्युपसंख्यानसामर्थ्यादुत्तरपदाधिकारे तदन्तविधिर्नास्ति, तेन परममहत प्रात्वं नेति, तद्भाष्यकैयटविरुद्धम् । तथा हि 'येन विधिः-' इति सूत्रे पदाधिकारे प्रयोजनमिष्टकचितं पक्केष्टकचितमिति भाष्ये उदाहृतम् , कैयटेन च पदशब्देन उत्तरपदं गृह्यत इति व्याख्यातम् । एतदेवार्थतः काशिकायामुपनिबद्धम्, न तु 'इष्टकेसीका-' इत्यत्र कात्यायनोक्तमुपसंख्यानमस्ति । ननु प्रतिपदोक्तसमासे यदुत्तरपदं तस्मिनेव परे प्रात्वं स्यान्नान्यत्रेति किमनेन समानाधिकरणग्रहणेनेत्यत आह-- महापाहुरिति । बहुव्रीहिरयम् , स च सामान्यशास्त्रनिर्वृत्तत्वालाक्षणिक इति भावः Page #118 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [११५ 'श्रात्' इति योगविभागादास्वम्, 'प्रागेकादशभ्यः-' (सू १६६५) इति निर्देशाद्वा , एकादश । महतीशब्दस्य 'पुंवकर्मधारय-' (सू ७४६) इति पुंवदावे कृते पारवम् , महाजातीया । 'महत पारवे घासकरविशिष्टेषूपसंख्यानं पुंवद्रावश्च' (वा ३६५०)। असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः । 'अष्टनः कपाले हविषि' (वा ३९५१) अष्टाकपालः । 'गवि च युक्ने' (वा ३६५२)। गोशब्दे परे युक्त इत्यर्थे गम्ये अष्टन धात्वं स्यादिति वक्तव्यमित्यर्थः । अष्टागवं शकटम् । परिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थ समानाधिकरणग्रहणमिति भावः । न च सुमहान्तौ बाहू यस्य स सुमहाबाहुरित्यत्र कथमात्त्वम् । आत्त्वविधेः पदाङ्गाधिकारस्थत्वाभावेन तदन्तविध्यभावादिति वाच्यम् , उत्तरपदाक्षिप्तपूर्वपदस्य महता विशेषणे सति तदन्तविधिलाभात् । परममहत्परिमाणवानित्यत्र तु महतः परिमाणं महत्परिमाणम् , परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति दिक् । ननु 'आन्महतः- इत्यत्र महत एव ग्रहणाद् 'यष्टनः-' इत्युत्तरसूत्रे यष्टनोरेव ग्रहणाद् एकादशेत्यत्र कथमात्त्वमित्यत आह-आदिति योगविभागादात्त्वमिति । योगविभागस्य भाष्यादृष्टत्वादाह-प्रागेकादशभ्य इति निर्देशाद्वति । एकादशेति । एकश्च दश चेति द्वन्द्वः । एकाधिका दशेति वा । आन्महत इत्यत्र लिङ्गविशिष्टपरिभाषया भहतीशब्दस्यापि जातीयप्रत्यये परे महतीजातीयेति स्यादित्यत आह-महतीशब्दस्येति । न च परत्वात्पुंवत्त्वं बाधित्वा आत्त्वं स्यादिति वाच्यम् , 'आन्महतः-' इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति ङयाप्सूत्रे भाष्ये उक्तत्वादिति भावः । महत आत्त्व इति । घास, कर, विशिष्ट एषु परतो महत प्रात्त्वं पुंवत्त्वं च वक्तव्यमित्यर्थः । ननु 'प्रान्महतः-'इत्यात्त्वे 'पुंवत्कर्मधारय-' इति पुंवत्त्वे च सिद्ध किमर्थमिदमित्यत आह-असामानाधिकरण्यार्थमिदमिति । महाकर इति । महतो मह त्या वा कर इत्यथैः । महाविशिष्ट इति । महतो महत्या वा विशिष्टः, अधिक इत्यर्थः । अष्टन इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः अष्टाकपाल इति। अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे तद्धितार्थे द्विगुः । 'संस्कृतं भक्षाः' इत्यण् । 'द्विगोलुंगनपत्ये' इति लुक् । आत्त्वं सवर्णदीर्घः । गवि च युक्त इति । वार्तिकमिदम् । तत्सूचयितुमाहवक्तव्यमित्यर्थ इति । अष्टागवं शकटमिति । अष्टौ गावो यस्येति बहुअष्टनः कपाल इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्वं वक्तव्यमित्यर्थः । अष्टाकपाल इति । 'संस्कृतं भक्षाः' इत्यणो 'द्विगोर्जुनपत्ये' इति लुक् । Page #119 -------------------------------------------------------------------------- ________________ ११६ ] सिद्धान्तकौमुदी। [तत्पुरुषसमास'अप्रस्यन्वव-' (सू १४३ ) इत्यत्र 'अच्' इति योगविभागाद्वहुव्रीहावप्यच् । अष्टानां गवां समाहारोऽष्टगवम्, तद्युक्त्वाच्छकटमष्टागवमिति वा । ८०८द्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । (६-३-४७) श्रात्स्यात् । द्वौ च दश च द्वादश । व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीयशीत्योः किम्-हिन्वाः, ब्यशीतिः । 'प्राक्शतादितिवनव्यम्' (वा ३६५३) नेहद्विशतम् , द्विसहस्रम् । ८०६ त्रेस्त्रयः। (६-३-४८) त्रिशब्दस्य त्रयस् व्रीहिः । श्रात्त्वम् , सवर्णदीर्घः । अष्टभिर्गोभियुक्तमित्यर्थः । ननु ‘गोरतद्धितलुकि' इति रज्विधेस्तत्पुरुषमात्रविषयत्वाद् अष्टागवमिति कथमित्यत आह--अच्प्रत्यन्ववेत्यत्रेति । तत्पुरुषत्वे अष्टगवशब्दष्टजन्त एवेत्याह-अष्टानामिति । तथा च समाहारद्विगोस्तत्पुरुषत्वाद् 'गोरतद्धितलुकि' इति टच सुलभ इत्यर्थः । नन्वष्टानां गवां समाहार इत्यर्थे शकटे कथमन्वयः, युक्तार्थवृत्तित्वाभावात् , कथं वा आत्त्वमित्यत आह-तद्युतत्वादिति । समाहारद्विगुरूपतत्पुरुषादृचि व्युत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिर्गोभिर्युक्ते वर्तमानस्य प्रात्त्वमित्यर्थः । द्वयष्टनः । शेषपूरणेन सूत्रं व्याचष्टे-पात्स्यादिति । द्विशब्दस्य अष्टन्शब्दस्य च संख्यावाचके उत्तरपदे परे प्रात्स्यात् , न तु बहुव्रीह्यशीत्योरित्यर्थः । द्विशब्दस्योदाहरति-द्वादशेति । द्वौ च एकश्च येकाः, यधिक एक येक इत्यादौ तु नास्ति, “एकादिनवान्तानां परस्परं द्वन्द्वतत्पुरुषो न स्तः' इति 'चार्थे-' इति सूत्रे भाष्ये ध्वनितत्वादिति शब्देन्दुशेखरे स्थितम् । द्वाविंशतिरिति । द्वौ च विंशतिश्चेति समाहारद्वन्द्वः । ‘स नपुंसकम्' इति क्लीबत्वं तु न । किंतु लोकात् स्त्रीत्वम् । इतरेतरयोगस्तु न, अनभिधानात् । यधिका विंशतिरिति तत्पुरुषो वा । अथाष्टशब्दस्योदाहरति-अष्टादशेति । अष्टौ च दश चेति द्वन्द्वः । अष्टाधिका दशेति वा । अष्टाविंशतिरिति । अष्टौ च विंशतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । अष्टाधिका विंशतिरिति वा । द्वित्रा इति । द्वौ वा त्रयो वेति विग्रहः । 'संख्याव्यय-' इति बहुव्रीहिः । 'बहुव्रीही संख्येये डच्' इति डच् । बहुव्रीहित्वादत्र द्विशब्दस्य आत्त्वं न। द्वयशीतिरिति। द्वौ चाशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात्। घधिका अशीतिरिति वा । अत्राशीतिपरकत्वाद् द्विशब्दस्यात्त्वं न । प्राक्शतादिति। 'यष्टनः संख्यायाम्-' इत्येतत् शतप्रभृतिसंख्याशब्दे परे न भवतीति वक्तव्यमित्यर्थः। द्विशतमिति। द्वौ च शतं चेति समाहारद्वन्द्वः । यधिकं शतमिति वा । एवं द्विसहस्रमित्यत्रापि। त्रेस्त्रयः। सन्धि'अर्ध्यधपूर्व' इत्यणो लुमिति केषांचिद् व्याख्यानं तु प्रामादिकम् , 'संस्कृतम्-' इत्यणः अनाहीयत्वात् । प्रेस्त्रयः । संधिवलादिषु त्रयोदशीति पाठात्सान्तोऽयमादेश इति Page #120 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ११७ , स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः । सुजर्थे बहुव्रीहिः । श्रशीतौ तु त्र्यशीतिः । प्राक्छतादित्येव, त्रिशतम् । त्रिसहस्रम् । ८१० विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । ( ६-३-४६ ) द्व्यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत्, द्वाचत्वारिंशत् । अष्टचत्वारिंशत्, अष्टाचत्वारिंशत् । त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत् । एवं पञ्चा शत्षष्टिसप्ततिनवतिषु । ८११ एकादिश्चैकस्य चादुक् । ( ६-३-७६ ) एकादिर्नम्प्रकृत्या स्यादेकस्य चादुगागमश्च । नञो विंशत्या सह समासे कृते एकशब्देन सह 'तृतीया' इति योगविभागात्समासः । अनुनासिकविकल्पः वेलादिषु त्रयोदशेति पाठात् सकारान्तोऽयमादेश इत्याह - त्रयस्स्यादिति । पूर्वविषय इति । प्राक्शतात् संख्याशब्दे उत्तरपदे परतः, न तु बहुव्रीह्यशीत्योरित्यर्थः । त्रयोदशेति । त्रयश्च दश चेति त्र्यधिका दशेति वा विग्रहः । सुब्लुकि त्रिशब्दस्य त्रयस्, रुत्वम् उत्त्वम्, आद्गुणः । एवं त्रयोविंशतिरित्यपि । त्रिदशा इति । त्रिरावृत्ता दशेत्यर्थ: । 'बहुव्रीहौ संख्येये डच् -' इति डच् । नन्वत्र त्रिरित्यस्य ‘संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' 'द्वित्रिचतुर्भ्यः सुच्' इति सुजन्तत्वात् समासेऽपि सुचः श्रवणापत्तिरित्यत आह--सुजर्थे बहुव्रीहिरिति । सुजर्थे क्रियाभ्यावृत्तौ लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्र 'संख्याव्यय-' इति बहुव्रीहिः, न तु सुजन्तस्येत्यर्थः । त्र्यशीतिरिति । त्रयश्चाशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधिकाशीतिरिति वा । त्रिशतमिति । त्रयश्च शतं चेति समाहारद्वन्द्वः, त्र्यधिकं शतमिति वा । एवं त्रिसहस्रमित्यपि । विभाषा चत्वारिंशत् । व्यवहितस्यापि नोरित्यस्य सम्बन्धाय--२ -- सर्वेषामिति । द्यष्टनोस्त्रेश्चेत्यर्थः । तदाहह्यष्टनोस्त्रेश्चेति । एकादिश्च । 'न लोपो नञः' इत्यतो नञ इति षष्ठयन्तमनुवर्तते । तच्च प्रथमया विपरिणम्यते । 'नभ्राण्नपात् -' इत्यतः प्रकृत्येत्यनुवर्तते, तदाह - एकादिर्नञ् प्रकृत्येति । एक आदिर्यस्येति विग्रहः । एकस्य चादुगागमश्चेति । आदुगिति श्रदुगिति वा छेदः । नञो विंशत्येति । न विंशतिरिति विग्रहे नञ्समासे सति नविंशतिशब्दस्य एकशब्देन तृतीयान्तेन सह एकेन नविंशतिरिति विग्रहे समास इत्यन्वयः । ननु तत्कृतत्वाद्यभावात् कथमिह तृतीयासमास इत्यत आह-- तृतीयेति योगविभागादिति । अनुनासिकविकल्प इति । ध्वनयन्नाह । त्रयस्स्यादिति । सुजर्थे बहुव्रीहिरिति । ' संख्ययाव्यया-' इत्यादिनेति शेषः । एकादिरिति । अदुगिति छेदः । पररूपं त्वकारोच्चारणसामर्थ्या Page #121 -------------------------------------------------------------------------- ________________ ११८ ] सिद्धान्तकौमुदी। [तत्पुरुषसमासएकेन नविंशतिः एकाचविंशतिः-एकानविंशतिः । एकोनविंशतिरित्यर्थः । षष उत्त्वं दतृदशधासूत्तरपदादेष्टुत्वं च धासु वेति वाच्यम्' (वा ४००१-४००२)। षोडन् , षोडश, षड्धा, षोढा।८१२ परवल्लिङ्गं द्वन्द्वतत्पुरुषयो। (२-४-२६) तृतीयासमासे कृते सुब्लुकि एक नविंशति इति स्थिते 'न लोपो नमः' इति प्राप्तस्य नकारलोपस्य प्रकृतिभावान्निवृत्तौ एकशब्दस्यादुगागमः, तत्र ककार इत् , उकार उच्चारणार्थः । कित्त्वादन्तावयवः, सवर्णदीर्घः, एकाद् नविंशतिरिति स्थिते 'यरोऽनुनासिके-' इति दकारस्य पक्षे अनुनासिकनकार इत्यर्थः । अदुगागमपक्षेऽपि पररूपं तु अकारोच्चारणसामर्थ्यान्न भवति। एकेन न विंशतिरिति विग्रहवाक्यम् । एकेन हेतुना विंशतिर्न भवतीत्यर्थः । एकान्नविंशतिः, एकानविंशतिरिति । अनुनासिकत्वे तदभावे च रूपम् । एकोनविंशतिरित्यर्थ इति । पर्यवस्यतीति शेषः । एकेन ऊनेति विग्रहः । 'पूर्वसदृश-' इति समासः । सो चासौविंशतिश्च । षष उत्वमिति । दतृशब्दे दशशब्दे च उत्तरपदे परे धाप्रत्यये च परे षषशब्दस्य उत्वम् उत्तरखण्डस्य दतृशब्दस्य दशशब्दस्य धाप्रत्ययस्य च श्रादेर्दकारस्य धकारस्य च टुत्वं च वक्तव्यमित्यर्थः । टुत्वमित्येव छेदः, न तु ष्टुत्वमिति प्रयोजनाभावात् । 'धासु वा' इति बहुवचनाद्विधार्थधाप्रत्ययस्यैव ग्रहणमिति भाष्यम् । धाप्रत्यये परे षष उत्वं वा स्यात् । टुत्वं तु उत्त्वपक्षे तदभावपक्षे च पूर्ववाक्यान्नित्यमेवेति कैयटः। उत्वपक्ष एव नित्यं टुत्वमिति हरदत्तः । षोडन्निति । षड् दन्ता यस्येति बहुव्रीही 'वयसि दन्तस्य दतृ' इति दत्रादेशः, ऋकारस्य इत्त्वम् । अन्त्यषकारस्य उत्त्वम् । श्राद्गुणः, दकारस्य टुत्वेन डकारः, सुप्रत्यये उगित्त्वान्नुम् , सुलोपः, संयोगान्तलोपः । तस्यासिद्धत्वान दीर्घः । षोडन् इति रूपम् । षोडशति । षट् च दश चेति, षडधिका दशति वा विग्रहः । अन्त्यस्य षकारस्य उत्त्वम् , श्राद्गुणः, दकारस्य टुत्वेन डकारः । हरदत्तमतमनुसृत्य उत्त्वाभावपक्षे धासु वेत्यस्योदाहरति-- षड्धेति । 'संख्याया विधार्थे धा' । अन्त्यस्य षकारस्य उत्त्वाभावपक्षे तु टुत्वमपि न भवति । 'झलां जशोन्ते' इति जश्वन षकारस्य ड इति भावः । उत्त्वपक्षे उदाहरति-षोढेति । धाप्रत्ययः, अन्त्यस्य षकारस्य उत्वम् , आद् गुणः, टुत्वेन धस्य न भवति । धासु वेति । 'संख्याया विधार्थे-' इत्यादिना विहितस्य धाप्रत्ययस्यैवेह ग्रहणम् , 'प्रत्ययाप्रत्यययोः' इति परिभाषया। तेनेह न-षट् दधातीति षड्धा। 'प्रातोsनुपसर्गे कः' टाप् । षोडन्निति । षड् दन्ता अस्य षोडन् । 'वयसि दन्तस्य-' इति दत्रादेशः । परवल्लिङ्गम् । इतरेतरयोगे द्वन्द्वोऽत्र गृह्यते न समाहारे द्वन्द्वः । 'स १-साचेत्यादि विग्रहः क्वचिनास्ति । Page #122 -------------------------------------------------------------------------- ________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ११६ 1 , एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । 'द्विगुप्राप्तापन्चालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः' ( वा १५४५) पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । श्रलं कुमार्यै अलंकुमारिः । श्रत एव ज्ञापकात्समासः । ढ इति भावः । कैयटमते तु उत्वाभावपक्षेऽपि त्वं नित्यमेव । षड्ढा । कैयटमतमेव युक्तम्, षोढा, षड्ढा इत्येव भाष्ये उदाहृतत्वादिति शब्देन्दुशेखरे स्थितम् । परवल्लि ङ्गम् । परवदिति षष्ठयन्ताद्वतिः । तदाह -- एतयोः परपदस्येवेति । द्वन्द्वपदमत्र इतरेतरयोगद्वन्द्वपरम् समाहारद्वन्द्वे 'स नपुंसकम्' इत्यस्य तदपवादत्वात् । कुक्कुटमयूर्याविमे इति । अत्र द्वन्द्वे अवयवलिङ्गेनानियमे प्राप्ते नियमार्थमिदम् । अर्धपिप्पलीति । 'अर्ध नपुंसकम्' इति तत्पुरुषः । अस्य एकदेशिसमासस्य पूर्वपदार्थ - प्रधानतया पूर्वपदलिङ्गे प्राप्ते उत्तरपदलिङ्गार्थं विधिः । अत्र 'द्वन्द्वतत्पुरुषयोः' इति षष्ठधन्तमर्थपरम् । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवं च कुक्कुटमयूर्याविमे इत्यनुप्रयोगेऽपि तदेव लिङ्गम् । द्विगुप्राप्तेति । द्विगु, प्राप्त, आपन्न, अलंपूर्व, गतिसमास एतेषु परनल्लिङ्गस्य प्रतिषेधो वक्तव्य इत्यर्थः । पञ्चस्विति । उत्तरपदस्य नपुंसकत्वात् समासस्य नपुंसकत्वं प्राप्तं न भवति, किन्तु विशेष्यलिङ्गमेव । प्राप्तजीविक इति । अत्र उत्तरपदस्य जीविकाशब्दस्य यल्लिङ्गं तत्समासस्य न भवति । अलंपूर्वस्योदाहरति--अलं कुमार्यै, अलंकुमारिरिति । अत्र उत्तरपदकुमारीलिङ्गं समासस्य न भवति । नन्वत्र तदर्थादियोगाभावान्न चतुर्थीसमासः । 'पर्यादयो ग्लानाद्यर्थे - ' इत्यपि न भवति, तस्य समासस्य नित्यत्वेन अलं कुमार्यै इति भाष्ये विग्रहप्रदर्शनानुपपत्तेरित्यत आह-अत एवेति। 'एकविभक्ति च-' इति कुमारीशब्दस्योपसर्जनत्वाद्धस्वः । , नपुंसकम्' इत्यपवादस्य वक्ष्यमाणत्वात् । ' सूत्रे द्वन्द्वतत्पुरुषयोः' इति न सप्तमी - द्विवचनम् । तथात्वे द्वन्द्वे तत्पुरुषे च यत्परपदं तद्वल्लिङ्गं पूर्वपदस्यातिदिश्येत, परपदस्य संबन्धिशब्दत्वेन पूर्वपदाक्षेपकत्वात् ततश्च मयूरीकुक्कुटावित्यत्र पूर्वपदे ईकारनिवृत्तिप्रसङ्गः । कुक्कुटमयूर्यौ, अर्धपिप्पलीत्यादौ तु पूर्वपदे स्त्रीप्रत्यय उत्पद्ये । किं तु षष्टिद्विवचनमित्याशयेनाह - - एतयोरिति । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवं चानुप्रयोगेऽपि तदेव लिङ्गं सिद्धम् । उपमेये षष्ठयभ्युपगमाद्वतिरपि षष्ठयन्तादेव इत्याशयेनाह – परपदस्येवेति । भाष्ये तु 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति प्रत्याख्यातमिदं सूत्रम् । अस्मिँश्च प्रत्याख्याते तुल्यन्यायत्वाल्लिङ्गानुशासनं सर्वमेव प्रत्याख्यातम्, तथापि तत्प्रौढिवादमात्रम् । अन्यथा व्याकरणस्यैव वैयर्थ्यप्रसङ्गात् । गतिसमासेष्विति । गतिग्रहणं प्रादीनामुपलक्षणं मुख्यस्य गतेरसंभवादित्याशयेन Page #123 -------------------------------------------------------------------------- ________________ १२० ] सिद्धान्तकौमुदी । [ तत्पुरुषसमास निष्कौशाम्बिः । ८१३ पूर्ववदश्ववडवौ । ( २-४-२७ ) द्विवचनमतन्त्रम् । अश्ववडवौ । श्रश्ववडवान्। श्रश्ववडवैः । ८१४ रात्राह्नाहाः पुंसि । (२-४-२६) एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । श्रनन्तरत्वात्परवल्लिङ्गतापवादो ऽप्ययं परस्वासमाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः । पूर्वाह्नः । गतिसमासमुदाहरति-निष्कौशाम्बिरिति । अत्र कौशाम्बीशब्दलिङ्गं समासस्य न भवति । यद्यपि निरादिसमास एवायम्, न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्लेः । तथापि गतिसमासग्रहणं प्रादिसमासोपलक्षणमित्याशयः । पूर्ववदश्ववडवौ । अश्वश्च वडवा च इति द्वन्द्वे परवल्लिङ्गं बाधित्वा पूर्ववल्लिङ्गार्थमिदम् । अश्ववडवाविति द्वन्द्वः पूर्वपदस्य लिङ्गं लभत इत्यर्थे बहुवचने विभक्त्यन्तरे च न स्यादित्यत आहद्विवचनमतन्त्रमिति । उपलक्षणमिदम् । द्विवचनं विभक्तिश्चेति द्वयमपि अविवक्षितमित्यर्थः । पूर्ववद्ग्रहणमत्र लिङ्गम् । अन्यथा निपातनादेव सिद्धे किं तेनेति भावः । रात्राह्वाहाः । द्वन्द्वतत्पुरुषयोरित्यनुवृत्तं प्रथमाबहुवचनेन विपरिणतं रात्रादिभिर्विशेष्यते, तदन्तविधिः । रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः । फलितमाह — एतदन्ताविति । परवल्लिङ्गतापवादः । ननु अहोरात्र इति समाहारद्वन्द्वे 'स नपुंसकम् ' इति नपुंसकत्वप्रसङ्गः । न च नपुंसकत्वस्याप्ययं पुंस्त्वविधिरपवाद इति वाच्यम्, 'पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान्' इति न्यायेन अस्य पुंस्त्वविधेः परवल्लिङ्गतामात्रापवादत्वात् । तस्मादहोरात्राविति इतरेतरद्वन्द्व एवेोदाहर्तुमुचित इत्यत आह—अनन्तरत्वादिति । श्रयमिति । पुंस्त्वविधिरिति शेषः । होरात्र इति । अहश्च रात्रिश्च तयोस्समाहार इति द्वन्द्वे परत्वान्नपुंसकत्वम् अपवा दत्वात् परवल्लिङ्गमपि बाधित्वा अनेन पुंस्त्वम् । 'हस्सर्वैकदेश -' इत्यच् । पूर्वाह्न उदाहरति । निष्कौशाम्बिरिति । अतन्त्रमिति । अत्र च लिङ्गं पूर्ववद्ग्रहणम् । अन्यथा निपातनादेव सिद्धे किं तेनेति भावः । इह समासार्थस्य वा पूर्ववल्लिङ्गातिदेशः, उत्तरपदार्थस्य वा, उभयथाप्यश्ववडवौ शोभनावित्यनुप्रयोगेऽपि पुंस्त्वं सिध्यति । ननु समासार्थस्य पुंस्त्वेऽपि स्वाश्रयस्त्रीत्वस्यानिवर्तनाट्टापः श्रवणप्रसङ्गः । न चातिदेशवैयर्थ्यम्, शसि नत्वप्रवृत्त्या अनुप्रयोगे पुँल्लिङ्गत्वभावेन च तत्सार्थक्यादिति चेदत्राहुः - इहैव निपातनाद् 'अश्ववडवपूर्वापराधरोत्तराणाम् -' इत्यत्र निपातनाद्वा टापो निवृत्तिरिति । अहोरात्र इति । प्राचा तु अहोरात्रमित्युदाहृतम् । तन्नेति प्रागेवोक्तम् । अत्र वदन्ति 'रात्राद्वा-' इत्यनेन रात्रादीनामेव पुंस्त्वं विधीयते । तदन्तस्य तु 'परवल्लिङ्गम् -' इत्येव सिध्यति । अत एव भिन्नविषयत्वाद् 'विप्रतिषेधे परं कार्यम्' इति न प्रवर्तते । एवं च 'रात्राहाहा:-' इति पुंस्त्वा प्रवृत्त्या समाहारे 'स नपुंसकम्' इत्येव भवति, परवल्लिङ्गापवादत्वादिति । 1 Page #124 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२१ ब्यहः 'संख्यापूर्व रात्रं कीबम्' (लि १३१)। द्विरात्रम्, त्रिरात्रम् , गणरात्रम् । ८१५ अपथं नपुंसकम् । (२-४-३०) तत्पुरुषः इत्येव । अन्यत्र तुअपथो देशः । कृतसमासान्तनिर्देशानेह-अपन्थाः । ८१६ अर्धर्चाः पुंसि च। (२-४-३१) अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः, अर्धर्चम् । इति । अह्न पूर्वमित्येकदेशिसमासः । 'राजाहस्सखिभ्यः' इति टच् । 'अहोऽहः' इत्यहादेशः । परवल्लिङ्ग नपुंसकं च बाधित्वा पुंस्त्वम् । द्वयह इति । द्वयोरहोस्समा. हार इति विग्रहे द्विगुः, टच् , 'न संख्यादेस्समाहारे' इत्यहादेशनिषेधः । परवल्लिङ्गं बाधित्वा पुंस्त्वम् । उत्तरपदस्याहन्शब्दस्य अकारान्तत्वाभावान्न स्त्रीत्वम् , समासान्तस्य समासभक्तत्वात् । संख्यापूर्वम् । लिङ्गानुशासनसूत्रमिदम् । न त्वष्टाध्यायीस्थं सूत्रम्, नापि वार्तिकम् , भाष्ये अदर्शनात् । 'रात्राहाहाः पुंसि' इत्यस्यायमपवादः । द्विरात्रमिति । समाहारद्विगुः । 'अहस्सर्वैकदेश-' इत्यच् । गणरात्रमिति । गणशब्दो बहुपर्यायः, 'बहुगणवतु-' इति संख्यात्वम् । गणानां रात्रीणां समाहार इति द्विगुः, अच् । अपथं नपुंसकम् । न पन्था इति विग्रहे नसमासे नओ नस्य लोपे 'ऋक्पू:-' इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः । परवल्लिङ्गतापवादः । तत्पुरुष इत्येवेति । 'परवल्लिङ्गम्-' इत्यतस्तदनुवृत्तेरिति भावः । द्वन्द्वग्रहणं तु नानुवर्तते, अयोग्यत्वात् । अन्यत्र त्विति । बहुव्रीहावित्यर्थः। अपन्था इति। 'पथो विभाषा' इति समासान्तविकल्पः । 'पथः संख्याव्ययादेः' इति वक्ष्यमाणवार्तिकेन गतार्थमेवेदं सूत्रम् । अर्धर्चाः । बहुवचनात्तदादीनां ग्रहणमित्याह-अर्धर्चातन्न । उक्तरीत्या द्वयहत्र्यहादावपि नपुंसकत्वप्रसङ्गात् । न चेष्टापत्तिः । द्वयहस्त्र्यह इति प्राचाप्युदाहृतत्वेन खमूलग्रन्थेन सह विरोधापत्तेः । 'ते तु त्रिंशदहोरात्रः' इत्यादिकोशविरोधाच्च । तस्माद्रात्राद्यन्तस्यैवायं पुंस्त्वविधिः, 'द्वन्द्वस्तत्पुरुषयोः' इति प्रक्रमणात् तथा च भिन्नविषयत्वाद्यभावाद् रात्राहाहाः' इति पुंस्त्वं समाहारनपुंसकता परत्वेन बाधत एव । संख्यापूर्वमिति । अत्र च 'अपथपुण्याहौ नपुंसकौ'। 'संख्यापूर्वा रात्रिः' इति लिङ्गानुशासनसूत्रं मूलम् । संख्याग्रहणेषु कृत्रिमाकृतिमन्यायो न प्रवर्तते 'द्वयष्टनः संख्यायाम् -'इति सूत्रे अशीतिपयुदासादित्याशयेनोदाहरति । द्विरात्रम्। त्रिरात्रम्। गणरात्रमिति । गणानां बहुरात्रीणां समाहार इति विग्रहः। अपथं नपुंसकम् । तत्पुरुष इत्येवेति । द्वन्द्वग्रहणं तु नानुवर्तते अयोग्यत्वादिति भावः। अपन्था इति। 'पथो विभाषा' इति समासान्तविकल्पः । इदं सूत्रं शक्यमकर्तुम् । 'पथः संख्याव्ययादेः' इति वक्ष्यमाणवार्तिकेन गतार्थत्वात् । प्रसङ्गादाह अर्धर्चा इति। इह केषांचिदर्थभेदेन व्यवस्थेष्यते। सा च व्यवस्था मद्यमकरन्दमाक्षिकाणां वाची मधुशब्दो द्विलिङ्गः, Page #125 -------------------------------------------------------------------------- ________________ १२२ ] सिद्धान्तकौमुदी। [तत्पुरुषसमासध्वजः, ध्वजम् । एवं तीर्थशरीरमण्डपीयूषदेहाङ्कुशकलशेत्यादि । ८१७ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् । (१-२-५८) एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः-ब्राह्मणः पूज्यः । ८१८ अस्मदो द्वयोश्च । (१-२-५६ ) एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रमः । पक्ष, अहं ब्रवीमि, आवां ब्रव इति वा । 'सविशेषणस्य प्रतिषेधः' (वा ७२१) । पटुरहं ब्रवीमि । ८१६ फल्गुनीप्रोष्ठपदानां च नक्षत्रे । (१-२-६०) द्वित्वे बहुत्वप्रयुक्त कार्य वा स्यात् । पूर्व फल्गुन्यौ, पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे-पूर्वाः प्रोष्ठपदाः। नक्षत्रे किम्-फल्गुन्यौ माणविके । दय इति । अर्धचमिति । ऋचोऽर्धमिति विग्रहे 'अर्धं नपुंसकम्' इति समासः । 'ऋक्पू:-' इति अच् । परवल्लिङ्गं स्त्रीत्वं बाधित्वा पुनपुंसकत्वविकल्पः। जात्याख्यायाम्। आकृत्यधिकरणन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः। जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः । तथा सति ब्राह्मणाः भोज्या इत्यादौ विशेषणान्न स्यादित्याशङ्कय एकस्मिन्नर्थे विद्यमानः शब्दो बहूनान् वक्ति, एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति । बहुत्वप्रयुक्तं कार्यं लभत इत्यर्थः । अस्मदो द्वयोश्च । सविशेषणस्येति । 'त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः' इत्यत्र तु अवयवगतबहुत्वाभिप्राय बहुवचनम् । फल्गुनी। नक्षत्रे इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयते इत्यर्थः । चेन द्वयोरित्यनुकर्षः । तदाह-द्वित्वे इति। पूर्वे प्रोष्ठपदे इति । स्त्रीत्वादौङश्शीभावः । 'प्रोष्ठपदा भाद्रपदा स्त्रियाम्' इत्यमरः। फल्गुन्यौ माणविके इति । फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । 'नक्षत्रेण युक्तः-' इत्यण । 'लुबविशेषे' इति लुप् । ततो चैत्रादिवाची तु पुँल्लिङ्गः । क्रियावचनस्तु विशेष्यलिङ्ग इत्येवं यथायथं ज्ञेयम् । अर्धर्चाः पुंसि च' 'स नपुंसकम्' इत्यनयोर्मध्ये 'जात्याख्यायाम्-' इति चतुःसूत्र्याः संगतिरिह चिन्त्या । बहूनां वचनं प्रतिपादनमिति व्याख्यानात् फलितोत्रातिदेश इत्याशयेनाह । एकोप्यर्थो वा बहुवदिति । एवं च विशेषणादपि सिद्धमिति ध्वनयन्नुदाहरति-ब्राह्मणाः पूज्या इति। जात्याख्यायां किम् , देवदत्तो यज्ञदत्तः । एकस्मिन् किम् , व्रीहियवौ । अस्मदो द्वयोश्च । चाद् “एकस्मिन् बहुवचनमन्यतरस्याम्' इति च वर्तते तदेवाह-एकत्वे द्वित्वे च विवक्षित इत्यादि । फल्गुनीप्रोष्ठपदानांच। चकारेण द्वयोरनुकर्षणादाह-द्वित्व इति । फल्गुन्यौ माणविके इति । फल्गुनीशब्दाद् 'नक्षत्रेण युक्तः कालः' इत्यण । तस्य 'लुबविशेषे' इति लुप् । ततो जाताथै फल्गुन्यषाढाभ्यां टानौ' इति टः, टित्त्वाद् ङीप । न चायं गौणः, १ 'पूर्वफल्गुन्यौ' इति क्वचित् पाठः । Page #126 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२३ ८२० तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् । (१२-६३) बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । तिष्येति किम्-विशाखानराधाः । नक्षत्रेति किम्-तिष्यपुनर्वसवो माणवकाः । ८२१ स नपुंसकम् । (२-४-१७) समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात् । परवल्लिङ्गापवादः । पञ्चगवम् । दन्तोष्ठम् । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' (वा १५५६)। पञ्चमूली । 'श्रावन्तो वा' (वा १५५७) पञ्चखट्वम्, पञ्चखट्वी। जाताथें ‘फल्गुन्यषाढाभ्यां टानौ' इति टः । टित्त्वाद् डीप् । तिष्यपुनर्वस्वोः । विशाखानुराधा इति । विशाखे च अनुराधाश्चेति विग्रहः । तिष्यतिपुनर्वसव इति । विष्यश्च पुनवसू चेति विग्रहः । तिष्यशब्दात् पुनर्वसुशब्दाच 'नक्षत्रेण युक्तःइत्यण् । 'लुबविशेषे' इति लुप् । ततो जातार्थे सन्धिवेलाद्यण् । 'श्रविष्टाफल्गुनी-' इत्यादिना लुक्। जात्याख्यायामित्यादिचतुस्सूत्र्या अत्र संगतिश्चिन्त्या। सनपुंसकम्। 'द्विगुरेकवचनम्' इति द्विगु: 'द्वन्द्वश्च प्राणि-' इति द्वन्द्वश्च तच्छब्देन परामृश्यते । तौ च समाहारार्थावेव विवक्षितौ, व्याख्यानात् । तदाह-समाहार इति । पश्चगवमिति । पञ्चानां गवां समाहार इति द्विगुः । दन्तोष्ठमिति । दन्ताश्च श्रोष्टौ चेति विग्रहः । 'द्वन्द्वश्च प्राणि-' इति समाहारद्वन्द्वः । अकारान्तेति । अकारान्तम् उत्तरपदं यस्येति विग्रहः । ‘स नपुंसकम्' इत्यस्यापवादः । पञ्चमूलीति। समाहारद्विगुः, स्त्रीत्वम्, 'द्विगोः' इति ङीप् । प्राबन्तो वेति । स्त्रियां वेति वक्तव्यमित्यर्थः । पञ्चखद्वमिति । समाहारद्विगुः । नपुंसकत्वे ह्रखः । यौगिकत्वात् । तथा च गौणमुख्यन्यायाप्रवृत्त्या नक्षत्रग्रहणमावश्यकमिति भावः । तिष्यपुनर्वस्वोः विशाखानुराधा इति । विशाखे चानुराधाश्चेति विग्रहः । तिष्यपुनर्वसव इति। तिष्यपुनर्वसुशब्दाभ्यां पूर्ववद् 'नक्षत्रेण युक्तः कालः' इत्यण, 'लुबविशेष' इति च लुप् । ततो जातार्थे 'संधिवेला-' आदिसूत्रेण अण, तस्य तु श्रविष्टाफल्गुन्यनराधा' इत्यादिना लुक् । नक्षत्र इत्यनुवर्तमाने पुन्नक्षत्रग्रहणं पर्यायाणामपि यथा स्यादित्येतदर्थमित्याकरः । एवं च 'सिध्यपुनर्वसू' इत्यपि सिध्यतीति दिक्।बहुवचनस्य किम् , इदं तिष्यपुनर्वसु । 'चार्थे द्वन्द्वः' इतिसमाहारद्वन्द्वोऽयम् । स नपुंसकम् । 'अनन्तरस्य-' इति न्यायोऽत्र नाश्रीयते, तथात्वे द्विगुसंग्रहो न स्यादित्याशयेनाह-द्विगुर्द्वन्द्वश्चेति । अत्र व्याचक्षते-प्रकरणादेवानुवाद्यलाभे 'स'ग्रहण मेतत्प्रकरणानुपात्तस्यापि समाहारद्वन्द्वस्य संग्रहार्थम् ,तेन संज्ञापरिभाषमित्यादि सिद्धमिति। पञ्चगवमिति । तद्धितार्थे-'इत्यादिना समाहारे द्विगुः । दन्तोष्ठमिति। 'द्वंद्वश्व प्राणि-' इत्यादिना समाहारे द्वन्द्वः। पञ्चखट्टमिति । नपुंसकह्रस्व । पञ्चखट्रीति । उपस १ 'नुराधः' इति क्वचित् पाठः । २ 'पूली' इति क्वचित् । Page #127 -------------------------------------------------------------------------- ________________ १२४ ] सिद्धान्तकौमुदी। [तत्पुरुषसमास'अनो नलोपश्च, वा च द्विगुः स्त्रियाम्' (वा १५५८ ) पञ्चतत्क्षी, पञ्चततम् । 'पात्राचन्तस्य न' (वा १५५६)। पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् । पुण्यसुदिनाभ्वामहः क्रीबतेष्टा' (वा १५५३) पुण्याहम् । सुदिनाहम् । 'पथः संख्याव्यपञ्चखट्वीति । उपसर्जनह्रखत्वे अदन्तत्वाद् 'द्विगोः' इति स्त्रीत्वपक्षे ङीप् । अनो नलोपश्चेति । अन इत्यावर्तते । एकं प्रथमया विपरिणतं द्विगुरित्यत्रान्वेति । तदन्तविधिः । अन्नन्तो द्विगुः स्त्रियां वा स्यात् , अनो नस्य लोपः स्यादित्यर्थः । वाग्रहणं नियामित्यत्रैव संबध्यते, न तु नलोपेऽपि । तेन स्त्रीत्वाभावेऽपि नलोपः। पश्चतक्षीति । पञ्चानां तक्षणां समाहार इति द्विगुः, स्त्रीत्वम् , नलोपः, 'द्विगोः' इति डीबिति भावः । पञ्चतक्षमिति । समाहारद्विगुः । स्त्रीत्वाभावपक्षे ‘स नपुंसकम्' इति नपुंसकत्वम् , नलोप इति भावः । न चान्तर्वर्तिनीं विभक्तिमाश्रित्य तक्षशब्दस्य सुबन्तत्वेन पदत्वाद् 'न लोपः प्रातिपदिक-' इत्यनेन नलोपो भविष्यतीति वाच्यम् , 'उत्तरपदत्वे च-' इति प्रत्ययलक्षणनिषेधात् । पात्राद्यन्तस्य नेति । पात्रादिर्गणः। तदन्तस्य समाहारद्विगोः न स्त्रीत्वमिति वक्तव्यमित्यर्थः । पञ्चपात्रम् , त्रिभुवनम् , चतुर्युगमिति । स्त्रीत्वाभावे ‘स नपुंसकम्' इति नपुंसकत्वमिति भावः । पुण्येति । पुण्यसुदिनाभ्यां परो यः अहन्शब्दः तदन्तस्य तत्पुरुषस्य नपुंसकत्वं वक्तव्यमित्यर्थः । 'रात्राह्न-' इत्यस्यापवादः । पुण्याहमिति । पुण्यम् अहरिति कर्मधारयः, 'राजाहः-' इति टच, टिलोपः । 'उत्तमैकाभ्यां च' इति अह्नादेशनिषेधः । सुदिनाहमिति । सुदिनम् अहरिति कर्मधारयः, टच् , टिलोपः, प्रशस्तपर्यायः जनह्रस्वत्वे सत्यदन्तत्वाद् 'द्विगोः' इति स्त्रीत्वपक्षे डीप् । अनो नलोपश्चति । उरपदत्वे चापदविधौ-'इतिप्रत्ययलक्षणप्रतिषेधादप्राप्तो नलोप इति भावः । इह वाशब्दः स्त्रियामित्यनेन संबध्यते, न तु पूर्वेण । तेन नित्यो नलोप इत्याह-पञ्चतक्षमित्यादि । पात्राद्यन्तस्येति । स्त्रीत्वमिति शेषः। आकृतिगणोऽयम् । सुदिनाहमिति । प्रशतपर्यायः सुदिनशब्दः, 'सुदिनासु सभासु कार्यमेतत्प्रतिचिन्वीत विशेषतः स्वयं च' इत्यादिप्रयोगात्।पथः संख्याव्ययेति।संख्याव्ययरूपो य आदिस्तस्मादित्यर्थः। त्रिपथम्, विपथमिति। 'ऋक्पूरब्धूः-' इत्यप्रत्ययः । सुपन्थाः , अतिपन्था इति । 'न पूजनात्' इति समासान्तनिषेधः । कथं तर्हि 'व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः' इत्यमर इति चेत्, प्रमाद एवायमिति बहवः । मनोरमायां तु पथे गतौ' इत्यस्मात् पचायचि पथति व्याप्नोतीति व्युत्पादितः पथशब्दोऽस्ति । तथा च त्रिकाण्डशेषः 'वाटः पथश्च मार्गः स्यात्' इति । तेन पथशब्देन समासे पुंस्त्वमुपपन्नम् । न चैवं विपथसिद्धावपि कापथो न स्यात्कादेशस्य दुर्लभत्वादिति वाच्यम् , इषदर्थे च' इति तत्संभवात्कृत्सायाम Page #128 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२५ यादेः' (वा १५५४ ) । संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः कीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्था विपथम् । कृतसमासान्तनिर्देशाग्नेह-सुपन्थाः, अतिपन्थाः । 'सामान्ये नपुंसकम्' (वा ५०४३) । मृदु सुदिनशब्द इति न पौनरुक्त्यम् । पथः संख्याव्ययादेरिति । नपुंसकत्वं वक्तव्यमिति शेषः । संख्याव्ययेति समाहारद्वन्द्वः । संख्याव्ययमादिरिति कर्मधारयः, दिग्योगे पञ्चमी, पर इति शेषः, पथ इति कृतसमासान्तादकारान्तात् प्रथमा । तदाह-संख्याव्ययादेरिति । परवल्लिङ्गतापवादः । त्रिपथमिति । 'ऋक्पू:-' इति अप्रत्ययः, टिलोपः । एवं विपथमित्यपि । 'प्रादयो गताद्यर्थे–' इति समासः । सुपन्थाः , अतिपन्था इति । 'स्वती पूजायम्' इति समासः । 'न पूजनात्' इति समासान्तनिषेधः । आवश्यकत्वादनेन सिद्धे 'अपथं नपुंसकम्' इति न कार्यम् । सामान्ये नपंसकमिति । न्यायसिद्धमेतत् , विशेष्यविशेषणासंनिधाने सति स्त्रीत्वपुंस्त्वयोरनभिव्यक्ती 'उभयोरन्तरं यच्च तदभावे नपुंसकम्' इति लक्षणलक्षितनपुंसकत्वस्यैव न्याय्यत्वात् । अत एव 'दाण्डिनायन-' इति सूत्रभाष्ये एकश्रुतिः खरसर्वनाम, नपुंसकं लिङ्गसर्वनामेत्युक्तम् । मृदु पचतीति । क्रियाविशेषणमिदं द्वितीयान्तम् । पचेहि विक्लित्त्यनुकूलव्यापारोऽर्थः । तत्र विक्लित्त्यंशे मृदुत्वमन्वेति । विक्लित्तिश्च व्यापारे साध्यत्वेनान्वेति । तथा च मृदु पाकं करोतीत्यर्थः । तथा च धातूपात्तव्यापार प्रति कर्मीभूतेन विक्लित्यंशेन सामानाधिकरण्याद् मृद्विति द्वितीया । यत्र तु धात्वर्थः क णत्वेनान्वेति 'यजेत वर्गकामः' इत्यादौ, तत्र हि यागेन स्वर्ग कुर्यादित्यर्थः । तत्र क्रियाविशेषणस्य तृतीयान्तत्वमेव 'ज्योतिष्टोमेन यजेत स्वर्गकामः' इत्यादावित्यन्यत्र विस्तरः । प्रातः कमनीयमिति । रमणीयमित्यर्थः । अत्रापि प्रातरित्यव्य यस्य विशेष्यस्यालिङ्गत्वात् तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाभावाद् नपुंसकत्वमेवेति भावः । इदं चानियतलिङ्गविषयम् । र्थतः पर्यवसानादिति स्थितम् । केचित् तु ‘पथः संख्या-'इति वार्तिके कृतसमासान्तस्यैव ग्रहणं न तु पचादाजन्तस्य,इत्यत्र बीजाभाद्विपथः कापथ इतिप्रयोगो दुरुपपाद एवेत्याहुः। अत्र माधवः-परवल्लिङ्गापवादत्वात्तत्पुरुष एवेदं प्रवर्तते नान्यत्र । विपथा नगरी, बहुव्रीहिरयम् । पन्थानमतिक्रान्ता अतिपन्था। इहापि न, 'द्विगुप्राप्ता-' इत्यादिना परवल्लिङ्गतायाः प्रतिषेधादिति । सामान्ये नपुंसकमिति । अनियतलिङ्गविषयकमिदम् । तेनादिः पचति, प्रातरादिरिति पुंस्त्वमेव । मृदु पचतीति । क्रियाविशेषणत्वाद्द्वितीयान्तम् । धातूपात्तभावनां प्रति हि फलांशः कर्मीभूतः। तथा च फलसामानाधिकरण्ये द्वितीया । अत एव सकृल्ल्वावित्यादौ कारकपूर्वकत्वाद्यण् । यत्र तु भावनां Page #129 -------------------------------------------------------------------------- ________________ १२६ ] सिद्धान्तकौमुदी | [ तत्पुरुषसमास पचति । प्रातः कमनीयम् । ८२२ तत्पुरुषो ऽनकर्मधारयः । ( २-४ -१६) अधिकारोऽयम् । ८२३ संज्ञायां कन्थोशीनरेषु । ( २-४-२० ) कन्थान्तस्तत्पुरुषः क्लीबं स्यात्, सा चेदुशीनरदेशोत्पन्नायाः कन्यायाः संज्ञा । सुशमस्यापत्यानि सौशमयः, तेषां कन्था सौशमिकन्थम् । संज्ञायाम् किम्-वीरणकन्था । उशीनरेषु किम् - दात्तिकन्या । ८२४ उपशोपक्रमं तदाद्याचिख्यासायाम् । ( २-४-२१ ) उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात्, तयोरुपज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः । ८२५ छाया बाहुल्ये । (२-४-२२) तेन आदिं वचति प्रातरादिरित्यत्र न भवति, आदिशब्दस्य नियत लिङ्गत्वात् । तत्पुरुषोऽनम् । नञ्समासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्यर्थः । तदाह – अधिकारो ऽयमिति । 'परवल्लिङ्गम् -' इत्यतः प्रागिति शेषः । संज्ञायां कन्था । सुगममेव । उपज्ञा । उपज्ञायते प्रथमं ज्ञायत इत्युपज्ञा । ‘स्त्रियां क्तिन्' इत्यधिकारे 'आतश्चोपसर्गे' इति कर्मण्यङ् । उपक्रम्यते आरभ्यते इत्युपक्रमः । कर्मणि घञ् । 'नोदात्तोपदेशस्य' इति वृद्धिनिषेधः । उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः । तत्पुरुष इत्यस्य विशेषणमिदम्, तदन्तविधिः, 'स नपुंसकम्' इत्यतो नपुंसकमित्यनुवर्तते । तदाह — उपज्ञान्त उपक्रमान्तश्चेति । तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ । श्रादिशब्दो भावप्रधानः प्राथम्ये वर्तते । तयोरादिः प्राथम्यं तदादिः । तस्य आचिख्यासा आख्यातुमिच्छा, विवचायामिति यावत् । तदाह - तयोरादिरित्यादि । पाणिनेरुपशेति । कर्तरि षष्ठी । पाणिन्युपशं ग्रन्थ इति । पाणिनिना प्रथमं ज्ञायमान इत्यर्थः । इदं प्रकरणं परवल्लिङ्गत्वस्य विशेष्यनिघ्नत्वस्य चापवादः । नन्दोपक्रमं द्रोण इति । प्रति करणतया धात्वर्थविशेषोऽन्वेति तत्र तद्विशेषणानां तृतीयान्ततैव, ज्योतिष्टोमेन यजेतेत्यत्र यथा । एतच्च ' करणे यजः' इति सूत्रे वृत्तिपदमञ्जर्योः स्पष्टम् । तत्पुरुषोऽनञ् । नञ्समासकर्मधारयभिन्नस्तत्पुरुषो वन्यमाणकार्य भाग्भवतीति सूत्रार्थः । उपशो । उपज्ञायत इत्युपज्ञा । 'आतश्चोपसर्गे' इति कर्मण्यङ् । उपक्रम्यत इत्युपक्रमः । कर्मणि घञ् । 'नोदात्तोपदेशस्य -' इति वृद्धिप्रतिषेधः । उपज्ञा च उपक्रमश्चेति समाहारद्वन्द्वः । स चानुवर्तमानस्य तत्पुरुषस्य विशेषणम् । तच्छब्देन उपज्ञो - क्रमौ परामृश्येते । तदेतत्सकलमभिप्रेत्याह - उपज्ञान्त इत्यादि । श्राख्यातुमिच्छा आचिख्यासेतीच्छासना इह विवचैव शब्दप्रवृत्तौ नियामिका, न तु वस्तुस्थितिरिति ज्ञाप्यते । तेन ‘त्वदुपक्रमसौजन्यम्' इत्याद्यपि सिध्यति । पाणिनेरिति । कर्तरि Page #130 -------------------------------------------------------------------------- ________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [ १२७ छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये-इशूणां छाया इच्छायम् । 'विभाषा सेना-' (सू ८२८) इति विकल्पस्यायमपवादः । 'इक्षुच्छायानिषादिन्यः' इति तु 'श्रा समन्तान्निषादिन्यः' इत्याश्लेषो बोध्यः । ८२६ सभा राजाऽमनुष्यपूर्वा । (२-४-२३) राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् । 'पर्यायस्यैवेष्यते' (वा ५१६) नेह-राजसभा, चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढया रक्षःपिशाचादीनाह । रक्षस्सभम् , पिशाचसभम् । ८२७ अशाला च । (२-४-२४) सङ्घानन्देनारभ्यमाण इत्यर्थः । कर्तरि षष्ठ्याः समासः । छाया बाहुल्ये। छायया तत्पुरुषस्य विशेषणात् तदन्तविधिमभिप्रेत्याह-छायान्त इति । पूर्वपदार्थति । कस्य बाहुल्ये इत्याकाङ्क्षायाम् पादकद्रव्यनिमित्तकत्वात् छायायाः तद्बाहुल्ये इति गम्यते । तच्चापादकद्रव्यमर्थात् पूर्वपदार्थभूतमिति भावः । बाहुल्ये किम् ? कुड्यस्य छाया कुड्यच्छाया। सभा । राजा च अमनुष्यश्च राजामनुष्यौ, तौ पूर्वी यस्याः सा राजामनुष्यपूर्वा इति विग्रहः । सभया तत्पुरुषविशेषणात्तदन्तविधिः । राजशब्देन राजपर्याय एव विवक्षितः, न तु राजन्शब्दः । तदाह-राजपर्यायपूर्व इति । इनसभम् , ईश्वरसभमिति । इनस्य ईश्वरस्य वा सभेति विग्रहः । इनेश्वरशब्दौ राजपर्यायाविति भावः । पर्यायमात्रग्रहणे प्रमाणं दर्शयति-पर्यायस्यैवेष्यत इति । भाष्यकृतेति शेषः । 'खं रूपम्-' इति सूत्रे 'जित्पर्यायवचनस्यैव राजाद्यर्थम्' इति वार्तिकं भाष्ये पठितमिति भावः । राजसभेति । राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः । चन्द्रगुप्तसमेति । चन्द्रगुप्त इति राजविशेषस्य नाम, न तु तत्पर्याय इति भावः । नन्वमनुष्यपूर्वकत्वाद् देवसभेत्यादावपि स्या. षष्ठी । नन्दोपक्रममिति । नन्दस्योपक्रममिति विग्रहः। छाया बाहुल्ये । बाहुल्ये सति या छाया तद्वाची यश्छायान्तस्तत्पुरुष इत्यर्थः । इह कस्य बाहुल्य इत्यपेक्षायामावरकद्रव्यनिमित्तत्वाच्छायायास्तद्बाहुल्य इति गम्यते । तच्चावरकं पूर्वपदार्थभूतमेवेत्याशयेनाह–पूर्वपदार्थबाहुल्य इति । पूर्वपदार्थबाहुल्ये किम् , कुडयस्य च्छाया कुड्यच्छाया । प्रश्लेषो बोध्य इति । केचित्तु-'इक्षुच्छायनिषादिन्यः' इत्येव पठन्ति । सभा। इनसभमित्यादि । इनशब्दोऽत्र राजपर्यायः, ईश्वरशब्दश्च । ननु 'स्वं रूपम्-' इति वचनाद्राजशब्दस्यैव ग्रहणं युक्तं न पर्यायस्येत्यत आह-पर्यायस्यैवे. प्यत इति । एक्कारेण स्वरूपस्य विशेषाणां च निरासः । कथं तर्हि 'नृपतिसभामगमन्न वेपमानः' इति कीचकवधे । अत्र केचित्-ना पतिर्यस्यां सभायामिति बहुव्रीहौ कृते पश्चात्कर्मधारयः । 'अनकर्मधारयः' इत्युक्तेन क्लीबत्वमित्याहुः । रक्षितस्त्वाह Page #131 -------------------------------------------------------------------------- ________________ १२८] सिद्धान्तकौमुदी। [ तत्पुरुषसमासतार्था या सभा तदन्तस्तत्पुरुषः क्रीबं स्यात् । स्वीसभम् । स्त्रीसङ्घात इत्यर्थः । प्रशाला किम्-धर्मसभा । धर्मशालेत्यर्थः । ८२८विभाषा सेनासुराच्छायाशालानिशानाम् । (२-४-२५) एतदन्तस्तत्पुरुषः क्रीबं वा स्यात् । ब्राह्मणसेनम् , ब्राह्मणसेना । यवसुरम्, यवसुरा । कुड्यच्छायम् , कुड्यच्छाया। गोशालम्, गोशाला । श्वनिशम्, श्वनिशा । 'तत्पुरुषोऽनम्कर्मधारयः' (सू ८२२) इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना। ॥ इति तत्पुरुषसमासप्रकरणम् ॥ दित्यत आह-अमनुष्यशब्दो रूढ्येति । असुरशब्दो दैत्यानिवेति भावः । अशाला च । अशालार्थकेत्यर्थः । सभाशब्दः शालायां सङ्घातार्थे च वर्तते । तत्र राजामनुष्यपूर्वकस्य शालावाचिनः सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम् । संप्रति संघातवाचिनः सभाशब्दस्य क्लीबत्वमुच्यत इत्याह-संघातार्था या सभेति । सभाशब्द इत्यर्थः । विभाषा सेना । प्रथमार्थे षष्ठी । तत्पुरुष इत्यनुवृत्तं सेनादिभिर्विशेष्यते । तदन्तविधिः । तदाह-एतदन्त इति । प्रत्येकाभिप्रायमेकवचनम् । श्वनिशमिति । शुनो निशति विग्रहः । कृष्णचर्तुदशीत्याहुः । 'शुनश्चतुर्दश्यामुपवसतः पश्यामः' इति तिर्यगधिकरणे शाबरभाष्ये स्थितम् । दृढसेन इति । दृढा सेना यस्येति बहुव्रीहिः । तत्पुरुषत्वाभावाद् न क्लीबत्वविकल्पः । असेनेति । तत्पुरुषत्वेऽपि नसमासत्वान्न क्लीबत्वविकल्पः । परमसेनेति । कर्मगजपतिवन्नृपतिरपि राजविशेषस्तेनात्र नानुपपत्तिरिति । प्रशाला च । शालावाची संघातवाची च सभाशब्दस्तत्र राजामनुष्यपूर्वत्वे शालावाचिनः क्लीबत्वमुक्तम्। अनेन तु संघातवाचिनो विधीयत इत्याह-संघातार्थेति । विभाषा सेना । प्रथमार्थे षष्ठीति । सेनादिभिस्तत्पुरुषो विशेष्यते। विशेषणेन तदन्तविधिस्तदाह-एतदन्त इति । श्वनिशमिति । कृष्णचतुर्दशी। तस्यां किल केचिच्छ्वान उपवसन्ति । एतच्च शाबरभाष्ये तिर्यगधिकरणे स्पष्टम् । 'तत्पुरुष-' इत्याद्यधिकारसूत्रस्यात्रैव प्रयोजनम् , न तु 'संज्ञायां कन्थोशीनरेषु' इत्यादिपञ्चसूत्र्याम् । अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य च तत्रासंभवादित्याकरे स्थितम् । तथैव प्रत्युदाहरति--दृढसेन इत्यादि । ननु बहुव्रीहौ विशेष्यनिघ्नता न्याय्यैवेति किमनेन तत्पुरुषग्रहणेन । मैवम् , न्यायापेक्षया वचनस्य बलीयस्त्वात् । किं चासति तद्ग्रहणे द्वन्द्वे नपुंसकता स्यात्परवल्लिङ्गापवादत्वादस्य प्रकरणस्येति दिक् ॥ इति तत्पुरुषः॥ Page #132 -------------------------------------------------------------------------- ________________ [ १२६ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । अथ बहुव्रीहिसमासप्रकरणम् । १६ । ८२६ शेषो बहुव्रीहिः । (२-२-२३) अधिकारोऽयम् । 'द्वितीया चित-' ( सू ६८६ ) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः 1 ८३० अनेकमन्यपदार्थे । ( २-२-२४) अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । श्रप्रथमाविभक्त्यर्थे धारयत्वाद् न क्लीबत्वम् । ' तत्पुरुषोऽनञ्कर्मधारयः' इत्यधिकारस्य अत्रैव प्रयोजनमिति कैयटे प्रपञ्चितम् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां तत्पुरुषसमासप्रकरणम् । शेषो बहुव्रीहिः । त्रिकस्येति । विभक्तेरित्यर्थः । ननु 'द्वितीया श्रित- ' इति 'तृतीया तत्कृत -' इति 'चतुर्थी तदर्थ-' इति 'पञ्चमी भयेन' इति षष्ठी' इति 'सप्तमी शौण्डे : ' इति च द्वितीयादिविभक्तीनां षराणां समासो विहितः । विशेषणं विशेष्येणेत्यादिना तु प्रथमाया अपि समासो विहितः, अतः शेषविभक्तिदुर्लभेत्यत आह - विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रथमाविभक्तिं विशिष्य उच्चार्यविधानाभावात् समासविधिषु विशिष्यनिर्दिष्टद्वितीयादिविभक्तिषट् कापेक्षया शेषः प्रथमाविभक्तिरिति भावः । तदाह - प्रथमान्तमित्यर्थ इति । एतच्च भाष्ये स्पष्टम् । श्रनेकमन्यपदार्थे । प्रथमान्तमिति । शेषो बहुव्रीहिः । “शिष् श्रसर्वोपयोगे' कर्मणि घञ् । अत्र वृत्तिकृद् यत्रान्यसमासो नोक्तः स शेष इत्याह । येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिसंज्ञकः समासो न विहितः स शेष इत्यर्थ इति हस्दत्तो व्याख्यत् । एतच 'प्राक्कडारात्परं कार्यम्' इति पाठाभिप्रायेण बोध्यम् । श्रस्मिंस्तु पक्षे शेषाग्रहणाभावे उन्मत्तगङ्गमित्यत्र परत्वाद्बहुव्रीहिः स्यात् निरवकाशत्वाच्चाव्ययीभाव इत्युन्मत्तग्रङ्ग इत्याद्यनिष्टं पक्षे प्रसज्येत । ‘आकडारादेका-' इति पाठाभ्युपगमपत्रे त्वेकसंशाधिकारेणैवोन्मत्तगङ्गमित्यादिसिद्धेः शेषग्रहणं व्यर्थम् । निरवकाशतयाऽव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधात् । अतस्तत्रापि प्रयोजनमाह - द्वितीया श्रितेत्यादिनेति । शेषाधिकार - स्थव्रीहेरेव 'शेषाद्विभाषा' इति कप्प्रत्ययो नान्यस्माद्बहुव्रीहेरित्येतल्लाभार्थमपि शेषप्रहणमावश्यकमिति बोध्यम् । यस्य त्रिकस्येति । यद्यपि 'प्रादयो गताद्यर्थे प्रथमया' इत्युक्तम् । तथापि 'द्वितीया श्रितादिभिः' इतिवत् 'प्रथमा केनचित्सह समस्यते' इति Page #133 -------------------------------------------------------------------------- ________________ १३०] सिद्धान्तकौमुदी। सिद्धान्तक [बहुव्रीहिसमासबहुव्रीहिरिति समानाधिकरखानामिति च फलितम् । प्राप्तमुदकं यं स प्रासोदको शेषग्रहणानुवृत्तिलभ्यमिदंम् । एवं च सुप्सुपेति नानुवर्तते, प्रयोजनाभावात् । अनेकं सुबन्तमिति पाठेऽपि प्रथमान्तमित्यर्थः । अन्येति । उपस्थितप्रथमान्तातिरिक्वेत्यर्थः । एवं चपञ्चभिर्भुक्तमन्नं यस्य स पञ्चभुक्त इति बहुव्रीहिनिवृत्त्यर्थ 'बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम्' इति वार्तिकं यद्भाष्ये स्थितम् , यच्च वृष्टे देवे यो गतः स वृष्टदेव इति बहुव्रीहिनिवृत्त्यर्थम् 'अप्रथमाविभक्त्यर्थे बहुव्रीहिर्वक्तव्यः' इति वार्तिकम् , तदुभयमपि न कर्तव्यमित्याह-अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितमिति । शेषप्रहणादिति शेषः । शेषग्रहणात् प्रथमान्त इति लभ्यत इति हि भाष्यम् । पञ्चभिभुक्तमस्य इत्यत्र च समस्यमानपदयोरेकस्याप्रथमान्तत्वान्न बहुव्रीहिरिति फलितम् । प्रथमान्तातिरिक्तम्य पदस्यार्थे वर्तमानं समस्यते इत्यर्थाश्रयणाद् वृष्टे देवे गत इत्यत्रापि न बहुव्रीहिरिति फलितमिति भावः । तत्र द्वितीयार्थबहुव्रीहिमुदाहरति-प्राप्तमिति । 'गत्यकर्मक-' इति कर्तरि क्तः । नोक्तमित्यर्थः । वार्तिकता प्रथमयेत्युक्तावपि सूत्रकृता नोक्तमिति वा । प्रथमान्तमिति । काण्ठेकाल इत्यादिबहुव्रीहिस्तु ज्ञापकसाध्य इति भावः । अन्यस्य पदस्यार्थ इति । समस्यमानपदातिरिक्तस्य पदस्यार्थ इत्यर्थः। पदेन हि प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः कर्मकादिरभिधीयते । प्रथमान्तेन तु प्रातिपदिकार्थमात्रम् । यद्यपि त्रिकपक्षे संख्या प्रत्ययार्थः, तथापि तस्याः प्रकृत्यर्थ प्रति विशेषणत्वान्न प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः प्रथमान्तस्यास्ति । एवं च 'द्वितीयान्ताद्यर्थे' इति फलितम् । तदाह-अप्रथमाविभक्त्यर्थ इति । समानेति । एतच्च शेषग्रहणाल्लब्धम् । अनेकं किम् , बहूनामपि यथा स्यात् । एतच्च मूल एव स्फुटीभविष्यति । अनिज्विधौ केवलग्रहणं ज्ञापकीकृत्यानेकग्रहणमिह सुत्यजमिल्याहुः । अन्यग्रहणं किम् , बहुव्रीहितत्पुरुषयोर्विषयविभागो यथा विज्ञायेत, स्वपदार्ये हि सावकाशं तत्पुरुषं परत्वादन्यपदार्थे बहुव्रीहिर्वाधते । असति त्वन्यग्रहणे कण्ठेकाल इत्यादौ व्यधिकरणपदे बहूनां समुदाये च सावकाशं बहुव्रीहिं स्वपदार्थ इवान्यपदार्थेऽपि नीलोत्पलं सर इत्यादी समानाधिकरणे तत्पुरुषो बाधेत । पदग्रहणं किम् , वाक्याथै मा भूत् । प्राहवती नदी । इह मा नासीरिति वाक्यार्थो गम्यते । अर्थग्रहणं किम् , यावता पदेन पदान्तरस्य वृत्त्यसंभवादेव पदार्थे भविष्यति । अत्राहुः-प्रकृत्यर्थविशिष्टप्रत्ययार्थाभिधानं यथा स्यात् । अन्यथा प्राधान्यात् प्रत्ययार्थमात्रं गृह्यत । इष्टापत्तौ तु चित्रगुरित्येतत् षष्ठ्यर्थसंबन्धमात्रपरं स्यात् । तथा च देवदत्तादेः सामानाधिकरण्यं न स्यादिति । अत्रेदमवधेयम्-'सुपा-' इत्येतनानुवर्तते । तेनावाने प्रथमान्तं मिथः Page #134 -------------------------------------------------------------------------- ________________ प्रकरणम् १५] बालमनोरमा-तस्वबोधिनीसहिता। [१३१ प्रामः । उढरपोऽनड्वान् । उपहनकर खः । उद्धृतोदना स्थानी। पीताम्बरो हरिः । वीरपुरुषको प्रामः । प्रथमार्थे तु न। वृष्टे देवे गतः । म्यधिकरणानामपि न । पञ्चमि नमस्य । 'प्रादिम्पो धातुजस्य वाच्यो वा चोत्तरपदलोपः (वा १३६०) अपवितपर्णः प्रपर्णः 'नमोऽस्त्यर्थानां वाच्यो वा छोत्तरपदलोपः' अत्र विग्रहवाक्ये प्रामकर्मकप्राप्तिकर्तृ उदकमित्येवं प्रामस्य विशेषणतया, विशेष्यत्वेन तु प्राप्तस्य उदकस्य बोधः । समासे तु एका भावमहिना उदककर्तृकप्राप्तिकर्मीभूतो ग्राम इत्येवं प्रामस्य विशष्यतया, तद्विशेषणतया तु प्राप्तस्य उदकस्य बोधः । एवमुत्तरत्रापि विशेषणविशेष्यभावव्यत्यासो ज्ञेयः। अथ तृतीयार्थबहुव्रीहिमुदाहरतिऊढरथोऽनड्वानिति । ऊढो रथो येनेति विप्रहः । अथ चतुर्थ्यर्थबहुव्रीहिमुदाहरति-उपहृतपशू रुद्र इति । उपहृतः पशुः यस्मै इति विग्रहः । अथ पञ्चम्यर्थबहुव्रीहिमुदाहरति--उद्धृतौदना स्थालीति । उद्धृत ओदनो यस्या इति बहुव्रीहिः । अथ षष्ठ्यर्थबहुव्रीहिमुदाहरति-पीताम्बरो हरिरिति । पीतमम्बरं यस्येति विग्रहः । अथ सप्तम्यर्थबहुव्रीहिमुदाहरति-वीरपुरुषको ग्राम इति । वीराः पुरुषा यस्मिनिति विग्रहः । 'शेषाद्विभाषा' इति कप् । अत्र कर्मादीनां समासेनाभिहितत्वात् प्रथमैव । प्रथमार्थे तु नेति । अन्यपदार्थशब्देन प्रथमान्तातिरिक्तद्वितीयाद्यन्तार्थस्यैव 'वेवक्षितत्वादिति भावः । व्यधिकरणानामपि नेति । अनेकं प्रथमान्तमित्युक्तरिति भावः । प्रादिभ्यः । प्रादिभ्यः परं यद्धातुजप्रकृतिक प्रथमान्तं तस्य अन्यन प्रथ-नान्तेन बहुव्रीहिर्वाच्यः । तत्र बहुव्रीही प्रादिभ्यः परस्य उत्तरपदस्य धातुजस्य लोपश्च विकल्पेन वाच्य इत्यर्थः । अत्र बहुव्रीहिरित्यनुवादः, लोपस्यैव विधिः । प्रपतितपर्ण इति । प्रकृष्टं पतितं प्रपतितम्। 'प्रादये गताद्यर्थे-' इति समासः । प्रपतितं पर्ण यस्मादिति विग्रहः । प्रपर्ण इति । प्रपतितेति पूर्वपदे धातुजस्य उत्तरपदस्य लोपे रूपम् । नमोऽस्त्यर्थानां । नमः परेषामस्त्यर्थवाचिना सुबन्तानां बहुव्रीहिर्वाच्यः । तत्रास्त्यर्थवाचिनामुत्तरपदभूताना लोपश्च वा वक्तव्य समस्यत इति पर्यवसन्नोऽर्थः । एवं च द्विपदबहुव्रीहिरबाध एव । ये तु 'सुप्सुपा' इत्यनुवर्त्य 'अनेकं सुबन्तं सुपा सह' इति व्याचक्षते तेषां तु द्विपदबहुव्रीहिर्दुर्लभ एवेति । द्वितीयादिविभक्त्यर्थे क्रमेणोदाहरति-प्राप्तमित्यादि । ग्रामकर्मकप्राप्तिकर्तृ उदकमिति विग्रहार्थः । उदककर्तृकप्राप्तिकर्मेति समासाथैः । विग्रहवाक्ये स इति प्रयोगे तु तस्याप्ययमेवार्थः । अनडुत्कर्तृकोद्वहनकर्मीभूतो रथः । रथकर्मकोद्वहनकर्ता तु समासार्थः । रुद्रसंप्रदानकोपहरणकर्मीभूतः पशुः, पशुकर्मकोपहरणसंप्रदानं तु समासार्थः । स्थाल्यवधिकोद्धरणकर्म ओदनः । प्रोदनकर्मकोद्धरणावधिः स्थाली समसार्थ इत्यादि। Page #135 -------------------------------------------------------------------------- ________________ १३२ ] सिद्धान्तकौमुदी | [ बहुव्रीहिसमास ( वा १३६१) अविद्यमानपुत्रः अपुत्रः । 'अव्ययानां च' उच्चैर्मुखः । 'सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च' । सप्तम्यन्तम् उपमानं च पूर्वपदं यस्य तस्य पदान्तरेण समास उत्तरपदलोपश्च भवतीत्यर्थः । कण्ठेस्पः कालो यस्य स कण्ठेकालः 1 इत्यर्थः । अविद्यमानपुत्र इति । न विद्यमान इति नञ्समासः । नञो नलोपः । अविद्यमानः पुत्रो यस्येति विग्रहः । श्रपुत्र इति । अस्त्यर्थकविद्यमानशब्दस्य लोपे रूपम् । अत्रापि बहुव्रीहिरित्यनुवादः । श्रव्ययानां चेति । बहुव्रीहिर्वाच्य इति शेषः । उच्चैर्मुख इति । उच्चैरित्यस्याधिकरणशक्तिप्रधानतया सप्तम्यन्तत्वेन प्रथमान्तत्वाभावादप्राप्ते बहुव्रीहौ वचनम् । सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्चेति । सप्तम्यन्तोपमानसहिते पूर्वपदे यस्य तत् सप्तम्युपमानपूर्वपदम् तस्य समस्तपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । समस्तपदात्मके पूर्वपदे यदुत्तरपदं तस्य लोपश्च वक्तव्य इत्यर्थः । तत्र सप्तम्यन्तसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरतिकण्ठेस्थः कालो यस्य स कण्ठेकाल इति । 'सुपि स्थः' इति कः । कण्ठे इह कर्मादीनां समासेनाभिहितत्वात्प्रथमा । ननु वाक्ये धात्वर्थं प्रति क्तप्रत्ययार्थस्य कर्तुः कर्मणो वा विशेष्यत्वाद् वृत्तावपि तथैवोचितेति प्राप्तोदकोढरथादौ उदककर्तृकप्राप्तीत्यादिवर्णनं तु न युज्यत इति चेत् । उच्यते - एकार्थीभावादिभिर्वृत्तौ विशिष्टार्थविषयकं शक्त्यन्तरमेव स्वीक्रियते, न त्ववयवशक्तिः इति नानुपपत्तिः । व्यपेक्षावादिभिस्त्वगत्या भिन्नैव व्युत्पत्तिः स्वीकार्या । किं च कर्तृविशिष्ट प्राप्तेः पदार्थत्वे तस्यैव नामार्थत्वादुदकस्य तदभेदो वाच्यः, स च बाधितः, न हि कर्तृविशिष्टा प्राप्तिरुदकमिति संभवति । श्रतएव 'बहूनां वृत्तिधर्माणां वचनैरेव साधने स्यान्महद्गौरवम्' इत्यादिना समर्थसूत्रे एकार्थीभावपक्ष एव प्रबल इत्यवोचाम । प्रथमार्थे तु नेति । शेषपदेन वा अन्यपदार्थ इत्यनेन वा अतिप्रसङ्गवारणाद् 'प्रथमाविभक्त्यर्थे' इति वचनं न कर्तव्यमिति भावः । व्यधिकरणानामित्यादि । इह शेषपदेनैव वारितोऽतिप्रसङ्ग इति 'समानाधिकरणानां बहुव्रीहिः' इत्यपि न कर्तव्यमिति भावः । ' यत्रान्यसमासो नोक्तः स शेषः' इति वृत्तिकारादीनां मते तु 'प्रथमान्तानामेव बहुव्रीहिः' इत्यलाभात्कर्तव्यमेवेदं वचनमिति बोध्यम् । प्रादिभ्य इति । प्रादिभ्यः परं यद्धातुजं तदन्तस्य पदान्तरेण बहुव्रीहिर्व्याख्येय इति सूत्रसिद्धानुवादः । वा चेति । इदं तु वाचनिकम् । पूर्वपदान्तर्गतस्योत्तरपदस्य धातुजस्य लोपो वाच्य इत्यर्थः । एतच्च प्रादीनामेव वृत्तौ विशिष्टार्थवृत्तितामाश्रित्य सुत्यजम् । नञोऽस्त्यर्थानामिति । नमः परेषामस्त्यर्थवाचिनां पदान्तरेण बहुव्रीहिर्व्याख्येयः अस्त्यर्थवाचिनां लोप १ अव्ययानामित्यारभ्य अस्तितीरादयश्चेत्येतत्पर्यन्तः पाठो बहुत्र नोपलभ्यते । , Page #136 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा सत्त्वबोधिनीसहिता। [१३३ उष्ट्रमुखमिव मुखं यस्य स उमुखः । 'सहातविकारषष्ठ्याश्नोत्तरपदलोपश्च' । केशाना सनातरचूडा यस्य स केशचूना, सुवर्णस्य विकारः अलङ्कारो यस्य स सुवर्णावहारः । 'अस्तिषीरादयम' । भखीति विभक्तिप्रतिरूपकमव्ययम् । अस्तितीरा गौः । ८३१ लियाः पुंवाषितपुंस्कादनूङ् समानाधिकरणे लियामपूरणीप्रियादिषु । (६-३-३४) भाषितपुंस्कादनूङ् ऊडोऽभावोतिष्ठतीति कण्ठेस्थः । उपपदसमासः । 'श्रमूर्धमस्तकात्-' इति सप्तम्या अलुक् । कण्ठस्थ इति समस्तपदम् । तस्य कालशब्देन बहुव्रीहिरित्यनुवादः । सुपो लुक् । तत्र कण्ठस्थत्येतद्बहुव्रीहेः पूर्वपदं सप्तम्यन्तपदसहितं तस्मिन् यदुत्तरपदं स्थेत्येतत् तस्य लोपो वाचनिकः । कण्ठेकाल इति सप्तम्यन्तपदघटितसमासगर्भो बहुव्रीहिः । तदवयवभूतसप्तम्याः 'अमूर्धमस्तकात्-' इत्यलुक् । अथ उपमानसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति-उष्टमुखमिव मुखं यस्य स उष्टमुख इति । उष्ट्रस्य मुखमिवेति विग्रहे षष्टीतत्पुरुषः । मुखशब्दो मुखसदृशे लाक्षणिक इति सूचयितुमिव. शब्दः । उष्ट्रमुखमिव मुखं यस्येति विग्रहे बहुव्रीहिरित्यनुवादः। तत्र उष्ट्रमुखेत्येतद्बहुब्रीहेः पूर्वपदं तस्मिन् उत्तरपदस्य मुखशब्दस्य लोपो वाचनिकः । संघातविकारषष्ट्याश्चोत्तरपदलोपश्चेति । षष्ठ्यन्तात्परस्य उत्तरपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । षष्ठ्यन्तादुत्तरपदस्य लोपश्च । केशानां संघातश्चूडा यस्य स केशचूड इति । संघातशब्दस्य लोपे रूपम् । सुवर्णस्य विकारोऽलंकारो यस्य स सुवर्णालंकार इति । अत्र विकारशब्दस्य उत्तरपदस्य लोपे रूपम् । अस्तिक्षीरादयश्चेति । अस्तिक्षीरादयो बहुव्रीहावुपसंख्येया इत्यर्थः । अस्तिक्षीरा गौरित्यत्र अस्तीत्यस्य तिङन्ततया प्रथमाविभक्त्यन्तत्वाभावादप्राप्ते बहुव्रीहाविदं । वचनम् । वस्तुतस्तु वचनमिदं नारब्धव्यमित्याह-अस्तीति विभक्तिप्रतिरूपकमव्ययमिति । विभक्तिप्रतिरूपकत्वेन निपातितत्वादस्तीति 'स्वरादिनिपातमव्ययम्' इत्यव्ययं विद्यमानार्थकम् । ततः सोः 'अव्ययादाप्सुपः' इति लुकि प्रत्ययलक्षणेन प्रथमान्तत्वादेव सिद्धेरिदं वचनं न कर्तव्यमिति भावः । तदुक्तं भाष्ये-'अस्विक्षीरादिवचनं न वाव्ययत्वात्' इति । लियाः पुंवत् । भाषितपुंस्कादनूडिति समस्तमेकपदं स्त्रिया इति षष्ठ्यन्तस्य विशेषणमित्यभिप्रेत्य व्याचष्टे-भाषितपुंस्कादिति । अनूङित्यस्य व्याख्यानम्-ऊकोऽभाव इति । अर्थाभावेऽव्ययीभावः, नञ्तत्पुरुषो वा । भाषितपुंस्कादिति दिग्योगे पञ्चमी । पर इति प्रथमान्तमध्याहार्यम् । तथा च भाषितपुंस्कात् परः अनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति । ननु समासे सति इत्यर्थः । अस्त्यर्थानां किम् , अनुपनीतपुत्रः । नमः किम् , निर्विद्यमानपुत्रः । Page #137 -------------------------------------------------------------------------- ________________ - - १३४ ] सिद्धान्तकौमुदी। [ बहुव्रीहिसमासऽस्यामिति बहुव्रीहिः । निपातनात्पशाम्या अनुरु, षष्ठ्याच लुक् । तुल्ये प्रवृत्ति निमिचे यदुक्रापुंस्कं तसात्पर उडोऽभावो यत्र तथाभूतस्य श्रीवाचकस्य शब्दस्य वाचकसेव स्पं स्वासमानाधिकरणे मीलिङ्ग उत्तरपदे, न तु पूरण्या प्रियादौ पञ्चम्या लुकप्रसझे इत्यत आह-निपातनात् पञ्चम्या अलुगिति । इदमुपलक्षणम् । निपातनाद् अप्रथमान्तस्यापि बहुव्रीहिः परशब्दलोपश्चेत्यपि बोध्यम् । यद्वा, अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमी । नन्वेवमपि निया इति षष्ठ्यन्तस्य 'भाषितपुंस्कादनूल' इति यदि विशेषणं स्यात् , तर्हि भाषितपुंस्कादनूठ इति षष्ठी श्रूयेतेत्यत आह-षष्ट्याश्च लुगिति । निपातना. दित्यनुषज्यते । भाषितः पुमान् येन तद्भाषितपुंस्कम् , तदस्यास्तीति अर्शायन् । पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् । 'तृतीयादिषु भाषितपुंस्कम्' इत्यत्र व्याख्यातमेतत् । तदाह-तुल्ये प्रवृत्तिनिमित्त इति । स्त्रीवाचकस्य शब्दस्येति । स्त्रीलिङ्गस्येत्यर्थः । स्त्रिया इति षष्ठ्यन्तं न स्त्री पत्ययपरमिति भावः । नन्विह 'सुपा' इत्यननुवृत्तावपि सुबित्येतदनुवर्तते । तथा चास्तिक्षीरेति प्रयोगो दुर्लभ इत्याशय तं साधयति-विभक्तिप्रतिरूपकमिति । स्त्रियाः पंवत । निपातनादिति । एतच पूर्वत्रापि योज्यम् । अन्यथा व्यधिकरणानां बहुव्रीहिः खरसतो न सिघ्येत् । लुगिति । अनूदिति प्रथमान्तम् । षष्ठ्यर्थे प्रथमेति हरदत्तः। एवं च सूत्र केषांचिद् 'अनूलः समानाधिकरणे' इति षष्ठ्यन्तपाठोऽसांप्रदायिक इति भावः । तुल्य इत्यादि । 'भाषितः पुमान् यस्मिन्' इत्यादिव्याख्यानादयमर्थो लभ्यत इति 'तृतीयादिषु भाषितपुंस्कम्-' इत्यत्रोपपादितम् । यद्यत्र 'भाषितः पुमान्येन तद्भाषितपुंस्कम्' इत्युच्येत तर्हि कुटीभार्यः, द्रोणीमार्य इत्यादावतिप्रसङ्गः स्यात् । भवति हि कुटशब्दो घटे पुंल्लिो, गेहे तु स्त्रीलिङ्गः । द्रोणशन्दस्तु परिमाणविशेषे पुँल्लिङ्गो, गवादन्या तु स्त्रीलिङ्ग इति । अकोऽभावो यति । यदि तु ऊडन्योऽनूडिति पर्युदासः स्यात् तर्हि टाबाद्यन्तमेव गृह्यत । ततः किमिति चेत् , दरदोऽपत्यं दारदः । 'धम्मगध-' इत्यणा, तस्य बियाम् 'अतश्च' इति लुक, दरद् । सा चासौ वृन्दारिका च दारदवृन्दारिकेल्यादि न सिध्येत् । न पत्र दर्शनीया भार्या यस्य स दर्शनीयभार्य इत्यादाविव स्त्रीप्रत्ययः कश्चिदस्तीति भावः । ननु 'न कोपधाया ऊच' इत्येव सूच्यतामिति चेत् , न । बाधकबाधनायेंन 'पुंवत्कर्मधारय-' इत्यनेन वामोरूभार्येति कर्मधारये पुंवद्रावापत्तेः । पृथकप्रतिषेधसामर्थ्यात्सिदान्ते तु न दोषः । निया इत्यस्य श्रीप्रत्ययपरता वारयति-स्त्रीवाचकस्येति । 'बीप्रत्ययस्य पुंवद्भावः' इत्युक्ते तु श्रीप्रत्ययलोप इत्येवार्थः पर्यवस्पतीति दारदवृन्दारिकेति न सिध्येत् । किं च पटुमार्य इत्यत्र Page #138 -------------------------------------------------------------------------- ________________ प्रकरणम् १६] बालमनोरमा तत्त्वबोधिनीसहिता। [१३५ च परतः । 'गोलियोः- (स १५६) इति इस्वः । चित्रा गायो यस्खेति लौकिकविग्रहे 'चित्रा अस् गो प्रस्' इत्यनौकिकविग्रहे चित्रगुः । रूपवनार्यः। चित्रा पुवदिति रूपातिदेशः पुंस इव पुंवदिति षष्ठ्यन्ताद्वतिः । तदाह-पुंवाचकस्येव रूपमिति । स्त्रियामिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं किन्तु स्त्रीलिङ्गपरम् । तच 'अलुगुत्तरपदे' इत्यधिकृते उत्तरपदेऽन्वेति । तदाह-स्त्रीलिङ्गे उत्तरपद इति । अपूरणीप्रियादिष्वित्येतद्याचष्टे-न तु पूरण्यां प्रियादी च परत इति । पूरणीति स्त्रीलिङ्गनिर्देशात् स्त्रीलिः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयम् । तुल्ये प्रवृत्तिनिमित्ते इति किम् , कुटीभार्यः । अत्र पुंवत्त्वं न भवति, कुटीशब्दो घटे पुल्लिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदाद् । स्त्रीप्रत्ययः पुवत्स्यादित्युक्त तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत् । ततश्च पट्वी भार्या यस्य स पटुभार्य इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लापे तस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वादुकारस्य यण स्यात् । हस्ख इति । चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया, विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति चित्रगोशब्दे ओकारस्य 'गोत्रियोः' इत्युकारो ह्रख इत्यर्थः । ननु चित्रा गाव इति लौकिकसमासाभ्युपगमे सुपो लुकः प्राक् चित्रा अस् इत्यत्र पूर्वसवर्णदीर्घ गो अस् इत्यत्र पूर्वरूप च एकादेशे कृते तस्य परादिवत्त्वेन आसो लुकि चित्रशब्दे अकारो न श्रयेत चित्रगुरित्यत्र उकारश्च न श्रयेत, पूर्वान्तवत्त्वे तु परिशिष्टस्य सकारमात्रस्य सुप्वाभावाल्लुक् न स्यादित्यत आह-चित्रा अस् इति । गोशन्दस्य स्त्रीलिङ्गत्वात् तद्विशेषणत्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः । 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या 'अन्तरङ्गानपि विधीन् बहिरको लुग्बाधते' इति न्यायात् प्रागेव पूर्वसवर्णदीर्थात् सुन्लुगिति भावः । चित्रगुरिति । बहुव्रीहौ हखत्वे चित्राशब्दस्य पुंवत्त्वमिति भावः । रूपवद्भार्य इति । रूपवती भार्या यस्येति विग्रहः । अत्र उपसर्जनहखः। उत्तरपदनिमित्ताया डीषो निवृत्तेः 'अचः परस्मिन्-' इति स्थानिवद्रायण स्यात् । अपि च वतण्डस्यापत्यं स्त्री क्त्तण्डी 'वतण्डाच' इति यम्, 'लुक स्त्रियाम्' इति तस्य लुक्, शारिवादित्वान् डीन् , वतण्डी चासौ वृन्दारिका च वातएव्यकृन्दारिका । अत्र पुंवद्भावेन डीनो निवृत्तावपि अर्थगतस्य स्त्रीत्वस्यानिवृत्तत्वाद् 'लुक् मियाम्' इति यत्रो लुक् प्रसज्येतेति भावः । ह्रस्व इति । अनेकमिति प्रथमानिर्दिष्टत्वात् 'प्रथमानिर्दिष्टम्-' इति “एकविभक्ति च-' इति वा गोशब्दस्योपसर्जनत्वादिति भावः । चित्रा असिति । 'अन्तरङ्गानपि-' इति न्यायादिह पूर्व सवर्णदीर्थो न प्रवर्तते । अन्यथा एकादेशस्य परादित्वेन सुपो लुकि चित्रगुरित्यत्र भकारो न लभ्येतेति भावः। Page #139 -------------------------------------------------------------------------- ________________ १३६ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासजरती गौर्यस्येति विग्रहे भनेकोतर्बहूनामपि बहुव्रीहिः । अत्र केचित्-चित्राजरतीगुः, जरतीचित्रागुर्वा । एवं दीर्वातन्वीजङ्गः, तन्वीदी_जयः । त्रिपदे बहुव्रीही प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् पूर्वपदस्वाभावात् । उत्तरपदशग्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशग्दस्तु प्रथमावयवे रूढ इति वदन्ति । वस्तुतस्तु नेह पूर्वपदमातिप्यते । 'मानङ् ऋतः- (सू ६२१) इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव । चित्राजरद्गुः रूपवतीशब्दस्य पुंवत्त्वम् । ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः, 'सुप् सुपा' इत्येकत्वस्य विवक्षितत्वादित्यत आह–अनेकोक्लेरिति । शेषग्रहणात् प्रथमान्तमिति लब्धम् । एकस्य प्रथमान्तस्य समासो नोपपद्यते, समास इत्यन्वर्थसंज्ञाविज्ञानात् । ततश्चार्थादनेकं प्रथमान्तमिति सिद्धे पुनरनेकग्रहणाद् द्विबहूनां प्रथमान्तानां बहुव्रीहिरिति भाष्ये स्पष्टमिति भावः । अत्रेति । त्रिपदबहुव्रीहावित्यर्थः । चित्राजरतीगुः, जरतीचित्रागुर्वेति । गां प्रति चित्रात्वस्य जरतीत्वस्य च विशेषणत्वाविशेषाद् अन्यतरस्य 'सप्तमीविशेषणे बहुव्रीहौ' इति पूर्वनिपात इति भावः । एवं दीर्घेति । दीर्घ तन्न्यौ जले यस्येति विग्रहः । उभयत्रापि पूर्वमध्यपदयोः पुंवत्त्वमाशझ्याह-त्रिपद इति । उत्तरपदस्येति । समासचरमावयवपदस्य उत्तरपदत्वात् तृतीयमेव पदमत्रोत्तरपदं वाच्यम् । तत्परकत्वं च मध्यमपदस्यैव, न तु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधानादित्यर्थः । ननु तर्हि मध्यमपदस्य पुंवत्त्वं दुर्वारम् , उत्तरपदपरकत्वसत्त्वादित्यत आह-द्वितीयमपि न पुंवदिति । पूर्वपदत्वाभावादिति । उत्तरपदेन पूर्वपदमाक्षेपालभ्यते। समासप्रथमावयवपदमेव पूर्वपदम् । न तु मध्यमावयवपदमपीति भावः । ननु मध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति । मध्यमपदस्य च प्रथमपदापेक्षया उत्तरपदत्वमस्तीत्यत आहउत्तरपदशब्दोहीति । रूढ इति । वैयाकरणसमयसिद्ध इत्यर्थः । इति वदन्तीति । एवप्रकारेण केचिद्वदन्तीत्यन्वयः । तत्र प्रथमपदस्य त्रिपदबहुव्रीही नास्ति पुंवत्त्वमिति युज्यते, उत्तरपदपरकत्वाभावात् । मध्यमपदस्य तु पूर्वपदत्वाभावेऽप्यत्येव पुंवत्त्वम्, 'स्त्रियाः पुंवत्' इत्यत्र तु पूर्वपदस्याश्रवणाद् अनुवृत्त्यभावाञ्च, किन्तु उत्तरपदे इत्यनेन पूर्वपदस्य पुंवत्त्वमित्यर्थाद् गम्यत इति वक्तव्यम् । तदपि न सम्भवतीत्यत आह-नेह पूर्वपदमाक्षिप्यत इति । इह स्त्रियाः पुंवत्-' इत्यत्र उत्तरपदे इत्यनुवृत्तेन पूर्वपदं नाक्षिप्यते, नार्थागम्यत इत्यर्थः । कुत इत्यत आहनेहेति । अत्रैव सूत्रे पट्वीट्टयौ भार्ये अस्येति द्वन्द्वगर्भबहुव्रीहौ पट्वीमृदुभार्य इति भाष्योदाहरणादिति भावः । आनकिति । तथा च ‘समर्थ-' सूत्रे भाष्ये होतृपोतृ. Page #140 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३७ इत्यादि । अत एव 'चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चिनाजरद्गुः' इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरचित्रगुः । कर्मधारयोत्तरपदे तु आनवृत्त इत्यत्र यथेति । ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः । तत्र चतुर्णा द्वन्द्वे 'होतृपोतृनेष्टोद्गातारः' इत्युपान्त्यस्य नेष्टुरानडुदाहृतः 'समर्थः पदविधिः' इत्यत्र भाष्ये । तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरुपान्त्यस्य पूर्वपदत्वाभावाद् आनङ् नोपपद्येत । तस्मानावश्यम् उत्तरपदे विहितं कार्य पूर्वपदस्यैवेति नियम इत्यर्थः । तेनेति । पूर्वपदानाक्षेपेणेत्यर्थः । उपान्त्यस्येति । अन्त्यस्य समीपमुपान्त्यम् । चरमावयवसमीपवर्तिनो मध्यमस्येत्यर्थः । पुंवदेवेति । रूपमिति शेषः । तदेव दर्शयति-चित्राजरदगुरिति । अत्र चित्राशब्दस्य न पुंवत्त्वम् । मध्यमेन व्यवधानाद् उत्तरपदपर कत्वाभावाच्चेति भावः । इत्यादीति । जरतीचित्रगुः, तन्वीदीर्घजङ्घः, दीर्घातनुजङ्घः । ननु ‘ानकृतः-' इत्यत्र 'होतृपोतृनष्टोद्गातारः' इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः । 'स्त्रियाः पुंवत्-' इति सूत्रे तदनाक्षेपे किं प्रमाणमित्यत आह–अत एवेति । 'स्त्रियाः पुंवत्-' इत्यत्रापि पूर्वपदानाक्षेपादित्यर्थः । द्वन्द्वगर्भेऽपीत्यनन्तरं बहुव्रीहाविति शेषः । भाष्यमिति । यद्यपि कृत्स्नभाष्यपरिशोधनायां चित्राजरद्गुरित्युदाहरणं भाष्ये क्वापि न दृश्यते, तथापि चित्राजरद्गुरितीत्यनन्तरं प्रयोगमिति शेषः । भाष्यमित्यस्य पट्वीमृदुभार्य इति प्रकृतसूत्रस्थभाष्यमित्यर्थः । सूचयतीति शेषः । 'स्त्रियाः पुंवत्-' इति प्रकृतसूत्रभाष्ये हि पठ्यौ मृयौ भार्ये यस्येति द्वन्द्वगर्भबहुव्रीहौ पट्वीमृदुभार्य इत्युदाहृतम् । तत्र पट्वीमृदुशब्दात्मको द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्त्वम् , द्वन्द्वस्य' परवल्लिातानियमात् । तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुंवत्त्वम् । मध्यमपदेन व्यवधानादुत्तरपदपरकत्वाभावात् । मध्यमपदस्यानुत्तरपदत्वादसमानाधिकरणत्वाच न तस्मिन्परे पुंवत्त्वसंभवः । मृद्वीशब्दस्य तु केंवलस्य भाषितपुंस्कत्वाद् उत्तरपदपरकत्वाच्च पुंवत्त्वमिति तदाशयः । 'स्त्रियाः पुंवत्-' इत्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वाभावेन पुंवत्त्वाप्रवृत्तेः तदसंगतिः स्पष्टैव । ततश्च पट्वीमृदुभार्य इति भाष्यं चित्राजरद्गुरिति प्रयोग गमयतीत्यर्थः । कर्मधारयेति । जरती चासौ चित्रा चेति कर्मधारयः । 'पुंवत्कर्मधारय-' इति जरतोशब्दस्य पुंवत्त्वाद् ङीपो निवृत्तिः । ततश्च जरचित्रा गौर्यस्येति कर्मधारयपूर्वपदत्वे बहुव्रीहौ पूर्वपदस्य जरचित्राशब्दस्य स्त्रियाः पुंवत्-' इति पुंवत्त्वात् टापो निवृत्तिरिति भावः । कर्मधारयोत्तरेति । जरती नेष्टोद्गातार इत्यत्र चतुर्णा द्वन्द्वे तृतीयस्यानङ् उदाहृतः । पूर्वपदाक्षेपे तु सन्न सिध्येत् । न त्यत्र नेष्टा पूर्वपदम् , होतुरेव पूर्वपदत्वादिति भावः। अतएवेति । Page #141 -------------------------------------------------------------------------- ________________ १३८ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासचित्रजरद्वीकः। नियाः किम्-ग्रामकि कुलं रष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात् किम्-गङ्गाभार्यः । अनुङ् किम्-वामोरूभार्यः । समानाधिकरणे किम्-कल्याएया माता कल्याणीमाता । त्रियां किम्-कल्याणी प्रधानं यस्य स कल्याणीप्रधानः । पूरण्यां तु-८३२ अप्पूरणीप्रमाण्योः । (५-४-११६.) पूरणार्थप्रत्ययान्तं चासौ गौश्चेति कर्मधारये 'गोरतद्धितलुकि' इति टचि प्रवाशे 'पुंवत्कर्मधारय-' इति जरतीशब्दस्य पुंवत्त्वे डीपो निवृत्तौ टित्त्वाद् डीपि जरद्र्व शब्दः । ततश्चित्रा जरगवी यस्येति कर्मधारयोत्तरपदके बहुव्रीही 'नतश्च' इति कपि चित्राशब्दस्य 'स्त्रियाः पुंवत्-' इति पुंवत्त्वे चित्रजरगवीक इति रूपमित्यर्थः । स्त्रियाः किमिति । षष्ठ्यन्तस्य प्रश्नः । ग्रामणि कुलं दृष्टिरस्य ग्रामणिपिरिति । ग्रामणीशब्दस्य नपुंसकत्वे 'हस्वो नपुंसके-' इति ह्रस्वे प्रामणिशब्द इदन्तः । कुलशब्दो नपुंसकस्फोरणार्थः । दृष्टिशब्देन नेत्रस्थानापन्नं विवक्षितम् । प्रामणि दृष्टिरस्येत्येव विग्रहः । 'स्त्रियाः' इत्यभावे ग्रामणीशब्दस्य पुंवत्त्वे नपुंसकहखनिवृत्तौ प्रामणीकुलमिति स्यादिति भावः । गङ्गाभार्य इति । अत्र गङ्गाशन्दस्य नित्यत्रीलितया भाषितपुंस्कत्वाभावाद् न पुंवत्त्वमिति भावः । वामोरूभार्य इति । वामौ सुन्दरौ ऊरू यस्या इति बहुव्रीहिः । 'संहितशफलक्षणवामादेश्व' इत्यूत् । तदन्तस्य पुंवत्त्वे ऊगे निवृत्तौ वामोरुभार्य इति पूर्वपदमुदन्तमेव स्यादिति भावः । त्रियां किमिति । सप्तम्यन्तस्य प्रश्नः । कल्याणी प्रधानं यस्य स कल्याणीप्रधान इति । अत्र प्रधानशब्दस्य नित्यनपुंसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वाभावात्तस्मिन्परे पुंवत्त्वं नेति भावः । पूरण्यां त्विति । पुंवत्त्वनिषेधोदाहरणे विशेषो वक्ष्यत इति शेषः । अप्पूरणी । अबिति छेदः । 'बहुव्रीही सक्थ्यक्ष्णोः' इत्यतो बहुव्रीहावित्यनुवृत्तं पूरणीप्रमाणीभ्यां विशेष्यते, तदन्तविधिः, स्त्रीलिङ्गनिर्देपूर्वपदानाक्षेपादेवेत्यर्थः । चित्राजरदिति । द्वन्द्वान्तर्गतजरच्छन्दस्योत्तरपदत्वेऽप्यसामानाधिकरण्यान्न टापो निवृत्तिः । न चैवमपि द्वन्द्वात्मकस्म पूर्वपदस्य समानाधिकरणोत्तरपदपरत्वात्पुंवदावे टानिवृत्तिर्दुवरिति वाच्यम् । द्वन्द्वान्तर्गतचित्रजरच्छब्दयोः स्त्रीप्रत्ययप्रकृत्योः प्रत्येकं भाषितपुस्कत्वेऽपि द्वन्द्वात्मकस्य पूर्वपदस्यातथात्वात् । द्वयोरपीति । पूर्वपदान्तर्गतमुत्तरपदमाश्रित्य प्रथमस्यापि पुवद्भाव इति भावः । जरश्चित्रेति । 'पूर्वकालैक-' इति समासः । लिङ्गविशिष्टपरिभाषया जरग्रहणन जरतीशब्दस्यापि ग्रहणात् । चित्रजरद्रवीक इति । जरती चासौ गौश्च जरद्वी, 'गोरतद्धित-' इति टचि टित्वान् डीप् । चित्रा जरद्वी यस्येति बहुव्रीही 'नवृतश्च' इति वक्ष्यमाणः कप्। वामोरुमाये इति । 'संहितशफलक्षण Page #142 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तस्वबोधिनीसहिता। [१३६ यस्थीलिङ्गं तदन्ताप्रमाण्यम्ताव बहुव्रीहेरम् स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपत्रमा राजयः । बी प्रमापी यस्य स चीप्रमाणः । 'पुंवडावप्रतिषेधोऽप्रत्ययम प्रधानपरण्यामेव' (पा ३३१६-१९१०)। रात्रिः शात् पूरणप्रत्ययान्तं स्त्रीलिङ्गमिह गृह्यते। तदाह-पूरणार्थेत्यादिना। अपस्यादिति। समासान्तस्तद्धित इत्यपि बोध्यम् । पश्चमीति । पञ्चानां पूरणीत्यर्थः । 'तस्य पूरणे डट्' 'नान्तादसंख्यादेः-' इति तस्य मडागमः । टित्वाद् डीप । कल्याणीपञ्चमा रात्रय इति । इह बहुव्रीही कृते पञ्चमीशब्दे पूरणार्थप्रत्ययान्ते परे कल्याणीशब्दस्य पुंवत्त्वनिषेधः, अप् समासान्तस्तद्धितः, टाप् , 'यस्येति च' इतीकारलोपः । ननु पञ्चमी रात्रिरन्यपदार्थप्रविष्टा वा न वा । नाद्यः, तस्याः समस्यमानपदार्थत्वेन तदन्यत्वानुपपत्तेः । नान्त्यः, पञ्चम्या रात्रेरन्यपदार्थप्रवेशाभावे कल्याणीपञ्चमा इति समासात्पञ्चमी रात्रिं विना चतुर्णामेव बोधनापत्तौ पञ्चमपदस्यासंगत्यापादनादिति चेत्, सत्यम्पञ्चानां रात्रीणाम् उद्भतावयवभेदः समुदाय एवान्यपदार्थः । तत्र पञ्चम्या रात्रे प्रवेशेऽपि तद्धटितसमुदायस्यान्यपदार्थत्वं न विरुष्यते, समुदायस्यावयवापेक्षया अन्यत्वात् । रात्रय इति बहुवचनं तु अवयवबहुत्वापेक्षम् । यथा चैतत्तथा सर्वनामसंज्ञासूत्रे प्रपश्चितम् । अथ प्रमाण्यन्तादन्विधेरुदाहरणमाह-स्त्री प्रमाणी यस्य सस्त्रीप्रमाण इति । प्रमाणशब्दोऽत्र करणल्युरन्तो विशेष्यनिनः, टित्त्वाद् जीप । बहुव्रीहौ सति अप्प्रत्यये 'यस्येति चं' इति ईकारलोपे स्त्रीप्रमाण इति रूपम् । पूर्वपदस्य तु नित्यत्रीलिङ्गत्वादभाषितपुंस्कत्वान पुंवत्त्वप्रसक्तिः । प्रधानपूरण्यामेवेति । 'त्रियाः पुंवत्-' इति सूत्रे 'अप्पूरणी-' इति सूत्रे च प्रधानपूरणीग्रहणं कर्तव्यमिति भावः । ननु कल्याणीपञ्चमा रात्रय इत्यत्र पञ्चम्या रात्रेः समस्यमानपदार्थत्वात् कथं प्राधान्यम् , बहुव्रीहेरन्यपदार्थप्रधानत्वादित्यत आह-रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्येति । कल्याणीपञ्चमा रात्रय इत्युकोवामादेश्व' इत्यूत् । प्रधानमिति । भावल्युडन्त नित्यनपुंसकम् । पञ्चमीति । 'तस्य पूरणे' इति डट् 'नान्तादसंख्यादेः- इति डटो मडागमः । 'टिड्ढा-' इति की। प्रमाणीति करणे ल्युट्, तदन्तस्य विशेष्यनिनत्वात् स्त्रियां ली । कर्य तर्हि 'प्रमाणायां स्मृतौ इति शावरभाष्यमिति चेत् । अत्र मधः-'प्रमाणमयते याति मूलभूतां श्रुतिं यतः । किबन्तादयतेस्तस्मात्प्रमाणा स्मृतिरुच्यते' इत्याहुः । तत्रायतेः किपि 'हखस्य पिति कृति-' इति तुकि टाब् दुर्लभः, तथाप्यागमशास्त्रस्यानित्यत्वात्तु नेति बोध्यम् । किविवाचरति किन्-विजित्यर्थ इति वा व्याख्येयम् । अन्ये तु प्रमाणं वेदखद्वदाचरतीत्याचारकियन्तात्प्रमाणशब्दात्पचायचि टावित्याहुः । Page #143 -------------------------------------------------------------------------- ________________ १४० ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासपूरणी वाच्या चेत्युकोदाहरणे मुख्या । अन्यत्र तु-८३३ नतश्च । (५-४-१५३) नयुत्तरपदादृदन्तोत्तरपदाच बहुप्रीहेः कस्यात् । पुंवझावः । ८३४ केऽणः । (७-४-१३) के परेऽयो हवः स्यात् । इति प्राले-८३५ न कपि । (७-४-१४) कपि परे भयो हस्वो न स्यात् । कल्याणपञ्चमीक: पतः । अत्र तिरोहितावयवभेदस्य परस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृकः । प्रप्रियादिषु किम्-कल्याणीप्रियः । प्रिया, मनोज्ञा, कल्याणी, सुभगा, दाहरणे पञ्चानां पूरणी रात्रिः समस्यमानपञ्चमीपदार्थत्वेऽपि अन्यपदार्थसमुदायघटकतया बहुव्रीहिसमासवाच्यापि भवतीति कृत्वा मुख्या भवतीत्यर्थः । उद्भतावयवस्य रात्रिसमुदायस्य प्रधानत्वेऽपि तद्बटकतया यथा प्रथमाद्याश्चतस्रो रात्रयः समासाभिधेयाः, एवं पञ्चम्यपि रात्रिः समासाभिधेया भवतीति समस्यमानपञ्चमीपदार्थस्य अन्यपदार्थानुप्रवेशात् प्राधान्यमिति भावः । अन्यत्र त्विति । कल्याणपञ्चमीकः पक्ष इत्यत्र पूरण्या रात्रेरन्यपदार्थप्रवेशाभावाद् अप्राधान्यादप्प्रत्ययाभावे सति विशेषो वक्ष्यत इत्यर्थः । नतश्च । नदी च ऋच्चेति समाहारद्वन्द्वात्पञ्चमी । 'बहुव्रीही सक्थ्यक्ष्णोः ' इत्यतो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते । तदाक्षिप्तमुत्तरपदं नद्भपां विशेष्यते। तदन्तविधिः । 'उरप्रभृतिभ्यः-' इत्यतः कवित्यनुवर्तते । तदाह-नयुत्तरपदादिति । नद्यन्तोत्तरपदादित्यर्थः । कप् स्यादिति । तद्धितः समासान्तश्चेत्यपि बोध्यम् । तथा च कल्याणी पञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीही सति व्यपदेशिवत्त्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कविति भावः । नद्यन्ताद् बहुव्रीहेरिति न व्याख्यातम् । बहुधीवरीति बहुव्रीहेः नद्यन्तत्वात् कबापत्तेः । नद्यन्तोत्तरपदादिति व्याख्याने तु न दोषः । धीवन्शब्दस्योत्तरपदस्य नकारान्तत्वेन नदीत्वाभावादिति शब्देन्दुशेखरे विस्तरः । पुंवद्भाव इति । पूरण्या रात्रेः समासवाच्यत्वाभावेन निषेधाभावादिति भावः । केऽणः । ह्रस्वः स्यादिति । 'शुदप्राम्-' इत्यतस्तदनुवृत्तेरिति भावः । न कपि । अणो ह्रस्व इति । 'केऽणः' इत्यतः 'शूदृप्राम्-' इत्यतश्च तदनुवृत्तेरिति भावः । ननु कल्याणपञ्चमीकः पक्ष इत्यत्र पञ्चदशाहोरात्रात्मके पक्षे अन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात् प्राधान्यं दुरिमित्यत आह-अत्र तिरोहितेति । रात्रेः तत्प्रवेशाभावाद् अप्राधान्यमिति भावः । भाष्ये एवमुदाहरणमेवात्र लिङ्गम् । ऋदन्तोत्तरपदात्कपमुदाहरति-बहुकर्तृक इति । बहवः कर्तारो यस्येति विग्रहः । तदेवमपूरणीप्रियादिष्वित्यत्र पूरणीविषयं प्रपञ्च्य प्रधानपूरण्यामेवेति । प्रधाने कार्यसंप्रत्ययान्यायसिद्धमिदम् । नतः । तपरत्व स्पष्टार्थम् । नद्युत्तरपदादिति । नद्यन्तादिति नोक्तम् , कप्रत्ययेन सह समासे कृते Page #144 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४१ दुभंगा, भक्तिः, सचिवा, खसा, कान्ता, चाम्ता, समा, चपला, दुहिता, वामा, अबला, तनया। 'सामान्ये नपुंसकम्' दृढं भक्रिर्यस्य स दृढभक्तिः। बीत्वविवक्षायां तु दृढाभक्तिः । ८३६ तसिलादिष्वाकृत्वसुचः। (६-३-३५) तसिलादिषु कृत्वसुजन्तेषु परेषु सियाः पुंवत्स्यात् । परिगणनं कर्तव्यम्, अव्याप्त्यतिब्यातिपरिहाराय । 'त्रतसौ' (वा ३६१८) । 'तरसमपौ' (वा ३६१६)। 'घरट्प्रियादिषु परेषु पुंवद्भावनिषेधस्य प्रयोजनं पृच्छति-अप्रियादिषु किमिति । कल्याणीप्रिय इति । कल्याणी प्रिया यस्येति विग्रहः । प्रियादिगणं पठतिप्रिया मनोशेत्यादि । ननु भक्तिशब्दस्य प्रियादिषु पाठे दृढा भक्तिर्यस्य स दृढभक्तिरित्यत्र कथं पुंवत्वमित्यत आह-सामान्ये नपुंसकमिति । आश्रित्येति शेषः । दृढमिति । पदसंस्कारपक्षे सामान्यपरत्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः । ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंसकत्वं नापति, लिङ्गविशेषस्याविवक्षितत्वात् , वेदाः प्रमाणमितिवत् । अत्र चार्थे पस्पशाहिकभाष्ये 'शक्यं च अनेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' इति प्रयोगो लिङ्गम् । नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह-स्त्रीत्वविवक्षायां त्विति । वाक्यसंस्कारपक्षे विशेष्यानुसारेण स्त्रीत्वप्रतीतेनियमादिति भावः । तसिलादिष्वाकृत्वसुचः । 'स्त्रियाः पुंवत्-' इत्यनुवर्तते।ा कृत्वसुच इत्याङ् अभिविध्यर्थकः, तमभिव्याप्येत्यर्थः । तदाह-तसिलादिषु कृत्वसुजन्तेष्विति । 'पञ्चम्यास्तसिल्' इत्यारभ्य 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्येतत्पर्यन्तसूत्रविहितेष्वित्यर्थः । उत्तरपदपरकत्वाभावात् स्त्रिया पुंवदित्यप्राप्तौ वचनमिदम् । ननु तिल्थ्यन्शसां कृत्वसुचः परत्रैव पाठात् तसिलादिष्वनन्तर्भावात्तेषु परेषु वृकतिः अजथ्या बहुश इत्यत्र पुंवत्त्वं न स्यादित्यव्याप्तिः । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति देश्यस्य 'षष्ठ्या रूप्य च' इति रूप्यस्य च तसिलादिष्वन्तर्भावात् तयोः परतः पट्वीदेश्येत्यत्र च शुभ्रारूप्येत्यत्र च पुंवत्त्वं स्यादित्यतिव्याप्तिरित्यत श्राह-परिगणनमिति । अव्याप्यतिव्याप्तीति । इष्टस्थले अप्रवृत्तिरव्याप्तिः । अनिष्टस्थले प्रवृत्तिः अतिव्याप्तिः । बहुव्रीहेरनद्यन्तत्वात् । उत्तरपदं तु नद्यन्तं भवत्येव, 'समासे अन्तः समासान्तः' इति पक्षाश्रयणादिति बोध्यम् । दृढमिति । अदायनिवृत्तिमात्रपरत्वेनात्र दृढशब्द. प्रयोगान लिङ्गविशेषविवक्षेति भावः । लिङ्गविशेषविवक्षायां तु दृढा भक्तिरित्यादिसिद्धये प्रियादिषु भक्तिशब्दपाठः । तसिलादिषु कृत्वसुजन्तेष्विति । 'पञ्चम्यास्तसिल्' इत्यारभ्य 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्येतत्पर्यन्तेष्वित्यर्थः । भव्याप्त्यतिब्याप्तिपरिहारायेति । वृकतिरजथ्या बहुश इत्यत्राव्याप्तिः, तसिलादि Page #145 -------------------------------------------------------------------------- ________________ १४२ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासजातीयरी' (वा ३९२०)। 'करुपन्देशीयरौ' (वा ३१२१)। 'रूपप्पारापी' (वा २३२२)। 'थाल्' (वा ३९२३)। तिल्थ्यनी' (वा ३३२५)। बहीषु बहुत्र । बहुतः। दर्शनीयतरा । दर्शनीयतमा । 'घरूप-' (सू १८५) इति वषयमाणो इस्वः परत्वावमा बाधते । पट्वितरा । पट्वितमा । पटुचरी। पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । दर्शनीयरूपा । दर्शनीयपाशा । परिगणनप्रकारमाह-त्रतसावित्यादिना । बहीषु बहुत्र इति । बह्वीष्वित्यर्थे बहीशब्दात 'सप्तम्यानल्' इति त्रलि पुंवत्त्वे ठीषो निवृत्ती बहुत्रेति रूपमित्यर्थः । बहुत इति । 'पञ्चम्यास्तसिल्' इति बह्रीशब्दात् तसिल्, पुंवत्त्वाद् ीषो निवृत्तिरिति भावः । दर्शनीयतरेति । अनयोरियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयाशब्दाद् 'द्विवचनविभज्योपपदे तरप्-' इति तरप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । दर्शनीयतमेति । आसामियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयाशब्दाद् 'अतिशायने तमविष्ठनौ' इति तमप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । ननु पवी शब्दात्तरपि तमपि च पवीतरा पट्वीतमा इत्यत्रापि पुंवत्त्वे डोषो निवृत्तौ पटुतरा पटुतमेति स्यादित्यत आह-घरूपेति । तथा च हस्वेन पुंवत्त्वे बाधिते सति डीषो निवृत्त्यभावे तस्य ह्रस्वे सति पट्वितरा पवितमेति रूपमित्यर्थः । पटुचरीति । पट्वीशब्दाद् 'भूतपूर्वे चरट्' इति पुंवत्त्वे नीषो निवृत्तिरिति भावः । पूर्व पटवीत्यर्थः । पटुजातीयेति । पट्वीशब्दात् 'प्रकारवचने जातीयर्' इति पुंवत्त्वे जीषो निवृत्तिरिति भावः । पटुसदृशीयर्थः । दर्शनीयकल्पेति । 'ईषदसमाप्तौ-' इति दर्शनीयाशब्दात् कल्पप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । प्रायेण दर्शनीयेत्यर्थः । दर्शनीयदेशीयेति । 'ईषदसमाप्तौ-' इति दर्शनीयाशब्दाद् देशीयर् । पुंवत्त्व टापो निवृत्तिरिति भावः । प्रायेण दर्शनीयेत्यर्थः । दर्शनीयरूपेति । दर्शनीयाभन्दात् 'प्रशंसायां रूपप्' इति रूपपि पुंवत्त्वे टापो निवृत्तिरिति भावः । प्रशस्तत्वेन द्रष्टुं योग्येत्यर्थः । दर्शनीयपाशेति । दर्शनीयाशब्दाद् याप्ये पाशप् । पुंवत्त्वे टापो निवृत्तिरिति कृत्वसुच्पर्यन्तेषु तिल्थ्यन्शसां पाठाभावात् । पट्वीदेश्या शुभ्रारूप्य इत्यत्रातिव्याप्तिः, 'ईषदसमाप्ती-' इति देश्यस्य 'षष्ठ्या रूप्य च' इति रूप्यस्य च तत्र पाठात् , भतस्तनिवारणाय परिगणनमित्यर्थः । परिगणितान् ऋतसादीन् क्रमेणोदाहरतिबहीष्विति । यद्यपि बह्वादिषु षो वैकल्पिकत्वात्तदभावे बहुत्रेत्यादि सिध्यति, तथापि पक्षे बहीनेत्यायनिष्टवारणायेदम् । ततस्तत्रेति प्राचोकमुदाहरणमत्रोपेक्षितम् । 'सर्वनानो वृत्तिमात्रे-' इत्यनेन गतार्थत्वादिति मनोरमायां स्थितम् । पद्वितरेति। प्राथा तु पठुतरेत्युदाहृतम् , तत्प्रामादिकमिति भावः । पटुचरीति । 'भूतपूर्वे चरद् । Page #146 -------------------------------------------------------------------------- ________________ प्रकरणम् १६] बालमनोरमा-तस्वबोधिनीसहिता। [१४३ बहुथा । प्रशस्ता वृकी वृकतिः । प्रजाभ्यो हिता मजल्या । 'शसि बह्वल्पार्थस्य पुंवनावो वक्तव्यः' (पा ३९२६) बहीम्यो देहि बहुशः, अल्पाभ्यो देहि अल्पशः । 'स्वतखोर्गुणवचनस्य' (वा ३१२७) शुक्राया भावः शक्रत्वम्, शुक्रता । गुणवचनस्स किम्-का भावः कीस्वम् । 'शरदः कृतार्थता' भावः। कुत्सितत्वेन द्रष्टुं योग्येत्यर्थः । बहुथेति । बह्रीशब्दात् प्रकारवचने थाल् । पुंवत्त्वे ङीषो निवृत्तिरिति भावः । बहुप्रकारेत्यर्थः । वृकतिरिति । प्रशंसायामित्यनुवृत्तौ 'वृकज्येष्ठाभ्यां तिलतातिलौ च च्छन्दसि' इति वृकीशब्दाद् जातिलक्षणडीषन्तात् तिल । पुंवत्त्वे ङीषो नित्तिरिति भावः । अजथ्येति । तस्मै हितम्' इत्यधिकारे 'अजाविभ्यां थ्यन्' इलाजाशब्दात् थ्यन् । पुंवत्त्वे टापो निवृत्तिरिति भावः । 'वृकतिरजथ्या' इत्यत्र 'जातेश्च' इति पुंवत्त्वनिषेधो न, परिगणनसामर्थ्यात् । शसीति । शसि परे बहुर्थकस्य अल्पार्थकस्य पुंवत्त्वं वक्तव्यमित्यर्थः। तसावित्यादिपरिगणितेष्वनन्तर्भावाद वनमिदम् । बह्वीभ्य इति । बह्वीभ्यो देहीत्यर्थे 'बह्वल्पार्थाच्छस् कारकादन्यतरस्या ' इति बहीशब्दात् शस् , पुंवत्त्वे डोषो निवृत्तिरिति भावः । संप्रदानकारकत्वस्फोरणाय देहीति शब्दः । अल्पश इति । अल्पाभ्यो देहीत्यर्थः । पुंवत्त्वे टापो निवृत्तिरिति भावः । त्वतलोरिति । त्वप्रत्यये तल्प्रत्यये च परे गुणोपसर्जनद्रव्यवाचिनः पुंवत्त्वं वक्तव्यमित्यर्थः । कीत्वमिति । कींशब्दस्य क्रियानिमित्तत्वान गुणव चनत्वमिति भावः । 'आकडारात्-' इति सूत्रभाष्ये समासकृदन्ततद्धितान्ताव्ययसः नामजातिसंख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञक भवतीति स्थितम् । प्रकृते च गुणवचनशब्देन एतदेव विवक्षितम् । 'वोतो गुणवचनात्' इति सूत्रभाष्यस्थं सत्त्वे निविशतेऽपैति-' इत्यादि गुणलक्षणं तु नात्र प्रवर्तते । अत एव “एक तद्धिते व इति सूत्रभाष्ये एकस्या भाव एकत्वमित्यत्र एकशब्दस्य गुणवचनत्वाभावात् त्वतलोर्गुणवचनस्य' इत्यप्राप्तं पुंवत्त्वमत्र विधीयत इत्युक्तं सङ्गच्छते । सखीत्वमित्यादि तु असाध्वेवेति शब्देन्दुशेखरे विस्तरः । ननु कृतः अर्थः कृत्यं यया सा कृतार्था, तस्या भावः कृतार्थतेत्यत्र कथं पुंवत्त्वम् । कृतार्यशब्दस्य पटुजातीयेति । 'प्रकारवचने जातीय' । दर्शनीयरूपेत्यादि । 'प्रशंसायां रूपप्' । 'याप्ये पाशप्' बहुथेति । 'प्रकारवचने थाल्' । तत्र हि 'किंसर्वनाम बहुभ्यः-' इत्यधिकृतम् । वृकतिरिति । 'वृकज्येष्ठाभ्यां तिलतातिलौ च च्छन्दसि' इति तिल । अजथ्येति । 'अजाविभ्यां थ्यन' । शसीति । 'बह्वल्पार्यात्-' इति यः शस् , स तसिलादिषु ज्ञातव्य इत्यर्थः । त्रतसादिषु परिगणनं कर्तव्यमिति यावत् । त्वतलोर्गुणवचनस्येति । गुणस्वेति वसाव्ये वचनग्रहणं प्रसिद्धगुणपरिग्रहार्थम् । Page #147 -------------------------------------------------------------------------- ________________ १४] सिद्धान्तकौमुदी। [बहुव्रीहिसमासइत्यादौ तु सामान्ये नपुंसकम् । 'भस्थाढे तद्धिते' (वा ३९२८)। हस्तिनीनां समूहो हासिकम् । बडे किम्-रोहिणेयः । 'सीभ्यो ठक्' (सू ११२३) इति डोडा गृपते । 'प्रोट' (सू १२१६) इति ढकि तु पुंवदेव । अनायी देवता समावखन उक्तगुणवचनत्वाभावादित्यत आह-शरद इति । दृढभक्तिरित्यत्रानुपदोहारीत्या कृतः अर्थः येन तत् कृतार्थमिति सामान्याभिप्रायं कृतार्थशब्दं प्रथमतो व्युत्पाद्य तस्मादविवक्षितलिसात् तत्प्रत्ययो व्युत्पाद्य इति भावः । भस्याढ इति । ढभिन्ने तद्धिते परे स्त्रियाः पुंवत्त्वं वक्तव्यमित्यर्थः । परिगणितेष्वनन्तर्भावाद्वचनम् । हास्तिकमिति । 'तस्य समूहः' इत्यधिकारे 'अचित्तहस्तिधेनोः' इति ठक् । ठस्येकः । पुंवत्त्वे सवि नान्तलक्षणडीपो निवृत्तिः । 'नस्तद्धिते' इति टिलोप इति भावः । न च पुंवत्वाभावेऽपि 'यस्येति च' इति ईकारलोपे टिलोपे च हास्तिकमिति सिद्धमिति वाच्यम् । 'यस्य-' इति लोपस्याभीयत्वेनासिद्धतया स्थानिवत्त्वेन च तद्धितपरकत्वाभावेन टिलोपानापत्तेः । “ठक्छसोश्च' इति पुंवत्त्वादेव सिद्धिस्त्वना शाया। छसः साहचर्येण 'भवतष्ठक्छसौ' इति ठक एव तत्र प्रहणात् । रौहिणेय इति । 'वर्णादनुदात्तात् ।' इति रोहितशब्दाद् डीप तकारस्य नकारच । रोहिण्या अपत्यमित्यर्थे 'बीभ्यो ढक्', एयादेशः, 'भस्य-' इति पुंवत्त्वे डीनकारयोः निवृत्तिः स्पादिति भावः । गृह्यत इति । व्याख्यानादिति भावः । असायीति । अनेः बी श्रमायी । 'वृषाकप्यनि-' इति डीप् । अमेरिकारस्य ऐकारादेशः । श्रमायी अतस्तथैवोदाहरति-शुक्रत्वम् , शुक्लतेति । नन्विह जातिसंज्ञाव्यतिरिक्तं धर्ममात्रं गुण इति यत्प्राचीनतम् , तत्खीकर्तव्यम् । अन्यथा 'निरीक्ष्य मेने शरदः कृतार्थता' 'सा मुमोच रतिदुःखशीलताम्' इत्यादिषु पुंवद्भावाप्रवृत्त्या दीर्घश्रवणं स्यादित्यत आह-सामान्ये नपुंसकमिति । एवं च 'नेष्टं पुरो द्वारवतीत्वमासीत्' इत्यादिप्रयोगले निर्वाध इति भावः । हास्तिकमिति । 'अचित्तहस्तिधेनोः-' इति ठक् । न चात्र 'यस्येति-' लोपेन निर्वाहः, तस्य 'असिद्धवदत्रा-' इत्यसिद्धत्वाद् 'अचः परस्मिन्-' इति स्थानिवद्रावाच 'नस्तखिते' इति टिलोपानापत्तेः । न च 'ठक्छसोश्च' इत्यनेनैवात्र पुंवद्भावसिद्धिः राया । छसा साहचर्यात् 'भवतष्ठक्छसौ' इत्यस्यैव ठकस्तत्र ग्रहणात् । नापि 'जातेश्च' इति पुंवद्भावनिषेधः शयः । अस्मादेव भाष्योदाहरणात् 'सौत्रस्यैव निषेधो न त्वौपसंख्यानिकस्य' इति ज्ञापनात् । रोहिणेय इति । रोहितशब्दाद् 'वर्णादनुदात्तात्-' इति डीनकारा । सति तु पुंवद्भावे तयोनिवृत्तौ रौहितेय इति स्यादिति भावः । गृह्यत इति । व्याख्यानादिति शेषः । अग्नायीति । अमिशन्दाद् 'वृषाकप्यनि-' इति स्त्रियां डीबैकारादेशौ । Page #148 -------------------------------------------------------------------------- ________________ प्रकरणम् १६] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४५ अस्य स्वातीपाकस्य पानेयः । सपतीशब्दनिधा। शत्रुप-यात्सपनशब्दामा रवादिस्वाद कीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रिख नित्यत्रीलिङ्गो द्वितीयः । सामिपर्यायपतिशम्देन भाषितपुंस्कस्ततीयः । भाषयोः शिवायण् । सपत्न्या अपत्यं सापनः । तृतीयात्तु लिङ्गविशिष्टदेवता अस्येत्यर्थे 'अग्ने ढक' इति ढक । प्रातिपदिकग्रहणे लिविशिष्टस्यापि ग्रहणात् । ततो ढस्य एयादेशः, पुंवत्त्वे सति डीबैत्वनिवृत्तौ अग्नि एय इति स्थिते 'यस्येति च' इति इकारलोपे आदिवृद्धौ आमेय इति रूपम् । पुंवत्त्वनिषेधे तु आग्मायेय इति स्यादिति भावः । वस्तुतस्तु अग्मित्वं पुंसि प्रवृत्तिनिमित्तम् , स्त्रियां तु अग्निसंबन्ध इति प्रवृत्तिनिमित्तभेदादेवात्र न पुंवत्त्वमिति बोध्यम् । सपत्नीशब्दस्त्रिधेति । व्युत्पादनभेदादिति शेषः । शत्रुपर्यायादिति । 'रिपौ वैरिसपत्नारिद्विषवेषणदुहृदः' इति कोशादिति भावः । अयं भाषितपुंस्कः । विवाहनिबन्धनमिति । विवाहजनितसंस्कारविशषनिमित्तकमित्यर्थः । 'पतित्वं सप्तमे पदे' इत्यादिस्मरणादिति भावः । आश्रित्येत्यनन्तरं प्रवृत्त इति शेषः । समानः पतिः यस्या इति बहुव्रीहिः । 'नित्यं सपल्यादिषु' इति निपातनात् सभावः, डीब् नत्वं च । नित्यस्त्रीलिङ्ग इति । अन्य पदार्थस्य स्त्रीत्वे सत्येव विवाहनिबन्धनपतिशब्दस्य सभावा. दिविधानादिति भावः । 'पति म धवः' इति कोशादिति भावः। प्राद्ययोरिति । शत्रुपर्यायं सपत्नशब्दं विवाहनिबन्धनं पतिशब्दं चाश्रित्य प्रवृत्तयोः सपत्नीशब्दयोरित्यर्थः । सापत इति । सपत्न्या अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणं बाधित्वा 'स्त्रीभ्यो ढक्' इति ढकि प्राप्ते 'शिवादिभ्योऽण' इत्यणि आयस्य सपनीशब्दस्य भाषितपुंस्कतया पुंवत्त्व छीपो निवृत्तौ सापत्न इति रूपम् । न तु नकारस्यापि निवृत्तिः, शत्रुपर्यायसपत्नशब्दस्य अव्युत्पन्नप्रातिपदिकतया तत्र नकारस्य स्त्रीत्वनिमित्तकत्वामावात् । द्वितीयस्य तु सपत्नीशब्दस्य डीनत्वाभ्याम् उत्पन्नस्य शिवाणि कृते भाषितपुं. स्कत्वाभावाद्न पुंवत्त्वम्, किंतु डीपो 'यस्येति च' इति लोपे सापन इति रूपम् । सति तु पुंवत्वे डीजकारयोः निवृत्ती सापत इति स्यात् । तृतीयात्त्विति । खामिपर्यायं पतिशब्दमाश्रित्य प्रवृत्तात् सपनीशब्दात् पत्युत्तरपदलक्षणो एय एवेत्यन्वयः । सपल्या अपत्यमित्यर्थे तस्यापत्यम्' इत्यणं बाधित्वा 'दित्यदित्यादित्यपत्युत्तरपदारण्य:' आग्नेय ति । पुंवद्रावाभावे तु प्रामायेय इति स्यादिति भावः । शत्रुपर्यायादिति । अत्र च 'ध्यन् त्सपने' इति निर्देशो लिगम् । रिपो वैरिसपनारिद्विषद्द्वेषणदुहृदः' इत्यमरः । विवाहनिवन्धनमिति । तजन्यसंस्कारविशेषविशिष्टे रूढमित्यर्थः । सापत इति । प्रभाषितपुंस्कत्वाद् द्वितीयस्य पुंवद्भावो न भवति । Page #149 -------------------------------------------------------------------------- ________________ १४६ ] सिद्धान्तकौमुदी। [बहुवीहिसमास परिभाषया पत्युत्तरपदलक्षणो एय एव, न स्वण् । शिवादी रूढयोरेव ग्रहणात् । सापत्यः । 'ठक्छसोश्च' (वा ३६२६) भवत्याश्छात्रा भावत्काः, भवदीयाः। एतद्वार्तिकं 'एकतद्धिते च' (सू १०००) इति सूत्रं च न कर्तव्यम् , 'सर्वनानो इति एय एवेत्यन्वयः । ननु सपत्नीशब्दो न पत्युत्तरपद इत्यत अाह-लिङ्गविशिष्टपरिभाषयेति । एवशब्दस्य व्यावर्त्यमाह-न त्वणिति । ननु ण्यप्रत्ययस्यापि शिवाद्यण अपवाद इत्यत आह-शिवादी रूढयोरेवेति । सपनशब्दः शत्रौ केवलरूढः । विवाहनिबन्धनं पतिशब्दमाश्रित्य प्रवृत्तस्तु योगरूढः, विव हकतरि पाति रक्षतीति योगस्यापि सत्त्वात् । स्वामिपर्यायं तु पतिशब्दमाश्रित्य प्रवृतः केवलयौगिकः । शिवादौ रूढयोरेव ग्रहणम् , न तु केवलयौगिकस्य, योगाद् रूढेर्बलवत्त्वादिति भावः । ततः किमित्यत आह-सापत्य इति । स्वामिपर्यायपतिशब्दघटित पत्नीशब्दस्य भाषितपुंस्कत्वात् पुंवत्त्वे सति डीनत्वयोनिवृत्तौ 'यस्येति च' इतीकारतोपः । सापत्य इति रूपमित्यर्थः । ठक्छसोश्चेति । वार्तिकमेतत् । एतयोः परतः पुंवत्त्वं वक्तव्यमिति शषः । अभत्वादप्राप्तौ वचनम् । भावत्काः , भवदीया इति । 'तस्येदम्' इत्यधिकारे 'भवतष्ठक्छसौ' इति भवतीशब्दात् ठक्छसौ, लिङ्गविशिष्ट स्यापि ग्रहणात् । तऋठकि इकादेशात्प्राक् ठावस्थायामेव पुंवत्त्वे इकादेशं बाधित्वा 'इसुसुक्तान्तात् कः' इति कादेशः । न च इकादेशे सति भत्वाद् 'भस्याढे तद्धिते' इति पुंवत्त्वे कृते.इकस्य स्थानिवत्त्वेन ठक्त्वाद् ‘इसुसुक्कान्तात्-' इति कादेशे भावत्क इति रूपसिद्धौ किं ठग्नहणेनेति वाच्यम् , इकादेशे कृते हि मथितं पण्यमस्य माथितिक इत्यत्रेव अल्विधितया स्थानिवत्त्वाभावेन संनिपातपरिभाषया कादेशानापत्तेः, अतष्ठग्ग्रहणम्। भवतीश ब्दाच्छसि तु 'मिति च' इति पदत्वेन भत्वस्य बाधाद् 'भस्याढे-' इत्यप्राप्ते पुंवत्त्वे अनेन पुंवत्त्वम् । एतदिति । 'ठक्छसोश्च' इति वार्तिकमित्यर्थः । एकतद्धिते सति च पुंवद्भावे नकारादेशाभावात्सापत इति स्यात् । आद्यस्य तु पुंवद्भावेऽपि सापन इत्येव भवतीति भावः । रूढयोरेवेति । श्राद्यः शब्दो रूढः, द्वितीयस्तु योगरूढः, तेन 'समानः पतिर्यस्याः' इति विग्रहो न विरुध्यत इति दिक् । ठक्छसोश्चेति । अभत्वार्थ आरम्भः । भावत्का इति । 'भवतष्ठक्छसौ' डावस्थायामेव पुंवद्भावे कृते 'ठस्येकः' इति इकादेशं बाधित्वा तान्तलक्षणः कादेशः । नन्विकादेशे भत्वाद् ‘भस्याढे-' इति पुंवद्भावे सति कादेशप्रवृत्त्या रूपसिद्धौ किमत्र ठग्ग्रहणेन । मैवम् , मथितं पण्यमस्य माथितिक इत्यत्रवाल्विधित्वेन स्थानिवद्भावायोगात्सन्निपातपरिभाषया वा कादेशप्रवृत्तेदुर्लभत्वात् । अतः 'ठक्छसोः-' इति ठग्ग्रहण कर्तव्यमेव । भवदीया इति । छसः सित्करणात् 'सिति च' इति पदसंज्ञा । तेनात्र Page #150 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४७ वृत्तिमात्रे पुंवद्भावः' इति भाष्यकारे व्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति। सर्विका भार्या यस्य स सर्वकभार्यः । सर्वप्रिय इत्यादि । पूर्वस्यैवेदम् , 'भौचेति । एकशब्दस्य तद्धिते उत्तरपदे च परे हवः स्यादिति तदर्थः । एकस्या भान एकत्वम् , एकता। एकस्याः शाटी एकशाटी । वृत्तिमात्र इति । कृत्तद्धितादयो वृत्तयः । मात्रशब्दः कात्स्न्र्ये । 'स्त्रियाः पुंवत्-' इत्यादिसूत्रगतनिमित्ताभावेऽपि भवति । भाष्यकारेष्टयेति । भाष्यकारवचनेनेति यावत् । इदं च 'दक्षिणोत्तराभ्याम्-' इति सूत्रे भाष्ये स्पष्टम् । गतार्थत्वादिति । निवृत्तप्रयोजनकत्व इति भावः । एतत्प्रयोजनस्य 'सर्वनाम्नः-' इति वचनेनैव सिद्धत्वादिति यावत् । 'सर्वनाम्नो वृत्तिमात्रे' इत्यस्य तद्धितवृत्तौ उदाहरति-सर्वमय इति । सर्वस्या आगत इत्यर्थः 'तत आगतः' इत्यधिकारे 'मटट् च' इति मयट्, 'सर्वनाम्नः' इति पुंक्त्त्वम् , चिन्मयमित्यादिवदत्यन्तखार्थिको वा नयट । अथ सनाद्यन्तधातुवृत्तावुदाहरति-सर्वकाम्यती. ति । सर्वामात्मन इच्छतीत्यर्थे 'काम्यच्च' इति सवाशब्दात् काम्यच् । सर्वनाम्नः इति पुंवत्त्वम् । 'सनाद्यन्ताः- इति धानुत्वाल्लडादि। मयटकाम्यचोस्त्रतसावित्यादिपरिगणितेष्वनन्तर्भावात्तसिलादिष्विति पुंवत्त्वमत्र न स्यादिति भाव । तद्धितवृत्तौ उदाहरणान्तरमाह-सर्वकभार्य इति । समासवृत्तिरेवैषा । सर्वप्रिय इति । सर्वा प्रिया यस्येति विग्रहः । समासवृत्तिरियम् । प्रियादिपर्युदासो रूपवतीप्रिय इत्यादौ उपयुज्यत इति भावः । वस्तुतस्तु एकशब्दे अकच्प्रत्यये 'प्रत्यस्थात्-' इति इत्त्वे एकिका, जश्त्वं भवति । एवं च पदसंज्ञया भसंज्ञाया बाधाद् 'भस्याढे-' इत्यस्याप्रवृत्त्या वार्तिके छमग्रहणं कृतम् । भाष्यकारेष्टयेति । अनेन सूत्रवार्तिकयोरुक्तिसंभवो ध्वनितः । उत्तरं दृष्ट्वा पूवस्थाप्रवृत्तत्वात् । निष्कर्षे तु व्यर्थमेवेत्याह-तार्थत्वादिति । इष्टेरुदाहरणान्याह-सर्वमय इत्यादिना । 'तत आगतः' इत्यर्थे 'मयड्वा-' इति मयट् । तमिलादिषु मयडादरपरिगणितत्वात्तेनेदं न सिध्यतीति भावः । सर्वकभार्य इति । न २ . पुंवत्-' इति सूत्रेण गतार्थता, 'न कोपधायाः' इति निषेधात् । न चास्यापि तेन निषेधः शङ्कयः । 'स्त्रियाः पुंवत्-' इत्यादिप्रकरणोक्तस्यैव तेन निषेधात् । अस्या इष्टेस्तु तस्मिन् प्रकरणे असमाविष्टत्वात् । न च वृत्त्यन्तर्गतस्य सर्वनामत्वाभावात्पुंवद्भावो न भवेदिति वाच्यम् । वचनारम्भसामर्थ्याद् मात्रग्रहाद्वा कचित्सर्वनामत्वेन दृष्टानां संप्रति संज्ञाभावेऽपि पुंवद्भावाभ्युपगमात् । श्रतएवोत्तरपूर्वाय इत्यत्र संज्ञाभावेऽपि पुंवद्भावः। सर्वा नाम काचित् , तस्याः पुत्रः सर्वापुत्र इत्यत्र तु नातिप्रसङ्गः, संज्ञोपसर्जनयोः सर्वादिगणबहिभूतत्वेन वृत्तेः पूर्वमप्यसर्वनामत्वात् । सर्वप्रिय इति । 'स्त्रियाः पुंवत्-' इत्यत्र Page #151 -------------------------------------------------------------------------- ________________ १४८] सिद्धान्तकौमुदी। [बहुव्रीहिसमासषाजाज्ञाद्वा-' (सू ४६६ ) इति लिङ्गात् । तेनाकव्येकशेषवृत्तौ च न । सर्विका। सर्वाः । 'कुक्कुव्यादीनामण्डादिषु' (वा ३६३४) कुक्कुव्या अण्डं कुक्कुटा. एडम् । मृग्याः पदं मृगपदम् । मृगशीरम् । काकशावः । ८३७ क्यङमानितस्याभाव एकिकत्वम् । अत्र पुंवत्त्वे टाप इत्वस्य च निवृत्तौ एककत्वमिति स्यात् , इकारो न श्रूयेत, इत्वनिमित्तस्य टापो निवृत्तत्वात् , पाचिकाशब्दाज जातीयरि पाचकजातीयेतिवत् । ह्रखे सति स्थानिवत्त्वे टापः सत्त्वात् प्राप्तजीविकवदित्वश्रवणमिति फलभेदसत्त्वाद् ‘एकतद्धिते च' इति न गतार्थमित्याहुः । ननु तदितरा तदन्येत्यादावुत्तरपदस्य सर्वनामत्वात् पुंवत्त्वं स्यादित्यत आह-पूर्वस्यैवेदमिति । वृत्तिप्रविष्टानेकभागानां मध्ये किञ्चिदेपेक्षया पूर्वस्यैवेदं सर्वनाम्नः पुंवत्त्वविधानमित्यर्थः । भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति । 'भस्त्रैषा-' इति सूत्रेण एषा द्वा इत्येतयोः साकच्कयोरपि कापूर्वस्य इत्त्वविधानम् अन्यथा निर्विषयं स्यात् । तद्धितवृत्तौ तयोः सर्वनामतया पुंवस्वनियमादिति भावः । अकचि तद्धितवृत्तावुदाहरति-सर्विकेति । सर्वाशब्दात साकच्काद्यापि 'प्रत्ययस्थात्-' इति इत्त्वे पुंवत्त्वे टाबित्त्वयोः निवृत्तिः स्यादिति भावः । एकशेषवृत्तावुदाहरति-सर्वा इति । टावन्तस्य प्रथमाबहुवचनमिदम् । पुंवत्त्वे टापो निवृत्तिः स्यादिति भावः । कुक्कुट्यादीनामण्डादिष्विति । पुंवत्त्वं वक्तव्यमिति शेषः । असमानाधिकरणार्थमिदमिति सूचयन् षष्ठीसमासमुदाहरति-कुक्कुट्या अण्डं कुक्कुटाएडमिति । पुंवत्त्वेन जातिलक्षणीषो निवृत्तिरिति भावः । एवमप्रेऽपि । मृगक्षीरमिति । मृग्याः क्षीरमिति विग्रहः । काकशाव इति । काक्याः शाव इति विग्रहः । 'पोतः पाकोऽभको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । प्रियादिपर्युदासो रूपवतीप्रिय इत्यादावुपयुज्यत इति भावः । तदित। तदन्येत्यादावुत्तरपदेऽतिप्रसङ्गमाशङ्कयाह-पूर्वस्यैवेति । वृत्तिघटकानेकभागमध्ये किंचिदपेक्षया पूर्वस्येत्यर्थः । लिङ्गादिति । अन्यथा एषा द्वा एतयोः कात्पूर्वस्य आपि विधीयमानमित्वं निर्विषयं स्यादिति भावः । 'दक्षिणपूर्वा दिक्' इति भाष्योदाहरणमपीह लिमिति बोध्यम् । यत्तु प्राचा 'सर्वनाम्नः समासे पूर्व पुंवत्' इत्युक्तम् , यच्च व्याचख्युः 'वार्तिकार्थमनुवदति सर्वनाम्न इत्यादिना' इति, तत्प्रामादिकम् । 'वृत्तिमात्रे' इति पाठस्यैव भाष्यारूढत्वात् । सर्वमयः सर्वकाम्यतीत्युक्तोदाहरणासिद्धिप्रसङ्गाच्च । बातिकार्थमित्याद्यपि प्रामादिकमेव । वार्तिकप्रन्थे एतदभावात् । न च 'सर्वनानो वृत्तिमात्रे-' इत्येतद्वार्तिकमेव, न तु भाष्यकारेष्टिरिति शङ्कयम् । 'ठक्छसोः-' इति वार्तिकस्य निरालम्बनत्वापत्तेः । भाष्यकारेष्टित्वे तु वार्तिकस्योक्तिसंभव उक्त एव १ 'काकायाः' इति कचित् पाठः। २ 'पूर्वम्' इति कचिन्नास्ति । Page #152 -------------------------------------------------------------------------- ________________ प्रकरणम् १६] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४६ नोश्च । (६-३-३६) एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्न काचिदर्शनीयां मन्यते दर्शनीयमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः। ८३८ न कोपधायाः । (६-३-३७) कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । क्यङ्मानिनोश्च । एतयोरिति । क्यङि मानिनि च उत्तरपदे परत इत्यर्थः । एनीवेति । एता चित्रवर्णा । 'चित्रं किमीरकल्माषशवलेताश्च कर्बुरे।' इत्यमरः । एतशब्दः श्वेतपर्याय इति याज्ञिकाः । 'वर्णादनुदात्ता-' इति लीब् नकारश्च । 'उपमानादाचारे' इत्यनुवर्तमाने 'कर्तुः क्यङ् सलोपश्च' इति एनीशब्दात् क्यङि पुंवत्त्वे डीनत्वयोनिवृत्तौ, 'अकृत्सार्वधातुकयोः' इति दीर्घे एतायते इति रूपमिति भावः । श्येनीवेति । श्येतशब्दः श्वेतपर्यायः । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः ।' इत्यमरः । क्यडादि पूर्ववत् । ननु 'स्त्रियाः पुंवत्-' इत्येव मानिनीत्युत्तरपदे परतः पुंवत्त्वसिद्धेः मानिन्ग्रहणं किमर्थमित्याशय मानिन्ग्रहणमसमानाधिकरणार्थम् अस्त्रीलिझार्थ चेत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरति-वभिन्नामिति । दर्शनीयमानिनीति । दर्शनीयामिति द्वितीयान्ते उपपदे सुप्यजातौ णिनिरित्यनुवृत्ती 'मनः' इति णिनिप्रत्ययः, उपपदसमासः, सुब्लुक्, असमानाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्त्वे टापो निवृत्तौ 'ऋनेभ्यः-' इति छोपि दर्शनीयमानिनीति रूपम् । या त्वात्मानमेव दर्शनीयां मन्यते तस्या दर्शनीयायाः 'स्त्रियाः पुंवत्-' इत्येव पुंवत्त्वं सिद्धमिति ध्वनयितुं स्खभिन्नामित्युक्तम् । एकस्या एव दर्शनीयाया मनधात्वर्थ प्रति कर्मत्वकर्तृत्वसंभवेऽपि वास्तवाभेदेन मानिनीशब्दसामानाधिकरण्यसत्त्वादिति भावः । अथास्त्रीलिने उत्तरपदे उदाहरति-दर्शनीयामिति । स्त्रियमित्यनन्तरमात्मानमिति शेषः । आत्मानं यो दर्शनीयां स्त्रियं मन्यते स दर्शनीयमानी चैत्र इत्यन्वयः । अत्र उत्तरपदवाच्यस्य मानिनो वस्तुतो दर्शनीयस्त्रीभेदेऽपि आरोपित. तदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुल्लिात्वात् तस्मिन् परे पुंवत्त्वं न प्राप्तमित्यनेन तद्विधिरिति भावः । न कोपधायाः। प्राक् । क्यड्या-एतायत इत्यादि । 'कर्तुः क्यङ् सलोपश्च' क्यङि पुंवद्भावे कृते एतश्येतयोः 'अकृत्सार्व-' इति दीर्घः । मानिन्ग्रहणमसमानाधिकरणार्थमस्यर्थ चेत्याशयेन यथाक्रममुदाहरति-खभिन्नामित्यादिना । दर्शनीयमानिनीति । 'मनः' इति णिनिः । नान्तत्वान् डीप । या त्वात्मानमेव दर्शनीयां मन्यते तत्र 'स्त्रियाः पुंवत्-' इत्येव सिद्धम् । एकस्या अपि ईप्सिततमत्वव्यापाराश्रयत्वविवक्षाभेदेन कर्मत्वकर्तृत्वयोः सत्वेऽपि वास्तवाभेदेन सामानाधिकरण्याविघातादिति भावः । Page #153 -------------------------------------------------------------------------- ________________ १५० ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासमद्रिकामानिनी । 'कोपधप्रतिषेधे तद्धितवुप्रणम्' ( वा ३६३१)। नेह - पाका भार्या यस्य स पाकभार्यः । ८३६ संशापूरण्योश्च । (६-३-३८) अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कस्वमस्ति । पत्रमीभार्यः । पञ्चमीपाशा । ८४० पाचिकामार्य इति । पाचिका भार्या यस्येति विग्रहः । पचो ण्वुल । अकादेशटाबित्त्वानि पुंवत्त्वनिषेधश्च । पुंवत्त्वे टाबित्त्वयोनिवृत्तिः स्यात् । रसिकेति । रसोऽस्या अस्तीति रसिका, अत इनिठनौ' इति ठन् । ठस्येकः,टाप् पुंवत्त्वनिषेधः । पुंवत्त्वे तु टापो निवृत्तिः स्यात् । मद्रिकायत इति । मद्राख्ये देशविशेष भवा मद्रिका 'मद्रव्रज्यो कन्' टाप ,इत्त्वम् ,मद्रिकेवाचरतीत्यर्थः । 'क्यङ्मानिनोश्च' इति पुंवत्त्वं प्राप्तमिह निषिध्यते । मद्रिकामानिनीति। मद्रिकां मन्यत इत्यर्थे 'मनश्च' इति णिनिः, उपपदसमासः। इहापि 'क्यमानिनोच' इति पुंवत्त्वं प्राप्तं निषिध्यते । उभयत्रापि पुंवत्त्वे टाबित्वयोः निवृत्तिः स्यात् । तद्धितवुग्रहणमिति । 'न तद्धितवुकोपधायाः' इति सूत्रं पठनीयमिति यावत् । तद्धितसबन्धी वुसंबन्धी च यः ककारः तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति । मद्रिकायते इति तद्धितकोपधोदाहरणम् । पचिकामार्य इति तु वुसंबन्धिकोपधोदाहरणम् । तद्धितवुग्रहणस्य प्रयोजनमाह-नेहेति । पाकेति । 'अर्भकपृथुकपाका वयसि' इत्युणादिषु कात्यायन्तो निपातितः । अयं तद्धितस्य प्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः । ननु दत्ताशब्दस्य संज्ञात्वेन एकद्रव्यनिवेशितया भाषितपुंस्कत्वाभावात् "स्त्रियाः पुंवत-' इत्यस्य प्रसक्तेरेवाभावात् किं तनिषेधेनेत्यत आह-दानक्रियानिमित्त इति । दत्तशब्दोऽयं डित्यादिशब्दवन, किंतु दानक्रियां पुरस्कृत्यैव स्त्रियां पुंसि च संज्ञाभूतः प्रवृत्तः, अतस्तस्य भाषितपुंस्कत्वात् वत्त्वे प्राप्ते निषेधोऽयमित्यर्थः । पूरण्याः पुंवत्त्वनिषेधपाचिकामार्य इति । पचतीति पाचिका ण्वुल् । 'युवो:-' इत्यकादेशे टापि 'प्रत्ययस्थात्-' इतीत्त्वम् । रसिकामार्य इति । रसोऽस्त्यस्या इति रसिका । 'श्रत इनिठनौ' इति ठन् । मद्रिकायत इति । मद्रेषु भवा मद्रिका । 'मद्रवृज्योः कन्' । 'क्यङ्मानिनोश्च' इति पुंवत्त्वप्राप्तिः। सति तु पुंवद्भावे इत्वं न श्रूयतेति भावः। तद्धितवुग्रहणमिति । द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं संबध्यते, तद्धितग्रहणं वुग्रहणं चेत्यर्थः । पाकामायेति । 'अर्मकपृथुकपाका वयसि' इति कप्रत्ययान्तोऽयमुणादिषु निपातितः । न चायं तद्धितस्य ककारो, नापि वोः । 'वयसि प्रथमे' इति मपं बाधित्वा अजादित्वाप् । संशापूरण्योश्च । यत्तु दत्तायते इति क्यङन्तमपि , 'वुको वा' इति क्वचित् पाठः। Page #154 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५१ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । (६-३-३६) वृद्धिशब्देन विहिता या वृद्धिस्तद्धतुर्यतद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत् । स्रोत्रीभार्यः । माथुरीयते । माथुरीमानिनी । वृद्धिनिमित्तस्य किम्-मध्यमभार्यः । तद्धितस्य किम्-काण्डलावभार्यः । वृद्धिशब्देन किम्-तावनार्यः । रक्के तु मुदाहरति-पञ्चमीभार्य इति । पञ्चमी भार्या यस्येति विग्रहः । अत्र 'स्त्रियाः पुंवत्-' इति प्राप्तं निषिध्यते । पश्चमीपाशति । निन्दिता पञ्चमीत्यर्थः । 'याप्ये पाशप्' । अत्र 'तसिलादिषु-' इति प्राप्तं पुंवत्त्वं निषिध्यते । वृद्धिनिमित्तस्य च । वृद्धेनिमित्तं हेतुरिति विप्रहः । रक्तं च विकारश्चेति समाहारद्वन्द्वः । ततो नञ्तत्पुरुषः । रक्तविकारभिन्नेऽर्थे विद्यमानस्येत्यर्थः । वृद्धिशन्देन विहितैव वृद्धिरिह विवक्षिता, व्याख्यानात् । तदाह-वृद्धिशब्देनेत्यादिना । तदन्तेति । प्रत्ययग्रहणपरिभाषालभ्यम् । स्रौनीति । स्रघ्नो देशः । तत्र भव इत्यण् । 'यस्येति च' इत्यकारलोपः । णित्त्वादादिवृद्धिः, 'टिड्ढाणञ्-' इति डीप् । स्रोधी भार्या यस्येति विग्रहः । 'स्त्रियाः पुंवत्-' इति प्राप्तमिह निषिध्यते । माथुरीयते माथुरीमानिनीति । मथुरायां भवा माथुरी, 'तत्र भवः' इत्यण् , 'यस्येति च' इत्याकारलोपः, श्रादिवृद्धिः, 'टिड्ढ-' इति ङीप् । माथुरीवाचरतीत्यर्थे 'कर्तुः क्यड्-' इति क्यङ् । 'सनायन्ताःइति धातुत्वाल्लडादि, माथुरीयते । माथुरी मन्यते माथुरीमानिनी, 'मनः' इति णिनिः, उपधावृद्धिः । उपपदसमासः, सुब्लुक्, नान्तत्वान्डीप् । इहोभयत्रापि 'क्यस्मानिनोश्च' इति प्राप्तं पुंवत्त्वं निषिध्यते । मध्यममार्य इति । मध्ये भवा मध्यमा, 'मध्यान्मः' इति मः । मध्यमा भार्या यस्येति विग्रहः। "खियाः पुंवत्-' इति पुंवत्त्वम् । अत्र मप्रत्ययस्य तद्धितस्य वृद्धिनिमित्तत्वाभावान पुंवत्त्वनिषेधः। काण्डलावमार्य इति । काण्डं लुनातीति काण्डलावी, 'कर्मण्यम्' इत्यएप्रत्ययः कृत् , 'चोरिणति' इति वृद्धिः, आवादेशः, उपपदसमासः, "टिड्ढाणञ्-' इति डीप । काण्डलावी भार्या यस्येति विग्रहः, पुंवत्त्वाद् छीपो निवृत्तिः । अत्राणः कृत्त्वात्तद्धितत्वाभावाद् न पुंवत्त्वनिषेधः । तावद्भार्य इति । तत् परिमाणमस्यास्तावती, 'यत्तदेतेभ्यः वृत्त्यादिषूदाहृतम् , तत्तु विशेषाभावादिहोपेक्षितम् । पञ्चमीपाशेति । 'याप्ये पाशप्' 'तसिलादिषु-' इति प्राप्तिः । वृद्धिनिमित्तस्य । सौग्नीति । सग्ने भवा । 'तत्र भवः' इत्यणि 'टिड्ढा-' इति डीप् । माथुरीयत इति । मथुरायां भवा माथुरी । सेवाचरतीत्यर्थे 'कर्तुः क्यङ्-' इति क्यङ् । मध्यमेति । मध्ये भवा मध्यमा । 'मध्यान्मः' इति मः । काण्डलावेति । काण्डं लुनातीति काण्डलावी 'कर्मण्यण' । १ क्वचित्तु माधुरीयते माधुरीमानिनीति पाठः। Page #155 -------------------------------------------------------------------------- ________________ १५२ ] सिद्धान्तकौमुदी । [ बहुव्रीहिसमास काषायी कम्था यस्य स काषायकन्थः । विकारे तु हैमी मुद्रिका मस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत्-वैयाकरणभार्यः, परिमाणे वतुप्' इति तच्छब्दाद्वतुप् तद्धितः, 'आ सर्वनाम्नः' इत्याकारः, उगित्वाद् ङीप् । तावती भार्या यस्येति विग्रहः । पुंवत्त्वाद् ङीपो निवृत्तिः, 'श्रा सर्वनाम्नः ' इत्याकारात्मिकां वृद्धिं प्रति वतुपो निमित्तत्वेऽपि आकारस्य वृद्धिशब्देन विधानाभावात्तनिमित्तवतुबन्तस्य न पुंवत्त्वनिषेधः । रक्ते त्विति । रक्तेऽर्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । काषायीति । कषायो 'गैरिको धातुविशेषः, तेन रक्ता काषायी, 'तेन रक्तं रागात्' इत्यणि 'यस्येति च' इति लोपः, आदिवृद्धिः, 'टिड्ढाणञ्-' इति ङीप् । काषायकन्थ इति । पुंवत्त्वे डीपो निवृत्तिः । श्रत्राणः तद्धितस्य रक्तार्थकत्वाद् न पुंवत्त्वनिषेधः । विकारे त्विति । विकारार्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । हैमीति । हेस्रो विकारभूतेत्यर्थः । 'अनुदात्तादेव' इत्यञ्, टिलोपः, आदिवृद्धि:, 'टिड्ढ -' इति ङीप्, हैमीति रूपम् । हैमी मुद्रिका यस्येति विग्रहः । पुंवत्त्वे डीपो निवृत्तिः । अत्रामस्तद्धितस्य विकारार्थकत्वान्न पुंवत्त्वनिषेधः । स्यादेतत्, व्याकरणमधीते वेत्ति वा स्त्री वैयाकरणी, 'तदधीते तद्वेद' इत्यण् तद्धितः । 'यस्येति च' इत्यकारलोपः । श्रणो णित्त्वात् तन्निमित्तिकाया यकाराकारस्य पर्जन्यवल्लक्षण प्रवृत्त्य प्राप्ताया वृद्धेः 'न य्वाभ्याम् -' इति निषेधः । यकारात् प्रागैकारागमश्च,‘टिड्ढाणञ्-' इति ङीप् । वैयाकरणी भार्या यस्येति बहुव्रीहौ पुंवत्त्वे डीपो निवृत्तौ वैयाकरणभार्य इति रूपम् । तथा स्वश्वस्यापत्यं स्त्री 'श्रुत इज् ' इति इमोऽपवादः शिवाद्यण्, 'यस्येति च' इति लोपः । प्रथमवकारात् परस्य अकारस्यादिवृद्धेर्न य्वाभ्यामिति निषेधः । प्रथमवकारात् प्रागौकारागमश्च, 'टिड्ढ - ' इति ङीप् । सौवश्वी भार्या यस्येति बहुव्रीहौ पुंवत्त्वे ङीपो निवृत्तौ सौवश्वभार्य इति रूपमिति स्थितिः । अत्रोभयत्रापि आदिवृद्धेः 'न य्वाभ्याम् -' इति निषेधेऽपि श्रणः तद्धितस्य णित्त्वेन स्वरूपयोग्यवृद्धिनिमित्तत्वानपायात् पुंवत्त्वनिषेधो दुर्वार इत्यत आह- वृद्धिं प्रति फलोपधानाभावादिह पुंवदिति । प्रतीत्यनन्तरं निमित्तस्य तद्धितस्येति शेषः । श्रणः वृद्धिनिमित्तस्य यत् फलं वृद्धिस्तेन उपधानं कृदयम् । तावदिति । तत्परिमाणमस्यास्तावती । ' यत्तदेतेभ्यः -' इति वतुपि ' मा सर्वनाम्नः' इत्याकारो न वृद्धिशब्देन विहित इति भावः । काषायीति । कषायेण रक्तेत्यर्थे 'तेन रक्तं रागात्' इत्यणि ङीप् । हैमीति । हेम्नो विकार इत्यर्थे ‘अनुदात्तादेश्च-' इत्यञ् । फलोपधानेति । निमित्तशब्दः फलोपहितपरः । १ 'गिरिजो' इति कचित् पाठः । 1 Page #156 -------------------------------------------------------------------------- ________________ प्रकरणम् १६] बालमनोरमा तत्त्वबोधिनीसहिता। [१५३ सौवश्वभार्यः । ८४१ स्वानाचेतः। (६-३-४०) स्वानाच ईकारखदन्ता श्री न पुंवत् । सुकेशीभार्यः । स्वाहात् किम्-पटुभार्यः । इतः किम्-अकेशभार्यः । 'प्रमानिनीति वक्तव्यम्' (वा ३९३२) सुकेशमानिनी । ८४२ जातेश्च । तात्कालिकसाहित्यं तदभावादित्यर्थः । 'वृद्धस्तद्धितस्य' इत्येतावत्युक्तेऽपि निमित्तत्वसंबन्धं वृद्धेरिति षष्ठीमाश्रित्य 'वृद्धिनिमित्ततद्धितस्य' इत्यर्थलाभे सति निमित्तग्रहणात् फलोपहितनिमित्तत्वं विवक्षितमिति विज्ञायत इति भावः । यद्यप्यैजागमसिद्धवृद्धिं प्रति अएप्रत्ययः फलोपहितमेव निमित्तम् । तथापि वृद्धिशब्देन विहितां वृद्धि प्रति फलोपहितं निमित्तं न भवत्येवेति न दोषः । वृद्धिशब्देन विहितैव वृद्धिरिह गृह्यत इत्यत्रापि इदमेव निमित्तग्रहणं लिङ्गम् । अन्यथा ऐजागमादत्र फलोपहितनिमित्तत्वस्यापि सत्त्वात् तन्निमित्तग्रहणं निष्फलं स्यात् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः । स्वाङ्गाच्चेतः । ईत इति च्छेदः । तदाह-स्वाङ्गाद्य ईकार इति । सुकेशीभार्य इति । सुशोभनाः केशा यस्याः सा सुकेशी, 'स्वानाञ्चोपसर्जनात्' इति ङीष् । 'स्त्रियाः पुंवत्-' इति प्राप्तस्य निषेधः । पटुभार्य इति । पट्वी भार्या यस्येति विग्रहः । पटुत्वस्य अस्वाङ्गत्वान्न पुंवत्त्वनिषेधः। किंतु पुंवत्त्वे 'वोतो गुणवचनात्' इति ङीषो निवृत्तिरिति भावः । अकेशभार्य इति । अविद्यमानाः केशा यस्याः सा अकेशा, 'नओऽस्त्यर्थानाम्' इति बहुव्रीहिः, विद्यमानशब्दस्य लोपश्च । स्वाङ्गत्वेऽपि न ङीष् , 'सहनश्विद्यमान-' इति निषेधात् । अतष्टाबेव । अकेशा भार्या यस्येति विग्रहः । स्वाङ्गत्वेऽपि ईकाराभावानपुंवत्त्वनिषेधः । किंतु पुंवत्त्वे टापो निवृत्तिरिति भावः । अमानिनीति । स्वाङ्गाचेति निषेधो मानिशब्दे परतो न भवतीति वक्तव्यमित्यर्थः । सुकेशमानिनीति । सुकेशी मन्यत खरूपयोग्यपरत्वे तु वैयाकरणभार्य इत्यत्र पुंवद्भावो न सिध्येदिति भावः । व्याकरणमधीते वेत्ति वा वैयाकरणी । 'तदधीते तद्वेद' इत्यण । स्वश्वस्यापत्यं स्त्री सौवश्वी 'तस्यापत्यम्' इत्या, उभयत्र णित्त्वात्प्राप्ता आदिवृद्धिः 'न य्वाभ्याम्-' इत्यनेन प्रतिषिध्यत इति नायं वृद्धि प्रति फलोपहितः, किं तु खरूपयोग्यः। यद्यप्यैजागमनिमित्तत्वाद् वृद्धि प्रति फलोपहितोऽपि भवत्ययं तद्धितः, तथापि वृद्धिशब्देन विहितां वृद्धि प्रति न भवतीति भावः । अत्र व्याचक्षते-सूत्रे निमित्तशब्दः फलोपहितपरः, अन्यथा निमित्तग्रहणमनर्थकं स्यात् । वृद्धेस्तद्धितस्येत्युक्तेऽपि निमित्तत्वमेव संबन्ध इति वृद्धिनिमित्तं यस्तद्धित इत्यर्थलाभात् । तेन वृद्धिशब्दन विहिता वृद्धिरित्ययमों लभ्यते । अन्यथा फलोपहितपरत्वलाभो निष्फलः स्यादुक्तदोषतादवस्थ्यादिति । सुकेशीति । 'खानाच्चोपसर्जनात्-' इति ङीष् । अकेशीति । 'सहनश्विद्यमान-' Page #157 -------------------------------------------------------------------------- ________________ १५४ ] सिद्धान्तकौमुदी | [ बहुव्रीहिसमास ( ६-३-४१ ) जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवार्य निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र 'भस्याढे - ' (वा ३१२८) इति तु भवत्येव । ८४३ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये । (२-२-२५ ) संख्येयार्थया संख्यया श्रव्ययादयः समस्यन्ते स 1 इत्यर्थे ‘मनश्च' इति णिनिः, उपधावृद्धिः, उपपदसमासः, सुब्लुक्, पुंवत्त्वे ङीषो निवृत्तिरिति भावः । जातेश्च । ईत इति श्रस्वरितत्वान्नानुवर्तत इत्यभिप्रेत्याहजातेः परो यः स्त्रीप्रत्यय इति । शूद्राभार्य इति । 'शूद्रा चामहत्पूर्वा-' इति जातिलक्षणङीषोऽपवादष्टाप् । पुंवत्त्वनिषेधान्न टापो निवृत्तिः । ब्राह्मणीभार्य इति । पुंवत्त्वनिषेधान्न शार्ङ्गरवादिडीनो निवृत्तिः । ननु हस्तिनीनां समूहो हास्तिकमित्यत्र 'व्य चित्तहस्ति-' इति ठकि हस्तिनीशब्दस्य 'भस्याढे -' इति कथं पुंवत्त्वम्, 'जातश्च' इति निषेधादित्यत आह-सौत्रस्यैवायं निषेध इति । सूत्रविहितस्येत्यर्थः । ‘भस्याढे-' इति तु वार्तिकमिति भावः । एतच्च 'न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् । संख्यया । शेषप्रहणम् 'अनेकमन्यपदार्थे' इति च निवृत्ते । बहुव्रीहिरित्यनुवर्तते, 'सुप्सुपा' इति च । संख्येये इत्येतत्संख्ययेत्यत्रान्वेति । संख्यया परिच्छेद्यं संख्येयम्, तत्रार्थे विद्यमानया संख्ययेति लभ्यते । संख्याशब्दश्चायं न स्वरूपपरः, किंतु एकादिशतान्तशब्दपरः । तदाह – संख्येयार्थया संख्ययेति । एकादिशब्देन सुबन्तेनेत्यर्थः । श्रव्ययादय इति । अव्यय, श्रासन्न, अदूर, अधिक, संख्या एते सुबन्ता इत्यर्थः । अत्रापि संख्याशब्दो न स्वरूपपरः, किंतु एकादिइति निषेधान्दोषभावः । जातेश्च । यद्यत्र जातेरित्येवं विहित इति व्याख्यायेत तर्हि हास्तिकमित्युदाहरणे 'श्रपसंख्यानिकस्य नायं निषेधः' इति भाष्योतिर्न संगच्छेत, हस्तिन्शब्द 'जाते:-' इति ङीष् न विहितः, अदन्तत्वाभावात्, किंतु 'ऋनेभ्यः-' इति ङीब्वहित इति पुंवद्भावनिषेधस्याप्रसक्तेरत श्राह - -जातेः पर इति । एवं च हस्तिनीभार्यः, शुनीभार्य इत्यादावपि निषेधः सिध्यतीति भावः । यः स्त्रीप्रत्यय इति । टाबादिः । प्राचा तु ङीषेवोपात्तस्तदयुक्तमिति ध्वनयन्नुदाहरति — शूद्राभार्य इति । ब्राह्मणीति । शार्ङ्गरवादित्वान्बीन् । प्राचा तु ङीन पुंवदिति व्याख्याय ब्राह्मणीभार्य इत्युदाहृतम्, तद्रभसात् । सौत्रस्यैवेति । व्याख्यानादिति भावः । 'न कोपधायाः' इति निषेधस्तु 'भस्याढे -' इति प्राप्तस्यापि भवत्येव । तेन विलेपिकाया धर्म्यं वैलेपिकमिति सिद्धम् । यदि 'अरामहिष्यादिभ्यः' इत्यणि पुंवद्भावः स्यात्तकारोऽत्र न श्रूयेत । एतच्च 'न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् । प्रासङ्गिकं समाप्य प्रकृतमनुसरति — संख्ययेति । सामानाधिकरण्यस्यान्यपदार्थवृत्तेश्च विरहात् Page #158 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५५ बहुव्रीहिः । दशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । 'बहुव्रीहौ संख्येये-' (सू ८११) इति वक्ष्यमाणो डच् । ८४४ ति विशितेडिति । (६-४-१४२) विंशतेर्भस्य तिशब्दस्य लोपः स्याडिति । प्रासनविंशाः, विशतेरासना इत्यर्थः । अदूरनिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा शब्दपर एव । अत्रेदमवधेयम्-विंशतेः प्रागेकादिशब्दाः संख्येयेषु वर्तन्ते विशेध्यलिङ्गाश्च । दशादयो नित्यबहुवचनान्ताः । विंशत्यादिशब्दास्तु नित्यमेकवचनान्ताः संख्यायां संख्येये च वर्तन्ते नवतिपयन्ता नित्यस्त्रीलिङ्गाश्च । यथा विंशतिब्राह्मणाः, ब्राह्मणानां विंशतिरिति । यदा विंशत्यादिः संख्या, ततो द्वित्वबहुवचने स्तः । यथा गवां द्वे विंशती इति, चत्वारिंशदिति गम्यते । गवो तिस्रो विंशतय इति, षष्टिरिति गम्यते । 'विंशत्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोः । संख्यायें द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥' इत्यमरः। अत्राव्ययस्योदाहरतिदशानां समीपे ये सन्ति त उपदशा इति । उपशब्दस्य समीगर्थकस्याव्ययीभाव उक्तः । इह तु समीपवर्तिनि उपशब्दो वर्तते। दशसमीपवर्तिन इत्यर्थः । ततश्च अन्यपदार्थवृत्तित्वाभावादप्रथमान्तत्वाच्च 'अनेकमन्यपदार्थे' इत्यप्राप्ते वचनमिदम् । तस्य दशानां वृक्षादीनां समीपवर्तिनो गवादय इत्यर्थभ्रमं वारयतिनवैकादश वेत्यर्थ इति । सामीप्यमिह दशन्शब्दार्थगतदशत्वापेक्षम् , एकार्थीभावबलात् । तथा च दशत्वसमीपवर्तिसंख्यावत्सु उपशब्द इति फलति । ततश्च दशत्वसमीपवर्तिसंख्यावन्त इति बोधपर्यवसानं भवति । डजिति । उपदशशब्दात् डचि 'नस्तद्धिते' इति टिलोप इति भावः । आसन्नशब्दस्य विंशतिशब्देन षष्टयन्तेन समासे डचि कृते 'टेः' इति इकारमात्रस्य लोपे प्राप्ते आहति विंशतेर्डिति । तीति लुप्तषष्ठीकम् । 'भस्य ' इत्यधिकृतम् । 'अल्लोपोऽनः इत्यस्माल्लोप इत्यनुवर्तते, तदाह-विंशतर्भस्येति । 'अलोऽन्त्यस्य ' इति न भवति, ' नानर्थकेऽलोऽन्त्यविधिः' इत्युक्तेः । आसन्नविंशा इति । विंशतिपूर्वेणाप्राप्तौ वचनम् । दशानामिति । उपगता दश येषामिति न विगृहीतम् । पूर्वे. णैव सिद्धेः । उपदशा इति । उपशब्दः समीपे समीपिनि च वर्तते । आधे श्रव्ययीभावः, द्वितीये तु बहुव्रीहिरिति विवेकः । नव एकादश वेत्यर्थ इति । संख्याद्वारकसबन्धस्यान्तरङ्गत्वादिति भावः । तेन दशानां वृक्षादीनां समीपे ये सन्ति गवादयते उपदशा इति न प्रयुज्यन्ते। तिविश। सूत्रे तीति लुप्तषष्ठीकमित्याशयेनाह–तिशब्दस्येति । आसन्नविशा इति । इह तिलोपोत्तरम् 'अतो गुणे' इति पररूपमेव, न तु टिलोपः, टिलोपस्याभीयत्वेनासिद्धत्वात् । न चात्र पररूपमपि न स्याट्टिलोपस्य स्थानि Page #159 -------------------------------------------------------------------------- ________________ १५६ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासद्वित्राः। द्विरावृत्ता दश द्विदशाः, विंशतिरित्यर्थः । ८४५ दिनामान्यन्तराले । (२-२-२६) दिशो नामान्यन्तराल्ने वाध्ये प्राग्वत् । दक्षिणस्याश्च संख्यासनसंख्यावन्त इत्यर्थः । इचि कृते श्रासन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घ बाधित्वा 'अतो गुणे' इति पररूपे, आसन्नविंशशब्दः अदन्तः । 'उत्तरपदत्वे चापदादिविधौ प्रतिषेधः ' इति प्रत्ययलक्षणाभावेनापदत्वात् । अथादूरशब्दस्योदाहरति-अदूरत्रिंशा इति । त्रिंशतः अदूरा इति विग्रहः । त्रिंशसंख्यायाः अदूरसंख्यावन्त इत्यर्थः । डचि टिलोपः । अधिकस्योदाहरति-अधिकचत्वारिंशा इति । चत्वारिंशतोऽधिका इति विग्रहः । चत्वारिंशत्संख्याया अधिकसंख्यावन्त इत्यर्थः । डचि टिलोपः। संख्यावाचकशब्दस्य संख्यावाचकशब्देन समासमु. दाहरति-छो वा धयो वा द्वित्रा इति । वाथै बहुव्रीहिः, द्वित्र्यन्यत। इत्यर्थः । डचि टिलोपः । ननु द्वित्रा आनीयन्तामित्युक्ते कदाचिद् द्वावानयति, तदा कथं बहुवचनंमिति चेत् , अत्र भाष्ये 'अनिश्चये बहुवचनं प्रयोक्तव्यम्' इति वचनात् समाहितम् । तथा 'कार्यान्वये विकल्पः, शब्दात्तु नियमेन कोटिद्वयोपस्थितिः । तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया । अतः 'शब्दानियमेन पञ्चानामुपस्थितिः' इत्यपि समाहितम् । न च वाथेप्राधान्याद् 'अनेकमन्यपदार्थे' इत्येवात्र सिद्धमिति वाच्यम् , 'शेषाद्विभाषा' इति कबभावार्थकत्वात् । स हि कप् 'अनेकमन्यपदार्थे' इति विहितबहुव्रीहावेव प्रवर्तत इति भाष्ये स्पष्टम् । अथ संख्यायाः संख्यया समासे उदाहरणान्तरमाह-द्विरावृत्ता दश द्विदशा इति । शब्दशक्तिस्वाभाव्यास्सुजर्थान्तविण पूर्वपदस्य वृत्त्याश्रयणात् समासे सुचो न श्रवणमिति भाष्ये स्पष्टम् । द्वित्वसंख्याकदशत्ववन्त इत्यर्थः । फलितमाह-विंशतिरित्यर्थ इति । दिङ्नामानि । नामानीत्यनन्तरं सुबन्तानि परस्परमिति शेषः। प्राग्वदिति । समस्यन्ते स च बहुव्रीहिरित्यर्थः । नामानीति बहुत्वमविवक्षितमित्यभिप्रेत्योदाहरतिवत्त्वादिति शङ्कयम् । अज्झलादेशोऽजादेशो न भवतीति 'अचः परस्मिन्-' इत्यस्याप्रवृत्तेः । 'स्थानिवदादेशः-' इति तु न प्रवर्तत एव, शास्त्रीय कार्ये हि कर्तव्ये तत्प्रवृत्तिः, न तु विघातार्थमिति सिद्धान्तात् । विंशतेरिति । इहापि आसन्ना विंशतिर्येषामिति न विगृहीतमुक्तयुक्तः । अदरेत्यादि । अदूरास्त्रिंशतः, अधिकाश्चत्वारिंशत इति विग्रही बोध्यौ। द्वित्रा इति । वार्थेऽयं बहुव्रीहिः । स च वार्थो न विकल्पः, पक्षे द्विवचनस्याप्यापत्तेः, किं तु संशयः । स चानियतसंख्यावमी, तत्र च त्रयोऽपि सवेदा भासन्त इति तदपेक्षं बहुवचनमेव । आनयनादिक्रियान्वयस्तु द्वयोस्त्रयाणां वेत्सनियत एवेत्याहुः । द्विरावृत्ता इति । सुजफै बहुव्रीहिरित्यर्थः । Page #160 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५७ पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाधौगिकानां न । ऐन्द्रयाच कौबेर्याश्चान्तरालं दिक् । ८४६ तत्र तेनेदमिति सरूपे । (२-२-२७) सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युदं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे घोत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो दक्षिणस्याश्चेति । दक्षिणपूर्वेति । स्त्रीत्वं लोकात् । यता अन्तरालमिह दिगेव गृह्यते । 'सर्वनाम्नो वृत्तिमात्रे पुंवत्त्वम् ' इति भाष्यम् । यद्यप्युपसर्जनत्वान सर्वनामत्वम् । तथापि भूतपूर्वगत्या सर्वनामत्वमादाय पुंवत्त्वं भवति, अत एव भाष्यात् । ननु दिशोरन्तराले इत्येव सिद्ध नामग्रहणं किमर्थमित्यत आहनामग्रहणादिति । दिक्षु रूढाः शब्दा दिङ्नामानीत्यनेन विवक्षिताः। ऐन्द्रीशब्दः कौबेरीशब्दश्चेन्द्रसंबन्धात् कुबेरसंबन्धाच प्रवृत्तौ यौगिक एव न रूढ इति भावः । तत्र तेन । समास इति, बहुव्रीहिरिति चाधिकृतम् । तत्र इत्यनेन सप्तम्यन्ते पदे विवक्षिते । प्रहणविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् । तेन इत्यनेन तु तृतीयान्ते पदे विवक्षिते । प्रहरणविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् । सरूपे इति प्रथमाद्विवचनान्तं पदविशेषणम् । ग्रहणविषये इति प्रहरणावषये इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासंख्यमन्वेति । इदम् इत्यर्थनिर्देशः। युद्ध प्रवृत्तमिति तद्विशेष्यमध्याहार्यम् । कर्मव्यतिहारे द्योत्ये इत्यप्यध्याहार्यम् । तदाहसप्तम्यन्त इति । प्रथमाद्विवचनमिदम् । ग्रहणविषय इति । गृह्यते अस्मिनिति प्रहणम् , केशादि, अधिकरणे ल्युट , तद् विषयः वाच्यं ययोस्ते, ग्रहणविषये, प्रहणवाचके इति यावत् । प्रहरणविषय इति । प्रहियते अनेनेति प्रहरणं दण्डादि तद् विषयः वाच्यं ययोस्ते प्रहरणविषये प्रहरणवाचके इति यावत् । अत्रापि सरूपे पदे इत्यन्वेति । इदं युद्धं प्रवृत्तमित्यर्थ इति । इदमिति सामान्यार्थनिर्देशः । युद्धमिति विशेषनिर्देशः । अतः केशाकेशि युद्धमिति न पुनरुक्तिः । परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः । ननु ग्रहणविषये प्रहरणवृत्तौ तु सुजान्तर्भावेणैवैकार्थीमावाश्रयणात्सुचोऽप्रयोगः । संख्ययेति किम् , चत्वारो ब्राह्मणाः । अव्ययेत्यादि किम्, ब्राह्मणाः पञ्च । संख्येयेति किम् , अधिका विंशतिर्गवाम् । संख्यार्थेयं संख्येति न समासः । आदशतः संख्याः संख्येये वर्तन्ते न तु संख्यायाम् । विंशत्याद्याः संख्यास्तु संख्येयसंख्ययोर्वर्तन्ते। यदा तु संख्येये विंशतिशब्दस्तदा भवत्येव समासः अधिकविंशा इति । तत्र तेनेदम् । ग्रहणविषय इति । गृह्यते इति ग्रहणं केशादि, तद्विषयो वाच्यो ययोखे सरूपे । प्रहियते अनेनेति प्रहरणं दण्डादि, तद्विषयो वाच्यो ययोरिति प्राग्वत् । कर्मव्यतिहारः परस्पर Page #161 -------------------------------------------------------------------------- ________________ १५८ ] सिद्धान्तकौमुदी। [ बहुव्रीहिसमासलभ्यते । 'मन्येषामपि दृश्यते' (सू ३५३६ ) दीर्घ इत्यनुवर्तते । इचि कर्मग्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घः । इसमासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिविप्रत्ययस्य पाठादव्ययीभावत्वमव्ययत्वं च । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैश्च दण्डैश्च प्रहृत्पदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ।८४७ विषये इत्यध्याहारे किं प्रमाणमित्यत आह–इतिशब्दादिति । इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः । केशाकेशीत्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं बहुव्रीहिर्भवतीत्यर्थः। अन्येषामपि दृश्यते । अनुवर्तत इति । 'ठूलोपे-' इत्यत इति शेषः । 'नहिवृतिवृषि-' इत्यादिपूर्वसूत्रोक्तादन्येषामपि दी| दृश्यत इत्यर्थः । अतिप्रसङ्गमाशङ्कयाह--कर्मव्यतिहारे बहुवीही पूर्वपदान्तस्य दीर्घ इति । बहुव्रीहौ चेत् कर्मव्यतिहारे एव पूर्वपदान्तस्यैव दीर्घ इत्यर्थः । तेन तुराषाडित्यादौ दीर्घो निर्बाधः । दृशिग्रहणादयमर्थो लभ्यते । वक्ष्यत इति । 'इच्कर्मव्यतिहारे' इति सूत्रेणेति शेषः । तिष्ठद्गुप्रभृतिष्विति । वृत्तिग्रन्थ एवात्र प्रमाणम् । अव्ययीभावत्वमिति । तत्र अव्ययीभाव इत्यनुवृत्तेरिति भाव । अव्ययत्वमिति । 'अव्ययीभावश्च' इत्यनेनेति शेषः। 'अव्ययादाप्सुपः' इति सुब्लुक् तत्फलमिति भावः । गृहीत्वेति । परस्परमिति शेषः । न च केशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्च युद्धकट्टेकत्वात् समानकतेकत्वाभावात् कथमिह क्त्वाप्रत्यय इति वाच्यम् , गृहीत्वेत्यनन्तरं स्थितयोरित्यध्याहारात् । ततश्च अस्य केशेषु सः, तस्य केशेष्वयमित्येवं परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहवाक्यं फलितम् । केशाकेशीति । केशेषु केशेष्वित्यनयोग्रहणाद्यन्तर्भावेन वृत्तिघटकयोः समासे सति सुग्लुक पूर्वपदस्य दीर्घः, इच्समासान्तः । 'यस्येति च ' इत्यकारलोपः । श्रव्ययत्वात्सुब्लुगिति भावः । अन्यपदार्थवृत्तित्वेऽपि एकशेषापवादोऽट बहुव्रीहिसमासः अप्रथमान्तार्थश्च । दण्डैश्चेति । अस्य दण्डैः सः, तस्य दण्डैर यमित्येवं परस्परं प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः । दण्डादराडीति । दण्डैर्दण्डैरित्यनयोः प्रहरणाद्यन्तर्भावेन समासघटकयोः समासे सति सुब्लुक् , पूर्वपदस्य दीर्घः, इच् , 'यस्येति च' इति अकारलोपः । अव्ययत्वात् सुब्लुक् । मुष्टीमुष्टीति । प्रहणं परस्परप्रहरणं च । ननु 'ग्रहणविषये सप्तम्यन्ते समस्येते प्रहरणविषये तृतीयान्ते च' इत्यादिविषयविशेषः सूत्राक्षरैः कयं लभ्यते इत्यत आह-इतिशब्दादिति। स हि लौकिकी विवक्षा दर्शयति । लोके केशाकेशीत्यादिप्रयोगे यावानर्थः प्रतीयते तावत्यर्थे बहुव्रीहिर्भवतीत्यर्थः । अन्येषामपि दृश्यते । अत्र प्राचा दृशिग्रहणात्कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घत्वम् , 'श्रात्वं वानचि' इत्युक्तम् । तत्र 'श्रात्वं वा' Page #162 -------------------------------------------------------------------------- ________________ प्रकरणम् १६] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५६ श्रोर्गुणः । (६-४-१४६) उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । 'मोरोत्' इति वक्तव्ये गुणोनिः 'संज्ञापूर्वको विधिरनित्यः' (प १४) इति ज्ञापयितुम् । तेन स्वायम्भुव इत्यादि सिद्धम् । सरूपे इति किम्-हलेन अस्य मुष्टिभिः सः, तस्य मुष्टिभिश्चायमित्येवं परस्परं प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । मुष्टया मुष्टया इत्यनयोः समासे सति सुब्लुगादि पूर्ववत् । मुष्टामुष्टीति पूर्वपदान्नस्य आत्वमपाणिनीयमेव । पोर्गुणः। ओः इत्युकारात् षष्ठयेकवचनम् । तेन भस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । 'नस्तद्धिते' इत्यनुवर्तते। तदाह-उवर्णान्तस्येति । बाहूबाहवीति । बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । समासः, सुब्लुक् , पूर्वपदस्य दीर्घः, इच् । 'यस्येति च' इति बाधित्वा ओर्गुणः, अवादेशः। अव्ययत्वात् सुपो लुक् । ननु गुण उकारस्थाने भवन् स्थानसाम्यादोकार एव भवति । ततश्च लाघवाद् 'पोरोत्' इत्येव सिद्धे गुण इति गुरुनिर्देशो व्यर्थ इत्यत आह -ओरोत् इति । न चैवमपीह तद्धितसंज्ञापूर्वकत्वं दुर्वारमिति वाच्यम् , विधेयसमर्पकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात् । न च 'श्रोत्' इति “तपरस्तत्कालस्य' संज्ञेति वाच्यम् , विधीयमानत्वादेव तत्कालत्वसिद्धया तकारस्य उच्चारणार्थत्वात् । स्वायम्भुव इति । खयम्भुवोऽपत्यमित्यर्थे अण, स्वायंभुवः, संज्ञापूर्वकत्वेनानित्यत्वादोर्गुणाभावे उवङ्, इत्यपाणिनीयम् । अतएव मुष्टामुष्टीत्युदाहरणमप्यप्रामाणिकमेव । एतच्च मनोरमायां स्पष्टम् । अोर्गुणः । तद्धिते किम् , पटवी । वाय्वोः । गुणोक्तिरिति । यद्यपि 'ओरोत्' इति सूत्रितेऽपि 'भस्य तद्धिते' इत्येवंरूपसंज्ञापूर्वकत्वमस्त्येव, तथापि विधेयसमर्पकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वको विधिरिति भावः । यद्यपि ओदिति तपरस्तत्कालस्य संज्ञैव तथापि इह तकार उच्चारणार्थस्तपरत्वे फलाभावाद् ‘ोरो' इत्येव वास्तु । 'खं रूपं शब्दस्य-' इति तु प्रत्याख्यातमिति भावः। स्यादेतत्-तपरस्तत्कालस्य संज्ञा भवतीति 'गुरोरनृतः-' इति प्लुतनिषेधस्यापि संज्ञापूर्वकत्वेनानित्यत्वात् क्ल३प्तशिखेत्यत्र प्लुतसिद्धये 'ऋलक्' सूत्रे ऋकारात्पृथक् लकारोपदेशो व्यर्थः । सावरायें सत्यप्युक्तरीत्या लकारस्य प्लुतसिद्धरनित्यत्वज्ञापनस्य निष्फलत्वात् । न चैवमपि ऋदिताम् नृदित्कार्यम् लुदितामृदित्कार्य च वारयितुमनित्यत्वज्ञापनमावश्यकमिति वाच्यम् । राजुभ्रातृगम्लुशक्त इति पृथगनुबन्धकरणसामर्थ्याद् 'नाग्लोपिशास्वृदिताम् ', 'लूदितः परस्मैपदेषु' इति पृथगनुवादसामर्थ्याच्च तत्कार्याणामसांकर्यसिद्धेरिति चेत्-अत्राहुः-'गुरोरनृतः-' इत्यनेन ऋद्भिमस्य गुरोः प्लुतविधानाद् 'अनृतः' इत्येतदनूद्यमानगुरुविशेषणत्वेनानुवादरूपमेव, न तु विधेयसमर्पकसंशारूपं Page #163 -------------------------------------------------------------------------- ________________ १६० ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासमुसलेन । ८४८ तेन सहेति तुल्ययोगे । (२-२-२८) तुल्ययोगे वर्तमान सह इत्येतत्ततीयान्तेन प्राग्वत् । ८४६ वोपसर्जनस्य । (६-३-८२) बहुव्रीहे. रवयवस्य सहस्य सः स्थाद्वा । पुत्रेण सह सपुत्रः, सहपुत्रो वा पागतः । तुल्य. योगवचनं प्रायिकम् । सकर्मकः । सलोमकः । ८५० प्रकृत्याशिषि । आदिवृद्धिरिति भावः । स्वायम्भुवमिति पाठे तस्येदमित्यण । हलेन मुसलेनेति । भत्र असरूपत्वाद् हलामुसलीति न भवतीति भावः । तेन सहेति तुल्ययोगे। तुल्ययोग इति । युगपत्कालिकक्रियायोग इत्यर्थः । तृतीयान्तेनेति । तेनेत्यनेन तल्लाभादिति भावः । प्राविदिति । समस्यते स बहुव्रीहिरित्यर्थः । असामानाधिकरण्यार्थ कवभावार्थ चेदम् । वोपसर्जनस्य। उत्तरपदे इत्यधिकृतम् । 'सहस्य सः संज्ञायाम्' इत्यतः सहस्य स इत्यनुवर्तते । उपसर्जनम् अस्यास्तीत्युपसर्जनः, मवर्षे अर्शश्राद्यच् । उत्तरपदाक्षिप्तसमासो विशेष्यम् । उपसर्जनवतः समासस्येत्यर्थः । पयपि सर्वेषामपि समासानां कश्चिदवयवः उपसर्जनमेव । तथापि सामर्थ्यादुपसर्जन. सर्वावयवकस्येति लभ्यते । तथा च उपसर्जनस्येत्यनेन बहुव्रीहेरिति लब्धम् । अवयवषष्ठयेषा तदाह-बहुव्रीहेरवयवस्येत्यादिना । बहुव्रीहेरिति किम् , सहयुद्ध्वा । 'राजनि युधिकृमः' 'सहे च' इति क्वनिप् । उपपदसमासः । अबहुव्रीह्यवयवस्य सहस्य सत्वं न । सपुत्र इति। सभावे रूपम् । पुत्रेण युगपदागत इत्यर्थः। प्रायिकमिति । इतिशब्दादिदं लभ्यते । “विभाषा सपूर्वस्य' इत्यादिनिर्देशाचेति पदमिति स्थानिकप्लुतनिषेधस्यानित्यत्वासिद्धया क्लु ३प्तशिखेत्यत्र प्लुतो न सिध्यति, ततश्च तत्सिध्यर्थमुक्वज्ञापनायोभयोपदेश श्रावश्यक इति । अन्ये तु ऋकारात्पृथग लकार उपदेष्टम्य एव ऋकारोपदेशेन लुकारस्यालाभात् । न च 'ऋलवर्णयोमिथः सावर्ण्यम्-' इति वचनात् तल्लामः शङ्कयः । वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेरित्याहुः। तेन सहेति । तुल्ययोगे किम् , 'सहैव दशभिः पुत्र रं वहति गर्दभी' । इह सहशब्दो न तुल्ययोगवचनः । भारकमेकवहनक्रियायां तु पुत्राणामनन्वयात् । किंतु विद्यमानवचनः । दशसु पुत्रेषु विद्यमानेष्वित्यर्थः। एतच्च सहशब्दस्य विद्यमानार्थत्वमप्यस्तीति वक्तुमुक्तम् । प्रत्युदाहरणशरीरं तु सह पुत्ररियेवेति बोध्यम् । तृतीया तु 'सह युक्त-' इत्यनेनैव । वोपसर्जनस्य । उपसर्जनस्येति न सहस्य विशेषणम्, अव्यभिचारात् । किं तूत्तरपदेन संनिधापितस्य समासस्य । तचावयवद्वारकम् , उपसर्जनसवियवकस्य समासस्येत्यर्थः । तदेतत्फलिमाह-बहुव्रीहेरिति । तेनेह नसहयुवा, सहकृत्वा । 'राजनि युधि कृषः' 'सहे च' इति क्वनिपि उपपदसमासाविमौ । 'सहस्य सः संज्ञायाम्' इत्यतोऽनुवर्तनादाह-सहस्य सःस्यादिति ।प्रायिकमिति। Page #164 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६१ (६-३-८३) सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय,सहामात्याय। 'अगोवत्सहलेष्विति वाच्यम्' ( वा ३६६०)। सगवे । सवत्साय । सहलाय । ८५१ बहुव्रीहौ संख्येये डजबहुगणात् । (५-४-७३) संख्येये यो बहुव्रीहिस्तस्माडुच् स्यात् । उपदशाः । अबहुगणात् किम्-उपबहवः, उपगणाः । अत्र स्वरे विशेषः ! 'संख्यायास्तत्पुरुषस्य वाच्यः' । (वा ३३४८) निर्गतानि भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः । अत्र तुल्ययोगाभावेऽपि सहस्य सः । प्रकृत्याशिपि । 'सहस्य सः संज्ञायाम्' इत्यतः सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते । तदह-सहशब्द इति । प्रकृत्येति । स्वभावेन स्थितः स्यादित्यर्थः । सभावो नेति यावत् । स्वस्तीति । भूयादिति शेषः । सहपुत्रायेति । तेन सहेति समासे कृते, आशीर्योगान्न सभावः। सहामात्यायेति । अगोवत्सेति । गोवत्सहलेषु परतः सहस्य प्रकृतिभावो नेत्यर्थः । सगव इति । राज्ञे स्वस्तीति शेषः । अथ बहुव्रीहावसाधारणसमासान्तानाह-बहुव्रीहौ । संख्येये यो बहुव्रीहिरिति । 'संख्ययाव्यय-' इति विहित इति शेषः । तस्मादिति। बहुव्रीहाविति पञ्चम्यर्थे सप्तमीति भावः । डच्स्याद् इति । समासान्तस्तद्धितश्चेति ज्ञेयम् । उपदशा इति । दशानां समीपे ये सन्तीति विग्रहः । 'संख्ययाव्यय-' इति बहुव्रीहिः । सुब्लुक् । उपदशन्शब्दाडचि 'नस्तद्धिते' इति टिलोपः। उपबहवः । उपगणा इति । बहूनां समीपे ये सन्तीति, गणस्य समीपे ये सन्तीति च विग्रहः । 'बहुगणवतुडति संख्या' इति संख्यात्वात् 'संख्ययाव्यय-' इति समासः । अबहुगणाद् इति निषेधान डच् । ननु उपगणा इत्यत्र डचि सति असति च रूपसाम्यात् किं तन्निषेधेनेत्यत आह-अत्र स्वरे विशेष इति । डचि सति चित इति अन्तोदात्तत्वं स्यादित्यर्थः। संख्याया इति । संख्यान्ततत्पुरुषस्य समासान्तो डच 'विभाषा सपूर्वस्य' इत्यादिनिर्देशादिति भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः । प्रकृत्याशिषि । कथं तर्हि 'यजमानस्य सपुत्रस्य सभ्रातृकस्य सपरिवारस्यायुरारोग्यैश्वर्याभिवृद्धिरस्तु' इत्यादिप्रयोगाः संगच्छन्त इति चेत्-उच्यते-‘ऐश्वर्याभिवृद्धिरस्त्विति भवन्तोऽनुब्रवन्तु' इत्येतत्प्रार्थनावाक्यम्, न त्वाशीर्वचनम् । यच्चाशीर्वचनम् 'तथास्तु' इति तत्र हि सपुत्रकेत्यादि न प्रयुज्यत एवेति न काप्यनुपपत्तिः । बहवीही संख्येये । व्यत्ययेन पञ्चम्यर्थे सप्तमीत्याह-यो बहुव्रीहिस्तस्मादिति । उपगणा इत्यत्र डचि सत्यसति च रूपे विशेषो नास्तीत्याह- स्वरे विशेष इति । डचि सति 'चितः' इत्यन्तोदात्तत्वं स्यात् , असति तु पूर्वपदप्रकृतिस्वर इत्यर्थः । न च सत्यपि डचि परत्वात्पूर्वपदप्रकृतिखर एव स्यादिति शङ्कयम् , 'चितः' इति Page #165 -------------------------------------------------------------------------- ________________ १६२ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासत्रिंशतो निखिशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गलिभ्यो निस्त्रिंशः खड्गः । ८५२ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गाषच् । (५-४-११३) व्यत्ययेन षष्ठी । स्वागवाचिसक्थ्यच्यन्ताबहुव्रीहेः षस्यात् । दीर्वे सक्थिनी यस्य स दीर्घसक्थः। जलजाती । 'स्वाहात्' किम्-दीर्घसक्थि शकटम् । स्थूलाता वेणुयष्टिः । वक्तव्य इत्यर्थः । निस्त्रिशानीति । 'निरादय क्रान्त-' इति तत्पुरुषः, डच् , 'टेः' इति टिलोपः । त्रिंशतोऽधिकानीति यावत् । निस्त्रिश इति । समासादि पूर्ववत् । त्रिंशदधिकाङ्गलिरित्यर्थः । न च गवां विंशतिर्गोविंशतिरित्यत्रातिप्रसङ्गः शक्यः, 'अव्ययादेः' इति विशेषणादिति भाष्ये स्पष्टम् । न चैकाधिका विंशतिरेकविंशतिरित्वत्र 'संख्ययाव्यय-' इति समासे सति 'बहुव्रीहौ संख्येये-' इति डच शङ्कयः, अन्यत्राधिकलोपादिति वार्तिकादित्यास्तां तावत् । बहुव्रीहौ । व्यत्ययेनेति । सक्थ्यक्ष्णोरिति षष्ठी पञ्चम्यर्थे, 'व्यत्ययो बहुलम् ' इति च्छन्दसि वचनादित्यर्थः । 'छन्दोवत्सूत्राणि भवन्ति' इति भाष्यम् । 'बहुव्रीहौ' इति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह-स्वाङ्गवाचीति । सक्थ्यक्ष्यन्तादिति । बहुव्रीहिविशेषणत्वात् तदन्तविधिरिति भावः । षच् स्यादिति । समासान्तस्तद्धितश्चेति ज्ञेयम् । दीर्घसक्थ इति । षच् 'यस्येति च' इति लोपः। जलजाक्षीति । जलजे इव अक्षिणी यस्या इति विग्रहः । समासे षचि 'नस्तद्धिते' इति टिलोपः। षित्त्वाद् ङीष् । षित्त्वं डीपर्थमिति भावः । दीर्घसक्थि शकटमिति । दीर्घ सक्थिनी सक्थिसदृशावीषादण्डौ यस्येति विग्रहः । अत्र सक्थिशब्दार्थयोरीषादण्डयोः 'अद्रवं मूर्तिमत्स्वानाम्-' इत्यादिस्वाङ्गलक्षणाभावान्न षजिति भावः । अत्र 'स्वाङ्गात्' इत्यस्य प्रत्युदाहरणान्तरमाह-स्थूलाक्षेति । स्थूलानि अक्षीणि पर्वग्रन्थयो यस्या इति बहुव्रीहिः । अस्वागत्वादिह न जिति भावः । न षजभावेऽपि नान्तलक्षणीपि स्थूलाक्षिणीति खरस्य सतिशिष्टत्वात् , डचश्चित्करणस्य वैयर्थ्यापत्तेश्च । संख्याया इति । संख्यान्तस्य तत्पुरुषस्य चरमावयवो डज्वक्तव्य इत्यर्थः । एकविंशतिरित्यादौ तु न भवति, 'अन्यत्राधिकलोपात्' इति वार्तिककारोक्तेः। व्यत्ययेन षष्ठीति । एतच्चोपलक्षणम् , सप्तम्यपि व्यत्ययेनैव, तदाह-वाङ्गवाचीत्यादि। अद्रवं मूर्तिमत्-' इत्यादिलक्षणलक्षितं खाझं गृह्यते । तेन शोभनाक्षी प्रतिमेत्यादिप्रयोगो निर्बाध एवेत्याहुः । षच् स्यादिति । षो ङीषर्थः । चस्तु 'चितः' इत्यन्तोदात्तार्थः । तेनात्र पूर्वपदप्रकृतिखरो न भवति । स्थूलाक्षेति । स्थूलानि अक्षीणि पर्वाङ्कराणि यस्याः सा । प्राचा तु १ ग्रन्थोऽयमसङ्गत इव प्रतिभाति, अक्षिशब्दस्य नान्तत्वाभावात् । Page #166 -------------------------------------------------------------------------- ________________ प्रकरणम् १६] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६३ 'अक्षयोऽदर्शनात्' (सू १४४ ) इत्यच् । ८५३ अङ्गलेरणि । (५-४-११४) अङ्गल्यन्ताबहुव्रीहेः पब्स्याहारुणवर्थे । पञ्च अङ्गलयो यस्य तत्पञ्चाङ्गलं दारु । अङ्गलिसदृशावयवं धान्यादिविरेपणकाष्ठमुच्यते । बहुव्रीहेः किम्-२ अङ्गली प्रमाणमस्या व्यङ्गला यष्टिः । तद्धितार्थे तत्पुरुषे 'तत्पुरुषस्याङ्गले:-' (सू ७८६) इत्यच् । दाथि किम्-पञ्चाङ्गलिहस्तः । ८५४ द्वित्रिभ्यां व मूर्भः । (५-४-११५) प्राभ्यां मूर्खः षः स्याद्वहुव्रीहौ । द्विमूर्धः। त्रिमूर्धः । 'नेतुनक्षत्रे प्रवक्तव्यः' (वा ३३६०)। मृगो नेता यासां ता मृगनेत्रा रात्रयः । पुष्यनेत्राः । ८५५ अन्तर्बहिर्त्यां च लोम्नः । (५-४-११७) पाया स्यादित्यत आह–अक्षणोऽदर्शनादित्यजिति । षचि तु षित्त्वलक्षणीष् स्यादिति भावः । अगुलेरिणि । बहुव्रीहावित्यनुवृत्तस्य पञ्चम्यर्थे सप्तम्यन्तस्य अगुल्या विशेषणात् तदन्तविधिरित्यभिप्रेत्याह-अगुल्यन्तादिति । पञ्चाङ्गुलं दार्विति । षचि 'यस्येति च' इति इकारलोपः । ननु दारुणः कथं अङ्गुलय इत्यत आह-अङ्गुलिसदृशावयवमिति । अङ्गुलिसदृशा अवयवा यस्येति विग्रहः । धान्येति । कुसूलादिस्थितधान्याद्याकर्षकमिति यावत् । उच्यत इति । लक्षणयेति शेषः। बगुलेति । 'प्रमाणे द्वयसच्-' इति विहितस्य मात्रचः 'द्विगोर्नित्यम्' इति लुक् । अबहुव्रीहित्वादत्र न षजिति भावः । तर्हि द्यगुलिरिति स्यादित्यत आह-तद्धितार्थ इति । षचि तु ङीष् स्यादिति भावः । द्वित्रिभ्याम् । षेति लुप्तप्रथमाकं पदम् । द्विमूर्ध इति । द्वौ मूर्धानौ यस्येति विग्रहः । त्रिमूर्ध इति । त्रयो मूर्धानो यस्येति विग्रहः । समासान्तः । 'नस्तद्धिते' इति टिलोपः । षचि अनुवर्तमाने षग्रहणं चित्स्वरनिवृत्त्यर्थम् । नेतरिति । नक्षत्रे विद्यमानो यो नेतृशब्दः तदन्ताद्बहुव्रीहेरप् वक्तव्य इत्यर्थः । नेता नायकः । मृगो नेतेति । मृगः मृगशीर्षम् । रात्रिनेता चन्द्रः । तद्योगान्नक्षत्रस्यापि नेतृत्वं बोध्यम् । मृगनेत्रा इति । मृगनेतृशब्दादप् , ऋकारस्य यण , रेफः, टाप् । पुष्यनेत्रा स्थूलाक्षिरिक्षुरिति प्रत्युदाहृतम् । तन्न, 'अक्षणोऽदर्शनात्' इत्यचो दुरित्वात् । यदपि समासान्तविधेरनित्यत्वात्स न कृत इति कैश्चिद् व्याख्यातम् । तदसारम् , एवं हि षजपि तथैव न भविष्यतीति प्रत्युदाहरणस्यासातिप्रसझात् । व्यालेति। मात्रचो 'द्विगोनित्यम्' इति लुक् । नेतुरिति । नेता नायकः । नक्षत्रे यो नेतृशन्दस्तदन्ताबहुव्रीहेरित्यर्थः । मृगनेत्रा इति । मृगो मृगशीर्षनक्षत्रम् । चन्द्रो नेता यस्य मृगनक्षत्रस्य चन्द्रनेता मृग इत्यत्र तु न भवति । इह हि नेतृशब्दान्तो बहुव्रीहि Page #167 -------------------------------------------------------------------------- ________________ १६४ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासलोनोऽप्स्याबहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः । ८५६ अनासिकायाः संशायां नसं चास्थूलात् । (५-४-११८) नासिकान्ताबहुव्रीहेरच्स्यामासिकाशब्दश्च नसं प्रामोति न तु स्थूलपूर्वात् । ८५७ पूर्वपदात्संशायामगः । (८-४-३) पूर्वपदस्थानिमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । दुरिव नासिका यस्य द्रुणसः । खरणसः । भगः किम्-ऋचामयनम् ऋगयनम् । 'अणगयनादिभ्यः, (स् १४५२) इति निपातनाएणस्वाभावमाश्रित्य प्रग इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम्-स्थूलनासिकः । 'खुरखराभ्यां वा नस्' ( वा ३३६३)। खुरणाः । खरणाः। 'पक्षेऽजपीप्यते' । खुरणसः । इति । पुष्यो नेता यासामिति विग्रहः । अन्तर्बहियां च लोम्नः । अन्तर्लोम इति । अन्तः लोमानि यस्येति विग्रहः, अप् ,टिलोपः । एवं बहिर्लोमः । अनासिकायाः। अच् इति च्छेदः । नासिकाया इत्यस्य बहुव्रीहे विशेषणत्वात् तदन्तविधिमभिप्रेत्याह-नासिकान्तादिति । नसमित्यनन्तरं प्राप्नोतीत्यध्याहार्यम् । उपस्थितत्वान्नासिकाशब्द इति लभ्यते । तदाह–नासिकाशब्दश्च नसं प्राप्नोतीति । पूर्वपदात् । रषाभ्याम् इत्यनुवृत्तम् । पूर्वपदशब्देन पूर्वपदस्थं लक्ष्यते । 'रषाभ्याम् ' इत्यनेन लब्धो रेफः षश्च प्रत्येकमन्वेति । तदाह-पूर्वपदस्थानिमित्तादिति । रेफषकारात्मकादित्यर्थः । अग इति पञ्चम्यन्तम् । गकारभिन्नात्परस्येत्यर्थः। गकारात्परस्य नेति यावत् । तदाह-न तु गकारव्यवधान इति । अनेन 'अट्कुप्वानुम्व्यवायेऽपि ' इत्यनुवृत्तिः सूचिता । अन्यथा अग इत्यस्य वैयर्थ्य स्यात् । खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरिवेति । वृक्ष इवेत्यर्थः । द्रणस इति । बहुव्रीहेरच् । नासिकाशब्दस्य नसादेशः। णत्वम् । ऋगयनमिति। 'ऋवर्णात्-' इति वार्तिकस्याप्यत्रानुवृत्त्या णत्वं प्राप्तं गकारेण व्यवधानान्न भवतीति भावः । अत्र ऋचामयनमिति विग्रहप्रदर्शनं चिन्त्यम् , वाक्येन संज्ञानवगमात् । न च रघुनाथ इत्यादौ संज्ञायां णत्वं शङ्कयम् , णत्वेन चेत्संज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम् । अत एव 'भृञोऽसंज्ञायाम् ' इति सूत्रभाष्ये 'य एते संज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते संज्ञायामभिधेयायामिति । किं तर्हि प्रत्ययान्तेन चेत्संज्ञा गम्यते' इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिका. शब्दस्य बहुव्रीही संज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः। प्रकृतत्वादेव सिद्धे नसादेशवचनम् अच्प्रत्ययानुवृत्तिनिवृत्त्यर्थम् । खुरणा इति । खुराविव नासिके यस्येति नक्षत्रे वर्तते न तु नेतृशब्द इति । खुरखराभ्यामिति । 'नासिकायाः-' इति वर्तते। केवलादेशवचनं प्रत्ययनिवृत्यर्थम् । खुरणा इति । 'अत्यसन्तस्य-' इति दीर्घः । Page #168 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६५ 1 खरणसः । ८५८ उपसर्गाच्च । ( ५-४-११६ ) प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । श्रसंज्ञार्थमिदं वचनम् । उनता नासिका यस्य स उमसः । ८५६ उपसर्गादनोत्परः । ( ८-४-२८ ) इति सूत्रम् । तद्भङ्क्त्वा भाष्यकार श्राह - उपसर्गाद्वहुलम् । उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम् । प्रणसः | 'वेर्मो वक्तव्यः' ( वा ३३६५ ) । विगता नासिका यस्य विप्रः । 'ख्यश्च' ( वा ३३६६ ) । विख्यः । कथं तर्हि विग्रहः । नसादेशः । 'पूर्वपदात्संज्ञायाम् -' इति णत्वम् । 'अत्वसन्तस्य -' इति दीर्घः । खरणा इति । खररूपा नासिका यस्येति विग्रहः । पक्षे खुरनासिक इति खरनासिक इति च न भवतीत्याह - पक्षे जपीष्यत इति । अच्प्रत्ययसहितो नसादेश इत्यर्थः । भाष्ये त्विदं न दृश्यते । उपसर्गाच्च । नन्वञ्नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह- संज्ञार्थमिति । उपसर्गादनोत्पर इति सूत्रमिति । तत्र हि 'नश्च धातुस्थो -' इति सूत्रान्नसिति लुप्तषष्ठीकमनुवर्तते 'रषाभ्यां नो णः' इत्यनुवर्तते । उपसर्गस्थाद्रेफषकारात्परस्य नसो नस्य णः स्यात्, श्रोत्रस्तु नकारो णत्वं न प्राप्नोतीत्यर्थः । खण्डपदस्थत्वादप्राप्ताविदं सूत्रम् । 'प्रण यूँषि तारिषत् ' इत्याद्युदाहरणम् । श्रनोत्परः किम् ? ' प्र नो मुञ्चतम् अत्र ओत्परकत्वान्न णत्वमिति स्थितिः । तद्भङ्क्त्वेति । 'अनोत्परः' इत्यपनीय तत्स्थाने बहुलमिति च कृत्वा भाष्यकार आहेत्यर्थः । तथा च फलितं सूत्रमाह — उपसर्गाद्बहुलम् । निमित्तादिति । रेफषकारान्मकादित्यर्थः । ' उपसर्गादनोत्परः' इति यथाश्रुते तु 'प्रणो नय' इत्यादावव्याप्तिः, 'प्र नः पूषा' इत्यादावतिव्याप्तिश्चेति भावः । प्रणस इति । प्रगता नासिका यस्येति विग्रहः । ' उपसर्गाच्च' इत्यच्, नासिकाया नस् ।' उपसर्गाद्बहुलम् ' इति णत्वमिति भावः । वेरिति । वेः परो यो नासिका - शब्दः स प्रादेशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः । प्रकृतवार्तिकेन नासिकाशब्दस्य ग्रादेश इति भावः । विगता नासिका यस्येति विग्रहे अचि नसादेशं टापि च विनसेति भट्टिप्रयोगो न युज्यते । प्रादेशस्यास्य नसादेशं उपसर्गाच्च । उपसर्गग्रहणं प्रादीनामुपलक्षणम्, नासिकाशब्दस्याक्रियार्थत्वेन तं प्रत्युपसर्गत्वायोगात् । न च क्रियायोगाभावेऽप्युपसर्गत्वमस्त्विति शङ्कयम् । सावके अधिसावकमित्यव्ययीभावे ‘उपसर्गात्सुनोति-' इति सस्य षत्वप्रसङ्गात्तदाह - प्रादेरिति । उपसर्गादनोत्परः । अनोत्परः किम् प्रनो मुञ्चतमित्यत्र णत्वं मा भूत् । तद्भङ्क्त्वेति । ‘अनोत्परः' इत्यपनीय बहुलग्रहणं च कृत्वेत्यर्थः । श्रन्यथा प्र नयेत्यादावव्याप्तिः, प्र नः पूत्रेत्यादौ त्यतिव्याप्तिः प्रसज्येतेति भावः । प्रणस इति । , Page #169 -------------------------------------------------------------------------- ________________ १६६ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमास'विनसा हतबान्धवा' इति भट्टिः । विगतया नासिकयोपलक्षितेति ब्याख्येयम् । ८६० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः। (५-४-१२०) एते बहुव्रीहयोऽप्रत्ययान्ता निपात्यन्ते शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवा अस्य सुदिव । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्यैणीपदः । अजपदः । प्रोष्टो गौः, तस्येव पादावस्य प्रोष्ठपदः । ८१ नदुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् । (५-४-१२१) अच्स्यात् अहलः, अहलिः । प्रत्यपवादत्वादित्याक्षिपति-कथं तौति । समाधत्ते-विगतयेति । विगता नासिका विनासिका, प्रादिसमासः, अबहुव्रीहित्वाद् न प्रादेशः, किंतु टायां 'पद्दन्-' इति नसादेशे विनसेति तृतीयान्तं रूपम् । उपलक्षितेत्यध्याहार्यमिति भावः । सुप्रात। सुप्रात इति। अच्प्रत्ययः । 'अव्ययानां भमात्रे टिलोपः'। सुश्व इति । अच, पूर्ववडिलोपः । सुदिव इति । शोभनं दिवा यन्येति विग्रहः । दिवेत्याकारान्तमव्ययम् । 'अव्ययानां भमात्रे टिलोपः' इति टिलोः । शारिकुक्षइति । शारिः पक्षिविशेषः । अचि 'यस्येति च' इति इकारलोप: । चतस्रोऽश्रय इति । कोणा इत्यर्थः। अचि 'यस्येति च' इति इकारलोपः। एण्या एवेति । एणी मृगी। अजपद इति । अजः छागः, तस्येव पादावस्यति विग्रहः । एणीपदादिषु अच् । निपातनात् पादः पत् । नन्दुस्सुभ्यः। शेषपूरगन सूत्रं व्याचष्टेअच् स्यादिति । अहलः, अहलिरिति । अविद्यमानो हतिः यस्येति विग्रहः । हलिशब्द इदन्तो हलपर्यायः, तदन्तादचि 'यस्येति च' इति इकारलोपे तदभावे च रूपम् । यद्यपि हलशब्देन हलिशब्देन च रूपद्वयं सिद्धम् । तथापे अनुक्तसमासान्ततया शैषिकस्य कपः प्राप्तौ तन्निवृत्त्यर्थमिदं वचनम् । अस्य वैकल्पिकत्वेऽपि अनुक्तप्रगता नासिका अस्येति विग्रहः । कथं तीति । प्रख्ययोरन्यतरेगग भाव्यमिति प्रश्नः । मासिकयेति । तथा च विनसेति न प्रथमान्तम् , किं तु 'पद्दन्न-' इति नसादेशे तृतीयान्तमिति भाका । शोभनं प्रातरस्येति । अधिकरणशक्तिप्रधानस्य सामानाधिकरण्यासंभवात्प्रातःशब्देन प्रातस्तनं कम लक्ष्यत इत्याहुः । प्रातःकल्पमित्यत्रेव प्रातःशन्दो वृत्तिविषये शक्तिमत्पर इति न सामानाधिकरण्यानुपपत्तिरित्यन्ये । एणीपदादिषु निपातनात्पद्भावः। नन्दुःसुभ्यो नन्वत्र हलिग्रहणं व्यर्थम् , हलशब्दमादायाहल इति प्रयोगसंभवात् । न च महद्धल हलिः, तद्रहितोऽहलिस्तत्रैवार्थे हल इति प्रयोगार्थ तग्रहणमिति वाच्यम् , अहल इत्यत्र महद्धलरहित इत्यर्थाप्रतीतेः । न चैषमप्यन्तोदात्तार्थमन्प्रत्ययविधानमावश्यकम् , अन्यथाऽहल इत्यत्र पूर्वपदप्रकृति Page #170 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६७ असक्थः, असक्थिः । एवं दुःसुभ्याम् । शक्त्योः इति पाठान्तरम् । अशक्तः, अशक्तिः । ८६२ नित्यमसिच्प्रजामेधयोः । ( ५-४ -१२२ ) नम्दुः सुम्ब इत्येव । श्रप्रजाः । दुष्प्रजाः । सुप्रजाः । श्रमेधाः । दुर्मेधाः । सुमेधाः । ८६३ धर्मादनिकेवलात् । ( ५-४- १२४ ) केवलात्पूर्वपदात्परो यो समासान्तत्वाभावादत्र न कप् । असक्थः, असक्थिरिति । अविद्यमानं सक्थि यस्येति विग्रहः । एवं दुस्सुभ्यामिति । दुर्हलः, दुर्हलिः । दुस्सक्थः, दुस्सक्थिः । शक्त्योरिति । 'हलिशक्त्योः' इति केचित् पाणिनीयाः पठन्तीत्यर्थः । केचि च्छिष्याः पाणिनिना तथा पाठिता इति वदन्तीति भावः । नित्यमसिच् । नङदुसुभ्य इत्येवेति । पूर्वसूत्रादनुवर्तत इति भावः । एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच् समासान्तः स्यात् स तद्धित इत्यर्थः । असिचः चकार इत्, इकार उच्चारणार्थः । अन्यतरस्यामित्यनुवृत्तिनिवृत्त्यर्थं नित्यग्रहणम् । स्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्त्वम् । प्रजा इति । अविद्यमाना प्रजा यस्येति विग्रहः । ' नञोऽस्त्यर्थानाम् -' इति समासः । असिचि 'यस्येति च' इत्याकारलोपादप्रजश्शब्दात् सुबुत्पत्तिः । सौ तु 'त्वसन्तस्य -' इति दीर्घः । ' हल्ङयाप्-' इति सुलोपः । यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदम् । तथापि सिच्यभत्वेन आकारलोपाभावादप्रजास्ाब्दात् सुबुत्पत्तौ प्रथमैकवचने प्रजाः इति रूपसिद्धावपि , प्रजसाविति न स्यात् । किंतु प्रजासावित्यादि स्यात् । तस्मादकारोच्चारणं भत्वसंपादनार्थमावश्यकम् । दुष्प्रजा इति । दुर्गता प्रजा यस्येति विग्रहः । 'प्रादिभ्यो धातुजस्य-' इति समासः । असिजादि पूर्ववत् । 'इदुदुपधस्य -' इति षत्वम् । सुप्रजा इति । शोभना प्रजा यस्येति विग्रहः । असिजादि पूर्ववत् । श्रमेधा इत्यादि । अविद्यमाना मेधा यस्येति विग्रहः । श्रसिजादि पूर्ववत् । केचित्तु नित्यग्रहणमन्यतो विधानार्थम् । तेनाल्पमेधस इत्यादि सिध्यतीत्यप्याहुः । धर्मादनिच्केवलात् । स्वरः स्यादिति शङ्कथम्, 'नञ्सुभ्याम्' इस्यनेनान्तोदात्तत्वविधानात् । अत्राहुः - शैषिकस्य कपो निरृत्त्यर्थम्, 'दुर्हलै:' इत्यत्रान्तोदात्तत्वार्थं च तदिति । शक्त्योरिति । आचार्येण केचिच्छात्रा हलिशक्त्योरिति पाठिता इति भावः । नित्यमसिच् । श्रकारोच्चारणं भत्वसंपादनार्थम् तेन सुप्रजसावित्यादौ 'यस्येति च' इत्याकारलोपः सिध्यति । श्रस्वरितत्वादेव अन्यतरस्यांग्रहणाननुवृत्तिसिद्धौ नित्यग्रहणमन्यतो विधानार्थम् । तेन 'अल्पमेधसः' इति सिध्यतीति वृत्तिकारादयः । धर्मादनिच् । अनिचोऽकारश्चिन्त्यप्रयोजन इत्येके । अन्ये तु धर्मं करोत्याचष्टे वा 'तत्करोति-' इति ण्यन्तात् क्विपि धर्म, परमो धर्म यस्य स परमधर्मा । एकदेशविकृतस्यानन्यत्वाद्धर्म , Page #171 -------------------------------------------------------------------------- ________________ १६८ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासधर्मशब्दस्तदन्ताद्वहुव्रीहेरनिच्स्यात् । कल्याणधर्मा । केवलात् किम्-परमः खो धर्मो यस्येति त्रिपदे बहुव्रीहौ मा भूत् । स्वशब्दो हीह न केवलं पूर्वपदम् , किं तु मध्यमत्वादापेक्षिकम् । 'सन्दिग्धसाध्यधर्मा इत्यादौ तु कर्मधारयर्वपदो बहुव्रीहिः । एवं च परमस्वधर्मा इत्यपि साध्वेव। निवृत्तिधर्मा, अनुच्छित्तिधर्मा पूर्वपदादित्यध्याहृत्य केवलादित्यस्य तद्विशेषणत्वमाह-केवलात्पूर्वपदादिति । अनिचि चकार इत् । इकार उच्चारणार्थः । मध्यमपदत्वानाक्रान्तत्वं केवलपूर्वपदत्वम् । कल्याणधर्मेति । कल्याणो धर्मो यस्येति विग्रहः । अनिचि 'यस्येति च' इत्यकारलोपः । परम इति । परमः खो धर्मो यस्येति बहुव्रीहौ परमस्वधर्मशब्दे स्वशब्दस्य धर्मशब्दापेक्षया पूर्वपदत्वात् ततः परमखधर्मशब्दादप्यचः प्राप्तौ तन्निवृत्त्यर्थं केवलप्रहणमिति भावः । केवलग्रहणे कृते तु न दोष इत्याह-स्वशब्दो हीह न केवलं पूर्वपदमिति । किं त्विति । किं तु स्वशब्दो धर्मपदापेक्षया पूर्वत्वात्पूर्वपदम् , न तु केवलम् , मध्यमत्वात्। केवलशब्देन च पदान्तरराहित्यवाचिना मध्यमपदत्वानाक्रान्तत्वलाभादित्यर्थः । इदं च 'इजादेः-' इति सूत्रभाष्ये स्पष्टम् । एवं च त्रिपदबहुव्रीहौ परमस्वधर्म इत्येव भवति । नत्वनिच् । 'सर्वनामसंख्ययोरुपसंख्यानम्' इति स्वशब्दस्य पूर्वनिपातस्तु 'वाहिताग्न्यादिषु' इति पाक्षिकत्वान्न भवति । नन्वेवं सति संदिग्धः साध्यो धर्मो यस्य स संदिग्धसाध्यधर्मा इत्यत्र कथमनिच् । अत्र हि संदिग्धेति केवलं पूर्वपदम् , धर्मशब्दस्तस्मात् परो न भवति । यस्मात् साध्यशब्दात् परो धर्मशब्दः, तस्य तु न पूर्वपदत्वम् , मध्यमपदत्वादित्यत आह-संदिग्धेति । संदिग्धश्वासौ साध्यश्चेति कर्मधारयः, संदिग्धसाध्यो धर्मो यस्येति कर्मधारयगर्भो बहुव्रीहिः। एवं च संदिग्धसाध्यशब्दस्य केवलपूर्वपदत्वात् तत्रानिज् निर्बाध इति भावः । एवं चेति । उक्तरीत्या परमश्वासौ स्वश्च परमखः, परमस्खः धर्मो यस्येति कर्मधारयाश्रयणे तु शब्दोऽयमित्यकारोच्चारणमिह सप्रयोजनमेवेत्याहुः । बहुव्रीहिणात्र पूर्वपदमाक्षिप्यत इत्यनुपदमेव वक्ष्यति । तच्च 'केवलात्' इत्यनेन विशेष्यत इत्याह-केवलात्पूर्वपदादिति । प्राचा तूत्तरपदमपि विशेषितम् । प्रसादकृतापि केवलादिति धर्मशब्दस्य पूर्वपदस्य च विशेषणमिति व्याख्यातम् , तदुभयमपि चिन्त्यम् । आवृत्तौ मानाभावात् , धर्मपदविशेषणे प्रयोजनाभावाच । न च धर्मशब्दान्तं यत्रोत्तरपदं तद्यावृत्तिः फलमिति वाच्यम् , तत्र बहुव्रीह्यवयवीभूतपूर्वपदात्परत्वस्य धर्मपदे असंभवादेवादोषत्वात् । मध्यमत्वादिति । न च 'सर्वनामसंख्ययोः-' इति स्वशब्दस्य पूर्वनिपातः शङ्कयः, माहिताग्म्यादेराकृतिगणत्वादिति हरदत्तादिभिः समाहितत्वात् । आपेक्षिकमिति । नाव न केवलाइ व्यर्थम् , पूर्वशब्स्य समासप्रथमावयवे रूढत्वेनैव मध्यमपद Page #172 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६६ इत्यादिवत् । पूर्वपदं तु बहुव्रीहिणा आक्षिप्यते । ८६४ जम्भा सुहरिततृणसोमेभ्यः। (५-४-१२५) जम्भा इति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य, तृणमिव दन्ता यस्येति वा तृणजम्भा। सोमजम्भा। स्वादिभ्यः किम्-पतितजम्भः । ८६५ दक्षिणेर्मा लुब्धयोगे । (५-४-१२६) दक्षिणे ईमें व्रणं यस्य दक्षिणेर्मा केवलपूर्वपदत्वादनिच् । परमस्वधर्मेत्यपि साध्वेवेत्यर्थः । निवृत्तीति । निवृत्तिः धर्मो यस्येति, अनुच्छित्तिः धर्मो यस्येति च विग्रहः । अत्र समासे निवृत्तिशब्दस्य अनुच्छित्तिशब्दस्य च केवलपूर्वपदत्वाद् यथायोग्यमनिजिति भावः । नन्विह सूत्रे पूर्वपदशब्दस्य श्रवणादनुवृत्त्यभावाच्च कथं पूर्वपदादिति लभ्यत इत्यत आहपूर्वपदं त्विति । जम्मा सुहरित । जम्भेति नकारान्तं पदम् । तदाहजम्भेति कृतसमासान्तमिति । अनिजन्तमित्यर्थः । सु, हरित, तृण, सोम इत्येतेभ्यः परो यो जम्भशब्दः, तदन्ताद् बहुव्रीहेः अनिच्प्रत्ययो निपातित इति भावः । जम्भो भक्ष्ये दन्ते चेति । अत्र कोशो मृग्यः । सुजम्भेति । सुजम्भशब्दादनिचि 'यस्येति च' इत्यकारलोपः । हरितजम्भेति । हरितो जम्भो यस्येति विग्रहः । तृणमिवेति । तृणशब्दस्य दन्तवाचिना जम्भशब्देन सामानाधिकरण्यलाभाय तृणशब्दस्य तत्सदृशे लक्षणेति भावः । सोमजम्भेति । सोमः चन्द्रः स इव शुभ्रा जम्मा दन्ता यस्येति विग्रहः । सोमः सोमलता वा, सैव जम्भो भक्ष्यं यस्येति विग्रहः । पतितजम्भ इति । पतिता जम्मा दन्ता यस्येति विग्रहः । दक्षिणेर्मा । लुब्धो व्याधः, तद्योगे 'दक्षिणेा-' इत्यनिच्प्रत्ययः, बहुव्रीहिश्च निपात्यते । दक्षिणे ईमें यस्येति विग्रहः । ईर्ममित्यस्य व्याख्यानं व्रणमिति । व्यधिकरणत्वेऽपि बहुव्रीहिर्निपातनात् । अनिचि 'यस्येति च' इत्यकारलोपे व्यावृत्तिसंभवादिति चेत् । अत्राहुः—पूर्वपदाक्षेपे तात्पर्यग्राहकत्वेन केवलपदस्य सार्थकत्वादिति । कर्मधारयपूर्वपद इति । नन्वत्रानिच् दुर्लभः, 'केवलात्' इत्यस्य समासानात्मकत्वादित्यर्थादिति चेत् । मैवम् , केवलग्रहणस्य समासानात्मकपूर्वपदपरत्वे मानाभावात् । निवृत्तिधर्मा हि स्थानी भवतीत्यादिप्रयोगविरोधाच्च । अस्मदुक्तार्थस्तु 'धृञ् धारणे' इति धातौ माधवग्रन्थे स्पष्टः । एतेन साध्यो धर्मोऽस्येति साध्यधर्मा संदिग्धश्चासौ साध्यधर्मा चेति विग्रहः । स च संदेहः साध्यधर्मद्वारक एव पर्यवस्यतीति केषांचियाख्यानं परास्तम् । उक्तरीत्यैव साध्यस्य साक्षात् संदिग्धत्वलाभे तत्समर्थनप्रयासस्य व्यर्थत्वात् । साध्वेवेति । परमश्चासौ वश्च परमस्वः, स धर्मो यस्येति यदा विगृह्यते तदेत्यर्थः । दक्षिणेर्मा- लुब्धो व्याधः । तद्योगादेवर्मनिष्पत्ताविदं Page #173 -------------------------------------------------------------------------- ________________ १७० ] सिद्धान्तकौमुदी। [ बहुव्रीहिसमासमृगः । न्याधेन कृतत्रण इत्यर्थः । ८६६ इच्कर्मव्यतिहारे । (५-४-१२७) कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच्स्यात्समासान्तः । केशाकेशि । मुसलामुसलि। ८६७ द्विदण्ड्यादिभ्यश्च । (५-४-१२८) तादर्थं चतुर्युषा । एषां सिद्धयर्थमिप्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभाहति । उभयाहति । ८६८ प्रसंभ्यां जानुनो ः। (५-४-१२६) श्राभ्यां परयोजानुशम्दयोर्जुरादेशः स्याबहुव्रीहौ । प्रगते जानुनी यस्य प्रजुः । संजुः । दक्षिणेमति रूपम् । लुब्धशब्दं विवृण्वन्नाह-व्याधेनेति रोगादिना व्रणे तु दक्षिणेम इत्येवेति भावः । इच्कर्मव्यतिहारे । समासान्त इति । तद्धित इत्यपि ज्ञेयम् । केशाकेशीति । अत्र प्रक्रिया प्रागेव प्रदर्शिता । द्विदण्ड्यादिभ्यश्च । द्विदण्ड्यादिषु इदन्तानामेव निपातनात् तेभ्यः परत्वेन इच्प्रत्ययविधिरनर्थक इत्याशङ्कय नेयं पञ्चमीत्याह-तादर्थ्य चतुर्येषेति । द्वौ दण्डाविति । कर्मव्यतिहाराभावेऽपि वैरूप्येऽपि बहुव्रीहिः इच्प्रत्ययश्च निपात्यते । द्विदण्डीति । दण्डादण्डीतिवत् प्रक्रिया । कर्मव्यतिहाराभावात् पूर्वपदस्य न दीर्घ इति विशेषः । द्विमुसलीति । द्वे मुसले यस्मिन् प्रहरणे इति विग्रहः । उभाहस्ति । उभयाहस्तीति । उभौ हस्तौ यस्मिन् प्रहरण इति विग्रहः । उभयोऽन्यत्रेति नित्यमयचि प्राप्ते निपातनेन विकल्प्यते । कर्मव्यतिहाराभावेऽपि दीर्घश्च । प्रसंभ्याम् जानुशब्दयोरिति । प्र सम् इति पूर्वपदद्वित्वाद् उत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्यम् । जानुन इत्युक्ते तु 'प्रत्ययः, परश्च' इत्यधिकारात् पञ्चम्यन्तत्वसंभवात् ज्ञोः प्रत्ययत्वं च सम्भाव्येत । तस्यादेशत्वसिद्धये षष्ठीद्विवचननिर्देशः । तदाहनिपातनं नान्यदेत्यर्थस्तदेतदाह-व्याधेनेति । ‘वाली हेमाब्जमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्मा' इति प्रयोगस्त्वौपचारिक इति कथंचिन्नेयः । केशाकेशीति । 'तत्र तेनेदम्-' इति कर्मव्यतिहारे बहुव्रीहिः । इच्प्रत्ययस्य तिष्ठद्गप्रभृतिषु पाठादव्ययीभावत्वेऽव्ययत्वम् । नन्वेवमिचश्चित्करणं व्यर्थम् , अव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधात्समासखरेणान्तोदात्तत्वसिद्धेः । अत्राहुः-विशेषणार्थं तदावश्यकमेव । तिष्ठद्गप्रभृतिषु इकारमात्रपाठे हि सुगन्धिरित्यादावतिव्याप्तिप्रसङ्गात् । किं चात्राव्ययीभावसंज्ञया बहुव्रीहिसंज्ञा न बाध्यते, किं तु द्वयोः समावेश एव, उपजीव्यविरोधस्यान्याय्यत्वात् । एवं च खरार्थमपि चित्त्वं कर्तव्यमेवेति । द्विदण्डीति । समुदायनिपातनस्य विषयविशेषपरिग्रहार्थत्वाद् द्विदण्डा शालेल्यत्र त्विज् न भवति । उभाहस्तीत्यादि । इह निपातनादेवायचः पाक्षिकत्वम् । प्रसंभ्याम् । जानुशब्दस्यैकत्वेऽप्युपपदनिबन्धनं द्वित्वमाश्रित्य जानुनोरिति Page #174 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १७१ ८६६ ऊर्ध्वाद्विभाषा । ( ५-४- १३० ) ऊर्ध्वज्ञः, ऊर्ध्वजानुः । ८७० धनुषश्च । ( ५-४-१३२ ) धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । द्विधेन्वा 1 शार्ङ्गधन्वा । ८७१ वा संज्ञायाम् । ( ५-४ -१३३ ) शतधन्वा, शतधनुः । ८७२ जायाया निङ् । ( ५-४- १३४ ) जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् । ८७३ लोपो व्योर्वलि । ( ६-१-६६ ) वकारयकारयोर्लोपः स्याद्धलि । पुंवद्भावः । युवतिर्जाया श्रस्य युवजानिः । ८७४ गन्धस्येदुत्पूतिसु रादेश इति । प्रनुरिति । 'प्रादिभ्यो धातुजस्य -' इति समासः । संज्ञुरिति । संगते जानुनी यस्येति विग्रहः । ऊर्ध्वाद्विभाषा । ऊर्ध्वशब्दात् परो यो जानुशब्दः, तस्य ज्ञुरादेशो वा स्यात् । बहुव्रीहावित्यर्थः । ऊर्ध्वनुरिति । ऊर्ध्वे जानुनी यस्येति विग्रहः । धनुषश्च । 'ऊधसोऽनङ्' इति पूर्वसूत्रं स्त्रीप्रत्ययाधिकारे व्याख्यातम् । तस्मादनङित्यनुवर्तते । तदाह – अनङादेश इति । ङित्त्वादन्तादेशः । ‘प्रत्ययः, परश्च' इत्यधिकारस्थत्वेऽपि ङित्त्वादन्तादेश इति भावः । द्विधन्वेति । द्वे धनुषी यस्येति विग्रहः । समासे द्विधनुश्शब्दे सकारस्य अनङादेशः । ङकार इत् । अकार उच्चारणार्थः । उकारस्य यणिति भावः । शार्ङ्गधन्वेति । शृङ्गस्येदं शार्ङ्गम्, ‘तस्येदम्' इत्यण्, तद् धनुर्यस्येति विग्रहः । समासे शार्ङ्गधनुश्शब्दे सकारस्यानङ्, ङकार इत्, अकार उच्चारणार्थः, उकारस्य यरिणति भावः । महिम्नस्तवे 'स्वला - वण्याशंसाधृतधनुषम्' इति प्रयोगस्त्वार्षः । वा संज्ञायाम् । 'धनुषश्च' इत्युक्तः अनङ् संज्ञायां वा स्यादित्यर्थः । शतधन्वेति । शतधन्वा नाम राजविशेषः स्यमन्तकोपाख्याने प्रसिद्धः । जायाया निङ् | आदेश इति । 'प्रत्ययः, परश्च' इत्यधिकारस्थत्वेऽपि ङित्वादन्तादेशोऽयमिति भावः । लोपो व्योर्वलि । व् य् अनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । तदाह – वकारयकारयोरिति । पुंवद्भाव इति । द्विवचननिर्देशः, तत्फलं तु स्थानषष्ठीत्वस्फुटीकरणम् । 'जानुनः' इत्युक्ते तु किमियं पञ्चमी प्रत्ययाधिकराज् जुरपि प्रत्यय इत्येवं संदेहः स्यात्, तदेतद् ध्वनयन्नाह - जानुशब्दयोर्मुरादेश इति । शार्ङ्गधन्वेति । कथं तर्हि 'खलावण्याशंसाधृतधनुषमहाय तृणवत्' इति पुष्पदन्तप्रयोग इति चेत् । अत्राहुः समासान्तविधेरनित्यत्वान्नात्रानुपपत्तिः । श्रनित्यत्वे प्रमाणं त्वंश्वादिगणे राजनशब्दपाठः । स हि 'प्रतेरंश्वादयस्तत्पुरुषे' इत्यन्तोदात्तार्थः । ' राजाहः सखि -' इति टचो नित्यत्वे तु किं तेनेति । लोपो व्योर्वलि । व्योर्लोप इति वक्तव्ये 'वेरपृक्तलोपाद्वलिलोपः पूर्वविप्रतिषेधेन' इति ज्ञापयितुमादौ विधेयनिर्देशः कृतः । तेन सुखीयतेः क्विपि सुखीरिति १ 'द्विधन्वा' इति बहुत्र नोपलभ्यते । Page #175 -------------------------------------------------------------------------- ________________ १७२ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमाससुरभिभ्यः । (५-४-१३५) एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः । 'गन्धस्येत्त्वे तदेकान्तग्रहणम्' ( वा ३३६८)। एकान्त एकदेश इवाविभागेन लषयमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह-सु शोभना गन्धा द्रव्याण्यस्य सुगन्ध 'स्त्रियाः पुंवत्-' इत्यनेनेति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निङ् । उकार इत् , 'लोपो व्योः-' इति यकारलोपः । युवतिशब्दस्य पुंवत्त्वात् तिप्रत्ययस्य निवृत्तिः । नलोप इति भावः । गन्धस्येदुत् । गन्धस्य इत् इति च्छेदः । एभ्य इति । उत् , पूति, सु, सुरभि एतेभ्य इत्यर्थः । इकारोऽन्तादेश इति । पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः। समासान्ताधिकाराद् 'आदेः परस्य' इति न भवति । उद्गन्धिरिति । उद्गतो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति । पूतिशब्दः असुरभौ । पूतिः गन्धो यस्येति विग्रहः । सुगन्धिरिति । शोभनो गन्धो यस्येति विग्रहः । सुरभिगन्धिरिति । सुरभिः गन्धो यस्येति विग्रहः । सर्वत्र 'वायुः' इति विशेष्यम् । तदेकान्तेति । तस्य विशेष्यभूतद्रव्यस्य एकान्त एकदश इव प्रतीयमान इत्यर्थः । अत्र गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशङ्कय एकान्तशब्द एकदेशवदविभक्ते लाक्षणिक इत्याहएकान्त एकदेश इवेति । सुगन्धि पुष्पं सलिलं चेति । अत्र गन्धस्य पुष्पात् सलिलाच द्रव्यात् पृथगलक्ष्यमाणत्वादिति भावः । सु शोभना इति । सु इत्यस्य व्याख्यानं शोभना इति । गन्धा इति । गन्धवन्त इत्यर्थः । 'गुणवचनेभ्यो मतुपो लुगिष्टः' इति लुक् । द्रव्याणीति । चन्दनादीमीत्यर्थः । गन्धा इत्यस्य विशेष्यमेतत् । गन्धशब्दस्य नपुंसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात् पुंस्त्वं युज्यते । 'गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि सिद्धम् । गन्धस्येत् । तकार उच्चारणार्थ इत्याशयेनाह-इकारोऽन्तादेश इति। 'आदः परस्य' इतीह न भवति 'समासान्ताः' इत्यधिकारात् । अत्र केचिदाहुःइकारस्य प्रत्ययत्वेऽपि न क्षतिः, 'यस्येति च' इति लोपेनोद्गन्धिरित्यादिरूपसिद्वेः । न च 'तित्वरितम्' इत्यन्तखरितत्वापत्तिः शङ्कया, तकारस्योच्चारणार्थत्वाभ्युपगमात् । नापि षष्ठीनिर्देशादादेशत्वमेव न प्रत्ययत्वमिति वाच्यम् , 'गापोष्टक्' इत्यादिप्रत्ययविधिष्वपि षष्ठीदर्शनादिति । अविभागनेति । एवं च गुणवाचिन एव प्रहणम् , न तु द्रव्यवाचिन इति फलितोऽर्थः । द्रव्याणीति । अस्ति च गन्धशब्दो द्रव्यवचनः, 'वहति जलमियं पिनष्टि गन्धान्' इति प्रयोगात् । 'गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः॥ इति कोशाच्च । केचिंत्तु-गन्ध Page #176 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७३ आपणः । ८७५ अल्पाख्यायाम् । (५-४-१३६) सूपस्य गन्धो लेशो यस्मिस्तत्सूपगन्धि भोजनम् । घूतगन्धि । 'गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः।' इति विश्वः । ८७६ उपमानाच्च । (५-४-१३७) पद्मस्येव गन्धोऽस्य पद्मगन्धिः । ८७७ पादस्य लोपोऽहस्त्यादिभ्यः। (५-४-१३८) हस्त्यादिवर्जितादुपमानास्परस्य पादशब्दस्य लोपः स्यात् समासान्तो बहुव्रीहौ । च स्मृतः ॥' इति कोशात् । सुगन्ध आपण इति । अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्याणां विशेष्यभूतापणापेक्षया पृथग् लक्ष्यमाणत्वादित्त्वं नेति भावः । अल्पाख्यायाम् । अल्पवचने सति गन्धशब्दस्य इकारोऽन्तादेशः स्याद् बहुव्रीहावित्यर्थः । लेश इति गन्धशब्दस्य विवरणम् । सूपस्य गन्धो यस्मिन्नित्येव विग्रहः । सूपगन्धि भोजनमिति । उत्पूतिसुसुरभिपूर्वकत्वाभावादेकान्तत्वाभावाच्चाप्राप्ते वचनमिदम् । व्यधिकरणपदानामपि क्वचिदस्ति बहुव्रीहिरिति मूल एवानुपदं वक्ष्यते । घृतगन्धीति । घृतस्य गन्धो लेशो यस्मिन्निति विग्रहः । गन्धशब्दस्याल्पवाचित्वे प्रमाणमाह-गन्धो गन्धक इति । उपमानाच्च । उपमानवाचिपूर्वपदात् परस्यापि गन्धशब्दस्य इकारोऽन्तादेशः स्याद् बहुव्रीहावित्यर्थः । पद्मस्येवेति । फलितार्थकथनमिदम् । पद्मगन्ध इव गन्धो यस्येति विग्रहः । पद्मपदं पद्मसंबन्धिगन्धसदृशे लाक्षणिकम् । 'सप्तम्युपमानपूर्वपदस्य-' इति समासः । पादस्य लोपः। अहस्त्यादिभ्य इति च्छेदः । उपमानादित्यनुवर्तते । तदाह-हस्त्यादिवर्जितादिति । 'आदेः परस्य' इत्यप्रवृत्तये श्राह-समासान्तो बहुव्रीहाविति । शैषिकस्य कपो निवृत्त्यर्थमपि लोपस्य समासान्तत्वम् । अन्यथा अनुक्तसमासान्तत्वात् कप् प्रसज्येत । नन्वभावात्मकस्य लोपस्य कथं समासान्तावयवत्वमित्यत आहस्येत्वे-' इति वार्तिके तदेकान्तशब्देन स्वाभाविकत्वं विवक्षितम् , तेनागन्तुकस्य नेत्याहुः। तथा च भट्टिः-'याघ्रायिवान् गन्धवह: सुगन्धः' इति । व्याख्यातं च जयमङ्गलायाम्- 'गन्धस्य-' इत्यादिनेकारः समासान्तो न, 'गन्धस्यत्वे तदेकान्तग्रहणम्' इति वचनात् । सुगन्ध श्रापणिक इति यथेति । अतएव 'भग्नबालसहकारसुगन्धौ' इत्यादीनां प्रामादिकत्वं दुर्घटवृत्तिकृतोक्तम् । अल्पाख्यायाम् । अल्पवाचिनो गन्धस्येकारान्तादेशः स्याद् बहुव्रीहौ । सूपस्य गन्ध इति । अत एव ज्ञापकाद्यधिकरणपदो बहुव्रीहिः । यद्वा फलितार्थकथनमेतत् । सूपो गन्धो यस्मिन्नित्येव विग्रहः। गन्धशब्दस्य विशेषणत्वेऽप्यस्मादेव ज्ञापकात् परनिपातः । पादस्य । यद्ययं लोपः समासान्तो न स्यात् 'आदेः परस्य' इत्यादेः स्यात् । शैषिकः कप च प्रसज्येत, 'शेषाद्विभाषा' इत्यत्र समासान्तापक्षस्य शेषस्याश्रयणादत आह-समासान्त इति । कथं Page #177 -------------------------------------------------------------------------- ________________ १७४ ] सिद्धान्तकौमुदी। [ बहुवीहिसमासस्थानिद्वारेणायं समासान्तः । ग्याघ्रस्वेव पादावस्य ग्याघ्रपात् । महस्त्यादिभ्यः किम्-हस्तिपादः । कुसूलपादः । ८७८ कुम्भपदीषु च । (५-४-१३६) कुम्भपद्यादिषु पादस्य लोपो डीप् च निपात्यते स्त्रियाम् । 'पादः पत्' (सू ४१४) कुम्भपदी । स्त्रियाम् किम्-कुम्भपादः । ८७६ संख्यासुपूर्वस्य । (५-४-१४०) पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् । ८८० वयसि दन्तस्य दतु । (५-४-१४१) संख्यासुपूर्वस्य दन्तस्य दत इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षड् दन्ता प्रस्य षोडन् । सुदन्, सुदती । वयसि किम्-द्विदन्तः करी । सुदन्तो (नटः) । २८१ स्त्रियां संशास्थानीति । व्याघ्रस्येवेति । फलितार्थकथनमिदम् । व्याघ्रपादाविव पादावस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य-' इति समासः । कुम्भपदीषु च । कुम्भपदीविति बहुवचननिर्देशाद् गणपाठाच कुम्भपद्यादिग्रहणमिति भावः । ङीपू चेति । 'पादोऽन्यतरस्याम्' इति विकल्पापवाद इति भावः । स्त्रियामिति । कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः। कुम्भपदीति । कुम्भस्येव पादावस्येति विग्रहः । 'पादस्य लोपोऽहस्त्यादिभ्यः' इति लोपे सिद्धे तदनुवादेन नित्यं कीवर्थ वचनम् । संख्यासुपूर्वस्य । शेषपूरणेन सूत्रं व्याचष्टे--पादस्येति । उपमानात् परत्वाभावादप्राप्तौ वचनम् । द्विपादिति । द्वौ पादावस्येति विग्रहः । सुपादिति । शोभनौ पादावस्येति विग्रहः । वयसि दन्तस्य दत् । द्विदन्निति । द्वौ दन्तौ यस्येति विग्रहः। शिशुत्वं गम्यते। दन्तस्य दत्रादेशः । ऋकार इत् । उगित्त्वान्नुम् । सुलोपः । सयोगान्तलोपः । तस्यासिद्धत्वादुपधादी? न। चतुर्दनिति । चत्वारो दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । षोडन्निति । षड् दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । 'षष उत्त्वम्-' इति ष्टुत्वोत्त्वे । सुदन्निति । सु शोभना दन्ताः समस्ता जाता यस्येति विग्रहः । वयोविशेषावगतये समस्तस्य निवेशः । सुदतीति । पुनरभावो भावस्यावयवः स्यात्तत्राह-स्थानिद्वारेणेति । वचनबलादौपचारिकमवयवत्वं गृह्यत इति भावः । कुम्भपदीषु च । बहुवचननिर्देशाद्गणपाठसामर्थ्याचाप्यर्थावगतिरित्यभिप्रेत्याह-कुम्भपद्यादिष्विति । इह गणे कुम्भपदी एकपदी जानपदीत्येवं समुदाया एव पठ्यन्ते, तस्य च प्रयोजनं विषयविशेषपरिग्रह इत्याशयेनाह-स्त्रियामिति । यच्चेहोपमानपूर्व संख्यापूर्व च पठ्यते तस्य सिद्धे लोपे नित्यडीबर्थ वचनम् , तेन ‘पादोऽन्यतरस्याम्' इति विकल्पो न भवति । द्विदन्निति । द्वौ दन्तावस्य जाती। शिशुत्वावस्था त्विह गम्यते । 'उगिदचाम्-' इति नुम् । संयोगान्तलोपस्यासिद्धत्वाचलोपो न । षोडनिति । षष उत्वं दतृदशधा-' इत्यनेनोत्वष्टुत्वे। Page #178 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा तत्त्वबोधिनीसहिता। [१७५ याम् । (५-४-१४३) दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । प्रयोदती । फालदती । संज्ञायां किम्-समदन्ती । ८८२ विभाषा श्यावारोकाभ्याम् । (५-४-१४४) दन्तस्य दतृ स्याबहुव्रीहौ । श्यावदन्, श्यावदन्तः । परोकदन्, अरोकदन्तः । ८८३ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च । (५-४-१४५) एभ्यो दन्तस्य दतृ वा । कुड्मलाग्रदन्, कुड्मलाग्रदन्तः । ८८४ ककुदस्यावस्थायां लोपः। (५-४-१४६) अजातककुत् । पूर्णककुत् । ८८५ त्रिककुत्पर्वते । (५-४-१४७) त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञैषा पर्वतविशेषस्य । त्रिककुदोऽन्यः । ८८६ उद्विभ्यां काकुदस्य । (५-४-१४८) लोपः स्यात् । उस्काकुत् । विकाकुत् । काकुदं तालु । ८८७ पूर्णाद्विभाषा । शोभना दन्ताः समस्ता यस्या इति विग्रहः । दत्रादेशः । 'उगितश्च' इति गप् । द्विदन्तः करीति । हस्तिनः सर्वदा द्विदन्तत्वेन वयोविशेषानवगतिरिति भावः । स्त्रियां संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे-दन्तस्येति । वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम् । अयोदतीति । फालदतीति । संज्ञाविशेषाविमौ । समदन्तीति । समा दन्ता यस्या इति विग्रहः । 'नासिकोदर-' इति डीए । विभाषा श्यावारोकाभ्याम् । शेषपूरणेन सूत्रं व्याचष्टे-दन्तस्येति । श्यावदन्निति । श्यावा धूम्रा दन्ता यस्येति विग्रहः । 'श्यावः स्यात् कपिशो धूम्र' इत्यमरः । अरोकदन्निति । अरोका अदीप्ताः अच्छिद्रा वा दन्ता यस्येति विग्रहः । अग्रान्त। अग्रः अग्रशब्दोऽन्तेऽवसाने यस्य स अग्रान्त इत्यभिप्रेत्योदाहरति-कुमलाग्रदन्निति । कुड्मलानां मुकुलानां अग्राणि तानीव दन्ता यस्येति विग्रहः । शुद्धदन्, शुद्धदन्तः । शुभ्रदन्, शुभ्रदन्तः। वृषदन्, वृषदन्तः । वराहदन्, वराहदन्तः । ककुदस्य । अवस्थायां गम्यमानायां ककुदस्य लोपः स्याद् बहुव्रीहावित्यर्थः । आहारकालादिकृतोऽवयवानामुपचयोऽपचयश्चावस्थेत्युच्यते । बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम् । प्रजातककुदिति । अजातं ककुदमस्येति विग्रहः । बाल इत्यर्थः । पूर्णककुदिति । पूर्ण ककुदमस्येति विग्रहः । युवेत्यर्थः । त्रिककुत् पर्वते । पर्वतविशेषे गम्य इत्यर्थः । त्रिककुदिति कृताकारलोपो निपात्यते । त्रीणि ककुदानि शृङ्गाणि यस्येत्यर्थः । उद्विभ्यां काकुदस्य । लोप इति । सुदतीति । 'उगितश्च' इति ङीप् । समदन्तीति । 'नासिकोदर-' इत्यादिना ङीष् । श्यावदन्निति । 'श्यावः स्यात्कपिशः' इत्यमरः । अरोदकन्निति । अरोका अच्छिद्रा दन्ता यस्य सः । अग्रान्त । इहानुक्कसमुच्चयार्थश्चकारस्तेन मूषिकदनिति सिद्धयतीत्याहुः। -अजातेति । अजातं ककुदमस्येति विग्रहः। इह हि बाल्या Page #179 -------------------------------------------------------------------------- ________________ १७६ सिद्धान्तकौमुदी | [ बहुव्रीहिसमास (५-४-१४) पूर्ण काकुत्, पूर्णकाकुदः । सुहृदुर्द्वदौ मित्रामित्रयोः । (५-४-१५०) सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् | दुहृदमित्रः । अन्यत्र सुहृदयः, दुर्हृदयः । उरःप्रभृतिभ्यः कप् । ( ५-४-१५१ ) व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः इत्येकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु 'शेषाद्विभाषा' ( सू ८१ ) इति विकल्पेन कप् । द्विपुमान् द्विपुंस्क: । 'अर्थान्नञः ' ( ग १४६)। अनर्थकम् । नञः किम् - अपार्थम्, अपार्थकम् । ८६० इनः स्त्रियाम् । उद्विभ्यां परस्य काकुदस्य लोपः स्यात् बहुव्रीहावित्यर्थः । उत्काकुदिति । उन्नतं काकुदं यस्येति विग्रहः। काकुदशब्दं व्याचष्टे - काकुदं तात्विति । पूर्णाद्विभाषा । पूर्णात् परस्य काकुदस्य लोपो वा स्यादित्यर्थः । पूर्ण काकुदं यस्येति विग्रहः । सुहृद् दुर्हृदौ । यथासंख्यमभिप्रेत्योदाहरति- सुहृन्मित्रमिति । सु शोभनं हृदयं यस्येति विग्रहः । उरःप्रभृतिभ्यः कप् । बहुव्रीहौ समासान्तः तद्धित इति विशेषः । तद्धितत्वात् ककारस्य नेत्संज्ञा । व्यूढोरस्क इति । व्यूढं विशालम् उरो वक्षो यस्येति विग्रहः । कप् । 'सोऽपदादौ' इति सत्वम् । प्रियसर्पिष्क इति । प्रियं सर्पिः यस्येति विग्रहः । कप् । ‘इणः षः' इति षत्वम् । ननु द्वौ पुमांसौ यस्य स द्विपुमानित्यनुपपन्नम् । उरःप्रभृतिषु पुमानिति पुंस्शब्दस्य पाठादित्यत आह- इहेति । गणे अविभक्तिकानामेव पाठः । इह तु केषांचिदेकवचनान्तानामेव पाठस्तद्विवक्षार्थ इति भावः । द्विपुंस्क इति । 'संपुंकानाम् -' इति सः । अर्थान्नञ इति । गण वस्था गम्यते । उरःप्रभृतिभ्यः कप् । उरः प्रभृत्यन्ताद्बहुव्रीहेः कप् स्यात् । ‘समासार्थोत्तरपदान्ताः समासान्ताः' इति पक्षे तु बहुव्रीहेश्वरमावयवेभ्य उरःप्रभृति भ्यः कबिति व्याख्येयम् । तद्धितत्वात्कस्य नेत्वम् । व्यूढोरस्क इति । व्यूढं विशालमुरो यस्य सः । ‘सोऽपदादौ' इति विसर्जनीयस्य सः । प्रियसर्पिष्क इति । 'इणः षः' इति विसर्गस्य षत्वम् । एकवचनान्तानीति । 'नघृतश्च' इति सिद्धे लक्ष्मीशब्दपाठस्त्विह एकवचनान्तलक्ष्मीशब्दावयवकबहुव्रीहेरेव नित्यं कप् । अन्यत्र 'शेषात् -' इति विकल्प एवेति नियमार्थः । तेन 'अकृशमकृशलक्ष्मीश्चेतसा शंसितं सः ' इति भारविप्रयोगः सिद्धः । अकृशा लक्ष्म्यो यस्येति विग्रहः । यत्तु प्राचोक्तं'नयृतश्च' इति कप् बहुलक्ष्मीक इति । तदयुक्तम् । संख्यावाचिबहुशब्दस्यैकवचनान्तत्वाभावात्प्रकृतनियमेन वारितत्वात् । बह्वी अधिका लक्ष्मी यस्येति विग्रहे वैपुल्यवाचिन एकवचनान्तत्वसंभवेऽपि विशेषविधर्बलीयस्त्वेन 'उरःप्रभृतिभ्यः कप्' इत्येव वक्तुमुचितत्वात् । यदा तु 'नियमशास्त्राणां निषेधमुखेन प्रवृत्तिः' इत्याश्रीयते तदा प्राची Page #180 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७७ (५-४-१५२) बहुदण्डिका नगरी । 'अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' (प १७) बहुवग्ग्मिका । स्त्रियां किम्-बहुदण्डी, बहुदण्डिको ग्रामः । ८६१ शेषाद्विभाषा । (५-४-१५४) अनुक्समासा. न्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कब्वा स्यात् । महायशस्कः, महायशाः । अनुक्कइत्यादि किम्-व्याघ्रपात् । सुगन्धिः । प्रियपथः । शेषाधिकारस्थात् किम्सूत्रम् । नत्र परो योऽर्थशब्दस्तदन्ताद् बहुव्रीहेः कप स्यादिति तदर्थः । अनर्थकमिति । अविद्यमानोऽर्थो यस्येति विग्रहः । अपार्थम् , अपार्थकमिति । अपगतोऽर्थो यस्मादिति विग्रहः । अत्र नपूर्वकत्वाभावाद् न नित्यः कबिति भावः । इनः स्त्रियाम् । इन्नन्तात् कप स्याद् बहुव्रीहावित्यर्थः । बहुदण्डिका नगरीति । दण्डः अस्यास्तीति दण्डी, 'अत इनिठनौ' इति इनिः । बहवो दण्डिनो यस्याम् इति विग्रहः । बहुवाग्ग्मिकेति । वागस्यास्तीति वाग्ग्मी । 'वाचो ग्मिनिः' इति ग्मिनिप्रत्ययः । नकारादिकार उच्चारणार्थः । तद्धितत्वाद् गकारस्य नेत्संज्ञा, चकारस्य कुत्वम् , जश्त्वम्, वाग्ग्मीति रूपम् । बहवो वाग्मिनो यस्यामिति विग्रहः । अत्रेनः अनर्थकत्वेऽपि 'अनिनस्मन्-' इति वचनात्तदन्तस्याप्यत्र ग्रहणमिति भावः । बहुदण्डी, बहुदण्डिको ग्राम इति । बहवो दण्डिनो यस्मिन्निति विग्रहः । अत्र समासस्यास्त्रीलिङ्गत्वान्न नित्यः कबिति भावः । शेषाद्विभाषा । इतः पूर्व येभ्यः समासान्ता विहिताः, तेभ्योऽन्यः शेषः । तदाह-अनुक्कसमा. सान्तादिति । शेषाधिकारास्थादिति । शेषादित्यनेन शेषाधिकारस्थादित्यपि विवक्षितमिति भावः । महायशस्क इति । महद् यशो यस्येति विग्रहः । 'प्रान्महतः-' इत्यात्त्वे, कपि, 'सोऽपदादौ' इति सत्वम् । महायशा इति । कबभावे 'अत्वसन्तस्य-' इति दीर्घः । व्याघ्रपादिति । 'पादस्य लोपोऽहस्त्यादिभ्यः' इत्युक्तसमासान्तोऽयम् , स्थानिद्वारा लोपस्यापि समासान्तत्वात् । सुगन्धिरिति। तमपि सम्यगेवेति ज्ञेयम् । अर्थानत्र इति । गणसूत्रमिदम् । अनर्थकेनापीति । कथं तर्हि 'सुपथी नगरी' इति हलन्तेषूक्तम् , कपोऽत्र दुर्वारत्वात् । न च 'न पूजनात्' इत्यनेन 'ऋक्पूरब्धू :-'इत्यस्येव कपोऽपि निषेधः शङ्कयः, षचः प्राचीनानामेव स निषेध इति वक्ष्यमाणत्वात् । कप्प्रत्ययस्य षच उत्तरत्वात् । सत्यम् , समासान्तविधेरनित्यत्वात्साधुरिति समाधेयम् । 'युवोरनाकौ' इति सूत्रे सुपथीति भाष्याच्चेत्युक्लम् । बहुवाग्ग्मिकेति । 'वाचो म्मिनिः' । शेषाद्वि । यद्यत्र प्रागुक्तकबमात्रापेक्षः शेषः स्यात् तर्हि व्याघ्रपात्सुगन्धिरित्यादावपि स्यात् । अतः समासान्तापेक्षः शेष इह गृह्यत इत्याह-अनुक्कसमासान्तादिति । व्याघ्रपादिति । स्थानिद्वारा लोपोऽपि Page #181 -------------------------------------------------------------------------- ________________ 1 १७८ ] सिद्धान्तकौमुदी । [ बहुव्रीहिसमास उपबहवः । उत्तरपूर्वा । सपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः । ८६२ आपो ऽन्यतरस्याम् । ( ७-४-१५ ) कप्याबन्तस्य ह्रस्वो वा स्यात् । बहुमालाकः, बहुमालकः । कबभावे बहुमालः । ८६३ न संज्ञायाम् । ( ५-४ - १५५) 'शेषात् -' ( सू ८१ ) इति प्राप्तः कन्न स्यात्संज्ञायाम् । ‘गन्धस्येदुत्पूति-' इति कृतसमासान्तोऽयम् । प्रियपथ इति । 'ऋक्पू:' इति कृतसमासान्तोऽयम् । उपबहव इति । संख्ययाव्यय-' इति बहुव्रीहिरयम्, न शेषाधिकारस्थः । उत्तरपूर्वेति । अयमपि 'दिङ्नामान्यन्तराले' इति बहुव्रीहिः, न शेषाधिकारस्थः । सपुत्र इति । 'तेन सह -' इत्ययमपि बहुव्रीहिः, न शेषाधिकारस्थः । ननु सकृदुच्चारिताच्छेषशब्दात् कथमर्थद्वयलाभ इत्यत आह - तन्त्रादिनेति । श्रादिना श्रवृत्तिसंग्रहः । एकमनेकोपयोगि तन्त्रम् | उच्चारयित्रा तन्त्रेणोच्चारितात् शब्दाद् आवृत्त्या बोध इति बोध्यम् । 'श्वेतो धावति' इत्यादौ सकृदुच्चार - णेऽपि 'श्वा इतो धावति, श्वेतगुणको धावति' इत्येवमनेकार्थबोधदर्शनादिति भावः । आपोऽन्यतस्याम् । कपीति । 'न कपि' इत्यतस्तदनुवृत्तेरिति भावः । आबन्तस्येति । प्रत्ययग्रहणपरिभाषया लब्धमिदम् । ह्रस्वो वेति । 'शृदृप्रां ह्रस्वो वा' इत्यतः तदनुवृत्तेरिति भावः । 'न कपि' इति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । बहुमालाक इति । बह्वयो माला यस्येति विग्रहः । ह्रस्वपक्षे बहुमालक इति भवति । कपो वैकल्पिकत्वात् पक्षे बहुमालः । सर्वत्र 'स्त्रियाः पुंवत् -' इति पुंवत्वम् । न संज्ञायाम् । शेषादिति प्राप्त इति । 'अनन्तरस्य - ' इति न्यायात् 'शेषाद्विभाषा' इति विहितस्य कप एवायं निषेधः, न तु व्यवहितस्य 'नघृसमासान्ता इत्युक्तम् । सुगन्धिरिति । 'गन्धस्येत् -' इत्यादिना इत्समासान्तः । प्रियपथ इति । 'ऋक्पू :-' इत्यप्प्रत्ययः समासान्तः । उपबहव इति । संख्ययाव्यया—' इत्यादिना समासः । उत्तरपूर्वेति । 'दिङ्नामा -' इत्यादिना समासः । सपुत्र इति । 'तेन सहेति -' इत्यादिना समासः । अयं भावः - 'शेषो बहुव्रीहिः' इत्यतः शेषपदम् 'अनेकमन्यपदार्थे' इत्येतस्मिन्नेव सूत्रेऽनुवर्तते, ' संख्ययाव्ययासन्ना-' इत्यादिषु च निवर्तते । तथा च शेषाधिकारस्थत्वाभावादुपबहव इत्यादिषु कप्प्रत्ययो नेति । एवं च ‘अनेकमन्यपदार्थे' इति सूत्रात्पृथक् संख्ययाव्ययासन्ना -' इत्यादीनामारम्भः कबभावार्थमप्यावश्यक इति स्थितम् । ननु सकृदुच्चरितस्य शेषशब्दस्यानुक्तसमासान्तपरत्वं शेषाधिकारस्थपरत्वं च कथमित्यत आह - तन्त्रादिनेति । 'अर्थभेदेन शब्द - भेदः' 'सत्यप्यर्थभेदे शब्दस्याभेदः' इति मतद्वयम् । आधे श्रावृत्तिः । द्वितीये तन्त्रमिति विवेकः । यत्तु वदन्ति - 'प्रतिपदोक्ताः समासान्ताः स्वविषये बाधका भवन्ति' Page #182 -------------------------------------------------------------------------- ________________ प्रकरणम् १६] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७६ विश्वे देवा अस्य विश्वदेवः। ८६४ ईयसश्च । (५-४-१५६ ) ईयसन्तोत्तरपदाच कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । 'गोस्त्रियोः- (सू ६५६) इति हस्वत्वे प्राप्ते । 'ईयसो बहुव्रीहेर्नेति वाच्यम्' (वा ६६६ ) बह्वयः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम्-अतिश्रेयसिः । ८६५ वन्दिते भ्रातुः। (५-४-१५७ ) पूजितेऽधै यो भ्रातृशब्दस्तदन्तान कप् स्यात् । प्रशस्तो भ्राता यस्य प्रशस्तभ्राता, सुभ्राता । 'न पूजनात्' (सू १५४) इति निषेधस्तु 'बहुव्रीही सक्थ्यषणोः' (सू ८५२) इत्यतः प्रागेवेति वक्ष्यते । वन्दिते किम्-मूर्खभ्रातृकः । ८६६ नाडीतन्त्र्योः स्वाङ्गे । (५-४-१५६ ) स्वाङ्गे यौ तश्च' इत्यादिकप इति भावः। विश्वे देवा अस्येति। अत्र संज्ञायां समासस्य नित्यत्वाल लौकिकविग्रहप्रदर्शनं चिन्त्यमेव। ईयसश्च । बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्ययग्रहणपरिभाषयाईयसन्तत्वादाह-ईयसन्तोत्तरपदादिति । बहुव्रीहिणा उत्तरपदादित्याक्षिप्यत इति भावः । न कबिति । 'न संज्ञेयसोः' इति वक्तव्ये पृथग्योगकरणाद् नित्यस्य वैकल्पिकस्य च कपोऽयं निषेध इति भावः। श्रेयांस इति । अतिशयेन प्रशस्ता इत्यर्थः । 'द्विवचनविभज्य-' इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः, 'श्राद्गुणः' इति गुणः । बहुश्रेयानिति । शैषिकः कब्निषिध्यते । ह्रस्वत्वे प्राप्त इति । बह्वयः श्रेयस्यो यस्येति बहुव्रीहिः । तत्र श्रेयसीशब्दस्योपसर्जनस्त्रीप्रत्ययान्तत्वाद् ‘गोस्त्रियोः-' इति ह्रस्वत्वे प्राप्ते इत्यर्थः । ईयसो बहुव्रीहेरिति । ईयसन्ताद् बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य ह्रस्वो नेति वाच्यमित्यर्थः । बहुश्रेयसीति । 'नयतश्च' इति नित्यः कबिह निषिध्यते, लिङ्गविशिष्टपरिभाषया ईयस्ग्रहणेन स्त्रीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः । बहुव्रीहेः किमिति । 'ईयसो बहुव्रीहे:-' इत्यत्रेति शेषः। अतिश्रेयसिरिति । श्रेयसीमतिक्रान्त इति तत्पुरुषोऽयमिति भावः । वन्दिते भ्रातुः । पूजितेऽर्थ इति । 'वदि अभिवादनस्तुत्योः' इत्युभयार्थकवदिधातोरिह उभयसाधारणपूजार्थकत्वमाश्रीयत इति भावः । प्रशस्तभ्रातेति । 'नवृतश्च' इति प्राप्तः कबिह निषिध्यते । सुभ्रातेति । सु शोभनो भ्राता यस्य स इति विग्रहः । अत्रापि 'नतश्च' इति प्राप्तस्य कपो निषेधः। ननु 'न पूजनात्' इत्येव निषेधे सिद्ध किमर्थमिदमित्यत आह-न पूजनादिति।प्रागेवेति । एवं च तत्किमनुक्तसमासान्तपरेण शेषग्रहणनेति । तन्न । 'ऋक्पू :-' इत्यादीनां समासान्तरे चरितार्थतया प्रियपथ इत्यादौ परेण कपा बाधापत्तेः । ईयसश्च । नित्यो वैकल्पिकश्च कप् सर्वोऽपि निषिध्यते । बहुश्रेयानिति । अतिशयेन प्रशस्यः श्रेयान् । 'द्विवचनविभज्योप-' इतीयसुन् । 'प्रशस्यस्य श्रः' । 'शेषाद्विभाषा' इति कप्प्राप्तः । बहुश्रेय Page #183 -------------------------------------------------------------------------- ________________ १८० ] सिद्धान्तकौमुदी | [ बहुव्रीहिसमास 1 नाडीतन्त्रीशब्दौ तदन्तात्कन्न स्यात् । बहुनाडिः कायः । बहुतन्त्रीप्रवा । बहुतन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्धस्वो न । स्वाने किम् - बहुनाडीक: स्तम्भः । बहुतन्त्रीका वीणा । ८६७ निष्प्रवाणिश्च । (५-४-१६०) कब भावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्युद् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवाण्यस्य निष्प्रवाणिः पटः, समाप्तवानः, नव इत्यर्थः । ८६८ सप्तमीविशेषणे बहुव्रीहौ । (२-२-३५) सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः । चित्रगुः । 'सर्वनामसंख्ययो । 1 'नघृतश्च' इत्यादिकपः तेन निषेधाप्राप्तौ इदं वचनमिति भावः । नाडीतन्त्र्योः स्वाङ्गे । बहुनाडिः काय इति । प्राणिस्थत्वात् स्वाङ्गत्वसुचनाय काय इति विशेध्यम् । उपसर्जनह्रस्वः । ‘नघृतश्च' इति प्राप्तः कब् न भवति । बहुतन्त्रग्रीवेति । बह्वयस्तन्त्र्यो यस्या इति विग्रहः । वीणातन्तुषु तन्त्रीशब्दस्य प्रसिद्धत्वाद् ग्रहबहुतन्त्री धमनीति । बहुतन्त्रीशब्दे 'गोस्त्रियोः -' इति ह्रस्वमाशङ्कयाह – स्त्रीप्रत्ययान्तत्वाभावादिति । 'अविस्तृतन्त्रीभ्य ई:' इत्यौणादिकस्य 'स्त्रियाम्' इत्यधिकारेऽविहितत्वादिति भावः । निष्प्रवाणिश्च । प्रपूर्वादिति । 'वेञ् तन्तुसंताने' इत्यस्मात् प्रपूर्वात् ' करणाधिकरणयोश्च' इत्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी । 'पूर्वपदात् संज्ञायाम् -' इति णत्वम् । समाप्तवान इति । समाप्तं वानं वानक्रिया यस्येति विग्रहः । अत्र शैषिककबभावो निपात्यते । सप्तमीविशेषणे । 'उपसर्जनं पूर्वम्' इत्यतः पूर्वमित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया सप्तमीति तदन्तग्रहणम् । तदाह – सप्तम्यन्तमिति । कण्ठेकाल इति । कण्ठे तिष्ठतीति कण्ठेस्थः, स कालो यस्येति विग्रहः । सुपीति योगविभागात् कः । ' सप्तम्युपमानपूर्वपदस्य' इति बहुव्रीहिसमासः स्थशब्दलोपश्च' इति 'अनेकमन्यपदार्थे' इति सूत्रभाष्ये स्पष्टम् । ‘अमूर्धमस्तकात् -' इति सप्तम्या अलुक् । श्रत एवेति । यद्यपि कण्ठेस्थशब्दः प्रथमान्त एवात्र बहुव्रीहौ पूर्वपदम् तस्य कालशब्देन सामानाधिकरण्यमस्त्येवेति कथं सप्तमीग्रहणं व्यधिकरणपदबहुव्रीहिज्ञापकम् । किं च विशेषणत्वादेव सिद्धे किंवा सप्तमी हणेन । तथापि यदा स्थपदमनादृत्य कण्ठे इत्यस्याधिकरणत्वं तस्य च कालरूपे उत्तरपदार्थ उपसंक्रमः, तदा कण्ठे इत्यस्याप्रथमान्तत्वाद् सीति । 'नघृतश्च' इति नित्यं प्राप्तः कब् लिङ्गविशिष्टपरिभाषया 'ईयसश्च' इति प्रतिषिध्यते । बहुनाडिरिति । उपसजनहखः । स्त्रीप्रत्ययान्तत्वाभावादिति । 'अवितृस्तृत त्रिभ्यः' इतीप्रत्ययस्य 'स्त्रियाम्' इत्यधिकारे श्रविहितत्वादिति भावः । सप्तमीविशेषणे । यदा कण्ठे किंचिदस्तीति ज्ञायते तस्य विशेषणं काल इति, तदेदं , Page #184 -------------------------------------------------------------------------- ________________ प्रकरणम् १६) बालमनोरमा-तत्त्वबोधिनीसहिता। [१८१ रुपसंख्यानम्' ( वा १४१६) सर्वश्वेतः । त्रिशुकः । 'मिथोऽनयोः समासे संख्या पूर्व शब्दपरविप्रतिषेधात्' (वा २०४४)। धन्यः । संख्याया अल्पीयस्याः' (वा १४१०) द्विनाः । द्वन्द्वेऽपि । द्वादश । 'वा प्रियस्य' (वा १४२०)। बहुव्रीहेरप्रसक्तेः तत्र सप्तम्यन्तस्य पूर्वनिपातविधिरभित्तिचित्रायितः स्यात् । ततश्च सप्तमीग्रहणाद् अप्रथमान्तोऽपि बहुव्रीहिः क्वचिदस्तीति विज्ञायत इति योज्यम् । तेन 'सच्छास्त्रजन्मा हि विवेकलामः' इत्यादि सिद्धम् । चित्रगुरिति । उभयोरपि प्रथमानिर्दिष्टत्वेन विग्रहे नियतविभक्तिकत्वेन चान्यतरस्य पूर्वनिपाते प्राप्त उत्तरपदविशेषणस्यैव पूर्वनिपातार्थ विशेषणग्रहणमिति भावः। सर्वनामसंख्ययोरिति । बहुव्रीही पूर्वनिपातस्येति शेषः । सर्वश्वेत इति । सर्वः श्वेतो यस्येति विग्रहः । उभयोरपि गुणवचनत्वेन विशेषणविशेष्यभावे कामचराद् अन्यतरस्य पूर्वनिपाते प्राप्ते सर्वनामत्वात् सर्वशब्दस्यैव पूर्वनिपातः। उपसर्जनत्वेऽपि भूतपूर्वगत्या सर्वनामत्वम् । त्रिशुक्ल इति । त्रयः शुक्ला यस्येति विग्रहः । उभयोरपि कामचारेण पूर्वनिपाते प्राप्त संख्यात्वात् त्रिशब्दस्यैव पूर्वनिपातः । द्विशुक्ल इत्यत्र तु सर्वनामत्वादेव सिद्धम् । ननु द्वौ अन्यौ यस्य धन्य इति बहुव्रीही सर्वनामसंख्ययोरन्यतरस्य पाक्षिकः पूर्वनिपातः स्यादित्यत आह-मिथोऽनयोरिति । सर्वनामसंख्ययोरित्यर्थः। संख्या पूर्वमिति । प्रयोज्येति शेषः । शब्दपरेति । एकस्मिन्नेव सूत्रे सर्वनामसंख्ययोः समासोपात्तत्वेऽपि सर्वनामसंख्याशब्दयोः संख्याशब्दस्य पाठतः परत्वमादाय विप्रतिषेधसूत्रप्रवृत्तेरित्यर्थः । संख्याया अल्पीयस्या इति । न्यूनाधिकसंख्यावाचकशब्दानां समासे न्यूनसंख्यायाःपूर्व प्रयोग इति वक्तव्यमित्यर्थः । द्वित्रा इति । द्वौ सप्तमीग्रहणम् । अन्यदा तु तेन विनापि विशेषणत्वादेव सिद्धम् । चित्रगुरिति । न च 'उपसर्जनं पूर्वम्' इत्येवेदं सिध्यतीति वाच्यम् , 'बहुव्रीहौ सप्तमी' इत्युक्ते तककौण्डिन्यन्यायेनोपसर्जनपूर्वत्वस्य बाधापत्तेरतो विशेषणग्रहणं कृतम् । सर्वनामेति । कथं तर्हि 'तः परो यस्मात्स तपरः' इति कथं च 'जहत्वार्था वृत्तिः' इति । इह हि जहत्खं पदं यं स जहत्वः, सोऽर्थो यस्यामिति बहुव्रीहिगर्भो बहुव्रीहिः। तथा च खपरशब्दयोः सर्वनामत्वात्पूर्वनिपातन भाव्यमिति चेत्-अत्राहुः-सूत्रभाष्यप्रयोगात्स्वपरशब्दयोन पूर्वनिपातः, राजदन्तादित्वाद्वा सिद्धमिति । द्विशुक्ल इति । यद्यपि सर्वनामत्वेनैव द्विशब्दस्य पूर्वनिपातत्वं सिध्यति, तथापि त्रिशुक्ल इत्यादि सिद्धये वार्तिके संख्याग्रहणं कृतम् । ननु संख्याया अल्पाच्तरत्वेन 'संख्यासर्वनाम्नोः' इति वाच्ये विपरीतोच्चारणमयुक्तमित्याशङ्कयाह-मिथोऽनयोरिति । विपरीतोच्चारणमेवात्र १ बहुत्र मूले 'द्विशुक्लः' इत्येव पाठः । Page #185 -------------------------------------------------------------------------- ________________ १८२] सिद्धान्तकौमुदी। [बहुव्रीहिसमासगुडप्रियः, प्रियगुडः । 'गड्वादेः परा सप्तमी ( वा १४२१) गडुकराठः । कचिन । वहेगडुः । ८६६ निषा । (२-२-३६) निष्ठान्तं बहुव्रीही पूर्व स्यात् । कृतकृत्यः । 'जातिकालसुखादिभ्यः परा निष्ठा वाच्या' ( वा १४२२)। सारङ्ग. जग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः । वा त्रयो वेति विग्रहे ‘संख्ययाव्यय-' इति बहुव्रीहिः । ननु 'द्वन्द्वे घि' इत्यतो द्वन्द्वे इत्यनुवृत्तौ 'अल्पाच्तरम्' इति सूत्रभाष्येऽस्य वार्तिकस्य पाठाद् बहुव्रीहौ कथमस्य प्रवृत्तिरित्यत आह-द्वन्द्वेऽपीति । इदं च वार्तिकं द्वन्द्वेऽद्वन्द्वेऽपि प्रवर्तत इत्यर्थः । द्वादशेति । द्वौ च दश च इति द्वन्द्वः । तत्पुरुषे तु शतानां विंशतिः विंशतिशतमित्युदाहार्यम् । 'तदस्मिन्नधिकमिति दशान्ताड्डः' इति सूत्रभाष्ये सहस्राणां शतम् इत्यर्थे शतसहस्रमिति भाष्यकैयटयोः प्रयोगोऽत्र मानमिति शब्देन्दुशेखरे स्थितम् । वा प्रियस्येति । बहुव्रीही पूर्व प्रयोगो वक्तव्य इत्यर्थः। गड्वादेः परा सप्तमीति । बहुव्रीहौ योज्येति वक्तव्यमिति शेषः । गडुकण्ठ इति । गडुः कण्ठे यस्येति विग्रहः । गडुर्नाम ग्रीवादिगतो दुर्मासगोलः । असंज्ञात्वाद् ‘हलदन्तात्-' इत्यलुङ् न । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । वहेगडुरिति । वहः स्कन्धः, तस्मिन् गडुर्यस्येति विग्रहः । निष्ठा । निष्ठान्तमिति । 'तक्तवतू निष्ठा' इति वक्ष्यति । तदन्तमित्यर्थः । कृतकृत्य इति । कृतं कृत्यं येनेति विग्रहः। उभयोरपि क्रियाशब्दत्वाद् विशेषणत्वे कामचाराद् अन्यतरस्य पूर्वनिपाते प्राप्ते निष्ठाम्तस्य पूर्वनिपातः । जातिकालेति । 'जातिकालसुखादिभ्योऽनाच्छादनात् क्तः' इति स्वरविधिना ज्ञापितमिदमिति भाष्ये स्पष्टम् । जातिपूर्वस्योदाहरणमाहसारङ्गजग्धीति । सारङ्गो जग्धो भक्षितो यया इति विग्रहः । 'अस्वाङ्गपूर्वपदाद्वा' इति ङीष् । कालपूर्वस्योदाहरति-मासजातेति । मासो जातो यस्या इति विग्रहः, टाप् । सुखपूर्वस्योदाहरति-सुखजातेति । सुखं जातं यस्या इति विग्रहः । प्रायिकमिति । व्याख्यानमेवात्र शरणम् । कृतकट इति । कृतः कटो येनेति विग्रहः। अत्र कटत्वस्य जातित्वेऽपि न कृतशब्दस्य परनिपातः । पीतोदक इति । पीतम् उदकं येनेति विग्रहः । उदकत्वस्य जातित्वेऽपि न पीतशब्दस्य परनिपातः । लिमिति भावः । अल्पीयस्या इति । अल्पार्थवाचिकाया इत्यर्थः । गड्वादेरिति । आदिशब्दः प्रकारवाची । तेन पद्मं नाभौ यस्य पद्मनाभः । ऊर्णा नाभौ यस्य, 'ब्यापोः-' इति ह्रखः, ऊर्णनाभ इति सिद्धयतीत्याहुः । जातिकालेति । एतच्च 'जातिकालसुखादिभ्योऽनाच्छादनात्' इत्यनेन ज्ञापितमिति भावः । सारङ्गजग्धीति । सारङ्गो जग्धो यया सा । 'अखागपूर्वपदादा' इति डीप । कथं तर्हि Page #186 -------------------------------------------------------------------------- ________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८३ ६०० वाऽऽहिताग्न्यादिषु । (२-२-३७) प्राहिताग्निः । अग्न्याहितः । श्राकृतिगणोऽयम् । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' (वा १४२५)। प्रस्युचतः । दण्डपाणिः । कचिन्न । विवृतासिः । इति बहुव्रीहिसमासप्रकरणम् । अथ द्वन्द्वसमासप्रकरणम् । २० । १०१ चाथै द्वन्द्वः । (२-२-२६) अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते, स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरवाऽऽहिताग्न्यादिषु । निष्ठायाः पूर्व प्रयोग इति शेषः । आहिताग्निरिति । आहिता आधानेन संस्कृता अग्नयो येनेति विग्रहः । प्रहरणार्थेभ्य इति । आयुधार्थेभ्य इत्यर्थः । निष्ठायामुदाहरति-अस्यद्यत इति । असिः उद्यतो येनेति विग्रहः । सप्तम्या उदाहरति-दण्डपाणिरिति । दण्डः पाणौ यस्येति विग्रहः । 'निष्ठा' इत्यस्य ‘सप्तमीविशेषणे-' इत्यस्य चायमपवादः । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । विवृतासिरिति । विवृतः कोशान्निष्कासितः असिर्येनेति विग्रहः । एवंजातीयान्याहितामयादित्वकल्पनया समाधेयानीत्याहुः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां बहुव्रीहिसमासनिरूपणम् । अथ द्वन्द्वसमासनिरूपणम्-चार्थे द्वन्द्वः । 'सुबामन्त्रिते' इत्यतः सुबिति, 'अनेकमन्यपदार्थे' इत्यतः अनेकमिति चानुवर्तते । समास इति विभाषा इति चाधिकृतम् । तदाह-अनेकमित्यादिना । कश्चार्थ इत्यत आह-समुच्चयेति । 'चान्वाचयसमाहारेतरेतरसमुच्चये' इत्यमरः । तत्र समुच्चयं निर्वक्ति-परस्परेति। 'चारुस्मितश्चारुहसितः' इत्यादि । अत्राहुः-'नपुंसके भावे क्तः' इति तस्य न पूर्वनिपातः, निष्ठाशब्देन विहितस्यैवेह ग्रहणादिति। क्वचिन्नेति। आहिताग्न्यादित्वकल्पनादनभिधानाद्वेति भावः। इति तत्त्वबोधिनीव्याख्यायां बहुव्रीहिप्रकरणम् । चाथै द्वन्द्वः । 'अनेकमन्यपदार्थे' इत्यतोऽनेकमित्यनुवर्तते 'सुबामन्त्रिते.' इत्यस्मात्सुबपि । 'समासः' इति 'विभाषा' इति चाधिक्रियत एव, तदाह–अनेकं Page #187 -------------------------------------------------------------------------- ________________ १८४ ] सिद्धान्तकौमुदी। [ द्वन्द्वसमासपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः। मिलितानामन्वय इतरेतरयोगः । समूहः समाहारः । तत्रेश्वरं गुरुं च भजस्व इति समुच्चये, भिक्षामट गां चानय इत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ। एकस्मिन्निति । एकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रथममन्वयः, तदनन्तरमन्यस्यान्वयो यत्र, तत्र समुच्चयः चार्थ इत्यर्थः । यथा--ईश्वरं गुरुं च भजस्व इति । तत्र हि चशब्दयोगाद् गुरोः ईश्वरसापेक्षत्वम्, न त्वीश्वरस्य गुरुसापेक्षत्वम् , तस्य चकारयोगाभावात् । अत एवात्र एक एव चशब्दः प्रयुज्यते । एवं च ईश्वरं च भजस्व गुरुं च भजस्व इति वाक्यद्वयं पर्यवस्यति । अथान्वाचयं लक्षयतिअन्यतरस्येति । यत्रान्यतरस्य पदस्यैकस्मिन् कियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्तिविषयत्वेनान्वयः, इतरस्य तु पदस्यान्यस्मिन् क्रियापदे उद्देश्यत्वेनान्वयश्च तत्रान्वाचय. श्चार्थ इत्यर्थः । यथा-भिक्षामट गां चानय इति । 'अट गतौ'। भिक्षामटनेन प्राप्नुहीत्यर्थः । भिक्षामट, तदा गौः संगता चेत् तामप्यानय, न तु गवानयने ऐदंपर्येण प्रयतितव्यमिति तात्पर्यार्थः । इतरेतरयोगं लक्षयति-मिलितानामिति । परस्परापेक्षितानां समुदितानामेकस्मिन् क्रियापदेऽन्वयो यत्र, तत्रेतरेतरयोगः परस्परसाहचर्य चार्थः प्रत्येतव्य इत्यर्थः । यथा धवश्च खदिरश्च धवखदिराविति । अत्र परस्परसाहित्यसूचनाय चकारद्वयप्रयोगः । अथ समाहारं लक्षयति-समूहः समाहार इति । परस्परसाहित्यमित्यर्थः । यथा संज्ञापरिभाषयोः समूहः संज्ञापरिभाषमिति । तत्रेतरेतरयोगद्वन्द्वै साहित्यं द्रव्यविशेषणम् , यथा धवखदिरौ छिन्द्धीति, समुदिताविति गम्यते । समाहारद्वन्द्वे तु समूहो विशेष्यम् , यथा संज्ञापरिभाषमिति । तयोः समूह इति गम्यते । संज्ञापरिभाषमधीते इत्यादौ समूहस्य क्रियान्वयस्तु समूहिद्वारा बोध्य इत्यलम् । तत्रेति । तेषु चार्थेषु समुच्चयेऽन्वाचये च न द्वन्द्वसमास इत्यन्वयः। ईश्वरं गुरुं च भजस्वेति । समुच्चयोदाहरणमिदम् । भिक्षामट गां चानयेत्युदाहरणं चानुपदमेव व्याख्यातम् । असामर्थ्यादिति । ईश्वरं गुरुं च इयत्रोक्तरीत्या सुबन्तमित्यादि । चार्था इति । चशब्दद्योत्या इत्यर्थः । एकस्मिन्निति । भजनादावित्यर्थः । ईश्वरं गुरुं च भजस्वेति । क्रियायां द्रव्ययोः समुच्चयोऽयम् । तथा राज्ञो गजश्चाश्वश्चेति द्रव्ये द्रव्ययोः समुच्चयः । पटः शुक्लो रक्तश्चेति द्रव्ये गुणयोः। रक्तः पटः कुण्डलं चेति गुणे द्रव्ययोरित्यूह्यम् । भिक्षामट गां चानयेति । अत्र ह्यदर्शनाद्गामनानयन्नपि भिक्षामटत्येव । अनटंस्तु भिक्षां न गामानयति । तथा अटन्नपि नान्विष्य गामानयति । अतो भिक्षाटनस्यैव प्राधान्यं गवानयनन्य त्वानुषङ्गिकता । असामर्थ्यादिति । एकार्थीभावाभावादित्यर्थः । तथाहि बहुव्रीहिघटकपदानां कर्मा Page #188 -------------------------------------------------------------------------- ________________ प्रकरणम् २०] बालमनोरमा तत्त्वबोधिनीसहिता। [१८५ संज्ञापरिभाषम् । अनेकोलेोतृपोतनेष्टोद्वातारः। द्वयोईयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्वातारः। ६०२ राजदन्तादिषु परम् । (२-२-३१) एषु ईश्वरगुरुशब्दयोः परस्परनिरपेक्षयोरावृत्ते भजस्वेति पदे क्रमेणान्वयात् परस्परमन्वयाभावादसामर्थ्यम् । भिक्षामट गां चानय इत्यत्र तु भिक्षागवोरटने आनयने च क्रमेण परस्परवानिभिज्ञयोरेवान्वयात् परस्परान्वयाभावादसामर्थ्य स्पष्टमेव । ततश्च इतरे. तरयोगसमाहारयोरेव चार्थयोः परस्परसाहित्यसत्त्वात् समर्थत्वेन द्वन्द्वसमासः । विस्तरस्तु गञ्जूषायां द्रष्टव्यः । इतरेतरयोगमुदाहरति-धवखदिराविति । धवश्च खदिरश्चेति द्वन्द्वः । धवो वृक्षविशेषः, खदिरः प्रसिद्धः, तौ समुदिताविति बोधः । समाहारे तूदाहरति-संक्षेति । संज्ञा च परिभाषा च तयोः समाहार इति विम्हः । समाहारस्यैकत्वादेकवचनम् । ‘स नपुंसकम्' इति नपुंसकत्वम् । ननु 'चार्थे द्वन्द्वः' इत्यत्र 'सुप्सुपा' इत्यनुवृत्त्यैव धवखदिरावित्यादिसिद्धरनेकग्रहणानुवृत्तिर्व्यर्थेत्यत आह–अनेकोक्लेरिति । होतृपोत्रिति । होता च पोता च नेष्टा च उद्गाता च इति विग्रहे बहूनामपि द्वन्द्वार्थमनेकग्रहणमिति भावः । 'आनवृतो द्वन्द्वे' इति नेष्टशब्दस्यैव उत्तरपदपरकत्वाद् आनङ् ; न तु होतृपोतृशब्दयोरपि, उत्तरपदस्य मध्यमपदव्यवहितत्वेन होतृपोतृशब्दयोरुत्तरपदपरकत्वाभावात् । ननु तर्हि होतापोतानेष्टोद्गातार इति कथमित्यत आह-द्वयोरिति । होता च पोता चेति द्वयोर्द्वन्द्वः। होतृशब्दस्य आनङ् । ततश्च नेष्टा च उद्गाता चेति द्वयोर्द्वन्द्वः । नेष्ट्रशब्दस्यानङ् । ततो होतापोतारौ च नेष्टोद्गातारौ चेति द्वन्द्वद्वयगर्भो द्वन्द्वः । तत्र नेष्टोद्गातृशब्दे उत्तरपदे होतापोतृशब्दस्य आनङित्यर्थः । आनङि ङकार इत् । ङित्त्वादन्तादेशः। अकार उच्चारणार्थः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नस्य लोपः । नेष्टोद्गातृशब्दे द्यन्तर्भावेणेव द्वन्द्वघटकपदानां चार्थान्तर्भावेण एकार्थीभाव आवश्यकः । 'समर्थः पदविधिः' इति परिभाषितत्वात् 'चाथै द्वन्द्वः' इत्युक्तेश्च । न चेतरेतरान्वये परस्परनिरपेक्षाणामेकार्थीभावः संभवति, येन समुच्चयान्वाचयावेकार्थीमावान्तर्भूतौ स्याताम् । ततश्चेतरेतरयोगे समाहारे च परस्परसाहित्यसत्त्वात्समासो भवति, न तु समुच्चयान्वाचययोः । परं त्वितरेतरयोगे साहित्यं विशेषणं द्रव्यं तु विशेष्यम् , समाहारे तु साहित्यं प्रधानं द्रव्यं विशेषणमिति विवेक्तव्यम् । ननु नीलोत्पलमित्यादौ चशब्दान्तर्भावण विग्रहदर्शनादेकार्थीभावसत्त्वाच्च द्वन्द्वो दुर्वारः स्यात् । मैवम् , 'विशेषणं विशेष्येण-' इति सामानाधिकरण्ये विहितया तत्पुरुषसंज्ञया द्वन्द्वसंज्ञाया बाधात् । तस्यास्त्वसामानाधिकरण्ये सावकाशत्वात् । सामानाधिकरण्याभावविवक्षायां तु 'प्रमाणप्रमेय ' इत्यादाविव नीलोत्पलादावपि द्वन्द्वे इष्टापत्तिरेव । होतृपोत्रिति । उत्तरपदपरत्वा Page #189 -------------------------------------------------------------------------- ________________ १८६ ] सिद्धान्तकौमुदी । [ द्वन्द्वसमास पूर्वप्रयोगाहं परं स्यात् । दन्तानां राजा राजदन्तः । 'धर्मादिष्वनियमः ' ( वा १४१८ ) अर्थधम, धर्मार्थौ । दम्पती, जम्पती, जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । श्राकृतिगणोऽयम् । ६०३ द्वन्द्वे घि। (२-२-३२) द्वन्द्वे विसंज्ञं पूर्व स्यात् । हरिश्च हरश्च हरिहरौ । ' अनेकप्रासावेकत्र नियमो ऽनियमः शेषे' ( वा १४१० ) हरिगुरुहराः - हरिहरगुरवः । ६०४ श्रजाद्यदन्तम् । श्राद्गुणश्च । राजदन्तादिषु परम् । 'उपसर्जनं पूर्वम्' इत्यनुवर्तते । तदाहएष्विति । राजदन्तादिष्वित्यर्थः । पूर्वप्रयोगार्हमित्यतः प्राग् उपसर्जनमिति शेषः । राजदन्त इति । दन्तशब्दस्य षष्ठीतत्पुरुषेऽप्रधानतयोपर्सजनत्वेऽपि परनिपातः । इह गणे राजदन्ताग्रे वरणादिशब्दास्तत्पुरुषाः, विष्वक्सेनार्जुनादयो द्वन्द्वाश्च पठिताः, अतो द्वन्द्वप्रकरणे तदुपन्यासः । विष्वक्सेनार्जुनावित्यत्र 'अजाद्यदन्तम्' इत्यर्जुनशब्दस्य पूर्वनिपाते प्राप्ते परनिपातः । धर्मादिष्व नियम इति । गणसूत्रमिदम् । अन्यतरस्य पूर्वनिपात इत्यर्थः । अर्थधर्माविति । अजाद्यदन्तशब्दस्य पूर्वनिपातनियमे प्राप्ते तदनियमो वक्तव्य इत्यर्थः । निपात्यत इति । पाक्षिको राजदन्तादिगण इत्यर्थः । पत्युरभ्यर्हितत्वेऽपि परनिपातश्च । आकृतिगणोऽयमिति । वृत्तौ तु कृत्स्नोऽयं गणः पठितः । द्वन्द्वे घि । पूर्वमित्यनुवर्तते । तदाह – पूर्व स्यादिति । हरिहराविति । हरिशब्दस्य घित्वात् पूर्वनिपातः । ननु हरिहर - गुरव इत्यत्र गुरुशब्दस्यापि घित्वात् पूर्वनिपातः स्यादित्यत आह- अनेकेति । कस्य घिसंज्ञकपदस्य द्वन्द्वप्राप्तौ सत्यामेकस्य घिसंज्ञकस्य पूर्वनिपातनियमः । शेषेऽन्यस्मिन् घिसंज्ञकपदविषये पूर्वनिपातस्य विकल्प इत्यर्थः । इदम् 'अल्पाच्तरम्' इति सूत्रे भाष्ये स्पष्टम् । जातिपक्षे तावद् श्राकृति पुरस्कृत्य सर्वासु व्यक्तिषु तत्तच्छास्त्राणि सकृदेव प्रवर्तन्ते, सकृच्छ्रुतत्वात् । न तु प्रतिव्यक्ति, तथा सति प्रतिव्यक्तया - वृत्तिप्रसङ्गात् । ततश्च अनेकधिसंज्ञकसमवाये एकस्य घिसंज्ञकस्य पूर्वनिपाते सति पुनः शास्त्रं न प्रवर्तते, सकृत्प्रवृत्त्यैव शास्त्रस्य शान्ताकाङ्क्षत्वात् । व्यक्तिपक्षस्तु नेहाश्रीयते, लक्ष्यानुरोधादित्याहुः । हरिहर गुरव इति । हरगुरुशब्दयोर्न नियम इति भावः । भावादनयोरानङ न । राजदन्तादिषु । इह द्वन्द्वतत्पुरुषयोः पाठेऽपि 'अर्थधम' इत्याद्यभिप्रायेणास्य द्वन्द्वेषूपन्यासः । द्वन्द्वे घि । ' अनेकम् -' इति सर्वेषामेव प्रथमानिर्दिष्टत्वेनोपसर्जनत्वाविशेषादनियमप्राप्तावयमारम्भः । यत्र त्वनेकं ध्यन्तं तत्र द्वयोरपि पूर्वनिपातनियमः स्यादत आह— अनेकप्राप्तावेकत्रेति । अत्र व्याचख्युःप्रकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न प्रतिव्यक्तत्यावृत्त्या । तत्रैकस्य पूर्वनिपाते सति जातौ लक्षणं प्रवृत्तमेवेति न पुनः प्रवर्तते । व्यक्तिपक्षस्त्विह नाश्रीयते लक्ष्या - Page #190 -------------------------------------------------------------------------- ________________ प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८७ (२-२-३३ ) इदं द्वन्द्वे पूर्व स्यात् । ईशकृष्णौ । बहुवनियमः । अश्वरथेन्द्राः, इन्द्राश्वरथाः। 'ध्यन्तादजाचदन्तं विप्रतिषेधेन' (वा १४२६ ) इन्द्राग्नी। १०५ अल्पाच्तरम् । (२-२-३४) शिवकेशवौ । 'ऋतुनक्षत्राणां समाचराणामानुपूर्येण' (वा १४२१) हेमन्तशिशिरवसन्ताः। कृत्तिकारोहिण्यौ । समाक्षराणां किम्-प्रीष्मवसन्तौ । 'लध्वधरं पूर्वम्' (वा १४१३) कुशकाशम् । 'अभ्यहितं च' ( वा १४१२) । तापसपर्वतौ । 'वर्णानामानुपूष्यण' (वा १४१५) अजाद्यदन्तम् । इदमिति । अजादित्वे सत्यदन्तमित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्यादन्तत्वेऽप्यजादित्वाभावान्न पूर्वनिपातः । बहुष्वनियम इति । वक्तव्य इति शेषः । ननु इन्द्राग्नी इत्यत्र घित्वादग्निशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह--ध्यन्तादिति । ध्यन्तशब्देन 'द्वन्द्वे घि' इति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी । विप्रतिषेधसूत्रेण 'द्वन्द्वे घि' इत्येतद् बाधित्वा 'अजाद्यदन्तम्' इति प्रवर्तत इत्यर्थः । अल्पाच्तरम् । अल्पः अल्पसंख्यः अच् यस्य तदल्पाच् , तदेवाल्पाच्तरम् । अत एव निपातनात् स्वार्थे तरप्, कुत्वाभावश्च । अल्पसंख्याच्वं पदं द्वन्द्वे पूर्व प्रयोज्यमित्यर्थः । शिवकेशवाविति । हरिहरयोरन्यतरोत्कर्षवादस्य पाषण्डवादत्वादिति भावः । यदि तु 'द्विवचनविभज्य-' इत्यतिशयार्थे तरप् स्यात् , तदा धवखदिरपलाशा इत्यत्र बहुषु न स्यादिति प्राञ्चः । शब्देन्दुशेखरे तु प्रकर्षार्थक एवाय तरप् इति स्थितम् । ऋतुनक्षत्राणामिति । समानसंख्याच्कानाम् ऋतूनां नक्षत्राणां च द्वन्द्वे अानुपूर्येण क्रमेण निपातो वक्तव्य इत्यर्थः । हेमन्तशिशिरवसन्ता इति । त्रयाणामृतूनामानुपूयं लोकप्रसिद्धम् । एवं कृत्तिकादिनक्षत्राणामपि । ग्रीष्मवसन्ताविति । विषमाक्षरत्वान्न वसन्तस्य पूर्वनिपातः। किंतु अल्पाच्त्वाद् ग्रीष्मस्य पूर्वनिपातः । लघ्वक्षरं पूर्वम् । लघु अक्षरमच् यस्य तद् द्वन्द्वे पूर्व प्रयोज्यमिति वक्तव्यमित्यर्थः । कुशकाशमिति । समाहारद्वन्द्वोऽयम् । अभ्यर्हितं चेति । श्रेष्ठः पूर्वः प्रयोज्य इति वक्तव्यमित्यर्थः। तापसपर्वताविति। नुरोधादिति । हरिहरगुरव इति । हरगुरुशब्दयोन नियमः प्रवर्तत इति भावः । अजाद्यदन्तम् । 'समुद्रात्राद्धः' 'लक्षणहेत्वोः क्रियायाः' इत्यादिनिर्देशादनित्यमिदं प्रकरणम् । तेन ‘स सौष्ठवौदार्यविशेषशालिनीम्' इति भारविप्रयोगः संगच्छते। अल्पान्तरम् । अतएव निपातनात् खार्थे तरप कुत्वचुत्वयोरभावश्च । यदि तु प्रकर्षे तरप् स्यात् तदा द्वयोरेव नियमः स्यात् । द्विवचनान्तोपपदत्वविषय एव तरपो विधानात् । ततश्च धवखदिरपलाशा इत्यादौ बहुषु नियमो न स्यात् । ऋतुनक्षत्राणामिति । ऋतूनामानुपूर्व्य प्रादुर्भावकृतं नक्षत्राणां तूदयकृतं च । अभ्यर्हितं चेति । Page #191 -------------------------------------------------------------------------- ________________ १८८] सिद्धान्तकौमुदी। [द्वन्द्वसमासब्राह्मणक्षत्रियविदछुद्राः । 'भ्रातुायसः' (वा १६१६) युधिष्ठिरार्जुनौ । ६०६ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । (२-४-२) एषां द्वन्द्व एकवस्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे पर्वतस्य स्थावरजन्मतया तापसस्य तदपेक्षया अभ्यर्हितत्वं बोध्यम । भाष्ये तु मातापितरावित्युदाहृतम् । 'गर्भधारणपोषाभ्यां पितुर्माता गरीयसी' इत्यादिस्मृतेरिति तदाशयः । वर्णानामानुपूयेणेति । एषां क्रमेण पूर्वनिपातः । 'ब्रह्मक्षत्रियविट्छूद्रा वर्णाः' इत्यमरः । तेषामानुपूयं तु 'प्रजापतिरकामयत प्रजायेयेति, स मुखतस्त्रिवृत्तं निरमिमीत' इत्यादितैत्तिरीयब्राह्मणादिसिद्धम् । भ्रातुायस इति । ज्येष्ठभ्रातुः पूर्वनिपात इत्यर्थः । अत्र 'द्वन्द्वे घि' 'अजाद्यदन्तम्' इति विधिद्वयम् 'अल्पान्तरम्' 'लघ्वक्षरं पूर्वम्' 'ऋतुनक्षत्राणाम्' 'अभ्यर्हितं च' 'भ्रातुायसः' इति विधिभिः परत्वाद् बाध्यते । भाष्ये तु सर्वत एवाभ्यर्हितं पूर्वनिपातमिति मतान्तरं स्थितम् । द्वन्द्वश्व प्राणि । प्राणितूर्यसेनाजानीति द्वन्द्वगर्भषष्ठीसमासः । द्वन्द्वान्ते श्रूयमाणः अङ्गशब्दः प्रत्येकं संबध्यते इत्यभिप्रेत्य आह-एषामिति । प्राण्यङ्गानां तूर्याङ्गानां सेनाङ्गानां चेत्यर्थः । द्वन्द्व इति। समाहारद्वन्द्व इत्यर्थः । 'द्विगुरेकवचनम्' इति पूर्वसूत्रे 'समाहारग्रहणं कर्तव्यम्' इति वार्तिकस्यात्राप्यनुवृत्तेः । एकवदिति । एकवचनमित्यनुवर्तते । एकं वक्तीत्येकवचनम् । कर्तरि ल्युट । सामान्याभिप्रायं नपुंसकम् । पाणिपादमिति । पाण्योः पादयोश्च समाहार इति विग्रहः । अत्र समाहारे एकवत्त्वं ‘स नपुंसकम्' इति नपुंसकत्वं च । पाण्योः 'वासुदेवार्जुनाभ्यां वुन्' इति निर्देशेनेदं ज्ञाप्यत इति चतुर्थे भाष्यम् । अल्पान्तरम्' 'अजाद्यदन्तम्' इति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तमकुर्वन् ज्ञापन सर्वतोऽभ्यहिंतं पूर्वमिति तत्रैव सूत्रे वक्ष्यते । युधिष्ठिरार्जुनाविति । इन्द्रपुत्रत्वाद्विष्णो. रंशत्वाच्छूरत्वाद्वा अभ्यर्हितत्वमर्जुनेऽप्यस्तीति न तेन नियमः सिध्यतीति भावः । द्वन्द्वश्च प्राणि । प्राणितूर्यसेनानामङ्गानीति बहुवचनान्तेनाङ्गशब्देन षष्ठीसमासः । अङ्गशब्दश्च प्रत्येकमन्वेति । तेन प्राण्यङ्गानां प्राण्यङ्गेरेव, तूर्याङ्गानां तृर्याङ्गैरेव, सेनागानां सेनाडैरेव यो द्वन्द्वः स एकवद्भवति, न तु व्यतिरेकेण । तेनेह न-मार्दगिकाश्वारोहौ । अत्र प्राणिसेनयोरङ्गं नामावयवः । तूर्यस्य त्वङ्गं नामोपकारकं बोध्यम् । एषां द्वन्द्व इति । प्राण्यङ्गानां द्वन्द्वः, तूर्याङ्गानां द्वन्द्वः, सेनाङ्गानां द्वन्दः, इत्यर्थः । 'द्विगुरेकवचनम्' इत्यत एकवचनं वर्तते । तत्रैकं वक्तीति व्युत्पत्त्या एकत्वविशिष्टः समाहाररूपो योऽर्थस्तत्प्रतिपादकः स्यादित्यर्थ मन्वानः फलितमाह-एकवत्स्यादिति । पाणिपादमिति । यद्यप्यत्र 'जातिरप्राणिनाम्' इत्येव सिद्धम् , तथापि Page #192 -------------------------------------------------------------------------- ________________ प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १८६ सिद्धे नियमार्थं प्रकरणम् 1 प्राण्यङ्गादीनां समाहार एव यथा स्यात् । ६०७ अनुवादे चरणानाम् । (२-४-३) चरणानां द्वन्द्व एकवस्स्यात्सिद्धस्योपन्यासे । ‘स्थेणोर्लुङीति वक्रव्यम्' ( वा १५३५-१५३६ ) । उद्गात्कठकापादयोश्च प्राण्यवयवत्वात् प्राण्यङ्गोदाहरणमिदम् । अथ तूर्याद्वन्द्वे उदाहरतिमार्दङ्गिक पाणविकमिति । मृदङ्गपणवशब्दौ वाद्यविशेषपरौ । इह तु तद्वादनेऽपि वर्तेते । मृदङ्गवादनं शिल्पमस्येत्यर्थे ' शिल्पम्' इति ठक् । मार्दङ्गिकपाणविकयोः समाहार इति विग्रहः । तूर्याङ्गत्वादेकवचनम् । तूर्याङ्गत्वं च तद्वादकतया बोध्यम् । 'स नपुंसकम्' इति नपुंसकत्वम् । सेनाङ्गद्वन्द्वे उदाहरति — रथिकाश्वारोहमिति । रथेन चरन्तीति रथिकाः । 'पर्पादिभ्यः ष्ठन् । रथिकानामश्वारोहाणां च समाहार इति विग्रहः । सेनावयवत्त्रादेकवत्त्वम् । पूर्ववन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहारस्य विशेष्यत्वात् तस्य चैकत्वादिदं सूत्रं व्यर्थमित्यत आह- समाहारस्यैकत्वादिति । समाहार एवेति । न त्वितरेतरयोगः । एषां द्वन्द्व नियमार्थ सूत्रमित्यर्थः । एवमुतरसूत्राण्यपि समाहार एवेति नियमार्थानि । न चेतरेतरयोगद्वन्द्वे एषामेकवत्त्वविधानार्थमिदं सूत्रमस्तु । तथा च पाणिपाद इति पुंल्लिङ्गमेकवचनान्तं रूपं फलमिति वाच्यम्, 'समाहार ग्रहणं कर्तव्यम्' इति पूर्वसूत्रस्थवार्तिकस्यात्रानुवृत्तेः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समाहारद्वन्द्वानामेव भाष्ये उदाहृतत्वाच्च । न च रथिकमार्दङ्गिकावित्यादावतिप्रसङ्गः शङ्कयः, प्राण्यङ्गानां परस्परद्वन्द्व एकवत्, तूर्याङ्गानां परस्परद्वन्द्व एकवत्, सेनाङ्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमादिति भाष्ये स्पष्टम् | अनुवादे चरणानाम् । चरणानां द्वन्द्व एकवदिति । शाखाध्येतृविशेषाश्चरणाः । तद्वाचिनां परस्परद्वन्द्व एकवदित्यर्थः । अनुवाद इत्येतद्व्याचष्टे - सिद्धस्योपन्यास इति । श्रवगतार्थस्य 1 द्रव्यप्राधान्येऽपि भवत्विति प्राणिग्रहणमित्येके प्राणिपणवाविति व्यतिकरे मा भूदिति नियमार्थं वचनमित्य॑न्ये । मार्दङ्गिकेति । मृदङ्गवादनं शिल्पमस्येत्यर्थे 'तदस्य शिल्पम्' इति ठक् । एवं पाणविक इत्यपि । रथिकाश्वारोहमिति । रथेन चरन्तीति रथिकाः । 'पर्पादिभ्यः ष्ठन्' इति ष्ठन् । ते चाश्वारोहाश्च तेषां समाहारः । ननु 'चार्थे द्वन्द्वः' इत्यनेन समाहारद्वन्द्वः सिद्धः, तस्य चैकत्वादेकवचनमपि सिद्धमिति किमनेने - त्याशङ्कयाह — नियमार्थमिति । समाहार एवेति । समाहारे प्राण्यङ्गादीनामेवेति विपरीतनियमोऽत्र न भवति, 'तिष्यपुनर्वखो:-' इति सूत्रे बहुवचनग्रहणात् । तद्धि समाहारे एकवचनस्य द्विवचनं मा भूदिति कृतम् । अन्यथा तिष्यपुनर्वस्वितिन स्यादिति । एवं च 'द्वन्द्वश्च प्राणितूर्य -' इति प्रकरणबहिर्भूतानामपि समाहारद्वन्द्वो भवत्येव, तेन ‘सर्वो द्वन्द्वो विभाषैकवद्भवति' इति पठ्यमानं नापूर्वं वचनमिति ज्ञेयम् । Page #193 -------------------------------------------------------------------------- ________________ १६०] सिद्धान्तकौमुदी। [ द्वन्द्वसमासलापम् , प्रत्यष्ठास्कठकौथुमम् । ६०८ अध्वर्युक्रतुरनपुंसकम् । (२-४-४) यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम्-इषुवज्रौ, सामवेदे विहितौ । अनपुंसक किम्राजसूयवाजपेये, अर्धर्चादी । ६०६ अध्ययनतोऽविप्रकृष्टाख्यानाम् । प्रतिपादन इत्यर्थ । स्थणोरिति । लुडीति प्रत्येकमन्वयाभिप्रायमेकवचनम् । लुङन्ते स्थाधातौ लुङन्ते इराधातौ च प्रयुज्यमान एव अनुवादे चरणानां द्वन्द्व एकवदिति वक्तव्यमित्यर्थः । उदगादिति । प्रादुरभूदित्यर्थः । इराधातो ङि रूपम् । कठकालापमिति । कठेन प्रोक्कमधीयत इति कठाः । वैशम्पायनान्तेवासित्वागिणनिः । तस्य 'कठचरकात्' इति लुक् । ततोऽध्येतृप्रत्ययस्य 'प्रोक्ताल्लुक्' इति लुक् । कलापिना प्रोक्तमधीयते इति कालापाः। प्रोक्तार्थे 'कलापिनोऽण' । 'सब्रह्मचारिपीठसर्पि ' इत्यादिना टिलोपः । ततोऽध्येत्रणः 'प्रोक्ताल्लुक्' इति लुक् । कठानां कालापानां च समाहार इति विग्रहः । प्रत्यष्ठादिति । प्रतिपूर्वात् स्थाधातोर्लुङि रूपम् । कठकौथुममिति । कठेन प्रोक्तमधीयत इति कठाः । कौथुमिना प्रोक्तमधीयत इति कौथुमाः । प्रोक्तेऽर्थे 'तेन प्रोक्तम्' इत्यण । 'सब्रह्मचारि-' इत्यनेन टिलोपः । ततोऽध्येत्रणो लुक् । कठानां कौथुमानां च समाहार इति विग्रहः । यदा कठा कालापाश्च उदिताः, यदा कठाः कौथुमाश्च प्रतिष्ठिताः, तदा किञ्चिदिदं वक्तव्यमिति कृतसंकेतयोरिदं वाक्यद्वयम् । अत्रोदयप्रतिष्ठयोः पूर्वसिद्धयोरनुवादादेकवत्वम्।स्थेणोः किम् ? अभूवन् कठकालापाः । लुङि किम् ? अतिष्ठन् कठकालापाः । अध्वर्युक्रतुः। अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकयजुर्वेदपरः, तदाह-यजुर्वेद इति । अर्काश्वमेधमिति । अर्को महाक्रतुः । अश्वमेधो नाम प्रसिद्धः । उभौ यजुर्वेदविहितक्रतू । अर्कस्य चाश्वमेधस्य च समाहार इति विग्रहः । इषुवज्राविति । ऋतुविशेषावेतौ न यजुर्वेदविहिताविति भावः । तर्हि कस्मिन् वेदे विहितावित्यत आह–सामेति । राजसूयवाजपेये इति । एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः । राजसूयवाजपेययोः चरणानामिति । शाखाध्येतृवाचिनामित्यर्थः । स्थणोरिति । 'टा गतिनिवृत्ती' 'इण गतौ' स्थाप्रकृतिक इण्प्रकृतिके लुङन्ते उपपदे सतीत्यर्थः । स्थेणोः किम् , अभूवन् कठकालापाः । लुङि किम् , तिष्ठन्तु कठकालापाः । उदगादिति । इह यदा कठेषु कालापेषु च प्रतिष्ठितेषु उदितेषु चावाभ्यां तत्र गन्तव्यमिति संकेतयित्वा तत्संकेतं विस्मृत्यासीनं प्रतीदमुच्यते । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वारिणनिः । तस्य 'कठचरकात्-' इति लुक् । अध्येत्रणस्तु 'प्रोक्ताल्लुक्' इति लुक् । 'कलापिनोऽण्' 'सब्रह्मचारी-' इत्याद्युपसंख्यानाहिलोपः । यजुरिति । सूत्रे Page #194 -------------------------------------------------------------------------- ________________ प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६१ (२-४-५) अध्ययनेन प्रत्यासन्ना श्राख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमक । ६१० जातिरप्राणिनाम् । ( २-४-६) प्राणिवर्जजातिवाचिनां द्वन्द्व एकवत् धानाशष्कुलि । प्राणिनां तु विट्छूद्राः । द्रव्यजातीयानामेव, नेह – रूपरसौ, गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदरापुँल्लिङ्गतया प्रसिद्धेराह — अर्धर्चादी इति । अध्ययनतः । अविप्रकृष्टाख्यानामिति च्छेदः । अध्ययनत इति तृतीयार्थे तसिः । तदाह - श्रध्ययनेन प्रत्यासन्नेति । संनिकृष्टेत्यर्थः । पदकक्रमकमिति । पदान्यधीयते पदकाः । क्रमान् अधीयते क्रमकाः । ' क्रमादिभ्यो वुन्' । पदकानां क्रमकाणां च समाहार इति विग्रहः । पदाध्ययनानन्तरं क्रमाध्ययनमित्यध्ययनगता प्रत्यासत्तिरध्येतर्यारोप्यत इति भावः । पदक्रममिति नोदाहृतम्, 'जातिरप्राणिनाम्' इत्येव सिद्धेः । तदध्येतृत्वे तु न जातिरिति भावः । जातिरप्राणिनाम् । जातिरिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा, जातिवाचिनामित्यर्थः । धानाशष्कुलीति । धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः । जातिवाचित्वादेकवस्वम्, नपुंसकत्वाद्ध्रस्व इति भावः । विट्छूद्रा इति । विशश्च शूद्राश्चेति विग्रहः । द्रव्यजातीयानामेवेति । अप्राणिनामिति पर्युदासे सति नञिवयुक्तन्यायादिदं लभ्यत इति भावः । रूपरसाविति । गुणगतजातिवचनावेतौ । गमनाकुञ्चने इति । क्रियागतजातिविशेषवाचिनावेतौ । ननु बदर्याः फलानि बदराणि आमलक्याः फलान्यामलकानि, 'फले लुक्' इति विकारप्रत्ययस्य लुकि 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययस्य लुक् । फलत्वव्याप्यअध्वर्युशब्दो यजुर्वेदलक्षक इति भावः । पदकेति । पदान्यधीते पदकः । ' क्रमादिभ्यो वुन् । एवं क्रमकोऽपि । पदान्यधीत्य क्रमोऽध्येतव्य इति स्पष्टा प्रत्यासत्तिः । अध्ययनतः किम्, पितापुत्रौ । श्रविप्रकृष्टेति किम्, याज्ञिकनैयायिकौ । जातिर । जातिवाच्यवयवकद्वन्द्वोऽपि जातिरित्युपचर्यत इत्याशयेनाह - जातिवाचिनामिति । विट्शूद्रा इति । जातिप्राधान्येऽपि बहुवचनमुपपद्यते 'जात्याख्यायामेकस्मिन् - ' इति विधानात् । तेनात्र व्यङ्गविकलं नेति भावः । द्रव्यजातीयानामेवेति । 'अप्राणिनाम्' इति पर्युदासात् 'नञिवयुक्त - ' न्यायेन द्रव्यजातीयानामेकवद्भावो, न तु गुणक्रियाजातीयानामिति भावः । जातिः किम्, नन्दकपाञ्चजन्यौ | संज्ञाशब्दावतौ । जातिप्राधान्य एवेति । एतच्च जातिग्रहणाल्लब्धम् । अन्यथा पर्युदासेनैव जात्युपसर्जनद्रव्यवाचिनोऽपि ग्रहणोपपत्तौ किं तेनेति भावः । द्रव्यविशेषेति । नन्वेवं 'रञ्जिता नु विविधास्तरुशैलाः' इति भारविप्रयोगः संगच्छत एवेति किमिति तरुसहिताः शैला इति मनोरमायां समर्थितमिति चेत् — अत्राहुः - सकलतरुशैलरञ्जनं तत्र Page #195 -------------------------------------------------------------------------- ________________ १९२] सिद्धान्तकौमुदी। [ द्वन्द्वसमासमलकानि । १११ विशिष्टलिङ्गो नदीदेशोऽग्रामाः। (२-४-७) ग्रामवर्जनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्धयश्च इरावती च जातिविशेषवाचिनावेतौ। ततश्च बदराणि चामलकानि च बदरामलकं बदराम लकानीति कथं रूपद्वयम् , 'जातिरप्राणिनाम्' इत्येकवत्त्वस्य नित्यत्वादित्यत श्राह-जातिप्राधान्य इति । व्यक्तिविशेषानादरेण सकलतत्तब्यक्त्यनुस्यूतजातिविवक्षायामित्यर्थः । घटमानयेत्यादौ हि घटादिशब्दानामाकृत्यधिकरणन्यायेन घटत्वादिजातिरर्थः । जातेश्च निराश्रयाया उपस्थित्यसंभवाद् आश्रयभूतव्यक्त्याकाङ्क्षायामविशेषात् कृत्स्नाप्युपस्थिता । तत्र घटमानयेत्यादिप्रयोगेषु जातेरतीतानागतवर्तमानकृत्स्नव्यक्तीनां च क्रियान्वयासंभवाद् व्यक्तिविशेषमेव कञ्चिदादाय क्रिया विश्राम्यति । इदमेव च जातेः प्राधान्यं तत्तज्जात्याश्रयसकल तत्तयक्तिबोधकत्वात्मकम् । घटाः शुक्ला इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारा देवशायक्तिविशेषानेव जातिरुपस्थापयतीति जातेरप्राधान्यम् ,जात्याश्रयसकलव्यक्त्यनुपस्थापकत्वादिति तस्यादितः-' इति सूत्रे कैयटे स्पष्टम् । ततश्च फलत्वव्याप्यया बदरत्वजात्या आमलकत्वजात्या चाविशेषात्तदाश्रयसकलव्यक्त्युपस्थितौ बदरामलकमित्येकवद्भावः । द्रव्यविशेषेति । श्रारण्यानि बदरामलकानीत्यादौ फलत्वव्याप्यबदरत्वामलकत्वादिजातिभ्याम् आरण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः । ग्राम्याणां व्यक्तीनामनुपस्थितेः तयोर्जात्योरप्राधान्याद् नायमेकवद्भाव इत्यर्थः । क्षीरोदके संपृक्त इत्यन्तादिवत्सूत्रभाष्यप्रयोगोऽत्र लिङ्गमित्याहुः। विशिष्टलिङ्गो नदीदेशोऽग्रामाः। अग्रामा इति च्छेदः । व्यत्ययेन बहुत्वे एकवचनम् । विपूर्वकशिषधातुः भेदे वर्ततेविवक्षितम् , न तु केषांचित्तरुशैलविशेषाणामिति जातिप्राधान्यादेकवद्भावमाशङ्कय तथोक्तमिति । बदरामलकानीति । 'फले लुक्' इति लुक् । 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययस्यापि लुकि फलत्वजात्युपसर्जनद्रव्यवचनावेतौ । 'विभाष वृक्षमृग-' इति सूत्रे बदराणि चामलकानि च बदरामलकम् । 'जातिरप्राणिनाम्' इत्येकवद्भाव इति वक्ष्यति, तत्तु नानेन ग्रन्थेन विरुध्यते । फलत्वजातिवाचिनां बहुवचनान्तानामेव द्वन्द्व एकवद्भवति, न त्वेकवचनान्तानां द्वन्द्व इति 'फलसेनावनस्पति-' इति वार्तिकोक्लनियममुपेत्य तत्प्रवृत्तेः । विशिष्टलिङ्गो । सूत्रे चत्वारोऽपि शब्दा अवयवधर्मेणावयविद्वन्द्व वर्तन्त इत्याशयेनाह-ग्रामेत्यादि । इह नदीवाचिनां द्वन्द्वः, देशवाचिना द्वन्द्व इति वाक्यभेदेन व्याख्येयम् । तेन गङ्गाकुरुक्षेत्रे इत्यत्र न भवति । देशशब्देनात्र प्रसिद्ध एव जनपदो गृह्यते, नद्याः पृथग् ग्रहणात् । तेन पर्वतानां न, कैलासश्च गन्धमादनं च कैलासगन्धमादने । नदीदेश इति किम् , कुक्कुटमयूर्यो । विशिष्टपदस्यार्थमाह Page #196 -------------------------------------------------------------------------- ________________ प्रकरणम् २० ] बालमनोरमा तत्त्वबोधिनीसहिता। [१९३ उद्धपेरावति । गङ्गा च शोणम गङ्गाशोणम् । कुरवत्र कुरुक्षेत्रं च कुरुकुरुक्षेत्रम्। भिवलिङ्गानां किम्-गङ्गायमुने, मद्रकेकयाः । अप्रामाः किम्-जाम्बवं नगरम् , शालूकिनी ग्रामः-जाम्बवशालूकिन्यो । ६१२ तुद्रजन्तवः । (२-४-८) एषां समाहरि एव इन्द्व एकवस्यात् । यूकाजिलम् । पानकुलारपुद्रजन्तवः । ११३ येषां च विरोधःशाश्वतिकः। (२-४-६) एषां प्राग्वत् । अहिनकुखम्। विशेषणं विशेष्येणेत्यादौ यथा । विशिष्टं लिङ्गं येषामिति विग्रहः । तथा च ग्रामवाचकभिन्ना भिन्नलिङ्गका ये नदीवाचिनो ये देशवाचिनश्च तेषां द्वन्द्व एकवत् स्यादिति लभ्यते तदाह-ग्रामवर्जेति । समाहारे द्वन्द्व इति । एकवत्वविधेः फलाभिप्रायमेतत् , अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्व इति नियमार्यताया अनुपदमेवोक्तत्वात् । उद्धयश्चेति । उद्धयो नाम नदविशेषः, इरावती नाम काचिनदी । तयोर्नदीविशेषवाचकत्वादेकवत्त्वम् । नदीशब्देन नदस्यापि ग्रहणाद्, अन्यथा भिन्नलिमत्वासम्भवादिति भावः । जाम्बवशालूकिन्याविति । 'अप्रामाः' इत्यनेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः । अयं च द्वन्द्वो नगरपामोभयावयवकोऽपि प्रामावयवक इति तस्य पर्युदास इति भावः । वुद्रजन्तवः । एतेषां द्वन्द्व एकवदित्यर्थः । फलितमाह-एषां समाहार एव द्वन्द्व इति । यूकालिक्षमिति । यूकाश्च लिक्षाश्चेति विग्रहः । केशबहुले शिरःप्रदेशे खेदजा जन्तुविशेषा यूका लिक्षाश्च प्रसिद्धाः । एकवत्त्वं नपुंसकहखत्वं च । प्रा नकुलादिति । 'नकुलपर्यन्ताः क्षुद्रजन्तवः' इति भाष्यादिति भावः । येषां च । शेषपूरणेन सूत्रं व्याचष्टेएषां प्राग्वदिति । समाहारद्वन्द्व एकवदित्यर्थः । शश्वदित्यव्ययं सदेत्यर्थे वर्तते। भिन्नलिङ्गानामिति । विपूर्वो हि शिषिर्भेदार्थः । अत एव 'विशेषणं विशेष्येण-' इति सूत्रे भेदकं भेयेनेति व्याख्यातम् । समाहारे द्वन्द्व एकवत्स्यादिति । निष्कर्षाभिप्रायेणेयमुक्तिः । यथाश्रुताभिप्रायेण तु 'द्वन्द्व एकवत्स्यात्' इति केषुचित्सूत्रेषु व्याख्यायत इति ज्ञेयम् । उद्धयेरावतीति। उध्यो नदः सोऽपि नदीविशेषत्वानदीशब्देन गृहीतः, एवं शोणोऽपि । 'अग्रामा इत्यत्र नगरप्रतिषेधो वक्तव्यः । तेन मथुरापाटलिपुत्रम् इत्यत्र निषेधो न भवति, उभयोरपि नगरत्वात् । बुद्र । अपचितपरिमाणत्वं मुद्रत्वम् । तच्चापेक्षिकत्वादनवस्थितम् । यञ्च स्मर्यते-बुदजन्तुरनस्थिः स्यादथ वा तुद्र एव यः । शतं वा प्रसूतौ येषां केचिदानकुलादपि' इति । तत्र सर्वपक्षसाधारण्येनोदाहरति-यूकालिक्षामिति । प्रा नकुलादिति । नकुलपर्यन्ता इत्यर्थः । येषां च विरोषः। विरोधो बैरम् , न तु सहानवस्थामम् । तेनेह न-छायातपौ । शश्वदित्यम्ययं त्रैकाल्ये वर्तते, तत्र भवः शाश्वतिकः, 'कालाटुम् । Page #197 -------------------------------------------------------------------------- ________________ १६४ ] सिद्धान्तकौमुदी । [ द्वन्द्वसमास गोव्याघ्रम्, काकोलूकम् इत्यादौ परत्वाद् 'विभाषा वृक्षमृग-' ( सू ३१६ ) इति प्राप्तं चकारेण बाध्यते । ११४ शूद्राणामनिरवसितानाम् । (२-४-१०) अबहिष्कृतानां शूद्राणां प्राग्वत् । तचायस्कारम् । पात्राद्वहिष्कृतानां तु चाण्डालमृतपाः । ६१५ गवाश्वप्रभृतीनि च । ( २-४ -११ ) यथोचारितानि साधूनि ततो भवार्थे ठञ् । निपातनाद् अव्ययानां भमात्रे टिलोपः, 'इसुसुक्लान्तात्कः' इति कादेशश्च न भवति । स्वाभाविक इत्यर्थः । श्रहिनकुलमिति । श्रहयो नकुलाश्चेति विग्रहः । अनयोः स्वाभाविको विरोधः प्रसिद्धः । विरोधो वैरम्, न तु सहानवस्थितिः । तेन छायातपावित्यत्र न भवति । देवासुरा इत्यत्र तु नायमेकवद्भावः तद्विरोधस्य कादाचित्कत्वात् । अमृतादिप्रयुक्तः कादाचित्क एव हि तेषां विरोधः, अमृतमथनादि - काले तेषां विरोधाभावात् । ननु 'विभाषा वृक्षमृग-' इति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्भावविकल्पो वक्ष्यते । तस्य तावद् गोमहिषं गोमहिषाः, हंसचक्रवाकं हंसचक्रवाकाः, इत्यत्रावकाशः । येषां चेत्यस्य श्रहिनकुलमित्यवकाशः । गोव्याघ्रं काकोलूकमित्यादौ तदुभय प्रसक्तम् । तत्र परत्वाद्वक्ष्यमाणविभाषा प्राप्नोतीत्याशङ्कयाह -- गोव्याघ्रमिति । चकारेणेति । येषां चेति चकारेत्यर्थः । एतच भाग्ये स्पष्टम् । शूद्राणाम् । अनिरवसितशब्दं व्याचष्टे - वहिष्कृतानामिति । 'यैर्भुक्तं पात्र क्षारोदक प्रक्षालनेन संस्कारेणापि न शुध्यति ते निरवसिताः चाण्डालादयः । यैस्तु भुक्तं पात्रं संस्कारेण शुभ्यति तेऽनिरवसिताः' इति भाष्ये स्पष्टम् । शूद्राणामिति । त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः, अनिरवसितानामिति लिङ्गात् । प्राग्वदिति । समाहारद्वन्द्व एकवदित्यर्थः । तक्षायस्कारमिति । तक्षाणश्च श्रयस्काराचेति विग्रहः । अनिरवसितानामित्यस्य प्रयोजनमाह – पात्रादिति । चाण्डालमृतपा इति । एतद्भुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति श्रत एव भाष्याद्विज्ञेयम् । अतएव निपातनाद् 'इसुसुक्कान्तात् -' इति कादेशः, 'अव्ययानां भमात्रे -' इति टिलोपश्च न । शाश्वतिकः किम्, ‘देवासुरैरमृतमम्बुनिधिर्ममन्थे' । तेषां व्यमृतादिप्रयुक्तः कादाचित्को विरोधो न तु नित्यः, मन्थनप्रवृत्तिकाले तद्विरहात् । परत्वादिति । पशुशकुनिद्वन्द्वस्यावकाशो गोमहिषं गोमहिषाः, हंसचक्रवाकं हंसचक्रवाकाः । 'येषां च - ' इत्यस्यावकाशो मार्जारमूषकं श्रमणब्राह्मणमित्यादौ ज्ञेयः । चकारेण बाध्यत इति । चकारः पुनर्विधायक इति भावः । शूद्राणाम् । त्रैवर्णिकेतरमनुष्यपरः शूद्रशब्दो न तु शूद्रत्वजातिपरः, 'अनिरवसितानाम्' इति निषेधात् । पात्रादिति । यैर्भुक्के 'भस्मना शुध्यते कांस्यम्' इत्यादिस्मृत्युक्तसंस्कारेणापि पात्रं न शुध्यति तेषामित्यर्थः । गवाश्व । यथोश्चारितानीति । गणपाठे पाणिनिना यथा पठितानि तथैव साधू । Page #198 -------------------------------------------------------------------------- ________________ प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६५ स्युः । गवाश्वम् । दासीदासमित्यादि । ६१६ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् । ( २-४ -१२ ) वृषादीनां सप्तानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा । वृक्षादौ विशेषायामेव ग्रहणम्' (वा २१८) प्रतन्यग्रोधम्, प्रतन्यग्रोधाः । रुरुपृषतम्, रुरुपृषताः । कुशकाशम्, कुशकाशाः । व्रीहियवम्, व्रीहियवाः । दधिघृतम्, दधिघृते । गोमधर्मशास्त्रेषु च प्रसिद्धमेतत् । गवाश्वप्रभृतीनि च । यथा गणे पठितानि तथैव साधूनीत्यर्थः । गवाश्वमिति । गावश्चाश्वाश्चेति विग्रहः । अत्र 'विभाषा वृक्षा - ' इति पशुद्वन्द्वत्वाद् विकल्पे प्राप्ते नित्योऽयं विधिः । अत्र 'सर्वत्र विभाषा -' इति प्रकृतिभावे पूर्वरूपे च गो अश्वं गोऽश्वमिति नैकवत्त्वनियमः, यथोच्चारितानीत्युक्तेः, गणे च गवाश्वमित्येव निर्देशात् । गवाश्वादिषु 'यथोच्चारितं द्वन्द्ववृत्तम्' इति वार्तिकमत्र मानम् । दासीदासमिति । अत्रैकवत्त्वनियमः । 'पुमान् स्त्रिया' इत्येकशेषस्तु निपातनान्न । इत्यादीति । गवाविकं गवैड कैमित्यादि वृत्तौ स्पष्टम् । विभाषा वृक्ष । हन्द्व इत्यनुवृत्तम् । एकापि षष्ठी विषयभेदाद् भिद्यते । वृक्षादिसप्तानामवयवत्वेनान्वयः - वृक्षादीनां द्वन्द्व इति । वृक्षाद्यवयवको द्वन्द्व इति लभ्यते । श्रश्ववडवादियुगलत्रयस्य त्वभेदेनान्वयः - अश्ववडव, पूर्वापर, अधरोत्तर इत्यात्मको द्वन्द्व इति, तदाह - वृक्षादीनामिति । प्राग्वदिति । विकल्पेन एकवदित्यर्थः । वृक्षादाविति । वृक्षविशेषवाचिनां तृणविशेषवाचिनां धान्यविशेषवाचिनां पशुविशेषवाचिनां चेत्यर्थः । 'स्वं रूपम् -' इति सूत्रे भाष्यवार्तिकयोस्तथोक्तत्वादिति भावः । तथाच वृक्षाश्च धवाश्चेत्यादौ नायं विधिरिति फलितम् । किं तु 'जातिरप्राणिनाम्' इति नित्यमेवैकवत्त्वम् । तत्र वृक्षाद्यवयवकद्वन्द्वेषु सप्तसु वृक्षद्वन्द्वमुदाहरति — प्रक्षेति ! प्लक्षाश्च न्यग्रोधाश्चेति विग्रहः । मृगद्वन्द्वमुदाहरति - रुरुपृषतमिति । रखश्च पृषताश्चेति विग्रहः । तृणद्वन्द्वमुदाहरति — कुशेति । कुशाश्च काशाश्चेति विग्रहः । धान्यद्वन्द्वमुदाहरति- व्रीहीति । व्रीहयश्च यवाश्चेति विग्रहः । व्यञ्जनद्वन्द्वमुदानीत्यर्थः । तेनाव : पाक्षिकत्वाद्यदा नावड् तदा उत्तरसूत्रेण विकल्पो न भवति । गोश्रश्वम् । 'अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोश्रश्वाः' । गवाश्वमिति । इह पशुद्वन्द्वे विभाषा प्राप्ता । दासीदासमिति । अत्र 'पुमान्निया' इत्येकशेषो बाध्यते । विभाषा । विशेषाणामेवेति । श्रयं भावः - वृक्षादिशब्दैः प्रत्येकं द्वन्द्वो विशेष्यते, न चैको वृक्षशब्दो द्वन्द्वः, न च द्वयोः सह प्रयोगः, सरूपाणाम् -' इत्येकशेषात् । नापि पर्यायाणां 'विरूपाणामपि समानार्थानाम्' इत्येकशेषात् । नापि -- १ 'गवाविकम्' इति क्वचिन्नास्ति । २ क्वचिद् ' गवैलकम्' इति पाठः । Page #199 -------------------------------------------------------------------------- ________________ १६६ ] सिद्धान्तकौमुदी। [ द्वन्द्वसमास. हिषम्, गोमहिषाः। शुकबकम् , शुकबकाः। अश्ववडवम् , अश्ववडवौ। पूर्वापरम्, पूर्वापरे । अधरोसरम् , अधरोत्तरे। 'फलसेनावनस्पतिमृगशकुनिचुदजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम्' (वा १५४०) । बदराणि चामलकानि च बदरामलकम् । 'जातिरप्राणिनाम्' (सू ११० ) इत्येकवद्भावः । हरति-दधीति । दधि च घृतं चेति विग्रहः । पशुद्वन्द्वमुदाहरति-गोमहिषमिति । गावश्च महिषाश्चेति विग्रहः । शकुनिद्वन्द्वमुदाहरति-शुकेति । शुकाश्च बकाश्चेति विग्रहः। अश्ववडवादिद्वन्द्वमुदाहरति-अश्ववडवमिति । अश्वाश्च वडवाश्चेति विप्रहः । 'पूर्ववदश्ववडवौ' इति अश्ववडवावित्यत्र पूर्वपदवत् पुंलिङ्गता। फलसेनेति । एकवद्भावप्रकरणशेषभूतमिदं वार्तिकम् । 'द्वन्द्वश्च प्राणि-' इत्यादि. सूत्रैः फलसेनादीनां द्वन्द्व एकवद्भवन् बहुवचनान्तावयवक एव एकवद् भवति, नत्वेकद्विवचनान्तावयवक इत्यर्थः । तत्र फलद्वन्द्वमुदाहरति-बदराणि चेति । बदरीफलानि आमलकीफलानि चेत्यर्थः । विकारतद्धितस्य फले लुक । 'लुक्तद्धित. लुकि' इति स्त्रीप्रत्ययस्य लुक् । जातिरिति । बहुवचनान्तावयवकद्वन्द्वत्वाद् 'जातिरप्राणिनाम्' इत्येकवत्त्वमित्यर्थः । बहुप्रकृतिरेवेत्यस्य प्रयोजनमाह-नेहेति । बदरामलके इति । बदरं चामलकं चेति विग्रहः । बहुवचनान्तावयवकद्वन्द्वत्वाभावान 'जातिरप्राणिनाम्' इत्येकवत्त्वम् । रथिकाश्वारोहाविति । अत्र सेनाङ्गस्वेऽपि नैकवत्त्वम् । प्लक्षन्यग्रोधाविति । इह वृक्षद्वन्द्वत्वेऽपि 'विभाषा वृक्ष-' इत्येकवत्त्वं न । इत्यादीति । रुरुपृषतौ, अत्र मृगद्वन्द्वत्वेऽपि नैकवत्त्वम् । हंसचक्रवाको, अत्र शकुनिद्वन्द्वत्वेऽपि नैकवत्त्वम् । यूकालिने, अत्र क्षुद्रजन्तुद्वन्द्वत्वेऽपि नैकवत्त्वम् । व्रीहियवौ, अत्र धान्यद्वन्द्वत्वेऽपि नैकवत्त्वम् । कुशकाशी, अत्र तृणद्वन्द्वत्वेऽपि नैकवत्त्वम् । ननु 'चार्थे द्वन्द्वः' इत्यनेनेतरेतरयोगसमाहारद्वन्द्वाभ्यामेव एकवत्त्वविकल्पस्य सिद्धत्वाद् 'विभाषा वृक्ष-' इति सूत्रं व्यर्थमित्याशङ्कयाहविभाषेत्यादि विकल्पार्थमित्यन्तम् । वृक्षमृगतृणधान्यव्यञ्जनद्वन्द्वेषु प्लक्षन्यप्रोध रुरुपृषतं कुशकाश व्रीहियवं दधिघृतम् इत्येतेषु 'जातिरप्राणिनाम्' इति वृत्तश्च धवश्चेत्यादिसामान्यविशेषयोः, अनभिधानात्तत्र द्वन्द्वस्यैवाभावादिति । सर्वप्रकरणशेषतया नियममाह-फलसेनेत्यादि । फलसेनादीनां द्वन्द्वो 'विभाषा वृत्तमृग-' इत्यनेन लक्षणान्तरेण वा एकवद्भवन्बहुप्रकृतिरेव एकवद्भवतीत्यर्थः । बहवो वर्तिपदार्थाः, बहुवचनान्ता वा प्रकृतिः कारणं यस्य स बहुप्रकृतिः । बदराणि चामनकानि चेति । 'जात्याख्यायामेकस्मिन्-' इति वैकल्पिकं बहुवचनम् । बदरापलके इति । जातिप्राधान्येऽप्येकवचनान्तयोर्द्वन्द्व इति नास्त्येकवद्भाव इति भावः । Page #200 -------------------------------------------------------------------------- ________________ प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६७ नेह – बदरामलके, रथिकाश्वारोहौ, प्रतन्यग्रोधावित्यादि । 'विभाषा वृत्त-' ( सू ३१६ ) इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं 'जातिरप्राणिनाम्' (स्० ११० ) इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वानित्ये प्राप्ते 'मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहेतरेतरयोग एव इति नियमार्थं मृगशकुनिग्रहणम् । एवं पूर्वापरम्, अधरोत्तरम् इत्यपि । अश्ववडबग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् 'पूर्ववदश्ववडवौ' ( सू नित्यविहितैकवत्त्वानित्यत्वार्थमप्राणिवृक्षादिप्रहर हणमित्यर्थः 1 नन्वेवमपि पशुग्रहणं व्यर्थम्, तदुदाहरणे गोमहिषमित्यत्र 'जातिरप्राणिनाम्' इति नित्यैकवत्त्वनियमस्या प्राप्त्या तन्निवृत्त्यर्थत्वायोगादित्यत आह- पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वाद् नित्ये प्राप्ते इति । विकल्पार्थमित्यनुषज्यते । नन्वेवमपि मृगशकुनिप्रहणं व्यर्थम्, तदुदाहरणे रुरुपृषतं शुकबकमित्यादौ 'जातिरप्राणिनाम्' इति एकवत्त्वस्य सेनाङ्गनिबन्धनैकवत्त्वस्य च अप्राप्त्या तन्निवृत्त्यर्थत्वाभावेन 'चार्थे द्वन्द्वः' इत्येवेतरेतरयोगसमाहारद्वन्द्वाभ्यामकवत्त्वविकल्पसिद्धेरित्यत आह- मृगाणां मृगैरेवेत्यादि मृगशकुनिग्रहणमित्यन्तम् | मृगाणां मृगैरेव सह उभयत्र इतरेतरयोगे समाहारे च 'चार्थे - ' इति द्वन्द्वः । यथा - रुरुपृषतं रुरुपृषतावित्यादि । तथा शकुनीनां शकुनिभिरेव उभयत्र इतरेतरयोगे समाहारे च ' चार्थे - ' इति द्वन्द्वः । यथा शुकबकम्, शुकबकाविति । मृगाणां तदितरैः शकुनीनां तदन्यैश्च सह इतरेतरयोगद्वन्द्व एव भवति, न समाहारद्वन्द्वः । यथा - रुरुशुका इति । एतादृशनियमार्थ मृगशकुनिग्रहणमित्यर्थः । ननु पूर्वापरग्रहणम् अधरोत्तरग्रहणं च व्यर्थम्, 'चार्थे - ' इत्येव सिद्धेः । ‘जातिरप्राणिनाम्' इत्यादिनित्यैकवत्त्वस्य तत्र प्रवृत्त्या तनिवृत्त्यर्थत्वासंभवादित्यत आह – एवं पूर्वापरम् श्रधरोत्तरम् इत्यपीति । यथा मृगशकुनिग्रहणं मृगैरेव मृगाणां शकुनीनां तैरेव उभयत्र द्वन्द्वः एवं पूर्वशब्दस्य अपरशब्देनैव, अधरशब्दस्य उत्तरशब्देनैव उभयत्र इतरेतरयोगे समाहारे च द्वन्द्वः । अन्येन तु सह पूर्वोत्तरावित्यादौ इतरेतरयोग एवेति नियमार्थं पूर्वापरग्रहणम् - धरोत्तरग्रहणं चेत्यर्थः । ननु श्ववडवग्रहणं व्यर्थम्, सेनाङ्गत्वेऽपि पशुद्वन्द्वत्वादेव एकवद्भावविकल्पसिद्धेरित्यत आह- श्रश्ववडवेति । नपुंसकत्वविकल्पार्थमित्यर्थः । ननु समाहारस्य एकत्वादेव ऐकवत्त्वसिद्धेः इदम् एकवत्त्वप्रकरणं समाहार एव द्वन्द्व इति पशुग्रहणमिति । विकल्पार्थमित्यनुषज्यते । 'चार्थे द्वन्द्वः' इत्यनेनैव सिद्धे मृगशकुनिग्रहणं व्यर्थमित्याशङ्कयाह - मृगाणां मृगैरेवेत्यादि । नपुंसकत्वार्थमिति । श्रयं भावः - पशुत्वाद्विकल्पे सिद्धे अश्ववडवग्रहणं प्रतिपदविधानार्यम् । Page #201 -------------------------------------------------------------------------- ________________ १९८] सिद्धान्तकौमुदी। द्वन्द्वसमास८.३) इति स्यात् । ६१७ विप्रतिषिद्धं चानधिकरणवाचि । (२-४-१३) विरुद्धार्थानामन्यवाचि द्वन्द्व एकवद्वा स्यात् । शीतोष्णम्, शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वः 'चार्थे (सू १०१) इति सूत्रेण प्राप्तः, स विरुद्धार्थानां यदि भवति तद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतर. योग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धं किम् । नन्दकपाञ्चजन्यौ । इह नियमार्थमित्युक्तम् । तथा च पशुद्वन्द्वत्वाद् एकवत्त्वविकल्पे सति समाहारे वा इतरेतरयोगे वा द्वन्द्व इत्यनियमः पर्यवस्यति । एवं च समाहारद्वन्द्वपक्षे 'स नपुंसकम्' इति नपुंसकत्वम् , इतरेतरयोगे तु नेति नपुंसकत्वविकल्पस्य सिद्धत्वाद् अश्ववडवग्रहणं व्यर्थमेवेत्यत आह–अन्यथेति । इह नपुंसकत्वविध्यभावे समाहारद्वन्द्वपक्षेऽपि 'स नपुंसकम्' इति नपुंसकत्वं बाधित्वा परत्वात् 'पूर्ववदश्ववडवौ' इति पुंस्त्वं स्यात् । नपुंसकविधौ तु तत्सामर्थ्यात् समाहारद्वन्द्वपक्षे 'पूर्ववदश्ववडवौ' इत्येतद् बाधित्वा नपुंसकत्वं भवत्येव । अधिकारप्राप्तपूर्ववदश्वेत्येतत्तु इतरेतरयोगद्वन्द्व सावकाशमिति भावः । विप्रतिषिद्धं च । विभाषा इत्यनुवर्तते । विप्रतिषेधो विरोधः सहानवस्थानलक्षणः । अधिकरणं द्रव्यम् । अव्यवाचि विरुद्धार्थकं च यदनेकं सुबन्तं तदवयवको द्वन्द्वो विभाषैकवद्भावक इत्यर्थः । फलितमाह-विरुद्धार्थानामिति । गोत्वाश्वत्वं गोत्वाश्वत्वे, सुखदुःखं सुखदुःखे इत्यायुदाहरणम् । ननु 'चार्थे-' इति इतरेतरयोगसमाहाराभ्यामेवात्र एकवत्त्वविकल्पसिद्धेः इदं व्यर्थम् । न च 'जातिर. प्राणिनाम्' इति नित्यं प्राप्ते विकल्पार्थमिति वाच्यम् , जातिप्रवृत्तिनिमित्तकद्रव्यवाचिनां द्वन्द्व एव तत्प्रवृत्तेरित्यत आह-वैकल्पिक इत्यादि नियमार्थमिदमित्यन्तम् । तेनेति । उक्तनियमेनेत्यर्थः-शीतोष्णे उदके स्त इति। अत्र विरुद्धार्थकत्वे. ऽपि द्रव्यवाचित्वाद् न समाहारद्वन्द्व इति भावः । नन्दकपाञ्चजन्याविति । विष्णोः खगः नन्दकः, शङ्खस्तु पाञ्चजन्यः, तयोरेकत्र , विष्णौ सहावस्थानाद् न विरुद्धत्वमिति स्थितिः । इह विप्रतिषिद्धग्रहणाभावे 'चार्थे-' इति समाहारद्वन्द्वः अद्रव्यवाचिनामेवेति नियमो लभ्येत । एवं सति नन्दकपाञ्चजन्यमिति पाक्षिक समाहारद्वन्द्वो न स्यात् , समाहारद्वन्द्वस्य सर्वस्यापि अव्यवाचिष्वेव नियमितत्वात् । तेनाश्ववडवमित्येकवद्भावपक्षे 'पूर्ववदश्ववडवौ' इत्येतद्बाधित्वा ‘स नपुंसकम्' इत्येतदेव भवति। स इति तच्छब्देन ह्येकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमेकवद्भाववदेव प्रतिपदविहितं भवति । तथा च प्रतिपदोक्तस्य बलीयस्त्वानपुंसकत्वं सिध्यतीति । विप्रतिषिद्धम् । अधिकरणमिह द्रव्यम् । चकारो विभाषानुकर्षणार्थस्तदेतद्याचष्टे विरुद्धार्थानामित्यादि । उदाहरणं तु शीतोष्णं शीतोष्णे, सुखदुःखं सुख Page #202 -------------------------------------------------------------------------- ________________ प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६६ पाक्षिकः समाहारद्वन्द्वो भवत्येव । ६१८ न दधिपयत्रादीनि । ( २-४-१४ ) एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दार्षः । ऋक्सामं । वायनसे । ६१६ अधिकरणैतावत्त्वे च । (२-४-१५) द्रव्यसङ्ख्यावगमे एकवदेवेति विप्रतिषिद्धमित्युक्तौ तु विरुद्धार्थानां समाहारद्वन्द्वश्चेत् तर्हि श्रद्रव्यवाचिनामेवेति नियमो लभ्यते । नन्दकपाञ्चजन्ययोश्चाविरुद्धत्वादयं नियमो न प्रवर्तते । ततश्च द्रव्यवाचित्वेऽपि ‘चार्थे-' इति कदाचित् समाहारद्वन्द्वः, कदाचित् इतरेतरयोगद्वन्द्वश्च भवत्येव । तदाह – इह पाक्षिकः समाहारद्वन्द्वो भवत्येवेति । म दधिपयआदीनि । एतानि नैकवत् स्युरिति । एषां समाहारद्वन्द्वो नास्तीत्यर्थः । दधिपसी इति । दधि च पयश्चेति विग्रहः । ' जातिरप्राणिनाम्' इति नित्यमेकवत्त्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वत्वाद्विकल्पः प्राप्तः सोऽपि न भवति । इध्मबर्हिषी इति । इध्मं च बर्हिश्चेति विग्रहः । दीर्घ इति । इष्मशब्दस्येति शेषः । ऋक्सामे इति । ऋक् च साम चेति विग्रहः । 'श्रचतुर' इत्यादिनाऽच्समासान्तः । वाङ्मनसे इति । वाक् च मनश्चेति विग्रहः । पूर्ववत्समासान्तः । अत्र गणे ब्रह्मप्रजापती इत्यादि पठितम् । समाहारद्वन्द्व एवेति नियमप्रक्रमेपि नानेन नियमस्यैव निषेधः, ब्रह्मप्रजापती इत्यादौ नियमस्या प्राप्तेः । किंत्वेकवत्त्वस्यैव । तथाच 'चार्थे - ' इति समाहारद्वन्द्वस्य निषेधः फलति । श्रधिकरणैतावत्त्वे च । अधिकरणं द्रव्यम्, तस्य एतावत्त्वमियत्ताविशेषः । तदाहद्रव्यसंख्यावगम इति । समस्यमानपदार्थस्येय त्ताविशेषे पदान्तर समभिव्याहारदुःखे इत्यादि । विरोधोऽत्र सहानवस्थानलक्षणः । भवत्येवेति । विप्रतिषिद्धप्रहणाभावे तु स न स्यात्, अद्रव्यवाचिनामेवेति नियमादिति भावः । श्रनधिकरणवाचीति किम्, शीतोष्णे उदके स्तः । इह पाक्षिकः समाहारद्वन्द्वोऽपि स्यादिति दिक् । न दधिपय । दधिपयसी इति । व्यञ्जनत्वाद्विकल्पः प्राप्तः । एवं 'मधुसर्पिषी, सर्पिर्मधुनी' इत्यत्रापि बोध्यम् । इह 'ब्रह्म प्रजापती' 'शिववैश्रवणौ' इत्यादौ समाहारद्वन्द्वनिषेधमुखेनेतरेतरयोगद्वन्द्वोऽनेन व्यवस्थाप्यते । तत्साहचर्याद्दधिपयसी इत्यादावपि तथैव । तेन तत्र व्यञ्जनत्वप्रयुक्तविकल्पे निषिद्धेऽपि जातिलक्षणो नित्यमेकवद्रावोऽस्त्विति न शङ्कनीयम्, किं च नेह लक्षणविशेष आग्रहः । ' एतानि नैकवत् स्युः ' इत्येकवद्भावमात्रस्य निषेधात् यथा 'न षट्स्वत्रादिभ्यः' इत्यत्र ङीप्टापोरुभयोरपि निषेधसिद्धये 'स्त्रियां यदुक्तं तन्न' इति सामान्यतो निषिध्यत इति दिक् । ऋक्सामे, वाङ्मनसे इति । 'भचतुर -' इत्यादिनात्र समासान्तोऽच् निपात्यते । श्रधिकररौ । समासार्थस्याश्रयोऽधिकरणं वर्तिपदार्थः, तस्यैतावत्त्वं परिगणननियमः, तस्मिन् गम्ब Page #203 -------------------------------------------------------------------------- ________________ २०० ] सिद्धान्तकौमुदी। [द्वन्द्वसमास. नियमो न स्यात् । दश दन्तोष्ठाः । १२० विभाषा समीपे । (२-४-१६) अधिकरणतावस्वस्य सामीप्येन परिच्छेदे समाहार एव इत्येवंरूपो नियमो वा स्यात् । उपदशं दन्तोष्ठम् । उपदशा दन्तोष्ठाः । ६२१ आनतो द्वन्द्वे । गम्ये इत्यर्थः । नियमो नेति । ब्रह्मप्रजापती इत्यादौ समाहार एव द्वन्द्व इति नियमस्य प्रकृतस्याप्रवृत्तेरेकवत्त्वनिषेधः पूर्वसूत्रे आश्रितः । इह तु बाधकाभावात् प्रकृतस्य नियमस्यैव निषेध आश्रित इति भावः । दश दन्तोष्ठा इति । दन्ताश्च श्रोष्ठाश्चेति विग्रहः । इतरेतरयोगद्वन्द्वोऽयम्, न तु समाहारद्वन्द्वः । समासार्थसमाहारविशेषणीभूतसमस्यमानपदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनासामर्थ्यात् । इतरेतर. योगद्वन्द्वस्तु भवत्येव,तत्र समस्यमानपदार्थानामेव प्रधानत्वाद् ‘उपमितं व्याघ्रादिभिःइति सूत्रभाष्ये प्रधानस्य सापेक्षत्वेऽपि समासाभ्युगमात् । ततश्चात्रैकवदेवेति नियमा. भावे सति असामर्थ्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते । यदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत् । तथा सति दश दन्तोष्ठा इतीतरेतरयोगद्वन्द्वो न स्यात् , 'द्वन्द्वश्च प्राणितूर्य-' इति तनिषेधात् । तथाच वाक्यमेव स्यात् । किंच समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव, उक्तरीत्या सापेक्षत्वेनासा देिवाप्राप्तः। अत एकवदिति नियमो.न स्यादित्येव व्याख्ययेम् । एवं च प्रारावानिवन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वनिवृत्तिफलस्यानेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमजयो स्पष्टम् । विभाषा समीपे । अधिकरणेतावत्त्वे इत्यनुवर्तते । समीपे इत्यस्य सामीप्येन परिच्छिन्ने मान इति व्याचष्टे-द्रव्यसंख्यावगम इति । नियमो न स्यादिति । न चेह प्राण्यङ्गत्वात्प्राप्तस्य 'एकवदेव' इति नियमस्य प्रतिषेधेऽपि 'चाय द्वन्द्वः' इति समाहारद्वन्द्वः स्यादिति वाच्यम्, 'सविशेषणानां वृत्तिने' इत्यभ्युपगमेन समाहारद्वन्द्वस्य प्राप्त्यभावात्। न चोकन्यायेनेतरेतरयोगद्वन्द्वोऽपि न स्यादिति वाच्यम् , सामान्याप्रयोगे इति लिशात् प्रधानस्य सापेक्षत्वेऽपि तदभ्युपगमात् । उक्त हि भाष्ये-'भवति वै प्रधानस्य सापेक्षस्यापि वृत्तिः' इति । स्यादेतत्-समाहारद्वन्द्वस्यात्र प्राप्त्यभावे 'द्वन्द्वश्व प्राणितूर्य-' इति नियमाप्रवृत्त्या इतरेतरयोगद्वन्द्वो निर्बाध एवेति सूत्रमिदमकिंचिकरमिति चेत्-अत्राहुः -'नियमसूत्राणां निषेधमुखेन प्रवृत्तिः' इति पक्षे 'द्वन्द्वश्व प्राणितूर्य-' इति सूत्रं केवलमितरेतरयोगद्वन्द्वनिषेधपरम् । तथा चेतरेतरयोगनिषेधस्य निषेधद्वारा इतरेतरयोगद्वन्द्वप्रापणार्थमिदमिति । एवं च निषेधमुखप्रवृत्तिपक्षस्य साफ्नावेदमिति फलितमिति दिक् । विभाषा समीपे । यद्यपीह 'समाहारद्वन्द्वः' एवेति भ्याख्यानेऽपि न क्षतिः, तथापि पूर्वसूत्रे नियमनिषेधस्योकत्वात्तदनुरोधेनाह Page #204 -------------------------------------------------------------------------- ________________ प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २०१ (६-३-२५) विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे श्रनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । 'पुत्रेऽन्यतरस्याम्' ( सू ३८० ) सतीत्यर्थः । फलितमाह – अधिकरणेति । उपदशं दन्तोष्ठमिति । दशानां समीपे इत्यर्थेऽव्ययीभावः । उक्तरीत्याऽसामर्थ्येऽपि वचनसामर्थ्यात्समाहारद्वन्द्वः । समानलिङ्गवचनत्वादग्ययभावस्यैवानुप्रयोग इति भाष्यम् । अत एवोपदर्श दन्तोष्ठेनेत्यादि सिद्धम् । समीपसमीपिनोरभेदविवक्षायां सामानाधिकरण्यम् । नवत्वसंख्यदन्तोष्ठसमूह एकादशत्वसंख्यदन्तोष्ठसमूह इति वा बोधः । उपदशा दन्तोष्ठा इति । इतरेतरयोगद्वन्द्वोऽयम् । दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः । नव एकादश वेत्यर्थः । बहुव्रीहेरेवात्रानुप्रयोगः समानलिङ्गवचनत्वाद् इति भाष्यम् । तद्वन्द्वे । विद्यायोनिसंबन्धवाचिनामिति । विद्यासंबन्धवाचिनां योनिसंबन्धवाचिनां चेत्यर्थः । 'ऋतो विद्यायोनिसंबन्धेभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । ऋदन्तानामिति । बहुत्वे व्यत्ययेन 'ऋत:' इत्येकवचनम् । ऋदन्तसर्वावयक्कानामित्यर्थः · ऋत इत्यनुवर्तमाने पुनर् ऋत इत्युक्तिः एतदर्थेति भावः । उत्तरपदे पर इति । 'अलुगुत्तरपदे' इत्यधिकारादिति भावः । होतापोताराविति । होता च पोता चेति विग्रहः । विद्याद्वारकैकय ज्ञत्विक्त्वकृतः सम्बन्धः । आनङि ङकार इत्, प्रकार उच्चारणार्थः, 'ङिच्च' इत्यन्तादेशः, नलोपः, नकारस्तु रपरत्वनिवृत्यर्थ इति भाष्ये स्पष्टम् । होतृपोत्रिति । अत्र होतृशब्दस्य नियमो वा स्यादिति । उपदशं दन्तोष्ठमिति । एकवद्भावपत्ते अव्ययीभावस्यैवानुप्रयोगः । यदि तु बहुव्रीहेस्तदा 'उपदशस्य दन्तोष्ठस्य' इति षष्ठी स्यात्, 'उपदशं दन्तोष्ठस्य' इत्येवेष्यत इत्याकरः । दन्तोत्रस्य दर्शनमित्यभिप्रायेण षष्टयां कृतायामपि उपदशशब्दे षष्ठी नेष्यते । श्रतो बहुव्रीहेर्नानुप्रयोगः किं त्वव्ययीभावस्यैवेति तदाशयः । श्रनङ् । ऋत इति षष्ठ्यन्तं जातावेकवचनम् । 'ऋतो विद्यायोनिसंबन्धेभ्यः' इति त्वनुवर्तते, तचात्र षष्ठया विपरिणम्यते, तदाह - विद्यायोनिसंबन्धवाचिनामिति । ननु 'ऋत:' इत्यनुवर्तनादेव सिद्धे किमनेन ऋतोग्रहणेन । अत्राहुः - 'ऋतः' इति श्रूयमाणद्वन्द्वविशेषणम् । अनुवृत्तं तूत्तरपदे परतो यत्पूर्व तस्य विशेषणं पुत्रशब्दे पर आन विधास्यते तत्र कार्यिनिर्देशार्थम् । अन्यथा तत्पुत्रावित्यत्रापि स्यादिति । उत्तरपद इति । एतच 'अलुगुत्तरपदे' इत्यधिकारालभ्यते । उत्तरपदे परतः पूर्वं यदन्तं तस्यानङित्यर्थः । होतापोताराविति । श्रनको बित्त्वात्पूर्वान्त्यस्य ऋकारस्यादेशे सति नलोपः । न चाकारमात्रमेव विधीयतामिति वाच्यम्, 'उरा रपरः' इति रपरप्रसङ्गात् । नन्विहोत्तरपदेन पूर्वपदं Page #205 -------------------------------------------------------------------------- ________________ २०२] सिद्धान्तकौमुदी। द्वन्द्वसमासइत्यतो मण्डूकप्लुत्या 'पुत्रे' इत्यनुवृत्तेः पितापुत्रौ । ६२२ देवताद्वन्द्धे च । (६-३-२६) इहोत्तरपदे परे प्रानङ् । मित्रावरुणौ । 'वायुशब्दप्रयोगे प्रतिषेधः' (वा ३६०७) अग्निवायू, वाग्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतम्, नापि लोके प्रसिद्धं साहचर्यम् । ६२३ ईदग्नेः सोमवरुणयोः। (१-३-२७) देवपोतृशब्दस्य च नानङ्, नेष्ट्रशब्देन व्यवधानाद् उत्तरपदपरकत्वा भावात् । तथाच नेष्टशब्दस्यैवानङ् । उत्तरपदेन तु न पूर्वपदमाक्षिप्यते, समर्थसूत्रे नेष्टशब्दस्याऽऽनदर्शनात् । श्रथ योनिसंबन्धमुदाहरति-मातापितराविति । पितृपितामहा इत्यादौ तु नानङ् । ऋदन्तसर्वावयवकत्वाभावादिति भावः । तर्हि पितापुत्राविति कथमित्यत आह-पुत्रेऽन्यतरस्यामिति । 'ऋतो विद्यायोनिसंबम्धेभ्यः' इत्यत्र 'विभाषा स्वसृपत्योः' इत्यत्र च मध्येऽसंबन्धादाह-मण्डूकेति। अनुवृतेरिति । न च तातपुत्रावित्यत्रापि स्यादिति वाच्यम् , ऋदन्तस्य पुत्रे परे आनङ् स्यादिति वाक्यभेदेन व्याख्यानात्। देवताद्वन्द्वे च । मित्रावरुणाविति । इह ऋदन्तत्वाभावात् पूर्वेणाप्राप्ते विधिरयम् । वायुशब्देति । वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः । ननु पूर्वसूत्राद् द्वन्द्वग्रहणे अनुवर्तमाने पुनः द्वन्द्वप्रहणं व्यर्थमित्यत आह-पुनरिति । निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचक शब्दग्रहणार्थमित्यर्थः । तेनेति । प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः । एतदिति । एतद् ब्रह्मप्रजापतियुगलं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः। नापि लोक इति । प्रौढिवादमात्रमेवेदम् , 'वेदे ये सहनिर्वापनिर्दिष्टाः, इत्येव भाष्ये दर्शनात् , लोकप्रसिद्धनाक्षिप्यते । अन्यथा होतृपोतृनेष्टोद्गातार इत्यत्र मध्यमस्यानङ् स्यात् । ततश्च विशेष्यासन्निधानाद् ऋत एव स्थाने आदेशेन भवितव्यम् , न तु ऋदन्तपदस्य स्थाने, इति किमनेनानछो ङित्करणेन, सत्यम्-डित्करणाभावे मित्रावरुणावित्यादौ 'देवताद्वन्द्वे च' इत्युत्तरपदे परे विधीयमान आदेशः पूर्वस्याक्षरस्य पदस्य वा स्यात् , पूर्वस्थाल एवेत्यत्र नियामकाभावात् । एतेन 'ऋत इति कार्यिनिर्देशार्थम्' इत्युक्तत्वानिर्दिश्यमानस्य ऋकारस्यैवादेशः स्यादिति ङित्करणं व्यर्थमित्याशङ्कापि परास्ता । नेटोगातार इति । न ह्यत्र नेष्टा पूर्वपदम् , आद्यवयवस्यैव पूर्वपदत्वात् । मातापितराविति । पुत्रोत्पादने अनयोर्योनिकृतः संबन्धः । पूर्वत्र तु हौत्रादिरूपविद्याकृतः संबन्ध एकस्मिन्यज्ञे आत्विज्यरूप इति विवेकः । मण्डूकप्लुत्येति । तेन 'विभाषा खसपत्योः' इत्यत्र न संबध्यत इति भावः।पितापुत्राविति । अनयोरपि योनिकृतः संबन्धो जन्यजनकभावलक्षणः । देवता । अनृकारान्तार्थमविद्यायोनिसंबन्धार्थ च वचनम् । Page #206 -------------------------------------------------------------------------- ________________ प्रकरणम् २०] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २०३ ताद्वन्द्वे इत्येव । ६२४ अग्नेः स्तुत्स्तोमसोमाः । ( ८-३-६२ ) अनेः परेषा - मेषां सस्य षः स्यात्समासे । श्रग्निष्टुत् । श्रग्निष्टोमः । श्रग्नीषोमौ । अग्नीवरुणौ । १२५ इद्बुद्धौ । ( ६-३-२८ ) वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । 1 अग्नामरुतौ देवते अस्य श्रग्निमारुतं कर्म । अनीवरुणौ देवते अस्य श्रभिवारुणम् । साहचर्यग्रहणे पार्वतीपरमेश्वरावित्यादावतिप्रसङ्गाच । ईदग्नेः । इत्येवेति । देवताद्वन्द्वे इत्यनुवर्तत एवेत्यर्थः । सोमशब्दे वरुणशब्दे च उत्तरपदे परे अमेरीदादेशः स्यात् देवताद्वन्द्वे इत्यर्थः । आनोऽपवादः । अग्नेः स्तुत् । स्तुत्, स्तोम, सोम इति द्वन्द्वात् षष्ठ्यर्थे प्रथमा । ‘सहेः साडः सः' इत्यतः स इति षष्ठयेकवचनान्तमनुवर्तते । अरिति पञ्चमी । 'समासेऽङ्गुलेः -' इत्यतः समासे इत्यनुवर्तते । तदाह - अग्नेः परेषामिति । षः स्यादिति । 'अपदान्तस्य मूर्धन्य.' इत्यनुवृत्तेरिति भावः । 'सात्पदाद्यो:' इति षत्वनिषेधापवादोऽयम् । श्रग्निष्टुदिति । ऋतुविशेषोऽयम् । अग्निष्टोम इति । स्तोत्र विशेषस्य संस्थाविशेषस्य च नाम । श्रग्नीषोमाविति । अग्निश्च सोमश्चेति विग्रहः । ईत्त्वषत्वे । अग्नीवरुणाविति । श्रभिश्च वरुणश्चेति विग्रहः । ईत्त्वम् । दॆवताद्वन्द्वे किम् ? अभिर्नाम कश्चित् सोमो नाम कश्चित् - अग्निसोमौ । श्रदेवताद्वन्द्वत्वादीत्त्वं न । अत एव च न षत्वम्, 'अग्नेर्दीर्घात् सोमस्य इष्यते' इति वार्तिकात् । इवृद्धौ । अग्नेरिति देवताद्वन्द्वे इति चानुवर्तते । वृद्धिशब्देन वृद्धिमल्लक्ष्यते, देवताद्वन्द्वे केवल वृद्धिरूपोत्तरपदासंभवात् । तदाहवृद्धिमतीति । इदिति तकार उच्चारणार्थः । प्रयोजनाभावान्नेत्संज्ञा । नापि तपरकरणम्, विधीयमानत्वादेव सवर्णग्राहकत्वात् । श्रग्नामरुताविति । श्रभिश्व मरुच्चेति विग्रहः । ‘देवताद्वन्द्वे च' इत्यानङ् | आग्निमारुतं कर्मेति । 'साऽस्य देवता' इत्यण् । तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । अग्नीवरुणाविति । 'ईदग्मेः-' इतीत्त्वम् । अग्निवारुणमिति । साऽस्य देवता' इत्यण् । ननु ईदग्नेः । आनङोऽपवादोऽयम् । देवताद्वन्द्वे इत्येवेति । इदं च वृत्तिग्रन्थेस्थितम् । ज्योतिर्लतयोरदेवताद्वन्द्वेऽपि 'अग्नीषोमौ प्रणेष्यामि' इत्याश्वलायनप्रयोगस्त्वार्षत्वात्साधुः । यद्वा-मास्तु तदनुवृत्तिः, अभिसोमौ माणवकावित्यत्र 'अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः' इति न्यायेनादोषत्वात् । अग्नेः । 'सात्पदाद्योः ' इति निषेधेऽयमारम्भः । अग्निष्टुदिति । श्रभिः स्तूयतेऽस्मिन् स क्रतुविशेषः । संपदादित्वादधिकरणे किप् । अग्निष्टोम इति । श्रनीनां स्तोमोऽग्निष्टोमः । सोमयागस्य संस्थास्वाद्या संस्था उच्यते । इदुवृद्धौ । तकार उच्चारणार्थः । इकारस्येकारविधानं तु बाधकबाधनार्थम् । वृद्धिशब्देनात्र वृद्धिमद् गृह्यते, वृद्धिमात्रस्योत्तरपदस्या w Page #207 -------------------------------------------------------------------------- ________________ २०४ ] सिद्धान्तकौमुदी। [द्वन्द्वसमास'देवताद्वन्द्वे च' (सू १२३६ ) इत्युभयपदवृद्धिः । अलौकिके विग्रहवाक्ये प्रा. नङमीत्वं च बाधित्वा इत् । वृद्धौ किम्-आग्नेन्द्रः। 'नेन्द्रस्य परस्य' (सू १२४०) इत्युत्तरपदवृद्धिप्रतिषेधः । 'विष्यौ न' (वा ३६०१)। आमावैष्णवम् । १२६ दिवो द्यावा । (६-३-२६) देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी। चावासामा। 'तद्धितेष्वचामादेः' इत्यादरचो वृद्धिविधानात् कथमुत्तरपदस्यादिवृद्धिरित्यत आहदेवताद्वन्द्वे चेत्युभयपदवृद्धिरिति । नन्वग्नेरिकारस्य इकारविधिर्व्यर्थ इत्यत आह-आनङमीत्त्वं च बाधित्वेति । आग्निमारुतमित्यत्रानङ आग्निवारुणमित्यत्र ईत्त्वस्य च बाधनार्थमनेरिकोरस्य पुनरिकारविधानमित्यर्थः । ननु ‘समर्थानां प्रथमावा' इत्यत्र ‘परिनिष्ठितात् तद्धितोत्पत्तिः' इति वक्ष्यते । तथा च अमामरुतौ देवते अस्येति, अग्नीवरुणो देवते अस्येति च विग्रहे अनामरुच्छन्दाद् अग्नीवरुणशब्दाच अानडीत्त्वाभ्यां परिनिष्ठिताद् देवताद्वन्द्वात् 'साऽस्य देवता' इत्यया तद्धित उत्पद्यते । ततस्तनिमित्तकोभयपदवृद्धिः । ततः 'इवृद्धौ' इत्यस्य प्रवृत्तिरिति क्रमः । ततश्च तद्धितोत्पत्तेः प्रागेव प्रवृत्तयोरानकीत्त्वयोः कथम् 'इवृद्धौ' इत्यनेन बाधः ? युगपत्प्रवृत्तावेव बाध्यबाधकभावाभ्युपगमात् । उक्तं च भाष्ये-'भुक्तवन्तं प्रति मा भुक्या इत्युक्ते, किं तेन कृतं स्यात्' इति । अत आह-अलौकिके विग्रहवाक्य इति । अग्निमरुत् औ देवते अस्येति, अग्निवरुण औ देवते अस्येति च तद्धितालौकिकविग्रहवाक्ये आनडीत्त्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः । यद्यपि तदानीम् उत्तरपदस्य वृद्धिमत्त्वं नास्ति, तद्धिताभावात् , तथाप्युत्तरपदस्य भाव्येव वृद्धिमत्त्वमिह विवक्षितमिति भावः । प्राग्नेन्द्र इति । अग्निश्च इन्द्रश्च अग्नेन्द्रौ । 'देवताद्वन्द्वे च' इत्यान, आद्गुणः । अनेन्द्रौ देवते अस्येत्यानेन्द्रः। 'साऽस्य देवता' इत्या । आदिवृद्धिः । अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्त्वाभावाद् 'इवृद्धौ' इति नेति भावः । 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिमाशङ्कयाह-नेन्द्रस्येति । विष्णौ नेति । विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः । आग्नावैष्णवमिति । अग्निश्च विष्णुश्च श्रमाविष्णू । 'देवताद्वन्द्व च' इत्यानङ् । अग्नाविष्णू देवते अस्येत्यर्थे 'साऽस्य देवता' इत्यण । आग्नावैष्णवं हविः । 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिः । इत्त्वाभावादानव । दिवो द्यावा । शेषपूरणेन सूत्रं व्याचष्टे-देवताद्वन्द्व इति । द्यावाभूमी इति । द्योश्च भूमिश्चेति विग्रहः । द्यावाक्षामा इति । संभवादतो व्याचष्टे-वृद्धिमत्युत्तरपद इति । आनङमीत्वं च बाधित्वेति । यद्यपि वृद्धेः प्रागेव श्रानीत्वयोरन्तरगत्वात्प्रवृत्तिरस्ति, तथापि 'परिहृल्यापवादविषय. मुत्सर्मोऽभिनिविशते' इति न्यायादानडीत्वे न भवत इति भावः । आमावैष्णव Page #208 -------------------------------------------------------------------------- ________________ प्रकरणम् २० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०५ ६२७ दिवसश्च पृथिव्याम् । (६-३-३०) दिव इत्येव, चायावा । प्रादेशेऽकारोचारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । योश्च पृथिवी च दिवस्पृथिब्यौ, चावापृथिव्यौ। 'बन्दसि दृष्टाविधिः। द्यावा चिदस्मै पृथिवी' । 'दिवस्पृथिग्योररतिः' इत्यत्र पदकारा विसर्ग पठन्ति । १२८ उषासोषसः। (६-३-३१) उषस्शब्दस्योषासादेशो देवताद्वन्दे । उपासासूर्यम् । ६२६ मातरपितरावुदीचाम् । (६-३-३२) मातरपितरौ । उदीचां किम्-मातापितरौ । ६३० द्वन्द्वाच्चुदषहान्तात्समाहारे । (५-४-१०६) चवर्गान्ताहषहान्ताच 'द्यावाक्षामा रुक्मो अन्तर्विभाति' इति ऋचि पठितमिदम् । द्यावापृथिव्योरित्यर्थः । द्योश्च क्षामा चेति विग्रहः । चामाशब्दो भूमिपर्यायो वेदे। तत्र द्वन्द्वे दिवो द्यावादेशः। षष्ठयास्तु 'सुपां सुलुक-' इति डादेशः, 'देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोः प्रकृतिखर इति वेदभाष्ये स्पष्टम् । दिवसच पृथिव्याम् । दिव इत्येवेति । दिव इत्यनुवर्तत एवेत्यर्थः, खरितत्वादिति भावः । तर्हि चकारो व्यर्थ इत्यत आह-चादिति । तथा च दिवशन्दस्य दिवसादेशो द्यावादेशश्च स्यात् पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः । दिवस्पृथिव्या इत्यत्र सकारादकारस्याश्रवणादिवसादेशस्य सकारान्तत्वावश्यंभावाद् आदेशे सकारादकारोचारणस्य किं प्रयोजनमित्यत आह-प्रादेशेऽकारोच्चारणमिति । सामर्थ्यात् 'ससजुषो रुः' इति रुत्वं नेति भावः । ननु 'द्यावा चिदस्मै पृथिवी सन्तमेते' इत्यत्र दिवशब्दपृथिवीशब्दयोः कथं द्वन्द्वः ? कथं वा दिवो द्यावादेशः ? उत्तरपदस्य चिदस्मै इत्यनेन व्यवहितत्वादित्यत आह-छन्दसि दृष्टानुविधिरिति । भाष्यवाक्यमेतत् । वेदे दृष्टानुसरणमित्यर्थः। यथा दृष्टं तथा प्रक्रिया कल्पनीयेति भावः । पदकारा इति । 'दिवस्पृथिव्योः' इत्यवाहे विसर्ग पठन्तीत्यर्थः । पदकारा इत्यनेन पदपाठस्याधुनिकत्वं सूचितम् । तथा च विसर्गपाठः प्रामादिक इति सूचितम्, अकारोच्चारणेन रुत्वनिवृत्तेरुतत्वात् । उषासोषसः । उषासासूर्यमिति । उषाश्च सूर्यश्चेति समाहारद्वन्द्वः । मातरपितराबुदीचाम् । उदीचा मते मातरपितराविति भवतीत्यर्थः । अत्र मातृशन्दस्यारगदेशो निपात्यते । मातापितरा. विति । अरभावे 'आनकृतः-' इत्याना । द्वन्द्वाच्चुदष । समासान्ताधिकारस्थं मिति । इत्वाभावादानच भवति । रुत्वं मा भूदिति । अकारे सति सकारस्य श्रव णंभवति, तेन प्रयोगे विकारामावोऽनुमीयत इति भावः । विसर्गमिति । तथा च 'कचिद्विकारो न' इत्येवानुमेयं लक्ष्यानुरोधादिति भावः । उषासासूयमिति । उपाश्च सूर्यश्च तयोः समाहारः । मातरपितरौ । मातृशब्दस्या Page #209 -------------------------------------------------------------------------- ________________ २०६ ] सिद्धान्तकौमुदी । [ एकशेष द्वन्द्वाट्टच् स्यात्समाहारे । वाक्च स्वक्च वाक्स्वचम्। त्वक्स्त्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् - प्रावृट्छरदौ । इति द्वन्द्वसमासप्रकरणम् । अथैकशेषप्रकरणम् । २१ । अथैकशेषः । ‘सरूपाणाम् -' ( सू १८८ ) । रामौ रामाः । विरूपायामपि समानार्थानाम्' (वा ७४७)। वक्रदण्डश्च कुटिलदण्डश्च - वक्रदण्डौ । कुटिलतद्धिताधिकारस्थं चेदं सूत्रम् । टच्स्यादिति । 'राजाहस्सखिभ्यः -' इत्यतस्तदनुवृत्तेरिति भावः । वाक्त्वचमिति । वाक्च त्वक्च इति समाहारद्वन्द्वः । कुत्वस्यासिद्धत्वाच्चवर्गान्तत्वाट्टच् । एवं त्वक्त्रजमित्यत्रापि । त्वक्च स्रक्चेति विग्रहः । शमीदृषदमिति । शमी च दृषच्चेति विग्रहः । दकारान्तत्वादृच् । वाक्त्विषमिति । वाक्च त्विट् चेति विग्रहः । षान्तत्वाट्टच् जश्त्वस्यासिद्धत्वादिति भावः । छत्रोपानहमिति । छत्रं च उपानचेति विग्रहः । हान्तत्वाट्टच् । प्रावृद्वरदाविति । प्रावृट् च शरचेति विग्रहः । इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमायां द्वन्द्वसमासनिरूपणम् । अथैकशेषो निरूप्यते - तदेवं द्वन्द्वे निरूपिते तदपवादमेकशेषप्रकरणरभते - अथैकशेष इति । निरूप्यत इति शेषः । तत्रैकशेषसूत्राणि व्याचिख्यासुः पूर्वं व्याख्यातमपि सूत्रं सन्दर्भशुद्धये ग्रह - सरूपाणामिति । तदुदाहरणमपि स्मारयति - रामौ रामा इति । विरूपाणामिति । 'सरूपाणाम् -' इत्यनेन सूत्रेणार्थभेदेऽपि शब्दैकरूप्ये एकशेष उक्तः, एकार्थकत्वे विरूपाणामप्येकशेषो वक्तव्य इत्यर्थः । वक्रदण्डश्चेति । अत्र शब्दवैरूप्येऽप्यर्थैक्याद् अन्यतरः शिष्यत रङादेशो निपात्यते । द्वन्द्वात् । अन्तग्रहणं विस्पष्टार्थम् । चु इति वर्गग्रहणस्य प्रयोजनं ध्वनयति-त्वक्त्रमिति । बहूनां द्वन्द्वे तु वाक्त्वक्जम् । द्वन्द्वगर्भे द्वन्द्वे तु वाक्त्वचस्रजम् । इति तत्त्वबोधिनीव्याख्यायां द्वन्द्वप्रकरणम् । द्वन्द्वापवादत्वेनाह— अथैकशेष इति । विरूपाणामिति । रूप्यते Page #210 -------------------------------------------------------------------------- ________________ प्रकरणम् २१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०७ दण्डौ । वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । (१-२-६५) यूना सहोको गोत्रं शिष्यते, गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृरखं वैरूप्यं स्यात् । गायश्च गार्यायणश्च गाग्यौँ । वृद्धः किम् । गर्गगाायणौ । यूना किम् । गर्गगाग्यौं तहणः किम्। भागवित्तिभागवित्तिकौ । कृत्सम् किम् । गार्यवात्स्याइति भावः । वृद्धो यूना । रूपतोऽर्थतश्च भेदेऽपि प्राप्त्यर्थमिदम् । यूनेति । 'जीवति तु वंश्ये युवा' इति वक्ष्यमाणयुवप्रत्ययान्तेनेत्यर्थः। सहोकाविति । अध्याहारलब्धमेतत् । गोत्रमिति । वृद्धशब्देन 'अपत्यं पौत्रप्रभृति गोत्रम्' इति सूत्रोक्तं गोत्रं विवक्षितम् । अपत्यमन्तरितं वृद्धमिति पूर्वाचार्यपरिभाषितत्वादिति भावः । गोत्रप्रत्ययान्तमिति यावत् । न च 'गोत्रं यूना' इत्येव कुतो न सूत्रितमिति वाच्यम् , अपत्याधिकारादन्यत्र गोत्रग्रहणेन लौकिकं गोत्रं विवक्षितमिति सिद्धान्तज्ञापनार्थत्वात् । शिष्यत इति । शेष इति कर्मणि घअन्तमनुवर्तत इति भावः। तल्लक्षण इति । स गोत्रप्रत्ययो युवप्रत्ययश्च लक्षणं निमित्तं यस्येति विग्रह. । विशेषो वैलक्षण्यम् । तथाच गोत्रयुवप्रत्ययान्तयोर्विशेषो वैरूप्यम्, तल्लक्षणश्चेद् गोत्रयुवप्रत्ययनिमित्तकश्चेदित्यर्थः । अन्यनिमित्तको न चेदित्यर्थः सिद्धः, तदाह-गोत्रयुवेति । कृतमिति। एवकारलभ्यमिदम् । गाय॑श्चेति । गर्गस्य गोत्रापत्यं मार्यः । गर्गादिभ्यो यञ् । गाायण इति । गर्गस्य गोत्रापत्यं गार्ग्यः । तस्यापल्यं युवा गाायणः । 'यमिओश्च' इति फन् । गााविति । अत्र गायेशन्दस्य गायिणशब्दस्य च गोत्रयुवप्रत्ययकृतमेव वैरूप्यमिति गोत्रप्रत्ययान्तो गायशब्दः शिष्यत इति भावः । गर्गगाायणाविति । गर्गश्च गाायणश्चेति विग्रहः । अत्र गर्गशब्दस्य गाायणशब्दस्य च युवप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तत्वाभावान्नैकशेष इति भावः । गर्गगाग्र्याविति । अत्र गर्गशब्दस्य गाय॑शब्दस्य च गोत्रप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तो गार्ग्यशब्दो न शिष्यते, यूना सहोक्त्यभावादिति भावः । भागवित्तिबोध्यत इति व्युत्पत्त्या सौत्रस्य रूपशब्दस्यार्थपरतयापि व्याख्यानात्सूत्राक्षरैरेव लब्धं शक्यत इति प्रागेव व्याख्यातम् । वृद्धो यूना। अपत्यमन्तर्हितं वृद्धम्' इति पूर्वाचार्यैः परिभाषितस्य पाणिन्युक्तगोत्रापरपर्यायस्येह ग्रहणम् , कृत्रिमेण यूना साहचर्यात्तदाह-गोत्रं शिष्यत इति । 'गोत्रं यूना' इत्येव तु न सत्रितम् । 'अपत्याधिकारादन्यत्र लौकिकं गोत्रग्रहणम्' इति सिद्धान्तेन औपगवश्चानन्तरः, औषगविश्च युवेत्यत्र नैकशेषः । भागवित्तीति । भागवित्तस्य गोत्रापत्यं भागवित्तिरित्यस्मायूनि 'वृद्धाक् सौवीरेषु बहुलम्' इति कुत्सायां ठक् । इह कुत्सा सौवीरत्वं चाधिकमपेक्ष्यते। न तु युवत्वमात्रकृतं वैरूप्यम् । गार्यवात्स्यायनाविति । इह प्रकृत्यंशे वैरूप्यं न Page #211 -------------------------------------------------------------------------- ________________ २०८ ] सिद्धान्तकौमुदी। [ एकशेष. बनौ । ६३२ स्त्री पुंवञ्च । (१-२-६६) यूना सहोलौ वृद्धा श्री शिष्यते तदर्थश्च पुंषत् । गार्गी च गाायणौ च गर्गाः । 'अस्त्रियाम्' इत्यनुवर्तमाने 'यमयोश्च' (सू ११०८) इति लुक् । दासी च दाचायणश्च दाक्षी । ६३३ भागवित्तिकाविति । भगवित्तस्य गोत्रापत्यं भागवित्तिः । अत इञ् । भागवित्तेः सौवीरस्यापत्यं युवा कुत्सितो भागवित्तिकः । 'वृद्धाक् सौवीरेषु-' इति ठक् । अत्र भागवित्तिशब्दस्य भागवित्तिकशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यम् , कुत्सासौवीरत्वकृतस्यापि वैरूप्यस्य सत्त्वात् । अतो गोत्रप्रत्ययान्तो भागवित्तिशब्दो न शिष्यत इति भावः । गायेवात्स्यायनाविति । गर्गस्य गोत्रापत्यं गायः, वत्सस्य गोत्रापत्यं वात्स्यः, गर्गादित्वाद्यञ् । वत्सस्यापत्यं युवा वात्स्यायनः। 'यजिओश्च' इति फक् । गाय॑श्च वात्स्यायनश्चेति विग्रहः । अत्र गार्यशब्दस्य वात्स्यायनशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यम् , प्रकृतिवरूप्यस्य गोत्रयुवप्रत्ययमात्रकृतत्वाभावात् । अतो गोत्रप्रत्ययान्तो गार्यशब्दो न शिष्यत इति भावः । स्त्री पुंवञ्च । वृद्धो यूनेत्यनुवर्तते । वृद्धति स्त्रीलिङ्गेन विपरिणम्यते । तदाह-यूना सहोतो वृद्धा स्त्री शिष्यत इति । गोत्रप्रत्ययान्तः स्त्रीवाचकः शब्दः शिष्यत इति भावः । स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वात् पूर्वेणाप्राप्ते वचनमिदम् । तदर्थ इति । तस्य शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः । गार्गी चेति । गर्गस्यापत्यं स्त्रीत्यर्थः । गर्गादियमन्ताद् 'यत्रश्च' इति कीप् । गाायणौ चेति । गर्गाद्यअन्ताद् यून्यपत्ये 'यजिलोश्च' इति फक् । गर्गा इति । अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दः शिष्यते । स पुंवत् । तर्हि यञ् कुतो न श्रूयत इत्यत श्राह-अस्त्रियामितीति । उपलक्षणमिदम् । 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इत्यतः अस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः । एतेन पुंवदित्यस्य प्रयोजनमुक्तम् । गार्गी च गाायणश्चेति विग्रहस्तु न दर्शितः । तथा सति अबहुत्वाद् यो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यम्-गार्याविति, तत्र पुंवत्त्वं निरर्थकं स्यात् । उदाहरणान्तरमाहदाक्षी चेति । दक्षस्य गोत्रापत्यं स्त्री दाक्षी । 'अत इब्' इतीअन्ताद् 'इतो मनुष्यजातेः' इति डीए । दाक्षायणश्चेति । दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं गोत्रादिकृतम् । स्त्री पुंवञ्च । वृद्धा स्त्रीति । गोत्रप्रत्ययान्तं स्त्रीवाचकमित्यर्थः । पुंवद्भावकृतवेलक्षण्यं स्फुटीकर्तुं द्विवचनान्तेन विग्रहमाह-गर्गगाायणाविति । अनुवर्तमान इति । तद्राजस्य बहुषु-' इत्यतः 'पुंवत्' इत्यातिदेशस्य फलमनेन दर्शितम् । अन्यथा त्रीत्वस्यानिवर्तनाल्लुङ् न स्यात् । 'गर्गान्पश्य' इत्यत्र नत्वं च Page #212 -------------------------------------------------------------------------- ________________ प्रकरणम् २१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०६ पुमान् स्त्रिया। (१-२-६७) सिवा सहको पुनानिवते, तवरण एव विशेषश्चेत् । हंसी च हंस हंसी । १३ भापपुगी ससूदुहितृभ्याम् । (१-२-६८) भ्राता च ससा प्रातरौ । पुनाहिता च पुत्री। १३५ युवा दाक्षायणः । 'यमियोश्चेति फक । दाक्षी च दाक्षायलरपति विग्रहे दाधीशन्दः शिष्यते । तस्य पुंवरचे सति कीषो निवृत्ती दाक्षिशन्दात् प्रथमाद्विवचने दाबी इति भवति । अत्र तल्लक्षणश्चेदेव विशेष इत्वप्यनुवर्तते । ततश्च भागवित्ती भागवित्तिकश्च, गार्गी च वात्स्यायनश्चेत्यत्र न भवति । पुमान्स्त्रिया । ताल एवेति । 'वृद्धो यूना-' इत्यतस्तदनुवृत्तेरिति भावः । हंसी चेति । चत्र पुंस्त्वचीत्वमात्रकृतवैरूप्यात् पुंलिङ्गो हंसशन्दः शिष्यते। बीत्वपुंस्त्वातसम्बादेव 'सरूपाणाम्-' इत्वस्थाप्राप्तिः । मातृमातरावित्यत्र जननीवाचकपरिच्छेतवाचकमातृशन्दयोस्तु नायमेकशेषः । एकविभक्ती सरूपाणामित्यनुवर्त्य एकविभही सरूपाणां स्त्रीत्वपुंस्त्वेतरकृतरूप्यरहितानामित्याश्रयणात् । इह च मातरादित्वत्र 'प्रप्तृन्-' इति दीर्घतदभावाभ्यामपि बैरूप्यात् । अत एव हंसश्च बरटा चेत्यत्रापि नेत्यलम् । भातपुत्री । ससूदुहितृभ्यां सहोक्तौ क्रमाद् भ्रातृपुत्रौ शिष्येते । स्वरूपतोऽपि रूप्यादप्राप्तौ वचनम् । सिद्धम् । रूपातिदेशे तु नैतत्सिद्धयेत्, सामान्यातिदेशे विशेषानतिदेशादित्याहुः । 'वृदो यूना' इत्याद्यनुवर्तनानेह--गार्गी च वात्स्यायनौ च । पुमान्सिया। 'वृदो यूना-' इति निवृत्तम् । 'सरूपाणाम्' इति त्वनुवर्तते, 'भ्रातृपुत्रौ-' इत्युत्तरसूत्रारम्भात् । 'तेन हंसश्च वरटा च' इत्यत्र न भवति । अन्यथा स्यादेवातिप्रसङ्गः । हंसत्वजातिसाम्येन शब्दवैलक्षण्यस्य स्त्रीत्वपुंस्त्वमात्रप्रयुक्तत्वात् । स्यादेतत्-गौरियं गौश्चायं तयोः सहोतो 'एतौ गावौ' इति नियमतो न स्यात् , तल्लक्षणविशेषाभावात् । किं तु श्रीवाचकस्य पुंवाचकस्य वा सरूपाणाम्-' इत्येकोषोऽनियमेन स्यात् । प्रवाहुः-तदितरकृतविशेषाभावे तात्पर्याम दोष इति । 'इन्द्रेन्द्रारायौ' इत्यादौ त्वेकशेषो न भवति । स्त्रीत्वपुंस्त्वेतरपुंयोगकृतविशेषस्य सद्भावात् । स्यादेतत्-'एतौ गावी' इति नियमतो न स्यादिति मनोरमादौ यदुक्तं तत्कथं संगच्छताम् । 'त्यदादितः शेषे पुनपुंसकतःइति नियमप्रवृत्त्या स्त्रीवाचिगोशब्दस्य शेषेऽपि “एतौ गावी' इति नियमतः प्रयोगः सिद्धयत्येवेति चेत्-अत्र केचित्–दिक्प्रदर्शनमात्रमिदम् । 'नीलो गावो' इति नियमतो न स्यादित्युदाहर्तव्यम्। प्रथना, एतशब्दोऽत्रादन्तः कर्बुरवाची । एतश्च एता च एतौ गावौ-कर्बुरौ गावौ, 'सरूपाणाम्-' इत्यनेन स्त्रीलिङ्गशेषे तु एते गावौं' इत्यपि स्यादिति यथाश्रुतमेव समर्थनीयमित्याहुः, तदपरे न क्षमन्ते । 'त्यदादितः शेषे-' इति नियमाप्रवृत्तावपि पुमान्सिया' इति नियमप्रवृत्त्या 'नीलो गावो' "एतौ गावो' इति नियमतः Page #213 -------------------------------------------------------------------------- ________________ २१० ] सिद्धान्तकौमुदी । [ एकशेष नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम् । ( १-२-६६ ) अनीबेन सहोकौ क्रीबं शिष्यते तच्च वा एकवत्स्यात्सहचय एव विशेषश्चेत् । शुनः पटः । शुक्रा शाटी । शुक्रं वस्त्रम् । तदिदं शुक्रम् । तानीमानि शुक्रानि । ६३६ पित्रा माता । ( १-२-७०) मात्रा सहोकौ पिता वा शिष्यते । माता च पिता च पितरौ - मातापितरौ वा । १३७ श्वशुरः श्वश्र्वा । ( १-२-७१ ) नपुंसकम् । अन्यतरस्यांग्रहणम् एकवदित्यनेनैवान्वेति श्रानन्तर्यात्, नत्वेकशेषेणेत्याह - तच्चेति । तल्लक्षण एवेति । नपुंसकत्वानपुंसकत्वमात्रकृतवैरूप्यं चेदित्यर्थः । शुक्लः पटः शुक्ला शाटी शुक्लं वस्त्रमिति । पटशब्दसमभिव्याहारात् शुक्लशब्दः पुंलिङ्गः, शाटीशब्दसमभिव्याहारात् स्त्रीलिङ्गः, वस्त्रशब्दसमभिव्याहारे तु नपुंसकलिङ्गः, 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' इत्यमरोक्तेरिति भावः । तच्च सा च इदं च तत् । अयं च इयं च इदं च इदम् । शुक्लश्च शुक्ला च शुक्लं च शुक्लम् । अत्र नपुंसकान्येव शिष्यन्ते एकवच भवन्ति । तानीमानि शुक्लानीति । नपुंसकत्वे एकशेषे सति एकवत्त्वाभावे रूपाणि । न चेतरेतरयोगविवक्षायां द्विबहुवचनान्तयोः, समाहारद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वाद् एकवदिति व्यर्थमिति वाच्यम्, अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात् । तेन श्रोदनश्च श्रोदनं च तयोः समाहारे श्रोदनमिति न भवति । श्रोदनशब्दो ह्यर्धर्चादिः । श्रदनश्च श्रोदनं चेति इतरेतरयोगद्वन्द्वेऽपि श्रदनमिति न भवति, अनभिधानात् । एवं च क्वचिदनभिधानस्यावश्याश्रयणीयतया द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थत्वं चाश्रित्य एकशेषप्रकरणं भाष्ये प्रत्याख्यातम् । पिता मात्रा । 'पुमान् स्त्रिया' इत्यत्र सरुपाणामित्यनुवृत्तेरप्राप्तासिद्ध्यत्येवेति । अत्र वदन्ति - 'द्वन्द्वतत्पुरुषविशेषणानाम्' इत्येतन्न्यायसिद्धमेव वचनम् । ‘विशेष्ये यलिङ्गं तदेव विशेषणेष्वपि ' इति सर्वसंमतत्वात्, एवं च द्वन्द्वतत्पुरुषविशेषणेष्विव एकशेषविशेषणेऽपि 'एतौ' इत्यत्र 'त्यदादितः शेषे -' इत्यादिनियमाप्रवृत्त्या विशेष्यगतमेव लिङ्गं भवतीति स्त्रीवाचिगोशब्दस्य शेषे 'एते' इति स्यादेवेति 'एतौ गावौ' इति नियमतो न स्यादित्याक्षेपः संगच्छत एवेति दिक् । नपुंसकमन । अन्यतरस्यांग्रहणम् 'एकवच्च' इत्यनेनैवानन्तयत्सिंबध्यते, न त्वेकशेषणेत्याशयेनाह — क्लीचं शिष्यते तच्च वा एकवदिति । अनपुंसकेनेति किम्, शुक्लं च शुक्लं च शुक्ले । अत्र 'एकवच' इति न भवति । 'अस्य' ग्रहणम् 'अस्यैवैकशेषस्य एकवद्भावो यथा विज्ञायेत' इत्येवमर्थम् । अन्यथा उत्तरत्राप्येकवदित्यस्यानुवृत्तिः शङ्कयेत । शुक्लः पट इत्यादि । 'शुक्लः शुक्ला शुक्लम्' इत्येव विग्रहः, 'पटः पटी' Page #214 -------------------------------------------------------------------------- ________________ प्रकरणम् २१ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २११ श्वश्रवा सहोकौ श्वशुरो वा शिष्यते, तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्व श्वशुरश्च श्वशुरौ – श्वश्रूश्वशुरौ वा । ७३८ त्यदादीनि सर्वैर्नित्यम् । ( १-२-७२ ) सर्वैः सहोकौ त्यदादीनि नित्यं शिष्यन्ते । स च देवदत्तश्च तौ । 'त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते' ( वा ८०१ ) स च यश्च यौ, ( सा च या च ये ) । 'पूर्वशेषोऽपि दृश्यते' इति भाष्यम् । स च यश्चः तौ । ' त्यदादितः शेषे पुन 1 विदं वचनं विकल्पार्थं च । मातापितराविति । ' पितुर्दशगुणं माता गौरवेणातिरिच्यते' इति स्मृत्या मातुरभ्यर्हितत्वात्पूर्वनिपातः । 'नहृतः' इत्यानङ् । श्वशुरः श्वश्रवा । श्वश्रूश्वशुराविति । श्वश्रवा अपि मातृतुल्यत्वोक्तेरभ्यर्हितत्वम् । 'श्वश्रूः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिता' इति स्मृतेः । इह तल्लक्षणग्रहणानुवृत्तिः स्पष्टार्था, 'श्वशुरः श्वश्र्वा' इति शब्दग्रहणात् । त्यदादीनि । सर्वैरिति । त्यदादिभिरितरैश्चेत्यर्थः । ताविति । अत्र देवदत्तशब्दो निवर्तते । तच्छब्दस्तु शिष्यते । तद्देवदत्ताविति न भवति । सर्वैः किम् ? प्रत्यासत्त्या त्यदादिभिरेव सहोक्लावित्यर्थो मा भूदित्येतदर्थम् | त्यदादीनां मिथ इति । भाष्ये स्थितमेतत् । यत् परमिति । त्यदादिगणे यत् परं पठितं तच्छिष्यत इत्यर्थः, शब्दपरविप्रतिषेधाश्रयणादिति भावः । सच यश्च यौ, सा च या च ये इति । त्यदादिगणे यच्छब्दस्य तच्छब्दादूर्ध्वं पाठात् परत्वात् स एव शिष्यत इति भावः । पूर्वशेषोऽपीति । परशब्दस्येष्टवाचित्वात् क्वचित्पूर्वमपि शिष्यत इति भावः । अत्र 'द्विपर्यन्तानाम्' इति न भवति । श्रहं च भवांश्चावामिति भाष्योक्तेः । त्यदादित इति । आद्यादित्वात् षष्ठयर्थे तसिः । त्यदादीनां स्त्रीशेषेऽपि सहविवक्षितषु यः पुमान्, यच्च नपुंसकं, तद्वशेन इत्यादिप्रदर्शनं तु शुक्लशब्दस्य गुणिलिङ्गत्वस्फोरणाय । पिता मात्रा । श्वशुरः श्वश्र्वा । नन्वेतत्सूत्रद्वयं व्यर्थम्, पितृशब्देन मातापित्रोः श्वशुरशब्देन श्वश्रूश्वशुरयोर्लक्षणया बोधसंभवात् । न च 'सरूपाणाम्' इत्यादिसूत्रसमूहवदिदमपि सूत्रद्वयं द्वन्द्वनिवृत्त्यर्थमावश्यकमिति वाच्यम्, पक्षे तस्यापीष्टत्वादिति चेत् — अत्राहुः पितृश्वशुरशब्दयोरिव मातृश्वश्रूशब्दयोः केवलयोरुक्तविषये प्रयोगं वारयितुमारम्भणीयमेव सूत्रद्वयम्, अनभिधानमाश्रित्य प्रत्याख्यानस्यानुचितत्वादिति । मातापितराविति । 'पितुर्दशगुणं माता गौरवेणातिरिच्यते' इति स्मृतेर्मातुरभ्यर्हितत्वात्पूर्वनिपातः । 'श्रनङ् ऋतः-' इत्यानङ् । श्वश्रूश्वशुराविति । श्वश्रूः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिता' इति स्मृतेः श्वश्र्वा श्रभ्यर्हितत्वात्पूर्वनिपातः । त्यदादीनि सर्वैः । सर्वैः किम् त्यदादिभिन्नैरपि सहोक्तौ यथा स्यात् । प्रत्यासत्त्या ' त्यदादिभिरेव सहौक्तौ' इत्यर्थो मा भूत् । यत्परमिति । शब्दपरविप्रतिषेधादिति भावः | त्यदादित इति । 1 Page #215 -------------------------------------------------------------------------- ________________ २१२ ] सिद्धान्तकौमुदी । [ एकशेष पुंसकतो लिङ्गवचनानि' ( वा ७६६ ) । साच देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुत्रपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते । 'श्रद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्' ( वा ८०० ) । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच सा च अर्धपिप्पल्यौ ते । ६३६ ग्राम्यपशुसवेष्वलिङ्गप्रतिपादकानि भवन्तीत्यर्थः । कानीत्याकाङ्क्षायामर्थात् त्यदादीन्येव सम्बध्यन्ते । सा च देवदत्तश्च ताविति । अत्र तच्छब्दः शिष्यते समभिव्याहृतदेवदत्तशब्दलिङ्गश्च । देवदत्तशब्दस्तु निवर्तत एव । पुन्नपुंसकयेोरिति । सहोक्ताविति शेषः । परत्वादिति । पुंनपुंसकतो लिङ्गवचनानीत्यत्र पुमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः । द्वन्द्वेति । द्वन्द्वतत्पुरुषविशेषणानां त्यदादीनां स्त्रीशेषे 'त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि' इत्येतन्न भवतीत्यर्थः । द्वन्द्व उदाहरति—कुक्कुटमयूर्याविमे इति । अयं च इयं च इमे इत्यत्र 'त्यदादितः शेषे' इति पुंलिङ्गत्वं न भवति, किंतु विशेष्यनिघ्नतैव । यद्यपि द्वन्द्वे उभयपदार्थप्रधानत्वाद् उभयमपि विशेष्यम्, तथापि परवल्लिङ्गम्' इति परपदलिङ्गत्वात्तदधीनतैव विशेषणस्येति बोध्यम् । नच अयं च इयं च इत्यत्र स्त्रीशेष एव न भवति, 'पुमान् स्त्रिया' इत्युक्तत्वात् । अतः पुंनपुंसकतः लिङ्गविधेः प्रसक्तिः कथमिति वाच्यम्, 'परवल्लिङ्गम्' इति हि द्वन्द्वतत्पुरुषयोः परवल्लिङ्गविधिः । अतः द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे तदेव लिङ्गमिति भाष्यकैयटयोः स्थितम् । ततश्च 'कुक्कुटमयूर्याविमे' इति उदाहरणे अयं च इयं च इति विग्रहे 'पुमान् स्त्रिया' इति पुंशेषेऽपि 'परवल्लिङ्गम्' इति विशेषणत्वात् स्त्रीलिङ्गत्वे सति तस्य ' त्यदादितः' इति पुंवत्त्वं प्राप्तमनेन निषिध्यत इति नानुपपत्तिः । क्वचिन्मूलपुस्तकेषु तु मयूरीकुक्कुटाविमावित्यपि दृश्यते । तत्तु प्रकृतानुपयुक्तम्, अत्र मयूरीकुक्कुटाविति द्वन्द्वार्थस्य पुंलिङ्गतया इयं चायं च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि 'पुमान् स्त्रिया' इति परिशिष्टस्य पुंलिङ्गस्य इदमूशब्दस्य 1 श्रद्यादित्वात्तसिः । 'त्यदादीनां शेषे सह विवक्षिते यः पुमान्, यच्च नपुंसकम्, तद्वशेन लिङ्गप्रतिपादकानि भवन्ति' इति वाच्यमित्यर्थः । कानीत्याकाङ्क्षायामर्थात्त्यदादीन्येव । श्रस्यापवादमाह - द्वन्द्वेति । द्वन्द्वादिविशेषणानां पूर्वोक्तं नास्ति, किं तु विशेष्यनिघ्नतैवेत्यर्थः । नन्वेवं ‘कुक्कुटमयूय' इत्यत्र उभयपदार्थप्रधानत्वेन उभयोरपि विशेष्यत्वाद् विशेष्यनिघ्नतायामपि 'कुक्कुटमयूर्याविमे' इति नियमतो न स्यादिति चेत् — अत्र नव्याः — ‘परवल्लिङ्गम् -' इत्यनेन द्वन्द्वतत्पुरुषयोरुत्तरपदलिङ्गवत्त्वादुत्तरपदलिङ्गस्यैव द्वन्द्वतत्पुरुषप्रतिपाद्यत्वेन तल्लिङ्गाधीनतैवानुप्रयोगस्येति न काचिदनुपपत्तिरिति । मयूरीकुक्कुटाविमाविति । प्रकृतानुपयुक्तमप्येतत्प्रसङ्गादुक्तम् । तचेति । - Page #216 -------------------------------------------------------------------------- ________________ प्रकरणम् २१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२१३ तरुणेषु स्त्री। (१-२-७३) एषु सहविवसायांनी शिष्यते । 'पुमान् स्त्रिया' (सू १३३) इत्यस्यापवादः । गाव इमाः। ग्राम्य इति किम् । रुरव इमे । परग्रहणं किम् । ब्राह्मणा इमे । सङ्केषु किम् । एतौ गावी। अतरुणेषु किम् । स्त्रीत्वाप्रसक्त्या तत्र 'त्यदादितःशेषे' इति पुंस्त्वविधरप्रवृत्तत्वेन 'अद्वन्द्वतत्पुरुषविशेषणानाम्'इति निषेधस्यानुपयोगात् । तत्पुरुषे उदाहरति-तथेति । पिप्पल्या अर्धम् अर्धपिप्पली । 'अध नपुंसकम्' इति तत्पुरुषः । अर्धपिप्पली च पिप्पल्यर्ध च अर्धपिप्पल्यौ। तच्च सा च ते । तत्र पिप्पल्यर्धशब्दविशेष्याभिप्रायं तदिति नपुंसकत्वम् । सेति स्त्रीत्वं तु अर्धपिप्पलीति विशेष्याभिप्रायम् । अत्र 'पुमान् स्त्रिया' इत्यस्य नैव प्रसक्तिः । किंतु 'नपुंसकमनपुंसकेनैकबत्' इति नपुंसकं शिष्टम् । तत्र 'परवल्लिङ्गम्' इति स्त्रीत्वम् । तस्य स्त्रीलिङ्गतया तद्विशेषणस्यापि 'परवल्लिङ्गम्' इति स्त्रीत्वम् । तस्य 'त्यदादितः शेषे' इति नपुंसकत्वं प्राप्तं निषिध्यते । एवं च ते इति स्त्रीलिङ्गमेव सिध्यति । यद्यपि स्त्रीत्वे नपुंसकत्वे वा ते इति द्विवचनस्य न कोऽपि विशेषः तथाप्यर्धपिप्पल्यस्ताः इत्युदाहार्यम् । तच्च तच सा चेति विग्रहः । ग्राम्यपशु । एग्विति । तरुणभिन्नेषु ग्राम्याणां पशूनां संघेष्वित्यर्थः । इह अनपुंसकेनेत्यनुवर्तनादाह-पुमान् लियेत्यस्यापवाद इति । गौश्व गौश्च गौश्च इति पुंलिङ्गस्त्रीलिङ्गेषु गोशब्देषु सहविवक्षितेषु 'पुमान् स्त्रिया' इत्येतद्बाधित्वा स्त्री शिष्यत इति भावः । ननु स्त्रीशेषे पुंशेषे वा न कोऽपि रूपभेद इत्यंत आह-इमा इति। अनुप्रयोगे रूपभेदः फलमिति भावः । 'त्यदादितः शेषे' इति न भवति, 'गाव इमाः' इति भाष्यप्रयोगादित्याहुः । रुरव इमे इति । रुरुः कृष्णाख्यो मृगः। अग्राम्यपशुत्वान्न स्त्री शिष्यते । किंतु 'पुमान् स्त्रिया' इत्येकशेषः । ततश्चानुप्रयोगे इमे इति पुंलिङ्गत्वमेव । ब्राह्मणा इमे इति । ब्राह्मणी च ब्राह्मणाश्चेति विग्रहः । अपशुत्वान स्त्री शिष्यते । किंतु 'पुमान् त्रिया' इत्येकरोषः। अन्यथा ब्राह्मण्यः इमा इति स्यात् । एनौ गावाविति । स्त्रीलिङ्गपिप्पल्यर्धम् । सा वेति । अर्धपिप्पली । तत्पुरुषविशेषणमुदाहरति-अर्धपिप्पल्यौ ते इति । यद्यपि स्त्रीनपुंसकसाधारणतः 'ते' इति प्रयोगः, तथापि 'तच्च तच्च सा च अधेपिप्पल्यत्ताः' इत्यायुदाहरणमृह्यम् । ग्राम्य । ग्रामे भवा ग्राम्याः। 'ग्रामाद्यखो' इति यः। लिङ्गद्वयेऽपि 'गावः' इति रूपस्य समानत्वात् स्त्रीलिङ्गशेषस्य फलमाह-इमा इति । एवं च 'इमे च इमाश्च इमाः' इति स्त्रीलिङ्गशेष एव भवति, न त्वत्र 'त्यदादितः शेषे पुनपुंसकतो लिङ्गवचनानि' इति पुंलिङ्गशेषः । 'गाव इमाः' इति भाष्योदाहरणादित्येके । अन्ये तु ग्राम्यपशुसङ्घविषयत्वाविशेषाद् 'गावः' इतिवत् 'इमाः' इति च स्त्रीलिङ्गशेष एव स्यादिति नास्ति शावकाश इत्याहुः । एतौ गावा Page #217 -------------------------------------------------------------------------- ________________ २१४ ] सिद्धान्तकौमुदी। [ एकशेषवरसा इमे । 'अनेकशफेष्विति वाच्यम्' (वा ८०१)। अश्वा इमे । इह सर्वत्रैकशेषे कृतेऽनेकसुबन्ताभावाद् द्वन्द्वो न । तेन शिरसी शिरांसि इत्यादौ समासस्थेत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न । पन्थानौ पन्थानः इत्यादौ समासान्तो न। इत्येकशेषप्रकरणम् । पुंलिङ्गयोः सहोतो असंघत्वान्न स्त्री शिष्यते । संघशब्दो हि बहूनां समुदाये वर्तते, अन्यथा एकशेषस्यानेकविषयत्वादेवानेकपरिग्रहे सिद्ध किं तेनेति भावः । स्त्रीशेषे तु एते इति अनुप्रयोगे रूपं स्यात् । वत्सा इमे इति । वत्साश्च वत्साश्च इति विग्रहः । तरुणत्वान्न स्त्री शिष्यते । अन्यथा वत्सा इमा इत्यनुप्रयोगः स्यात् । अनेकशफेष्विति वाच्यम् । वार्तिकमिदम् । एकशफा अश्वादयः, तेषां सहोतो ग्राम्यपश्विति न भवति । अश्वा इमे इति । एकशफत्वान्न स्त्री शिष्यते । ततश्चानुप्रयोगे पुंलिङ्गत्वमिति भावः । ननु 'सरूपाणाम्' इति सूत्रे 'तिष्यपुनर्वखोर्नक्षत्रद्वन्दे' इत्यतः द्वन्द्वग्रहणानुवृत्त्या द्वन्द्वे एकशेष इति भाष्यात् कृते द्वन्द्वे एकशेषः स्यादित्यत आह-इहेति । इहोदाहृतेषु एकशेषविषयेषु सर्वत्र प्रसक्तं द्वन्द्वमनवकाशत्वादेकशेषो बाधते । कृते त्वेकशेषेऽनेकाभावाद् द्वन्द्वो नेत्यर्थः । द्वन्द्वसमासे एकशेष इति भाष्यं तु द्वन्द्वे प्रसक्ते सहविवक्षायामेकशेष इति व्याख्येयम् । ननु कृत एव द्वन्द्वे एकशेषो भवतु, का हानिरित्यत आह-तेनेति । द्वन्द्वात् प्रागेवैकशेषाश्रयणेनेत्यर्थः। कृते द्वन्द्वे एकशेषाभ्युपगमे शिरसी इति द्विवचने शिरांसीति बहुवचने च समासस्येत्यन्तो. दात्तः स्यात् , प्राण्यङ्गत्वात् 'द्वन्द्वश्व प्राणि' इत्यादिना एकवद्भावश्च स्यादित्यर्थः । आदिना शिरोभ्यां शिरोभिरित्यादिसंग्रहः । पन्थानाविति । द्वन्द्वे कृते एकशेषाभ्युपगमे पन्थानौ पन्थानः, पथिभ्याम् पथिभिः इत्यादौ 'ऋक्पूः' इत्यप्रत्ययः समासान्तः स्यादिति भावः । नचात्र 'इतोऽत्सर्वनाम' इति सर्वनामस्थाने परेऽकारविति। एकशेषस्यानेकविषयत्वादेवानेकपरिग्रहे सिद्धे सङ्घग्रहणसामर्थ्याद्वहूनां समुदायोऽत्र गृह्यत इति भावः । एकशेषे कृत इति । विभक्त्युत्पत्त्यनपेक्षत्वेनान्तरगत्वादिति भावः । नन्वेवं विषयभेदाद् 'द्वन्द्वापवाद एकशेषः' इत्युद्धोषः कथं प्रवर्तत इति चेत्-अत्राहुः-यद्यकशेषो न स्यात्, तर्हि विभक्तावुत्पद्यमानायां द्वन्द्वः स्यात्, कृते त्वेकशेषे स न भवतीति तार्किकी प्राप्तिमादायापवादोद्घोष इति । द्वन्द्वो नेति । एतेन 'कृतद्वन्द्वानामेकशेषः' इति भ्रमो निरस्तः । न च तथैवास्तु, फले विशेषाभावादिति वाच्यमित्याह-तेनेति । पन्थानाविति । न चात्र 'इतोऽत्सर्व नामस्थाने' इति लिङ्गात्समासान्तः सुपरिहरः, 'इतोऽत्' इत्युक्तेऽपि 'सौ' इत्यनुवृत्त्या Page #218 -------------------------------------------------------------------------- ________________ प्रकरणम् २१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [ २१५ अथ सर्वसमासशेषप्रकरणम् । २२ । कृत्तद्धितसमासैकशेषसनाचन्तधातुरूपाः पत्र वृत्तयः । परार्थाभिधानं वृत्तिः । वृत्पर्यावबोधकं वाक्यं विग्रहः । स द्विविधः । तौकिकोऽलौकिकश्च । परिनिहितत्वात्साधुजौकिकः । प्रयोगानोऽसाधुरखौकिकः । यथा राज्ञः पुरुषः, विधानाल्लिनात् समासान्तः सुपरिहरः । 'इतोऽत्' इत्युक्तेऽपि सावित्यनुवर्य पन्था इति सिद्धेरिति वाच्यम् , 'पथो विभाषा' इति समासान्ताभावे अपन्थानावित्यादौ 'इतोऽत्' इति सूत्रस्य सावकाशत्वात् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाम् एकशेषप्रकरणं समाप्तम् । अथ प्रसङ्गात् सर्वसमासोपयुक्तं प्रकीर्णकं प्रकरणमारभते-कृत्तद्धितेति । कृदन्ताः तद्धितघटिताः समासा एकशेषाः सनादिप्रत्ययान्तधातवश्चेति वृत्तयः पञ्चविधा इत्यर्थः । वृत्तिसामान्यलक्षणमाह-परार्थाभिधानं वृत्तिरिति । 'समर्थः पदविधिः' इति सूत्रे भाष्ये स्थितमेतत् । अभिधानमिति करणे ल्युट् । सामान्ये नपुंसकम् । विग्रहवाक्यावयवपदार्थेभ्यः परः अन्यः योऽयं विशिष्टैकार्थः तत्प्रतिपादिका वृत्तिरित्यर्थः । प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन प्रथमविगृहीतानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रतिपादिका वृत्तिरिति यावत् । समुदायशक्तिश्च ‘समर्थः पदविधिः' इति परिभाषया लभ्या । तत्र समासतद्धितयोः पदविधित्वं स्पष्टमेव, सुप्सुपा' इत्यनुवर्य समासविधानात् , सुबन्तात्तद्धितोत्पत्तेः वक्ष्यमाणत्वात् । कृतामपि केषांचित् 'कर्मण्यम्' इति उपपदनिमित्तकानां पदविधित्वमस्त्येव । 'सुप आत्मनः क्यच्' इत्यादीनामपि पदविधित्वमस्त्येव । एकशेषविधावपि द्वन्द्व इत्यनुवृत्तेः द्वन्द्वविषये तद्विधानाद् एकार्थीभावोऽस्त्येव इति मञ्जूषादौ विस्तरः । वृत्त्यर्थावबोधक'पन्थाः' इति सिद्धेरिति वाच्यम् । 'पथो विभाषा' इति समासान्ताभावे 'अपन्थानौ' इत्यादौ इतोऽत्-' इति सूत्रस्य सावकाशत्वात् । इत्येकशेषः । प्रसङ्गादाहकृत्तद्धितेत्यादि । पञ्च वृत्तय इति । पञ्चानां 'वृत्तिः' इति पूर्वाचार्याणां संज्ञा इहाप्याश्रीयत इति भावः । तल्लक्षणमाह-परार्थेति । प्रत्ययान्तर्भावनापरपदार्थान्तर्भावेन वा यो विशिष्टोऽर्थः स परार्थः । स चाभिधीयते येन तत्परार्थाभिधानम् । अत एव तिङन्तं वृत्तिन भवात। तत्रैकार्थीभावानभ्युपगमात् । अन्यथा 'मृदु पचति' इत्यादौ फले मृदुत्वान्वयो न स्यात् 'सविशेषणानां वृत्तिर्न भवति, वृत्तस्य Page #219 -------------------------------------------------------------------------- ________________ २१६ ] सिद्धान्तकौमुदी। [ सर्वसमासशेषराजन् अस् पुरुष सु इति । प्रविग्रहो निवसमासः, अस्वपदविग्रहो वा । समासश्चतुर्विध इति तु प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहिर्भूतानामपि 'सह सुपा' (सू ६४६) इति समासविधानात् । पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, अन्यपदार्थप्रधानो बहुव्रीहिः, उभयपदार्थप्रधानो द्वन्द्वः, इत्यपि प्राचां वादः प्रायोऽभिप्रायः । सूपप्रति उन्मत्तगङ्गम् इत्यायव्ययीभावे प्रतिमालादो तत्पुरुष, द्वित्राः इत्यादिबहुव्रीही, मिति । यद्यपि वृत्तावेव समुदायशक्त्या विशिष्टैकार्थप्रतिपादकता, नतु वाक्ये इति समर्थसूत्रे भाष्ये प्रपच्चितम् । तथाति समासवृत्तियोग्यविभक्त्यन्तपदानां पृथक्प्रयुज्यमानानां समूहो विग्रहवाक्यमिति बोध्यम् । परिनिष्ठितत्वादिति । व्याकरणसंस्कृतत्वादित्यर्थः । प्रयोगानह इति । व्याकरणसंस्कृत वाभावादित्यर्थः । यथेत्युदाहरणप्रदर्शने । राज्ञः पुरुष इति । लौकिकविग्रहनक्यमिति शेषः । राजन् अस् पुरुष सु इति । अलौकिकविग्रहवाक्यमिति ३'षः । अविग्रहो नित्यसमास इति । लौकिकविग्रहवाक्यरहित इत्यर्थः, समासस्य नित्यत्वादिति भावः । अस्वपदेति । समस्यमानपदसमानार्थकपदान्तरकृतविग्रहो वा नित्यसमास इत्यर्थः । संज्ञाविषयसमासे तु वाक्येन संज्ञानवगमेऽपि वृत्तिघटकपदज्ञापनाय समस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव । तत्र समासनित्य ववादस्तु वाक्यस्य वृत्तिसमानार्थकत्वाभावाद् गौण इत्याहुः । चतुर्विध इति । अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वश्चेति चतुर्विध इत्यर्थः । प्रायोवाद इति प्रायस् इत्यव्ययं बाहुल्ये । बाहुल्याभिप्रायकश्च तस्य चातुर्विध्यप्रवाद इत्यर्थः । कुत इत्यत आहअव्ययीभावेति । बहिर्भूतानामपीति । समासानामिति शेषः । प्रायोऽभिप्राय इति । बाहुल्यतात्पर्यक इत्यर्थः । सूपप्रतीति । इह द्वन्द्वे चेत्यनन्तरं श्रतमभावादिति पदम् अव्ययीभावे इत्यनन्तरं, तत्पुरुषे इत्यनन्तरं, बहुव्रीहावित्यनन्तरं चान्वेति । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्रधानतया, उन्मत्तगङ्गं देशः, लोहितगङ्गं देशः, इत्यव्ययीभावेऽन्यपदार्थप्रधानतया पूर्वपदार्थप्राधान्याभावादित्यर्थः । अतिमालादौ तत्पुरुष पूर्वपदार्थप्रधानतया उत्तरपदार्थप्राधान्याभावादित्यर्थः । द्वित्रा इति बहुव्रीहौ उभयपदार्थप्रधानतयाऽन्यपदार्थप्राधान्याभावादित्यर्थः । दन्तोष्टमित्यादिद्वन्द्वे समाहारच विशेषणयोगो न' इत्यभ्युपगमादित्येके । समर्थसत्रे कैयटस्त्वाह-- परस्य शब्दस्य योऽर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिरित्यर्थः । यथा राजपुरुष इत्यत्र राज. शब्देन वाक्यावस्थायामनुक्तः पुरुषार्थोऽभिधीयते' इति । अविग्रह इति । लौकिकविग्रहरहित इत्यर्थः। अखपदेति । समस्यमानयावत्पदाघटित इत्यर्थः । Page #220 -------------------------------------------------------------------------- ________________ प्रकरणम् २२] बालमनोरमा-तत्त्वबोधिनीसहिता। [२१७ दन्तोष्टम् इत्यादिद्वन्द्वे चाभावात् । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदत्वं द्वन्दबहुव्रीह्योरेव । तत्पुरुषस्य कचिदेवेत्युक्तम् । किं च । सुपा सुपा तिला नाम्ना धातुनाऽथ तिलां तिङा। सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः ॥ सुपा सुपा, राजपुरुषः । तिडा, पर्यभूषयत् । नाना, कुम्भकास । धातुना, कटप्रूः, अजस्रम् । तिहां तिङा, पिबतखादता । खादतमोदता । तिहां सुपा । स्यैव प्रधानतया उभयपदार्थप्राधान्याभावादित्यर्थः । तत्पुरुषविशेषः कर्मधारय इति । 'तत्पुरुषः समानाधिकरणः कर्मधारयः' इत्युक्तरिति भावः । तद्विशेषो द्विगुरिति । कर्मधारयविशेष इत्यर्थः । 'संख्यापूर्वो द्विगुः' इत्यादिरिति भावः । अनेकपदत्वमिति । द्वित्रिचतुरादिपदकत्वमित्यर्थः । 'अनेकमन्यपदार्थे' इति बहुव्रीहिगतस्यानेकग्रहणस्य द्वन्द्वविधावप्यनुवृत्तेरिति भावः। क्वचिदेवेति । ह्यह्नजात इत्यादावित्यर्थः । इत्युक्तमिति । भाष्यादाविति शेषः । किंचेति । अव्ययमिदं विशेषान्तरप्रदर्शने । सुपां सुपेति । सुबन्तानां सुबन्तेन तिङन्तेन प्रातिपदिकेन धातुना च समासः । अथेति पूर्ववाक्यव्यवच्छेदे । तिङामिति । तिङन्तानां तिङन्तेन सुबन्तेन च समास इत्येवं षड्विधः समासो ज्ञेय इत्यर्थः । सुपेति । सुपेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । राजपुरुष इति । राज्ञ इत्यस्य षष्ठयन्तस्य पुरुष इति सुबन्तेन समासः । तिङेति । सुपां तित्यस्योदाहरणं वक्ष्यत इत्यर्थः । पर्यभूषयदिति । 'सह सुपा' इत्यत्र सहेति योगविभागात् परीत सुबन्तस्य तिङन्तेन समासः । नाम्नेति । सुपां प्रातिपदिकेन समास उदाहरणं वक्ष्यत इत्यर्थः । कुम्भकार इति । 'उपपदमति' इति कुम्भस्येति षष्ठयन्तस्य कारेति प्रातिपदिकेन समासः, 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इत्युक्तरिति भावः । धातुनेति । सुपां धातुना समासे उदाहरणं वक्ष्यत इत्यर्थः । कटप्ररिति । 'क्विब्वचिप्रच्छ्यायतस्तुकटप्रजुश्रीणां दीर्घोऽसंप्र. सारणं च' इति वार्तिकेन 'प्र गतौ' इति धातुना समासो निपातितः, नतु तिबन्तेनोपपदसमासं इति भ्रमितव्यम् , विविधाविह सप्तमीनिर्देशाभावेन उपपदत्वाभावात् । अथ सुपां धातुनोदाहरणान्तरमाह-अजस्रमिति । 'नमिकम्पिस्म्यजसकमिहिंसद्वन्द्वबहुवीह्योरेवेति । अनेकग्रहणतदनुवृत्तिभ्यां तद्विधानाद्बहुपदसमासत्वं तयोरेव संभवतीति भावः । क्वचिदेवेति । यह्नजात इत्यादौ। नान्नेति । प्रातिपदिकेनेत्यर्थः । कुम्भकार इति । अत्र हि सुबुत्पत्तेः प्रागेवोपपदसमासः । कटप्रः । अजस्र Page #221 -------------------------------------------------------------------------- ________________ २१८ ] सिद्धान्तकौमुदी। [सर्वसमासान्त कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा । एहीडादयोऽन्यपदार्थे इति मयूरग्यसकादौ पाठात्समासः । इति सर्वसमासशेषप्रकरणम् । अथ सर्वसमासान्तप्रकरणम् । २३ । ६४० ऋक्पूरब्धूःपथामानक्षे । (५-४-७४) अ भनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात् , अक्षे या धूस्तदन्तस्य तु न । दीपो रः' इति सूत्रे रप्रत्ययविधौ जसधातुना सह नसमासो निपातितः । तिङां तिति । समासे उदाहरणं वक्ष्यत इत्यर्थः । पिबतखादतेति । मयूरव्यंसकादित्वात् तिङन्तस्य तिङन्तेन समासः । तिङ सुपेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । कृन्तविचक्षणेति । हे विचक्षण कृन्त छिन्द्धीत्यर्थः । इह तिङन्तस्य सुबन्तेन समासः कथमित्यत आह-एहीडादय इति । अत्र सुपां तिडेत्यनेनैव तिनं सुबन्तेनेत्यस्यापि ग्रहणात् समासस्य षड्विधत्वं चिन्त्यम् । पञ्चविधत्वमेव युक्तम् , उभयत्रापि सुप्तिङ्घटितत्वाविशेषादित्याहुः । अन्ये तु सुपां तित्यनेन सुबन्त. पूर्वपदकतिङन्तोत्तरपदकसमासस्य ग्रहणम् । तिडां सुबन्तेनेत्यनेन तु तिङन्तपूर्वपदकसुबन्तोत्तरपदकसमासस्य ग्रहणमित्याहुः। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां सर्वसमासशेषप्रकरणं समाप्तम् । अथ सर्वसमाससाधारणसमासान्ता निरूप्यन्ते-ऋक्पूरब्धः।छेद इति । सूत्रे अ इति लुप्तप्रथमान्तनिर्देश इति भावः । समासान्ता इत्यधिकृतम् । ऋगादिभिः समासो विशेष्यते । तदन्तविधिः । तदाह-ऋगाद्यन्तस्येति । ऋक्, पुर्, अप, मिति । किब्वचिपच्छि-' इति वार्तिके 'नमिकम्पि-' इति सूत्रे च 'कटप्रूः' 'अजस्रम्' इति निपातनाद्धातुना समासः । पिबतखादतेति । 'श्राख्यातमाख्यातेन-' इति मयूरव्यंसकादौ पाठात्समासः । इति तत्त्वबोधिन्यां सर्वसमासशेषप्रकरणम् । ऋक्पूरब्धूः। 'अ' इति लुप्तप्रथमैकवचनान्तं, 'समासान्ताः' इति त्वधिकियते तदाह-समासस्याप्रत्ययोऽन्तावयव इति । 'अनः' इत्येतत् सामान्यतः Page #222 -------------------------------------------------------------------------- ________________ प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२१६ अर्धर्चः । अनृचबढचावभ्येतर्येव । नेह, अनुक्साम । बक्सूकम् । विष्णोः पूर्विष्णुपुरम् । क्रीवत्वं लोकात् । विमलापं सरः । ६४१ यन्तरुपसर्गेभ्योऽप ईत् । (६-३-६७) अप इति कृतसमासान्तस्यानुकरणम् । षष्टयर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्वयोर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । धुर् , पथिन् एतदन्तस्येत्यर्थः । अप्रत्यय इति । अकारात्मकप्रत्यय इत्यर्थः । अक्षे या धूरिति । अक्षसंबन्धिनी या धूरित्यर्थः । सूत्रे संबन्धिनोऽधिकरणत्वविवक्षया अनक्षे इति सप्तमी । अनक्षे इति च धूशब्देनैव संबध्यते, अन्यैरसंभवादिति भावः । अर्धर्च इति । ऋचोऽर्धमिति विग्रहः । 'अर्ध नपुंसकम्' इति समासः । अकारः समासान्तः । 'अर्धर्चाः पुंसि च' इति पुंस्त्वम् । अनृचबवृचावध्येतर्येवेति । अविद्यमानाः ऋचः यस्येति विग्रहः । अनृचः केवलयजुरध्येता । बहवः ऋचः यस्येति बढ्चः ऋक्छःखी इत्युदाहरणम् । अध्येतर्येवेति नियमस्य प्रयोजनमाहनेहेति । अनुकूसामेति । अविद्यमानाः ऋचः यस्मिन्निति विग्रहः । ऋच्यनध्यूढं प्रजापतेर्हृदयं साम । बवृक्सूक्तमिति । बहवः ऋचः यस्मिन्निति विग्रहः । अथ पूरशब्दान्तस्योदाहरति-विष्णोरिति । ननु पूर्शब्दस्य स्त्रीत्वात् 'परवल्लिङ्गम्' इति विष्णुपुरशब्दस्य स्त्रीत्वं युक्तमित्यत आह-क्लीबत्वं लोकादिति । अथा शब्दान्तस्योदाहरति-विमलापं सर इति । विमलाः आपः यस्मिन्निति विग्रहः । द्वन्तरुप । कृतसमासान्तस्येति । अकारप्रत्ययान्तस्येत्यर्थः । एभ्य इति । द्वि अन्तर उपसर्ग एतेभ्य इत्यर्थः । अपस्येति । अकारप्रत्ययान्तस्याप्शब्द. स्येत्यर्थः । ईत्स्यादिति । 'आदेः परस्य' इति परिभाषया आदेरकारस्येत्यर्थः । द्वयोर्गता इति । द्वयोः पार्श्वयोर्गता आपो यस्मिन्निति विग्रहः । व्यधिकरणपदो श्रुतमपि धुरैव संबध्यते सामर्थ्यात् , नान्यरित्याशयेन व्याचष्टे-अक्षे या धूरिति । तदन्तस्य तु नेति । सूत्रे संबन्धिनोऽधिकरणत्वविवक्षया सप्तमी। तेन अक्षसंबन्धिनी या धूस्तदन्तस्य नेत्यर्थः । यद्यत्र 'अले पूर्वपदे न' इति व्याख्यायेत, तर्हि 'दृढधूरक्षः' इत्यत्र निषेधो न स्यात् । यदि तु 'अक्षे समासाथै न' इति व्याख्यायेत, तदा 'अक्षधूः' इत्यत्र न स्यात् । तस्मादुभयसंग्रहार्थमुक्तव्याख्यानमेव ज्यायः । अर्धर्च इति । अधं नपुंसकम्' इति समासः । 'अर्धर्चाः पुंसि च' इति पुंस्त्वम् । अनृगित्यादि । अनुक्तसमासान्तत्वात् 'शेषाद्विभाषा' इति कप्प्रत्यये 'अनृच्कम्' 'बहवृच्कम्' इत्यपि बोध्यम् । विष्णुपुरमिति । यद्यपि पुरशब्देन समासेऽप्येतत्सिध्यति, तथापि 'विष्णुपूः' इत्यनिष्टवारणाय सूत्रे पूर्ग्रहणम् । कृतसमासान्तस्येति । 'येन विधिः-' इति सूत्रे 'आपस्तिष्ठन्ति स्वापस्तिष्ठन्ति' इति भाष्यादिति भावः । अन्तरीप Page #223 -------------------------------------------------------------------------- ________________ २२० ] सिद्धान्तकौमुदी। [सर्वसमासान्तप्रतीपम् । समीपन् । 'समापो देवयजन'मिति तु समा भापो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणानेह, स्वप् स्वपी। 'अवर्णान्तावा' (वा २०४५)। प्रेपम् । परेपम् । प्रापम् । परापम् । ६४२ ऊदनोदेशे । (६-३-६८) अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अते तु अक्षधूः । दृढधूरक्षः । सखिपथः, बहुव्रीहिः । अकारप्रत्ययः, ईत्त्वं, सवर्णदीर्घश्च । अन्तरीपमिति । अन्तर्गता आपो यस्मिन्निति विग्रहः । प्रतीपमिति । प्रतिकूला आपो यस्मिन्निति विग्रहः । उपसर्गात् परत्वाद् ईत्त्वम् । समीपमिति । संगता आपो यस्मिन्निति विग्रहः । उपसर्गात् परस्योदाहरणान्तरमिदम् । समापो देवयजनमिति । श्रुतिरेषा । अत्र उपसर्गात् परत्वाभावाद् ईत्त्वं नेति भावः । देवा इज्यन्ते अस्मिन्निति देवयजनं यज्ञभूमिः । समाप इति पुंस्त्वं छान्दसम् । भाष्ये तु समाप ईत्त्वं नेत्युक्त्वा समापं नाम देवयजनमित्युदाहृतम् । तत्र समापशब्दो देवयजनविशेषवाच्येव विव क्षितः, 'समीपसमृद्धि' इति निर्देशात् , समीपमिति भाष्ये उदाहरणाच । स्वबिति । शोभना आपो यस्येति विग्रहः । 'न पूजनात्' इति समासान्तनिषेधः । अकृतसमासान्तत्वादीत्त्वं न । स्वपी इति । प्रथमाद्विवचनमिदम् । अवर्णान्ताद्वेति । अवर्णान्तादुपसर्गात् परस्यापत्य इत्त्वं वा वक्तव्यमित्यर्थः । प्रेपम् , प्रापमिति । प्रगता आपो यस्येति विग्रहः । परेपम् , परापमिति । परागता आपो यस्येति विग्रहः । ऊदनोदेशे । इत्त्वस्यापवादः । ऊत् स्यादिति। 'आदेः परस्य' इति ज्ञेयम् । अनूपो देश इति । अनुकूल! श्रापो यस्मिन्निति विग्रहः । अप्रत्ययः, ऊत्त्वं सवर्णदीर्घश्च । अनूप इत्यत्र ऊयोऽवग्रहणार्थ टी| चारणमिति भाष्यम् । बढचास्तु अनूपो गोमान् गोभिरित्यत्र नावगृह्णन्ति । तदेवम् ‘ऋक्पू:' मित्यादि । अन्तर्गताः, प्रतिकूलाः, संगताश्चापोऽस्मिन्निति विग्रहः । उपसर्गप्रहणं प्रादेरुपलक्षणार्थम् । समाप इति । अनुपसर्गत्वान्नेत्वमिति भावः । भाष्ये तु 'समाप ईत्त्वप्रतिषेधो वक्तव्यः' इत्युक्तम् । स च देवयजनरूपविशेषार्थपरः 'समीपसमृद्धि-' इति निर्देशात् , 'समीपम्' इति भाष्योदाहरणाचेति ज्ञेयम् । देवयजनमिति । देवा इज्यन्ते अस्मिन्निति व्युत्पत्त्या यज्ञभूमिः । स्वबिति । 'न पूजनात्' इति समासान्ताभावः । अवर्णान्तादेति । 'यन्तर्-' इति सूत्रे 'ईत्वमनवर्णात्' इति वक्तव्यम् । इह माभूत् 'प्रापं परापम्' इति भाष्योक्तेः, 'गतिश्च' इति सूत्रे 'प्रेपं परेपम्' इति भाष्योक्तश्चेति भावः । ऊदनोः । दीर्घोच्चारणं क्वचिच्छाखायामवप्रहार्थम् । बचास्तु 'अनूपे गोमान् गोभिः' इत्यत्रानूपशब्दं नावगृह्णन्ति । अनूप इति । अनुगता आपोऽस्मिनित्यनूपो देशः । 'जलप्रायमनूपं स्यात्' इत्यमरः । Page #224 -------------------------------------------------------------------------- ________________ प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२१ रम्यपथो देशः । ६४३ अप्रत्यन्ववपूर्वात्सामलोग्नः । (५-४-७५) एतत्पूर्वास्सामलोमान्तात्समासादस्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । 'कृष्णोदक्पाएदुसंख्यापूर्वाया भूमेरजिष्यते' (वा २०४६) कृष्णभूमः । उदग्भूमः । पाण्डुभूमः। द्विभूमः प्रासादः । 'संख्याया नदीगोदावरीभ्यां च' (वा ५०४७ )। पश्चनदम् । सप्तगोदावरम् । श्रच इति इति सूत्रगतः अप्शब्दः प्रपश्चितः । अथ धूशब्दान्तस्योदाहरति-राजधुरति । राज्ञो धूरिति विग्रहः । धूशब्दोऽत्र राज्ये लाक्षणिकः । अकारप्रत्ययः । 'परवलिङ्गम्' इति स्त्रीत्वम् । टाप् । अक्षे त्विति । अक्षसंबन्धिनी या धूस्तदन्ताद् . अकारप्रत्ययो न । अक्षधूरिति । अक्षो नाम रथावयवदण्डविशेषः, यदप्रयोश्चके आसज्येते तस्याक्षस्याग्रं धूः । अनेन 'अक्षे समासार्थे धुरो नाकारप्रत्ययः' इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम् । दृढधूरक्ष इति । दृढा धूर्यस्येति विग्रहः । एतेनाक्षे पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम् । तदेवम् 'ऋक्पूः' इति सूत्रे धूशब्दः प्रपञ्चितः । अथ पथिन्शब्दस्योदाहरति-सखिपथाविति । सस्वा च पन्थाश्चेति द्वन्द्वः । अकारप्रत्ययः । 'नस्तद्धिते' इति टिलोपः । सखिपथ इति पाठे तु सख्युः पन्थाः इति तत्पुरुषः । रम्यपथ इति । रम्यः पन्था यस्येति विग्रहः । अच्प्रत्यन्वव । एतत्पूर्वादिति । प्रति, अनु, अव एतत्पूर्वकादित्यर्थः । प्रतिसाममिति । प्रतिगतं सामेति विग्रहः । अच्, 'नस्तद्धिते' इति टिलोपः । अनुसाममिति । अनुगतं सामेति विग्रहः। अच् , टिलोपः । अवसाममिति । अवकृष्टं सामेति विग्रहः । अच, टिलोपः । प्रतिलोममिति । प्रतिगतं लोमेति विग्रहः । अनुलोममिति । अनुगतं लोमेति विग्रहः । अवलोममिति । अवगतं लोमेति विग्रहः । सर्वत्राच् , टिलोपः । कृष्णोदगिति । नेदं वार्तिकम् । किंत्वच्प्रत्येत्यत्र अजिति योगविभागमूलाभियुक्तोक्तिरेषा । कृष्णेति । कृष्णा भूमिः यस्य, उदीची भूमिः यस्य, पाण्डुः भूमिः यस्य, द्वे भूमी यस्य, तिस्रो भूमयः यस्येति च विग्रहः । प्रासादः सर्वत्र विशेष्यः । संख्याया इति । इदमप्यजिति योगविभागमूलकमेव । संख्यायाः परो यो नदीशब्दः गोदावरीशब्दश्च ताभ्यामजिष्यत इत्यर्थः । पञ्चनदमिति । पञ्चानां नदीनां समाहार इति विग्रहः । सप्तगोदावरमिति । सप्तानां गोदावरीणां समाहार इति विग्रहः । 'नदीभिश्च' इत्यव्ययीभावः । अचि 'यस्येति च' इति लोपः। प्रतिसाममिति । अव्ययीभावः प्रादिसमासो बहुव्रीहिर्वा । एवमनुसामादावप्यूह्यम् । कृष्णोदगिति । 'अच्' इति योगविभागेन गतार्थमिदम् । एवमुत्तरवार्तिकमपि । ------- ------ Page #225 -------------------------------------------------------------------------- ________________ २२२] सिद्धान्तकौमुदी। [सर्वसमासान्तयोगविभागादन्यत्रापि । पद्मनाभः । ६४४ अक्षणोऽदर्शनात् । (५-४-७६) अचचपर्यायादरणोऽस्यात्समासान्तः । गवामक्षीव गवाक्षः । ६४५ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्वसामवाङमनसाक्षिभ्रवदारगवोर्वष्टीवपदष्ठीवनक्कन्दिवरात्रिन्दिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषव्यायुषत्र्यायुषय॑जुषजातोक्षमहोवृद्धोक्षोपशुनगोष्ठश्वाः । (५-४-७७ ) एते पञ्चविंशतिरजन्ता निपात्यन्ते । श्राद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वारि यस्य अचतुरः । विचतुरः । सुचतुरः। 'ज्युपाभ्यां चतुरोऽजिष्यते' (वा ३३१)। त्रिचतुराः । चतुर्णा समीपे उपचतुराः । तत एकादश द्वन्द्वाः । 'नाव्ययीभावात्' इत्यम् । अन्यत्रापीति । अजिति शेषः। पद्मनाभ इति । पद्मं नाभौ यस्येति विग्रहः । वस्तुतस्तु योगविभागस्य भाष्येऽदर्शनात् पृषोदरादित्व. मेवोचितम् । अणोऽदर्शनात् । अदर्शनादिति च्छेदः । दृश्यतेऽनेनेति दर्शनं चक्षुः। करणे ल्युट् । अचक्षुर्वाचिन इति फलितम् । तदाह-अचतुःपर्यायादिति । गवामक्षीवेति । अक्षिशब्दस्तत्सदृशे लाक्षणिक इति सूचयितुमिवशब्दः प्रयुज्यते । मुख्यवृत्त्या चक्षुर्वाचकत्वाभावादच् । पुंस्त्वं लोकात् । अचतुर । आद्यास्त्रयो बहुव्रीहय इति । बहुव्रीहय एवेत्यर्थः । भाष्यवाक्यमिदम् । अचतुर इति । 'नोऽस्त्यर्थानाम्' इति विद्यमानपदलोपः । विचतुर इति । विगतानि चत्वारि यस्येति विग्रहः सुचतुर इति । सु शोभनानि चत्वारि यस्येति विग्रहः । 'न पूजनात्' इति निषेधो बाध्यते । त्र्युपाभ्यामिति । वार्तिकमिदम् । त्रि उप आभ्यां परो यश्चतुर्शब्दस्तस्मादजिष्यते । त्रिचतुरा इति । त्रयो वा चत्वारो वेति विग्रहः । 'संख्ययाव्ययासन्न' इति बहुव्रीहिः । 'बहुव्रीहौ संख्येये डच्' इति डचं बाधित्वाऽच् । डचि तु टिलोपः स्यात् । उपचतुरा इति । त्रयः पञ्च कृष्णभूम इत्यादयो बहुव्रीहयः । पद्मनाभ इति । ‘पद्मं नाभावस्य' इति विग्रहः । गड्वादित्वात्सप्तम्यन्तस्य परनिपातः । 'पद्माकारा नाभिरस्य' इति वा । एवमर्णनाभोऽपि ज्ञेयः । तत्र तु 'व्यापोः संज्ञाछन्दसोः' इति ह्रखो विशेषः । अक्षणो। दृश्यतेऽनेनेति दर्शनं चक्षुः, तद्वाचिनोऽक्षिशब्दस्य पयुदासादमुख्यस्य ग्रहणमित्याशयेनाहअचक्षुःपर्यायादिति । गवाक्ष इति । गावः किरणाः। अक्षिशब्दो रन्ध्रवाची, षष्टीसमासः । अचतुर । निपात्यन्त इति । निपातनफलं तु समासविशेषनियमः, टिलोपादिकं च तदाह-आद्या इति । बहुवीहय इति । बहुव्रीहय एवेत्यर्थः । तेन तत्पुरुषे अचत्वारो विचत्वार इत्येव भवतीति भावः । एवमुत्तरत्राप्यवधारणमृह्यम् । त्रिचतुरा इति । त्रयश्चत्वारो वेति विग्रहः । 'संख्ययाव्ययासन्ना-' इति Page #226 -------------------------------------------------------------------------- ________________ प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२३ मीपुंसौ। धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रवौ च अक्षिभ्रवम् । दारान गावश्च दारगवम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाटिलोपः। पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च ननन्दिवम् । रात्री च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा चाहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः। वेत्यर्थः । 'संख्ययाव्यय' इति बहुव्रीहिः । अच् । तत एकादश द्वन्द्वा इति । द्वन्द्वा एवेत्यर्थः । इदमपि भाष्यवाक्यम् । स्त्रीपुंसाविति । स्त्री च पुमांश्चेति विग्रहः । अच् । स्त्रीपुमांसाविति न भवति । धेन्वनडहाविति । धेनुश्च अनड्. वश्चिति विग्रहः । अच् । धेन्वनड्वाहाविति न भवति । समाहारद्वन्द्वे तु 'द्वन्द्वाच्चुदषहान्तात्' इत्येव सिद्धम् । ऋक्सामे इति । ऋक्च साम चेति विग्रहः । श्रच्, टिलोपः। ऋक्सामनी इति न भवति । वाङ्मनसे इति । वाक् च मनश्चेति विग्रहः । अच् । वाङ्मनसी इति न भवति । अक्षिभ्रवमिति । अच् 'प्राण्यङ्गत्वादेकवत्त्वम् । अक्षिश्रु इति न भवति । दारगवमिति । समाहारद्वन्द्वादच् । दारगु इति न भवति । इतरेतरयोगद्वन्द्वे तु दारगावः । ऊर्वष्ठीवमिति । प्राण्यङ्गत्वादेकवत्त्वम् । ऊरू सक्थिनी। अष्ठीवन्तौ जानुनी । 'सक्थि क्लीबे पुमानूरू:' इति, 'जानूरुपर्वाष्टीवदस्त्रियाम्' इति चामरः । नन्वडित्त्वादनान्तत्वाच्च कथं टिलोप इत्यत आह-निपातनाट्टिलोप इति । पदष्ठीवमिति । पादौ चाष्ठीवन्तौ चेति द्वन्द्वादच् । प्राण्यङ्गत्वादेकवत्त्वम् । नन्वभत्वात् कथमिह पादशब्दस्य पद्भाव इत्यत आह-निपातनादिति । नक्तमिति मान्तमव्ययम् । दिवेत्याकारान्तमव्ययम् । नक्तंदिवेति द्वन्द्वादच् । 'यस्येति च' इत्याकारलोपः, 'अव्ययीभावश्च' इत्यव्ययत्वम् , नपुंसकत्वं च । 'नाव्ययीभावात्' इत्यम्भावः। मान्तत्वमिति । रात्रौ च दिवा चेति द्वन्द्वे कृते सुब्लुकि कृते रात्रेन्तित्वं निपात्यत इत्यर्थः । 'यस्येति च' इति आकार. लोपः, अम्भावश्च । अहर्दिवमिति । द्वन्द्वे कृते सुब्लुकि, लुका लुप्ते प्रत्ययलक्षणं नेति प्रत्ययलक्षणाभावाद् 'रोऽसुपि' इति रत्वम् , अच्, 'यस्येति च' इत्याकारलोपः, अम्भावश्च । नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात् साहित्याभावात् कथमिह इन्द्रः । अहर्व्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपि 'विरूपाणामपि समानार्थकानाम्' इत्येकशेषो दुर्वार इत्यत अाह---वीप्सायां द्वन्द्वो निपात्यत इति । 'नित्यवीप्सयोः' बहुव्रीहिः । 'बहुव्रीहौ संख्येये' इति डचोऽपवादोऽच् । अक्षिभ्रवमिति । प्राण्यङ्गत्वादेकवत् । ऊरू चाष्टीवन्तौ चेति । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः । 'जानूरुपर्वाष्टीवदस्त्रियाम्' इति च । ऊर्वष्ठीवम् । पदष्ठीवमिति । प्राण्यङ्गत्वादेकवद्भावः। Page #227 -------------------------------------------------------------------------- ________________ २२४ ] सिद्धान्तकौमुदी । [ सर्वसमासान्त बहुव्रीहौ तु सरजः पङ्कजम्। निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान्पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । व्यायुषम् । ज्यायुषम् । ततौ द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोशः । महोत्रः । वृद्धोतः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोडे वा गोष्टश्वः । इति वीप्सायां द्विर्वचन कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यत इत्यर्थः । सरजसमिति । रजोऽप्यपरित्यज्य इत्यस्वपदविग्रहः । रजः धूलिः । साकल्ये सहशब्दस्य रजःशब्देनाव्ययीभावः । 'अव्ययीभावे चाकाले' इति सहशब्दस्य सभावः । अच् । व्ययीभाव इति । भाष्ये तथा वचनाद् अव्ययीभावस्य ग्रहणमिति भावः । सरजः पङ्कजमिति । रजोभिः परागैः सहेति विग्रहे 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । 'वोपसर्जनस्य' इति सहस्य सः । बहुव्रीहित्वाद् नाच् । निःश्रेयसमिति । कर्मधारयादच् । तत्पुरुष एवेति । तथा भाष्यादिति भावः । निःश्रेयानिति । निश्चितं श्रेयो यस्येति बहुव्रीहित्वान्नाच् इति भावः । ' ईयसश्च' इति निषेधान्न कप् । पुरुषायुषमिति । षष्ठीसमासाद् अजिति भाष्यम् । ततो द्विगुरिति । भाष्यवाक्यमिदम् । द्वयायुषम्, त्र्यायुषमिति । द्वयोरायुषोः समाहार इति, त्रयाणामायुषां समाहार इति च विग्रहः । ' तद्धितार्थे' इति द्विगोरच् । ततो द्वन्द्व इति । भाष्यवाक्यमिदम् । ऋग्यजुषमिति । ऋचश्च यजूंषि च एषां समाहार इति समाहारद्वन्द्वः । ततस्त्रयः कर्मधारया इति । तथा भाष्यादिति भावः । जातोऩ इति । जातश्चासावुक्षा चेति विग्रहः । अचि सत्युक्षन् शब्दे टिलोपः । महोक्ष इति । महांश्चासावुक्षा चेति विग्रहः । ' श्रन्महत ः' इत्यात्त्वम् । श्रचि टिलोपः । वृद्धोक्ष इति । वृद्धवासावुक्षा चेति विग्रहः । अचि टिलोपः । उपनमिति । अव्ययीभावादच्, तथा भाष्यात् । नन्वत्र 'नस्तद्धित' इति टिलोपः कुतो न स्यात् । 'अतद्धिते' इति पर्युदासात् 'श्वयुवमघोनामतद्धिते' इति कथं वा संप्रसारणं स्यादित्यत आह - टिलोपाभावः संप्रसारणं च निपात्यत इति । गोष्टभ्य इति । सप्तमीसमासादजिति भाष्यम् । श्रत एव भाष्यात् सप्तमीसमासः । टिलोपः । 'अतद्धिते' इति निषेधान्न संप्रसारणम् । षष्ठीतत्पुरुषे तु गोष्ठश्वा । द्वन्द्वो निपात्यत इति । 'विरूपाणामपि -' इत्येकशेषं बाधित्वेति शेषः । सरजसमिति । 'अव्ययीभावे चाकाले' इति सहस्य सभावः । सरजः पङ्कजमिति । ‘सरजसमकरन्दनिर्भरासु' इति माघ प्रयोगस्तु चिन्त्य इति भावः । निश्रेयानिति । 'निश्चितं श्रेयो येन' इति विग्रहः । 'निश्रेयस्कः' इति केषांचित्प्रत्युदाहरणमशुद्धम् । 'ईयसश्च' इति कपो निषेधात् । गोष्ठे श्वेति । एतेन 'सप्तमीतत्पुरुष एव इति Page #228 -------------------------------------------------------------------------- ________________ प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २२५ ६४६ ब्रह्महस्तिभ्यां वर्चसः । ( ५-४-७८ ) अस्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । 'पल्यराजभ्यां चेति वक्तव्यम्' ( बा ३३५२ ) । पश्यवर्चसम् । राजवर्चसम् । ६४७ अवसमन्धेभ्यस्तमसः । ( ५-४-७६ ) अवतमसम् । सन्तमसम् । अन्धयतीत्यन्धम्, पचाद्यच्, अन्धं तमोऽन्धतमसम् । ६४८ श्वसो वसीयःश्रेयसः । (५-४-८०) वसुशब्दः प्रशस्तवाची, तत ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्बिषयमाह । मयूरव्यंसकादित्वात्समाब्रह्म । शेषपूरणेन सूत्रं व्याचष्टे - अस्यादिति । ब्रह्मवर्चसमिति । ब्रह्मणो वर्च इति विग्रहः । हस्तिवर्चसमिति । हस्तिनो वर्च इति विग्रहः । पल्यराजभ्यामिति । श्रभ्यां परो यो वर्चश्शब्दः तस्मादपि अजिति वक्तव्यमित्यर्थः । पल्यवर्चसमिति । पलं मांसम्, तदर्हति पल्यः, मांसभोजीत्यर्थः, तस्य वर्च इति विग्रहः । राजवर्चसमिति । राज्ञा वर्च इति विग्रहः । श्रवसमन्धेभ्यस्तमसः । अव सम् अन्ध एभ्यः परो यस्तमश्शब्दस्तस्मादच्स्यादित्यर्थः । अवतमसमिति । वहीनं तम इति विग्रहः । प्रादिसमासः । संतमसमिति । संततं तम इति विग्रहः । प्रादिसमासः । अन्धयतीत्यन्धमिति । 'अन्ध दृष्टयपघाते' चुरादिः, दृष्टि प्रतिबध्नातीत्यर्थः । पचाद्यजिति । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इति पचादित्वप्रयुक्तोऽच्प्रत्यय इत्यर्थः । अचि णिलोपेऽन्धमिति रूपम् । गाढमित्यर्थः फलति । गाढस्यैव तमसो दर्शनप्रतिबन्धकत्वात् । अन्धतमसमिति । कर्मधारयादच् । श्वसः । श्वस् इत्यव्ययात् परो यो वसीयश्शब्दः श्रेयश्शब्दश्च तस्मादच् स्यादित्यर्थः वसुशब्दः प्रशस्तवाचीति । 'यं कामयेत वसीयान् स्यात्' इत्यादौ तथा दर्शनादिति भावः । तत इति । अतिशयेन वसुरिति विग्रहे 'द्विवचनविभज्योपपदे-' इतीयसुनि, ‘तुरिष्ठेमेयस्सु' इत्यनुवृत्तौ टेरिति टिलोपे वसीयश्शब्द इत्यर्थः । श्वस्शब्द इति । यद्यपि श्वस्शब्दः कालविशेषवाची, तथापि प्रकृते शब्दशक्तिस्वभावादुत्तरपदाभूतां प्रशंसाम् आशीर्विषयं द्योतयतीत्यर्थः । आशिषो विषय आशीर्विषयः, तमिति नियमो दर्शितः, तेन षष्ठीतत्पुरुष ' गोष्टश्वा' इत्येव । ब्रह्मवर्चसमिति । षष्ठीतत्पुरुषः । एवं हस्तिवर्चसमपि । पल्येति । 'पलं मांसमर्हति' इति पल्यो मांसभोजी, तदीयं वर्चः पल्यवर्चसम् । श्रवतमसमित्यादि । अवहीनं संततं च तमः इति विग्रहः । अन्धयतीति । 'अन्ध दृष्टयुपघाते' चुरादिः । अन्धमिति । गाढमित्यर्थः । श्वसो । 'वसुशब्दात्प्रशस्तवचनादीयसुन्' इत्याकरविरुद्धं व्याचक्षाणा उपेक्ष्या इति ध्वनयति - वसुशब्द इति । वसीय इति । 'यः कामयेत वसीयान् स्याम्' इति श्रौतप्रयोगोऽप्यत्रानुकूल इति भावः । श्वस्शब्द इति । कालवाच्यप्ययम्, Page #229 -------------------------------------------------------------------------- ________________ २२६ ] सिद्धान्तकौमुदी। [ सर्वसमासशेषसः। धोवसीयसम् । श्वःश्रेयसं ते भूयात्। ६४६ अन्ववतप्ताद्रहसः (५-४-८१) अनुरहसम् । अवरहसम् । तप्तरहसम् । ६५० प्रतेरुरसः सप्तमीस्थात् । (५-४-९२) उरसि प्रति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः। ६५१ अनुगवमायामे। (५-४-८३) एतनिपात्यते दीर्घत्वे । अनुगवं यानम् । 'यस्य चायामः' (सू ६७०) इति समासः । ६५२ द्विस्तावा त्रिस्तावा वेदिः । षष्टीसमासः । प्रशंसाविशेषणम् । विषयशब्दस्य नित्यपुंलिङ्गत्वाद् न स्त्रीलिङ्गता । एवं च श्वस्शब्द उत्तरपदार्थगतप्राशस्त्यद्योतक इति फलितोऽर्थः । ननु तर्हि श्वस्शब्दस्योत्तरपदार्थगतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याभावा कथं विशेषणसमास इत्यत आह-मयूरेति । तथाचाशीर्लिङादिप्रयोग एव अस्य साधुत्वमित्यभिप्रेत्योदाहरति-श्वोवसीयसमिति । अतिशयेन प्रशस्तमित्यर्थः । श्वःश्रेयसमिति । अतिशयेन प्रशस्तमिति विग्रहे प्रशस्तशब्दादीयमुन्, प्रशस्यस्य श्रः, 'प्रकृत्यैकाच्' इति प्रकृतिभावान टिलोपः, श्राद्गणः, श्रेयस् इति रूपम् । श्वस्शब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः । 'श्वःश्रेयसं शिवं भद्रम्' इत्यमरः । ते भूयादिति तु उभयत्रापि संबध्यते-श्वोवसीयसं ते भूयात् , श्वःश्रेयसं ते भूयादिति । अन्ववतप्ताद्रहसः । अनु अव तप्त एतेषां समाहारद्वन्द्वः । एभ्यः परो यो रह:शब्दः तस्मादच्स्यादित्यर्थः । रहः अप्रकाशप्रदेशः। अनुरहसमिति । अनुगतं रह इति विग्रहः । अवरहसमिति । अवहीनं रह इति विग्रहः। उभयत्र प्रादिसमासः। तप्तरहसमिति । तप्तं रह इति विग्रहः । प्रतेरुरसः। सप्तम्यर्थे द्योतकतया वर्तत इति सप्तमीस्थम् । सप्तम्यर्थद्योतकात् प्रतेः परो य उरश्शब्दः तस्मादच् स्यादित्यर्थः । उरसीति । अनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यत इत्यर्थः । सप्तम्यर्थद्योतकः प्रति । तस्य विभक्त्यर्थे विद्यमानस्य 'अव्ययं विभक्ति' इत्यादिना. ऽव्ययीभाव इति भावः । अनुगवमायामे । एतदिति । अनुगवमित्येतदित्यर्थः। अनुना दीर्घत्व द्योत्येऽच्प्रत्ययान्तो निपात्यत इत्यर्थः । आयामशब्दो दीर्घपर इति भावः । अनुगवं यानमिति । अनुगोशब्दादचि अवादेश इति भावः। यस्य प्रकृते त्वर्थविशेषपरः । शक्तिखाभाव्यात्तमेवाह-उत्तरपदार्थप्रशंसामिति । 'उत्तरपदार्थभूतां प्रशंसामित्यर्थः' । आशीविषयमिति । षष्टीसमासः । विषयशब्दस्याजहल्लिङ्गत्वात्पुंलिङ्गनिर्देशः । 'उत्तरपदार्थप्रशंसाया आशीविषयतामाह' इति पाठान्तरं क्वचिदस्ति । उभयथापि आशीविषयताया द्योतकोऽयमिति फलितोऽर्थः । अन्वव । इह 'रहः' इत्यप्रकाशमुच्यते । 'अनुगतमवहीनं च रहः' इति प्रादिसमासः। 'अनुगतं रहोऽस्मिन्' इत्यादिबहुव्रीहिर्वा । तप्तरहसमिति । 'तप्तं च तद्रहश्च' इति Page #230 -------------------------------------------------------------------------- ________________ प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२७ (५-४-८४ ) अप्रत्ययष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वा भश्वमेधादौ तत्रेदं निपातनम् । वेदिरिति किम्-द्विस्तावती त्रिस्तावती रज्जुः । ६५३ उपसर्गादध्वनः । (५-४-८५) प्रगतोऽध्वानं प्राध्वो रथः । ६५४ न पूजनात् । (५-४-६६) पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा । 'स्वतिभ्यामेव' (वा ३३४६) नेह-परमराजः। चेति । 'यस्य चायामः' इत्यव्ययीभावसमासः । तथा च गोयसदृशदैर्ध्यकं यानमित्यर्थः फलतीति भावः । द्विस्तावा । यावती प्रकृताविति । यतः अङ्गकलाप. स्यातिदेशः सा प्रकृतिः । अश्वमेधस्य प्रकृतिरग्निष्टोमः, तत्रानाताङ्गकलापानामश्वमेधेऽतिदेशात् । तदुक्तं कल्पसूत्रेषु 'सर्वसोमक्रतूनामग्निष्टोमः प्रकृतिः' इति । तस्मिन् अग्निष्टोमे वेदिपरिमाणं श्रुतम् । तत्र च 'त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची षट्त्रिंशत् प्राची चतुर्विंशतिः पुरस्तात्तिरश्ची' इति प्रकृती वेदिपरिमाणमुक्तम् । अस्यां तु वेद्यां ततो द्विगुणितं त्रिगुणितं च क्षेत्रपरिमाणमुक्तं कल्पसूत्रेषु 'अष्टाविंशत्यूनं पदसहस्रं महावेदिः' इति । पदग्रहणमत्र प्रक्रमस्याप्युपलक्षणम् । तथा च प्रकृतौ अग्निष्टोमे यावती वेदिः तदपेक्षया द्विगुणा त्रिगुणा वा अश्वमेधादौ वेदिरस्ति, तत्र श्राश्वमेधिकवेद्यामभिधेयायां द्विस्तावेति त्रिस्तावेति च भवतीत्यर्थः । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' 'द्वित्रिचतुर्व्यः सुच्' इति द्विशब्दात् क्रियाभ्यावृत्तौ सुचि कृते द्विरिति त्रिरिति च रूपम् । तत् प्राकृतं परिमाणम् अस्या अस्तीति तावती। प्राकृतपरिमाणति यावत् । द्विरिति तच्छब्दार्थे प्रकृतिपरिमाणेऽन्वेति । द्विः तावतीति विग्रहः । द्विरावृत्तं प्राकृतं यत् परिमाणं तद्वत्याश्वमेधिकी वेदिरित्यर्थः । अत एव निपातनात् समासः, अच्प्रत्ययः, तावतीशब्दस्य 'भस्याढे-' इति पुंवत्त्वे डीपो निवृत्ती प्रत्ययस्याडित्त्वेऽपि प्रकृतेर्नान्तत्वाभावेऽपि टिलोपः । द्विस्तावती त्रिस्तावती रज्जुरिति । अत्र वेद्यामप्रवृत्तेः अच्प्रत्ययटिलोपसमासा न भवन्तीत्यर्थः । तथा च प्रत्युदाहरणे द्विरिति भिन्नं पदम् । उपसर्गादध्वनः । उपसर्गात् परो योऽध्वन् शब्दः तस्मादच् स्यादित्यर्थः । प्राध्वो रथ इति । 'अत्यादयः-' इति समासादच् । 'नस्तद्धिते' इति टिलोपः । न पूजनात् । परेभ्य इत्यध्याहार्यम् । समासान्ता इति पूर्वसूत्रमनुवर्तते । तदाह-पूजनार्थादिति । 'पूजायां खतिग्रहणं कर्तव्यम्' इति वार्तिकमभिप्रेत्योदाहरति-सुराजेति । सु शोभनो राजेति प्रादिसमासः । अतिराजेति । पूज्यो राजेत्यर्थः । उभयत्रापि 'राजाहस्सखिभ्यः-' इति टच् न भवति । स्वतिभ्यामेवेति । खतिभ्यां परो यो राजन् शब्दः तस्मादेवेत्यर्थः, तथा वार्तिकाविग्रहः । परेणानधिगम्यमित्यर्थः । इत्यतः प्रागिति । 'प्राग्बहुव्रीहिग्रहणं कर्तव्यम् Page #231 -------------------------------------------------------------------------- ________________ २२८] सिद्धान्तकौमुदी। [सर्वसमासपूजनात् किम्-गामतिक्रान्तोऽतिगवः । 'बहुव्रीही सक्थ्यषणोः-' (सू ८५२) इत्यतः प्रागेवायं निषेधः । नेह-सुसक्थः, स्वक्षः । ६५५ किमः क्षेपे । (५-४-७०) क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः। कुत्सितो राजा किंराजा । किंसखा । किंगौः । चेपे किम्-किंराजः, किंसखः, किंगवः । १५६ नञस्तत्पुरुषात् । (५-४-७१) समासान्तो न । अराजा । असखा । तत्पुरुषात् किम्-मधुरं शकटम् । ६५७ पथो विभाषा । (५-४-७२) नम्पूर्वात्पथो वा समासान्तः । अपथम् , अपन्थाः । तत्पुरुषाद् इत्येव, भपथो देशः, अपथं वर्तते । इति सर्वसमासान्तप्रकरणम् । दिति भावः । नेहेति । निषेध इति शेषः। परमराज इति । परमश्चासौ राजा चेति विग्रहः । अतिगव इति । 'अत्यादयः-' इति समासः । अतेः पूजनार्थकत्वाभावाद् न टचो निषेधः । एवं परभराज इत्यत्रापि । इत्यतः प्रागिति । 'प्राग्बहुव्रीहिग्रहणं कर्तव्यम्' इति वार्तिकार्थसंग्रहोऽयम् । सुसक्थः स्वक्ष इति । सु शोभने सक्थिनी यस्य, सु शोभने अक्षिणी यस्येति च विग्रहः । 'बहुव्रीहौ सक्थ्यक्ष्णो:-' इति षच् । किमः क्षेपे। किंराजा । किं सखेति । इह 'राजाहस्सखिभ्यः' इति टच न भवति । 'किं क्षेये' इति समासः । किंराजः किंसख इति । किंशब्दोऽत्र प्रश्ने । कस्य राजा, को राजेति वा विग्रहः । निन्दानवगमाद् न टचो निषेधः । नत्रस्तत्पुरुषात् । शेषपूरणेन सूत्रं व्याचष्टे- समासान्तो नेति। नम्पूर्वपदात्तत्पुरुषात् समासान्तो नेति फलितम् । अधुरं शकटमिति । अविद्यमाना धूर्यस्येति विग्रहः । नञ्पूर्वपदत्वेऽप्यतत्पुरुषत्वात् 'ऋक्पू:.' इति समासान्तस्य न निषेधः । पथो विभाषा । पथ इति । पथिन्शब्दादित्यर्थः । अपथमिति । न पन्था इति विग्रहे नञ्तत्पुरुषः । 'ऋक्पू:-' इत्यप्रत्यये सति 'नस्तद्धिते' इति टिलोपः । ‘पथः संख्याव्ययादेः' इति नपुंसकत्वम् । अपन्था इति । अप्रत्ययाभावे रूपम् । तत्पुरुषादित्येवेति । अनुवर्तत एवेत्यर्थः । अपथो देश इति । अविद्यमानः पन्था यस्येति विग्रहः । बहुव्रीहित्वाद् 'ऋक्पू:-' इत्यप्रत्ययस्य पाक्षिको इति वार्तिकोक्लेरिति भावः । किमः क्षेपे । क्षेपग्रहणमिह शक्यमवक्तम् , प्रतिपदोक्तपरिभाषया 'किं क्षेपे' इति विहितसमासस्यैव ग्रहणात् । किंराज इत्यादि । किमत्र प्रश्ने । षष्टीसमासः कर्मधारयो वा । नञस्तत्पुरुषात् । 'नत्रः' इति षष्ठी, नमः संबन्धी यस्तत्पुरुषो नअवयवकस्तस्मादित्यर्थः । अपथमिति । 'नस्तद्धिते' इति Page #232 -------------------------------------------------------------------------- ________________ प्रकरणम् २३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२६ अथालुक्समासप्रकरणम् । २४ । ६५८ अलुगुत्तरपदे । (६-३-१) अलुगधिकारः प्रागानङः, उत्तरपदाधिकारस्वापादसमाप्तेः । ६५६ पञ्चम्याः स्तोकादिभ्यः। (६-३-२) एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्वोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छेभ्यः । उत्तरन निषेधः । अपथं वर्तत इति । अर्थाभावेऽव्ययीभावः । अतत्पुरुषत्वाद् 'ऋक्पू:-' इत्यप्रत्ययस्य न पाक्षिको निषेधः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां सर्वसमासान्तप्रकरणं समाप्तम् । अथालुक्समासो निरूप्यते-अलगुत्तरपदे । नायं विधिः, राजपुरुष इत्यादावतिप्रसङ्गात् , ‘पञ्चम्याः स्तोकादिभ्यः' इत्याद्यारम्भाच्च । किंतु पदद्वयमधिक्रियते । अस्य कियत्पर्यन्तमनुवृत्तिरित्यत आह-अलुगधिकारः प्रागानङ इति । 'आनवृतः-' इत्यतः प्रागित्यर्थः । उत्तरपदेति । षष्ठस्य तृतीये पादे श्राद्यमिदं सूत्रम् । इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः । अत्रोत्तरपदाधिकारनियमे भाष्यमेव प्रमाणम् । पञ्चम्याः स्तोकादिभ्यः। एभ्य इति । स्तोकादिभ्यः परा या पञ्चमी तस्याः 'सुपो धातु-' इति लुङ् न स्यादित्यर्थः । उत्तरपद इति । उत्तरशब्दः समासचरमावयवे रूढः, पदे इत्येव सिद्ध उत्तरग्रह. णात् । स्तोकान्मुक्त इति । एवमल्पान्मुक्तः । 'स्तोकान्तिकदूरार्थकृच्छ्राणि क्लेन' टिलोपः । 'अपथं नपुंसकम्' इति क्लीबत्वम् । अपथं वर्तत इति । अर्थाभावेऽव्ययीभावः । इति तत्त्वबोधिन्यां सकलसमाससाधारणसमासान्तप्रकरणम् । अलुक् स्यादिति । प्रसज्यप्रतिषेधोऽयम् । 'सुपो धातु-' इत्यादिना प्राप्तो लुङ् न भवतीत्यर्थः । स्तोकान्मुक्त इति । समासप्रयोजनमैकपद्यमैकवर्य विशेषणयोगाभावश्च । किंच 'स्तोकान्मुक्तस्यापत्यं स्तौकान्मुक्तिः' 'स्तोकान्मुक्तायाः स्तौकान्मुक्तेयः' इति समुदायात्तद्धितोत्पत्तिरपि प्रयोजनम् । न च प्राथमिकसामासिकलुको निषेधेन चरितार्थत्वाद्बाह्यस्तद्धितनिमित्तो लुग् दुरि इति शङ्कयम् , 'सुपो धातु-' इति शास्त्रस्यैकत्वादविशेषेण लुग्द्वयस्यापि निषेधाभ्युपगमात् । इह 'स्तोकान्तिक' इति समासशास्त्रपठिता एव स्तोकादयो गृह्यन्ते न तु 'करणे च स्तोकाल्पकृच्छ-' Page #233 -------------------------------------------------------------------------- ________________ २३० ] सिद्धान्तकौमुदी। [अलुक्समासपदे किम्-निष्क्रान्तः स्तोकाशितोकः । 'ब्राह्मणाच्छंसिन उपसंख्यानम्' (वा ३८७८) ब्राह्मणे विहितानि शस्त्राण्युपचाराद् ब्राह्मणानि, तानि शंसतीति ब्राह्मणाच्छंसी ऋस्विग्विशेषः । द्वितीयार्थे पञ्चमी उपसंख्यानादेव । ६६० प्रोजःसहोऽम्भस्तमसस्तृतीयायाः। (६-३-३) ओजसाकृतमित्यादि । 'अञ्जस इति समासः । अत्र पञ्चम्या अलुक् । एवमिति । श्रादिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः। अन्तिकादागतः, अभ्याशादागतः, दूरादागतः विप्रकृष्टादागतः, कृच्छ्रादागतः । निस्स्तोक इति । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाभावात् पञ्चम्या अलुङ् न । स्तोकान्मुक्त इत्यादौ समासप्रयोजनं तु समासस्वरः, सर्वस्मात् स्तोकान्मुक्त इति विशेषणयोगाभावश्च । किंच, स्तोकान्मुक्तस्यापत्यं स्तौकान्मुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च । स्तोकान्मुक्तौ स्तोकान्मुक्ता इति द्विबहुवचनान्तैः न समासः, अनभिधानादिति भाष्ये स्पष्टम् । ब्राह्मणाच्छंसिन उपसंख्यानमिति । पञ्चम्या अलुग् इति शेषः । ननु ब्राह्मणानि शंसतीत्यर्थे कथं पञ्चमी ? विधायकवाक्यानि हि ब्राह्मणशब्देनोच्यन्ते, 'कर्मचोदना ब्राह्मणानि' इति कल्पसूत्रात् , 'शेषे ब्राह्मणशब्दः' इति मन्त्रभिन्नवेदभागे ब्राह्मणशब्दस्य जैमिनिना संकेतितत्वाच्च । एतादृशब्राह्मणभागस्य न क्वापि शंसनं विहितम्-'ऋचः शंसति निविदः शंसति' इति श्रुतिष्वित्यत आह-ब्राह्मण इति । शस्त्राणीति । ऋचां निविदां च संघः शस्त्रम् । उपचारादिति । लक्षणयेत्यर्थः । द्वितीयार्थ इति । पञ्चम्या अलुगुपसंख्यानबलादेव द्वितीयार्थे पञ्चमीत्यर्थः । ओजस् । श्रोजस् , सहस् , अम्भस् , तमस् एषां समाहारद्वन्द्वः । एभ्यः परस्यास्तृतीयाया अलुक् स्यादुत्तरपद इत्यर्थः । प्रोजसाकृतमिति । 'कर्तृकरणे कृता बहुलम्' इति समासः । 'ओजो दीप्तौ बले' इत्यमरः । इत्यादीति । सहसाकृतम् , अम्भसाकृतम् । तमसावृतम् । तमोवृतइति सूत्रपठिताः । समासे सुपो लुकि प्रसक्ते विधीयमानेनालुक्शास्त्रेण समासशास्त्रपठितानामविलम्बेनोपस्थितेाप्तिन्यायाच्च । 'स्तोकान्तिक-' इत्यत्र ह्यर्थग्रहणादन्यान्यपि बहूनि गृह्यन्ते तदेतन्मनसि निधायाह-एवमिति । द्विवचनबहुवचनान्तानां तु समासो नेष्यते, अनभिधानात् । तेन 'स्तोकाभ्यां मुक्तः' इत्यादौ वाक्यमेव । शस्त्राणीति । 'प्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं स्तोत्रम्, अप्रगीतमन्त्रसाध्यगुणिनिष्टगुणाभिधानं शस्त्रम्' इति याज्ञिकानां व्यवहारः । ओजःस । प्रोजसा. कृतमिति । 'कर्तृकरणे कृता-' इति समासः । कथं तर्हि 'सततनैशतमोवृतमन्यतः' इति भारविः । अत्राहुः–'तु वर्तने' इत्यस्माद् 'घबर्थे कविधानम्' इति भावे Page #234 -------------------------------------------------------------------------- ________________ प्रकरणम् २४ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२३१ उपसख्यानम्' ( वा ३८८०)। अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः । 'पुंसानुजो जनुषान्ध इति च' (वा ३८८१) । यस्याग्रजः पुमान्स पुंसानुजः । जनुषान्धो जात्यन्धः । ६६१ मनसः संज्ञायाम् । (६-३-४) ममसागुप्ता । ६६२ आज्ञायिनि च । (६-३-५) मनस इत्येव । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी । १६३ आत्मनश्च । (६-३-६) प्रात्मनस्तृतीयाया अलुक्स्यात् । 'पूरण इति वक्तव्यम्' (वा ३८८२) पूरणप्रत्ययान्ते उत्तरपद इत्यर्थः । प्रारमनापञ्चमः । 'जनार्दनस्त्वात्मचतुर्थ एव इति बहुव्रीहिर्बोध्यः । मिति तु असाध्वेव । शेषषष्ठया वा समासः । अञ्जस उपसंख्यानमिति । अञ्जश्शब्दात् तृतीयाया अलुक उपसंख्यानमित्यर्थः अञ्जसाकृतमिति । अञ्जश्शब्द आर्जवे वर्तते, यथा क्षेत्रज्ञोऽजसा नयतीत्यादौ तथा दर्शनात् । तदाहआर्जवेनेति । पुंसानुजः । तृतीयाया अलुकि साधुरिति शेषः । यस्येति । यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति। 'जनुजननजन्मानि' इत्यमरः । जनुषा जन्मना अन्ध इत्यर्थः । फलितमाह-जात्यन्ध इति । ब्राह्मण्यादिजातितुल्यान्ध्यवानित्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् । मनसः संज्ञायाम् । मनसस्तृतीयाया अलुक् स्यादुत्तरपद इत्यर्थः । मनसागुप्तेति । कस्याश्चित् संज्ञेयम् । असंज्ञायां तु मनोगुप्ता । आज्ञायिनि च । मनस इत्येवेति । अनुवर्तत एवेत्यर्थः । मनसस्तृतीयाया अलुक् स्याद् आज्ञायिनि पर इत्यर्थः । असंज्ञार्थमिदम् । ज्ञातुमिति । प्रेरयितुमित्यर्थः । मनसाशायीति । 'सुप्यजातौ--' इति णिनिः । 'आतो युक्चिणकृतोः' इति युक् । अत्र सूत्रभाष्ये 'आत्मनश्च पूरण उपसंख्यानम्' इति वार्तिकं पठितम् । तत्रात्मनश्चेत्यंश व्याख्यातुं पृथगुपादत्ते-आत्मनश्चेति । चकारात्तृतीयाया अलुगिति चानुकृष्यत इत्याह-आत्मनस्तृतीयाया अलुगिति । उत्तरपदे पर इति शेषः। पूरण इति वक्तव्यमिति । नात्र पूरणशब्दो गृह्यते। किंतु स्वरितत्वबलेन पूरणाधिकारविहितप्रत्ययग्रहणात् 'प्रत्ययग्रहणे- इति तदन्तविधिरित्यभिप्रेत्याह-पूरणप्रत्ययान्त कप्रत्यये तदन्तेन षष्ठीसमासाश्रयणान्न दोष इति । यत्तु केवलपदाधिकार एव तदन्तविधिर्न तूत्तरपदाधिकारे, तथा च 'नैशतमसा' इति तृतीयाया अलुङ् न भवतीति दुर्घटवृत्त्यादावुक्तम् । तन्न । ‘पदाङ्गाधिकारे-' इत्यत्र 'इष्टकचितं, पक्केष्टकचितम्' इति भाष्योदाहरणादुत्तरपदाधिकारेऽपि तदन्तविधिप्रवृत्तेः । जनुषेति । 'जनुर्जनन जन्मानि' इत्यमरः । प्रात्मनापश्चम इति । 'तृतीया' इति योगविभागात् समासः । १ 'जन्मना' इत्यस्याप्रे 'हेतुना' इत्यपि क्वचित् पाठः । Page #235 -------------------------------------------------------------------------- ________________ २३२ ] सिद्धान्तकौमुदी। [अलुक्समासपूरणे किम्-प्रात्मकृतम् । ६६४ वैयाकरणाख्यायां चतुर्थ्याः । (६-३-७) श्रारमन इत्येव, आत्मनेपदम् , प्रारमनेभाषाः । तादर्थे चतुर्थी । चतुर्थी इति योगविभागात्समासः । ६६५ परस्य च । (६-३-८) परस्मैपदम् । परस्मैइति । आत्मनापञ्चम इति । आत्मा पञ्चम इत्यर्थः । प्रकृत्यादित्वात् प्रथमार्थे तृतीया । यद्वा आत्मकृतपञ्चमत्ववानित्यर्थः । करणे तृतीया । करोतिक्रियान्तर्भावण तस्याः 'तृतीया तत्कृता-' इति समासः । पक्षद्वयमपीदं भाष्ये स्थितम् । ननु संकर्षणप्रद्युम्नानिरुद्धास्त्रयो विष्णुव्यूहाः । जनार्दनस्तु एषां नियन्तेति विष्णुपुराणादौ स्थितम् । तत्रेदमाहुः पौराणिकाः-जनार्दनस्त्वात्मचतुर्थ एवेति । तत्र तृतीयाया अलुकि आत्मनाचतुर्थ इति भवितव्यमित्यत आह-जनार्दनस्त्विति । बहुव्रीहिरिति । आत्मा चतुर्थो यस्येति विग्रहे बहुव्रीहिरित्यर्थः । एकस्याप्यौपाधिकभेदं परिकल्प्य बृत्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीय मिति भावः । तदिदं भाष्ये स्पष्टम् । वैयाकरणाख्यायाम् । आत्मन इत्येवेति । अनुवर्तत एवेत्यर्थः। न च 'आत्मनश्च' इत्यस्य वार्तिकत्वे कथमिह सूत्रे एतदनुत्तिरिति वाच्यम् , 'सोऽपदादौ' इति सूत्रे पठितस्य 'काम्ये रोरेवेति वाच्यम्' इति वार्तिकस्य 'इणष्षः' इति सूत्रेऽनुवृत्तिवदुपपत्तेः । व्याकरणे भवा वैयाकरणी, सा चासावाख्या च वैयाकरणाख्या, तस्यां या चतुर्थी तस्या अलुगित्यर्थः । आत्मनेभाषेति । पूर्वाचार्यकृतमात्मनेपदस्य संज्ञान्तरमिदं धातुपाठे प्रसिद्धम् । तादर्थ्य चतुर्थीति । तथा चात्मने इत्यस्यात्मार्थमित्यर्थः । आत्मगामिनि फले प्रायेण तद्विधानादिति भावः । ननु प्रकृतिविकाराभावात् कथमिह तादर्थं चतुर्थ्याः समास इत्यत आहचतुर्थीति । योगविभागादिति । पस्पशाह्निकभाष्ये धर्माय नियमो धर्मनियम इति भाष्यमिह लिङ्गम् । परस्य च । वैयाकरणाख्यायां परशब्दस्यापि चतुर्थ्या इह प्रकृत्यादित्वात्प्रथमार्थे तृतीयेत्येके । 'आत्मना कृतः पञ्चमः' इति करोतिक्रियापेक्षा सेत्यन्ये । बहुव्रीहिर्बोध्य इति । एकस्याप्यौपाधिकभेदं परिकल्प्य वर्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः । वैयाकरणा। व्याकरणे भवा वैयाकरणी। 'अगयनादिभ्यः' इत्यण् । सा चासावाख्या चेति कर्मधारयः। आत्मन इत्येवेति। इह 'श्रात्मनः' इत्यननुवर्त्य 'वैयाकरणाख्यायां चतुझं अलुक्' इति व्याख्याने तु 'परस्य च' इत्युत्तरसूत्रं त्यक्तं शक्यमित्याहुः । आत्मनेभाषा इति । यद्यपीयमाख्या अष्टाध्याय्यां नास्ति, तथापि धातुपाठेऽस्तीति भावः । प्रकृतिविकृतिभावविरहाद् 'रन्धनाय स्थाली' इतिवत्समासाभावमाशङ्कयाह-योगविभागादिति । इहालुग्विधिसामर्थ्यादपि समासः सुवचः । परस्य च । परशब्दस्य च या चतुर्थी तस्या Page #236 -------------------------------------------------------------------------- ________________ प्रकरणम् २४] बालमनोरमा तत्त्वबोधिनीसहिता। [१३३ भाषाः । ६६६ हलदन्तात्सप्तम्याः संज्ञायाम् । (६-३-६) हलन्ताददन्ताश्च सप्तम्या अलुक्संज्ञायाम् । स्वचिसारः । ६६७ गवियुधिभ्यां स्थिरः। (८-३-६५) प्राभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक् । युधिष्ठिरः । अरण्येतिलकाः । अत्र 'संज्ञायाम् (सू ७२१) इति सप्तमीसमासः । 'हृद्युभ्यां च' (वा ३८८५)। हृदिस्पृक् । दिविस्पृक् । ६६८ कारनानि च प्राचां हलादौ । (६-३-१०) प्राचां देशे यत्कारनाम अलुगित्यर्थः । हलदन्तात् । त्वचिसार इति । अत एव ज्ञापकाद्वयधिकरणपदो बहुव्रीहिः । 'वंशे त्वक्सारकरित्वचिसारतृणध्वजाः' इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति-युधिष्ठिर इति । अत्र 'अजिरशिशिरस्थिर-' इत्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः । तत्र 'आदेशप्रत्यययोः' इति षत्वस्य 'सात्पदाद्योः' इति निषेधे प्राप्ते इदमारभ्यते-गवियुधिभ्यां स्थिरः । गवीति युधीति च सप्तम्या अनुकरणम् । स्थिर इति प्रथमा षष्ठयर्थे । 'सहेः साडः सः' इत्यस्मात् स इति षष्ठयन्तमनुवर्तते। 'अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् , तदाह-आभ्यामिति । ननु 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते' इति परिभाषया अवादेशात् पूर्वमेव डेर्लुकि प्रवृत्त हलन्तत्वाभावात् कथमिहालुगित्यत आह-अत्र गवीति । युधिष्ठिर इति । युध्धातो वे क्विपि युधशब्दात् सप्तम्येकवचनम् । हलन्तत्वादलुक्, षत्वं च । पाण्डवस्य धर्मपुत्रस्य नामेदम् । तंदवं हलन्तादलुकं प्रपञ्च्य अदन्तादलुकमुदाहरति-अरण्येतिलका इति । ननु तिलकशब्दस्य शौण्डादिगणेऽभावात् कथं तेन सप्तमीसमास इत्यत आह-अत्र संज्ञायामिति । हृद्युभ्यां चेति। हृच्छब्दाद् दिवशब्दाच सप्तम्या अलुग्वक्तव्य इत्यर्थः । असंज्ञार्थमिदम् । हृदिस्पृगिति। 'पद्दन्-' इति ङौ हृदयस्य हृदादेशः, हृदयं स्पृशतीत्यर्थः । दिविस्पृगिति । दिवं स्पृशतीत्यर्थः । इहोभयत्रापि सप्तम्या अलुम्विधानबलादेव कर्मणि सप्तमीति भाष्यम् । 'अमूर्धमस्तकात्-' इत्यनेन त्वलुग् न सिध्यति, तत्र संज्ञायामित्यनुवृत्तेः । कारनानि । यत् कारअलुक् स्याद्वैयाकरणाख्यायाम् । गवियुधि । स्थिरशब्दोऽयम् 'अजिरशिशिर-' इत्यौणादिकः किरच्प्रत्ययान्तस्तिष्ठतेर्निष्पन्नः । 'सात्पदाद्योः' इति निषेधे प्राप्ते वचनारम्भः । गवीति वचनादेवेति । न च लुकं बाधित्वा परत्वादन्तरङ्गत्वाचावादेशे 'हलदन्तात्सप्तम्या:-' इत्येवालुक् सिध्यतीति वाच्यम् , 'अन्तरङ्गानपि विधीन बहिरङ्गो लुग् बाधते' इति लुको बलीयस्त्वादिति भावः । हृदिस्पृक दिविस्पृगिति । हृदयं दिवं च स्पृशतीति विग्रहः । अलुग्विधिसामर्थ्याकर्मणि Page #237 -------------------------------------------------------------------------- ________________ २३४ ] सिद्धान्तकौमुदी । [ अलुक्समास 1 तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या श्रलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम्, कारनाम्न्येव प्राचामेव हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देशस्य नाम । प्राचां किम्-यूथपशुः । हलादौ किम् - अविकटोरणः । हलदन्तात् किम् - नद्यां दोहो नदीदोहः । ६६६ मध्याद् गुरौ । ( ६-३-११ ) मध्येगुरुः । ' श्रन्ताच्च' ( वा ३८६४ ) श्रन्तेगुरुः । ६७० अमूर्धमस्तकात्स्वाङ्गादकामे । ( ६-३-१२ ) कण्ठेकालः । उरसिलोमा । श्रमूर्धमस्तकात् किम् - मूर्धशिखः, मस्तकशिखः । श्रकामे किम्मुखे कामोsस्य मुखकामः । ६७१ बन्धे च विभाषा । ( ६-३-१३ ) हलदन्तात्सप्तम्या श्रलुक् । हस्तेबन्धः, हस्तबन्धः । हलदन्त इति किम्-गुप्तिबन्धः । ६७२ तत्पुरुषे कृति बहुलम् । ( ६-३ - १४ ) स्तम्बेरमः स्तम्बरमः कर्णेजपः, कर्णजपः । क्वचिन्न – कुरुचरः । ६७३ प्रावृद्वरत्कालदिवां जे । नामेति । राजग्राह्यो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः । नियमार्थमिति । प्राचां देशे हलादौ यदि भवति कारनाम्येव, कारनाम्नि हलादौ चेत् प्राचामेव, प्राचां कारनाम्नि चेद् हलादावेवेति नियमत्र्यार्थमित्यर्थः । विकटोरण इति । श्रविशब्दात् संघाते कटच्, उरणो मेषः । नद्यामिति । नधुत्तारणे तात्कालिको दोहः करः । मध्याद् गुरौ । गुरुशब्दे परे मध्यशब्दात् सप्तम्या अलुक् स्यादित्यर्थः । असंज्ञार्थमिदम् । अन्ताच्चेति । सप्तम्या अलुक् स्याद् गुरौ पर इत्यर्थः । अमूर्धमस्तकात् । मूर्धमस्तकशब्दवर्जितात् स्वाङ्गवाचकात् सप्तम्या अलुक् स्यात् नतु कामशब्दे उत्तरपद इत्यर्थः । अत्र संज्ञायामित्यनुवर्तते । त एव ‘हृद्द्युभ्यां च' इत्यत्र हृद्ग्रहणमर्थवत् । कण्ठेकाल इति । शिवस्य नाम । उरसिलोमेति । कस्यचिन्नाम । अत एव ज्ञापकाद् व्यधिकरणपदो बहुव्रीहिः । बन्धे च विभाषा । शेषपूरणेन सूत्रं व्याचष्टे - हलदन्तादिति । हस्तेबन्ध इति । संज्ञायामिति सप्तमीतत्पुरुषोऽयम् । इह तत्पुरुष इति संबध्यते, बन्ध इति घञन्तम्, अन्यत्र तु 'नेन्सिद्ध-' इति निषेध इति स्पष्टं भाष्ये । तत्पुरुषे कृति | तत्पुरुषे सप्तम्या बहुलमलुक् स्यात् कृदन्त उत्तरपदे संज्ञायामित्यर्थः । स्तम्बेरम इति । तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमो हस्ती । कजप इति । कर्णे जपति परदोषमुपांश्वाविष्करोतीति कजपः पिशुनः । ' स्तम्बकर्णयो रमिजपोः’ सप्तमी, कर्मणोऽधिकरणत्वविवक्षया वा । अविकठोरण इति । 'संघाते कटच् इति कटच्प्रत्ययान्तः । उरणो मेषः । बन्धे च विभाषा । बन्ध इति घञन्तः । हस्तेबन्ध इति । बहुव्रीहिरयम् । तत्पुरुषे तु 'नेन्सिद्धबध्नातिषु च' इति वक्ष्य " Page #238 -------------------------------------------------------------------------- ________________ प्रकरणम् २४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३५ (६-३-१५) प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः । ६७४ विभाषा वर्षक्षरशरवरात् । (६-३-१६) एभ्यः सप्तम्या अलुग्जे । वर्षजः, वर्षजः । हरेजः, क्षरजः । शरेजः, शरजः । वरेजः, वरजः। 8७५ घकालतनेषु कालनानः । (६-३-१७) सप्तम्या विभाषया लुक्स्यात् । घ-पूर्वाह्नेतरे, पूर्वाह्नतरे । पूर्वाळेतमे, पूर्वाह्नतमे । काल-पूर्वालेकाले, पूर्वाह्यकाले । तन-पूर्वाद्धेतने, पूर्वाह्नतने । ६७६ शयवासवासिष्वकालात् । (६-३-१८) खेशयः, खशयः । ग्रामेवासः, ग्रामवासः । ग्रामवासी, ग्रामवासी । 'हलदन्तात्' इत्येव, भूमिशयः । 'पो योनियन्मतुषु (वा ३८७६)। अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवः अप्सव्यः । अप्सुमन्ताइत्यच् । उपपदसमासः । क्वचिन्नेति । बहुलग्रहणादिति भावः । कुरुचर इति । 'चरेष्टः' इत्यधिकरण उपपदे चरेष्टः । उपपदसमासः । यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदम् , तथापि बहुलग्रहणादेव सिद्धे 'हलदन्ताद्' इति नानुवर्तनीयमिति भावः । प्रावृट्छरत् । प्राकृट, शरत् , काल, दिव , एषां सप्तम्या अलुक् स्याद् जशब्दे परे संज्ञायामित्यर्थः । ननु 'हलदन्तात्-' इत्येव सिद्धे किमर्थमिदमित्यत आहपूर्वस्यैवायं प्रपञ्च इति । विस्तर इत्यर्थः । विभाषा वर्ष । शेषपूरणेन सूत्रं व्याचष्टे-एभ्यस्सप्तम्या इति । घकालतनेषु । शेषपूरणेन सूत्रं व्याचष्टेसप्तम्या इति । घेति । घे पर उदाहरणसूचनमिदम् । 'तरप्तमपौ घः' । पूर्वाह्नेतर इति । अतिशायने सप्तम्यन्तात् तरप्तमपौ । अत एव तत्तद्विभक्त्यन्तात् तरप्तमपाविति विज्ञायते । कालेति । उदाहरणसूचनमिदम् । पूर्वाह्नकाल इति । अत एव विशेषणादिसमासोऽपि तत्तद्विभक्त्यन्तानामेव । तनेति । उदाहरणसूचनमिदम् । पूर्वाह्नेतन इति । 'विभाषा पूर्वाह्णापरालाभ्याम्' इति टयटयलौ तुट् च । शयवास । शय, वास, वासिन् एतेषु परेषु कालभिन्नात् सप्तम्या अलुक् स्यादित्यर्थः। अपो योनि । योनिशब्दे यत्प्रत्यये मतुपि च परेऽप्शब्दात् सप्तम्या अलुक् स्यादित्यर्थः । अपसव्य इति । दिगादित्वाद्यत् । 'श्रोर्गुणः'। 'वान्तो यि-'इत्यवादेशः । अप्सुमन्ताविति । अप्सु इति पदं यदीयमन्त्रयोरस्ति तावासुमन्तौ, आज्यभागामाणेन निषेध एवेत्याहुः । अप्सव्य इति दिगादित्वाद्यति ओर्गुणे वान्तादेशः । प्राचा तु यतः स्थाने जं पठित्वा 'अप्सुजः' इत्युदाहृतम्, तदाकरविरुद्धम् । 'जे चरे च नक्तम् अप्सुजः अप्सुचरः' इति भाष्ये वचनान्तरदर्शनाच्च । केचित्तु 'अप्सुजः' इत्युक्तोदाहरणद्वयेऽपि 'हलदन्तात्-' इत्यलुकमाहुः । अप्सुमन्ताविति । कारीर्याम् 'अप्स्वमे सधिष्ठव', 'अप्सु मे सोमो अब्रवीत्' इत्याज्यभाग Page #239 -------------------------------------------------------------------------- ________________ २३६ ] सिद्धान्तकौमुदी। [अलुक्समासवाज्यभागौ । ६७७ नेन्सिद्धबध्नातिषु च । (६-३-१६) इन्नन्तादिषु सप्तम्या अलुग्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबद्धः । १७८ स्थे च भाषायाम् । (६-३-२०) सप्तम्या अलुग्न । समस्थः । भाषायां किम्कृष्णोऽस्याः खरेष्ठः । ६७६ षष्ठया आक्रोशे । (६-३-२१ ) चौरस्यकुलम् । आक्रोशे किम्-ब्राह्मणकुलम् । 'वाग्दिक्पश्यद्यो युक्रिदण्डहरेषु' (वा ३८६७) वाचोयुक्निः । दिशोदण्डः । पश्यतोहरः। 'प्रामुष्यायणामुष्यपुत्रिकामुष्यकुनिकेति च' ( वा ३८६८-३८६६) अमुष्यापत्यमामुष्यायणः । नडादित्वास्फक् । विति कर्मविशेषौ । नेन्सिद्धबध्नातिषु च । चक्रबद्ध इति । साधनं कृता इति क्तान्तेन सप्तम्यन्तस्य समासः। स्थे च भाषायाम् । 'अनन्तरस्य-' इति न्यायात्। तत्पुरुषे कृति' इत्यस्यैवायं निषेधः । अत एव 'अनेकमन्यपदार्थे' इति सूत्रभाष्ये 'सप्तम्युपमानपूर्वपदस्य-' इति वार्तिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः संगच्छते। यदा तु अमूर्धमस्तकात्-' इत्यस्याप्ययं निषेधः स्यात्तर्हि तदसंगतिः स्यात् , लुकप्रसङ्गात् । षष्ठया आक्रोशे । अलुगुत्तरपद इति शेषः । श्राक्रोशो निन्दा । वाग्दिक। वाक्, दिक् , पश्यत्-एतेभ्यः परस्याः षष्ठया अलुक् स्याद् युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति । पश्यन्तमनाहत्य हरतीत्यर्थः । षष्ठी चानादरे' इति षष्ठी। प्रामुष्यायणेति। वार्तिकमिदम् । एते निपात्यन्ते । अमुष्येति । अमुष्यापत्यमित्यर्थे 'नडादिभ्यः फक्' इति फकि प्रायन्नादेशे श्रादिवृद्धौ तद्धितान्तत्वात् प्रातिपदिकतया तदवयवत्वात् मन्त्री स्तः। तत्र ह्यप्सुशब्दोऽस्तीति तद्वारा आज्यभागयोरप्यप्सुमत्त्वम् । प्राचा तु 'मतिषु' इति पठित्वा 'अप्सुमतिः' इत्युदाहृतम् । अत्र केचित्-अप्स्वित्येतदनुकरणशब्दः, सप्तम्यन्तो वा । श्राद्य सप्तम्यन्तात्प्रथमाया अभावेन मतुबेव दुर्लभः । अन्त्ये तु लुकः प्राप्तिरेव नास्ति सप्तम्यभावात् । तथा च 'मतिषु' इति प्राचोक्तः पाठ एव युक्तः । न च स पाठो भाष्यादौ न दृष्ट इति वाच्यम् , 'मतिषु' इति पाठस्य 'अप्सुमतिः' इत्युदाहरणस्य च भाष्यवृत्त्यादिपुस्तकेषु दृश्यमानत्वेन मतुष्विति पाठस्यैव क्वाप्यदर्शनाद् व्यर्थत्वाच । 'अस्यवामीयम्' 'कथाशुभीयम्', इत्यादाविव लुकि कर्तव्ये 'प्रकृतिवदनुकरणम्' इत्यतिदेशाप्रवृत्त्येवष्टसिद्धरित्याहुः । नेन्सिद्धब। चक्रबन्ध इति । 'तत्पुरुषे' इत्यनुवृत्तेस्तत्पुरुष एवायं निषेधः । बहुव्रीहौ तु 'बन्ध च विभाषा' इति विकल्प एव । पश्यतोहर इति । 'पश्यन्तमनादृत्य हरति' Page #240 -------------------------------------------------------------------------- ________________ प्रकरणम् २४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३७ अमुष्यपुत्रस्य भावः प्रामुष्यपुत्रिका । मनोज्ञादिस्वादुम् । एवमामुष्यकुलिका । 'देवानांप्रिय इति च मूर्खे' (वा ३६००)। अन्यत्र देवप्रियः । 'शेपपुच्छलाङ्गलेषु शुनः' (वा ३९०१)। शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गलः । 'दिवसश्च दासे' ( वा ३१०२) दिवोदासः । ६८० पुत्रेऽन्यतरस्याम् । (६-३-२२) षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रो दासीपुत्रः । निन्दायां किम् । ब्राहाणीपुत्रः । ६८१ ऋतो विद्यायोनिसम्बन्धेभ्यः । (६-३-२३) विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तात्षष्ट्या अलुक् । होतुरन्तेवासी । होतुःपुत्रः। पितुप्राप्तस्य सुब्लुको निषेध नस्य णत्वे प्रामुष्यायण इति रूपमित्यर्थः । अमुष्य पुत्र इति विग्रहे षष्टीसमासे षष्ठया अलुकि अमुष्यपुत्रशब्दः। अमुष्यपुत्रस्य भाव इत्यर्थे 'द्वन्द्वमनोज्ञादिभ्यश्च' इति वुनि अकादेश पुत्रशब्दात् सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापि 'प्रत्ययस्थात्-' इतीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः । एवमिति । अमुष्य कुलमिति षष्ठीसमासे षष्ठया अलुकि अमुष्यकुलशब्दाद्वादिः पूर्ववदित्यर्थः । देवानामिति । वार्तिकमिदम् । मूर्खः अज्ञः । दिवु क्रीडायाम् । देवाः क्रीडासक्ला मूर्खाः, तेषां प्रियोऽपि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादिति 'अजेर्वी-' इत्यत्र कैयटः । शेपपुच्छेति । वार्तिकमिदम् । षष्ठया अलुगिति शेषः। संज्ञायामिति भाष्यम् । शुनश्शप इति । शुनः शेप इव शेपो यस्येति विग्रहः । 'मेद्रो मेहनशेफसी' इत्यमरः । शेफशब्दोऽप्यस्ति, 'शेफाय स्वाहा' इति दर्शनात् । शुनःपुच्छ इति । शुनः पुच्छमिव पुच्छं यस्येति विग्रहः । एवं शुनोलाङ्गल इत्यपि । ऋषिविशेषाणां संज्ञा एताः । दिवश्च दास इति । वार्तिकम् । षष्ठया अलुगिति शेषः दिवोदास इति । कश्चिद्राजर्षिरयम्। पुत्रेऽन्यतरस्याम् । निन्दायामिति । आक्रोशे इत्यनुवृत्तिलभ्यमिदम् । स्पष्टं चेदम् 'आनकृतः-' इत्यत्र भाष्ये ऋतो विद्या । एकत्वे बहुवचनम् । तदाह - विद्यासंबन्धयोनिसंबन्ध. इत्यर्थः । 'षष्ठी चानादरे' इति षष्टी । देवानामिति । मूर्खा हि देवानां प्रीति जनयन्ति देवपशुत्वादिति मनोरमा। अयं भावः-ब्रह्मज्ञानरहितत्वात्संसारिणो मूर्खाः। ते तु यागादिकर्माण्यनुतिष्ठन्तः पुरोडाशादिप्रदानद्वारा देवानामत्यन्तं प्रीति जनयन्ति । ब्रह्मज्ञानिनस्तु न तथा, तेषां यागाद्यनुष्ठानाभावात् । अतो गवादिस्थानापन्नत्वान्मूर्खा एव देवपशव इति । शेपपुच्छेति । शुन इव शेपमस्य शुनःशेपः । 'शेफ' इति क्वचित् पाठः । २ अमरकोश तु–'शिश्नो मेट्रं मेहनशेफसी-' इति पाठ उपलभ्यते । Page #241 -------------------------------------------------------------------------- ________________ २३८ ] सिद्धान्तकौमुदी | [ अलुक्समास । रन्तेवासी। पितुःपुत्रः। ‘विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम्' (वा ३६०३) नेह — होतृधनम् । ६८२ विभाषा स्वसृपत्योः । ( ६-३ - २४ ) ऋदन्तास्षष्ठया अलुग्वा स्वसृपत्योः परयोः । ६८३ मातुः पितुभ्र्भ्यामन्यतरस्याम् ( ८-३ - ८५ ) श्राभ्यां स्वसुः सस्य षो वा स्यात्समासे । मातुःष्वसा मातु:स्वसा । पितुःष्वसा पितुःस्वसा । लुक्पक्षे तु - ६८४ मातृपितृभ्यां स्वसा । ( ८-३-८४ ) आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृवाचिन ऋदन्तादिति । श्रलुक् स्यादिति । उत्तरपदे परत इति शेषः । विद्यासंबन्धवाचिनमुदाहरति-— होतुरन्तेवासीति । ऋग्वेदविहितकर्मविशेषकर्ता होता । अतो होतृशब्दो विद्यासंबन्धप्रवृत्तिनिमित्तक इति भावः । होतुः पुत्र इति । विद्यासंबन्धवाचिन उदाहरणान्तरमिदम् । अथ योनिसंबन्धवाचिनमुदाहरतिपितुरन्तेवासीति, पितुः पुत्र इति च । ननु होतृधनं पितृधनमित्यत्राप्यलुक् स्यादित्यत आह-विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणमिति । विद्यायोनिसंबन्धेभ्य इत्यत्र विद्यासंबन्धयोनिसंबन्धवाचिनोः पूर्वोत्तरपदयोर्ग्रहणमित्यर्थः । पूर्वोत्तरपदयोरुभयोरपि विद्यासंबन्ध योनिसंबन्धान्यतरवाचित्वं विवचितमिति भावः । होतृधनं पितृधनमित्यत्र उत्तरपदस्य विद्यासंबन्धयोनिसंबन्धान्यतरवाचित्वाभावाद् न षष्ठया अलुगिति भावः । अन्यतरसंबन्धवाचित्वस्य विवक्षितत्वादेव होतुः पुत्र इत्यादि सिद्धम् । विभाषा स्वसृपत्योः । ऋदन्तादिति । विद्यासंबन्धयोनिसंबन्धान्यतरवाचिन इति शेषः । ततश्च भोक्तृस्वसेत्यत्र नातिव्याप्तिः । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । अलुक्पक्षे विशेषमाह - मातुः पितुर्भ्यामन्यतरस्याम् । 'मातृपितृभ्यां स्वसा' इति पूर्वसूत्रात् स्वसेत्यनुवर्तते । षष्ठ्यर्थे प्रथमा । 'सहः साडस्स: ' इति सूत्रात् स इति षष्ठधन्तं पदमनुवर्तते । 'अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् । तदाह - भ्यामिति । मातुः पितुरिति षष्ठ्यन्ताभ्यामित्यर्थः । समास इति । ‘समासेऽङ्गुलेः सङ्गः' इत्यतस्तदनुवृत्तेरिति भावः । मातुःष्वसा पितुःष्वसेति श्रलुकि षत्वे रूपम् । मातुः स्वसा पितुः स्वसेत्यलुकि षत्वाभावे रूपम् । लुक्पक्षे त्विति । विशेषो वक्ष्यत इति शेषः । मातृपितृभ्यां स्वसा । स्वसुरिति । सूत्रे षष्ठ्यर्थे यद्यपि शेपस्शब्दः सकारान्तः 'गौर्लिङ्गं चिह्नशेपसोः' इत्यमर प्रयोगात् । तथापि शीङो निपातनादौणादिके पप्रत्यये अकारान्तोऽप्यस्त्येव । तथा च मन्त्रः 'यस्यामुशन्तः प्रहराम शेपम्' इति । 'चिह्नशेफयो:' इति पाठे तु शेफशब्दस्य सकारान्तत्वशङ्कव नास्तीति बोध्यम् । शुनः पुच्छ इत्यादावपि बहुव्रीहिः, त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः । ‘मातुःपितुर्भ्याम्—' इति सूत्रे 'समासेऽङ्गुलेः सङ्गः' इत्यतः समास इत्यनुवर्ति ु Page #242 -------------------------------------------------------------------------- ________________ प्रकरणम् २४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३६ वसा । असमासे तु-मातुःस्वसा, पितुःस्वसा । इत्यलुक्समासप्रकरणम् । nosot00अथ समासाश्रयविधिप्रकरणम् । २५ । ६८५ घरूपकल्पचेलबवगोत्रमतहतेषु ङयोऽनेकाचो हखः । (६-३-४३) भाषितपुंस्कायो डी तदन्तस्यानेकाचो हस्वः स्यादरूपकल्पपप्रत्ययेषु परेषु, चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । प्रथमेति भावः । मातृष्वसा, पितृष्वसेति । लुक्पक्षे नित्यमेव षत्वम् । आदेशप्रत्ययसकारत्वाभावादप्राप्ते षत्वविधिरयम् । षत्वविधौ समासग्रहणानुवृत्तेः फलं दर्शयति-असमासे त्विति । वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायाम् अलुक्समासप्रकरणं समाप्तम् । अथ समासाश्रयविधिनिरूप्यते-घरूप । उत्तरपदे इत्यधिकृतं चेलडादिध्वन्वेति, नतु घरूपकल्पेषु, घशब्दवाच्यतरप्तमपो रूपप्कल्पपोश्च प्रत्ययत्वात् । नच तदन्तग्रहणे सति तेषूत्तरपदत्वं संभवतीति वाच्यम् , 'हृदयस्य हृल्लेख-' इत्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाभाव इति भाष्य उक्तत्वात् । 'स्त्रियाः पुंवत्-' इत्यतो भाषितपुंस्कादित्यनुवृत्तम् । ड्य इति तदन्तग्रहणम् , केवलस्यानेकाच्वाभावात् । तदाह-भाषितपुंस्काद्यो ङी इति । एतदर्थमेव 'स्त्रियाः पुंवत्-' इत्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तम् । तत्र भाषितपुंस्काया इति षष्ठयन्तोपादाने तु इह तदनुवृत्तिर्न स्यात् , असंभवात् । नहि ङीप्प्रत्ययस्य तदन्तस्य भाषितपुंस्कत्वमस्ति। न च तत्रापि नार्थवत्स्याद् अनूङिति पर्युदासात् स्त्रीप्रत्ययलाभेन तदन्तस्थ भाषितपुंस्कत्वाभावादिति वाच्यम् , तत्र स्त्रिया इत्यस्वरितत्वात स्त्रीप्रत्ययग्रहणं नेत्युक्तत्वात् । ब्राह्मणितरा । ब्राह्मणितमेति । अतिशायने तरप्तमपौ। नच 'तसिलादिषु-' तम् , तत्फलं दर्शयति-असमासे त्विति । वाक्ये वैकल्पिकमपि षत्वं नेत्यर्थः । इत्यलुक्समासप्रकरणम् घरूपकल्प- 'तरप्तमपौ पः-' । 'प्रशंसायां रूपप्' । 'चिल वसने' । 'चेलट्' इति पचादौ टित्पठ्यते डीबर्थम् । प्रत्ययेष्विति । लेखग्रहणेन 'उत्तर Page #243 -------------------------------------------------------------------------- ________________ २४० ] सिद्धान्तकौमुदी। [समासाश्रयविधिब्रामाणिकल्पा । ब्राह्मणिचेली । ब्राह्मणिबुवा । ब्राह्मणिगोत्रा इत्यादि । अनः पचायचि वच्यादेशगुणयोरभावोऽपि निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः 'कुत्सितानि कुस्सनैः' (सू ५३२) इति समासः । ब्यः किम्-दत्तातरा । भाषितपुंस्कात् किम्-आमलकीतरा, कुवलीतरा । ६८६ नद्याःशेषस्यान्यतरस्याम् । (६-३-४४) अड्यन्तनद्या ड्यन्तस्यैकाचश्च घादिषु हस्खो वा स्यात् । ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा । स्त्रितरा, स्त्रीतरा । 'कृवद्या न' (वा ३६३८)। बचमीतरा । ६८७ उगितश्च । (६-३-४५) उगितः परा या इति पुंवत्त्वेन डीपो निवृत्तिः शङ्कया, 'जातेश्च' इति निषेधात् । ब्राह्मणिरूपेति । प्रशंसायां रूपप् । ब्राह्मणिकल्पेति । 'ईषदसमाप्तौ-' इति कल्पप् । ब्राह्मणिचेलीति । 'चिल वसने' तस्मादचि चेलडिति पचादौ पठितम् । टित्त्वाद् डीप् । इत्यादीति । ब्राह्मणिमता । ब्राह्मणिहता । ब्रा इति । ब्रञ्धातोरचि कृते 'ब्रुवो वचिः' इति वच्यादेशस्य लघूपधगुणस्य च अभावो निपात्यत इत्यर्थः । चेलडादीनीति । समासवृत्तिविषये चेलब्रवगोत्रमतहता इत्युत्तरपदानि कुत्सनवाचीनीति कृत्वा 'कुत्सितानि कुत्सनैः' इति कर्मधारय इत्यर्थः । आमलकीतरेति । आमलकीशब्दस्य वृक्षवाचित्वे नित्यस्त्रीलिङ्गत्वाद् भाषितपुंस्कत्वाभावेन न ह्रस्व इति भावः । ननु 'न पदान्त-' इति सूत्रे भाष्ये बिम्बबदर्यामलकशब्दानां भाषितपुंस्कत्वावगमात् कथमामलकीशब्दस्य वृक्षविशेषे नित्यस्त्रीलिङ्गत्वमित्यरुचेराह-कुवलीतरेति । वृक्षविशेषे नित्यस्त्रीलिङ्गोऽयमिति भावः । अमरस्तु 'कर्कन्धूर्बदरी कोली घोण्टा कुबलफेनिले' इति नपुंसकत्वमाह । नद्याःशेषस्यान्यतरस्याम् । उक्तादन्यः शेषः। ड्यन्तस्यानेकाच इति पूर्वसूत्रे स्थितम् , तदन्यत्वं च अनेकाचो ङयन्तत्वाभावे ब्यन्तस्यानेकाच्त्वाभावेऽपि संभवति । तदाह-अत्यन्तनद्या ड्यन्तस्यैकाचश्चेति । 'ऊकुतः' इति ब्रह्मबन्धुशब्द ऊन्तः । भाषितपुंस्कस्येति तु नेहानुवर्तत इत्येभिप्रेत्योदाहरति-स्त्रितरेति । कृन्नद्या नेति । कृदन्ता या नदी तस्या ह्रस्वो नेति वाच्यमित्यर्थः । लक्ष्मीतरेति । 'लक्षेमुट् च' इति औणादिक ईप्रत्यये मुडागमे पदाधिकारे प्रत्ययग्रहण तदन्तग्रहणं नास्ति' इति ज्ञापयिष्यत इति भावः । ब्राह्मणितरेति । 'जातश्च' इति निषेधात् 'तसिलादिषु ' इति न पुंवद्भावः । चेलीति । पचादौ 'चेलट्' इति पाठात् टिड्ढा-' इति ङीप् । आमलकीति । आमलकीकुवलीशब्दौ वृक्षे नित्यस्त्रिलिङ्गौ । नद्याः । उक्तादन्यः शेषः, स च द्विधेत्याहअड्यन्तेति । उपलक्षणमेतत् । 'भाषितपुंसक' इत्यपि नेह संबध्यत इत्याशयेनाह Page #244 -------------------------------------------------------------------------- ________________ प्रकरणम् २५] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २४१ नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा । हस्वाभावपक्षे तु 'तसिलादिषु -' ( सू ८३६ ) इति पुंवत् । विद्वत्तरा । वृत्यादिषु विदुषीतरा इत्यप्युदाहृतम्, तनिर्मूलम् । ६८८ हृदयस्य हृल्लेखयदण्लासेषु । (६-३-५०) हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हृल्लासः । लेख इत्यणन्तस्य ग्रहणम् । घञि तु हृदयलेखः । लेख ग्रहणं ज्ञापकम् 'उत्तरपदाधिकारे तदन्तविधिर्नास्ति' ( प २६ ) इति । ६८६ वा शोकप्य रोगेषु । ( ६-३-५१) हृच्छोकः, हृदयशोकः । सौहार्थम्, सौहृदय्यम् । हृद्रोगः, हृदयरोगः । हृदयशब्दपर्यायो हृच्छब्दोऽप्यस्ति, तेन सिद्धे प्रपञ्चार्थमिदम् । ६६० पादस्य पदाज्यातिगोपहतेषु । ( ६-३-५२) एषूत्तरपदेषु पादस्य च लक्ष्मीशब्दः कृदन्त इति भावः । उगितश्च । विदुषितरेति । 'विदेः शतुर्वसुः, इति वसुप्रत्ययः । उगिदन्तमिदम् । अनेकाच्त्वाद् 'नयाः शेषस्य -' इत्यस्याप्राप्तेरिदमिति भावः । विद्वत्तरेति । पुंवत्त्वे ङीपो निवृत्तौ विद्वत्तरेति रूपमित्यर्थः । तन्निर्मूलमिति । पुंवत्त्वस्य दुर्वारत्वादित्यर्थः । 'विद्वच्छ्रेयसोः पुंवत्त्वं न वक्तव्यम्' इति वृत्तिः । परन्तु वचनमिदं भाष्यादृष्टत्वादुपेच्यमिति भावः । अत्रोगितः परा या नदीति मूलं वर्णयोरेव नदीसंज्ञेति मताभिप्रायकम् । हृदयस्य । लेख, यत्, अण्, लास एषु परेषु हृदयस्य हृदादेश इत्यर्थः । हृदयं लिखतीति हृल्लेखः । कर्मण्यण् । हृदयस्य प्रियं हृद्यमिति । 'हृदयस्य प्रियः' इति यत्प्रत्ययः । हार्दमिति । 'तस्येदम्' इत्यण्, हृदादेशः । हृल्लास इति । घञन्तोऽयमिति भावः । लेखेत्यन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्यादिति प्राञ्चः । व्याख्यानादिति तत्त्वम् । तर्हि लेखग्रहणमेव व्यर्थम्, अणैव सिद्धेरित्यत आह-ज्ञापकमिति । ज्ञाप्यांशमाह - उत्तरपदाधिकारे तदन्तविधिर्नास्तीति । तत्फलं तु घरूपकल्पब्ग्रहणे तदन्तविध्यभावः । वा शोक । सौहार्द्यमिति । ब्राह्मणादित्वाद् भावे ष्यञि ‘हृद्भगसिन्ध्वन्ते-' इत्युभयपदवृद्धिः । सौहृदय्यमिति । भावे ष्यञ हृच्छब्दत्वाभावाद् आदिवृद्धौ 'यस्येति च' इति लोपे रूपमिति भावः । पादस्य स्त्रीतरेति । उगितः परा या नदीति । ईदूतोः केवलयोरपि नदीसंज्ञेत्याश्रित्येदमुक्तम् । विदुषितरेति । 'उगितश्च' इति ङीपि 'वसोः संप्रसारणम्' । वृत्त्यादिष्विति । प्रक्रियातयाख्यानानि चादिशब्दग्राह्याणि । अणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्याल्लेखशब्दोऽणन्त एव निर्दिष्ट इति भावः । नन्वेवं लेख ग्रहणमेव व्यर्थं स्यादण्प्रहणेनैव सिद्धरत श्राह - ज्ञापकमिति । अत एव 'घरूपकल्पेषु तदन्तग्रहणं न' इति व्याख्यातम् । सौहार्द्यमिति । ब्राह्मणादित्वात् ष्यञ्, हृद्भग Page #245 -------------------------------------------------------------------------- ________________ २४२ ] सिद्धान्तकौमुदी। [ समासाश्रयविधिपद इत्वदन्त मादेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । 'अज्यतिभ्यां पादे च' ( उ ५७०-७१) इतीण्प्रत्ययः । अजेयंभावो निपातनात् । पदगः । पदोपहतः । ६६१ पद्यत्यतदर्थे । (६-३-५३ ) पादस्य परस्यादतदर्थे यति परे । पादौ विध्यन्ति पद्याः शर्कराः । अतदर्थे किम्-पादार्थमुदकं पाथम् । 'पादार्घाभ्यां च' (सू २०६३) इति यत् । 'इके चरतावुपसंख्यानम्' (वा ३६५८)। पादाभ्यां चरति पदिकः । पोदित्वात् छन् । ६६२ हिमका. षिहतिषु च । (६-३-५४) पद्धिमम् । पत्काषी । पद्धतिः । ६६३ ऋचः पद । पद इति लुप्तप्रथमाकं पृथक्पदम् । एग्विति । आजि, आति, ग उपहत इत्येतेष्वित्यर्थः । अदन्त इति । उत्तरसूत्रे पदिति हलन्तस्य ग्रहणादिति भावः । अजतीति । 'अज गतिक्षेपणयोः' । पदातिरिति । पादाभ्यामततीति विग्रहः । 'अत गतौ' । अज्यतिभ्यामिति । पादे उपपदे अजधातोरतधातोश्च इण् स्यादिति तदर्थः । अजीत्यस्य 'अजेय॑घअपोः' इति वीभावमाशङ्कयाह-अजेय॑भावो निपातनादिति । आजीति निर्देशादित्यर्थः । पदग इति । पादाभ्यां गच्छतीत्यर्थः । 'गमश्च, अन्तात्यन्ताध्वदूरपारसर्वानम्तेषु डः' इति सूत्रस्थेन 'अन्येभ्योऽपि दृश्यते' इति वार्तिकेन गमधातोः डः । तदन्ते गशब्दे परे पाद स्यादन्तः पदादेशः । दकारान्तादेशे तु पद् इति स्यात् । पदोपहत इति । पादाभ्यामुपहत इति विग्रहः । अत्रापि दकारान्तादेशे पदुपहत इति स्यात् । पद्यत्यतदर्थे । पद्, यति, अतदर्थे, इति छेदः । पद्या इति । 'विध्यत्यधनुषा' इति यत् प्रत्ययः । पाद्यमिति । 'पादार्घाभ्यां च' इति तादर्थ्य यत्प्रत्ययः । इके चरताविति । चरत्यर्थे विहितस्य छनो य इकादेशः तस्मिन् परे पादस्य पत्स्यादित्युपसंख्यानमित्यर्थः । हिमकाषि । एषु परेषु पादस्य पत्स्यादित्यर्थः। पद्धिममिति । पादस्य हिममिति विग्रहः । पत्काषीति । पादौ पादाभ्यां वा कषतीत्यर्थः । 'सुप्यजातौ-' इति णिनिः । पद्धतिरिति । हन्यते इति हतिः । कर्मणि क्तिन् । पादाभ्यां हतिरिति विग्रहः । सिन्ध्वन्ते-' इत्युभयंपदवृद्धिः । पादस्य पदा । उत्तरसूत्रे पद्ग्रहसात्पदेत्ययमदन्तः, सौत्रो विभक्तिलुक् । तदाह-अदन्त आदेश इति । तेन 'पदगः' इत्यादि सिद्धम्। पद्या इति । 'विध्यत्यधनुषा' इति यत् । पाद्यमिति । 'पादार्घाभ्यां च' इति यत् । पूर्वसूत्रे आज्यात्यादिषु प्राण्यङ्गस्यैव करणत्वसंभवादिहापि तद्वचन एव पादशब्दो गृह्यते, न परिमाणवचनः। तेन 'द्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यम् , त्रिपाद्यम्' इत्यत्र ‘पणपादमाष-' इति यति पदादेशो न भवति । एतच्च वृत्तिहरदत्तग्रन्थयोः स्पष्टम् । पत्काषीति । 'सुप्यजातौ-' इति णिनिः । पद्धतिरिति । कर्मणि क्लिन् । Page #246 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२४३ शे । (६-३-५५) ऋचः पादस्य पत्त्याच्छे परे । गायत्री पच्छः शंसति । पादं पादमित्यर्थः । ऋचः किम्-पादराः कार्यापमं ददाति । ६६४ वा घोषमिश्रशब्देषु । (६-३-५६) पादस्य पत् । पद्धोषः, पादघोषः । पन्मिश्र, पादमिश्रः । पच्छब्दः, पादशब्दः । 'निष्के चेति वाच्यम्' (वा ३६५६) । पविष्कः, पादनिष्कः । ६६५ उदकस्योदः संज्ञायाम् । (६-३-५७) उदमेघः । 'उत्तरपदस्य चेति वक्तव्यम्' (वा ३९६६) । तीरोदः । ६६६ पेषंवासवाहनधिषु च । (६-३-५८) उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् । ६६७ एकहलादौ पूरयितव्येऽन्यतरस्याम् । (६-३-५६) उदकुम्भः, उदककुम्भः । एक इति 'कर्तृकरणे कृता-' इति समासः । ऋचः शे। शस्य शस्प्रत्ययैकदेशस्यानुकरणात् सप्तमीत्यभिप्रेत्योदाहरति-पच्छ इति । 'संख्यैकवचनाच्च वीप्सायाम्' इति पादशब्दात् शस् । 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वम्, नरिवह लोमादिशस्य ग्रहणम् , लोमादौ पादशब्दस्य पाठाभावात् । पादशः कार्षापणं ददातीति । कार्षापणाख्यपरिमाणविशेष सुवर्णादिकं पादं पादं ददातीत्यर्थः । वा घोष । शेषपूरणेन सूत्रं व्याचष्टेपादस्य पदिति । निष्के चेति । पादस्य पदिति शेषः । उदकस्योदः। उदकशब्दस्य उद इत्यादेशः स्याद् उत्तरपदे संज्ञायामित्यर्थः । उदमेघ इति । उदकपूर्णमेघसादृश्यात् कस्यचिदियं संज्ञा । उत्तरपदस्य चेति । उत्तरपदस्य उदकशब्दस्य उद इत्यादेशः स्यात् संज्ञायामित्यर्थः । क्षीरोद इति । क्षीरम् उदकस्थानीयं यस्येति विग्रहः । क्षीरोदं सर इति त्वसाध्वेव, असंज्ञात्वात् । पेषवास । पेषमिति णमुलन्तमव्ययम् । तस्मिन्वासवाहनधिषु च परत उदकशब्दस्य उदः स्यादित्यर्थः । असंज्ञार्थ वचनम् । उदपेषं पिनष्टीति । उदकेन पिनष्टीत्यर्थः । 'स्नेहने पिषः' इति णमुल् । 'कषादिषु यथाविध्यनुप्रयोगः । उदवास इति । उदकस्य वास इति विग्रहः । उदवाहन इति । करणे ल्युट् । उदकस्य वाहक इत्यर्थः । उदधिर्घट इति । उदकं धीयतेऽस्मिनिति विग्रहः । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । असंज्ञात्वस्फोरणाय घट इति विशेष्यम् । समुद्रे विति । तत्र उदधिशब्दस्य संज्ञात्वेन 'उदकस्योद-' इति पूर्वसूत्रेण सिद्धमित्यर्थः । एकहलादौ । ऋचःशे । 'शे' इति शस्प्रत्ययस्यदमनुकरणम् , लोमादिषु पादशब्दस्य पाठाभावान्मत्वर्थे शो न संभवतीति भावः । पच्छब्द इति । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । उदमेघ इति । सादृश्यात्पुरुषस्वयं संज्ञा । उदपेषमिति । 'मेहने पिषः' इति णमुल् । उदधिरिति । उदकं धीयतेऽस्मिमिति विग्रहः । 'कर्म Page #247 -------------------------------------------------------------------------- ________________ २४४ ] सिद्धान्तकौमुदी। [समासाश्रयविधिकिम्-उदकस्थाली । पूरयितव्ये इति किम्-उदकपर्वतः । ६६८ मन्थौदनसक्तुबिन्दुवज्रभारहारवीवघगाहेषु च । (६-३-६०) उदमन्थः, उदकमन्यः । उदौदनः, उदकोदन इत्यादि । ६९६ इको ह्रस्वोऽज्यो गालवस्य । (६-३-६१) इगन्तस्साड्यन्तस्य हस्खो वा स्यादुत्तरपदे । ग्रामणिपुत्रः, प्रामणीपुत्रः । इकः किम्-रमापतिः । अड्य इति किम्-गौरीपतिः । गालवग्रहणं पूजार्थम्, अन्यतरस्याम् इत्यनुवृत्तेः । 'इयडुवङ्भाविनामव्ययानां च नेति वाच्यम्' (वा ३६६३) श्रीमदः । अभङ्गः । शुक्रीभावः । 'अभ्रकुंसादीनामिति वक्तव्यम्' (वा ३६६४ ) भ्रकुंसः, भ्रकुंसः । भ्रकुटिः, भ्रकुटिः । 'भकारोऽनेन विधीयते' इति व्याख्यान्तरम् । अकुंसः । अकुटिः । भ्रवा कुंसो हत्त्वस्य एकैकवर्णधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते । पूरयितव्यं पूरणाई कुम्भादि । असंयुक्तहलादौ पूरयितव्यवाचके उत्तरपदे परे उदकस्य उद इत्यादेशः स्यादित्यर्थः । मन्थौदन । उदकस्य उदादेशो वेति शेषः। अपूरयितव्यार्थं वचनम् । उदमन्थः, उदकमन्थ इति । उदकमिश्रो मन्थ इति विग्रहः । द्रवद्रव्यसंपृक्ताः सक्लवो मन्थः । भर्जितयवपिष्टानि सक्तवः । उदौदनः, उदकौदन इति । उदकमिश्र इत्यर्थः । इत्यादीति । उदसतवः, उदकसक्तवः । उदविन्दवः, उदकविन्दवः। उदवज्रःउदकवज्रः। उदभारः, उदकभारः। उदहारः, उदकहारः । उदवीवधः, उदकवीवधः । उदगाहः, उदकगाहः । वीवधस्तु जलाधाहरणयोग्य उभयतःशिक्यः स्कन्धबाह्यः काष्ठविशेषः । इको ह्रस्वः। अङय इति च्छेदः । ग्रामणीपुत्र इति । कर्मधारयः षष्ठीसमासो वा। नीधातोरीकारोऽयम्, न तु की प्रत्यय इति भावः। ननु गालवग्रहणस्य विकल्पार्थकत्वं किं न स्यादित्यत आह-अन्यतरस्यामित्यनुवृत्तरिति । इयङवभाविनामिति । तदर्हाणामित्यर्थः । श्रीमदः।भूभड्न्ग इति । श्रीभ्रशब्दौ अजादिप्रत्यये परे इयवर्हाविति भावः । शुक्लीभाव इति । अभूततद्भावे च्चिप्रत्यये 'अस्य च्वौ' इति ईत्त्वम् । “च्चौ' इति दीर्घः । 'ऊर्यादिविडाचश्च' इति निपातत्वादव्ययत्वमिति भावः । अभ्रूकुंसादीनामिति । भ्रशब्दस्य उवङ्भावितया ह्रस्वनिषेधो यः प्राप्तः स नेत्यर्थः । अकारोऽनेनेति । रायधिकरण च' इति किप्रत्ययः । उदमन्थ इति । द्रवद्रव्यसंस्कृताः सक्तवो मन्थः । 'उदकेन मन्थः' इति विग्रहे 'तृतीया' इति योगविभागात्समास इति हरदत्तः । शुलीभाव इति । 'ऊर्यादिच्चिडाचश्च' इति च्व्यन्तत्वान्निपातत्वेऽव्ययत्वम् । भ्रकुंस इत्यादि । 'भ्रकुंसश्च भ्रकुंसश्च भ्रकुंसश्चेति नर्तकः' इत्यमरः । 'तन्द्री प्रमीलो Page #248 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २४५ भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः । भ्रवः कुटिः कौटिल्यम् । १००० एक तद्धिते च । (६-३-६२) एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतमेकरूप्यम् । एकक्षीरम् । १००१ ड्यापोः संज्ञाछन्दसोर्बहुलम् । ( ६-३-६३ ) रेवतिपुत्रः । अजक्षीरम् | १००२ त्वे च । ( ६-३-६४ ) स्वप्रत्यये स्यापोर्वा हस्वः । अजत्वम्, अजात्वम् । रोहिणिस्वम्, रोहिणीध्वम् । १००३ ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे । (६-१-१३) व्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे । १००४ सम्प्रसारणस्य । ( ६-३ - १३६) सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । 'अकुंसादीनाम् -' इति वार्तिके अ इति लुप्तप्रथमाकं पृथक्पदम् । तथा च भ्रकुंसादीनामवयवो यो भ्रशब्दः तस्य अकारः अन्तादेशः स्यादिति व्याख्यानान्तरमित्यर्थः । ܬ वा कुंसो भाषणमिति । तत्तदर्थज्ञापनमित्यर्थः । 'भ्रकुंसश्च भ्रकुंसश्च भ्रकुंसवेति नर्तकः' इत्यमरः, ‘भ्रकुटिर्भ्रकुटिकुटिः स्त्रियाम्' इति च । एकतद्धिते च । एकेति लुप्तषष्टकम् । तदाह – एकशब्दस्येति । स्त्रीप्रत्ययान्तस्येति शेषः, अन्यथा ह्रस्वविधिवैयर्थ्यात् । उत्तरपदे चेति । चकारात्तदनुकर्ष इति भावः । एकस्या आगतम् एकरूप्यमिति । ' हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः' । एकक्षीरमिति । एकस्याः क्षीरमिति विग्रहः । ङयापोः । उत्तरपदे ह्रस्वः स्यादिति शेषः । रेवतिपुत्र इति । कस्यचित्संज्ञेयम् । अथ छन्दस्युदाहरतिअजक्षीरमिति । अजायाः क्षीरमिति विग्रहः । 'परमं वा एतत्पयो यदजक्षीरम्' इति तैत्तिरीये । त्वे च । शेषपूरणेन सूत्रं व्याचष्टे – त्वप्रत्यये ङयापोर्वा हव इति । अजत्वं रोहिणीत्वमिति । संज्ञात्वाभावात् छन्दस्येवायमिति वृत्ति:,, अनुत्तरपदार्थं वचनम् । ष्यङः संप्रसारणम् । प्रत्ययग्रहणपरिभाषया ष्यङ इति तदन्तग्रहणम् । तदाह— ष्यङन्तस्य पूर्वपदस्येति । तस्य सूत्रस्य उत्तरपदाधिकारस्थत्वेऽपि तत्पुरुषग्रहणेन पूर्वपदलाभ इति भावः । उत्तरपदयोरिति । इदमपि तत्पुरुषपदलभ्यम् । यद्वा उत्तरपदाधिकारेण पूर्वपदमाक्षिप्यते । संप्रसारणस्य । कुटिकुटिकुटिः स्त्रियाम्' इति च । एकतद्धिते च । 'एक' इति लुप्तषष्ठीकम्, तदाह – एकशब्दस्येति । ह्रस्वविधानमस्य टावन्त एवोपयुज्यते न तु केवले, स्वभावत एव हस्वत्वादतो व्याचष्टे - एकस्या आगतमित्यादि । ष्यङः । इह तत्पुरुषपदेन पूर्वपदमुत्तरपदं चाक्षिप्यते, तत्र ष्यङा पूर्वपदस्य विशेषणात्तदन्तं गृह्यत इत्याह - व्यङन्तस्येति । पुत्रपत्योरुत्तरपदयोरिति । 'पुत्रपत्यन्तयो:' इति G Page #249 -------------------------------------------------------------------------- ________________ २४६ ] सिद्धान्तकौमुदी । [ समासाश्रयविधि कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभापया इस्वो न । 'स्त्रीप्रत्यये चानुपसर्जने न' ( प २७) इति तदादिनियमप्रतिषेधात् दीर्घ इति । 'ठूलोपे -' इत्यतस्तदनुत्तरिति भावः । उत्तरपद इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । कौमुदगन्ध्यायाः पुत्र इति । विग्रहवाक्यमिदम् । कुमुदगन्ध इव गन्धो यस्य स कुमुदगन्धिः । ' सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहिः, कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च । 'उपमानाच' इति इत्त्वम् । कुमुदगन्धेरपत्यं स्त्री इत्यर्थे तस्यापत्यमित्यण् । ‘अणिञोरनार्षयोः -' इति तस्य ष्यङादेशः । 'यस्येति च' इति इकारलोपः । आदिवृद्धिः । यङश्चाप् । कौमुदगन्ध्याशब्द इति भावः । कौमुदगन्ध्यायाः पुत्र इति षष्ठीसमासः । सुब्लुकि कौमुदगन्ध्यापुत्र इति स्थिते ष्यङः संप्रसारणेन यकारस्य इकारः । तस्य तदुत्तराकारस्य च 'संप्रसारणाच्च' इति पूर्वरूपेण इकारे 'संप्रसारणस्य' इति दीर्घे कौमुदगन्धीपुत्र इति रूपमिति भावः । 'हलः' इति दीर्घस्य तु नात्र प्रसक्तिः, संप्रसारणात् पूर्वस्य हल: संप्रसारणनिरूपिताङ्गावयवत्वाभावात् । कौमुदगन्धीपतिरिति । कौमुदगन्ध्यायाः पत्तिरिति विग्रहः । पूर्ववत्प्रक्रिया । 'इको sarssयो गालवस्य' इति पाक्षिकं हवमाशङ्कयाह - व्यवस्थितविभाषया नेति । अत्र तु व्याख्यानमेव शरणम् । स्यादेतत् । करीषं गोमहिषादिपुरीषम्, करीषगन्ध इव गन्धो यस्य स करीषगन्धिः, तस्यापत्यं स्त्री कारीषगन्ध्या, परमा चोसौ कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्र इत्यत्रापि ष्यङः संप्रसारणं तस्य दीर्घश्चेति स्थितिः । अत्र संप्रसारणं दुर्लभम् । ष्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य व्यङन्त त्वाभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणादित्यत आहस्त्रीप्रत्यये चेति । ष्यङः स्त्रियां विहितत्वात् स स्त्रीप्रत्ययः । ततश्च 'स्त्रीप्रत्यये चानुपसर्जने न' इति परिभाषया तदादिनियमाभावात्परमकारीषगन्ध्याशब्दोऽपि व्याख्याने तु ‘कारीषगन्ध्यापरमपुत्रः' इत्यादावतिप्रसङ्गः स्यादिति भावः । संप्रसाररणस्य । ‘उत्तरपदे' इत्यधिक्रियते । 'ठूलोपे -' इत्यतो दीर्घ इत्यनुवर्तते, तदाहदीर्घः स्यादुत्तरपद इति । 'हलः' इति दीर्घोऽत्र न प्रवर्तते, प्रत्ययस्य लुका लुप्तत्वेनाङ्गसंज्ञाया अप्रवृत्तेः । कौमुदगन्ध्याया इति । कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । 'तस्यापत्यम्' इत्यणि कृते 'अणिञोः' इति ष्यङादेशः, 'यङश्चाप्' । ननु 'कौमुदगन्धीपुत्रः' इत्यादौ 'इको हवोऽङयो गालवस्य' इति हखेन भाव्यम् १ क्वचित्तु 'संप्रसारणनिमित्तनिरूपिते' इति पाठः । २ 'च सा' इति क्वचित् । Page #250 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४७ परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमानेह-अतिकारीषगन्ध्यपुत्रः। १००५ बन्धुनि बहुव्रीहौ । (६-१-१४) बन्धुशब्द उत्तरपदे व्यकः सम्प्रसारणं स्याबहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः । बहुव्रीहौ इति किम्-कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः । क्रीबनिर्देशस्तु शब्दस्वरूपापेक्षया 'मातम्मातृकमातृषु वा' (वा ३४४६ ) कारीषगन्धीमातः, कारीषगन्ध्यामातः । कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः । कारीषगन्धी. माता, कारीषगन्ध्यामाता । अत एव निपातनान्मातृशब्दस्य मातजादेशः, 'नधृतश्च' (सू ८३३) इति कविकल्पश्च । बहुव्रीहावेवेदम्, नेह-कारीषगन्ध्याया माता कारीषगन्ध्यामाता। चित्त्वसामर्थ्याचित्स्वरो बहुव्रीहिस्वरबाधते। १००६ इष्टकेषीकामालानां चिततूलभारिषु । (६-३-६५) इष्टकादीनां ध्यङन्त एवेति तत्र संप्रसारणे दीर्घ च परमकारीषगन्धीपुत्र इति रूपमिति भावः । इयं परिभाषा 'ध्यङः संप्रसारणम् ' इति प्रकृतसूत्रे भाष्ये पठिता । तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह--उपसर्जने विति । कारीषगन्ध्यामतिकान्तः अतिकारीषगन्ध्यः, 'अत्यादयः-' इति समासे, उपसर्जनह्रखः । तस्य पुत्रः अतिकारीषगन्ध्यपुत्रः। अत्र 'स्त्रीप्रत्यये तदादिनियमो न' इति निषेधो न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः । ष्यङ् त्वयं स्त्रीप्रत्ययोऽत्र उपसजन एव । अतस्तत्र तदादिनियमसत्त्वाद् अतिकारीषगन्ध्यशब्दो नैव ष्यङन्त इति न संप्रसारणमिति भावः । बन्धुनि बहुव्रीहौ । कारीषगन्धीबन्धुरिति । अत्र पत्युत्तरपदत्वाभावात् तत्पुरुषत्वाभावाच पूर्वेण न प्राप्तिः । मातन्मातृकमातृषु वेति । वार्तिकमिदम् । मातच, मातृक, मात् एषु परेषु व्यङः संप्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति-कारीषगन्धीमातः, कारीषगन्ध्यामात इति । मातृशब्दस्य मातजादेशः, अदन्तमेतत् । मातृके उदाहरति-कारीषगन्धीमातृका, कारीषगन्ध्यामातृक इति । 'नयतश्च' इति कप् । मातृशब्दे उदाहरतिकारीषगन्धीमाता, कारीषगन्ध्यामातेति । शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणम् ? 'नवृतश्च' इति नित्यविधानात् पाक्षिककप् च दुर्लभ इत्यत आह-अत एवेति । बहुव्रीहावेवेदमिति । 'बन्धुनि बहुव्रीहौ' इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः । मातजिति चित्करणं स्वरार्थमित्याह-चित्त्वसामर्थ्यादिति । इष्टकेषीका । उत्तरपदे इत्यधिकृतम् । तल्लब्धं दीर्घविधानं तु पक्षे सावकाशमित्यत आह-व्यवस्थितविभाषयेति । नेहेति । संप्रसारणमिह नेत्यर्थः । अतिकारीषेति । कारीषगन्ध्यामतिक्रान्तोऽतिकारीष Page #251 -------------------------------------------------------------------------- ________________ २४८ ] सिद्धान्तकौमुदी। [समासाश्रयविधितदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु हस्वः स्यात् । इष्टकचितम् । पक्केष्टकचितम् । इषीकतूलम् । मुजेषीकतूलम् । मालभारी । उत्पनमालभारी । १००७ कारे सत्यागदस्य । (६-३-७०) मुम् स्यात् । सत्यङ्कारः। अगदङ्कारः । 'प्रस्तोश्चेति वक्तव्यम्' (वा ३९७३)। प्रस्तुङ्कारः । 'धेनोभव्यायाम्' (वा ३६७५)। धेनुम्भव्या। 'लोकस्य पृणे (वा ३६७६) । लोकंपृणः । पूर्वपदमिष्टकादिभिर्विशेष्यते । तदन्तविधिः । व्यपदेशिवद्भावात् तेषामपि ग्रहणम् । उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात् 'पदानाधिकारे तस्य च तदन्तस्य च' इति वचमेन वा तेषां ग्रहणम् । 'इको ह्रस्वः-' इत्यतो ह्रस्व इत्यनुवर्तते । तदाहइष्टकादीनां तदन्तानां चेति । इष्टकचितमिति । इष्टकादिभिश्चितमिति विग्रहः । 'कर्तृकरणे कृता-' इति समासः । तदन्तविधेः प्रयोजनमाह-पक्केष्टकचितमिति । इषीकतूलमिति । इषीकायास्तूलमिति विग्रहः । तूलमग्रम् , शष्प. मित्यन्ये । मुओषीकतूलमिति । मुजेषीकायास्तूलमिति विग्रहः । मालभारीति । 'सुप्यजातौ-' इति णिनिः । हारिष्विति पाठान्तरम् । कारे सत्यागदस्य । शेषपूरणेन सूत्रं व्याचष्टे-मुम् स्यादिति । 'अरुर्द्विषत्-' इत्यतस्तदनुवृत्तेरिति भावः। सत्यस्य अगदस्य च कारे परे मुम् स्यादिति फलितम् । मुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । सत्यंकार इति । भावे घञ् । सत्यस्य कार इति विग्रहः । शपथकरणमित्यर्थः । अगदंकार इति । गदो रोगः, तस्या भावः अगदः । अर्थाभावेऽव्ययीभावेन सह तत्पुरुषस्य विकल्पोक्तेः । अगदस्य कार इत्यर्थः । अस्तोश्चेति । कारे मुमिति शेषः । अस्तुंकार इति । अस्त्विति तिबन्तप्रतिरूपकमव्ययमभ्युपगमे वर्तते । धेनोरिति । मुम् वक्तव्य इति शेषः । धेनुभव्येति । नवप्रसवात् प्रागियमुक्तिः । भविष्यन्ती धेनुरित्यर्थः । 'भव्यगेय-' इति कर्तरि निपातनात् कृत्यप्रत्ययः । धेनुश्वासौ भव्या चेति विप्रहः । मयूरव्यसकागन्ध्यः, तस्य पुत्रः । इष्टकचितमिति । 'कर्तृकरण कृता-' इति तृतीयासमासः । पक्केष्टकचितमिति । पदाधिकारात्तदन्तविधिः प्रवर्तत इति भावः । मालभारीति । 'मालां बिभर्ति' इत्यर्थः । 'सुष्यजाती-' इति णिनिः। 'हारिषु' इति पाठान्तरम् । कारे सत्या । 'अरुर्द्विषत्-' इत्यतोऽनुवर्तनादाह-मुम् स्यादिति । सत्यंकारः शपथकरणम् । अशपथेऽपि 'सत्यादशपथे' इति डाचं बाधित्वा परत्वान्मुमेव । अगदंकारो वैद्यः । अस्तुंकारोऽभ्युपगमः । अस्त्विति तिङन्तप्रतिरूपकमव्ययम् । धेनुम्भव्यति । भविष्यन्ती धेनुरित्यर्थः । 'भव्यगेय-' इति निपातनात्कर्तरि कृत्यः । धेनुश्चासौ भव्या चेति विग्रहः । गौतमस्मृतौ तु 'अधेनुभव्या' HTHHTHER HEALTH Page #252 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४६ पृण इति मूलविभुजादित्वात्कः । 'इत्येऽनभ्याशस्य' (वा ३६७७)। अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः । 'भ्राष्ट्राग्न्योरिन्धे (वा ३६७८) भ्राष्ट्रमिन्धः । अमिमिन्धः । 'गिलेऽगिलस्य' (वा ३६७६) । तिमिशिलः । अगिलस्य किम्-गिलगिलः । 'गिलगिले च' (वा ३६८०) । तिमिङ्गिलगिलः । 'उष्णभद्रयोः करणे' ( वा ३९८१)। उष्णङ्करणम् । भद्रकरणम् । १००८ रात्रेः कृति विभाषा । (६-३-७२) कृदन्ते परे । रात्रिचरः, दित्वाद् भव्याशब्दस्य परनिपातः । लोकस्य पृण इति । मुम्वक्तव्य इति शेषः । ननु लोकं पृणातीति विग्रहे कर्मण्यणि लघूपधगुणे रपरत्वे पर्ण इति स्यादित्यत श्राह-पृण इति मूलविभुजादित्वात् क इति । इत्येऽनभ्याशस्येति । मुम् वक्तव्य इति शेषः । अनभ्याशमित्य इति । अभ्याशः समीपम् , अनभ्याशं दूरम् , द्वितीयान्तमिदम् । इराधातोः प्रापणार्थकाद् ‘एतिस्तुशास्-' इत्यादिना क्यप् । 'गम्यादीनामुपसंख्यानम्' इति द्वितीयासमासः । सुब्लुकि मुम् । दूरं प्रापयि. तव्यः, न तु समीपमित्यर्थ मनसि निधायाह -दूरतः परिहर्तव्य इति । भ्राष्ट्राग्न्योरिन्ध इति । मुम् वक्तव्य इति शेषः । भ्राष्ट्रमिन्ध इति । भ्राष्ट्र धानादिभर्जनाहँ पात्रम्, तद् इन्धे तापयतीति भ्राष्ट्रमिन्धः, कर्मण्यणि उपपदसमासः । सुब्लुकि, मुम् । अग्निमिन्ध इति । अग्निं प्रज्वलयतीत्यर्थः । गिलेऽगिलस्येति । अगिलस्येति च्छेदः । गिले परे गिलभिन्नस्य मुम् वाच्य इत्यर्थः । तिमिङ्गिल इति । 'गृ निगरणे' । तिमिर्मत्स्यविशेषः । तं गिलतीति मूलविभुजादित्वात् कः । 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे 'अचि विभाषा' इति लत्वम् , उपपदसमासः, सुब्लुकि मुम् । गिलगिल इति । अयमपि मत्स्यविशेषः । गिलगिले चेति । अगिलस्य मुम् वाच्य इत्यर्थः । तिमिङ्गिलगिल इति । गिलं गिलतीति गिलगिलः, तिमीनां गिलगिल इति विग्रहः । संबन्धसामान्ये षष्ठी । तिमिषु गिलगिल इति निर्धारणसप्तमी वा । 'संज्ञायाम्' इति सप्तमीसमासः । उष्णभद्रयोः करण इति । मुम् वाच्य इत्यर्थः । उष्णङ्करणम् , भद्रङ्करणमिति षष्ठीसमासः । रात्रेः कृति विभाषा । अस्य उत्तरपदाधिकारस्थत्वेन 'प्रत्ययग्रहणे इत्यत्र 'आर्षत्वान्मुम्न' इति बोध्यम् । लोकम्पृण इति । पृणधातुः प्रीणनार्थः । 'पृणतिः पूरणकर्मा' इति तु हरदत्तः। अनभ्याशमित्य इति । अभ्याशं समीपं तद्भिन्नमनभ्याशम् । 'एतिस्तुशास्त्रजुषः' इति इणः क्यप् । भ्राष्ट्रमिन्ध इति । कर्मण्यणि उपपदसमासः । एवमग्निमिन्धोऽपि । गिलेऽगिलस्येति । 'गिलशब्दे उत्तरपदे अगिलस्य मुम्' इत्यर्थः । तिमिगिल इति। मत्स्यविशेषः । गिरतेर्मूलविभुजादित्वात्कः । 'अचि विभाषा' इति लत्वम् । गिलगिले चेति । 'गिलं Page #253 -------------------------------------------------------------------------- ________________ २५० ] सिद्धान्तकौमुदी। [समासाश्रयविधिरात्रिचरः । रात्रिमटः, राज्यटः । अखिदर्थमिदं सूत्रम् । खिति तु 'अरुर्द्विषत्-' (स २६४२) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः । १००६ सहस्य सः संज्ञायाम् । (६-३-७८) उत्तरपदे । सपलाशम् । संज्ञायां किम्-सहयुध्वा । १०१० ग्रन्थान्ताधिके च । (६-३-७६) अनयोरर्थयोः सहस्य सः स्यादुत्तरपदे । समुहूर्त ज्योतिषमधीते । सद्रोणा खारी । १०११ द्वितीये चानुपाख्ये। तदन्तग्रहणम्' इति तु इह न भवति । कृती धातुप्रकृतिकत्वेन रात्रेः कृतः असंभवात् तदन्तविधिरित्यभिप्रेत्य आह-कृदन्ते पर इति । रात्रैर्मुम् वा स्यादित्यर्थः । रात्रिश्चरः, रात्रिचर इति । सुप्युपपदे चरेष्टः, उपपदसमासः, सुब्लुकि पक्षे मुम्। रात्रिमटः, रायट इति । सुप्युपपदे मूलविभुजादित्वात् कः । उपपदसमासः। सुब्लुपक्षे मुम् । ननु रात्रिम्मन्य इत्यत्रापि मुम्विकल्पः स्यादित्यत आहअखिदर्थमिदं सूत्रमिति । खिति त्विति । खिति तु इमं मुम्विकल्पं बाधित्वा पूर्वविप्रतिषेधेन 'अरुर्दिषदजन्तस्य-' इति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यत इत्यर्थः । रात्रिम्मन्य इति । 'श्रात्ममाने खश्च' इति खश । स्वशः शित्त्वेन सार्वधातुकत्वात् तस्मिन् परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यं मुमिति भावः । सहस्य सः। उत्तरपद इति । शेषपूरणेनोक्तमिदम् । सह इत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः । 'वोपसजेनस्य' इत्यस्यापवादः । सपलाशमिति । 'तेन सहइति बहुव्रीहिः । वनविशेषस्य संज्ञेयम् । सहयुध्वेति । 'सहे च' इति क्वनिप् । असंज्ञात्वान्न सभावः । ग्रन्थान्ताधिके च । ग्रन्थान्तश्च अधिकश्चेति समाहारद्वन्द्वः । अनयोरर्थयोरिति । विद्यमानस्येति शेषः । समुहूर्तमिति । मुहूर्तविधिपरग्रन्थपर्यन्तं ज्योतिःशास्त्रमधीत इत्यर्थः । अन्तवचने अव्ययीभावः 'अव्ययीभावे चाकाले' इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् । सद्रोणा खारीति । द्रोणपरिमाणादधिकत्यर्थः । मयूरव्यंसकादित्वात् सहशब्दस्याधिकवाचिनः समासः सभावश्च । गिलति इति गिलगिलः, तिमीनां गिलगिलः' इति विग्रहे इदमारब्धम् । रात्रे कृति । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाभावेऽपि रात्रिशब्दापरत्र कृतोऽसंभवात्कृदन्त उत्तरपदे अयं विधिरित्याशयेनोदाहरति-रात्रिचर इति । यद्यप्याचारक्किबन्तात् ण्वुलादिः संभवति, तथापि विलम्बितोपस्थितिकत्वात्स न गृह्यत इति भावः। नित्यमेवेति । पूर्वविप्रतिषेधेनेति भावः । रात्रिम्मन्य इति । 'आत्ममाने खश्च' इति खश् सार्वधातुकत्वत्तस्मिन्परे श्यन् । सहयुध्वेति । 'सहे च' इति क्वनिप । स्त्रियामपि 'वनो न हशः' इति निषेधात् ङीब्रौ न । समुहूर्तमिति । अन्तवचनेऽव्ययीभावः । 'अव्ययीभावे चाकाले' इत्यत्र कालपर्युदासादप्राप्ते सभावे Page #254 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५१ (६-३-८०) अनुमेये द्वितीये सहस्य सः स्यात् । सरासीका निशा। राक्षसी साक्षादनुपलभ्यमाना निशयानुमीयते । १०१२ समानस्य च्छन्दस्यमूर्धप्रभृत्युदर्केषु । (६-३-८४) समानस्य सः स्यादुत्तरपदे, न तु मूर्धादिषु । 'मनु भ्राता सगर्म्यः । अनु सखा सयथ्यः । यो नः सनुत्यः ।' 'तत्र भवः' इत्य 'सगर्भसयूथसनुतायन्' (सू ३४६०) । प्रमूर्धादिषु किम्-समानमूर्धा । समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधयं सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः द्वितीये चानुपाख्ये । अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः । उपाख्यायते प्रतीयते उपलभ्यते इत्युपाख्यम् , तदन्यदनुपाख्यम् , अनुमेयमिति यावत् । तदाहअनुमेय इति । सहायवाचिन्युत्तरपदे परत इत्यर्थः । सराक्षसीका निशेति । 'तेन सह-' इति बहुव्रीहिः। 'नवृतश्च' इति कप् । अनुमेयराक्षसीसहिता निशेत्यर्थः । तदाह-राक्षसी साक्षादिति । समानस्य । नतु मूर्धादिष्विति । मूर्धन् , प्रभृति, उदर्क एषु परेषु नेत्यर्थः । सगर्घ्य इति । समाने गर्भे भव इत्यर्थः । सयथ्य इति । समाने यूथे भव इत्यर्थः । सनुत्य इति । समान नुते भव इत्यर्थः। सर्वत्र 'तद्धितार्थ-' इति समासे समानस्य सभावः । समानमूर्धति । समानो मूर्धा यस्येति विग्रहः । समानप्रभृतय इति । समानः प्रभृतिराद्यवयवो येषामिति विग्रहः । समानोदर्का इति । समान उदों येषामिति विग्रहः । तैत्तिरीये 'सजूर्ऋतुभिः सजूर्विधाभिः, सर्वसुभिः सजूदेवैः, सजूरुद्रः, सजूरादित्यैः, सजूर्विश्वैर्देवैः, सनर्देवैर्वयोनारग्नये त्वा वैश्वानरायाश्विनाध्वर्यु सादयतामिह त्वा' इति मन्त्राः संसृष्टाः पञ्च पठिताः । पञ्चस्वपि मन्त्रेषु सजूर्ऋतुभिः सजूर्विधाभिरित्ययमाद्यवयवः, सजूदेवैर्वयोनाथैरित्यन्तावयवश्च समानः, सजूर्वसुभिः इत्यादिपञ्चानाम् एकैकस्य क्रमेण एकैकस्मिन् मन्त्रे मध्ये निवेश इति याज्ञिकमर्यादा । ननु लोके सपक्षादिशब्देषु कथं समानस्य सभाव इत्यत आह-समानस्येति योगो विभज्यत इति । तथा च समानस्य सः स्यादिति वाक्यान्तरं संपद्यते । तत्र छन्दसीत्यभावाल्लोकेऽपि क्वचिद्भवतीति लभ्यत इति भावः । सपक्ष इति । समानः पक्षो यस्यति विग्रहः । साधर्म्यमिति । समानो धर्मो यस्य स सधर्मा, समानस्य सभावः । तस्य भावः साधर्म्यम् । ब्राह्मणादित्वात् प्यञ् । सजातीयमिति । समाना जातिर्यस्य इति विग्रहः । ग्रन्थान्तग्रहणम् । द्वितीये । 'अप्रधानो यः स द्वितीयः' इति लोकप्रसिद्धम् , उपाख्यं प्रत्यक्षं तद्भिन्नमनुमेयं तदाह-अनुमेय इति । सराक्षसीकेति । 'नातश्च इति कम् । योगो विभज्यत इति । एतदर्थमेव छान्दसमपि 'समानस्य Page #255 -------------------------------------------------------------------------- ________________ २५२ ] सिद्धान्तकौमुदी। [समासाश्रयविधिसध्शवचनोऽस्ति, सदृशः सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि । १०१३ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु । (६-३-८५) एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि । १०१४ चरणे ब्रह्मचारिणि । (६-३-८६) ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याच्चरणे समानस्वेन गम्यमाने । चरणः शाखा । ब्रह्म वेदः, तदभ्ययनार्थ व्रतमपि ब्रह्म, तवरतीति ब्रह्मचारी, समानस्य सः, सब्रह्मचारी। १०१५ तीर्थे ये । (६-३-८७) समानस्य सभावः । 'जात्यन्ताच्छ बन्धुनि' इति छः । इत्यादीति । संग्राम इत्यादिसंग्रहः । योगविभागस्य भाष्यादृष्टत्वाद् युक्त्यन्तरमाह-अथवेति । तेनेति । तेन सदृशवचनेन सहशब्देन बहुव्रीहिरित्यन्वयः तथा च 'वोपसर्जनस्य' इति सहस्य सभाव इति भावः । ननु तर्हि समानः पक्षो यस्य इति कथं विग्रहः । सहशब्दस्यैव विग्रहे प्रवेशौचित्यादित्यत आह-अस्वपद इति । वृत्तावेव सहशब्दः सदृशवचन इति भावः । ज्योतिर्जनपद । अच्छन्दोऽर्थ वचनमिदम् । सज्योतिरिति । समानं ज्योतिर्यस्येति विग्रहः । एवं सजनपद इत्यादीति । सरात्रिः, सनाभिः, सनामा, सगोत्रः, सरूपः, सस्थानः, सवर्णः, सवयाः, सवचनः, सबन्धुः । चरणे ब्रह्मचारिणि । समानस्येति स इति चानुवर्तते । उत्तरपद इत्यधिकृतम् , तदाहब्रह्मचारिण्युत्तरपदे समानस्य सः स्यादिति । चरणे इति सप्तमी समानस्येत्यत्रान्वेति । चरण विद्यमानस्येत्यर्थः । फलितमाह-चरणे समानत्वेन गम्यमान इति । तत्र चरणपदं व्याचष्टे-चरणः शाखेति । वैदिकप्रसिद्धिरेवात्र मूलम् । ब्रह्मचारिपदं निर्वक्तुमाह-ब्रह्म वेद इति । 'वेदस्तत्त्वं तपो ब्रह्म' इत्यमरः । तश्चरणार्थमिति । तस्य वेदस्य चरणम् अध्ययनं तच्चरणम् , व्रतमपि ब्रह्मशब्देन विवक्षितमित्यर्थः । गौण्या वृत्त्येति शेषः । तच्चरतीति । तद् व्रतं चरति अनुतिष्ठतीत्यर्थे ब्रह्मचारिशब्द इत्यर्थः । 'सुप्यजाती-' इति णिनिः । समानस्य स इति । समानो ब्रह्मचारीति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे च्छन्दसि' इति सूत्रमिहोपन्यस्तमिति भावः । बहुव्रीहिरिति । तेन 'वोपसर्जनस्य' इति सहस्य सभावः प्राप्नोतीति भावः । सज्योतिरिति । समान ज्योतिरस्येति बहुव्रीहिः । यस्मिन् ज्योतिषि आदित्य नक्षत्रे वा संजातं तदस्तमयपर्यन्तमनुवर्तमानमाशौच सज्योतिः इत्युच्यते । इह 'समानमध्यमध्यमवीराश्च' इति प्रतिपदोक्त एव समासो न गृह्यते, 'सरूपाणामेकशेषः-' इति लिङ्गात् । किंतु बहुव्रीहिरपि इति हरदत्तः । ब्रह्मचारीति । 'व्रते' इति णिनिः सब्रह्मचारीति । समानो ब्रह्मचारी Page #256 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २५३ तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः - एकगुरुकः । 'समानतीर्थे वासी' (सू १६५८ ) इति यत्प्रत्ययः । १०१६ विभाषोदरे । (६-३-८८) यादौ प्रत्यये विवक्षित इत्येव । सोदर्यः, समानोदर्यः । १०१७ दृग्दृशवतुषु । (६-३-८१) सदृक् । सदृशः । 'दृते चेति वक्रव्यम्' (वा ३११२) सदृक्षः । वतुरुत्तरार्थः । १०१८ इदंकिमोरीश्की । ( ६-३-६०) दृग्दृशवतुषु सति सब्रह्मचारीति रूपमित्यर्थः । समानत्वं च वेदद्वारा बोध्यम् । तथाच समानवेदाध्ययनार्थं व्रतचारीति फलितोऽर्थः । भाष्ये तु समाने ब्रह्मणि व्रतं चरतीत्यर्थे चरेणिनिः व्रतशब्दस्य लोपश्च अत्र निपात्यत इत्युक्तम् । तीर्थे ये । यशब्दाद् अकारान्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमध्याहार्यम् । ‘यस्मिन् विधिः-' इति तदादिविधिः । तदाह — यादौ प्रत्यय इति । नात्र यप्रत्ययान्त तीर्थशब्दे परे इति व्याख्यातुं शक्यते, 'समानतीर्थे वासी' इति समानतीर्थशब्दात् कृतसमासादेव (वासीति तद्धितार्थे) यप्रत्ययविधानात् । स च यप्रत्ययः अन्तरङ्गे समावे कृत एव भवति । 'समर्थानां प्रथमाद्वा' इति सूत्रेण परिनिष्ठितादेव तद्धितोत्पत्तेर्वदयमाणत्वात् कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्त्वात् । अतो यप्रत्ययपरकत्वं समानशब्दस्य कथमित्यत आह-विवक्षित इति । सतीर्थ्य इति । समाने तीर्थे वासीत्यर्थः । अत्र सामीप्ये सप्तमी । समानशब्दस्त्वेकपर्यायः । तीर्थशब्दो गुरौ, तदाह - एक गुरुक इति । तद्धितार्थ समासप्रवृत्तये तद्धितं दर्शयति - समानेति । 'निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः । विभाषोदरे । उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः । इत्येवेति । अनुवर्तत एवेत्यर्थः । दृग्दृशवतुषु । समानस्य स इति शेषः । सदृक् सदृश इति । समानो दृश्यत इत्यर्थे 'समानान्ययोश्च' इति दृशेः क्विन् कञ् च । दृक्षे चेति । इत्यर्थः । ब्रह्मचारिणश्च समानत्वं ब्रह्मणः समानत्वात् । ततश्च 'समाने ब्रह्मणि व्रतचारी' इति फलितोऽर्थः । तीर्थे ये । अकारो न विवक्षितः । प्रत्यय इति विशेष्यं तु व्याख्यानाल्लभ्यते । तेन ' यस्मिन्विधिः -' इति तदादिविधिरित्याह- यादौ प्रत्यय इति । विवक्षित इति । उत्तरपदमात्रनिमित्तः समासोऽन्तरङ्गः, समास प्रकृतिकसुबन्तात्तु यत्प्रत्ययः, अतस्तस्य परत्वं न संभवतीत्याशयेनेदमुक्तम् । सोदर्य इति । 'समानोदरे शयितः' इत्यर्थे प्रत्ययात्प्राक् समानस्य सभावे कृते 'सोद्राद्यः' इति यः । सभावाभावपक्षे तु 'समानोदरे शयित श्रो चोदात्तः' इति यति समानोदर्यः । सदृक् । सदृश इति । 'समानान्ययोश्चेति वक्तव्यम्' इति दृशेः क्विनकञौ । १ 'कृतसमासादेव' इत्यस्यादौ क्वचित् ' तद्धितार्थ -' इति इति पाठः । २ अयं कोष्टान्तर्गतः पाठः क्वचिन्नास्ति । 1 I Page #257 -------------------------------------------------------------------------- ________________ २५४ ] सिद्धान्तकौमुदी । [ समासाश्रयविधि । इदम ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः । वतूदाहरणं वच्यते । 'दृत्रे चेति वक्तव्यम्' (वा ३६६२) ईदृतः । कीदृक्षः | 'श्रा सर्वनाम्नः' (सू ४३० ) । 'हत्ते च' (वा ३६१२) तादृक् । तादृशः । तावान् । तादृक्षः । दीर्घः, मोवे । अमूदृशः । अमूदृक् । श्रमूदृतः । १०१६ समासे ऽङ्गुलेः सङ्गः । ( ८-३-८० ) अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् - श्रङ्गुलेः सङ्गः । १०२० भीरोः स्थानम् । ( ८-३-८१ ) भीरुशब्दात्स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु भीरोः स्थानम् । १०२१ ज्योतिरायुषः स्तोमः । ( ८-३-८३) श्राभ्यां स्तोमस्य सस्य मूर्धन्यः समासे ज्योतिष्टोमः । श्रायुष्टोमः । समासे किम्-ज्योतिषः स्तोमः । १०२२ सुषामादिषु च । ( ८-३-१८) सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा । सुषन्धिः । १०२३ एति संज्ञायामगात् । ( ८-३-६६ ) . ( ग १८२ ) सस्य मूर्धन्यः । हरिषेणः । एति किम्समानस्य सत्वमिति शेषः । सदृक्ष इति । 'क्सोऽपि वाच्यः' इति दृशेः क्सः । वतुरुत्तरार्थ इति । यत्तदेतेभ्यः परिमाणे वतुपः समानशब्दादसंभवादिति भावः । इदंकिमोरीश्की । ईश् की इति द्वे पदे । ईदृक्, ईदृश इति । इदमिव दृश्यते इत्यर्थे त्यदादिषु दृशेः क्विन्कयौ । ईशः शित्त्वं सर्वादेशत्वाय । वक्ष्यत इति । तद्धितप्रकरणे इयान् इत्युदाहरणं वक्ष्यत इत्यर्थः । दृक्षे चेति । इदंकिमोः ईश्की वक्तव्यौ इति शेषः । आ सर्वनाम्न इति । आ इति लुप्तप्रथमाक्रम् । तादृक्, तादृश इति । तदिव दृश्यत इत्यर्थे 'त्यदादिषु दृशः -' इति क्विन्कत्रौ । तदो दकारस्यास्वे सवर्णदीर्घः । तावानिति । तत् परिमाणमस्येति विग्रहे 'यत्तदेतेभ्यः-' इति वतुप् । तादृक्ष इति । तदिव दृश्यत इति विग्रहः । अमूहगित्यत्र प्रक्रियां दर्शयति-दीर्घ इति । दस त्त्वे कृते सवर्णदीर्घः । तत ऊत्त्रमत्वे इत्यर्थः । अः सेरिति व्याख्यानेऽपि श्रकारेण श्राकारस्यापि ग्रहणाद् ऊत्त्वमत्वे । समासेऽङ्गुलेः सङ्गः । भीरोः स्थानम् । ज्योतिरायुषः स्तोमः । अत्र त्रिसूत्र्याम् अङ्गुलेः सङ्गः, भीरोः स्थानम्, ज्योतिषः स्तोमः, आयुषः स्तोम इत्याद्यर्थे प्रत्यासत्त्या तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य ष इत्यर्थः । तद् ध्वनयन् प्रत्युदाहरति — श्रङ्गुलेः सङ्ग इत्यादि । नेह 'इएको:' इत्यनुवर्तते, व्याख्यानात् । सुषामादिषु च । स्पष्टम् । एति संज्ञायामगात् । एकारे परे सस्य षः दीर्घ इति । स त्वे कृते सवर्णदीर्घ इत्यर्थः । एतच्च पूर्वोत्तरोदाहरणान्वयि । भीरोः स्थानमिति । विसर्जनीयव्यवधानेऽपि षत्वप्राप्तिरस्ति । ज्योतिषः स्तोम Page #258 -------------------------------------------------------------------------- ________________ प्रकरणम् २५] बालमनोरमा तत्त्वबोधिनीसहिता। [२५५ हरिसक्थम् । संज्ञायां किम्-पृथुसेनः । अगकारात् किम्-विष्वक्सेनः । इएकोः इत्येव । सर्वसेनः । १०२४ नक्षत्राद्वा । (८-३-१००) (ग १८३) । एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः, रोहिणीसेनः । अगकारात् किम्-शतभिषक्सेनः । प्राकृतिगणोऽयम् । १८२५ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु । (६-३-६६) अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदास्था। अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः । अन्यद्रागः। अन्यदीयः । अषष्ठीत्यादि किम्- अन्यस्यान्येन वाशीरन्याशीः । 'कारके के च नायं निषेधः' (वा ५०४८ )। अन्यस्य कारकोऽन्यत्कारः। अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः । १०२६ अर्थे विभाषा । (६-३-१००) अन्यदर्थः । अन्यार्थः । १०२७ कोः कत्तत्पुरुषेऽचि । (६-३-१०१) अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदबम् । तत्पुरुषे किम्-कूष्ट्रो राजा । 'त्रौ च (वा ३९६८) कुत्सितात्रयः कस्त्रयः। १०२८ रथवदयोश्च । (६-३-१०२) कद्रथः । कद्वदः । १०२६ तृणे च जातौ । (६-३-१०३) कत्तृणम् । स्यादित्यर्थः । नक्षत्राद्वा । स्पष्टम् । अषष्ठयतृतीयास्थस्य । अषष्ठयाम् अतृतीयायां च परतस्तिष्ठतीति अषष्ठयतृतीयास्थः, तस्य अषष्ठीतृतीयान्तस्येत्यर्थः । अषष्टीतृतीयास्थस्येत्येव सिद्धे नद्वयोपादानं स्पष्टार्थम् । आशीरादिग्विति । आशीः, आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ इत्येतेषु इत्यर्थः । दुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । अन्यदाशीरित्यादयः कर्मधारयाः । नायं निषेध इति । 'अषष्ठयतृतीयास्थस्य' इति निषेधः कारकच्छयो स्तीत्यर्थः । भाष्योतमिदम् । अर्थ विभाषा । अन्यस्य दुगिति शेषः । कोः कत्तत्पुरुषेऽचि । कत् इति च्छेदः । शेषपूरणन सूत्रं व्याचष्टे-अजादावुत्तरपद इति । कदश्वः, कदन्नमिति । 'कुगति-' इति समासः । कूष्ट्रो राजेति । कुत्सित उष्ट्रो यस्येति बहुव्रीहित्वाद् न कदादेशः । त्रौ चेति । त्रिशब्दे परे कदादेशो वक्तव्य इत्यर्थः । उत्तरपदस्याजादित्वाभावाद् वचनम् । रथवदयोश्च । 'कोः कत्तत्पुरुषे-' इति । इह 'ज्योतिःस्तोमोऽयम्' इति प्रत्युदाहर्तुमुचितम् । एति संक्षायामिति । सुषामाद्यन्तर्गणसूत्रमेतत् । एवं 'नक्षत्राद्वा' इत्यपि। विष्वक्सेन इति। चर्वस्यासिद्धत्वाद्कारेण व्यवधानमस्तीति भावः । अषष्ठय। अन्यदाशीरित्यादयः कर्मधारयाः। नायं निषेध इति । एतच्च 'अषष्ठीतृतीयास्थस्य-' इत्येव सिद्धे निषेधानित्यत्वज्ञापनार्थाद् द्विर्नन उपादानाल्लभ्यत इत्याहुः।ौ चेति । अनजाद्यर्थमिदं वार्तिकम् , Page #259 -------------------------------------------------------------------------- ________________ २५६ ] सिद्धान्तकौमुदी । [ समासाश्रयविधि १०३० का पध्यक्षयोः । ( ६-३ - १९०४ ) कापथम् । कालः । श्रतशब्देन तत्पुरुषः, श्रक्षिशब्देन बहुव्रीहिर्वा । १०३१ ईषदर्थे । ( ६-३ - १०५) ईषज्जलं काजलम् । श्रजादावपि परत्वास्कादेश:: - काम्लः । १०३२ विभाषा पुरुषे । (६-३-१०६) कापुरुषः, कुपुरुषः । श्रप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः । १०३३ कवं चोष्णे । ( ६-३ - १०७ ) उष्णशब्दे उत्तरपदे कबं का च वा स्यात् । कवोष्णम्, कोष्णम्, कदुष्णम् । १०३४ पृषोदरादीनि यथोपदिष्टम् । ( ६-३ - १०६ ) पृषोदरप्रकाराणि इति शेषः । कद्रथः, कद्वद इति । 'कुगति -' इति समासः । वदतीति वदः । कुत्सितो वदः कद्वदः । तृणे च जातौ । तृणशब्दे कोः कत्स्याद् जातौ वाच्यायाम् । कत्तृणामिति । तृणजातिविशेषोऽयम् । 'अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम्' इत्यमरः । का पथ्यक्षयोः । पथिन्, अक्ष अनयोः परतः कोः का इत्यादेशः स्यादित्यर्थः । कापथमिति । कुत्सितः पन्था इति विग्रहः । ' कुगति -' इति समासः । ‘ऋक्पू:-' इत्यप्रत्ययः । 'पथः संख्याव्ययादेः' इति नपुंसकत्वम् । कापथ इति पाठे तु बहुव्रीहिः । काक्षशब्दे समासं दर्शयति- अक्षशब्देन तत्पुरुष इति । कुत्सितमक्षमिन्द्रियमिति विग्रहे ‘कुगति -' इति समास इत्यर्थः । अक्षिशब्देनेति । कुत्सिते अक्षिणी यस्येति विग्रहे 'बहुव्रीहौ सक्थ्यदणोः -' इति षजित्यर्थः । ईषदर्थे । ईषदर्थे विद्यमानस्य कोः का इत्यादेशः स्यादित्यर्थः । ईषज्जलं काजलमिति । ईषद् जलमिति विग्रहे 'कुगति -' इति समासः । नित्यसमासत्वाद् स्वपदविग्रहप्रदर्शनम् । कुत्सित आम्लः काम्ल इत्यत्र 'कोः कत्तत्पुरुषेऽचि' इति कदादेशमाशङ्कयाह – अजादावपीति । विभाषा पुरुषे । कोः का इत्यादेश इति शेषः । अप्राप्तविभाषेति । ननु को ईषदर्थकत्वे सति ईषदर्थे' इति नित्ये कादेशे प्राप्ते विकल्प संभव इत्यत आह--- ईषदर्थे हीति । वृत्त्यनुसारेणेदमुक्तम्, पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात् । कवं चोपणे । कवं का च वेति । विभाषेत्यनुवृत्तेरिति भावः । उभयाभावे कदादेशः । तथाच रूपत्रयम् । तदाह – कोष्णम्, कवोष्णम्, कदुष्णम् इति । पृषोदरादीनि यथोपदिष्टम् । आदिशब्दो न प्रभृतिवाची, गणपाठे पृषोदरादिपाठस्यादर्शनाद् यथोपदिष्टपदस्य वैयर्थ्याच्च । किंतु प्रकारवाची, 'कत्र्यादिभ्यो ढकञ्' इति निर्देशेनैव सिद्धम् । कापथमिति । कुत्सितः पन्थाः । 'ऋक्पूरब्धू:-' इति समासान्तः । ' पथः संख्याव्ययादेः' इति नपुंसकत्वम् । अप्राप्तविभाषेति । 'ईषदर्थे' इत्यस्याननुवृत्तेरिति भावः । पृषोदरप्रकाराणीति । १ ‘इत्यजित्यर्थः' इत्यन्यत्र पाठः । | Page #260 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २५७ शिष्टैर्यथोश्चरितानि तथैव साधूनि स्युः । पृषदुदरं पृषोदरम्, तलोपः । वारिवाहको वलाहकः, पूर्वपदस्य वः, उत्तरपदादेश्च लत्वम् । 'भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोरमा वर्णविकृतेर्व नाशास्पृषोदरम् ।' 'दिक्छ्ब्देभ्यस्तीरस्य तारभावो वा' (वा ३३६६) दक्षिणतारम्, दक्षिणतदाह - पृषोदरप्रकाराणीति । प्रकारः सादृश्यम्, तच्च शास्त्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम् । व्याकरणशास्त्रागृहीतानीति यावत् । उपपूर्वको दिशिरुच्चारणार्थः । भावे क्तः । उपदिष्टमुपदेशः, उच्चारणम्, तदनतिक्रम्य यथोपदिष्टम् । पदार्थानतिवृत्तावव्ययीभावः । शिष्टैरित्यध्याहार्यम् । तथाच फलितमाह — शिष्टैर्यथोच्चारितानि तथैव साधूनीति । शिष्टास्तु शब्दतत्त्वसाक्षात्कारवन्तो योगिन इति भाष्यययोः स्पष्टम् । तलोप इति । षष्ठीसमासे सुब्लुकि तलोपे 'आद्गुणः ' इति भावः । पूर्वपदस्येति । वारिवाहकशब्दे वारिशब्दस्य पूर्वपदस्य वकारः सर्वादेशः । वाहकशब्द उत्तरपदं तदादेर्वकारस्य लकारादेश इत्यर्थः । भवेद्वर्णागमास इति । हसधातोः पचाद्यचि अनुखारागमे हंस इति रूपमित्यर्थः । हनधातोरचि समागमे 'नश्चापदान्तस्य -' इति अनुस्वार इत्यन्ये । सिंहो वर्णविपर्ययादिति । 'हिसि हिंसायाम्' इत्यतः पचाद्यचि इदित्त्वान्नुम् । 'नश्च-' इत्यनुस्वारः । हकारस्य सकारः, सकारस्य हकारश्च । सिंह इति रूपमित्यर्थः । यद्यपि हंससिंहयोरुणादौ व्युत्पत्तिरुक्ता, तथाप्युगादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः । गूढोत्मा वर्णविकृतेरिति । गूढ आत्मा यस्येति बहुव्रीहौ उत्तरपदादेराकारस्य उकारे द्वणे रूपमिति भावः । वर्णनाशात्पृषोदरमिति । पृषद् उदरमित्यत्र तकारलोपे सति आद्गणे पृषोदरमिति श्रादिशब्दो हि न व्यवस्थावचनः, यथोपदिष्टपदानर्थक्यादिति भावः । शिष्टैरिति । अध्याहारलभ्यमिदम् । 'यथोपदिष्टम्' इत्यत्र यथार्थेऽव्ययीभावः । उपदिशिश्वोच्चारणक्रियः । ' यानि यानि शिष्टैरुपदिष्टानि' इत्यर्थः । एवं स्थिते फलितमाह यथोश्चारितानि तथैवेति । समासपदविषयकमिदम् । उत्तरपदाधिकारात् । निरुक्तादिशास्त्रसिद्धानामसमासपदानाम् 'उणादयो बहुलम्' इत्येव सिद्धेश्च । यद्यपि समासविषयक - मेवेति नियमो न युज्यते, हंस सिंहशब्दयोरपि प्राचां कारिकायामुदाहृतत्वात्, तथापि तत्कारिकायां यथाशब्दाध्याहारेण दृष्टान्तप्रदर्शनार्थं तयोरुपन्यासः कृतो न तु प्रकृतसूत्रोदाहरणत्वेनेति नियमोक्तिः सम्यगेवेत्याहुः । वर्णागमादिति । हन्तेः पचाद्याचे समागमः । विपर्ययादिति । हिंसेस्तु पचाद्यचि हकार सकारयोः स्थानव्यत्ययः । Page #261 -------------------------------------------------------------------------- ________________ २५८ ] सिद्धान्तकौमुदी। [समासाश्रयविधितीरम् । उत्तरतारम् , उत्तरतीरम् । 'दुरो दाशनाशदमध्ये स्वमुत्तरपदादेः ष्टुत्वं च' (वा ४००१) दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभः । खल त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढयः । 'पातश्च-' (स २८१८) इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी। ब्रुवच्छब्दस्य बृ श्रादेशः । सदेरधिकरणे डट् । प्राकृतिगणोऽयम् । १०३५ संहितायाम् । (६-३-११४ ) अधिकारोऽयम् । १०३६ कर्णे लक्षणस्याभवतीत्यर्थः । दिक्छब्देभ्यस्तीरस्येति । वार्तिकमिदम् । दुरो दाशेति । इदमपि वार्तिकम् । दुर् इत्यस्य दाश, नाश, दम, ध्य इत्येतेषु परेषु उत्वम् उत्तरपदादेः ष्टुत्वं च वक्तव्यमित्यर्थः । दूडाश इति । दुर् दाश इति स्थिते रेफस्योत्वे सवर्णदीर्घः, दाशेर्दकारस्य ष्टुत्वेन डकारः। दूणाश इति । दुर् नाश इति स्थिते रेफस्य उत्वं सवर्णदीर्घः । नाशेर्नकारस्य ष्टुत्वेन णत्वम् । दूडभ इति । दुर् दभ इति स्थिते रेफस्य उत्वं सवर्णदीर्घः । दभेदकारस्य ष्टुत्वेन डकारः । खल त्रिभ्य इति । 'दाच दाने 'णश अदर्शने' ण्यन्तः, 'दम् हिंसायाम्' इति त्रिभ्यो धातुभ्यः 'ईषद्दुस्सुषु-' इति खलप्रत्यय इत्यर्थः । ननु क्ङित्परकत्वाभावात् कथमिह 'अनिदिताम्-' इति नलोप इत्यत आह-दम्भेनलोपो निपात्यत इति । दूढ्य इति । दुर् ध्य इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम् । आतश्चेति । 'ध्यै चिन्तायाम्' 'आतश्चोपसर्गे' इति कप्रत्यये 'आदेच उपदेशे-' इति आत्त्वे 'आतो लोप इटि च' इत्याल्लोपे ध्यशब्द इत्यर्थः । सदेरिति । सद्धातोः अधिकरणेऽर्थे डटि डित्त्वसामर्थ्यादभस्यापि टेर्लोपे स इति रूपम् । ब्रुवत् स इति स्थिते उपपदसमासे सुब्लुकि ब्रुवच्छब्दस्य बृ इत्यादेशे बृसशब्दात् 'टिड्ढ-' इति डीपि बृसीति रूपमिति भावः । दिक्छब्देभ्य इत्यारभ्य एतदन्तः सन्दर्भः पृषोदरादीनीत्यस्यैव प्रपञ्चः । प्राकृतिगणोऽयमिति । पृषोदरादिरित्यर्थः । तेन कर्तुकामः, कर्तुमना दिक्शब्देभ्य इति । वार्तिकमिदम् । 'दुरो दाशनाश-' इत्यप्येवम् । खल् त्रिभ्य इति । दाशनाशदभेति त्रयोऽपि 'ईषुद्दःसुषु-' इति खल्प्रत्ययान्ता इत्यर्थः।बृसीति । 'मुनीनामासनं बृसी' । प्राकृतिगणोऽयमिति । तेन-'लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि। समो वा हितततयोर्मासस्य पचि युड्घनोः' । इत्यपि संगृहीतम् । कृत्यान्ते उत्तरपदे अवश्यमः अन्तं पुमान् लुम्पेत् । अवश्यगन्तव्यः, अवश्यसेव्यः । तथा तुमः काममनसोः परतः अन्तं लुम्पेत् । गन्तुकामः, गन्तुमनाः । समो हितततयोः अन्तं वा लुम्पेत् । सहितः संहितः। सततः संततः । युट् घञ् च एतयोः परो यः पच् धातुः तस्मिन्परे मांसस्यान्तं लुम्पेत् । मांस्पचनी । मांस्पाकः । इह Page #262 -------------------------------------------------------------------------- ________________ प्रकरणम् २५] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५६ विष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रवस्वस्तिकस्य । (६-३-११५) कर्णशब्दे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । लक्षणस्य किम्- शोभनकर्णः । अविष्टादीनां किम्-विष्टकर्णः, अष्टकर्णः, पञ्चकर्णः, मणिकर्णः । भिन्नकर्णः, छिन्नकर्णः, छिद्रकर्णः, स्रवकर्णः, स्वस्तिककर्णः । १०३७ नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ। (६-३-११६ ) क्विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावट । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । कौ इति किम्-परिणहनम् । 'विभाषा पुरुषे' इत्यादिसंग्रहः । संहितायाम् । सुगमम् । कर्णे लक्षणस्य । दीर्घविधिः, 'ठूलोपे-' इत्यतस्तदनुवृत्तेः । यत्पशूनां स्वामिविशेषसंबन्धज्ञानार्थं दात्रशूलचक्राद्याक रचिह्न क्रियते तल्लक्षणशब्देन विवक्षितम् । तेन लम्बकर्ण इत्यादौ नातिप्रसङ्गः । द्विगुणाकर्ण इति । द्विगुणरेखौ कौँ यस्येति विग्रहः । अष्टकर्ण इत्यादेरष्टसंख्यालिपिचिह्नकर्ण इत्यादिरर्थः । अष्टसंख्याकरेखाचिह्नकर्ण इति वा । नहिवृति । उपानदिति । 'णह बन्धने' 'णो नः' सम्पदादित्वात्कर्मणि विप् । उपनयत इत्युपानत् । पूर्वपदस्य दीर्घः । 'नहो धः' । निवर्तते इति नीवृत् । 'वृतु वर्तने' कर्तरि किप, दीर्घः । प्रवर्षतीति प्रावृट् । 'वृष सेचने' क्विप् , दीर्घः । मर्माणि विध्यतीति मर्मावित् । क्विप् , 'अहिज्या-' इति संप्रसारणम् , उपपदसमासः, सुब्लुक्, नलोपः, दीर्घः । निरोचत इति नीरुक्, 'रुच् दीप्तौ' क्विप, दीर्घः । ऋतिं सहत इति ऋतीषट् । 'सह मर्षणे' क्विप, दीर्घः । 'हो ढः', 'सात्पदाद्योः' इति षत्वनिषेधे प्राप्ते 'पूर्वपदात्-' इति षत्वमिति हरदत्तः, सुषामादित्वादित्यपरे। परितनोतीति परीतत् । 'तनु विस्तारे' क्विप्, 'गमः क्वौ' इत्यत्र गमादीनामित्युपसंख्यानाद् अनुनासिकलोपः, तुक्, दीर्घः । अथ पटुरुक्, तिग्मरुगित्यादौ दीर्घमाशङ्कयाहसंयोगान्तलोपोऽपि शिष्टोचारणानेति बोध्यम् । संहितायाम् । तेन 'द्विगुणाकर्णः' इत्यादौ अवग्रहे दीर्घो न भवतीति सूत्राशयमुत्प्रेक्षयन्ति-अधिकारोऽयमिति । तेन 'विद्मा हि त्वा' इत्यादौ पदकाले 'यचोतस्तिङः' इति दी| नेत्यादिप्रयोजनान्यूह्यानीति । नहिवृति । 'गह बन्धने', 'वृतु वर्तने', 'वृषु सेचने', 'व्यध ताडने', रुच दीप्तौ', 'षह मर्षणे', 'तनु विस्तारे'। क्विबन्तेष्विति । उत्तरपदेषु इति शेषः। तेन 'दिवसेषु रुक्' इत्यादौ नातिप्रसङ्गः । उपानदिति । संपदादित्वात्कर्मणि क्विम् । निवर्तते इति नीवृत् । प्रवर्षति इति प्राट् । मर्माणि विध्यति इति मर्मवित् । व्यधेः 'अहिज्या-' इति संप्रसारणम् । निरोचते इति नीरुक् । ऋतिं सहते ऋतीषट् । 'पूर्वपदात्-' इति षत्वमिति हरदत्तः । 'सहेः पृतनर्ताभ्यां च' इत्यत्र 'सहेः' इति योग Page #263 -------------------------------------------------------------------------- ________________ २६० ] सिद्धान्तकौमुदी। [समासाश्रयविधि. (सू १०३२) इत्यतो मण्डूकप्लुस्या विभाषा अनुवर्तते, सा च व्यवस्थिता, तेन गतिकारकयोरेव । नेह--पटुरुक्, तिग्मरुक् । १०३८ वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् । (६-३-११७) कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् । १०३६ वनं पुरगामिश्रकासिधकासारिकाकोटराग्रेभ्यः। (८-४-४) वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदी. र्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । विभाषेति । पटुरुगिति । पटु रोचत इति विग्रहः । उभयत्र कर्तरि क्विप् , पूर्वपदयोर्गतिकारकान्यतरत्वाभावान दीर्घः । व्यवस्थितविभाषाश्रयणे व्याख्यानमेव शरणम् । वनगिर्योः । वनगिर्योरिति सप्तमी। कोटरश्च किंशुलुकश्च कोटरकिंशुलुकौ, तावादी येषामिति विग्रहः । कोटरादीनां किंशुलुकादीनां चेति लभ्यते । यथासंख्यमन्वयः । तदाह-कोटरादीनामित्यादिना । पुरगावणमित्युदाहरणानि वक्ष्यन्ते। तत्र णत्वविधि दशेयति-वनं पुरगा। वनमिति षष्ठयर्थे प्रथमा इत्यभिप्रेत्याहवनशब्दस्येति । एभ्य इति । पुरगा, मिश्रका, सिध्रका, सारिका, कोटर, अग्रे इत्येतेभ्य एव परस्य उत्तरपदस्य वनशब्दस्य यो नकारस्तस्य णत्वमित्यन्वयः, 'रषाभ्याम्-' इत्यतो णो न इत्यनुवृत्तेः। सूत्रे अग्रे इति सप्तम्यन्तस्यानुकरणम् । नन्विह भिन्नपदत्वाद् 'अटकुप्वाङ्-' इति णत्वस्याप्राप्तेः अपूर्वविध्यर्थकत्वावश्यकत्वाद् एभ्य एवेति कथं नियमलाभ इत्यत आह-इह कोटरान्ता इति । इह णत्वविधौ उपात्ताः पुरगा मिश्रका सिध्रका सारिका कोटर इत्येवं पञ्च शब्दाः, त एव वनगिर्योरिति दीर्घविधौ कोटरादिशब्देन विवक्षिता इत्यर्थः । ततः किमित्यत आह-तेषामिति । णत्वविधौ तावत्पुरगादिशब्दाः पञ्च दीर्घान्ता एव निर्दिष्टाः । दीर्घस्तु तेषां संज्ञायाविभागाच्चकारस्यानुक्तसमुच्चयाद्वेत्यन्ये । सुषामादेराकृतिगणत्वादित्यपरे । परितनोति इति परीतत् । 'गमः क्वी' इत्यत्र ‘गमादीनामिति वाच्यम्' इत्युक्तनलोपः । वनं पुरगा। व्यत्ययेन षष्ठयर्थे प्रथमा इत्याह-वनशब्दस्येति । एभ्य एवेति । कृतदीर्घभ्यः पुरगादिभ्य एव परस्य णत्वमित्यर्थः। एभ्यो वनस्येव णत्वं नान्येषाम्' इति विपरीतनियमशङ्का तु न भवति, वनादन्यस्मिन्नुत्तरपदे पुरगादीनां दीर्घान्त त्वासंभवात् । नियमार्थ इति । अयं भावः-'पुरगामिश्रका-' इति दीर्घनिर्देशादसंज्ञायां दीर्घाभावेन संज्ञायामेव णत्वमिति फलितम् । एव च 'पूर्वपदात् संज्ञायाम्' इत्यनेनैव वनस्य णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थ एवेति । विध्यर्थ इति । असंज्ञात्वेन 'पूर्वपदात्संज्ञायाम्' इत्यस्या Page #264 -------------------------------------------------------------------------- ________________ प्रकणरम् २५] बालमनोरमा तत्त्वबोधिनीसहिता। [२६१ मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एव इति किम्-असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमाने प्रथमा । किंशुलुकागिरिः । १०४० वले । (६-३-११८ ) वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः । १०४१ मेव वनगिर्योरिति विहितः । एवं च एतेषामसंज्ञायां दीर्घाभावात् संज्ञायामेव वनं परगा-' इति णत्वविधिरिति पर्यवस्यति । ततश्च तेषु वनशब्दनकारस्य 'पूर्वपदात्संज्ञायामगः' इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादिपञ्चकस्य णत्वविधौ निर्देशो नियमार्थः संपद्यत इत्यर्थः । अग्रेशब्दस्य त्विति । णत्वविधौ अग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्दस्यासंज्ञात्वादिति भावः । न च पुरगावणशब्दे गकारव्यवधानात् 'पूर्वपदात्संज्ञायाम्-' इत्यस्य प्राप्तयसंभवाद् अत्र अपूर्वणत्वविध्यर्थमेव पुरगाग्रहणमिति वाच्यम्, अग इति हि पञ्चमी । गकारान्तात्पूर्वपदात्परस्य णत्वं नेति लभ्यते। पुरगाशब्दस्त्वयम् आकारान्त एव, न तु गकारान्त इति, तत्र अग इति निषेधाप्राप्तथा पूर्वपदात्संज्ञायाम्-' इत्येव सिद्धे, पुरगाग्रहणमपि नियमार्थमेवेति भावः। पुरगावणमित्यादयो नरकविशेषाणां संज्ञाः । असिपत्रवनमिति । नरकविशेषोऽयम् । अत्र संज्ञात्वेऽपि 'पूर्वपदात्संज्ञायाम्-' इति णत्वं न भवति, एभ्य एवेति नियमादिति भावः । अग्रेवणमिति । वनशब्दस्य षष्ठयन्तस्य अग्रेशब्देन सह षष्ठीसमास इति भावः। ननु तर्हि 'सुपो धातु-' इति सप्तम्या अपि लुक् स्यादित्यत आह-राजदन्तादिष्विति । अनेन वनशब्दस्य परनिपातोऽपि सूचितः । ननु सप्तम्यर्थप्राधान्यात्सप्तमी स्यादित्यत आह-प्रातिपदिकेति। सप्तम्यर्थस्य प्रातिपदिकेऽन्तर्भावादिति भावः । किंशुलुकादीनामुदाहरणमाहकिंशुलुकागिरिरिति । अञ्जनागिरिरित्यप्युदाहार्यम् । वले । कृषीवल इति । कृषिरस्यास्तीति विग्रहे 'रजःकृष्यासुति-' इत्यादिना वलच् । प्रवृत्तेरिति भावः । न च पुरगाग्रहणमपि विध्यर्थमेव, गकारव्यवधानेन 'पूर्वपदात्संज्ञायाम्' इत्यस्य प्राप्त्यभावादिति वाच्यम् । 'अगः' इत्यस्य पञ्चम्यन्तत्वं स्वीकृत्य 'गान्तात्पूर्वपदात्परस्य णत्वं न' इति व्याख्यानात् । पुरगाशब्दस्य त्वकारान्तत्वाद् 'अगः' इति निषेधस्याप्रवृत्तेः । अतएव 'अगः' इत्यस्य 'ऋगयनम्' इत्येकमेवोदाहरणमिति 'अणगयनादिभ्यः' इति निर्देशाश्रयेण तत्प्रत्याख्यातमाकरे । पुरगावणमित्यादि । नरकविशेषस्य संज्ञा । असिपत्रवनमिति । 'एभ्यो वनस्यैव' इति विपरीतनियमे तु णत्वमत्र दुर्वारमिति भावः । सप्तम्यर्थस्य प्रातिपदिकार्थे अन्तर्भावा. दाह-प्रथमेति । किंशुलुकादीनामुदाहरणमाह-किंशुलुकागिरिरिति । आदि Page #265 -------------------------------------------------------------------------- ________________ २६२] सिद्धान्तकौमुदी। [समासाश्रयविधिमतौ बह्वचोऽनजिरादीनाम् । (६-३-११६) अमरावती। अनजिरादीनां किम्-अजिरवती । बह्वचः किम्-बीहिमती । संज्ञायाम् इत्येव, नेह-वलयवती। १०४२ शरादीनां च । (६-३-१२०) शरावती । १०४३ इको वहेऽपीलोः। (६-३-१२१) इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । कपीवहम् । इकः किम्पिण्डवहम् । अपीलोः किम्-पीलुवहम् । 'अपीरवादीनामिति वाच्यम्' (वा १००५) दारुवहम् । १०४४ उपसर्गस्य घञ्यमनुष्ये बहुलम् । (६-३-१२२) उपसर्गस्य बहुलं दीर्घः स्याद्धजन्ते परे, न तु मनुष्ये । परीपाकः, परिपाकः । अमनुष्ये किम्-निषादः । १०४५ इकः काशे । (६-३-१२३) इगन्तस्योपसर्गस्य दीर्घः स्यास्काशे । नीकाशः । इकः किम्प्रकाशः । १०४६ अष्टनः संज्ञायाम् । (६-३-१२५) उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम्-अष्टपुत्रः । १०४७ चितेः कपि । (६-३-१२७) मतौ । मतुप्प्रत्यये परे वह्वचो दीर्घः स्यात्संज्ञायाम् , न त्वजिरादीनामित्यर्थः । अमरावतीति । इन्द्रनगर्याः संज्ञेयम् । अमरा अस्यां सन्तीति विग्रहः । 'मादुपधायाश्च-' इति 'संज्ञायाम्' इति वा मस्य वः । अजिरवतीति । नदीविशेषस्य संज्ञेयम् । वलयवतीति । अनजिरादित्वेऽप्यसंज्ञात्वान्न दीर्घ इति भावः । शरादीनां च । मतो दीर्घः संज्ञायामिति शेषः । अबह्वच्कत्वात्पूर्वेण न प्राप्तिः । शरावतीति । शरा अस्यां सन्तीति विग्रहः । नदीविशेषस्य नाम । इको वहेऽपीलोः। अपीलोरिति च्छेदः । इगन्तस्येति । पूर्वपदस्येति शेषः । उपसर्गस्य । परीपाक इति । पचेर्भावे घञ् , उपधावृद्धिः । 'चजोः कु घिराण्यतोः' इति कुत्वम् । निषाद इति । पुलिन्दो नाम मनुष्यजातिविशेषः । निषीदत्यस्मिन् पापमिति निषादः । 'हलश्च' इत्यधिकरणे घञ् । दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः । यद्वा प्रतीहारो द्वारम् , तत्स्थत्वाद् मनुष्ये गौणः । इकः काशे । नीकाश इति । पचाद्यजन्तत्वात् पूर्वेण न प्राप्तिः । अष्टनः संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे-उत्तरपदे दीर्घ इति । अष्टापदमिति । शब्दग्राह्यास्तु 'अञ्जनागिरिः' इत्यादयः। किंशुलुकेति किम् , कृष्णगिरिः, रामगिरिः। कृषीवल इति । 'रजःकृष्यासुति-' इत्यादिना मत्वर्थ वलच् । अमरावतीति । 'मादुपधायाश्च-' इति, 'संज्ञायाम्' इति वा मतोर्मस्य वः। घमात्रस्योत्तरपदत्वासंभवादाह-घनन्त इति । निषाद इति । पुलिन्दो मनुष्यजातिः । 'निषीदत्यस्मिन् पापम्' इति निषादः, 'हलच' इत्यधिकरणे घञ् । कथं तर्हि दौवारिके प्रतीहारशब्दप्रयोग इति चेत् । अत्राहुः-प्रतीहारो द्वारम् । तात्स्यात्ताच्छब्द्यमिति । Page #266 -------------------------------------------------------------------------- ________________ प्रकरणम् २५] बालमनोरमात्तत्त्वबोधिनीसहिता। [२६३ एकाचितीकः । द्विचितीकः । १०४८ नरे संज्ञायाम् । (६-३-१२६) विश्वानरः । १०४६ मित्रे चर्षों । (६-३-१३०) विश्वामित्रः । ऋषौ किम्विश्वमित्रो माणवकः । 'शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दी? वाच्यः' (वा १०४६) श्वादन्त इत्यादि । १०५० प्रनिरन्तःशरेचुप्लक्षाम्रकायॆखदिरपीयूक्षाभ्योऽसंज्ञायामपि । (८-४-५) एम्यो वनस्य णत्वं स्यात् । प्रवणम् । कार्यवणम् । इह षात्परत्वाएणत्वम् । १०५१ विभाषौषधिवनस्पतिभ्यः। (-४-६) एभ्यो वनस्य एवं वा स्यात् । दूर्वावणम् , दूर्वावनम् । शिरीषवणम् , शिरीषवनम् । 'बघ्यज्भ्यामेव' (वा ४९८४)। नेहसंज्ञात्वमन्वेषणीयम् । चितेः कपि । दीर्घ इति शेषः । एकचितीक इति । अग्न्याख्यस्थण्डिलविशेष इति शेषः । एका चितिर्यस्येति विग्रहः । शैषिकः कप् । द्विचितीक इति । द्वे चिती यस्येति विग्रहः । नरे संज्ञायाम् । विश्वस्य दीर्घ इति शेषः । 'विश्वस्य वसुराटोः' इति पूर्वसूत्राद् विश्वस्येत्यनुवर्तते । मित्रे चर्षों। मित्रशब्दे परे विश्वस्य दीर्घः स्यात् । ऋषौ वाच्य इत्यर्थः । शुनो दन्तेति । श्वनशब्दस्य दन्तादिषु परतो दीर्घ इत्यर्थः । श्वादन्त इति । शुनो दन्त इति विग्रहः । श्वादंष्ट्रा, षष्ठीसमासः । दीर्घान्त एव दंष्ट्राशब्दो वार्तिके पठ्यत इति केचित् । ह्रस्वान्त इत्यन्ये । श्वादंष्ट्रः । बहुव्रीहिरयम्। श्वाकर्णः, श्वाकुन्दः, श्वावराहः, श्वापुच्छम् , श्वापदः । श्वपुच्छमवनामितमित्यसाध्वेव । प्रनिरन्तः । एभ्य इति । प्र, निर्, अन्तर, शर, इक्षु, प्लक्ष, आम्र, कार्य, खदिर, पीयूक्षा इत्येतेभ्य इत्यर्थः । वनस्येति । 'वनं पुरगा-' इत्यतस्तदनुवृत्तेरिति भावः । प्रवणमिति । प्रकृष्टं वनमिति विग्रहः । प्रादिसमासः। इहेति । काष्येवणमित्यत्र षकारात्परत्वेन णत्वम्, नतु रेफात् परत्वमादाय, अडादिभिन्नषकारेण व्यवधानादिति भावः । एतेन कार्येति तालव्यशकारमध्यपाठोऽप्रामाणिक इति सूचितम् , तथा सति निमित्ताभावाद् णत्वासंभवात् , अटकुप्वाभिनेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वासंभवात् । नि. र्वणम् , अन्तर्वणम् , शरवणम् , इचवणम् , प्लक्षवणम् , अाम्रवणम् , खदिरवणम् , पीयूक्षावणम् । विभाषौषधि । वनस्य णत्वमिति । ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य णत्वं वेत्यर्थः । ओषधिभ्य उदाहरति-दविणमिति । 'ओषध्यः फलपाकान्ताः' इत्यमरः । अथ वनस्पतिभ्य उदाहरति-शिरीएकचितीक इति । 'शेषाद्विभाषा' इति कप् । 'दंष्ट्रा' इति वार्तिके दीर्घान्तः पठ्यते। केचित्तु ह्रस्वान्तं पठित्वा 'श्वादंष्ट्रः' इति बहुव्रीहौ दीर्घमाहुः, न तु तत्पुरुषे । इह षादिति । 'काय' इति तालव्यपाठस्त्वनार्ष इति भावः । वनस्पतिभ्यो वनस्य णत्व Page #267 -------------------------------------------------------------------------- ________________ २६४ ] सिद्धान्तकौमुदी। [समासाश्रयविधिदेवदारुवनम् । 'इरिकादिभ्यः प्रतिषेधो वक्तव्यः' (वा ४६८५)। इरिकावनम् । मिरिकावनम् । तिमिरोवनम् । १०५२ वाहनमाहितात् । (८-४-८) अारोप्य यदुयते तद्वाचिस्थानिमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इतुवाहणम् । माहितात् किम्-इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेयुटि वृद्धिरिहैव सूत्रे निपातनात् । १०५३ पानं देशे । (८-४-६) पूर्वपदस्थानिमिषवणमिति । यद्यपि यः पुष्पेविना फलति स एव उदुम्बरादिवनस्पतिः, 'वानस्पत्यः फलैः पुष्पात्तैरपुष्पादनस्पतिः' इत्युक्तेः। शिरीषवृक्षश्वायं पुष्पफलवानेव, न वनस्पतिः । तथापि वनस्पतिशब्देनात्र वृक्षसामान्यं विवक्षितम् । अत एव 'लुपि युक्तवयक्तिवचने' इति सूत्रे भाष्ये शिरीषवणमित्यत्र शिरीषे वनस्पतित्वं व्यवहृतमिति दिक् । द्यच्यज्भ्यामेवेति । परस्य वनस्य णत्वं वाच्यमिति शेषः। देवदारुवनमिति । प्रत्युदाहरणम् । इरिकादिभ्य इति । एभ्यः परस्य वनस्य णत्वप्रतिषेध इत्यर्थः । वाहनमाहितात् । वाहने आधीयते वहनाय यत् , नतु स्वयमेवारोढुं शक्नोति तदाहितम् । तदाह-पारोप्येति । निमित्तादिति । रेफषकारान्यतरस्मादित्यर्थः । वाहननकारस्येति । वाहनस्य यो नकारस्तस्येत्यर्थः । अनेन सूत्रे वाहनमिति षष्ठयर्थे प्रथमेति सूचितम् । इक्षुवाहणमिति । इक्षवो वाहनाय परैरारोप्यन्ते, नतु खयमेवारोढुं शक्नुवन्ति इति तेषामाहितत्वं बोध्यम् । आरोपितेतुयुक्तं शकटादि वाहनमिति यावत् । इन्द्रवाहनमिति । ऐरावतादाविन्द्रस्य स्वयमेवारोहणान्नाहितत्वमिति भावः । यदि कदाचिद् अन्न वाहने आरोप्यते तदा आहितत्वमिन्द्रस्याप्यस्त्येव । यदा इन्द्रः स्वयमेवारोहति वाहनं तदा प्रत्युदाहरणमिति मनसि निधायाह-इन्द्रस्वामिकमिति । ननु वहे: करणे ल्युटि कथमुपधादीर्घः, णित्प्रत्ययपरकत्वाभावादित्यत आह-वहेयुटीति । पानं देशे । मुदाहरति-शिरीषवणमिति । ननु ‘वानस्पत्यः फलैः पुष्पात्तैरपुष्पादनस्पतिः' इत्यमरकोशाद्यस्य पुष्पं विनैव फलप्रादुर्भावः स वनस्पतिः, स चोदुम्बरादिः । शिरीषस्तु न तथा, तस्य पुष्पफलोभयसत्त्वादतो णत्वमिह कथमिति चेत् । अत्राहुःवनस्पतिशब्देनात्र वृक्षमात्रमुपलक्ष्यते । अत्र च 'लुपि युक्तवत्-' इति सूत्रस्थं भाध्यं लिङ्गम् । तत्र हि व्यक्तिवचने किम् । शिरीषाणामदूरभवो ग्रामः शिरीषाः, तेषां वनं शिरीषवणमित्यत्र णत्वे कर्तव्ये वनस्पतित्वमप्यतिदिश्येत इत्युक्तम् । तच्च शिरीषाणां वनस्पतित्वे संगच्छते नान्यथेति दिक् । यच्च्यज्भ्यामेवेति । व्यवस्थितविभाषाश्रयणादिति भावः । ओषधित्वात्प्राप्ते प्रतिषेधमाह-इरिकादिभ्य इति । एतदपि १'तिमिरावनम्' इति क्वचिन्नास्ति । Page #268 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६५ तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणाः उशीनराः । सुरापाणाः प्राच्याः । पीयत इति पानम्, कर्मणि ल्युट् । १०५४ वा भावकरणयोः। (८-४-१०) पानस्य इत्येव । क्षीरपानम्, क्षीरपाणम् । 'गिरिनद्यादीनां वा' (वा ४६८६) गिरिनदी, गिरिणदी । चक्रनितम्बा, चक्रणितम्बा । १०५५ प्रातिपदिकान्तनुंविभक्तिषु च । (८-४-११) पूर्वपदस्थानिमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते-माषवापिणौ । पानमिति षष्ठयर्थे प्रथमेत्यभिप्रेत्याह –पानस्येति । उशीनरा इति । देशविशेषे बहुवचनान्तोऽयम् । ननु पानशन्दम्य भावल्युडन्तत्वे क्षीरम्पानमिति कथ सामानाधिकरण्यमित्यत आह-पीयत इति । वा भावकरणयोः। इत्येवेति । अनुवर्तत एवेत्यर्थः । भावे करणे च यः पानशब्दः तस्य उक्तविषये णो वा स्यादित्यर्थः । अदेशार्थ वचनम् । क्षीरपानम् , क्षीरपाणमिति । क्षीरस्य पानमिति विग्रहः । भावे करणे वा ल्युट् । पानक्रिया पानपात्रं वेत्यर्थः । गिरिनद्यादीनामिति । पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसंख्यानमित्यर्थः । गिरे दीति विग्रहः । चक्रनितम्बेति । चक्रमिव नितम्बो यस्याः सा इति विग्रहः । प्रातिपदिकान्त इति । पूर्वपदस्थादिति । 'पूर्वपदात्संज्ञायाम्-' इत्यतस्तदनुवृत्तेरिति भावः । एषु स्थितस्येति । प्रातिपदिकान्ते नुमि विभक्तौ च विद्यमानस्येत्यर्थः । वा स्यादिति । 'वा भावकरणयोः' इत्यतस्तदनुवृत्तेरिति भावः। प्रातिपदिकान्त इति । उदाहरणं वक्ष्यत इति शेषः। माषवापिणाविति । माषान् वपत इति विग्रहः । 'बहुलमाभीक्ष्ण्ये' इति जातावपि सुप्युपपदे णिनिः । उपपदसमासः । वापिन्शब्दस्य कृदन्तत्वेन प्रातिपदिकत्वात् तदन्तनस्य णत्वमिति भावः । नुमीति । उदाहियत इति शेषः । व्रीहिवापाणीति । कृषीवलकुलानीति शेषः । ब्रीहीन्वपन्ति इति विग्रहः । कर्मण्यण । व्रीहिवापशब्दान्नपुंसकाद् 'जश्शसोशिशः' 'नपुंसकस्य झलचः' इति नुमि ‘सर्वनामस्थाने च-' इति दीर्घः । नुमो नस्य णत्वमिति भावः । विभक्काविति । उदाहियत इति शेषः । माषवापेणेति । तृतीयाविभक्तिस्थत्वाव्यवस्थितविभाषाज्ञानादेव सिद्धम् । उशीनरा इति । इह उशीनरशब्दस्तद्देशवासिषु भाक्तः । कर्मणि ल्युडिति । 'कृत्यल्युटो बहुलम्' इत्यनेन । वा भाव । श्रादेशार्थ आरम्भ इत्यप्राप्तविभाषा। क्षीरपाणमिति । पीतिः पानम् , 'ल्युट च' इति नपुंसके भावे ल्युट । पीयते अनेनेति पानम् , करणे ल्युट । क्षीरस्य पानं क्षीरपाणम् । गिरिनद्यादीनां वेति । वक्तव्यमिति शेषः । संज्ञायां प्राप्ते असंज्ञायामप्राप्ते उभयत्र विभाषेल्याहुः । माषवापिणाविति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । Page #269 -------------------------------------------------------------------------- ________________ २६६ ] सिद्धान्तकौमुदी। [समासाश्रयविधिनुमि-व्रीहिवापाणि । विभक्नौ-माषवापेण । पक्षे माषवापिनावित्यादि । 'उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम्' (वा ४६६०) नेह-गर्गाणां भगिनी गर्गभगिनी । अत एव मुंग्रहणं कृतम् । अङ्गस्य मुंविधानात्तद्भक्तो हि नुम् , न तूत्तरपदस्य । किं च 'प्रहिण्वन्' इत्यादौ हिवेर्नुमो णत्वार्थमपि नुग्रहणम् । नस्य णत्वम् । इत्यादीति । णत्वाभावपक्षे माषवापिनौ, माषवापानि, माषवापेन इत्युदाहायमिति भावः । ननु गर्गाणां भगिनी गर्गभगिनीत्यत्र उप्प्रत्ययप्रकृतिभूतभगिन्शब्दात्मकप्रातिपदिकान्तत्वाद् नकारस्य णत्वविकल्पः कुतो न स्यादित्यत आहउत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वमिति । पूर्वपदेन उत्तरपदमाक्षितम् , तच्च प्रातिपदिकस्यैव विशेषणम् , नतु तदन्तस्य, नापि नुविभक्त्योः , असंभ. वादिति भावः । नेहेति । गर्गाणां भगिनी गर्गभगिनीति षष्ठीसमासे भगिनीशब्द उत्तरपदम् , नतु तत्प्रातिपदिकम् , प्रत्ययान्तत्वात् । लिङ्गविशिष्टपरिभाषया प्रातिपदिकग्रहणेन भगिनीशब्दस्य ग्रहणेऽपि तदन्तम् ईकार एव, नतु नकारः, अतो न तस्येदं पाक्षिकं णत्वमिति भावः । प्रातिपदिकस्योत्तरपदत्वविशेषणं सूत्रकारस्य संमतमित्याहअत एवेति । प्रातिपदिकस्य उत्तरपदत्वविशेषणादेव सूत्रकारेण कृतं नुग्रहण. मर्थवत् , अन्यथा तदनर्थकमित्यर्थः । कुत इत्यत आह-अङ्गस्येति । 'नपुंसकस्य झलचः' इति नुविधौ अङ्गस्येत्यनुवृत्तम् । तथा च झलन्तस्याजन्तस्य चाङ्गस्य क्लीबस्य नुम् स्यात् सर्वनामस्थाने इत्यर्थो लभ्यते । माषवापाणीत्यत्र तु सर्वनामस्थानं प्रति माषवापशब्दोऽङ्गम् । तस्य माषवापशब्स्य विहितो नुमागमस्तदवयव एव भवति, न तु उत्तरपदभूतवापशब्दस्यैवावयवः। तथा च उत्तरपदभूतप्रातिपदिकान्तत्वाभावात् 'प्रातिपदिकान्त-' इत्यनेन णत्वविकल्पस्याप्राप्तौ नुग्रहणम्। प्रातिपदिकस्य उन्नरपदत्वविशेषणाभावे तु माषवापशब्दान्तावयवस्य नुमो माषवापेतिप्रातिपदिकान्तावयवत्वस्य सत्त्वात् 'प्रातिपदिकान्त-' इत्येव सिद्धे मुंग्रहणं व्यर्थं स्यादित्यर्थः । तदेवं प्रातिपदिकस्य उत्तरपदत्वविशेषणे नुग्रहणं लिङ्गमिति स्थितम् । वस्तुतस्तु नेदं लिङ्गमित्याहकिं च प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुग्रहणमिति । किं चेति विशेषप्रदर्शने । 'हिवि प्रीणने' भ्वादिः, इदित्त्वाद् नुम् , लटः शत्रादेशः । माषवापाणीत्यत्र नुमो नस्य प्रातिपदिकान्तत्वेऽपि प्रहिण्वन्शब्दे नुमो नस्य प्रातिपदिकान्तत्वाभावात् 'प्रातिपदिकान्त' इत्यनेन णत्वविकल्पस्याप्राप्तेस्तदर्थ नुग्रहणमावश्यकम् । वीहिवापाणीति । कर्मण्यण् । उत्तरपदं यदिति । इष्टानुरोधेन तथा व्याख्यायत इति भावः । गर्गभगिनीति । इह भगिनीशब्द उत्तरपदम् , न तु भगिन्शब्दः। अत्र च व्याख्याने नुम्ग्रहणमेव ज्ञापकमिति भावः । प्राचां मतमाह-अतएवेति । Page #270 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २६७ प्रेम्वनम् इत्यादौ तु नादित्वान । 'युवादेर्न' ( वा ४३६६ ) । रम्ययूना । परिपक्कानि । 'एकाजुत्तरपदे णः' ( सू ३०७ ) । नित्यम् इत्युक्रम् । वृत्रहणौ । हरिं मानयतीति क्विपि हरिमाणी । नुमि क्षीरपाणि । विभक्तौ-तीरपेण, रम्यविणा । १०५६ कुमति च । ( ८-४-१३) कवर्गवत्युत्तरपदे प्राग्वत् । अत उत्तरपदत्वस्य प्रातिपदिकविशेषणत्वे कथं नुंग्रहणं लिङ्गं स्यात् । तस्मादुत्तरपदविशेषणे भाष्यमेव शरणमिति भावः । ननु माषवापिणावित्यत्र वापिन् इति प्रातिपदिकस्य कथमुत्तरपदत्वम्, 'गतिकारकोपपदानां कृद्भिः सह समासवचनम् -' इति सुबुत्पत्तेः प्रागेव समास प्रवृत्तेरिति चेत्, न - उत्तरपदशब्दस्य समासचरमावयवे रूढत्वादित्यलम् । ननु 'इवि व्याप्तौ ' इदित्त्वान्नुम् । ल्युटि अनादेशः । प्रकृष्टमिन्वनमिति प्रादिसमासे नुमो नकारस्य णत्वविकल्पः स्यादित्यत आह-प्रेन्वनमिति । युवादेर्नेति । उक्तणत्वविकल्प इति शेषः । वार्तिकमिदम् । रम्ययूनेति । रम्यश्वासौ युवा चेति विग्रहः । प्रातिपदिकान्तनकारत्वात्प्राप्तिः । परिपक्वानीति । इह मो नकारस्य 'प्रातिपदिकान्त -' इति विकल्पं बाधित्वा 'कुमति च' इति नित्यं णत्वं प्राप्तम् । तदिह युवादित्वान्निषिध्यते । एकाजुत्तरपदे णः । अजन्तस्त्रीलिङ्गे पुनर्भूशब्दनिरूपणे व्याख्यातमपि प्रकरणानुरोधात् स्मर्यते नित्यमित्युक्तमिति । आरम्भसामर्थ्यान्नित्यमिदं णत्वमिति तत्रैवोक्तमित्यर्थः । हरिमाणीति । मनेरीयन्तात् 'क्विप् च' इति किपि 'गतिकारकोपपदानाम् -' इति सुबुत्पत्तेः प्राक् समासः । नान्तत्वाद् ङीप् । अत्र मान् इति प्रातिपदिकमुत्तरपदं तदन्तत्वाद् नकारस्य णत्वविकल्पे प्राप्ते नित्यं णत्वम् । नुमीति । उदाहियत इति शेषः । क्षीरपाणीति । कर्मण्युपपदे पा धातोः 'श्रतोऽनुपसर्गे कः' इति कः, 'आतो लोप इटि च' इत्याल्लोपः । क्षीरपशब्दाद् ‘जश्शसोशिश:', अजन्तलक्षणो नुम् दीर्घः । तस्य नित्यं णत्वम् । विभक्ताविति । उदाह्रियत इति शेषः । क्षीरपेणेति । विभक्तिस्थत्वान्नस्य नित्यं णत्वम् । विभक्लावुदाहरणान्तरमाह - रम्यविणेति । विः पक्षी, रम्यश्चासौ विश्व तेनेति विग्रहः । न चात्र 'पदव्यवायेऽपि' इति निषेधः शङ्कयः किमिह प्रत्ययलक्षणेन तदुक्तं ज्ञापकं विघटयति - किंचेति । परिपक्कानीति । 'कुमति च' इति नित्यं णत्वं प्राप्तम् । एकाजुत्तर । प्राग् व्याख्यातमपि प्रकरणानुरोधेन स्मार्यते । वृत्रहणाविति । वृत्रं हतवन्तौ 'ब्रह्मभ्रण -' इति क्विप् । हरिमाणीति । मनेर्यन्तात् ‘क्विप् च' इति क्विप् । ‘गतिकारकोपपदानाम् -' इत्यादिना सुबुत्पत्तेः प्राक् समासान्नकारान्तमुत्तरपदम्, नान्तत्वान्ङीप् । क्षीरपाणीति । पिबतेः कर्मण्युपपदे 'तोऽनुपसर्गे -' इति कः । 'आतो लोप इटि च' इत्यालोपः । रम्यविणेति । रम्य " Page #271 -------------------------------------------------------------------------- ________________ २६८ ] सिद्धान्तकौमुदी। [समासाश्रयविधिहरिकामिणौ । हरिकामाणि । हरिकामेण । १०५७ पदव्यवायेऽपि । (८-४-३८) पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन। अन्तर्वर्तिनी विभक्तिमाश्रित्य 'सुप्तिङन्तम्-' इति पदत्वमभिमतम् , उत तृतीयाविभक्ती परतः 'स्वादिषु-' इति पदत्वम् ? नाद्यः, उत्तरपदत्वे चापदादिविधौ-' इति प्रत्ययलक्षणप्रतिषेधात् । न द्वितीयः, 'खादिषु-' इत्यनेन हि रम्यविशब्दस्यैव पदत्वं लभ्यते, न तु विशब्दस्य, तृतीयाविभक्तेः समुदायादेव विधानात् । अत एव पुनर्भूणामित्यत्र नामि भूशब्दमात्रस्य पदत्वाभावात् 'पदव्यवायेऽपि' इति निषेधाभावारणत्व. मिति प्राञ्चः । अत्र यद्वक्तव्यं तत् 'पदव्यवायेऽपि' इत्यत्रानुपदमेव वक्ष्यते । कुमति च । प्राग्वदिति । प्रातिपदिकान्तनुविभक्तिस्थस्य नस्य नित्यं णत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामिणाविति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । प्रातिपदिकान्तत्वाराणत्वम् । हरिकामाणीति । अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति । विभक्तिस्थस्योदाहरणम् । पदव्यवायेऽपि । पदेन व्यवधान इति । पदेनेत्यनन्तरं निमित्तकार्थिणोरिति शेषः । न स्यादिति । 'न भाभूपूकमिगमि-' इत्यतस्तदनुवृत्तरिति भावः । माषकुम्भवापेनेति । माषाणां कुम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः । अत्र निमित्तकार्यिणोः षकारनकारयोः कुम्भपदेन व्यवधानाद् न णत्वम् । चतुरङ्गयोगेनेति । चत्वारि अङ्गानि रथगजतुरगपदातिरूपाणि यस्य तत् चतुरङ्गं सैन्यम् , तेन योग इति विग्रहः । अत्र निमित्तकार्यिणोरङ्गपदेन व्यवधानान णत्वम् । उभयत्रापि कुम्भशब्दस्य श्वासौ विश्चेति विग्रहः । तत 'आङो नास्त्रियाम्' । ननु अन्तर्वतिनी विभक्तिमाश्रित्य विशब्दस्य पदत्वात् 'पदव्यवायेऽपि' इति णत्वनिषेधः स्यात् । मैवम् । 'उत्तरपदत्वे चापदादिविधौ-' इति प्रत्ययलक्षणप्रतिषेधेन विशब्दस्य पदत्वाभावात् । 'स्वादिषु-' इत्यनेन तु रम्यविशब्दस्यैव पदत्वं न तु विशब्दस्य । यस्मात्स्वादिविधिस्तस्यैव पदत्वाभ्युपगमात् । एवं च पुनर्भूणामित्यत्र णत्वं निधिमेव, नामि परतो भूशब्दस्य पदत्वाभावात् । कुमति च । अनेकाजुत्तरपदार्थ आरम्भः । 'को' इत्येव तु न सूत्रितम् । 'यस्मिन्विधिः-' इति तदादिविधौ कवर्गाद्युत्तरपद एव हरिकामाणीत्यादावयं विधिः स्यात् न तु वस्त्रयुगेणेत्यादौ, तथा च मतुबन्तनिर्देश आवश्यक इत्याहकवर्गवतीति । पदेन व्यवधान इति । निमित्तनिमित्तिनोर्मध्ये पदे सति णत्वं नेत्यर्थः । माषकुम्भवापेनेति । माषकुम्भं वपतीति 'कर्मण्यण' उपपदसमासः । चतुरङ्गयोगेनेति । 'चत्वार्यङ्गान्यस्य, तेन योगः' इति मनोरमायां विगृहीतम् । तदयुक्तम् । 'उत्तरपदत्वे चापदादिविधौ' इति प्रत्ययलक्षणप्रतिषेधादङ्गशब्दस्यापद Page #272 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६६ 'अतद्धित इति वाच्यम्' (वा ५०१५) । आगोमयेण । शुष्कगोमयेण । अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्तर्तिी विभक्तिमाश्रित्य पदत्वं बोध्यम् । 'उत्तरपदे चापदादिविधौ प्रतिषेधः' इति निषेधस्तु नात्र प्रवर्तते, उत्तरखण्डस्य कार्यभाक्त्वे सत्येव तत्प्रवृत्तः । अत एव 'न लुमताजस्य' इत्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तं भाष्ये । अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वरूपकार्यभाक्त्वमस्तीति तस्य अन्तर्वर्तिनी विभक्विमाश्रित्य पदत्वाभावात् कुत्वं न भवति । अत एव च 'कुमति च' इति सूत्रे भाष्ये माषाणां कुम्भो माषकुम्भः, माषकुम्भस्य वापो माषकुम्भवापः, तेन माषकुम्भवापेनेत्यत्र ‘पदव्यवायेऽपि' इति निषेधप्रवृत्तये 'प्रातिपदिकान्त-'इति गत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते । न चैवं सति रम्यविणा इत्यत्र वि इत्युत्तरखण्डस्य कार्यभाक्त्वाभावाद् 'उत्तरपदत्वे चापदादिविधौ-' इति प्रत्ययलक्षणनिषेधस्याप्रवृत्तौ अन्तर्वतिविभक्त्याश्रयणेन पदत्वात् 'पदव्यवायेऽपि' इति णत्वनिषेधः स्यादिति वाच्यम् , पदे परे यत्पदं तेन व्यवाये णत्वं नेत्यर्थस्यैव भाष्यसंमतत्वात् । तच्च अनुपदमेव स्पष्टीभविष्यति। रम्यविणेत्यत्र च विशब्दस्यान्तर्तिविभक्त्या पदत्वेऽपि तस्य पदपरकत्वाभावान णत्वनिषेधः । एतेन पुनर्भूणामित्यत्रापि णत्वं निर्बाधम् । अतद्धित इति । अतद्धिते परे यत्पदं तेन व्यवधाने त्वात् । तस्माद् 'अङ्गानां योगोऽङ्गयोगश्चतुर्णामङ्गयोगः' इत्येव विग्रहीतव्यम् । न च 'चतुरङ्गेन योगः' इति विग्रहेऽप्याशब्द उत्तरपदं नेति प्रत्ययलक्षणप्रतिषेधो न प्रवर्तत इति शङ्कयम् , तस्य पूर्वसमासस्योत्तरपदत्वात् , 'उत्तरपदत्वे च-' इति प्रतिषेधवचनस्यापि 'उत्तरस्य समासचरमावयवस्य पदत्वे कर्तव्ये पदादिविधिभिन्ने प्रत्ययलक्षणं न प्रवर्तते' इत्यर्थाभ्युपगमाच्च । 'शाकपार्थिवादीनामुत्तरपदलोपः', 'प्रादिभ्यो धातुजस्य-' इत्यादौ तूत्तरपदशब्देन समासचरमावयवमानं गृह्यत इति तत्र प्रत्ययलक्षणप्रवृत्त्यभावेऽपि न क्षतिः । इह तु पदत्वलाभाय प्रत्ययलक्षणाप्रवृत्तिरपेक्षिता । एवं च 'माषकुम्भवापेन' इत्यत्रापि कुम्भस्य वापः कुम्भवापः । कुम्भशब्दः कुम्भपरिमितधान्ये भाक्तः । 'माषाणां कुम्भवापः' इति विग्रहीतव्यमिति नव्याः । केचित्तु'अपदादिविधौ' इत्यत्र 'पदान्तविधी' इत्यर्थ परिकल्प्य ‘पदव्यवायेऽपि' इत्यस्य पदान्तविधित्वाभावान्नास्त्यत्र प्रत्ययलक्षणनिषेध इत्याहुः । तदपरे न क्षमन्ते । तथा हि सति लाघवात् 'पदान्तविधौ' इत्येव ब्रयात् , न तु 'अपदादिविधौ' इति दिक् । किंचोत्तरपदत्वे इति वचनस्य पदान्तविधौ कर्तव्ये प्रतिषेध इत्यर्थाभ्युपगमे परमदण्डिनाविति 'ङमो ह्रखादचि-' इति सूत्रस्थमनोरमाग्रन्थेनैव विरोध इत्यलमियता। अतद्धित इति । 'व्यवधायकपदस्य तद्धितश्चेत्परो न भवति तदा Page #273 -------------------------------------------------------------------------- ________________ २७० ] सिद्धान्तकौमुदी । [ समासाश्रयविधि १०५८ कुस्तुम्बुरुणि जाति: । ( ६-१-१४३) अत्र सुयिनपात्यते । कुस्तुम्बुरुर्धान्यकम् । क्लीबत्वमतन्त्रम् । जातिः किम् - कुतुम्बुरुणि, कुत्सितानि तिन्दुकी फलानीत्यर्थः । १०५६ अपरस्पराः क्रियासातत्ये । ( ६-१-१४४ ) सुरिनपात्यते । अपरस्पराः सार्थ गच्छन्ति, सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रिया इति किम् - अपरपरा गच्छन्ति, अपरे च परे च सकृदेव गच्छन्तीत्यर्थः । १०६० गोष्पदं सेवितासेवितप्रमाणेषु । (६-१-१४५) सुद् सस्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेवितेअगोष्पदान्यरण्यानि । प्रमाणे - गोष्पदमात्रं क्षेत्रम् । सेवित इत्यादि क्रिम्गोः पदं गोपदम् । १०६१ आस्पदं प्रतिष्ठायाम् । (६-१-१४६) श्रात्मया अयं निषेधः, न तु तद्धितपरकपदेनेत्यर्थः । आर्द्रगोमयेणेति । गोः पुरीषं गोमयम्, 'गोश्च पुरीषे' इति गोशब्दात् षष्ठ्यन्ताद् मयट् तद्धितः तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् आईं गोमयमिति कर्मधारयः । यद्यपि प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दो मयटि पदम्, तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णभ्वं भवत्येव, अस्मिन् प्रकरणे अकुप्वादनुव्यवायस्य प्रबाधकत्वात् । शुष्कगोमयेणेति । षात्परस्योदाहरणम् । भाष्ये तु 'पदान्तस्य' इति पूर्वसूत्रात्पदग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम् । अथ ‘सुट् कात्पूर्वः' इत्यतः सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते । कुस्तुम्बुरूणि । श्रत्रेति । जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुट्को निपात्यत इत्यर्थः । कुस्तुम्बुरुर्धान्याकमिति । गुल्मविशेषे प्रसिद्धः। antaranतन्त्रमिति । श्रविवक्षितमित्यर्थः । वचनमप्यतन्त्रमिति बोध्यम् । कुतुम्बुरुणीति । धान्याकजातिवाचकत्वाभावाद न सुडिति भावः । तदाहकुत्सितानि तिन्दुकीफलानीत्यर्थ इति । तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः । अपरस्पराः क्रियासातत्ये । स्पष्टम् । गोष्पदम् । असेविते गोष्पदशब्दस्य वृत्त्यसंभवाद् नपूर्वकमुदाहरति-गोष्पदानीति । गवां सञ्चरो यत्र नैव संभवति तत्रापि सुडिति भावः । गोष्पदमात्रं क्षेत्रमिति । क्षेत्रस्याल्पप्रमाणत्वमनेन ज्ञाप्यते । अतो गोष्पदात् क्षेत्रस्याधिक्येऽपि न क्षतिः । श्र/स्पदं निषेधः' इत्यर्थः । श्राद्रगोमयेणेति । इह गोशब्दः पदम् । 'उत्तरपदत्वे च--' इति निषेधोऽत्र न शङ्कयः, गोमयशब्दस्योत्तरपदत्वात् । गोशब्दस्य च 'खादिषु -' इति पदत्वात् । गोष्पदम् । असेविते गोष्पदशब्दस्य वृत्त्यसंभवान्नञ्पूर्ववमुदाहरति-- गोष्पदानीति । गवा संचारो यत्र नैव संभवति तत्रापि सुडागमा Page #274 -------------------------------------------------------------------------- ________________ प्रकरणम् २५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७१ पनाय स्थाने सुट् निपात्यते । प्रास्पदम् । प्रतिष्ठायाम् इति किम्-श्रा पदाद् आपदम् । १०६२ आश्चर्यमनित्ये । (६-१-१४७) अद्भुते सुट् । आश्चर्य यदि स भुञ्जीत । अनित्ये किम्-प्राचयं कर्म शोभनम् । १०६३ वर्चस्केऽवस्करः। (६-१-१४८) कुत्सितं वर्गों वर्चस्कमन्नमलम् । तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के किम्-श्रवकरः । १०६४ अपस्करो रथाङ्गम् । (६-१-१४६) अपकरोऽन्यः । १०६५ विष्किरः शकुनौ वा। (६-१-१५०) पक्षे विकिरः । 'वावचनेनैव सुविकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत्' इति वृत्तिः । तन्न, भाष्यविरोधात् । प्रतिष्ठायाम् । अात्मेति । आत्मयापनं शरीरसंरक्षणम् , तदर्थ यत् स्थान तस्मिन् गम्ये सुडित्यर्थः। आपदादापदमिति । श्रा पदादिति विग्रहे अव्ययीभावे आपदमिति भवतीत्यर्थः । आपदापदमिति पाठे तु आपदमित्यस्य आपदित्यर्थः । आश्चर्यमनित्ये । अद्भते गम्ये श्रापर्वकस्य चरेः सुट् । 'चरेराकि चागुरौ' इति यत् । अनित्यग्रहणमपनीय अद्भत इति वक्तव्यमिति वार्तिकमभिप्रेत्याह-अद्भते सुडिति । तेन आर्य नीला द्यौः, आश्चर्यमन्तरिक्ष यदबन्धनानि नक्षत्राणि न पतन्तीत्यादिसंग्रहः । अनित्ये इत्यनेन कादाचित्कतया अद्भतं लक्ष्यत इत्युक्ते तु एतन्न सिध्येत् । वर्चस्केऽवस्करः । 'मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् । गूथं पुरीषं वर्चस्कमस्त्री विश्राविशौ स्त्रियाम् ॥' इत्यमरः । अपस्करो। 'स्याद्रथाङ्गमपस्करः' इत्यमरः । 'चक्रं रथाङ्गम्' इति च । विष्किरः। विकिरतीति विकिरः । 'कृ विक्षेपे' 'इगुपधज्ञा-' इति कः । शकुनौ गम्ये सुड् वा, ‘परिनिविभ्यः-' इति षत्वम् । 'नगौकोवाजिविकिरविविष्किरपतत्त्रयः' इत्यमरः। वा वचनेनैवेति । वृत्तिग्रन्थे 'विष्किरः शकुनौ विकिरो वा' इति सूत्रपाठः। तत्र वाग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणं विष्किरः विकिर इति शकुनावेवेति नियमार्थम् । अतः शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यत इत्यर्थः । भाष्ये हि 'विष्किरः शकुनौ वा' इति सूत्रं पठित्वा वाग्रहणेन सुविकल्पः, न तु शकुनेरन्यत्र विकिरशब्दस्य प्रयोगो नेति स्थितम् । अन्यत्रापि 'विकिरं वैश्वदेविकम्' इत्यत्र दर्शनादिति भावः। थमसेविताहणमित्याहुः । आत्मयापनायेति । कालक्षेपाय शरीरक्षेपणाय वेत्यर्थः । आश्चर्यमिति । श्राङः परस्य चरेः सुट् । 'चरेराङि चागुरौ' इति यत् । विष्किरः । 'कृ विक्षेपे' इत्यस्माद् 'इगुपध-' इत्यादिना कप्रत्यये सुडागमोऽनेन निपात्यते । षत्वं तु 'परिनिविम्यः-' इत्यनेन । विकिरग्रहणमिति । 'विष्किरः शकुनौ विकिरो वा' इति वृत्तिग्रन्थे पाठः, सूत्रपाठे तु विकिरग्रहणं नास्त्येवेति Page #275 -------------------------------------------------------------------------- ________________ २७२ ] सिद्धान्तकौमुदी। [समासाश्रयविधि१०६६ प्रतिष्कशश्च कशेः। (६-१-१५२) 'कश गतिशासनयोः' इत्यस्य प्रतिपूर्वस्य पचायचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशेः किम्-प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा, तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धावन्तरोपसर्गान । १०६७ प्रस्करवहरिश्चन्द्रावृषी । (६-१-१५३) हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषी इति किम्-प्रकण्वो देशः, हरिचन्द्रो माणवकः । १०६८ मस्करमस्करिणौ वेणुपरिव्राजकयोः । (६-१-१५४) मकरशब्दोऽव्युत्पन्नः, तस्य सुडिनिश्च निपात्यते । वेणु इति किम्-मकरो ग्राहः, मकरी समुद्रः । १०६६ कास्तीराजस्तुन्दे नगरे । (६-१-१५५) ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम्-कातीरम्, अजतुन्दम् । १०७० कारस्करो वृक्षः । (६-१-१५६) (ग १५३) कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति, न सूत्रेषु । १०७१ पारस्करप्रभृतीनि च संज्ञायाम् । (६-१-१५७) एतानि ससुटकानि निपात्यन्ते नानि । पारस्करः । किष्किन्धा । 'तबृहतोः प्रतिष्कशश्च कशेः। कशेरिति कश इत्यत्रान्वेति । तथा च कशधातोर्निष्पन्नस्य कशशब्दस्य प्रतेः परस्य सुट् स्यादित्यर्थः । कशेरेवेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति । प्रतिगतः कशां प्रतिकश इत्यत्र गमि प्रत्येव प्रतिरुपसर्गः, न तु कशिं प्रति, 'यक्रियायुक्ताः प्रादयः-' इति नियमादित्यर्थः । प्रस्करवहरिश्चन्द्रावृषी । अमन्त्रार्थमिति । मन्त्रे तु 'हरवाचन्द्रोत्तरपदे मन्त्रे' इति सूत्रेणैव सिद्धमिति भावः । तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते । मस्करमस्करिणी । यथासंख्यमन्वयः । मस्करिग्रहणात्परिव्राजक एव मस्करिशब्दः । अन्यत्र तु मकरीत्येवेत्याहुः । कास्तीराजस्तुन्दे । कास्तीरशब्दः अजस्तुन्दशब्दश्च नगरे निपात्येते इत्यर्थः । कारस्करो वृक्षः। कारं करोतीति विग्रहः । “कृञो हेतुताच्छील्ये-' इति टः । पारस्करप्रभृतीनि च । पारस्कर इति । पारं करोतीति बोध्यम् । तस्यापीति । विकिरशब्दस्यापीत्यर्थः । कशेरेव कशेति । कशधातोरेव कशाशब्दो निष्पन्न इत्यर्थः । धात्वन्तरेति । 'प्रतिकशः' इत्यत्र प्रतिर्गमेरुपसर्गो, न तु कशेः । 'यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव-' इति न्यायादिति भावः । अमन्त्रार्थमिति । मन्त्रे तु 'हस्खाचन्द्रोत्तरपदे मन्त्रे' इत्यनेनैव सिद्धयतीति भावः । मस्कर । मस्करशब्दादिनिना मत्वर्थीयेनेष्टसिद्धौ मस्करिग्रहणं 'परिव्राजक एवायं प्रयोगो यथा स्यात्' इत्येवमर्थमित्याहुः । कातीरमिति । 'ईषद इति कोः Page #276 -------------------------------------------------------------------------- ________________ प्रकरणम् २५] बालमनोरमा तत्त्वबोधिनीसहिता। [२७३ करपत्योश्चोरदेवतयोः सुट तलोपश्च' (वा ३७१३) तात्पूर्व चर्वेन दकारो बोध्यः । तबृहतोदकारतकारौ लुप्येते । करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायो. पाधिः । तस्करः । बृहस्पतिः । 'प्रायस्य चित्तिचित्तयोः' (वा ३७१४) । प्रायश्चित्तिः, प्रायश्चित्तम् । वनस्पतिरित्यादि । प्राकृतिगणोऽयम् । इति समासाश्रयविधिप्रकरणम् । विग्रहः । पूर्ववट्टः । किष्किन्धेति । किं किमपि वानरसैन्यं धत्त इति किष्किन्धा । 'आतोऽनुपसर्गे कः'। टाप् , निपातनात् किमो द्वित्वम् , मलोपः, सुट्, षत्वं च । रूढशब्दा एते कथञ्चिद् व्युत्पाद्यन्ते । एषामवयवार्थो न विचारणीयः। तबृहतोरिति । पारस्करादिगणसूत्रमेतत् । तद्शब्दे तकारस्यान्त्यस्याभावादाह-तात्पूर्वमपि । तलोपश्चेत्यत्र तकारात्पूर्वमित्यर्थः । तत् चौयं करोतीति विग्रहः । 'कृमो हेतुताच्छील्ये-' इति टः । बृहस्पतिरिति । बृहती वाक्, तस्याः पतिरिति विग्रहः । कुक्कुटयादीनामण्डादिष्विति पुंवत्त्वम् , तलोपः, सुट् । 'वाग्घि बृहती तस्या एष पतिः' इति च्छन्दोगब्राह्मणम् । प्रायस्य चित्तिचित्तयोरिति । गणसूत्रमिदम् । प्रायस्य चित्तिः चित्तं वेति विग्रहः । 'प्रायः पापं विजानीयाचित्त तस्य विशोधनम् । ' इति स्मृतिः। वनस्पतिरिति । वनस्य पतिरिति विग्रहः प्राकृतिगणोऽयमिति । तेन शतात्पराणि परश्शतानीत्यादि सिद्धम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां __ बालमनोरमायां समासाश्रयविधिप्रकरणं समाप्तम् । कादेशः । पारस्कर इति । 'पारं करोति' इति विग्रहः । 'कृलो हेतुताच्छील्या-' इति टः । किष्किन्धेति । 'किमपि धत्ते' इति विग्रहे 'आतोऽनुपसर्गे कः' । टाप , निपातनात् किमो द्वित्वं पूर्वस्य मलोपः सुट् षत्वं च । “किं किं दधाति' इति विगृहृतां तु मते वीप्सायां द्वित्वं सिद्धम् । अन्यत्र तु निपातनादेव । वस्तुतस्तु रूढिशब्दा एते कथंचिद्व्युत्पाद्यन्त इत्यवयवार्थे नाग्रहः कार्यः । तबृहतोरिति । गणसूत्रमेतत् । तादिति । 'तलोपश्च' इत्यत्रेति शेषः । प्रायस्येति । गणसूत्रमेतदपि । 'प्रायः पापं विजानीयाच्चित्तं तस्य विशोधनम्' इति स्मृतिः। आकृतिगणोऽयमिति । तेन शतात्पराणि परश्शतानि कार्याणीत्यादि सिद्धम् । 'सुप्सुपा' इति वा 'पञ्चमी' इति योगविभागाद्वा समासः । राजदन्तादित्वाच्छतशब्दस्य परनिपातः, पारस्करादित्वात्सुट् । ___ इति तत्त्वबोधिन्यां समासाश्रयविधिप्रकरणम् । १ 'कुक्कुट्यादीनामण्डादिष्विति' इति क्वचिनास्ति । Page #277 -------------------------------------------------------------------------- ________________ २७४ ] सिद्धान्तकौमुदी। [ तद्धितेष्वपत्याधिकार अथ तद्धिताधिकारप्रकरणम् । २६ । अथापत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः । २०७२ समर्थानां प्रथमाद्वा । (४-१-८२) इदं पदत्रयमधिक्रियते । 'प्राग्दिश:-' (सू १६४७) इति यावत् । सामर्थ्य परिनिष्ठितत्वम् । कृतसन्धिकार्यस्वमिति यावत् । १०७३ प्राग्दीव्यतोऽण् ।। ४-१-८३) 'तेन तदेवं समासप्रपञ्चं निरूप्य तद्धितप्रकरणमारभते । समर्थानां प्रथमाद्वा । विधेयस्यादर्शनान्नायं स्वतन्त्रविधिरिति मत्वाह-इदं पदत्रयमधिक्रियत इति । स्वरितत्वप्रतिज्ञाबलादिति भावः । अधिकारस्योत्तरावधिमाह -प्राग्दिश इति यावदिति । 'प्राग्दिशो विभक्तिः ' इति सूत्रम् उत्तरावधिरित्यर्थः। 'समर्थानाम्' इति निर्धारणषष्ठी । प्राथम्यं च 'तस्यापत्यम्' इत्यादितत्तत्सूत्रेए प्रथमोच्चारितत्वम् । समर्थानां मध्ये प्रथमोच्चारितादित्यर्थः । 'समर्थात्प्रथमाद्वा' इति सुवचम् । केचितु बहुवचनबलादनेकसमर्थसमवाय एवास्य प्रवृत्तिः । एवं च 'प्राग्दिशः-' इत्यादिषु स्वार्थिकप्रत्ययविधिषु नास्य प्रवृत्तिरिति लभ्यत इत्याहुः । ननु सुबन्तात्तद्धितोत्पत्ते. र्वक्ष्यमाणत्वेन तद्धितविधीनां पदविधितया ‘समर्थः पदविधि' इति परिभाषयैव एकार्थीभावरूपसामर्थ्यलाभादिह समर्थग्रहणं व्यर्थमित्यत आह--सामर्थ्य परि. निष्ठितत्वमिति । समर्थः पटुः शक्त इति पर्यायाः । शक्त वं च कार्योत्पादन. योग्यत्वम् । शब्दस्य च कार्यमर्थप्रतिपादनमेव । तच्छक्तत्वं च कृतेष्वेव संधिकार्येषु संभवति । तथा च कृतसन्धिकार्यत्वमेव सामर्थ्यमिह पर्यवस्यति । तदाह --कृत अपवादसंगत्या तद्धितान्विवक्षुस्तदीयमधिकारसूत्रमाह-समर्थानामिति । 'अन्यतरस्यांग्रहणानुवृत्तेः समासोऽपि' इति वक्ष्यमाणमूलग्रन्थेन समासापवादत्वं सूचितम् । विधेयानिर्देशादुत्तरत्र प्रकृतिविशेषाकांक्षासत्त्वाच्च ना स्वतन्त्रो विधिरित्याह-अधिक्रियत इति । 'पदत्रयम्' इत्यनेन प्रत्येकं स्वरितत्वप्रतिज्ञा सूचिता। तत्प्रयोजनं तु कस्यचिन्निवृत्तावप्यपरस्यानिवृत्तिः, तथा च 'प्राग्दिशः-' इति सूत्रे'समर्थानां प्रथमात्' इति निवृत्तम् , 'वा' इति त्वनुवर्तत एव-इति वक्ष्यमाणमूलग्रन्थः संगच्छते ॥ प्राग्दिश इतीति । तत उत्तरेषां प्रत्ययानां स्वार्थिकत्वेन 'समर्थानाम्' 'प्रथमात्' इति पदयोः प्रयोजनं नेति भावः । ननु ‘समर्थः पदविधिः' इति परिभाषया गतार्थत्वात् ‘समर्थानाम्' इत्येतद् व्यर्थम् । न च पदविधित्वं नेति शङ्कयम् , 'घकालतनेषु-' इत्यलुम्विधानात् 'सुबन्तात्तद्धितोत्पत्तिः' इति सिद्धान्तस्य सकलसम्मतत्वादत आह-सामर्थ्यमिति । कृतसन्धिकार्यत्वमिति । अस्य Page #278 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७५ दीव्यति-' (सू १५५० ) इत्यतः प्रागणधिक्रियते । १०७४ अश्वपत्यादिभ्यश्च । (४-१-८४) एभ्योऽएस्याप्राग्दीव्यतीयेष्वर्थेषु । वषयमाणस्य ण्यस्यापवादः । १०७५ तद्धितेष्वचामादेः । (७-२-११७) मिति णिति च सन्धिकार्यत्वमिति यावदिति । प्राग्दीव्यतोऽण् । 'तेन दीव्यति खनति जयति जितम्' इति सूत्रस्थदीव्यतिशब्दैकदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्धटितं तत्सूत्रं लक्ष्यते । तदाह-तेन दीव्यतीत्यतः प्रागणधिक्रियत इति । तथा च तस्यापत्यमित्याद्युत्तरसूत्रेषु केवलमर्थनिर्देशपरेषु विधेयप्रत्ययविशेषा. संयुक्तेषु किं भवतीत्याकाङ्क्षायामणित्युपतिष्ठत इति लभ्यते । कस्माद्भवतीत्याका क्षायां 'समर्थात्प्रथमात्' इति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्ययविशेषः श्रूयते तत्राणिति नोपतिष्ठते, अणित्यस्यौत्सर्गिकतया वैशेषिकेण इञादिना बाधात् । अश्वपत्यादिभ्यश्च । चकारात् 'प्राग्दीव्यतोऽण्' इत्यनुकृष्यते । तदाह-एभ्योऽरण स्यात् प्राग्दीव्यतीयेष्वर्थेष्विति । दीव्यतः प्राक् प्राग्दीव्यत् , 'अपपरि. बहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः । 'झयः' इति टच तु न, तस्य पाक्षिकत्वात् । प्राग्दीव्यतो भवाः प्राग्दीव्यतीयाः, 'वृद्धाच्छः' । 'अव्ययात्त्यप्' इति तु न अव्ययीभावस्याव्ययत्वे 'लुङ्मुखस्वरोपचारः प्रयोजनम्' इति परिगणनात् । अत एव 'अव्ययानां भमात्रे टिलोपः' इत्यपि न भवति । ननु 'प्राग्दीव्यतोऽण् इत्येव सिद्ध किमर्थमिदं सूत्रमित्यत आह-वक्ष्यमाणस्येति । 'दित्यदित्यादित्यपत्युत्तरपदारण्यः' इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः । फलं तु 'तस्यापत्यम्' इति सूत्रे मूल एव स्फुटीभविष्यति । इह ‘समर्थात्प्रथमावा' इति वक्तुं युक्तम् । महोत्सर्गानाह-प्राग्दीव्यत इत्यादिना । सूत्रे 'दीव्यत्' इत्येकदेशोऽनर्थकोऽप्यवधित्वेनोपात्तः 'प्राग्रीश्वरात्-' इतिवदित्येके । श्रन्ये त्वाः'दीव्यत्' इति शत्रन्तम् । तेन देवनकर्ता अर्थ एवावधिरिति । प्राग्दीव्यतीयेष्विति । दीव्यतः प्राक् प्राग्दीव्यत । 'अपपरिबहिरञ्चवः पञ्चम्या' इत्यव्ययीभाव इति प्राश्चः । 'प्राग्दीव्यतम्' इति तूचितम् , "झयः' इति टच्प्रवृत्तेरिति केचित् । तन्न, 'भयः' इति टच: पाक्षिकत्वात् । अन्यथा 'उपसमिधमुपसमित्' इति तत्सूत्रस्थमूलोदाहरणस्यासंगत्यापत्तेः । न चात्र टचोऽभावे 'अव्ययानां भमात्रे ' इति टिलोपे 'प्राग्दीव्यतीय' इति रूपं न स्यादिति शङ्कयम् । अव्ययीभावस्याव्ययत्वे प्रयोजनं 'लुङ्मुखस्वरोपचारः' ईति परिगणनात् । प्राग्दीव्यति भवः प्राग्दीव्यतीयः, 'वृद्धाच्छः' । त्यप् तु न शङ्कनीय एव, 'अमेहक्वतसित्रेभ्य एव' इति परिगणनात् । लुङ्मुखखर इत्यादिपरिगणनया अनव्ययत्वाच । वक्ष्यमाणस्येति । 'पत्युत्तरपदारण्यः' इति वक्ष्य Page #279 -------------------------------------------------------------------------- ________________ २७६ ] सिद्धान्तकौमुदी। [ तद्धितेष्वपत्याधिकारतद्धिते परेऽचामादेरचो वृद्धिः स्यात् । १०७६ किति च । (७-२-११८) किति तद्धिते च तथा । अश्वपतेरपत्याद्याश्वपतम् । गाणपतम् । 'गाणपत्यो मन्त्रः' इति तु प्रामादिकमेव । १०७७ दित्यदित्यादित्यपत्युत्तरपदाएण्यः। (४-१-८५) दित्यादिभ्यः पत्युत्तरपदाच प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यादणोऽपवादः । दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । 'यमाञ्च' इति तद्धितेष्वचामादेः। 'अचो णिति' इत्यनुवर्तते । 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति च । अचामिति निर्धारणषष्ठी। तदाह-त्रितीति । किति च । तथेति । अचामादरचो वृद्धिरित्यर्थः । इदं सूत्रं प्रकृतानुपयुक्तमपि व्याख्यासौकर्याय इहोपन्यस्तम् । अपत्यादीति । आदिना समूहाद्यर्थसंग्रहः । आश्वपतमिति । अश्वपतेरणि आदिवृद्धौ ‘यस्येति च' इति इकारलोपः । गाणपतमिति । अश्वपत्यादिषु गणपतिशब्दः पठित इति भावः । गाणपत्य इति । गणपतिर्देवता अस्य मन्त्रस्येति विग्रहः । प्रामादिकमेवेति । प्रमादादायातमित्यर्थः गणपतिक्षेत्रपत्या. दीनामश्वपत्यादिगणे पाठस्य वृत्तौ दर्शनादिति भावः। दित्यदित्यादित्य । दित्यादिभ्य इति । दिति, अदिति, आदित्य एतेभ्य इत्यर्थः । पत्युत्तरपदादिति । पतिः उत्तरपदं यस्य तस्मादिति विग्रहः। प्राग्दीव्यीतीयेष्वर्थेविति । प्राग्दीव्यत इत्यनुवृत्तेरिति भावः । अणोऽपवाद इति । विशेषविहितत्वादिति भावः । दैत्य इति । दितेरपत्यमिति विग्रहः। दितेर्यप्रत्ययः। 'चुटू' इति णकार इत् , आदिवृद्धिः, 'यस्येति च' इति इकारलोपः। अदितेरादित्यस्य वेति । अपत्यादीति शेषः । आदित्य इति । जाताद्यर्थे ण्ये आदिवृद्धौ ‘यस्येति माणस्य । तद्धितेष्व । अचां मध्य आदिरजेवेति 'अचोऽष्णिाति' इति सूत्रादच इत्यनुवर्तत इत्याशयेन व्याचष्टे-अच इति । वृद्धिः स्यादिति । 'मृजेर्वृद्धिः' इत्यतोऽनुवर्तत इति भावः । किति च । 'वाहीकः' इत्याद्यर्थमपीदं सुगमव्याख्यानायात्रैवोपन्यस्तम् । 'अचामादेः' इति निर्दिष्टस्थानिकत्वादिक्परिभाषात्र नोपतिष्ठत इत्याशयेनोदाहरति-आश्वपतमित्यादि । प्रामादिकमेवेति। एतच्च हरदत्तग्रन्थे स्थितम् । यदि तु देवतार्थकारणन्ताचातुर्वर्यादेराकृतिगणत्वात् व्यअिति व्याख्यायते तदा निर्दुष्ट एवायं प्रयोगः । अश्वपनि गणपति राष्ट्रपति कुलपति गृहपति पशुपति क्षेत्रपतीत्यश्वपत्यादिः । दित्यदित्या । पतिशब्दस्योत्तरपदशब्देन बहुव्रीहिं कृत्वा पश्चाद् द्वन्द्वः कार्यः, न तु द्वन्द्वोत्तरं बहुव्रीहिरित्याहपत्युत्तरपदाच्चेति । पत्यन्तात्' इत्युच्यमाने बह्वच्पूर्वादपिस्यादित्युत्तरपदग्रहणं कृतम्। दैत्य इति । ननु दितैर्देवताद्यर्थे एयः सावकाशः, इतश्चानिञः' इत्यपत्ये ढक् दैतेय इत्यादौ Page #280 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७७ काशिकायाम् । याम्यः । 'पृथिव्या भाजी' (वा २५५४ ) । पार्थिवा, पार्थिवी। 'देवाद्यनली' (वा २५५५)। दैव्यम् , दैवम् । 'बहिषष्टिलोपो यञ् च' (वा २५५६) च' इति लोप आदित्य इति रूपम् । श्रादित्यशब्दाद् ण्ये आदिवृद्धौ ‘यस्येति च' इति 'यणो मयः' इति पूर्वयकारस्य द्वित्वे सति 'हलो यमाम्-' इत्याद्ययकारस्य लोपे द्वियकारं रूपम् । द्वित्वाभावं लोपे चासति द्वियकारमेव । असति द्वित्वे यकारलोपे च सत्येकयकारं रूपम् । अनपत्यत्वाद् 'आपत्यस्य च-' इति यलोपो न । अदितरपत्ये रये आदित्यशब्दात्पुनरपत्ये गये 'आपत्यस्य च-' इति यलोपः। प्राजापत्य इति। पत्युत्तरपदात् प्रजापतिशब्दाद् ण्ये आदिवृद्धौ ‘यस्येति च' इति लोपः । दैतेया इति त्वसाध्वेव । साधुत्वश्रद्धा जाड्ये तु पृषोदरादित्वात् समाधेयम् । काशिकायामिति। भाष्ये त्विदं न दृश्यत इति भावः । याम्य इति । यमस्यापत्यादीति विग्रहः । पृथिव्या आाविति । अश्च, अञ् च वक्तव्यावित्यर्थः । पार्थिवेति । पृथिव्या अपत्यादीति विग्रहः । अप्रत्यये 'चुटू' इति अकार इत् , आदिवृद्धिः, 'यस्येति च' इति लोपः । स्त्रियामदन्तत्वाट्टाप् । पार्थिवीति । अनि 'टिड्ढाणञ्-' इति डीप् । अप्रत्ययस्यैव विधौ डीब न स्यात् । अम एव विधौ टाब् न स्यात् । तस्मादुभयविधिः । एतत्सूचनाय स्त्रीलिङ्गोदाहरणमिति बोध्यम् । देवादिति । देवशब्दाद् यञ् अञ् च प्रत्ययौ प्राग्दीव्यतीयेष्वर्थेषु वक्तव्यावित्यर्थः । दैव्यम् ,दैवमिति । देवस्यापत्यादीति विग्रहः । यञि अनि च श्रादिवृद्धौ ‘यस्येति च' इति लोपः । बहिष इति । सावकाशः, तथा च दितरपत्यमित्यत्रोभयप्रसङ्गे परत्वाल्लुक् स्यात् , मैवम् । 'ण्यादयोऽर्थविशेषलक्षणादणपवादात्पूर्वविप्रतिषिद्धम्' इति भाष्ये पूर्वविप्रतिषेधाश्रयणात् । अर्थविशेषे इति किम् , औष्ट्रपतम् । उष्ट्रपति म पत्रम् । 'तस्येदम्' 'पत्राध्वर्युपरिषदश्च' इत्यञ् । इह पूर्वविप्रतिषेधेन 'तस्येदम्' इत्यर्थे रयो न भवति, इदमित्यस्य सामान्यार्थत्वात् । कथं तर्हि 'दैतेयः' इति । अत्राहु:-'कृदिकारात्-' इति ङीषन्तात् 'नीभ्यो ढक्' । रायस्तु न भवति । लिङ्गविशिष्टपरिभाषाया अनित्यत्वात् । न च 'अन्तादिवच्च' इति पूर्वस्यान्तवद्भावेन न्यादेव राय इति भ्रमितव्यम् । दितिशब्दान्डीषि कृते 'यस्येति च' इति लोपेन सवर्णदीर्घाभावादिति । आदित्यशब्दारण्यप्रत्यये 'यस्य-' इति लोपे 'हलो यमां-' इति पाक्षिको यलोपः। न चाल्लोपस्य स्थानिवत्त्वम् , यलोपे 'न पदान्त-' इति तन्निषेधात् , 'पूर्वत्रासिद्धे न स्थानिवत्' इत्युक्तेश्च । काशिकायामिति । भाष्ये तु न दृष्टमिति भावः । अण्णन्तात् वार्थिकेन ष्या प्रयोगः सूपपादः । स्त्रियां डीए न भवति, षितां ङीषोऽनित्यत्वात् । आओः फलभेदज्ञापनाय स्त्रीलिङ्गमुदाहरतिपार्थिवा, पार्थिवीति । बहिष इति । टिलोपवचनम् 'अव्ययानां भमाने-' Page #281 -------------------------------------------------------------------------- ________________ २७८ ] सिद्धान्तकौमुदी। [ तद्धितेष्वपत्याधिकारबाह्यः। 'ईकक्च' (वा २५५७) बाहीकः । 'स्थाम्नोऽकारः' (वा २५५६) अश्वत्थामः । पृषोदरादित्वात्सस्य तः । 'भवार्थे तु लुग्वाच्यः' ( वा २८८२ )। अश्वत्थामा । 'लोम्नोऽपत्येषु बहुष्वकारः-' (वा २५६०)। बाहादीमोऽपवादः । उडुलोमाः। उडुलोमान् । बहुषु किम्-ौडुलोभिः । 'सर्वत्र गोरजादिप्रसङ्गे यत्' । ( वा बहिस् इति सकारान्तमव्ययम् । तस्मात् प्राग्दीव्यतीयष्वर्थेषु यज्, प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः । बाह्य इति । बहिर्भव इत्यादिविग्रहः । यजि टिलोपे आदिवृद्धिः । अव्ययानां भमात्रे टिलोप इत्यस्यानित्यत्वज्ञापनार्थमिह टिलोपविधानम् । तेन पाराद्भव पारातीय इत्यादि सिध्यति । ईकक चेति । बहिष ईकक् च स्यात् प्रकृतेष्टिलोपश्चति वक्तव्यमित्यर्थः । बाहीक इति । बहिष ईककि टिलोपे 'किति च' इत्यादिवृद्धिः । स्थाम्न इति । स्थामन्शब्दाद् अकारप्रत्ययः प्राग्दीव्यतीये. ध्वर्थेषु वाच्य इत्यर्थः । अणोऽपवादः । अश्वत्थाम इति । अश्वस्येव स्थामा स्थितिर्यस्येति विग्रहः । अश्वत्थाम्नोऽपत्यम् , तत्र जार इत्यादिविग्रहः । प्रत्ययविधित्वेऽपि भाष्य उदाहरणात् तदन्तविधिः । अश्वत्थामन्शब्दादकारप्रत्यये 'नस्तद्धिते' इति टिलोपः । अणि तु आदिवृद्धिः स्यात् । ननु उदः परत्वाभावात्कथमिह सकारस्य थकार इत्यत आह-पृषोदरादित्वादिति । भवार्थे तु लुग्वाच्य इति । अकारप्रत्ययस्येति शेषः । लोम्न इति । लोमन्शब्दाद्बहुषु अपत्येषु वाच्येषु अकारप्रत्ययो वक्तव्य इत्यर्थः । बाह्वादीन इति । बाह्रादित्वप्रयुक्तस्य इञोऽपवाद इत्यर्थः । उडुलोमा इति । उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा,तस्यापत्यमिति विग्रहः । केवलस्य लोम्नः अपत्ययोगासंभवात्प्रत्ययविधित्वेऽपि तदन्तविधिः । अकारप्रत्यये सति 'नस्तद्धिते' इति टिलोपः । औडुलोमिरिति । उडुलोम्नोऽपत्यमिति विग्रहः । अत्रापत्यबहुत्वभावादकारप्रत्ययो न । किंतु बाह्वादित्वादिमि टिलोप इति भावः । सर्वत्र गोरिति । लोम्नोऽपत्येष्विति पूर्ववार्तिकादपत्यग्रहणानुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । अपत्ये तदन्येषु च प्राग्दीव्यतीयेष्वर्थेषु इत्यस्यानित्यतां ज्ञापयितुम् । तेन पारातीय इति सिद्धम् । अश्वत्थामा इति। भाष्योदाहरणात्तदन्तविधिः । न च बलवाचिनः स्थामन्शब्दस्पत्येन योगासम्भवाद्वचनारम्भसामर्थ्यात्तदन्तविधिः स्यादिति वाच्यम् , जाताद्यर्थे तत्सम्भवेन सामोपक्षयात् । अश्वस्येव स्थाम यस्येति बहुव्रीहिः । उडुलोमा इति । उडूनि नक्षत्राणीव लोमान्यस्येति विग्रहः । केवल स्यापत्येन योगासम्भवात्तदन्तविधिस्ततोऽकारष्टिलोपः। गोरिति । न केवलमपत्य एवायम् , किं तु प्राग्दीव्यतीयेषु सर्वेष्वर्थेष्विति ज्ञेयम् । १'तत्र' इति क्वचिन्नास्ति । Page #282 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७६ २५६१ ) गव्यम् । अजादिप्रसङ्गे किम्-गोभ्यो हेतुभ्य भागतं गोरूप्यम् , गोमयम् । १०७८ उत्सादिभ्योऽञ् । (४-१-८६) औत्सः । अग्निकलिभ्यां ढग्वक्तव्यः' (वा २६८६ )। अग्रपत्यादि पानेयम् । कालेयम् । इत्यपत्यादिविकारार्थसाधारणाः प्रत्ययाः । गोशब्दादजादिप्रत्ययप्रसङ्गे सति यत्प्रत्ययो वाच्य इत्यर्थः । गव्यमिति । गवि भवं गोरागतमित्यादि विग्रहः । अणपवादो यत् । गोरूप्यम् , गोमयमिति । 'हेतुमनुध्येभ्योऽन्यतरस्याम्-' इति रूप्य इत्यर्थः । 'मयड्वैतयोः-' इति रूप्यमयटौ। हलादित्वान्नैतयोर्यत्प्रत्ययो बाधक इति भावः । उत्सादिभ्योऽञ् । प्राग्दीव्यतीयेष्वर्थेविति शेषः । अणिञाद्यपवादः । 'दृष्टं साम' इति सूत्रभाष्ये 'सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः' इति वार्तिकं पठितम् । दृष्टं सामेत्यर्थे ततोऽन्येष्वप्यर्थेषु ढग्वक्तव्य इत्यर्थः । तत्र सर्वत्रेति त्यक्त्वा लाघवात्प्राग्दीव्यतीयेष्वेवेदं वार्तिकं पठति-अग्निकलिभ्यामिति । अपत्यादीति । अग्निर्देवता अस्य इत्यादिसंग्रहः । अाग्नेयम् । कालेयमिति । ढकि एयादेशे कित्त्वादादिवृद्धौ ‘यस्येति च' इति लोपः। इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः । गव्यमिति । गवि भवम्, गौर्देवता अस्य, गोरिदमित्यादिरर्थः । केचित्तु भाष्ये सर्वत्र ग्रहणात्प्राग्दीव्यतीयेभ्योऽन्यस्मिन्नर्थेऽप्ययं यत् । तेन गवा चरति गव्य इत्याद्यपि भवतीत्याहुः । गोरूप्यमित्यादि । 'हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः' 'मयट च' रूप्यमयटौ। उत्सादिभ्योऽञ् । अगस्तदपवादानामिञादीनां चायमपवादः । इह 'बष्कयासे-' इति गणसूत्रे, असे असमासे, पूर्वाचार्यसंज्ञेयम् । बष्कयस्यापत्यादि वाष्कयः । असे किम् , गौबष्कयिः । 'असे' इति निषेधाल्लिङ्गादिह तदन्तविधिः, तेन धेनुशब्दस्येह पाठादधेनूनां समूह आधेनवमिति सिद्धम् । नन्वेवं धैनुकं गौधेनुकमित्यत्राञ् प्रवर्तेत, 'अचित्तहस्तिधेनोः' इति सूत्रे धेनुशब्दग्रहणाद्धैनुकमिति सिद्धावपि गौधेनुकं न सिद्ध्येदिति चेत् । न । 'धेनुरनञ् इकमुत्पादयति' इति विशेषवचनस्य भाष्ये स्थितत्वात् । इकं ठकमित्यर्थः । अग्निकलिभ्यामिति । अयं भावः 'सास्य देवता' इत्यधिकारे 'अग्नेर्डक्' इति सूत्रम्, 'दृष्टं साम' इत्यधिकारे 'कलेढक्' इति वार्तिकं चापनीय प्राग्दीव्यतीयेष्विदमेव पठनीयम् । तेनामेरपत्यम् , अग्निना दृष्टं साम, अमेरिदम् , अग्नौ भवम् , अनेरागतमामेयमिति सिध्यति । तथा कलेरपत्यमित्याद्यर्थे कालेयमपि सिध्यतीति । एतेन 'यदकालयत्तत्कालेयस्य कालेयत्वम्' इति श्रुतावा Page #283 -------------------------------------------------------------------------- ________________ २८० ] सिद्धान्तकौमुदी। [ तद्धितेष्वपत्याधिकार अथापत्याधिकारप्रकरणम् । १०७६ स्त्रीपुंसाभ्यां नमो भवनात् । (४-१-८७) धान्यानां भवने-' (सू १८०२) इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमाननजी स्तः । स्त्रैणः । पौनः । वत्यर्थे न, 'स्त्री पुंवञ्च' (सू ६३२) इति ज्ञापकात् । स्त्रीवत् । पुंवत् । अथापत्याधिकारो निरूप्यते । स्त्रीपुंसाभ्याम् । भवनशब्देन 'धान्यानां भवन क्षेत्रे खञ्' इति सूत्रं विवक्षितम् । प्राग्दीव्यत इत्यतः प्रागित्यनुवृत्तम् । तदाह-धान्यानामिति । स्त्रीपुंसाभ्यामिति । 'अचतुर-' इत्यच् । स्त्रीशब्दात् पुंस्शब्दाचेत्यर्थः । स्त्रैण इति । स्त्रिया अपत्यम् , स्त्रीषु भवः, स्त्रीणां समूह इत्यादिविग्रहः । नञ् , वृद्धिः, णत्वम् । पौंस्न इति । पुंसोऽपत्यम् , पुंसि भवः, पुसां समूह इत्यादिविग्रहः । पुंस्शब्दात् नजि 'स्वादिषु-' इति पदत्वात्संयो. गान्तलोपः, आदिवृद्धिः । प्रत्ययसकारस्तु श्रूयते, उभाभ्यामपि नव्प्रत्ययस्यैव विधौ न्तरेऽपि ढको दर्शनात् 'कलेढक्' इति सूत्रमपार्थकमिति मीमांसकोक्तिः परास्ता । वार्तिके सूत्रत्वोक्तिरप्यवैयाकरणमीमांसकप्रतारणार्थेति दिक् । इत्यापत्यादिविकारान्तार्थसाधारणप्रत्ययप्रकरणम् । स्त्रीपुंसाभ्याम् । प्रागित्यनुवर्तते तदाह-प्रागर्थेष्विति । पौंस्न इति । इह 'स्वादिषु-' इति पदत्वात्संयोगान्तलोपेन पुंसः सस्य निवृत्तावपि प्रत्ययसकारः श्रूयत एव । अतएवोभाभ्यां परतो नव न विहितः, पौनमिति रूपासिद्धिप्रसङ्गात् । स्यादेतत्-उभाभ्यामपि प्रकृतोऽओवास्तु तत्संनियोगेन 'स्त्रीपुंसयोर्नुक् च' इति नुगेव विधीयताम् । न चैवं 'स्रणः, पौंस्नः' इत्यत्र 'योश्च' इति लुक्प्रसङ्गः । स्त्रैणानां संघ इत्यादौ 'सङ्घाङ्कलक्षणेषु' इत्यणप्रसङ्गश्च स्यादिति वाच्यम् , उभयत्रापि 'गोत्रे' इत्यनुवृत्तेः, प्रवराध्यायप्रसिद्धं हि तत्र गोत्रम् । अन्यथा 'पौत्राः, दौहित्राः' इत्यत्राप्यो लुक् स्यात् । एवं च 'ननजीकक्युन्-' इति वार्तिके नस्नग्रहणं विना अअन्तत्वादेव डीप सिध्यतीत्यपरमप्यनुकूलमिति चेत् । अत्राहुः--नुकि 'नस्तद्धिते' इति टिलोपः स्यात् । न चैवं नुगानर्थक्यम् । टिलोपप्रवृत्त्यैव नुकः सार्थकत्वात् । यद्यपि स्त्रीशब्दे तस्य सार्थक्यं नास्ति, 'यस्येति च' इत्यनेनापीकारसोपसम्भवात् । तथापि 'श्रीर्देवतास्य श्रायं हविः' इत्यत्रेव लोपात्परत्वाद् वृद्धिः स्यात् , नुकि तु टिलोपः प्रवर्तत इति स्त्रीशन्देऽपि नुकः सार्थक्यमस्तु । तस्मान्ननाविति १ भवनशब्देनैकदेशेन, इति क. ख. Page #284 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८१ १०८० द्विगोलुंगनपत्ये । (४-१-८८) द्विगोनिमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तम् इति किम्-पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम्-पञ्चगर्गरूप्यम् । अनपत्ये किम्-द्वयोर्मित्रयोरपत्यं द्वैमित्रिः । तु पुंसः सकारस्य संयोगान्तलोपे पुन्न इति स्यादिति भावः। वत्यर्थे नेति । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययो वक्ष्यते । तस्यार्थे स्त्रीपुंसाभ्यां नमो न भवत इत्यर्थः । कुत इत्यत आह-स्त्री पुंवच्चेति ज्ञापकादिति । अन्यथा पुंवदिति निर्देशोऽनुपपन्नः स्यादिति भावः । न च पुंवदिति निर्देशः पुंस्शब्दाद्वत्यर्थे स्नञभावं ज्ञापयेत्, नतु स्त्रीशब्दानञभावमपीति वाच्यम्, ननसोरेकसूत्रोपात्ततया वत्यर्थ स्नञभावे ज्ञापिते सति स्त्रीशब्दानसभावस्यापि लाभाद् ज्ञापकस्य सामान्यापेक्षत्वात् । तदुक्तं भाष्ये 'योगापेक्षं ज्ञापक्रम्' इति । द्विगोलगनपत्ये । द्विगोरिति हेतुत्वसंबन्धे षष्ठी । लुक्श्रवणात् प्रत्ययस्येत्युपस्थितम् , प्रत्ययादर्शनस्यैव लुक्त्वात् । तथा च द्विगुनिमित्तस्य प्रत्ययस्य लुगिति लभ्यते । द्विगुनिमित्तश्च प्रत्ययस्तद्धित एव भवति, तद्धितार्थे विषये तद्विधानात् । ततश्च द्विगुनिमित्तस्य तद्धितस्येति लभ्यते । प्राग्दीव्यत इत्यनुवृत्तेः प्राग्दीव्यतीयत्वं तद्धितविशेषणम् । 'गोत्रेऽलुगचि' इत्युत्तरसूत्रे अचीति सप्तम्यन्तस्य गोचविशेषणतया तदादिविधिः । अजादावित्यर्थकमचीति पदमिहापकृष्यते । तच्च षष्ठ या विपरिणतं तद्धितविशेषणम् , तदाह-द्विगोनिमित्तमित्यादिना । पञ्चकपाल इति । 'संस्कृतं भक्षाः' इत्यण् , तद्धितार्थे द्विगुः, अणो लुक् । प्रत्ययलक्षणाभावान्नादिवृद्धिः । पञ्चकपालस्येदमिति । पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासे अणो लुकि निष्पन्नात् पञ्चकपालशब्दात् 'तस्येदम्' इत्यणि आदिवृद्धौ पाञ्चकपालमित्यत्राणो लुङ् न भवति, अणो द्विगुनिमित्तित्वाभावादिति भावः । पञ्चगर्गरूप्यमिति । पञ्चभ्यो गर्गेभ्य आगतयथान्यासमेव स्वीकर्तव्यमिति । अन्ये तु 'स्त्रीपुंसयोर्नुक् च' इत्यस्तु, आगमे अकारो विवक्षितः । तस्य च 'यस्येति च' इति लोपे कृतेऽपि स्थानिवत्त्वाहिलोपो न भविध्यति । एवं च 'टिड्ढाणञ्-' इति सूत्रेणैव ङीसिद्धौ ननयोरुपसंख्यानं मास्त्विति महदेव लाघवमित्याहुः । वत्यर्थ इति । 'स्त्रीपुंसाभ्यां ननौ वत्यर्थे न प्रवर्तते' सामान्यापेक्षं ज्ञापकमिति भावः। अतएवोदाहरति-स्त्रीवदिति । 'श्रा च त्वात्' इति चकारो ननभ्यां त्वतलोः समावेशार्थ इति वक्ष्यति । तेन स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्तेति सिद्धम् । द्विगोलुंगनपत्ये । द्विगोरिति षष्टी, तदर्थश्च हेतुत्वम् , तच्च भावि. नोऽप्युपपद्यते, बुद्धयाध्यवसायादित्याशयेनाह-द्विगोनिमित्तमिति । अजादि Page #285 -------------------------------------------------------------------------- ________________ २८२] सिद्धान्तकौमुदी। [तद्धितेप्वपत्याधिकार १०८१ गोत्रेऽलुगचि । (४-१-८९ ) अजादौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्यालुक्स्यात् । गर्गाणां छात्राः, 'वृद्धाच्छः' (सू १३३७)। १०८२ आपत्यस्य च तद्धितेऽनाति । (६-४-१५१) हलः परस्यापत्ययकारस्य मित्यर्थे 'हेतुमनुष्येभ्यः-' इति रूप्यप्रत्ययः। 'तद्धितार्थ-' इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाभावाद् न लुगिति भावः । द्वैमित्रिरिति । अा 'अत इञ्' इति इञोऽपत्यार्थकत्वान्न लुगिति भावः । न च तिस्रो विद्या अधीयानस्त्रविद्य इत्यत्राप्यणो लुक स्यादिति वाच्यम् , त्र्यवयवा विद्या त्रिविद्या, शाकपार्थिवादिः। त्रिविद्यामधीते विद्य इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाभावात्। प्राग्दीव्यतीयन्येति किम्? पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम् । गोत्रेऽलुगचि । अलुगिति च्छेदः । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यय इति लब्धम् । अवीति तद्विशेषणम् , तदादिविधिः। विषयसप्तम्येषा, नतु परसप्तमी। तदाह-अजादावित्यादिना । गोत्रप्रत्ययस्येति । गोत्रार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययादर्श नत्वात् प्रत्ययस्येति लब्धम् । गर्गाणां छात्रा इति । वक्ष्यमाणोदाहरणविग्रहप्रदर्शनामिदम् । गर्गस्य गोत्रापत्यं गार्ग्यः, 'गर्गादिभ्यो यज्' । गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यषि कृते तस्य 'योश्च' इति लुकि गर्गा इति भवति । वृद्धाच्छ इति । गार्यशब्दादुक्तेऽर्थे छप्रत्यय इत्यर्थः। छस्य ईयादेशः, तस्मिन्भविष्यति अजासै परे ‘यजओश्च' इति प्राप्तो लुङ् न भवति । तथा च गाये ईय इति स्थिते 'यस्येति च' इति योऽकारस्य लोपे गा! ईय इति स्थित परिशिष्टस्य यजो यकारस्य लोपमाह-आपत्यस्य च । अनातीति च्छेदः । 'ढे लोपोऽकवा-' इत्यतो लोप इत्यनुवर्तते । 'सूर्यतिष्य-' इत्यतो य इति षष्ठ्यन्तमनुवर्तते। 'हलस्तद्धितस्य' इत्यतो हल इति पञ्चम्यन्तमनुवर्तते । रिति । एतच्चोत्तरसूत्राद् ‘अचि' इत्यपकर्षाल्लभ्यते, वाग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणेन वा । प्राग्दीव्यतीयः किम् , पञ्चभ्यः कपालेभ्यो हित पञ्चकपालीयम् । गोत्रे लुगचि । गोत्रे किम् , गोत्रार्थकप्रत्ययस्यैवालुग्यथा स्यात् । नेह-कुवलस्येदं कौवलम् , बदरस्येदं बादरम् । कुवलीबदरीशब्दौ हि गौरादिङीषन्ती, ताभ्यां फलरूपे विकारे 'अनुदात्तादेश्च' इत्यञ् । तस्य ‘फले लुक्' इति लुक् , तत इदमर्थे अजादिप्राग्दीव्यतीये विवक्षितेऽनेनालुङ्न भवतीति वृद्धत्वाभावाच्छो नेति भावः । विव. क्षित इति । अचीति विषयसप्तमी। परसप्तमीत्वे तु अवृद्धत्वाच्छस्याप्राप्तौ अणेव स्यादिति भावः। गर्गाणामिति । अपत्यबहुत्वविवक्षायां 'योश्च' इति लुक् , स चाजादिप्रत्यये चिकीर्षिते अनेन प्रतिषिद्ध इति गार्यशब्दाच्छे कृते तस्य ईयादेशः । 'यस्येति च' इत्यकारलोपे यलोपार्थमाह-आपत्यस्य इति । 'ढे लोपो Page #286 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८३ लोपः स्यात्तद्धिते परे, न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम्-गर्गेभ्यो हितं गर्गीयम् । अचि किम्-गर्गेभ्य भागतं गर्गरूप्यम् । १०८३ युनि लुक् । (४-१-६० ) अजादौ प्राग्दीव्यतीये प्रत्यये विवक्षिते युवप्रत्ययस्य लुक्स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः। वक्ष्यमाणः फिन् । ततो यून्यण, ग्लौचुतदाह-हलः परस्यापत्ययकारस्येति । अपत्यार्थकयकारस्येत्यर्थः । यत्रो लुकि तु आदिवृद्धिर्न स्यादिति भावः । अल्लोपस्याभीयत्वेऽपि नासिद्धत्वम् , आरम्भसाम र्थ्यात् । 'हलस्तद्धितस्य' इति यलोपस्यात्र प्रसक्तावपि न्याय्यत्वादिदमेव भवति । गर्गीयमिति । 'तस्मै हितम्' इति गार्ग्यशब्दाच्छः। तस्य प्राग्दीव्यतीयत्वाभावात् तस्मिन्परे 'यजनोश्च' इति यत्रो लुग्भवत्येवेति नादिवृद्धिरिति भावः। गर्गरूप्यमिति। 'हेतुमनुष्यभ्यः-' इति रूप्यप्रत्ययः, तस्य प्राग्दीव्यतीयत्वेऽप्यजादित्वाभावात्तस्मिन्परे यत्रः अलुङ् न । यदि तु 'अजादौ प्राग्दीव्यतीये प्रत्यये परे इति व्याख्यायेत, तर्हि गार्ग्यशब्दाच्छे तस्य ईयादेशे कृते अलुग्विधिःप्रवर्तेत, नतु ततः प्राक् । एवं च छप्रवृत्तेः प्राग् 'योश्च' इति यो लुकि कृत आदिवृद्धेर्निवृत्तौ गर्गशब्दस्य वृद्धत्वाभावात् ततश्छो न स्यात् । अणि सति गर्गाश्छात्रा इत्येव स्यात् । अजादौ प्रत्यये विवक्षिते इति व्याख्याने तु छप्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव यजि अलुग्विधेः प्रवृत्तौ यजन्तस्य वृद्धत्वाच् छो निर्बाधः । यलोपविधौ आपत्यस्येति किम् ? सङ्काशेन निवृत्तं नगरं साङ्काश्यम्, 'सङ्काशादिभ्यो एयः' नतो भवार्थे 'धन्वयोपधात्-' इति वुञ् , सांकाश्यकः। तद्धिते किम् ? गार्थे, गार्ययोः । अनातीति किम् ? गाायणः । यूनि लुक् । प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच्च प्राग्दीव्यतीये प्रत्यये इति लभ्यते । अचीति प्रत्ययविशेषणम् , तदादिविधिः । विषयसप्तम्येषा, नतु परसप्तमी। तदाह-अजादौ प्राग्दीव्यतीये विवक्षित इति । युवप्रत्ययस्येति । युवार्थकप्रत्ययस्येत्यर्थः । कद्वाः' इत्यतो लोप इत्यनुवर्तते, 'सूर्यतिष्य-' इत्यतो य इति, 'हलस्तद्धितस्य' इत्यतो हल इति च तदाह-हलः परस्येत्यादि। आभीयत्वेऽप्यल्लोपो नासिद्धः, प्रारम्भसामर्थ्यात् । अतएवोपधाया इति नानुवर्तितमिति व्याचष्टे—यकारस्येति । श्रापत्यस्येति किम् , सांकाश्यकः । काम्पिल्यकः । 'संकाशादिभ्यो रायः' ततो 'धन्वयोपधात्-' इति वुन् । तद्धिते इति किम् , गाग्र्यो । गार्ग्ययोः । अनातीति किम् , गाायणः । गार्गीयमिति । 'तस्मै हितम्' इति छः। यूनि लुक् । प्राग्दीव्यतीय इति वर्तते, अचीति च, प्रत्ययाधिकाराच्च प्रत्यय इति लभ्यते, तदेतदाहप्राग्दीव्यतीयेऽजादौ प्रत्यय इति । 'प्रत्ययस्य लुक्' इति संज्ञाकरणाल्लब्धी यः प्रत्ययः, स 'यूनि' इत्यनेन विशेष्यते । तथा च 'यूनि यः प्रत्ययस्तस्य लुक्' Page #287 -------------------------------------------------------------------------- ________________ २८४ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारकायनः । तस्य च्छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धस्वाभावाच्छो न । १०८४ पैलादिभ्यश्च । (२-४-५६) एभ्यो युवप्रत्ययस्य लुक् । 'पीलाया वा' (सू ११२१) इत्यण् । तस्माद् 'प्रणो व्यः' (सू ११८० ) इति फिञ् । तस्य लुक् ।पैलः पिता पुत्रश्च । 'तद्राजाचाणः' (ग २१) 'व्यज्मगध-' इत्यरणलुकः प्रत्ययादर्शनत्वात् प्रत्ययस्येति लभ्यत इति भावः । ननु ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिरिति कथम्, 'अत इञ्' इति इञः प्राप्तेः ? इत्यत आह-वक्ष्यमाण इति । 'प्राचामवृद्धात् फिन् बहुलम्' इत्यनेनेति शेषः । आयन्नादेशे ग्लुचुकायनिरिति रूपमिति भावः । तत इति । ग्लुचुकायनेरपत्यार्थे 'तस्यापत्यम्' इत्यणि आदिवृद्धौ 'यस्येति च' इति लोपे ग्लौचुकायन इति रूपमित्यर्थः । तस्येति । ग्लौचुकायनस्य छात्र इत्यर्थे तस्येदमित्यणि युवापल्याणो लुकि ग्लौचुकायन इत्येव रूपमित्यर्थः । ननु युवापत्याणः 'यस्येति च' इति लोपेनैव छात्राथै ग्लौचुकायन इति रूपसिद्धेस्तस्य लुग्विधिरनर्थक इत्यत आह–अणो लुकीति । छात्रार्थकछप्रवृत्तेः प्रागेव युवप्रत्ययस्याणो लुकि आदिवृद्धेर्निवृत्तौ ग्लुचुकायनिशब्दस्य वृद्धत्वाभावाच् छो न भवति । युवप्रत्ययस्य लुगभावे तु वृद्धत्वात् छः स्यात् । एतदर्थमेव युवप्रत्ययस्य लुम्विधानमित्यर्थः । स्थितश्चातुर्थिको युवप्रत्ययलुक् । तत्प्रसङ्गाद् द्वैतीयीको युवप्रत्ययलुगनुक्रम्यते । पैलादिभ्यश्च । 'ण्यक्षत्रियार्ष-' इत्यतो यूनि लुक् इत्यनुवर्तते । तदाह-एभ्यो युवप्रत्ययस्य लुगिति । अजादिप्रत्यये अविवक्षितेऽपि प्राप्त्यर्थमिदम् । पीलाया इति । पीलाया गोत्रापत्यमित्यर्थे 'स्त्रीभ्यो ढक्' इति ढकं बाधित्वा 'पीलाया वा' इत्यणित्यर्थः । तस्मादिति । पैलस्यापत्यं युवेत्यर्थे 'पैलादिभ्यश्च' इति लुक् 'अणो यचः' इति फिञ् इत्यर्थः । पीलाया गोत्रापत्यस्यापत्यं पीलाया युवापत्यमिति पर्यवस्यति । तस्येति । तस्य युवार्थकफिप्रत्ययस्य अनेन लुगित्यर्थः । पीलाया गोत्रापत्ये इत्यर्थस्तदाह-युवप्रत्ययस्येति । वक्ष्यमाण इति । 'प्राचामवृद्धात्फिन्बहुलम्' इति वक्ष्यमाणः। अजादौ किम् , ग्लौचुकायनरूप्यम् । प्राग्दीव्यतीये किम् , ग्लौचुकायनीयम् । 'तस्मै हितम्' इति छः । इह 'द्विगोर्चुगनपत्येऽचि' 'यूनि गोत्रे न' इत्येव सूत्रयितव्यम् । तथा च 'लुगलुग्ग्रहणं शक्यमकर्तुम्' इति मनोरमायां स्थितम् । तत्र 'फक्फिो :-' इति सूत्रे 'यूनि' इत्यस्य मण्डूकप्लुतिराश्रयणीयेति क्लेशोऽयं लाघवानुरोधेन सोढव्य इति भावः। पैलादिभ्यश्च । 'रायक्षत्रियार्षइत्यतो 'यूनि लुक्' इति वर्तते तदाह-युवप्रत्ययस्य लुगिति । पीलाया वेत्यादि । 'अपत्येऽणि विहिते गोत्रापत्येऽप्यणेव' ‘एको गोत्रे' इति वक्ष्यमाणत्वात्। ततोऽणन्तात्पैलशब्दादपत्येऽपि विधीयमानः फिञ् युवापत्ये पर्यवस्यति। तस्य च Page #288 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २८५ न्तादाङ्गशब्दाद् 'अणो व्यचः -' ( सू १९८० ) इति फिञो लुक् । श्राङ्गः पिता पुत्रश्च । १०८५ इञः प्राचाम् । ( २-४-६० ) गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात् तच्चेद्गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम्, 'श्रुत इज् ' ( सू १०१५ ), ' यञिञोश्च' ( सू ११०३ ) इति फक्, पन्नागारिः पिता पुत्रश्च । प्राचां किम्-दातिः पिता, दाक्षायणः पुत्रः । १०८६ न तौल्वलिभ्यः । (२-४-६१ ) तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुङ् न स्यात् । पूर्वेण प्राप्तः । , युवापत्ये च पैलशब्द इत्याह- पैलः पिता पुत्रश्चेति । यूनः पिता युवा चेत्यर्थः । ‘तद्राजाच्चाणः' इति पैलादिगणसूत्रम् । तद्राजप्रत्ययात्परस्य युवप्रत्ययस्याणो लुगित्यर्थः । यञ्मगधेति । अङ्गशब्दो देशविशेषे । तस्य राजा श्रङ्गः । तस् गोत्रापत्यमप्याङ्गः । 'मगध' इत्यण् । तस्यापत्यं युवाप्याङ्ग एव । 'अणो द्यचः ' इति फिञ् तस्यानेन लुक् । इञः प्राचाम् । इञ इति पञ्चमी । प्रत्ययत्वात्तदन्तग्रहणम् । 'रायक्षत्रिय - ' इत्यतो यूनि लुगित्यनुवर्तते । इञन्तात्परस्य युवप्रत्ययस्य लुगित्यर्थः। अर्थादिञो गोत्रार्थकत्वं लभ्यते । तदाह – गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुगिति । प्राचाम् इति गोत्रविशेषणम्, न तु विकल्पार्थम्, व्याख्यानात् । तदाह - तच्चेद्गोत्रं प्राचां भवतीति । प्राग्देशीयमित्यर्थः । पन्नागारस्येति । प्राग्देशे पन्नागारो नाम कश्चित् तस्य गोत्रापत्यमित्यर्थ 'अत इञ्' इति इञि पान्नागारिः । पान्नागारेरपत्यं युवेत्यर्थे पानागारिशब्दाद् ' यञिञोश्च' इति फक्, तस्यानेन लुक् । एवं च पन्नागारस्य गोत्रापत्ये युवापत्ये च पान्नागारिरित्येव रूपमि - त्यर्थः । प्राचां किमिति । गोत्रविशेषणं किमर्थमित्यर्थः । दाक्षिः पिता, दाक्षायणः पुत्र इति । दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ् । तस्यापत्यं युवा दाक्षायणः । 'यञिञोश्च' इति फक् । तस्य लुग् न भवति, दाक्षिशब्दस्य प्राग्देशीयगोत्रप्रत्ययान्तत्वाभावेन न युवप्रत्ययस्य फकः प्राग्देशीयगोत्रार्थकादिञः परत्वम् । " फिञोऽनेन लुगित्यर्थः । एवं च पीलाया अपत्ये गोत्रापत्ये युवापत्ये चावैरूप्येण पैलशब्दः प्रयुज्यत इत्याह- पैलः पिता पुत्रश्चेति । पैलादिषु ये इञन्ताः शालङ्किसात्यकिऔदमेयिपैङ्गलिप्रभृतयस्तेभ्यः 'इञः प्राचाम्' इति लुकि सिद्धे अप्राचामर्थः पाठ इति ज्ञेयम् । तद्राजाच्चारणः । गणसूत्रमिदम् । तद्राजसंज्ञकात्परस्य युवप्रत्ययस्य लुगित्यर्थः । तच्चेद्गोत्रं प्राचां भवतीति । इह प्राचां ग्रहणं गोत्रविशेषणम्, न तु ‘प्राचामवृद्धात्-' इत्यादिवद्विकल्पार्थमित्यत्र व्याख्यानं शरणम् । दाक्षिः पितेत्यादि । दक्षस्यापत्यं गोत्रापत्यं च पुमान्दातिः । युवापत्यं तु दाक्षायण इति भावः । न तौल्वलिभ्यः । बहुवचननिर्देशाद्गणपाठसामर्थ्याचाद्यर्थावगतिरित्यभिप्रेत्याह Page #289 -------------------------------------------------------------------------- ________________ २८६ ] सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार तुल्वलः, तत इजि फक्- - तौस्वलिः पिता, तौल्वलायनः पुत्रः । १०८७ फक्फिञोरन्यतरस्याम् । (४-१-११) 'यूनि लुक्' ( सू १०८३) इति नित्ये लुकि प्राप्ते विकल्पार्थं सूत्रम् । कात्यायनस्य छात्राः कातीयाः, कात्यायनीयाः । यस्कस्यापत्यं यास्कः, शिवाद्यण्, तस्यापत्यं युवा यास्कायनिः । 'अणो द्व्यचः ' ( सू ११८० ) इति फिञ् । तस्य छात्रा यास्कीया यास्कायनीयाः । १०८८ तस्यापत्यम् । (४-१-६२) षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वच्यमा न तौल्वलिभ्यः । बहुवचनात्तौल्वल्यादीनां ग्रहणमित्याह -- तौल्वल्यादिभ्यः परस्येति । पूर्वेणेति । 'इञः प्राचाम्' इत्यनेन प्राप्तो लुगनेन प्रतिषिध्यत इत्यर्थः । तुल्वल इति । तुल्वलो नाम प्राच्यः कश्चित् । तस्य गोत्र पत्यं तौल्वलिः । अत इञ् । तस्यापत्यं युवा तौल्वलायनः । ' यञिञोश्च' इति फक् । 'इञः प्राचाम्' इति लुङ् नेत्यर्थः । अथ प्रकृतं चातुर्थिकं लुग्विधिमनुसरति । फक्फिञोरन्यतरस्याम् । यूनीत्येवेति । 'यूनि लुक्' इति पूर्वसूत्रमनुवर्तत इत्यर्थः । 'यूनि लुक्' इत्युक्तो लुक् फक्फिोर्वा स्यादित्यर्थः । तदाह - पूर्वेणेति । कात्यायनस्येति । कतस्य गोत्रापत्यं कात्यः । गर्गादित्वाद्यञ् । तस्यापत्यं युवा कात्यायनः । 'यञिञोश्च' इति फक् । कात्यायनस्य छात्रा इत्यर्थे 'तस्येदम्' इत्यनुवृत्तौ 'वृद्धाच्छः' इति छः, ईयादेशः । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफको लुकि सति काव्य ईय इति स्थिते 'यस्येति च' इत्यकारलोपे 'आपत्यस्य च -' इति यलोपे कातीया' इति रूपम् । फको लुगभावे तु कात्यायनीया इति रूपमित्यर्थः । यस्कस्येति । यस्कस्य गोत्रापत्यमित्यर्थे 'अत इञ्' इति इञपवादः शिवायणित्यर्थः । तस्येति । यास्कस्यापत्यं युवेत्यर्थे ‘अणो द्यचः' इति फिनि प्रायन्नादेशे यास्कायनिरिति रूपमि - त्यर्थः । तस्य छात्रा इति । यास्कायनेश्छात्रा इत्यर्थे 'तस्येदम्' इत्यनुवृत्तौ 'वृद्धाच्छः' इति छः, तस्य ईयादेशः, यास्कायनीया इति रूपम् । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफिञो लुकि 'यस्येति च' इति अकारलोपे यास्कीया इति रूपमित्यर्थः । तस्यापत्यम् । तद्धिता इति प्रत्ययः, परश्व इति चाधिकृतम् । तच्छब्दः सर्वनामतया बुद्धिस्थपरामर्शित्वादुपग्वादिसर्वविशेषबोधकः, तस्य उपग्वातौवल्यादिभ्य इति । दैवमित्रि, दैवयज्ञि, श्वाफल्कि, आसुरि, नैमेषि, पौष्करसादि, वैकर्णीत्यादितौल्वल्यादिः । कात्यायनस्येति । कतस्य गोत्रापत्य कात्यः । गर्गादित्वाद्यञ् । ततो यूनि 'यञिञोश्व' इति फक् । कातीया इति । ‘आपत्यस्य च-' इति यलोपः । तस्यापत्यम् । 'तस्य' इति न स्वरूपग्रहणम्, किं १ क्वचिद् 'यूनि' इत्येव पाठः । २ ' इत्येव पूर्वेण' इति क्वचित् पाठः । Page #290 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८७ णाश्च प्रत्यया वा स्युः । उपगोरपत्यमौपगवः। प्रादिवृद्धिरन्त्योपधावृद्धी बाधते । देरपत्यमित्यर्थं तद्धिताः प्रत्ययाः परे भवन्तीति लभ्यते । कस्मात्परे प्रत्यया भवन्तीत्याकाङ्क्षायां 'समर्थानां प्रथमाद्वा' इत्यधिकारात् प्रथमोच्चारितात्समर्थात्तच्छब्दलब्धोपग्वादेरिति लभ्यते । प्रातिपदिकादित्यधिकृतम् । “घकालतनेषु कालनाम्नः' इति तरप्तमप्तनेषु तद्धितेषु परतः सप्तम्या अलुग्विधानात्सुपस्तद्धितोत्पत्तेापितत्वात् सुप्शिरस्कात्प्रातिपदिकादिति लभ्यते । सुप् चेह तस्येति प्रथमोच्चारिते पदे उपस्थि. तत्वात् षष्ठयेव गृह्यते ततश्च षष्ठयन्तादिति फलति । सामर्थ्य कृतसन्धिकार्यत्वमित्युक्तमेव, तदाह-षष्ठयन्तात्कृतसन्धेरिति । 'समर्थः पदविधिः' इति परि. भाषया लब्धमाह-समर्थादिति । विशिष्टैकार्थप्रातिपदिकादित्यर्थः । सुबन्तात्तद्धितोत्पत्त्या तद्धितविधीनां पदविधित्वादिति भावः । उक्ता इति । 'प्राग्दीव्यतोऽण' इत्याद्या श्रौत्सर्गिका इत्यर्थः । वक्ष्यमाणाश्चेति । 'अत इञ्' इत्याद्या वैशेषिका इत्यर्थः । वा स्युरिति । 'समर्थानां प्रथमावा' इत्यधिकृतत्वादिति भावः । 'अपत्यं पौत्रप्रभृति गोत्रम्' इति उत्तरसूत्रव्याख्यावसरे अपत्यशब्दो व्याख्यास्यते । औपगव इति । उपगोरणि आदिवृद्धिः, ओर्गुणः, अवादेशः । अत्र प्रकृत्यैव उपगोर्लाभाद् अपत्यमेव प्रत्ययार्थ इति स्थितिः । ननु उपगु अ इति स्थिते ओर्गुणात्परत्वाद् 'अचो णिति' इति वृद्धिः स्यात् , ओर्गुणस्य पशव्य इत्यादौ चरितार्थत्वात् । कृते च गुणे श्रवादेशे सति 'अत उपधायाः' इति वृद्धिर्दुर्निवारा । त्वष्टुरपत्यं त्वाष्ट्रः, मघवतोऽपत्यं माघवत इत्यादौ गुणाप्रसक्तया अन्त्योपधावृद्धयोनिधित्वाच्च । न च परत्वादादिवृद्धौ अन्त्योपधावृद्धी बाध्येते इति वाच्यम् , विप्रतिषेधे हि परस्य पूर्वबाधकता, न चेह विप्रतिषेधोऽस्ति, देशभेदेनोमयसम्भवात् । नाप्यन्त्योपधावृद्धयोरपवाद आदिवृद्धिरिति वक्तुं शक्यम् , सुश्रुतोऽपत्यं सौश्रुत इत्यादौ अन्त्योपधावृद्धयोरप्राप्तयोरप्यादिवृद्धेः प्रवृत्तेः, तस्मादादिवृद्धिस्थले अन्त्योपधावृद्धी स्यातामित्यत आह-आदिवृद्धिरिति । 'अचो णिति' इत्यन्त्यवृद्धिम् 'अत उपधायाः' इत्युपधावृद्धिं च आदिवृद्धिर्बाधत इत्यर्थः । पुष्करसदोऽपत्यमित्यर्थे बाह्वादित्वादिञ् , 'अनुशतिकादीनां च' इत्युभयोः पदयोरादिवृद्धिः । पुष्करसदशब्दस्य अनुशतिकादौ तु षष्ठयन्तमात्रोपलक्षणमित्याशयेनाह-षष्ठयन्तादिति । पञ्चम्यर्थोऽध्याहारलभ्यः। अनुकरणात्पञ्चम्याः सौत्रो लुग्वा । उक्ता इति । अरण्यादय उक्ताः । वदयमाणा इति । इादयः । ननु 'उपगु अ' इति स्थिते श्रोर्गुणात्परत्वाद् 'अचो णिति' इति वृद्धया भाव्यम् । गुणस्तु पिचव्यादौ सावकाशः। कृते च गुणे अवादेशे च 'अत उपधायाः' इति वृद्धघा भाव्यमत आह-आदिवृद्धिरिति। परत्वादिति भावः। Page #291 -------------------------------------------------------------------------- ________________ २८८] सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् । पाठात् । तत्र यद्यादिवृद्धिरन्त्योपधावृद्धी न बाधेत, तदा दिवृद्धया उपधावृद्धया च पौष्करसादेः सिद्धत्वाद् अनुशतिकादी पुष्करसच्छन्दपाठोऽनर्थकः स्यात् । अतस्तत्रकौण्डिन्यन्यायात् सत्यपि सम्भवे बाधनं भवति इति विज्ञायत इति भाष्ये स्पष्टम् । तस्येदमित्यपत्येऽपीत्यादि । श्लोकवार्तिकमिदम् । तत्र प्रथमचरणस्यायमर्थ:तस्येदमिति विहितः अण् अपत्येऽर्थेऽपि भवति, इदमर्थे तस्याप्यन्तर्भावात् । अतस्तस्यापत्यमित्यविधानं व्यर्थमित्याक्षेपः । नच 'अत इञ्' इत्याद्युत्तरसूत्रार्थं ' तस्यापत्यम्' इत्यावश्यकमिति वाच्यम्, एवं हि सति 'तस्यापत्यमत इज्' इत्येकमेव सूत्रमस्तु । तथा च 'तस्यापत्यम्' इति पृथक्सूत्रकरणं व्यर्थमित्यात्क्षेपः पर्यवस्यति । अत्र समाधत्ते - बाधनार्थं कृतं भवेदिति । ' तस्येदम्' इत्यणं बाधित्वा ‘वृद्धाच्छः' इति छः अपत्ये प्राप्तः, तद्बाधनार्थं 'तस्यापत्यम्' इति पृथक्सूत्रं कृतमिअन्त्योपधावृद्धयोरवकाशः-गौः, पाचकः । आदिवृद्धेस्तु सुश्रुत सौश्रुतः । ' त्वाष्ट्रो जागतः' इत्यादौ तूभयप्रसङ्गे परत्वादादिवृद्धिरेव भवति । लक्ष्यानुरोधेनात्र सद्गति - न्यायस्यैवाश्रयणात् । अनुशतिकादिषु पुष्करसच्छब्दपाठोऽप्यत्र लिङ्गम् । अन्यथा श्राद्युपधावृद्धिभ्यां पौष्करसादेः सिद्धत्वात्तेषु पाठोऽनर्थकः स्यात् । न च 'पुष्करसदा चरति' इत्यर्थे ठकि 'पौष्करसादिक' इत्येतदर्थमनुशतिकादिपाठ आवश्यकः, बिति मित्येव उपधावृद्धेः स्वीकारान्न तु कितीति वाच्यम्, अनभिधानाट्ठगत्र न भवतीत्यादिसमाधानस्य कैयटे स्थितत्वात् । एतेन भिन्नविषये बाध्यबाधकभावो नोपपद्यत इति शङ्का निरस्ता । उक्तज्ञापकेन 'सत्यपि संम्भवे बाधनं भवति' इत्यवश्याश्रयणीयत्वात् । नन्वेवमपि ‘जागतः’ इत्यादावुपधावृद्धिर्बाध्यताम्, श्रपगव इत्यत्र त्वादिवृद्धि प्रवृत्तिवेलायामुपधावृद्धेरप्राप्त्या कथं बाधः स्यादिति चेत् । अत्राहुः -- जागत इत्यादावुपधावृद्धेर्बाध्यत्वे निर्णीते क्वचित्कालान्तरप्राप्ताया अपि तस्या बाध्यत्वौचित्यादिति । स्यादेतत्-यत्रादिवृद्धिर्न जाता तत्रान्त्योपधालक्षणा वृद्धिः कस्मान्न भवति । व्यसो - र्भावो वैयसवम् । ‘इगन्ताच्च' इत्यण् । व्यापदि भवं वैयापदम् । 'तत्र भवः' इत्यण् । अत्र कैयटः- तत्राप्यैचौ परत्वात्तद्वाधकाविति सर्वेष्टसिद्धिरिति । शाब्दबोधवैलक्षण्यसत्त्वेऽपि तदनादरेणाक्षिपति — तस्येदमित्यपत्ये ऽपीति । इदमर्थे अपत्यसमूहविकारादीनामन्तर्भावादपत्येऽपि 'तस्येदम्' इत्यण् प्रवर्तत इति किमनेन 'तस्यापत्यम्' इति सूत्रेणेत्यर्थः । यद्यपि 'अत इञ्' इत्याद्यर्थं 'तस्यापत्यम्' इत्येतद्वक्तव्यम् । तथापि योगविभागः किमर्थ इत्याक्षेपोऽत्र बोध्यः । समाधत्ते - बाधनार्थमिति । 'तस्येदम्' इत्यस्य यद्वाधकं 'वृद्धाच्छः' इति तद्बाधनार्थं पृथक् सूत्रं कृतं भवेदित्यर्थः । ननु Page #292 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८६ उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ॥ (वा २१८१-२५८४) योगविभागस्तु-भानोरपत्यं भानवः । कृतसन्धेः किम्-सौस्थितिः, अकृतव्यूहपरिभाषया सावुस्थितिर्मा भूत् । समर्थपरित्यर्थः । ननु 'वृद्धाच्छः' इति सूत्रं शेषाधिकारस्थम्' अपत्यादिचतुरर्थ्यन्तेभ्योऽन्यः शेषः। तथा च अपत्यार्थस्य शेषाधिकारस्थत्वाभावात् तस्मात्तत्र छप्रत्ययस्याप्रसक्तस्तद्वा. धनार्थत्वं 'तस्यापत्यम्' इत्यस्य कथमित्यत श्राह-उत्सर्गः शेष एवासाविति । उत्सृज्यते अदन्त-बाह्वादिप्रकृतिभ्यो वियुज्यत इत्युत्सर्गः । कर्मणि घञ् । अदन्तबाह्वादिभिन्न प्रकृतिसम्बद्धः अपत्यार्थोऽसौ शेषो भवत्येवेत्यर्थः। श्राक्षप्तुर्हि 'तस्यापत्यमत इब्' इत्येकसूत्रमभिमतम् । विनियुक्तादन्यः शेषः । अदन्त-बाह्वादिप्रकृतिसंयुक्तापत्यार्थ एव विनियुक्तः । न तु तद्भिन्नप्रकृतिसंयुक्तापत्यार्थोऽपि । ततश्च तस्य शेषत्वात्तस्मिन्नपत्ये छस्य प्रसक्तत्वात् तद्वाधनार्थे 'तस्यापत्यम्' इति पृथक्सूत्रम् । सति चास्मिन् पृथक्सूत्रे प्रकृतिसामान्यसंयुक्तापत्यार्थस्योपयुक्तत्वादशेषत्वाच्छस्य न प्राप्तिरित्यप्राप्तिसम्पादनद्वारा छबाधकत्वं 'तस्यापत्यम्' इति पृथक्सूत्रस्य सिद्धम् । अयमप्राप्तबाध इत्युच्यते। नन्वेवमपि उपगोरपत्यमित्यत्र उपगोरवृद्धत्वाच् छस्य नैव प्रसक्तिरिति किं पृथक्सूत्रेणेत्यत आह-वृद्धान्यस्य प्रयोजनमिति । भानोरपत्यं भानव इत्यादौ यानि भान्वादिप्रातिपदिकानि वृद्धानि, यानि उपग्वादिप्रातिपदिकानि नामधेयत्वाद् वृद्धानि, तेभ्यश्चप्रत्ययबाधनार्थ 'तस्यापत्यम्' इति पृथक्सूत्रमि. त्यर्थः। ननु 'तस्येदम्' इत्यणि इदन्त्वेन बोधः । तस्यापत्यम्' इत्यणि तु अपत्यत्वेन बोध इति शाब्दबोधे वैलक्षण्यसत्त्वात् , 'तस्येदमित्यपत्येऽपि' इत्याक्षेप एवायमनुपपन्न इति चेद् न-एतद्वार्तिकभाष्यप्रामाण्येन 'तस्येदम्' इति इदंशब्देन अपत्यस्य इदंत्वेन ग्रहणाभावविज्ञानात् । 'प्रदीयतां दाशरथाय मैथिली' इति त्वार्षत्वान दुष्यतीत्यास्तां तावत् । कृतसन्धेः किमिति । 'समर्थानां प्रथमाद्वा' इत्यधिकारसूत्रस्थ. 'तस्येदम्' इत्यणस्तदपवादस्य वृद्धाच्छस्य च शैषिकत्वादपत्यार्थे प्रसक्तिरेव नास्ति, 'अपत्यादिचतुरर्थीपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः' इत्यभ्युपगमादत आहउत्सर्गः शेष एवासाविति । असौ अपत्यार्थः । अयं भावः-असति योगविभागे अदन्तबाह्वादिप्रकृतिसंबद्धस्यैवापत्यार्थस्योपयोगादुपग्वादिप्रकृतिसंबद्धोऽपत्यार्थः शष एव स्यात् । तथा चाणं बाधित्वा भान्वादिभ्यो वृद्धाच्छः प्रसज्येत । योगविभागे तु कृते प्रकृतिसामान्यसंबन्धस्याप्यपत्यार्थस्योपयोगाच्छेषत्वाभावेन छस्य प्राप्तिरेव नास्तीति । ननु उपग्वादेरवृद्धत्वेन छस्य प्रसक्त्यभावान्निष्फलो योगविभाग इत्यत १ 'अदन्तबाहादिप्रकृति-' इति क । Page #293 -------------------------------------------------------------------------- ________________ २६० ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारभाषया नेह-वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात् किम्-अपत्यवाचकाषष्ठ्यर्थे समर्थग्रहणलब्धं कृतसन्धेरित्येतत् किमर्थमिति प्रश्नः । सौस्थितिरिति । सु शोभन उत्थितः सूत्थितः । प्रादिसमासे सवर्णदीर्घः सूत्थितस्यापत्यं सौत्थितिः, अत इञ्, सुब्लुक्, आदिवृद्धिः, 'यस्येति च' इत्यकारलोपः । कृतसन्धेरित्यभावे तु सु उत्थित इत्यस्यामेव दशायां सवर्णदीर्घात्परत्वादादिवृद्धौ कृतायामावादेशे सावुत्थितिरिति स्यादिति भावः । नन्वन्तरङ्गत्वात्सवर्णदीर्घ कृते तदुत्तरमेव इप्रत्यय उचितः, परादन्तरणस्य बलवत्त्वात् । ततश्च सन्धेः प्राक् तद्धितोत्पत्तेरप्रसक्तेः कृतसन्धेरिति व्यर्थमेवेत्यत आह-अकृतेति । अन्तरङ्गपरिभाषाया अप्यपवादभूतया अकृतव्यूहपरिभाषया सन्धेः प्रागेव प्रत्ययः स्यात् । ततश्च आदिवृद्धयपेक्षया अन्तरङ्गोऽपि सवर्णदीर्घः अकृतव्यूहपरिभाषया आदिवृद्धः प्राङ् न प्रवर्तते । एवं च सवर्णदीर्घात्प्रागवादिवृद्धौ आवादेशे सावुत्थितिरिति स्यादित्यर्थः । नच इञि सति कृते सवर्णदीर्घ ऊकारस्य जायमानया वृद्धया सवर्णदीर्घनिमित्तस्य कस्यचिद्विनाशाभावादकृतव्यूहपरिभाषायाः कथमिह प्रवृत्तिरिति वाच्यम् , यदि सवर्णदी? न स्यात्तदा सु उत्थित इत्यवस्थायां सकारादुकारस्य वृद्धथा औकारे सति सवर्णदीर्घनिमित्तस्य अको विनाशः स्यादिति सम्भावनया अकृतव्यूहपरिभाषायाः प्रवृत्तेरिति कथञ्चिद्योज्यम् । वस्तुतस्तु अकृतव्यूहपरिभाषा नास्त्येव, भाष्ये क्वाप्यव्यवहृतत्वात् , प्रत्युत भाष्यविरुद्धत्वाच्च । 'विप्रतिषेधे परं कार्यम्' इति सूत्रभाष्ये हि परादन्तरङ्गं बलीयः इत्युक्त्वा सौस्थितिरित्यत्र परामप्यादिवृद्धिं बाधित्वा अन्तरङ्ग एकादेश इत्युक्तम् । पदस्य विभज्यान्वाख्याने सु उत्थित इति स्थिते परत्वाद् वृद्धिः प्राप्ता, अन्तरङ्गत्वादेकादेश इति कैयटः । अकृतव्यूहपरिभाषासत्त्वे तदसंगतिः स्पष्टैव । सेदुष इत्यादौ अकृतव्यूहपरिभाषाफलस्यान्यथासिद्धिस्तु तत्र तत्र प्रपञ्चितेवेत्यास्तां तावत् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः । वस्त्रमुपगोरपत्यं चैत्रस्येति । अत्र उपगुशब्दादपत्ये अण् न आह-वृद्धानीति । प्रातिपदिकानीति शेषः । कृतसंधेः किमिति । अन्तरङ्गत्वात् संधौ कृतायां तदुत्तरमेव प्रत्ययो भविष्यतीत्यधिकारसूत्रस्थं समर्थपदग्रहणं किमर्थमिति प्रश्नः । अकृतेति । इयं च परिभाषा समर्थग्रहणेन ज्ञापितेति हरदत्तादयः, लोकतः सिद्धत्यन्ये । सावुत्थितिर्माभूदिति । अन्तरङ्गपरिभाषाया अप. वादभूतया 'अकृत-' इत्यनया अकृतसंधेरेव प्रत्ययः स्यात् । तन्निवारणाय समर्थः ग्रहणमधिकारसूत्रस्थमावश्यकमिति भावः । यद्यपि तत्र 'सामर्थ्य परिनिष्ठितत्वम् इत्यविशेषेणोक्तम् , तथापि ड्या प्रातिपदिकांशे एव परिनिष्ठितस्वं न तु सुब्विशिष्टे इत्यवधेयम् । तेन औपगवः दण्डिमानित्यादि सिद्धम् । अन्यथा 'औपगवदण्डीमान्' Page #294 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६१ मा भूत् । वाग्रहणाद्वाक्यमपि । 'देवयज्ञि-' (सू० १२०१ ) इति सूत्राद् 'अन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपि। उपग्वपत्यम् । जातित्वान्डीष्-औपगवी। भवति, उपगोर्वस्त्रेणैवान्वयात् । यद्यपि तत्सम्बन्ध्यपत्ये प्रत्ययविधानाद् इह च अपत्यस्य तच्छब्दवाच्योपगुसम्बन्धाभावादेव अत्र प्रत्ययस्य न प्रसक्तिः । तथापि ऋद्धस्य औपगवमित्यादिवारणाय सामर्थ्यमेका भावलक्षणमाश्रयणीयमिति भावः । अपत्यवाचकादिति । उपगुरपत्यमस्य देवदत्तस्येत्यर्थे औपगवो देवदत्त इति माभूदित्यर्थः । प्रथमादित्युक्तौ तु 'तस्यापत्यम्' इति सूत्रे षष्ठयन्तस्यैव प्रथमोच्चारितत्वादुपगुरिति प्रथमान्ताद् न भवतीत्यर्थः । वाग्रहणाद्वाक्यमपीति । वाग्रहणाभावे हि तद्धितस्य नित्यत्वादुपगोरपत्यमिति वाक्यं न स्यादिति भावः । ननु उपग्वपत्यमिति कथं षष्ठीसमासः, तद्धितानां समासापवादत्वात् । न च तद्धितानां पाक्षिकत्वात्तदभावपक्ष षष्ठीसमासो निर्बाध इति वाच्यम्, 'अपवादेन मुक्ते उत्सर्गो न प्रवर्तते' इति 'पारे मध्ये षष्ठया वा' इति वाग्रहणेन ज्ञापितत्वादित्यत आह-देवयज्ञीति । इत्यादि स्यात् 'अश्विमानण्' इत्यादिनिर्देशश्चेह लिङ्गम् । यदि तु पामादिगणे 'विष्वगित्युत्तरपदलोपश्च' इत्यत्राकृतसंधिग्रहणेन 'परिनिष्ठितात्तद्धितोत्पत्तिः' इत्यभ्युपगम्यते' तर्हि व्यर्थमेव समर्थग्रहणमित्याहुः। प्रथमात्किमिति । 'तस्यापत्यम्' इत्यत्र निर्दिष्टपदद्वयमध्ये प्राथमिकमेव प्रकृतिसमर्थकम् , न त्वपत्यम् । तथा च प्रकृत्याकाक्षायां तदेव ग्रहीष्यत इति किं तेन 'प्रथमात्' इत्यनेनेति प्रश्नः । अपत्यवाच. कादिति । 'तस्यापत्यम्' इत्यादिना विहितः प्रत्ययो यथा षष्ठयन्तोपग्वादिशब्दादभ्युपगम्यते, तथा अपत्यवाचकदेवदत्तादिशब्दात्प्रत्ययो भवत्विति शङ्का स्यात् , तद्वारणार्थ प्रथमाद्ग्रहणमावश्यकमिति भावः । ननु 'उपगोरपत्यम्' इति विग्रहवाक्येऽपत्यवाचकस्याप्राथम्येऽपि 'अपत्यमुपगोः' इति वाक्ये प्राथम्यात्स्यादेवापत्यवाचकात्प्रत्यय इति चेत् । मैवम् । लक्षणापेक्षं प्राथम्यं नियतत्वादत्राश्रीयते, न तु विग्रहापेक्षमनियतम् । अन्यथा 'प्रथमात्' इत्येतन्निरर्थकं स्यादिति । षष्ठयर्थे माभूदिति । अयमर्थः-यथा इन्द्रो देवता अस्य हविष इति ऐन्द्रं हविरिति प्रथमान्तात्प्रत्ययो भवति तथा उपगुरपत्यमस्य देवदत्तस्य 'औपगवो देवदत्तः' देवदत्तोऽपत्यमस्योपगोः दैवदत्तिरुपगुः' इति माभूदिति । एतच्च कैयटे स्पष्टम् । नन्वपवादत्वात्तद्धितः समासं नित्यं बाधेत । न च तद्धितस्य वैकल्पिकत्वात्पः सोऽपि भविध्यतीति वाच्यम् । 'यत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते, तत्रापवादेन विनिर्मुक्ते उत्सर्गो न प्रवर्तते' इति 'पारेमध्ये-' इत्यत्र वाग्रहणेन ज्ञापितत्वादित्याशङ्कयाहअन्यतरस्यांग्रहणानुवृत्तेरिति । जातित्वादिति । 'गोत्रं च चरणैः सह' Page #295 -------------------------------------------------------------------------- ________________ २६२ ] सिद्धान्तकौमुदी | [तद्धितेष्वपत्याधिकार 1 श्राश्वपतः । दैत्यः । श्रौत्सः । स्त्रैणः । पौनः । १०८६ अपत्यं पौत्रप्रभृति गोत्रम् । ( ४-१-१६२ ) अपस्यस्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् । सूत्रादिति । जातित्वादिति । अपत्यार्थ काणन्तस्य औपगवशब्दस्य 'गोत्रं च चरणैः सह' इति जातित्वाद् ङीषित्यर्थः । श्रश्वपत इति । श्रश्वपतेरपत्यमिति विग्रहः । पत्युत्तरपदलक्षणं रायं बाधित्वा 'अश्वपत्यादिभ्यश्च' इत्यणिति भावः । दैत्य इति । दितेरपत्यमिति विग्रहः । 'दिव्यदिति -' इति रायः अणपवादः । श्रौत्स इति । उत्सः कश्चित् तस्यापत्यमिति विग्रहः । 'उत्सादिभ्योऽञ्' इत्यञ् इजाद्यपवादः । स्वरे विशेषः । स्त्रैणः पौंस्न इति । स्त्रिया अपत्यम्, पुंसोऽपत्यमिति विग्रहः । 'स्त्रीपुंसाभ्याम् -' इति नञ्न अणोऽपवादः । अपत्यम् । अपत्याधिकारात् सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह- अपत्यत्वेन विवक्षितमिति । एवं च पौत्रत्वादिना विवक्षितानां पौत्रादीनां न गोत्रसंज्ञेति भावः । 'सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।' इति कोशतः गोत्रब्दस्य सन्ततिवाचकत्वात् पुत्रस्यापि गोत्रत्वे प्राप्ते पौत्रादिग्रहणादिह शास्त्रे पुत्रस्य न गोत्रत्वम् । ननु आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ।' इत्यादिकोशाद् अपत्यशब्दस्य पुत्र एव रूढत्वात् कथम् 'अपत्यं पौत्रप्रभृति - ' इति सामानाधिकरण्यगिति चेत्, मैवम् - अपत्यशब्दो हि नात्मजपर्यायः, किंतु पुत्रपौत्रादिसंततिपर्यायः, न पतन्ति नरके पितरो येन तदपत्यमिति 'पङ्क्तिविंशति - ' 1 इत्यनेनेति शेषः। प्राचा तु ‘अणन्तत्वान्ङीप्' इत्युक्तम् । तद्व्याख्यातृभिश्च ‘टिड्डाणञ्-' इत्यनेनेत्युक्तम् । तदुभयमपि 'गोत्राद्यून्यस्त्रियाम्' इति सूत्रस्थभाष्यानुरोधेन । गोत्रं च चरणैः-' इत्यत्र कृत्रिमं गोत्रमेव गृह्यते न त्वपत्यमात्रमित्याशयेन प्रवृत्तमिति बोध्यमित्याहुः । सूत्रस्थान्महोत्सर्गान्क्रमेणोदाहरति - श्राश्वपत इत्यादि । श्रौत्स इति । 'उत्सः प्रखवणं वारि प्रवाहो निर्झरो झरः' इत्यमरः । तस्य चापत्येन योगस्तु 'गाङ्गेयो भीष्मः' इतिवत् । अपत्यं पौत्र । नन्वपत्यग्रहणं व्यर्थं पौत्रादेरपत्यत्वाव्यभिचारादित्यत आह- अपत्यत्वेन विवक्षितमिति । विवक्षितमिति किम्, वस्तुतः पौत्रप्रभृत्येव यदा शेषत्वेन विवक्ष्यते 'गर्गस्येदम्' इति, तदा मा भूदित्याहुः । अन्येतु वस्तुतः पौत्रादीनामेव तत्त्वेन विवक्षायां संज्ञा मा भूत्, अपत्यत्वेन विवक्षायामेव यथा स्यादित्येवमर्थं तत् । तेन श्रौपगव इत्यादावप्यणर्थस्य गोत्रसंज्ञा सिद्धयति । नह्यणः पौत्रत्वादिकं शक्यतावच्छेदकं किं त्वपत्यत्वमेव । अन्यथा गोत्राधिकारस्थयआद्यर्थस्यैव गोत्रसंज्ञा स्यादिति । नन्वपत्याधिकारे गोत्रयुवसंज्ञाकरणसामर्थ्यादपत्यमिति लभ्यत एवेति तेनैवोक्तप्रयोजनसिद्धौ किमनेनात्रापत्यग्रहणेनेति Page #296 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमान्तत्त्वबोधिनीसहिता। [२६३ १०६० जीवति तु वंश्ये युवा । (४-१-६३) वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तावसंज्ञमेव, न तु गोत्रसंज्ञम् । १०६१ भ्रातरि च इति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्रादयोऽपि पितामहादीनां नरकादुद्धार इति तेषामप्यपत्यत्वमस्त्येवेति ‘एको गोत्रे' इति सूत्रभाष्ये स्पष्टम् । एतच्च महाभारतादौ जरत्कार्वाद्युपाख्यानेषु प्रसिद्धमेव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वाद् उपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्रत्वाद्गोत्रं स्यादिति वाच्यम् , यस्य यः पौत्रादिः तस्य तद्गोत्रमिति व्याख्यानादित्यलम् । जीवति । वंश उत्पादकपित्रादिपरम्परा, तत्र भवो वंश्यः, दिगादित्वाद्यत् , तदाह-वंश्ये पित्रादौ जीवतीति । जीवतीति सप्तम्यन्तम् । पौत्रादेरिति । पूर्वसूत्रात्पौत्रप्रभृति इत्यनुवृत्तं षष्ठया विपरिणम्यत इति भावः । यदपत्यमिति । 'तस्यापत्यम्' इत्यतस्तदनुवृत्तेरिति भावः। तुरवधारणे युवेत्यनन्तरं द्रष्टव्यः, तदाह-युवसंज्ञमेवेति । तेन एकसंज्ञाधिकारबहिर्भावेऽपि गोत्रसंज्ञाया अपि अस्मिन् न समावेश इति भावः । युवसंज्ञया सह गोत्रसंज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात् । शलकुः कश्चित् , तस्य गोत्रापत्यं शालङ्किः, इञ् । पैलादिगणे शालङ्कीति पाठात् प्रकृतेः शलङ्कादेशश्च । शालङ्करपत्यं युवापि शालङ्किरेव । 'यजिनोश्च' इति फक् । 'पैलादिभ्यश्च' इति तस्य चेत् । अत्राहुः-'ते तद्राजाः' इत्यत्र तच्छब्देन 'जनपदशब्दात् क्षत्रियादञ्' इत्यादिना विहिता ये अजादयस्त एव गृह्यन्ते न तु ततः प्राक्तनप्रत्ययाः, गोत्रयुवसंज्ञाकाएडेन विच्छिन्नत्वादिति वक्ष्यते । तथा चापत्याधिकारपठनसामर्थ्यस्योपक्षयादपत्यस्यासम्बन्धशङ्कानिराकरणाय पुनरपत्यग्रहणमिह कृतमिति । पौत्रप्रभृतीति किम् , अनन्तरापत्ये मा भूत् । कौञ्जिः, गार्गिः । न चैवमप्यङ्गिरसः पौत्रे गर्गस्यानन्तरे अतिप्रसङ्ग इति वाच्यम् । 'यस्य पौत्रादि तं प्रत्येव गोत्रसंज्ञा' इति स्वीकारात् । एवं च गागि प्रत्यनन्तरापत्यत्वेन विवक्षायामपि गर्ग प्रति गोत्रत्वं निष्प्रत्यूहमिति स्यादेव गर्गाद्यनिति दिक् । जीवति तु वंश्ये । पितृपितामहाद्युत्पादकप्रबन्धो वंशः, तत्र भवो वंश्यः । दिगादित्वाद्यन् । 'पौत्रप्रभृति' इत्यनुवृत्तं षष्टया विपरिणम्यते व्याख्यानात् , 'गोत्रायन्यस्त्रियाम्' इति लिङ्गाम्चेत्याह-पौत्रादेरिति । तुशब्दो भिन्नक्रमो युवेत्यस्मात्परो बोध्यः । स च एवकारार्थ इति व्याचष्टे--युवसंज्ञमेवेति । तेन एकसंज्ञाधिकारबहिर्भूतयोरपि गोत्रयुवसंज्ञयोन समावेश इति भावः । नन्वस्तु संज्ञाद्वयस्य समावेशः को दोष इति चेत् । मैवम् । शालङ्काः पैलीया इत्यसिद्धिप्रसङ्गात् । तथा हि । शलङ्करपत्यं शलङ्किः । पैलादिषु पाठादिश्शलङ्कादेशौ । शालङ्करपत्यम् । शालथैर्युवापत्यं 'यमिओश्च' इति फक्, तस्य 'पैलादिभ्यश्च' इति लुक, ततः शाल Page #297 -------------------------------------------------------------------------- ________________ २६४] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारज्यायसि । (४-१-१६४ ) ज्येष्ठे भ्रातरि जीवति कनीयांश्चतुर्थादिर्युवसंज्ञश्च स्यात् । १०६२ वान्यस्मिन्सपिण्डे स्थविरतरे जीवति । (४-१-१६५) भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम् , द्वितीयं सपिण्डस्य । तरङ्निर्देश लुक् । शालङ्केयूनश्छात्रा इत्यर्थे 'इनश्च' इत्यणि शालङ्का इति रूपम् । तथा पीलाया गोत्रापत्यं पैलः । ‘पीलाया वा' इत्यण् । पैलस्यापत्यं युवापि पैल एव । 'अणो यचः' इति फिञ् , 'पैलादिभ्यश्च' इति तस्य लुक् । पैलस्य यूनश्छात्रा इत्यर्थे वृद्धाच्छः । पैलीया इति रूपम् । युवगोत्रसंज्ञयोः समावेशे तु 'गोत्रेऽलुगचि' इति फक्फिओरलुक् प्रसज्येतेत्यलम् । भ्रातरि च ज्यायसि । जीवतीत्यनुवर्तते । तदाह-ज्येष्ठे भ्रातरि जीवति कनीयानिति । अनुज इत्यर्थः । पौत्रप्रभृतीत्यनुवृत्तं षष्ठ्या विपरिणम्यते । अपत्यमित्यधिकृतम् । पौत्रादेरपत्यमित्यर्थः। फलितमाह-चतुर्थादिरिति । मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसंज्ञार्थमिदम् । वाऽन्यस्मिन् । शेषपूरणेन सूत्रं व्याचष्टे-पौत्रप्रभृतेरपत्यं जीवदेव युवसंशं वा स्यादिति । सपिण्डास्तु स्वयम् , पिता, पितामहः प्रपितामहः, तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषाः । एवं मातृवंशेऽपीत्यादि धर्मशास्त्रेषु प्रसिद्धम् । स्थविरतरः अतिवृद्धः । जीवतीति सप्तम्यन्तमनुवृत्तं सपिण्डे इति सप्तम्यन्तेऽन्वेति । अत्रयं तु केयूनश्छात्रा इत्यर्थविवक्षायाम् ‘इञश्च' इत्यणि शालङ्का इति भवति । तथा पीलाया अपत्यं गोत्रापत्यं वा 'पीलाया वा' इत्यणि पैलः । तस्यापत्यं युवा 'अणो यचः' इति फिञ् । तस्य 'पैलादिभ्यश्च' इति लुक् । ततः पैलस्य यूनश्छात्राः पैलीया इति भवति । तत्र गोत्रयूनोः समावेशे तु 'गोत्रे लुगचि' इति फफिओरलुक् प्रसज्येत । न च परत्वाथूनि लुग्भविष्यतीति सिद्धमिष्टमिति वाच्यम् । ततोऽपि परत्वात् 'फक्फिओरन्यतरस्याम्' इति विकल्पापत्तेः । न च सिद्धान्तेऽपि विकल्पः शङ्कयः, 'फक्फिओः' इत्ययं हि यूनि लुक एवापवादः, न तु 'पैलादिभ्यश्च' इत्यस्य, 'अनन्तरस्य-' इति न्यायात् । यद्यपि यूनि लुगपवादोऽपि 'फक्फिओ:-' इति विकल्पः परत्वात् 'पैलादिभ्यश्च' इति लुकमपि बाधेतेति वक्तुं शक्यम् , तथापि परादप्यन्तरङ्गस्य बलीयस्त्वात् 'पैलादिभ्यश्च' इति नित्य एव लुगित्याहुः । भ्रातरि च । अवंश्यार्थोऽयमारम्भः। भ्राता हु न वंश्यः 'उत्पादकप्रबन्धो वंशः' इत्यभ्युपगमात् । 'अपत्यं पौत्रप्रभृति-' इत्यनुवयं 'पौत्रप्रभृतेः' इति षष्ठया विपरिणम्य व्याख्यानात्फलितमाह--चतुर्थादिरिति । अत्रायमर्थ:-गर्गादिषु मृतेष्वपि जीवत्यग्रजे अनुजो युवसंज्ञक इति । वान्यस्मिन् । इहत्यं जीवतिपदं तिङन्तम् , न तु सप्तम्यन्तमिति व्याचष्टे-जीवदे Page #298 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६५ उभयोरुत्कर्षार्थः । स्थानेन वयसा चोस्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गाय॑स्यापत्यं गाायणः गार्यो वा । स्थविर इति किम्-स्थानवयोन्यूने गार्य एव । जीवति इति किम्-मृते मृतो वा गार्य एव । 'वृद्धस्य च पूजायामिति वाच्यम्' (वा २६५४ ) गोत्रस्यैव वृद्धसंज्ञा प्राचाम् । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम् । तत्रभवान्गाायणः । पूजा इति किम्-गार्ग्यः। 'यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम्' (वा २६५१)। गार्यो जाल्मः । कुत्सा जीवतिपदं तिङन्तम् अपत्येऽन्वेति-यदपत्यं जीवति तावसंज्ञकमिति । ततश्च भ्रातुरन्यस्मिन्वृद्धतमे पपिण्डे जीवति सति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति फलितम् । एकमिति । अत्रत्यमित्यर्थः । द्वितीयमिति । अनुवर्तमानमित्यर्थः । उभयोरिति । हेतुत्वसम्बन्धे षष्ठी । उभयहेतुकोत्कर्षवाचकस्तरबित्यर्थः । तदेव विवृणोति-स्थानेन वयसा चेति । स्थानत उत्कृष्टः पितृव्यः, तस्य पितृस्थानीयत्वात् । वयसा उत्कृष्टो मातामहः । भ्रातरीति संनिहितत्वान्मातामहभ्रातरीत्यर्थ इति केचित् । पितृव्यपुत्र इत्यन्ये । जीवतीति किमिति । जीवतिद्वयस्य किं प्रयोजनमिति प्रश्नः । मृते मृतो वा गार्ग्य एवेति । मृते सपिण्डे चतुर्थो गार्ग्य एव । मृतश्च चतुर्थो गार्थ एवेत्यर्थः । वृद्धस्य चेति । वार्तिकमिदम् । तत्र वृद्धपदं विवृणोति --गोत्रस्यैव वृद्धसंज्ञा प्राचामिति । गोत्रमेव वृद्धमिति प्राचीनाचार्या व्यवहरन्नीत्यर्थः । तथाच वार्तिकस्य फलितमर्थमाह-गोत्रस्य युवसंज्ञा पूजायां गम्यमानायामिति । उदाहरति-तत्रभवान् गाायण इति । तत्रभवानिति पूज्यवाची, युवसंज्ञकानामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा । तां गोत्रप्रभृतिस्तृतीयोऽपि मन्यते। अत्र युवसंज्ञाविधिसामर्थ्यात्स्वार्थे युवप्रत्ययो बोध्यः । गार्यो जाल्म इति । यो वृद्धाननादृत्य स्वातन्त्र्यं भजते तद्विवेति । यो जीवति स टु वसंज्ञकः, मृतस्तु स्थविरतरे जीवत्यपि गार्य एव भवति, न तु गाायण इति भावः । एकमिति । इहत्यमित्यर्थः। द्वितीयमिति । अनुवर्तमानं सप्तम्यन्तमित्यर्थः। यदुक्तमुभयोरिति तदेव विवृणोति-स्थानेन वयसा चेति । मातामहे भ्रातरि वेति । संनिहितत्वात् 'भ्रातरि' इत्यस्य 'मातामहभ्रातरि' इत्येवाथ इत्येके । 'पितृव्यपुत्रे' इत्यन्ये । वृत्तौ तु 'पितृव्ये पितामहे भ्रातरि वा' इति पाठः । जीवतीति किमिति । जीवतिद्वयं किमर्थमिति प्रश्नः। अतएव 'मृते मृतो वा' इत्युत्तरं संगच्छते । अन्यस्मिन् किम् , भ्रातरि जीवति जीवतो विकल्पो मा भूत् । पूर्वसूत्रं तु भ्रातरि जीवति मृतस्य कनीयसो युवसंज्ञार्थ. मिति सावकाशम् । वृद्धस्य चेति । वार्तिकमिदम् । तथा 'यूनश्च' इत्यग्रिममपि । Page #299 -------------------------------------------------------------------------- ________________ २६६ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार इति किम्-गाग्यायणः । १०६३ एको गोत्रे। (४-१-६३) गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यमोपगवः । गार्ग्यः । नाडायनः। षयमिदम् । एको गोत्रे । संख्याविशेषोपादाने तदितरसंख्याव्यवच्छेदस्य स्वभावसिद्धत्वाद् एक एवेति गम्यते। अपत्याधिकारात्प्रत्ययाधिकाराच अपत्यप्रत्यय इति तद्विशेष्यलाभः। तदाह-गोत्रे एक एवापत्यप्रत्ययः स्यादिति । औपगव इति । उपगोर्गोत्रापत्ये 'तस्यापत्यम्' इत्यण् । गार्य इति । गर्गस्य गोत्रापत्ये गर्गादिभ्य इति यञ् । नाडायन इति । नडस्य गोत्रापत्ये 'नडादिभ्यःइति फक् । गोत्र एक एव प्रत्ययः स्यादित्येवोक्तौ तु अनन्तरापत्यप्रत्ययान्तादौपगवशब्दादिप्रत्ययो न निवार्येत । नियमस्य सजातीयविषयतया गोत्रप्रत्ययान्तादेव गोत्रप्रत्ययो वार्यत। अतोऽपत्यग्रहणमित्याहुः। नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाप्रसक्तेर्व्यर्थमिदं सूत्रमिति चेत् , मैवम्-अपत्यशब्दो हि पुत्र एव रूढ इत्येकः पक्षः। पुत्रादिसाधारण इत्यन्यः पक्ष इति प्रकृतसूत्रभाष्ये स्थितम् । तदेतद् 'अपत्यं पौत्रप्रभृति-' इति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । तत्र प्रथमपक्षे उपगोः पौत्रे अपत्यप्रत्ययेन बुबोधयिषिते सति तस्य उपगुपुत्रापत्यस्य उपगुं प्रत्यपत्यत्वाभावात् 'तस्यापत्यम्' इत्यण् न संभवति । ततश्च उपगुपुत्रे वाच्ये 'तस्यापत्यम्' इत्यणा एको गोत्रे। 'गोत्रे' इति जात्यपेक्षया एकवचनम् । एकशब्दः संख्यावाची । 'गोत्रेऽभिधित्सिते अपत्यत्वबोधकप्रत्यय एक एव स्यात्' इत्युक्तेः । गोत्रापत्ये प्रथम एव शब्दः प्रत्ययं लभते नान्यः। यदि त्वनन्तरापत्यप्रत्ययान्तादपि प्रत्ययः स्यात् , तर्हि गोत्रापत्ये एक एव प्रत्ययो न कृतः स्यात् । इत्थं च 'अपत्यप्रत्ययान्तात्प्रतिषेधो वाच्यः' इति वार्तिकार्थोऽप्यनेन संगृहीत इत्याशयेन व्याचष्टे-गोत्रे एक एवेति। अपत्यप्रत्यय इति । एतच्चाधिकाराल्लब्धम् । अन्ये तु एकशब्दः प्रथमपर्यायः प्रथमश्चापत्यप्रत्ययशून्यः, तथा च 'प्रथमा प्रकृतिर्गोत्रे अपत्यप्रत्ययं लभते' इति सूत्रार्थ व्याचक्षते । तक्लिष्टम् । अस्यां पङ्क्तावेकमानय इत्युक्ते 'प्रथमम्' इति प्राथम्यार्थस्याप्रतीतेः । वस्तुतस्तु 'प्रथमादित्यधिकाराद्गोत्रे प्रथमादेव प्रातिपदिकादपत्यप्रत्ययः' इति व्याख्यायैकग्रहणमिह त्यक्तुं शक्यमित्याहुः। औपगव इति । 'उपगुशब्द एव प्रत्ययं लभते, न त्वौपगवशब्दः' इति गोत्रापत्येऽप्यनन्तरापत्य इवाणेव भवति, न त्विञ् । गार्य इति । गोत्रापत्ये 'गर्गादिभ्यो यज्' इति विशिष्य विधानादनन्तरापत्य इवात्र 'अत इञ्' न भवति किं तु यव । स च गार्यस्यापत्येऽपि भवति, न त्वत्र यजन्तात्फक् ‘एको गोत्रे' इति नियमात् । नाडायण इति । 'नडादिभ्यः फक्' इति गोत्रापत्ये विधानादत्रापि 'अत इञ्' न भवति, किंतु Page #300 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २६७ श्रौपगवशब्दे व्युत्पादिते सति औपगवस्यापत्ये वस्तुत उपगोस्तृतीये गोत्रे विवक्षिते औपगवशब्दाद् 'अत इञ्' इति इञि श्रपगविरित्यनेनैव उपगोस्तृतीयो बोधनीयः स्यात् । एवं च उपगोस्तृतीये विवक्षिते उपगोर औपगवादिनिति प्रकृतिद्वयात्प्रत्ययद्वयमनिष्टं स्यात् । तत्र यद्यपि उपगोरणिष्टः, तथापि उपगोस्तृतीये विवक्षिते अनिष्टमिञ्प्रत्ययमण्प्रत्ययो जनयतीति सोऽप्यनिष्ट एव । तथा च तत्रानिष्टप्रत्ययद्वयनिवृत्तये एको गोत्रे अपत्यप्रत्ययः स्यादित्यनपत्येऽपि उपगोस्तृतीये अपत्यप्रत्ययो विधीयते । स च वस्तुतः अणेव न त्विञ्, अदन्तत्वाभावात्, विहिते च तस्मिन् औपगवादिञपि निवर्तते, गोत्रे बुबोधयिषिते एकस्यैवापत्यप्रत्ययस्य विधेः । अतः प्रत्ययद्वयमाला निवर्तते । एवमुपगोश्चतुर्थे विवक्षिते तस्य उपगुं तत्पुत्रं च प्रत्यपत्यत्वाभावात् पौत्रं प्रत्येवापत्यत्वा दौपगविशब्दाद् 'यञिञोश्च' इति फकि प्रकृतित्रयादनिष्टा औपगवायन इति प्रत्ययत्रयमाला स्यात् । उपगोः पञ्चमे विवक्षिते तु औपगवायनशब्दादिनि औपगवायनिरित्येवं प्रकृतिचतुष्टयात् प्रत्ययचतुष्टयमाला स्यात् । षष्ठे तु औपगवाय निःशब्दात् फकि औपगवायनायन इत्येवं प्रकृतिपञ्चकात् पञ्च प्रत्ययाः स्युः । तदेवं फगियोः परम्परायां मूलप्रकृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्य एकोनशतमनिष्टप्रत्ययाः स्युः । अत्र तृतीयप्रभृति कस्मिंश्चिगोत्रे विवक्षिते उपगुं प्रत्यनपत्येऽपि तस्मिन् 'एको गोत्रे' इत्यणेव भवति नतु इजादि । यदा त्वपत्यशब्दः पुत्रपौत्रादिसाधारणः तदा यद्यपि उपगोरनन्तरापत्ये पुत्रे इव पौत्रादिष्वपि 'तस्यापत्यम्' इत्यणि औपगव इतीष्टं सिध्यति । तथापि उपगोरनन्तरापत्ये अणि सति औपगवस्यानन्तरापत्ये उपगोस्तृतीये विवक्षिते प्रत्येयः अनिष्टः प्रसज्येत । एवमुपगोश्चतुर्थे विवक्षिते सिद्धेऽपि उपगोरणि औपगवे, तस्मादिनि औपगवः, तस्मात्फकि औपगवायनः, इत्येवं प्रत्ययत्रयमपि कदाचित्प्रसज्येत । तत्रापि उपगोभूल प्रकृतेरशिष्ट एव । इञ्फकौ तु प्रत्ययावनिष्ठौ । तथा उपगोचतुर्थे विवक्षिते द्वितीयस्मादेकः श्रनिष्टप्रत्ययः, तृतीयस्मादन्य इत्येवं प्रकृतिद्वया. दनिष्टौ द्वौ प्रत्ययाविति पर्यवस्यति । एवं पञ्चमे प्रकृतित्रयात् त्रयः प्रत्ययाः । षष्ठे प्रकृतिचतुष्टयात् चत्वारः प्रत्यया इत्येवं मूलाच्छततमे गोत्रे अष्टनवतेरष्टनवतिरनि ष्टप्रत्ययाः स्युः । तत्र 'एको गोत्रे' इति नियमविधिः । गोत्रे एक एव प्रत्ययः स्यादिति । तत्रापि प्रथमातिक्रमे कारण भावान्मूलप्रकृतेर्यः प्रत्ययः प्राप्तुं योग्यः स एवेति फलति । सूत्रे एकशब्दः प्रथमपर्यायः । ' एके मुख्यान्यकेवलाः' इत्यमरः । फगेव, स च नाडायनस्यापत्येऽपि भवति न तु फगन्तादिव्, उक्त नियमात् । नन्वे१ इप्रत्ययः इति युक्तं भाति । Page #301 -------------------------------------------------------------------------- ________________ २६८ ] सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार 'गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परा । यद्वा स्वद्वयनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ अपत्यं पितुरेव स्यात्ततः प्राचामपीति च । - मुखे भवो मुख्यः प्रथमः । ' एकोऽन्यार्थे प्रधान च प्रथमे केवले तथा ।' इति कोशान्तरम् । तथा च मूलप्रकृतेरेव गोत्रे विवक्षिते स्वयोग्य प्रत्ययलाभ इति व्याख्यान्तरम् । गोत्रे एकः प्रथम एवशब्दः प्रत्ययोत्पादक इति । तदेतत्सर्वं श्लोकद्वयेन संगृह्णाति - गोत्रे स्वैकोनेति । अत्र प्रथम श्लोकान्ते श्रुतं ' प्रसज्यते' इत्येतत्पदं पूर्वार्धे परम्परेत्यनन्तरमपि संबध्यते । अत्र स्वं गोत्रं मूलपुरुषोपग्वपेक्षया यत्संख्याकं तदपेक्षया एकोनसंख्याकानाम् अनिष्टप्रत्ययानां परम्परैवोक्तरीत्या प्रसज्येत । नतु कदाचिदपि गोत्रे औपगव इत्यणन्तमिष्टं सिध्यतीत्यर्थः । यद्वेति । स्वं गोत्रं तद् मूलपुरुषोपग्वपेक्षया यत्संख्याकं तदपेक्षया धनसंख्याकप्रकृतिभ्यः तावतां प्रत्ययानामनिष्टानामुत्पत्तिरुक्तरीत्या प्रसज्यत इत्यर्थः । ननु कथमिदं पक्षद्वयमित्यत आह- अपत्यमित्यादि मतभेदेनेत्यन्तम् । पुत्र एवापत्यमिति पक्षे प्रथमः पक्ष उन्मिषति । पुत्रपौत्रादिसाधारणोऽपत्यशब्द इति पक्षे तु द्वितीयः पक्ष उन्मिषतीति भावः । कस्मिन् गोत्रे युगपदनेकप्रत्ययाप्रसक्तेर्व्यर्थमिदं सूत्रमित्याशङ्कय सूत्रारम्भफलं मतभेदेन व्यवस्थापयति — गोत्रे स्वैकोनेति । 'स्वं गोत्रं तदपेक्षया एकोनसंख्यानां, तृतीये द्वयोः परम्परा, चतुर्थे त्रयाणां पञ्चमे तु चतुर्णाम्' इत्यादिपरम्परा प्रसज्यत इत्यर्थः । तथाहि —उपगोस्तृतीये अणिनोः परम्परा, चतुर्थे त्वणिञ्फकाम्, पञ्चमे त्वणिञ्फगिञाम् । यद्यप्यत्र 'यस्येति च' इति लोपेनाणादेरसत्त्वात् 'अणित्रादीनां परम्परा' इत्युक्तिर्न' संगच्छते तथापि 'अणन्तादिमुत्पद्यते इञन्तात्फक्' इत्युत्पत्तिमात्राभिप्रायेण प्रत्ययपरम्पराभिधानं बोध्यम् । स्वद्यनसंख्येभ्य इति । स्वं गोत्रं तदपेक्षया व्यनसंख्येभ्यः प्रातिपदिकेभ्यः तृतीये एकस्मादनिष्टोत्पत्तिः, चतुर्थे द्वाभ्यां पञ्चमे त्रिभ्यः, इत्यादीत्यर्थः । श्रपत्यं पितुरेवेति । तथा चामरः - 'आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे' इति । मुख्यमतमाह—ततः प्राचामिति । पित्रपेक्षया ये प्राञ्चः पितामहप्रपितामहादयस्तेषामपीत्यर्थः । अत्रायमाशयः - अपत्यशब्दः क्रियानिमित्तो न त्वात्मज - पर्यायः । 'न पतन्त्यनेनेत्यपत्यम्' इति व्युत्पत्तेः 'पक्तिविंशति -' इति सूत्रे भाष्यकृता दर्शितत्वात्, बाहुलकात्करणे यत्प्रत्ययः । ' यन्निमित्तं यस्यापतनं तत्तस्यापत्यम्' इति फलितोऽर्थः । तथा च 'पौत्रादिरपि पितामहादीनामपतनहेतुः' इति तेषामपत्यत्वं भवति । प्रसिद्धं च व्यवहितोऽपि पितामहादीनामुद्धर्तेति जरत्कार्वाद्युपाख्यानेषु । ܘ Page #302 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २६६ मतभेदेन तद्वान्यै सूत्रमेतत्तथोत्तरम् ॥' , पितुरेवापत्यमिति पत्ते ह्यपगोस्तृतीये वाच्ये औपगवादिस्यात् । चतुर्थे स्वजीवज्ज्येष्ठे मृतवंश्ये वा औपगवेः फक् । इत्थं फगिञोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्य उपगोरणा दृष्टे सिद्धेऽप्ययणन्तादिजपि स्यात् । ततश्चतुर्थे फगिति फगिजोः तद्धान्यै इति । त्स्य उक्तप्रकाराभ्याम् अनिष्टोत्पादनस्य हानिः निवृत्तिः, तदर्थमिदमित्यर्थः । तथोत्तरमिति । 'गोत्राद्यून्यस्त्रियाम्' इत्युत्तरसूत्रमपि तथा योज्यमित्यर्थः । तत्रापत्यशब्दः पुत्र एव रूढ इति पक्षे अनिष्टं प्रपञ्चयति – पितुरेवेत्यादिना । औपगवादिञ् स्यादिति । 'अत इञ्' इत्यनेनेति शेषः । औपगवादेव इञ् स्यात्, न तु उपगोरणित्यर्थः तृतीयस्य उपगुं प्रत्यपत्यत्वाभावादिति भावः । चतुर्थे त्वित्यतः पूर्वन् उपगोरिति शेषः । अजीवज्ज्येष्ठ इति । जीवन् ज्येष्ठो यस्येति विग्रहः । जीवति तु ज्येष्ठे चतुर्थस्य ' भ्रातरि च ज्यायसि' इति युवसंज्ञया गोत्रत्वं बाध्येतेति भावः । मृतवंश्य इति । मृतो वंश्यो यस्येति विग्रहः । वंश्ये जीवति तु 'जीवति तु वंश्ये युवा' इति युवसंज्ञया गोत्रत्वं बाध्येतेति भावः । औपगवेः फगिति । 'यञिञोश्च' इत्यनेनेति शेषः । एकोनेति । एकोनशतास्प्रकृतिभ्यः एकोनशतं प्रत्यया अनिष्टाः स्युरित्यर्थः । अथापत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे अनिष्टं प्रपञ्चयति - पितामहादीनामपीति । मुख्यपक्षत्वं त्वस्य भाष्ये पूर्वपज्ञस्य निराकरणाद् ' अपत्यं पौत्रप्रभृति-' इति सूत्रस्वरसाच्च बोध्यम् । इष्टे सिद्धेऽपीति । तृतीयादीनामप्यपत्यत्वेन तत्र 'तस्यापत्यम्' इत्यणो निर्बाधत्वादिति भावः । तत इति । इञन्तादित्यर्थः । अष्टनवतेरिति । प्रकृतिभ्य 'अपत्यं पौत्रप्रभृति -' इति सूत्रमप्यत्रानुगुणम् । आद्यपक्षे हि 'अपत्यमिवापत्यम्' इति गौणी वृत्तिर श्रयणीया स्यात् । श्रमरस्तु सूत्रभाष्यादिविरोधादुपेक्ष्य इति । तद्धान्यै इति । श्रद्यपक्षे प्रत्ययमालानिवृत्तये, अन्त्ये तु स्वद्यनसंख्येभ्योऽनिष्टोत्पत्तिनिवृत्तये इत्यर्थः । औपगवादिञ् स्यादिति । तृतीयस्य उपगुं प्रति अनपस्यत्वादिति भावः । एवं चासति सूत्रे अस्मिन् पक्षे औपगविरित्यनिष्टमेव स्यात्, औपगव इतीष्टं तु न सिद्ध्यतीति बोध्यम् । अजीवज्ज्येष्ठे इति । जीवज्ज्येष्ठे जीवद्वंश्ये वा युवसंज्ञायां सत्यां गोत्रसंज्ञा नेति भावः । इष्टे सिद्धेऽपीति । अस्मिंश्च पते औपगवस्य यदपत्यं तदुपगोरप्यपत्यमिति उपगोर्यदा प्रत्ययः तदा ‘औपगवः' इतीष्टं यद्यपि सिद्ध्यति, तथाप्यौपगविरित्यनिष्टं प्राप्नोतीत्यर्थः । तत इति । इंञन्तादित्यर्थः । फगिञोरिति । फगन्तादिञ्, इजन्तात्फक् तदन्तात्पुनरिञ Page #303 -------------------------------------------------------------------------- ________________ ३०० ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारपरम्परायां शततमे गोत्रेऽष्टनवतेरनिष्टप्रत्ययाः स्युः, अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यम् । १०६४ गोत्राबून्यस्त्रियाम् । (४-१-६४) यून्यइति शेषः । अनिष्टप्रत्ययाः स्युरिति । अष्टनवतिरिति शेषः। नियमार्थमिति । यद्यप्युपगोस्तृतीयादिषु अपत्यप्रत्ययविध्यर्थत्वमेव प्रथमपते, तथापि गर्गात्तृतीयादिषु विवक्षितेषु गोत्रविहितगर्गादियना गार्यशब्दस्येष्टस्य सिद्धावपि गर्गादिनि ततः फिनित्येवं प्रत्ययपरम्पराप्यनिष्टा प्राप्नोतीति नियमार्थत्वमपि प्रथमपक्षेऽप्यस्य सूत्रस्येति भावः। एवमुत्तरसूत्रेऽप्यूह्यमिति । तत्प्रकारस्तु उत्तरसूत्रे एव वक्ष्यते । गोत्राङ्न्यस्त्रियाम् । गर्गस्य गोत्रं गार्यः, गर्गस्य तृतीयः । 'गर्गाइत्यादिपरम्परायां सत्यामित्यर्थः । नियमार्थमिति । नन्वाद्यपते तत्तत्पितृवाचकादेव प्रत्ययः, न तु मूलभूतात्स्यात् , अनन्तरापत्ये मुख्यसंबन्धे चरितार्थस्याणादेर्गौणसंबन्धेऽपि प्रवृत्तेरन्याय्यत्वात् । तथा चौपगवापत्येन उपगोमुख्यसंबन्धाभावादत्राप्राप्ते विध्यर्थमेवेदं सूत्रम्, न तु नियमार्थमिति औपगवशब्दादपि प्रत्ययो दुरि इति चेत् । अत्राहुः-गोत्रे बोधनीये क्रमेणानेकप्रत्ययप्रसङ्गे एक एवापत्य प्रत्ययः स्यादिति सूत्रार्थे कृते औपगवशब्दस्यापत्यप्रत्ययान्तत्वात्पुनरपत्यप्रत्ययस्ततो नोपपद्यते इत्यगत्या परम्परासंबन्धाभ्युपगमेनोपगोरेव तदुत्पत्तिः, न त्वौपगवशब्दादिति सिद्धमिष्टमिति । अत्र केचिद्याचक्षते--प्राद्यपक्षे प्रत्ययपरम्परायां प्राप्तायाम् ‘एको गोत्रे' इत्यनेनैकः प्रत्ययो विधीयते । तथा चैको नामैकजातीय इत्यर्थपर्यवसानान्मूलप्रकृतेर्योऽपत्यप्रत्ययोऽणादिस्तज्जातीय एव गोत्रे बोधनीये तत्तत्पितृवाचकाद्भवति 'अणन्तादण् , इअन्तादिन् , यजन्ताद्यञ्' इति । न चैवमणिोः परम्परायां निवर्तितायामप्यौपगव इत्यत्राणप्रत्ययपरम्परा स्यात् । तथा गार्य इत्यादौ यत्रादिपरम्परेति वाच्यम् । सत्यामपि तस्यामनिष्टाभावादिति । तच्चिन्त्यम् । फगन्तात्फकि नाडायन इत्यादावनिष्टप्रसङ्गादिति दिक् । ऊह्यमिति । 'अपत्यं पितुरेव' इति पक्षे चतुर्था. पत्यरूपे यूनि विवक्षिते 'गोत्राथूनि-' इति नियमसूत्रे सत्यसति च गोत्रप्रत्ययान्तादेव युवप्रत्यय इति द्वयोः परम्परा, सा चेष्टत्वान्न नियमेन व्यावर्त्यते । पञ्चमे तु यूनि नियमाभावे त्रयाणां परम्परा प्रसज्यते । षष्ठे तु चतुर्णामित्यादि । 'ततः प्राचामपि' इति द्वितीयपक्षे तु गर्गाच्चतुर्थे यूनि मूलप्रकृत्यनन्तराभ्यामनिष्टोत्पत्तिः प्रसज्यते । पञ्चमे तु मूलप्रकृत्यनन्तरयुवभ्यः । तथा नडाच्चतुर्थे यूनि पूर्ववद्वाभ्यामनिष्टोत्पत्तिः, पञ्चमे तु त्रिभ्यः । उपगोश्चतुर्थे वाच्ये तु मूलप्रकृतरेकस्मादेवानिष्टोत्पत्तिः। न त्वनन्तरापत्यवाचकात् । ततो जातेऽप्यत इमि रूपानिष्टाभावादित्यादि यथासंभवं तत्रोह्यमित्यर्थः । गोत्राथूनि । असत्यस्मिन् सूत्रे मुख्यमते पञ्चमादौ यूनि विवक्षिते Page #304 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०१ पत्ये गोत्रप्रत्ययान्तादेवापत्यप्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा । गर्गस्य युवादिभ्यः-' इति गोत्रे यञ् । गाय॑स्य तृतीयः, स गर्गस्य पञ्चमो युवापत्यम् , तस्मिन्बुबोधयिषिते गार्ग्यशब्दाद् गोत्रप्रत्ययान्ताद् 'यजिजोश्च' इति फकि गाायण इति रूपमिष्यते । तथा षष्ठादिष्वपि युवापत्येषु गाायण इत्येवेष्यते । तदिदमपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे यद्यपि सुलभमेव, गर्गात्तृतीयं गाये प्रति पञ्चमादीनामप्यपत्यत्वात् । तथापि गर्गस्य पञ्चमाद्यपत्ये यूनि विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात् । तथा गर्गस्य अनन्तरापत्ये इजि गार्गिः, तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि गार्गायण इत्यपि स्यात् । तथा गर्गस्य चतुर्थे यूनि गोत्रत्वाभावाद् यजभावे इञि गार्गिः । तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गः फकि गार्गायण इति स्यात् । गोत्रप्रत्ययान्तादेव गार्ग्यशब्दाद् गर्गस्य पञ्चमाद्यपत्ये यूनि फकि गाायण इत्येवेष्यते । तदर्थ गोत्रप्रत्ययान्तादेव यूनि प्रत्यय इति नियमः क्रियते--गोत्रायूनीति । तदाह-यून्यपत्ये गोत्रप्रत्ययान्तादेवेति । नतु मूलप्रकृतेस्तदनन्तरापत्यप्रत्ययान्ताद् युवप्रत्ययान्ताचेति भावः । नचापत्यशब्दः पुत्र एव रूढ इति पक्षे पञ्चमादौ यूनि चतुर्थाद्यपत्यप्रत्ययान्तादेव प्रत्ययः स्यात् , नतु तृतीयवाचिगोत्रप्रत्ययान्तादिति, तत्र विध्यर्थमेवेदं स्यात् , नतु नियमार्थमिति वाच्यम् , पुत्रपौत्रादिसाधारणोऽपत्यशब्द इत्येव भाष्ये सिद्धान्तितत्वादिति भावः । गोत्रप्रत्ययान्तात् युवप्रत्ययोत्पत्ताविष्टे सिद्धेऽपि मूलप्रकृत्यनन्तरयुवभ्योऽपि स्यादिति पाक्षिकानिष्टे प्राप्ते नियमार्थमिदमित्याशयेनाह--गोत्रप्रत्ययान्तादेवेति । नतु मूलप्रकृत्यनन्तरयुवभ्य इत्यर्थः । मनोरमायां तु युवप्रत्ययान्तादिति प्रथमपक्षेऽर्थ इत्यपि स्थितम् । अत्र वदन्ति--पश्चमादौ यूनि विवक्षिते तस्य पुनस्तृतीयं प्रत्यनपत्यत्वादप्राप्तौ विध्यर्थमेवेदं स्यात् , नतु नियमार्थमिति युवप्रत्ययान्तात्प्रत्ययो दुर्वारः स्यात् । तस्मादिह 'पितुरेवापत्यम्' इति पक्षो नाश्रयणीय इति । अन्ये त्वाहुःआद्यपक्षे 'गोत्राथूनि--' इत्यावर्त्य एकेनाप्राप्तप्रत्ययं विधाय द्वितीयेन नियम्यते 'यूनि गोत्रादेव' इति । एवं च 'ततः प्राचामपि' इति पक्षण सहास्यैकरूपता भवतीति । 'गोत्राचेचून्येव' इति विपरीतनियमस्त्विह न कृतः, व्यावालाभात् । नच शैषिकाच्छादयो व्यावा इति वाच्यम् । 'गोत्रेऽलुगचि' इति लिङ्गात् । स्त्रियां त्विति । यद्यत्र 'अस्त्रियाम्' इत्यस्यैकवाक्यतया 'स्त्रीभिन्ने यूनि गोत्रादेव' इत्यर्थः क्रियते, तर्हि स्त्रीषु युवसंज्ञाया अनिषेधात् युवतिषु प्रत्ययानां परम्परा प्रसज्येत । नच "एको गोत्रे' इत्यनेन निस्तारः । युवसंज्ञया गोत्रसंज्ञाया बाधात् । अथ 'स्त्रियां न युवप्रत्ययः' इति वाक्याभेदेनार्थः क्रियते. तदा गोत्रप्रत्ययेन युवतिर्नाभिधीयेत । किं Page #305 -------------------------------------------------------------------------- ________________ ३०२ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारपत्यं गाायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः । १०६५ अत इञ् । (४-१-६५) अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकास्पष्टयन्तादिनस्यादपत्येऽर्थे । स्त्रियां तु न युवसंज्ञेति । इह अस्त्रियामिति योगो विभज्यते । यूनीत्यनुवर्तते । उभयमपि प्रथमया विपरिणम्यते । तथा च स्त्री उक्तयुवसंज्ञिका नेति फलितमिति भावः । न च स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थः कुतो नाश्रीयते, एवं सत्येकवाक्यत्वलाभादिति वाच्यम् , पञ्चमादिषु युवतिषु प्रत्ययमालाप्रसङ्गात् । न च ‘एको गोत्रे' इति नियमात्तन्निवृत्तिः सम्भवतीति वाच्यम् , युवसंज्ञया गोत्रसंज्ञाया बाधात् । नच सत्यपि योगविभागे स्त्रियां न युवप्रत्यय इति व्याख्यायतामिति वाच्यम् , गोत्रप्रत्ययेन युवत्यभिधानानापत्तेरित्यलम् । गर्गस्येति । गर्गस्य पञ्चमादौ यूनि गार्ग्यशब्दाद् गोत्रे यान्तात्फकि गाायण इति रूपमित्यर्थः । स्त्रियां युवसंज्ञानिषेधस्य प्रयोजनं दर्शयति-स्त्रियामिति । पञ्चमादियुवतीनां युवसंज्ञाविरहेण गोत्रत्वाद् ‘एको गोत्रे' इति नियमाद्गार्गीत्येव भवति, न तु गाायणीति रूपमित्यर्थः । स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थाश्रयणे तु युवसंज्ञया गोत्रसंज्ञाया बाधाद् ‘एको गोत्रे' इत्यस्याप्रवृत्तेः प्रत्ययमाला स्यादिति भावः । अत इञ् । प्रातिपदिकादित्यधिकृतम् अता विशेष्यते, तदन्तविधिः, तदाह-अदन्तं यत्प्रातिपदिकमिति । 'तस्यापत्यम्' इत्यनुवृत्तं 'समर्थानां प्रथमाद्वा' इति च । ततश्च प्रथमोच्चारिततच्छब्दबोधितात्प्रातिपदिकादिति लब्धम् । सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् सुबन्तादिति लभ्यते । सुप्चेहोपस्थितत्वात् षष्ठ्येव विवक्षिता । तथा च षष्ठ्यन्तात्प्रातिपदिकादिति लभ्यते । यद्यपि प्रातिपदिकं न षष्ठ्यन्तम् , प्रत्ययग्रहणपरिभाषया प्रकृतिप्रत्ययसमुदायस्यैव लाभात् । तथापि प्रातिपदिकप्रकृतिकषष्ठ्यन्तादित्यर्थो विवक्षितः । तु वाक्यमेव स्यात् । ततश्च गार्ग्यस्यापत्यं स्त्री गार्गी न स्यात् । अतो 'युवसंज्ञानिषेध. परमेवेदम्' इत्याशयेन व्याचष्टे-न युवसंक्षेति । अत्रायमाशयः–'अस्त्रियाम्' इति योगो विभज्यते । 'यूनि' इति शब्दस्वरूपमनुवर्तते । परिभाषा चेयम् । यत्र युवसंज्ञाविधानं तत्र 'अस्त्रियाम्' इत्युपतिष्ठत इति सिद्धस्य गतिरियम् । 'जीवति तु वंश्ये युवाऽस्त्रियाम्' इत्येव सूत्रयितुं युक्तम् । अत इञ् । 'घकालतनेषु-' इति ज्ञापकात्सुबन्तादेव तद्धितोत्पत्तिरित्यभ्युपगमेऽप्यधिकृतप्रातिपदिकस्य न वैयर्थ्यम्, किंतु प्रयोजनमस्तीति ध्वनयति-अदन्तं यत्प्रातिपदिकमिति । अत इत्यस्य सुबन्तविशेषणत्वे तु दक्षयोरपत्यमित्यादिविवक्षायां दाक्षिरित्यादि न सिद्ध्येदिति भावः। तपरः किम् , विश्वपः अपत्यं वैश्वपः । 'प्रदीयतां दाशरथाय-' इत्यत्र तु 'तस्येदम्' १ 'स्त्रियो' इति क्वचित् । Page #306 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०३ दाक्षिः। १०६६ बाह्वादिभ्यश्च । (४-१-६६) बाहविः । औडुलोमिः । श्राकृतिगणोऽयम् । १०६५ सुधातुरकङ् च। (४-१-६७) चादिन् । सुधातुरपत्यं सौधातकिः । 'व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम्' (वा तदाह-तत्प्रकृतिकात्षष्ठ्यन्तादिति । दाक्षिरिति । दक्षस्यापत्यमिति विग्रहः । इञ् , अादिवृद्धिः, 'यस्येति च' इत्यकारलोपः । 'प्रदीयतां दाशरथाय मैथिली' इति त्वार्षमिति 'तस्यापत्यम्' इत्यत्र निरूपितम् । प्रातिपदिकग्रहणाननुवृत्ती तु अदन्तात्षष्ठ्यन्तादिति लभ्येत । तथा च दक्षयोरपत्यं दाक्षिरिति न सिध्येदिति भावः । बाह्वादिभ्यश्च । अपत्य इनिति शेषः । बाहविरिति । बाहर्नाम कश्चिदृषिः, अथ 'ऋषयः' इत्यधिकृत्य बाहविर्गार्यगौतमौ' इत्याश्वलायनसूत्रे दर्शनात् । बाहोरपत्यमिति विग्रहः । इञि, ओर्गुणः । औडुलोमिरिति । उडुलोम्नोऽपत्यमिति विग्रहः । इनि 'नस्तद्विते' इति टिलोपः । आदिवृद्धिः, अदन्तत्वाभावादप्राप्तिः । सुधातुरकङ् च । चादिअिति। सुधातृशब्दात्षष्ठ्यन्तादपयेऽर्थे इप्रत्ययः, प्रकृतेरकङादेशश्चेत्यर्थः । अकङो डकार इत् , अकार उच्चारणार्थः। डिच्चेत्यन्तादेशः, तदाह-सौधातकिरिति । व्यासेति । व्यास, वरुड, निषाद, चण्डाल, बिम्ब इत्यण । अपत्यत्वविवक्षायां त्विमेव । बाह्वादिभ्यश्च । 'बाध लोडने' इति धातौ 'केवलस्य बाहोरपत्ययोगासम्भवात्सामर्थ्यात्तदन्तविधौ सौबाहविः' इति माधवोक्तं चिन्त्यमिति ध्वनयन्नाह-बाहविरिति । 'जानन्ति बाहविर्गार्यगौतम-' इत्या. श्वलायनसूत्रप्रयोगद्भाष्यवृत्त्यायुदाहरणाच बाहुशब्दः संज्ञारूपोऽस्तीति भावः । औडुलोमिरिति । यद्यपि गणे बाहु कृष्ण युधिष्ठिर अर्जुन प्रद्युम्नेत्यादिषु केवलो लोमनशब्दः पठितः, तथापि सामर्थ्यात्तदन्तग्रहणम् । 'तारकाप्युड वा स्त्रियाम' इत्यमरोक्त्या नक्षत्रवाच्युडुशब्दः । उडूनीव लोमानि यस्य तस्यापत्यमोडुलोमिः। शरा इव लोमानि यस्य तस्यापत्यं शारलोमिः । बहुत्वे तु इनपवादोऽकारः प्रागेवाजन्तेषूक्तः । उडुलोमाः । शरलोमाः । इह प्रतिपदविधानेषु पुराणसिद्धाः संज्ञाशब्दा एव गृह्यन्ते, शीघ्रोपस्थितिकत्वात् । तेन इदानींतनो यो बाहुस्तस्यापत्ये बाहव इत्यणेव, न त्विञ्। उक्तं च हरिणा-'अभिव्यक्तपदार्था ये खतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥' अनर्थकं संदिग्धार्थकमप्रयुक्तं च क्रमेण विशेषणत्रयव्यावर्त्यम् । तदुक्तिषु-तत्सदृशेष्वित्यर्थः । अत एव संज्ञा श्वसुरस्यापत्यं श्वाशुरिरित्यत्र 'राजश्वशुरात्-' इति यन्न । मिमीते माता, तस्याः खसा मातृखसा। इह 'मातृपितृभ्यां खसा' इति षत्वं न। नन्वेवं बाहवः श्वाशुरिरिति पूर्वोक्तौ न १ 'चाण्डाल' इति क्वचित्पाठः । Page #307 -------------------------------------------------------------------------- ________________ ३०४ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार २६११) । १०६८ न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच । (७-३-३) पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः। किं तु ताभ्यां पूर्वी क्रमादैचावागमौ रतः । वैयासकिः । वारुडकिरित्यादि । १०६६ गोत्रे एभ्यश्च इनि प्रकृतेरकडादेश इत्यर्थः । न य्वाभ्याम् । य् च वश्च य्वाविति विग्रहः । वकारादकार उच्चारणार्थः। तदाह-यकारवकाराभ्यामिति । परस्येत्यध्याहारलभ्यम् । न वृद्धिरिति । मृजेवृद्धिरित्यतस्तदनुवृत्तेरिति भावः । तुशब्दो विशेषप्रदर्शनार्थ इत्याह-किंत्विति । ताभ्यामिति । यकारवकाराभ्यामित्यर्थः। पूर्वाविति । पूर्वावयवावित्यर्थः । तेन आगमत्वं लभ्यते। तदाह--ऐचावागमाविति। ऐच प्रत्याहारः । यथासंख्यं यकारात्पूर्व ऐकारः, वकारात्पूर्व औकारः । वैयासकिरिति । वेदान्व्यस्यति विविधमस्यति शाखाभेदेन विभजतीति वेदव्यासः, कर्मण्यण। अत्र नामैकदेशग्रहणम् । व्यासस्यापत्यमिति विग्रहः । इञ्प्रत्ययः प्रकृतेरकादेशः । अत्र यकारः पदान्तः । तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदिवृद्धिः प्राप्ता न भवति । किंतु यकारात्पूर्व ऐकार आगमः, वैयासकिरिति रूपम् । स्वश्वस्यापत्यं सौवश्विरित्यत्र वकारात्परस्य न वृद्धिः, ततः पूर्व औकारः। नच ऐचो वृद्धपपवादत्वादेव वृद्धथाभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यम् , यत्र य्वाभ्यां परस्य प्रसक्ताया वृद्धेः निषेधः तत्रैव ऐजागमाविति विषयानिर्देशार्थत्वात् । तेन दाध्यश्वि. रित्यादौ न । वृद्धिनिषधोऽयं येन नाप्राप्तिन्यायेन आदिवृद्धरेव । तेन द्वे अशीती मृतो याशीतिक इत्यत्र 'संख्यायाः संवत्सरसंख्यस्य च' इन्युत्तरपदवृद्धिर्भवत्येव । सिद्ध्यत इति चेत् । मैवम् , अणिजोर्विधौ शब्दविशेषानुपादानादप्रतिषिद्धेष्वपि तत्प्रवृत्तेः । व्यासेति । वेदान् व्यस्यतीति वेदव्यासः, 'कर्मण्यण' भीमो भीमसेन इतिवदेकदेशग्रहणम् । न रवाभ्याम् । य्वाभ्याम् किम् । न अर्थो यस्य नार्थः, तस्यापत्यं नार्थिः । पदान्ताभ्यां किम् , याज्ञिकः । ऐचो विषयप्रदर्शनाय नेति निषेधोक्तिः । तेनेह न-दाध्यश्विर्माध्वश्विः । न ह्यत्र य्वाभ्यां परस्य वृद्धिप्रसक्लिरस्ति । क्वचित्तु वृद्धिप्रसक्तिसत्त्वेऽपि नेष्यते । द्वे अशीती भृतो भूतो भावी वा याशीतिकः । वारुडकिरिति । वरुडादयो जातिविशेषाः । वकारस्यापदान्तत्वात् 'न य्वाभ्याम्-' इत्यैज् न । इत्यादीति। नैषादकिः, चाण्डालकिः, बैम्बकिः । गोत्रे कुना। इतः प्राक् ‘एको गोत्रे' इत्यादि सूत्रद्वयं चेत्पठ्यते तत्रत्यं गोत्रग्रहणं त्यक्तुं शक्यमित्याहुः । च्फओ अकारो वृद्ध्यर्थः। कौञ्जायन्यः । चकारस्तु 'बातच्फो:-' इत्यत्र विशेषणार्थः । तेन 'अश्वादिभ्यः फ' आश्वायन इत्यत्र ज्यो न भवति । अत्रेदमवधेयम्-कौजायन्य इत्यादावेकवचने द्विवचने च व्यस्य मित्त्वादायुदात्तत्वमेव। Page #308 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा तत्त्वबोधिनीसहिता। [३०५ कुआदिभ्यश्च्फन् । (४-१-६८) ११०० बातच्फोरस्त्रियाम् । (५-३-११३)तवाचिभ्यः फअन्तेभ्यश्च स्वार्थे न्यः स्यात् , न तु स्त्रियाम् । कौञ्जायन्यः । बहुत्वे तद्राजस्वाल्लुग्वश्यते । ब्रानायन्यः । स्त्रियां कौायनी। गोत्रवेन जातिवाङीष् । अनन्तरापत्ये कौञ्जिः। ११०१ नडादिभ्यः फक् । (४-१-६६) गोत्र इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः । वरुडादयो जातिविषाः। वारुडकिः, नैषादकिः, चाण्डालकिः, बैम्बकिः । गोत्रे कुञ्ज । स्पष्टम् । इमोऽपवादः । च्फनि चभावितौ । व्रातच्फोः । वातश्च फच्च इति द्वन्द्वाद्यत्ययेन पञ्चम्यर्थे षष्ठी। तदाह-वातवाचिभ्य इति । स्वार्थे ज्यः स्यादिति । 'पूगा ज्योऽप्रामणीपूर्वात्' इत्यतो ज्य इत्यनुवर्तते । स च स्वार्थिकः, 'ज्यादयः प्राग्वुनः' इति स्वार्थिकेषु परिगणनादिति भावः । कोजायन्य इति । कुञ्जस्य गोत्रापत्यमिति विग्रहः । उफनि चावितौ आयन्नादेशः, आदिवृद्धिः, ततो ज्यः, यकार इत्, 'यस्येति च' इत्यकारलोपः । तद्राजत्वादिति । 'च्यादयस्तद्राजाः' इति वचन दिति भावः । लुग्वक्ष्यत इति । 'तद्राजस्य बहुषु-' इत्यनेनेति शेषः । ब्रावायन्य इति । ब्रनस्य गोत्रापत्यमिति विग्रहः । च्फआदि पूर्ववत् । व्यविधावस्त्रियामित्यस्य प्रयोजनमाह-स्त्रियां कौआयनीति । कुञ्जस्यापत्यं स्त्री इति वेग्रहः । स्त्रीत्वादिह न ध्यप्रत्यय इति भावः । अदन्तत्वादिह टापमाशङ्कयाह-गोश्त्वेनेति । कृते तु ज्यप्रत्यये योपधत्वाजातिलक्षणीषभावे टाप् स्यादिति भावः । च्फविधौ गोत्रग्रहणस्य प्रयोजनमाह-अनन्तरापत्ये कौजिरिति । नडादेभ्यः फक् । इनोऽपवादः। अनन्तरो नाडिरिति । अनन्तरापत्यस्य गोत्र वाभावात् फगभावे इवेत्यर्थः । 'हरितादिभ्योऽनः' इत्यादि बहुत्वे तु ज्यस्य लु िके उफनश्चकारअकारयोस्तुल्यबलयोर्विरोधे सति परत्वाद् नित्स्वरेणाद्युदात्तत्वे प्रप्ते भाष्यादौ 'तद्धितस्य कितः' इत्यत्र योगं विभज्य 'चितः' इत्यनुवत्यै 'तद्धितस्य चितोऽन्तोदात्तत्वम्' इति व्याख्यानात् 'कौञ्जायना' इत्यत्रान्तोदात्ततेव भवति । न चैवं हि फगेवात्रास्तु किमनेन गुरुनिर्देशेनेति वाच्यम् , तथा हि सति 'वाच्फ कोरस्त्रियाम्' इति सूत्रप्रणयनापत्त्या नाडायनादिभ्योऽपि ज्यः स्यादिति । कुञ्ज, ब्रह्म, शङ्ख, शकटेत्यादि । व्रातच्फो । 'पूगाभ्योऽग्रामणी' इत्यतोऽनुवर्तनादाह-इयः स्यादिति । वातवाचिभ्यः 'कापोसपाक्यः' इत्युदाहरिष्यति । अस्त्रियां किम् , कपोतपाका स्त्री। तद्राजत्वादिति । 'ध्यादयस्तद्राजाः' इति सूत्रेणेति शेषः। लुग्वक्ष्यत इति । 'तद्राजस्य बहुषु-' इत्यनेनेति शेषः । कौञ्जायनीति । इह सति ध्यप्रत्यय योपधत्वाद् 'जातेः' इति ङीषभाव टापि रूपे Page #309 -------------------------------------------------------------------------- ________________ ३०६ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार११०२ हरितादिभ्योऽः । (४-१-१०० ) एभ्योऽअन्तेभ्यो यूनि फक् । हारितायनः । इह गोत्राधिकारेऽपि सामर्थ्याचून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । बिदाद्यन्तर्गणो हरितादिः । ११०३ यजिओश्च । (४-१-१०१) गोत्रे यौ यजिओ तदन्तात्फक्स्यात् । 'अनाति' इत्युक्तः ‘ापत्यस्य-' (सू १०८२) इति यलोपो न । गाग्र्यायणः । दाक्षायणः । ११०४ शरद्वच्छनकदर्भाद्भृगुवत्साग्रायणेषु । (४-१-१०२) गोत्रे फक्। अजिनोरपवादः। श्राद्यौ बिदादी। शारद्वतायनो भार्गवश्चेत्, शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् , शौनकोऽन्यः । दार्भायण श्राग्रायणश्चेत्, दार्भिरन्यः । ११०५ द्रोणपर्वतजीवन्तादन्यतरस्याम् । (४-१-१०३) एभ्यो गोत्रे फग्वा । द्रौणायनः, द्रौणिः । पार्वतायनः, पार्वतिः । जैवन्तायनः, जैवन्तिः । अनादिरिह होणः । अश्वत्थाम्न्यस्पष्टम् । यअिोश्च । गोत्रे इत्यधिकृतं यजिनोविशेषणम् , नतु विधेयस्य फकः, व्याख्यानात् । तदाह-गोत्रे यो यञिाविति । सामथ्र यून्ययम् । न हि गोत्रप्रत्ययाद् गोत्रप्रत्ययोऽस्ति, ‘एको गोत्रे' इति नियमात् । अनातीति । गर्गस्य गोत्रं गाग्यः । गर्गादित्वाद्यञ् । गाय॑स्यापत्यं युवेत्यर्थे यजन्तात् फकि प्रायन्नादेशे अनातीति पयुदासाद् 'आपत्यस्य च.' इति यलोपाभावे णत्वे गाायण इति रूपमित्यर्थः । दाक्षायण इति । दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ् , दाक्षरपत्यं युवा दाक्षायणः, इञन्तात्फक् । गोत्रे किम् ? सुतङ्गमस्यादूरभव इत्यर्थे 'सुतङ्गमादिभ्य इञ्' इति इलि सौतङ्गमेरपत्ये न फक् । शरद्वच्छनक । शेषपूरणेन सूत्रं व्याचष्टे-गोत्रे फगिति । आद्यौ बिदादी इति । शरद्वच्छुनकशब्दौ बिदादी। अतस्तदुभयविषये अअपवाद इत्यर्थः । दर्भविषये त्विोऽ वाद इति स्पष्टमेव । दर्भः कश्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादित्वादि । आयायणश्चेति । अग्रो खरे च विशेषो बोध्य इत्याहुः । यजिजोश्च । अधिकारप्राप्ते गोत्रग्रहणं यमिओर्विशेषणं न तु विधेयस्य फकः, व्याख्यानात्तदेतदाह--गोत्रे याविति । गोत्रे किम् , 'द्वीपादनुसमुद्रं यज्' द्वीपे भवो द्वैप्यः । सुतंगमादि-यश्चातुरर्थिक इञ् । सौतंगमिः । तदपत्ये फक् मा भूत् । फक् स्यादिति । सामर्थ्यायून्ययम् । शरद्वच्छनक । भृगुः शरद्वतोऽपत्यं न भवति, पूर्वभावित्वात् । एवं शुनकस्यापत्यं न भवति वत्सः । अतोऽत्र भार्गवश्व वात्स्यश्चामायणश्चेति द्वन्द्वे 'अत्रिभृगु-' इति 'यजिओश्च' इति च यथासम्भवं लुग् बोध्यः । यद्यप्यत्र बहुत्वाभावाद् 'अत्रिभृगु-' इत्यादिना लुग् दुर्लभः, तथापि युगपदंधिकरणवचनतायां वर्ति दानां बर्थत्वात्सौत्रत्वाद्वा स्यादेव लुक् । अतो व्याचष्टे-भार्गवश्चेदिति । वात्स्यश्चेदिति च। Page #310 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०७ नन्तरे तूपचारात् । ११०६ अनुष्यानन्तर्ये बिदादिभ्योऽञ् । (४-१-१०४) एभ्योऽञ् गोत्रे, ये स्वत्रानृषयः पुत्रादयस्तेभ्य अनन्तरे। सूत्रे स्वार्थे ष्य। बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः, बाह्लादेराकृतिगणवादिन् । पुत्रस्यापत्यं पौत्रः। दौहित्रः । ११०७ गर्गादिभ्यो यञ् । (४-१-१०५) गोत्र इत्येव । नाम कश्चिदृषिः । नडादिफगन्तोऽयम् । द्रोणपर्वत । अनादिरिति । अश्वत्थाम्नः पिता यो महाभारते कलेरादौ प्रसिद्धः, तदपेक्षया अन्य एवायं अनादिर्दोण इत्यर्थः । अश्वत्थाम्नीति । द्रोणाचार्यस्यानन्तरापत्ये अश्वत्थाग्नि द्रौणायन इति प्रयोग इत्यर्थः । तदिदं 'बाह्वादिभ्यश्च' इति सूत्रे भाष्ये स्पष्टम् । अनुष्यानन्तर्ये । अनृषि इति लुप्तपञ्चमीकम् । बिदादिभ्योऽञ् इति द्विरावर्तते । तथा च 'अनृष्यानन्तर्ये बिदादिभ्योऽञ्' इति कृत्स्नमेकं वाक्यम् । 'बिदादिभ्योऽञ् इति वाक्यान्तरम् । तत्र द्वितीयं वाक्यं व्याचष्टे-एभ्योऽञ् गोत्र इति । गोत्रे विवक्षिते बिदादिभ्यः अञ् स्यादित्यर्थः । अत्र प्रथमं वाक्यं कृत्स्नसूत्रं व्याचष्टे-ये विति । अनृषिभ्यो बिदादिभ्यः अनन्तरापत्ये अञ् स्यादित्यक्षरार्थः । बिदादौ हि ऋषयः अनृषयश्च पठिताः । तत्र ये अनृषयः तेभ्योऽनन्तरापत्ये अअिति फलितमिति भावः । ननु आनन्तर्ये इति श्रवणादनन्तर इति कथमित्यत आह-सूत्र खार्थे ष्यमिति । अनन्तरशब्दादिति शेषः । चतुर्वर्णादित्वादिति भावः । बिदस्य गोत्रापत्यं बैद इति । बिदस्य ऋषित्वात्ततो गोत्र एवानिति भावः । ऋष्यणोऽपवादः । स्वरे विशेषः । ननु अनन्तरापत्ये अञभाव इअपवाद ऋष्यणेवोचित इति कथमनन्तरो बैदिरित्यत आहबाहादेरिति । बिदादिगणस्थादनृषेरनन्तरापत्ये अत्रमुदाहरति-पौत्रः।दौहित्र इति । पुत्रस्यानन्तरापत्यमिति दुहितुरनन्तरापत्यमिति च विग्रहः। यथायथमअनादिरिति । अश्वत्थाम्नः पिता यो महाभारते प्रसिद्धः, तदपेक्षयाऽन्य एवायं द्रोण इत्यर्थः । अश्वत्थाम्नीत्यादि । द्रोणाचार्यस्यानन्तरापत्ये अश्वत्थाम्नि द्रौणायन इति प्रयोगो भाक्त इत्यर्थः । अनृष्या। 'अनृषि' इति पञ्चम्याः सौत्रो लुक् । अनृषिभ्य इत्यर्थः । सूत्र इति । आनन्तर्य इत्यत्रेत्यर्थः । स्वार्थ इति । चातुर्वर्यादेराकृतिगणत्वादिति भावः। बैदिरित्यत्र ऋष्यणमाशङ्कयाह-बाहादेरिति । बिद, उर्व, कश्यप, कुशिक, भरद्वाज, उपमन्यु, विश्वानर, 'परस्त्री परशुं च' इत्यादि । गर्गादिभ्यो । गर्ग, वत्स, व्याघ्रपाद्, पुलस्ति, बभ्रु, मण्डु, वतण्ड, कपि, कत, शकल, कराव. अगस्ति, कुण्डिन, यज्ञवल्क, पराशर, जमदग्नि इत्यादि । १ 'अानन्तर्ये' इति क्वचित्पाठः । २ क्वचित् 'कुण्डिनी' इति पाठः । गणपाठे तु 'कण्डिनी' इति लभ्यते । Page #311 -------------------------------------------------------------------------- ________________ ३०८] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारगार्वः । वात्स्यः । ११०८ योश्च । (२-४-६४) गोत्रे यद्यमन्तममन्तं च तदवयवयोरेतयो क्स्यात्तस्कृते बहुत्वे, न तु स्त्रियाम् । गर्गाः । वस्साः । बिदाः । उर्वाः । तस्कृते इति किम्-प्रियगााः । स्त्रियां तु गार्यः स्त्रियः । गोत्रे किम्-द्वैप्याः, औस्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् , तेनेह न-पौत्राः, णिोरपवादः अञ् । गार्गादिभ्यो यज । गार्ग्यः। वात्स्य इति । गर्गस्य गोत्रापत्यमिति वत्सस्य गोत्रापत्यमिति च विग्रहः। रामो जामदग्न्यः, पाराशर्यो व्यास इत्यादौ तु अनन्तरापत्ये गोत्रत्वारोपाद्यनित्याहुः । यत्रोश्च । द्वितीयचतुर्थपादे इदं सूत्रम् । न त्विदं चातुर्थिकमपत्याधिकारस्थम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रं तद्राजस्येतिवर्जमनुवर्तते । 'ण्यक्षत्रिय-' इत्यतो 'लुक्' इति 'यस्कादिभ्यो गोत्रे' इत्यतो गोत्र इति च । तदाहगोत्रे यदिति । एतयोरिति । योरित्यर्थः । प्रत्ययादर्शनस्यैव लुक्त्वादिति भावः । तत्कृत इति । यअञ्प्रत्ययार्थगतबहुत्वे इति यावत् । गर्गा इति । गर्गस्यापत्यानीत्यादिविग्रहः । प्रियगार्या इति । प्रियो गार्यो येषामिति विग्रहः । अत्र यअर्थगतबहुत्वाभावान्न लुगिति भावः । द्वैप्या इति । द्वीपे भवा इत्यर्थः । 'द्वीपादनुसमुद्रम्-' इति यञ् । औत्सा इति । उत्से भवा इत्यर्थः। 'उत्सादि. भ्योऽ' इहोभयत्रापि यत्रजोर्गोत्रवाचित्वाभावान्न लुगिति भावः। ननु पौत्रा दौहित्रा इत्यत्राप्यनृषिबिदादिलक्षणानो लुक् स्यात् । नच तस्यानन्तरापत्यवाचित्वागोत्रवाचिस्वाभावान्न लुगिति वाच्यम् , 'यूनि लुक्' इति सूत्रभाष्ये अपत्याधिकारा दन्यत्र लौकिकमेव गोत्रं गृह्यते इति सिद्धान्तितत्वादित्यत आह--प्रवरेति । 'कश्यपोऽत्रिभरद्वाजो विश्वामित्रोऽथ गौतमः । जमदग्निबेसिष्ठश्च सप्तेते ऋषयः स्मृताः । 'तेषां यदपत्यं तद्गोत्रमित्याचक्षते' इति बोधायनीयादिप्रवराध्यायप्रसिद्धा भार्गवादय एवेह गोत्रत्वेन विवक्षिता इत्यर्थः । कैयटेन लौकिकस्य गोत्रस्य ग्रहणमिति भाष्यकथं तर्हि 'रामो जामदग्न्यः' इति । अनन्तरापत्ये त्ययम् । सत्यम् । अनन्तरेऽपि गोत्रत्वारोपाद्बोध्यः । यजओश्च । 'एयक्षत्रियार्ष-' इत्यतो लुगिति, 'तद्राजस्य-' इति सूत्राद्बहुषु तैनेवास्त्रियामिति चानुवर्तते, 'यस्कादिभ्यो गोत्रे' इत्यतो गोत्र इति च तदाह-गोत्रे यद्यअन्तमित्यादि । प्रवराध्यायप्रसिद्धगोत्रवाचिनौ केवलौ यो न भवत इति 'गोत्र' इत्यनेन तदन्तं विशेषितम् । तदवयवयोरिति । 'निर्दिश्यमानस्यादेशा भवन्ति' इति भावः । प्रवराध्यायेति । एतच्च 'स्त्रीपुंसा. भ्याम्-' इति सूत्रे 'लौकिकस्य गोत्रस्य ग्रहणम्' इति भाष्यमुपादाय कैयटेनोक्तमिति भावः । तेनेह नेति । यद्यलौकिकं गोत्रमपत्यमात्रं गृह्येत, तदास्यादेवातिप्रसङ्ग Page #312 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३०६ दौहित्राः । १९०६ मधुबभ्रुवोर्ब्राह्मणकौशिकयोः । ( ४- १ - १०६ ) गोत्रे यज् । माधव्यो ब्राह्मणः, माधवोऽन्यः । बाभ्रव्यः कौशिकर्षिः, बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठात्सिद्धेऽपि नियमार्थमिदम् । गर्गादिपाठफलं तु लोहिता. दिकार्यम् । बाभ्रव्यायणी । १११० कपिबोधादाङ्गिरसे । ( ४- १ - १०७ ) गोत्रे यस्यात् । काप्यः । बौध्यः । श्राङ्गिरसे किम् - कापेयः । बौधिः । ११११ वतण्डाच्च । ( ४-१ - १०८) श्रङ्गिरस इत्येव । वातण्ड्यः । श्रनाङ्गिरसे तु भदौ शिवादौ च पाटाद्यञणौ । वातढ्यः, वातण्डः । १११२ लुक् स्त्रियाम् । ( ४ - १ - १०६ ) ' वतण्डाश्च' ( सू ११११ ) इति विहितस्य लुक्स्यात्स्त्रियाम् । मुपादाय तथैव व्याख्यात वादिति भावः । एवं च पौत्रा दौहित्रा इत्यादौ पौत्रदौहित्रयोः तथाविधगोत्रवाचित्वाभावान्न लुगिति स्थितम् । विस्तररस्तु शब्देन्दुशेखरे ज्ञेयः । मधुबभ्रुवोर्ब्राह्मणकौशिकयोः । शेषपूरणेन सूत्रं व्याचष्टे – गोत्रे यञिति । मधुशब्दाद्वेभ्रशब्दाच्च गोःआपत्ये यञ् स्याद् ब्राह्मणे कौशिके च यथासंख्यं वाच्ये इत्यर्थः । लोहितादिकार्यमिति । ष्फ इत्यर्थः । लोहितादिर्गर्गाद्यन्तर्गण इति भावः । बाभ्रव्यायणीति । बभ्रोर्गोत्रापत्यं स्त्रीति विग्रहः । गर्गादियज बाभ्रव्य - शब्दात् 'सर्वत्र लोहितादिकतन्तेभ्यः' इति ष्फः । श्रयन्नादेशः, षित्त्वाद् ङीषिति भावः । कपिबोधादाङ्गिरसे । गोत्रे यञ् स्यादिति । शेषपूरणमिदम् । कपिशब्दाद्बोधशब्दाच अङ्गिरसात्मके गोत्रे गम्ये यञ् स्यादित्यर्थः । कापेय इति । अत्र गोत्रस्य अनाङ्गिरसत्वाद् यभावे 'इतश्चानिञः' इति ढक् । बौधिरिति । अत्राप्यनाङ्गिरसत्वाद् यञभावे ऋष्यणं बाधित्वा बाह्वादित्वादिनिति भावः । कपेर्गदौ पाठेऽपि आङ्गिरस एवेति नियमार्थं ग्रहणम् । तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः । काप्यायनी । बोधशब्दात्तु प्राप्ते विधिः । वतण्डाश्च । वतण्डस्य गर्गादौ शिवादौ च पाठाद् यजणोः प्राप्तयोराङ्गिरसे यमेवेति नियमार्थमिदम् । लुक् स्त्रियाम् । इति भावः । लोहितादीति । 'सर्वत्र लोहितादि-' इत्यादिना ष्फः । =फेणोक्♚S स्त्रीत्वे षित्वसामर्थ्याद् ङीषित्याशयेनाह - बाभ्रव्यायणीति । गर्गादिगण एव 'बभ्रुः कौशिक' इति पाठ्यम् । एवं हि द्विर्बग्रहणं न कर्तव्यं भवतीति हरदत्तादयः । काय इति । 'इतश्चानिञः' इति ढक् । कपेर्गर्गादिगणपाठो लोहितादिकार्यार्थः । तेन काप्यायनीति सिध्यति । बौधिरिति । अनृषित्वादिञ् बाह्वादित्वाद्वा । वण्डाच्च । यत्रणोः प्राप्तयोराङ्गिरसे यमेवेति नियमार्थं सूत्रम् । लुक् स्त्रियाम् । विहितस्येति । 'परिशेषितस्य वा' इति बोध्यम् । एतच्च 'आङ्गिरसे' इत्यनुवृत्त्या लभ्यते । यद्यपि ‘वतण्डाल्लुक् स्त्रियाम्' इत्येकसूत्रकरणेऽपि 'आङ्गिरसे' इत्यनुवृत्त्या I Page #313 -------------------------------------------------------------------------- ________________ ३१० ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारशार्जरवादित्वान्डीन् । वतण्डी। अनाङ्गिरसे तु वातण्ड्यायनी। लोहितादित्वात्स्फः। अणि तु वातण्डी । ऋषिवाद्वषयमाणः व्यङ् न । १११३ अश्वादिभ्यः फञ् । (४-१-११०) गोत्रे । अाश्वायनः । 'पुंसि जाते' (ग सू ६६) पुंसीति तु प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम्जाताया अपत्यं जातेयः। १२१४ भर्गावैगर्ते । (४-१-१११) गोत्रे फञ् । भार्गायणस्वैगर्तः, भागिरन्यः । १११५ शिवादिभ्योऽण् । (४-१-११२) वतण्डाच्चेति विहितस्येति । यन इति शेषः । वतण्डीति । वतण्डस्य गोत्रापत्यं स्त्री आङ्गिरसीति विप्रहः । यो लुकि आदिवृद्धिनिवृत्तौ ङीनिति भावः । वातण्ड्यायनीति । यजि आदिवृद्धौ लोहितादिलक्षणः फः, षित्वाद् डीषिति भावः । 'वतण्डाच्च' इति विहितस्येत्यस्य प्रयोजनमाह-अणि तु वातण्डीति। शिवादित्वादणि गोत्रत्वेन जातित्वाज्जातिलक्षणे डोषि तस्याणो बतण्डाद्विहितत्वेऽपि 'वतण्डाच्च' इति विहितत्वाभावान्न लुगिति भावः। ननु बतण्डादणि तस्य 'अणिोरनार्षयोः-' इति वक्ष्यमाणः ष्यङ् स्यादित्यत आह- ऋषित्वादिति। अश्वादिभ्यः। गोत्र इति । शेषपूरणमिदम् । आङ्गिरसे इति निवृत्तम् । आश्वायन इति । अश्वस्य गोत्रापत्यमिति विग्रहः । इअपवादः फञ्। पुंसि जात इति । गणसूत्रम् । प्रकृतिविशेषणमिति । पुंसि विद्यमानो यो जातशब्दः तस्माद्गोत्रे फप्रित्यर्थः। जातेय इति । 'स्त्रीभ्यो ढक्' । भर्गावैगर्ते। इदमपि गणसूत्रम् । त्रिगर्तो नाम भर्गस्य पुत्रः । तस्यापत्यं त्रैगर्तः । ऋष्यण । तस्मिन्गोत्रे अनाङ्गिरसे यजणोलुंगभावात् स्त्रियामिष्टं सिद्ध्यति, तथापि पुंस्याङ्गिरसे यअणोरुभयोः प्राप्तिरनिष्टेति तद्वारणाय पृथक् सूत्रं कृतम् । ऋषित्वादिति । चैवं 'ऋष्यन्धक-' इत्यणि सिद्धे शिवादिगणे वतण्डपाठो व्यर्थ इति शङ्कयम् । गर्गादिपाठेन या बाधात्तन्निवृत्तये तत्पाठस्यावश्यकत्वात् । ष्यङ् नेति । 'अग्गिओरनर्षयोः-' इति सूत्रणेति भावः । अश्वादिभ्यः । गोत्र इति । इह गणे बैल्य, आनडुह्य, आत्रेय, इति गोत्रप्रत्ययान्तास्त्रयः पठ्यन्ते, तेभ्यस्तु यून्येव । ‘एको गोत्रे' 'गोत्रायूनि-' इति वचनात् । तत्र विलिर्नाम राजर्षिस्ततो 'वृद्धत्कोसला-' इति व्यङ् । आनडुह्यशब्दो गर्गादियजन्तः । आत्रेयशब्दो ढगन्त इति ज्ञेयः । पुंसि जात इति । गणसूत्रमिदम् । जातशब्दे पुंसि विद्यमाने फञ् इत्यर्थः । कस्मादित्याकाङ्क्षायामर्याजातशब्दादिति लभ्यते । जाताया इति । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वेन ग्रहणाद्वा प्राप्तिः । शिवादिभ्योऽण् । ननु विशेषविहितानिनादीन् बाधित्वा अणेवारम्भासामर्थ्याद्भविष्यति किमनेनाणप्रहणेन । अत्राहुः-ऋष्टिषेण Page #314 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३११ गोत्रे इति निवृत्तम् । शिवस्यापत्यं शवः । गाङ्गः । पक्षे तिकादित्वास्फिन् । गाङ्गायनिः । शुभ्रादित्वाड्ढक्, गाङ्गेयः । १११६ अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः । (४-१-११३) अवृद्धभ्यो नदीमानुषीनामभ्योऽरस्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धाभ्यः किम्-वासवदत्तेयः । नदीत्यादि किम्-वैनतेयः। तचामिकाभ्यः किम्-शोभनाया अपत्यं शौभनेयः । १११७ ऋष्यन्धकवृष्णिकुरुभ्यश्च । (४-१-१५४) भर्गात् फञ् । शिवादिभ्योऽण् । निवृत्तमिति । वृत्तिकैयटयोस्तथोक्तत्वादिति भावः । 'यूनि लुक्' इति सूत्रस्य भाष्यकैयटयोस्तु गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकार इति लभ्यते । तत्तु मतान्तरमित्येके । तदेव युक्तमिति शब्देन्दुशेखरे प्रपञ्चितम् । प्रवृद्धाभ्यो नदी। नदीमानुषीशब्दापेक्षमवृद्धाभ्य इति स्त्रीत्वम् । वस्तुतस्तु अवृद्धेभ्यो नदीमानुषीनामभ्य इत्येव सूत्रयितुमुचितमिति व्याचष्टे-अवृद्धेभ्य इत्यादि । ननु 'तस्यापत्यम्' इत्येव सिद्धे किमर्थमिदमित्यत आह--ढकोऽपवाद इति । चिन्तिता नाम काचिन्मानुषी। वासवदत्तेय इति । वासवदत्ता नाम काचिन्मनुष्यस्त्री, तस्या अपत्यमिति विग्रहः । वृद्धसंज्ञकत्वादणभावे दगिति भावः । वैनतेय इति । विनताया अपत्यमिति विग्रहः । विनता नाम गरुडमाता, सा न मानुषी, नापि नदीति भावः । शौभनेय इति । शोभनाशब्दोऽयं न नदीमानुशब्दोऽत्र गणे पठ्यते, ततः प्राप्तमिजं बाधित्वा परत्वात् 'सेनान्तलक्षण-' इति ण्ये प्राप्ते इह पाठसामर्थ्याद्यथाप्राप्तप्रत्यय इञव स्यान्न त्वम् । तथा चात्राणग्रहणमावश्यक मित्येके । अणधिकारादगोव स्यान्नान्य इत्यण्ग्रहणं स्पष्टप्रतिपत्त्यर्थमित्यन्ये । शिव, ककुत्स्थ, वतण्ड, जरत्कारु, विपाट , तक्षन्, विश्रवण, रवण, ऋष्टिषेण, विरूपाक्षेत्यादि । गोत्र इति निवृत्तमिति । एतच्च वृत्तौ कैयटे च स्पष्टम् । यद्यपि 'गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकारः' इति 'यूनि लुक्' इति सूत्रस्थभाष्यकैयटाभ्यां लभ्यते, तथापि तन्मतान्तरमिति भावः। एवं चेतःप्रभृत्यपत्यसामान्ये प्रत्यया भवन्तीति स्थितम् । शुभ्रादित्वान्नित्यढकि प्राप्त जरत्कारुशब्दोऽत्राणथं पठ्यते । जरत्कारवः । ढकि तु 'ढे लोपोऽकवाः' इत्युलोपः । जरत्कारेयः । कुादित्वाद् 'गोत्रे कुञ्जादिभ्यः-' इति नित्यं चफनि प्राप्ते विपादशब्दोऽत्राणथं पठ्यते । वैपाशः वैपाशायन्यः । 'सेनान्तलक्षण-' इति एयप्रत्यये 'उदीचाम्-' इतीनि च प्राप्ते तक्षशब्दोऽत्राणर्थ पठ्यते, ण्यप्रत्ययेन समावेशोऽत्रेष्यते, न त्विज्ञा। तादणः, तादण्यः । विश्रवणारवणशब्दावत्र पठ्येते, तौ च विश्रवःशब्दस्यादेशौ । विश्रवसोऽपत्यं वैश्रवणः, रावणः । अवृद्धाभ्यो- अवृद्धेभ्यो नदीमानुषीनामभ्यः' इत्येव सूत्रयितुं युक्तमित्याशयेन Page #315 -------------------------------------------------------------------------- ________________ ३१२ ] सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । श्रन्धकेभ्यः —– वाफल्कः । वृष्णिभ्यः - वासुदेवः, श्रनिरुद्धः । 'शौरिः' इति तु बाह्वादित्वात् । कुरुभ्यःनाकुलः, साहदेवः । इञ एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक्, आत्रेयः । १११८ मातुरुत्संख्यासंभद्र पूर्वायाः । (४-१-११५) संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण्प्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । साम्मातुरः । भाद्रुमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गे सिद्धः । स्त्रीलिङ्ग - > षीनामेति भावः । ऋष्यन्धक । प्रलीना वेदास्तपोबलवशाद् यन् अर्षन्ति प्राप्नुवन्ति ते ऋषयः। तथा च तैत्तिरीये श्रुतम् -' प्रजान्ह वै पृश्वींस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानषत् त ऋषयोऽभवन्, तदृषीणामृषित्वम्' इति । श्रजा नित्याः, पृश्नयः शुक्लाः शुद्धा इति यावत् । तान् तपस्यमानान् — तपश्चरत, स्वयम्भु - अनादि, ब्रह्म-वेदः, अभ्यानर्षत् । 'ऋष गतौ' श्रभिमुख्येन प्राप्नोत् । ते वेदस्य अर्षणाद् ऋषिशब्दवाच्या अभवन्निति वेदभाष्यम् । 'सर्गादिसमये वेदान्त्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ॥' इति पुराणेषु प्रसिद्धम् । कात्यायन प्रणीत सर्वानुक्रमणिकाख्यग्रन्थे स्पष्टमेतत्, तदाह - ऋषयो मन्त्रद्रष्टार इति । अन्धकशब्देन वृष्णिशब्देन कुरुशब्देन च अन्धकादिवंश्या विवक्षिताः । ऋषिविशेषवाचिभ्यः अन्धकादिवंश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः । इञोऽपवादः । ऋषिभ्य उदाहरति - वासिष्ठः । वैश्वामित्र इति । अन्धकेभ्य इति । अन्धकवंश्यवाचिभ्य उदाहियत इत्यर्थः । श्वाफल्क इति । श्वफल्कस्यापत्यमिति विग्रहः । वृष्णिभ्य इति । वृष्णिवंश्यवाचिभ्य उदाह्रियत इत्यर्थः । वासुदेव इति । वसुदेवस्यापत्यमिति विग्रह: । श्रनिरुद्ध इति । अनिरुद्धस्यापत्यमिति विग्रहः । ननु शूरो नाम कश्चिद् वृष्णिवंश्यः । तस्यापत्यं शौरिः कथम् ? प्रसङ्गादित्यत श्राह - शौरिरिति त्विति । बाह्रादित्वादित्यनन्तरम् इञा समाधेयमिति शेषः । कुरुभ्य इति । कुरुवंश्यवाचिभ्य उदाह्रियत इत्यर्थः । नकुलसहदेवौ प्रसिद्धौ । ननु अत्रेरपत्यमित्यर्थे 'इतश्चानिञः’ इति ढकि आत्रेय इति कथम् ? ऋष्यणा इन इव ढकोऽपि बाधौचित्यादित्यत श्राह - इञ एवेति । न तु ढक इत्यर्थः । मातुरुत्संख्यासंमद्रपूर्वायाः । द्वैमातुर इति । द्वयोर्मात्रोरपत्यमिति विग्रहः । ' तद्धितार्थ -' इति समासः । अण्, ऋकारस्योकारः, रपरत्वम् । एवं षाण्मातुर । सांमातुर इति । समीचीना माता समाता, व्यावष्टे - अवृद्धेभ्य इत्यादिना । आत्रेय इति । परत्वादयमृष्यणं बाधत Page #316 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१३ निर्देशोऽर्थापेक्षः, तेन धान्यमातुन । संख्या इति किम्-सौमात्रः । शुभ्रादित्वाद् द्वैमात्रेयः। १११६ कन्यायाः कनीन च । (४-९११६) ढकोऽपवादोऽण् , तस्सनियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः । विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु । (४-१-११७) अपत्येऽण् । वैकर्णो वात्स्यः, वैकर्णिरन्यः । शौको भारद्वाजः, शौझिरन्यः। छागल पात्रेयः, संमातुरपत्यं सांमातुरः । अण् , उत् , रपरत्वम् । भाद्रमातुर इति । भद्रा चासौ माता चेति विग्रहः । अणादि पूर्ववत् । ननु 'तस्यापत्यम्' इत्येव सिद्धे अरिवधिर्व्यर्थ एवेत्यत आह-आदेशार्थ वचनमिति। उदादेशस्य असंनियोगेन विध्यर्थमित्यर्थः। ननु धान्यं यो मिमीते तस्यापि मातुर्ग्रहणं कुतो न स्यात् । तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह-स्त्रीलिङ्गनिर्देशोऽर्थापेक्ष इति । मातृगतं स्त्रीत्वं शब्दे आरोप्य संख्यासंभद्रपूर्वाया इति निर्दिश्यते। अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति । अत्र मातृशब्दस्य परिच्छेत्तवाचिनः पुंल्लिङ्गत्वादिति भावः । सौमात्र इति । सुमातुरपत्यमित्यर्थे 'तस्यापत्यम्' इत्यण् । संख्यासंभद्रपूर्वत्वाभावाद् नायमण, उत्त्वमपि तत्संनियोगशिष्टत्वानेति भावः । ननु द्वैमात्रेय इति कथम्, संख्यापूर्वकतया अण उत्त्वस्य च दुरित्वादित्यत आह-शुभ्रादित्वादिति । 'शुभ्रादिभ्यश्च' इति ढकि रूपमित्यर्थः । कन्यायाः कनीन च । कनीनेति लुप्तप्रथमाकम् । ढक इति । 'स्त्रीभ्यो ढक्' इति विहित. स्येत्यर्थः । कनीनादेशश्चेति । प्रकृतेरिति शेषः । भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रसिद्धम् । ननु कन्याया अप्रादुर्भूतयौवनत्वात् पुंसंयोगाभावात् कथमपत्यसंबन्ध इत्यत आह--अनूढाया इति । अलब्धविवाहाया इत्यर्थः । एतच्च भाष्ये स्पष्टम् । विकर्ण । वत्सादिशब्दैस्तद्वंश्या विवक्षिताः। विकर्ण, शुङ्ग, छगल एभ्योऽण स्यात् , वत्सवंश्ये भरद्वाजवंश्ये अत्रिवंश्ये चापत्ये इत्यर्थः । एतेन वत्सादीनां मूलपुरुषइति भावः । द्वैमातुर इति । तद्धितार्थ' इत्यादिना समासः । अत्र 'द्वयोर्मात्रीरपत्यम्' इति विग्रहः, न तु द्विमात्रोरपत्यम्' इति । 'दिक्संख्ये संज्ञायाम्' इति नियमेनासंज्ञायां समासासंभवात् । धान्यमातुनेति । 'अभिव्यक्तपदार्थाः-' इत्यनेन जननीवाचिन एव ग्रहणे सिद्धेऽपि तस्य स्पष्टप्रतिपत्त्यर्थः स्त्रीलिङ्गनिर्देश इति भावः । 'अभिव्यक्त-' इत्यस्यानित्यताया ज्ञापनार्थ इति त्वन्ये । कन्यायाः। ननु कन्या ह्यक्षतयोनिः, तस्याश्चापत्यसम्भव एव नास्तीत्याशङ्कयाह-अनूढाया इति । अविवाहिताया इत्यर्थः । विकर्ण । वात्स्यादीनामपत्यप्रत्ययान्तानां द्वन्द 'यमोश्च' १ 'वैमात्रेयः' इति बहुत्र पाठः। Page #317 -------------------------------------------------------------------------- ________________ ३१४ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार• छागलिरन्यः । केचित्तु 'शुङ्गा' इत्यावन्तं पठन्ति, तेषां ढक्प्रत्युदाहरणम् , शौङ्गेयः । ११२१ पीलाया वा । (४-१-११८) तनामिकाणं बाधित्वा 'यचः' (सू ११२४) इति ढकि प्राप्ते पक्षेऽण् विधीयते । पीलाया अपत्यं पैलः, पैलेयः। ११२२ ढक्च मण्डूकात् । (४-१-११६) चादण् । पचे इञ् । माण्डूकेयः, माण्डूकः, माण्डूकिः । ११२३ स्त्रीभ्यो ढक । (४-१-१२०) स्त्रीप्रत्ययान्तेभ्यो ढक्स्यात् । वैनतेयः । बाह्नादित्वात्सौमित्रिः । शिवादित्वात्सात्वाद् विकर्णादीन्प्रत्यपत्यत्वासंभव इति निरस्तम्। विकर्णादिभ्यो वास्यादिष्वेव ऋष्यण इति नियमार्थ सूत्रम्। पीलाया वा। अपत्येऽणिति शेषः। पीला नाम काचिन्मानुषी। तन्नामिकाणमिति । वाग्रहणाभावे तु अनेनाणा नित्यमेव ढको बाधः स्यात् । नच महाविभाषया अणः पाक्षिकत्वात्तदभावे ढग् भवत्येवेति वाच्यम् , महाविभाषया अपवादे निषिद्धे उत्सर्गो न प्रवर्तत इति ज्ञापनात् । अन्यथा शेवः शैविरित्यादिः स्यात् । ढक् च मण्डूकात् । मण्डूको नाम ऋषिः । पक्ष इअिति । पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः । स्त्रीभ्यो ढक् । स्त्रीशब्देन टाबादय स्त्रीप्रत्ययाश्चातु. र्थिका गृह्यन्ते, न त्वन्येऽपि स्त्रीवाचकाः, व्याख्यानादित्याह-स्त्रीप्रत्ययान्तेभ्य इति । विनता नाम गरुडमाता, तस्या अपत्यमिति विग्रहः । प्रत्ययग्रहणं किम् ? दरत् कश्चित्क्षत्तियः, तस्यापत्यं स्त्री दरत् । 'यमगध-' इत्यण् । 'अतश्च' इति तस्य लुक् । तस्या अपत्यं दारदः । अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्त. त्वाभावान्न ढक् । ननु सुमित्राया अपत्यं सौमित्रिः, सपन्या अपत्यं सापत्न इति कथम् , ढक्प्रसङ्गादित्यत आह-बाबादित्वादित्यादि । सापत्नशब्दे पुंवत्त्वं नेति 'अत्रिभृगुकुत्स-' इति सूत्राभ्यामपत्यप्रत्ययस्य लुक् । न चात्र वत्सादीनामेव द्वन्द्वोsस्त्विति शङ्कयम् । मूलभूतानां तेषां विकर्णादीन् प्रत्यपत्यत्वाभावादतो व्याचष्टे-- वात्स्य इत्यादि । 'युगपदधिकरणवचनताया बहुत्वमस्ति' इति 'शरद्वच्छनक-' सूत्र एवोक्तम् । पक्षे इअिति । पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः । स्त्रीभ्यो ढक् । बहुवचननिर्देशान्न स्वरूपस्य ग्रहणम् , नाप्यर्थस्य । ढगर्थतया शुभ्रादिषु विमातृशब्दपाठात् । किं तु स्त्र्यधिकारोक्तटाबादेर्ग्रहणम् । न तु विप्रकृष्टक्तिन्नादेरित्याशयेनाह--- स्त्रीप्रत्ययान्तेभ्य इति । तेन 'दरदोऽपत्यं दारदः' इत्यत्र ढक् न भवति । स्त्यर्थग्रहणे तु स्यादेवात्र ढक् । दरच्छन्दो हि जनपदक्षत्रियवाचीति ततोऽपत्यार्थे 'यज्मगध-' इत्यणि तस्य स्त्रियाम् 'अतश्च' इति लुकि दरच्छब्दस्य स्व्यर्थवाचित्वात्। 'ढक् च-' इति वर्तमाने पुनरिह ढग्ग्रहणमएसम्बद्धस्य ढको निवृत्त्यर्थम् । यद्यपि 'चानुकृष्टं नोत्तरत्र' इति परिभाषया अणिह न प्रवर्तते तथापि तस्या अनित्यत्वज्ञाप Page #318 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१५ पत्नः । ११२४ वचः। (४-१-१२१) यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थ इत्यत्र तु 'तस्पेदम्' (सू १५००) इत्यण् । ११२५ इतश्चानिञः । (४-१-१२२) इकारान्ताद् ब्यचोऽपत्ये ढक्स्यात् , न स्विजन्ताद् । दौलेयः । नैधेयः । आत्रेयः । ११२६ शुभ्रादिभ्यश्च । (४-१-१२३) ढक्स्यात् । शुभ्रस्यापत्यं शौभ्रेयः । ११२७ विकर्णकुषीतकात्काश्यपे । (४-१-१२४) अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्यो वैकर्णिः । कौषीतकिः । ११२८ भ्रवो वुक्च । (४-१-१२५) चाड्ढक् । भ्रौवेयः । ११२६ प्रवाहणस्य ढे। (७-३-२८) प्रवाहणशब्दस्योत्तरपदस्याप्रागेवोक्तम् । व्यचः । ननु 'स्त्रीभ्यो ढक्' इत्येव सिद्धे किमथमिदमित्यत आहतन्नामिकेति । दात्तेय इति । दत्ता नाम काचिन्मानुषी, तस्या अपत्यमिति विग्रहः । ननु पृथाया अपत्यं पार्थ इति कथम् , तन्नामिकाणं बाधित्वा 'यचः' इति ढकप्रसङ्गादित्यत आह--पार्थ इत्यत्रेति । शिवादित्वादपत्य एवाणित्यन्ये । इतश्चानिजः । अस्त्रीप्रत्ययान्तार्थमिदम् । दुलिः निधिश्च कश्चित् । प्रात्रेय इति । अत्रिः प्रसिद्धः। परत्वादयमृष्यणमपि बाधत इति भावः। शुभ्रादिभ्यश्च । ढक् स्यादिति । शेषपूरणम् । इआद्यपवादः । शुभ्रस्यापत्यमिति । अस्त्रीत्वा. दप्राप्तौ ढगिति भावः । विकर्णकुषीतकात्काश्यपे । अपत्ये ढगिति । शेष. पूरणम् । काश्यप एवेति नियमार्थ शुभ्रादिभ्यः पृथक् पाठः। भ्रवो वुक् च। चाड्ढगिति । भ्रशब्दादपत्ये ढक् स्यात् प्रकृतेर्तुगागमश्च । बुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । भ्रौवेय इति । भ्रर्नाम काचित् , तस्या अपत्यमिति विग्रहः । ढकि एयादेशे प्रकृतेर्बुकि श्रादिवृद्धिः। वुगभावे तु ऊकारस्य वृद्धौ नाय ढग्ग्रहणमित्याहुः । तस्येदमिति । शिवादित्वादपत्य एवाणित्यन्ये । इतश्च । इतः किम् , दाक्षिः । अनिञः किम् , दाक्षायणिः । यचः किम् , उदधेरपत्यमौदधः । कासिकायां तु 'मरीचौरीचः' इत्युदाहृतम् । तदसत् । बाह्वादित्वेनेञ्प्रवृत्तेः। न चास्य बाह्वादित्वमविवक्षितम् , 'मरीचिशब्दो बाह्वादिषु पठ्यते' इति मिदचोऽन्त्यात्परः इति सूत्रे भाष्ये स्थितत्वात् । आत्रेय इति । परस्वादयमृष्यणं बाधत इति भावः । शुभ्रादिभ्यश्च । चकारस्त्वाकृतिगणत्वद्योतनार्थ इत्याहुः । मृकण्डशब्दोऽत्र पठ्यते । मार्कण्डेयः । शुभ्र, मृकण्ड, अश्व, विमातु, विधवा, गोधा, प्रवाहणेत्यादि । प्राकृतिगणोऽयम् । तेन पाण्डवेय इत्यादि सिद्धम् । इहादन्तेषु इञ् प्राप्तः, विधवाशब्दात्तुदालक्षणो ढक्, चतुष्पाजातिवाचिषु ढञ्, गोधाशब्दाद् द्वचनात्सोऽपि बति, क्वचिदौत्सर्गिकोऽण् प्राप्त इति बोध्यम् । Page #319 -------------------------------------------------------------------------- ________________ ३१६ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारचामादरचो वृद्धिः, पूर्वपदस्य तु वा ढे परे । प्रवाहणण्यापत्यं प्रावाहणेयः, प्रवाहणेयः । ११३० तत्प्रत्ययस्य च । (७-३-२६) प्रत्ययान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्थापत्यं प्रावाहणेयिः, प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः । ११३१ कल्याण्यादीनामिनङ् । (४-१-१२६ ) एषा. आवादेशे भ्रावय इति स्यात् । प्रवाहणस्य ढे। उत्तरपदस्येत्याधेकृतम् । 'तद्धितेष्वचामादेः' इत्यतः अचामादेरित्यनुवर्तते 'मृजेवृद्धिः' इत्यतो वृद्धिरिति 'अर्धात्परिमाणस्य पूर्वस्य तु वा' इत्यतः पूर्वस्य वेति च । तदाह-प्रवाहणशब्दस्यति । प्रावाहणेयः, प्रवाहणेय इति । शुभ्रादित्वाद् ढकि पूर्वपरस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आकारस्य वृद्धेः फलं तु प्रवाहणेयीभार्य इत्यत्र 'वृद्धिनिमित्तस्य च-' इति पुंवत्त्वप्रतिषेध एव । तत्प्रत्ययस्य च । पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते । तच्छब्देन ढप्रत्ययः परामृश्यते । तदाह-ढप्रत्ययान्तस्येति । प्रावाहणेयिः, प्रवाहणेयिरिति । शुभ्र दिढगन्तादि । ननु पूर्वसूत्रेणैव सिद्धत्वादिदं व्यर्थमित्यत आह--बाह्येति । ढक्त ययान्ताद् बहिर्भूतो य इञ् तन्निमित्ता 'तद्धितेष्वचामादेः' इति नित्या आदिवृद्धिः। ढाश्रयेणेति। ढप्रत्यये परे विहितेनेति यावत् । तथाविधेन वृद्धिविकल्पेन पूर्वस्त्रविहितेन बाधितुं न शक्यते, भिन्ननिमित्तकत्वादित्यर्थः। पूर्वसूत्रं हि केवलढप्रत्यया ते ढप्रत्ययं परनिमित्तत्वेनाश्रित्य प्रवृत्तम् , ढनिमित्तामादिवृद्धिं बाधत इति युक्ता , न त्विञ्प्रत्ययनिमित्तामपि नित्यामादिवृद्धिम् । अतस्तस्या अपि बाधनार्थमित सूत्रमित्यर्थः । इदं वृद्धिविधिद्वयमपि 'शुभ्रादिभ्यश्च' इत्यत्रैव वक्तुं युक्तम् । कल्याण्यादीनामिनङ् । प्रवाहणस्य ढे । उत्तरपदस्येत्यधिक्रियते । 'अर्धात्परिमाण-' इत्यतः 'पूर्वस्य तु वा' इति अनुवर्तते तदाह-उत्तरपदस्याचामादेरित्यादि । नित्यमुत्तरपदवृद्धेः फलं तु 'प्रवाहणेयीभार्यः' इत्यत्र 'वृद्धिनिमित्तस्य-' इति पुंवद्भावप्रतिषेधः । तत्प्रत्ययस्य च । 'प्रवाहणस्य' इत्यनुवर्तते, तच्छब्देन ढप्रत्ययः परामृश्यते तदाहढान्तस्येत्यादि । बाह्यतद्धितनिमित्तेति । ढक्प्रत्यया-ताबहिर्भूतो य इञ् तन्निमित्तेत्यर्थः । कल्याण्यादीनाम् । इह परस्त्रीशब्दः पठ्यते । 'परस्य स्त्री परस्त्री' इति षष्ठीसमासः । पारस्त्रैणेयः । परभार्यायामुत्पन्न इत्यर्थः । अनुशतिकादि १'कल्याण्यादीनामिना च' इति क, ख पाठः । क्वचिदष्टाध्यायीपुस्तकष्वपि चकारो दृश्यते, अथापि बहुषु कौमुद्यष्टाध्यायीपुस्तकेष्वदर्शनाद् व्याख्याकृद्भिरव्याख्यातत्वात् , पूर्वसूत्रे चकारदर्शनाचेहोपेक्षितः । Page #320 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१७ मिनडादेशः स्यात् , ढक्च । काल्याणिनेयः, बान्धकिनेयः। ११३२ कुलटाया वा।(४-१-१२७) इनङ्मानं विकल्प्यते । ढक्तु नित्यः पूर्वेणैव । कौलटिनेयः, कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थ कुलान्यटति तस्याः 'छुद्राभ्यो वा' (सू ११३७ ) इति पने टक् । कौलटेरः । ११३३ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च । (७-३-१६) हृदायन्ते पूर्वोत्तरपदयोरचामादरचो वृद्धिर्मिति णिति किति च । सुहृदोऽपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, तेषु भवः साक्तुसैन्धवः । इनकि डकार इत् । काल्याणिनेय इति । कल्याण्या अपत्यमिति विग्रहः । बान्धकिनेय इति । बन्धक्या अपत्यमिति विग्रहः । अत्र गणे स्त्रीप्रत्ययान्ता एव पठ्यन्ते, तेभ्यो ढक सिद्ध एव । इनठेव तु विधीयते । कुलटाया वा इनमात्रमिति । व्याख्यानादिति भावः । पूर्वेणैवेति । 'स्त्रीभ्यो ढक्' इत्यनेनेत्यर्थः । कुलानि गृहाणि अटतीति कुलटा। शकन्ध्वादित्वात्पररूपम् । अत्रेति । 'कुलटाया वा' इति सूत्र इत्यर्थः । पक्षे दगिति । ड्रगपि कदाचिद्भवतीत्यर्थः । कौलटेर इति । कुलटाया कि ढकारस्य एयादेशे 'लोपो व्योः' इति यकारलोप इति भावः । हृद्भग । हृदाद्यन्त इति । हृत् , भग, सिन्धु एतदन्तेषु समासेष्वित्यर्थः । चकारादुत्तरपदस्येत्यनुकृष्यते, तदाह-पूर्वोत्तरपदयोरिति सौहार्द इति । अणि उभयपदादिवृद्धिः । ऋकारस्य तु आकारो रपरः। सौभागिनेय इति । कल्याण्यादित्वाद् ढकि इनङि उभयपदादिवृद्धिरिति भावः। एतत्प्रसङ्गादेव इदं त्वादुभयपदवृद्धिः । बिदादिगणे तु 'परस्त्री परशुं च' इति पठ्यते। प्राप्नोतीति शेषः । तत्र परा चासौ स्त्री चेति कर्मधारयः । परस्त्रिया अपत्यं पारशवः । ब्राह्मणाच्छूद्रायां तेनैवोढायामुत्पन्नः । सा च जात्यन्तरयोगात्परस्त्री। न च परश्वादेशस्य स्थानिवद्भावात्पारशवेऽपि 'अनुशतिकादीनां च' इत्युभयपदवृद्धिः स्यादिति वाच्यम् , सत्यादेशे पूर्वोत्तरपदसंप्रमोहात्तदप्रवृत्तेः । इह गणे स्त्रीप्रत्ययान्तानां ढकः सिद्धत्वादिनर्थ ग्रहणम् । अन्येषां तूभयार्थम् । कल्याणी, सुभगा, दुर्भगा, बन्धकी, परस्त्रीत्यादि । कुलटाया वा । शकन्ध्वादित्वात्पररूपमत एव निपातनाद्वा । सती भितुक्यत्रेति । अत्र इनविधौ । तथा चोक्लममरेण-अथ बान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः । कौलटेरः कौलटेयो भिक्षुकी तु सती यदि । तदा कौलटिनेयः स्यात्कौलटेयोऽपि चात्मजः' इति । केचित्तु क्षुद्राया अपि इनका तृतीयं रूपं कौलटिनेय इतीच्छन्ति । पक्षे ढगिति । ढगपि पक्षे भवत्येवेति भावः । हृद्भग । 'पूर्वपदस्य च' इति चकारेण 'उत्तरपदस्य' इत्यनुकृष्यते तदाह-पूर्वोत्तरपदयोरिति । 'महते Page #321 -------------------------------------------------------------------------- ________________ ३१८ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार११३४ घटकाया ऐरक् । (४-१-१२८) 'चटकादिति वाच्यम्' (वा २६२४) लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकरः । 'स्त्रियामपत्ये लुग्वक्तव्यः' (वा २६२५ )। तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् । ११३५ गोधाया दृक् । (४-१-१२६) गौधरः । शुभ्रादित्वात्पक्ष ढक् । गौधेयः । ११३६ पारगुदीचाम् । (४-१-१३०) गौधारः । रका सिद्धे अाकारोच्चारणमन्यतो विधानार्थम् । जडस्यापत्यं जाडारः। षण्डस्यापत्यं पाण्डारः । ११३७ तुद्राभ्यो वा । (४-१-१३१ ) अङ्गहीनाः शीलहीनाश्च सूत्रमत्रोपन्यस्तम् । 'महते सौभगाय' इत्यत्र तु उद्गात्रादित्वाद्भवे अञ् । उत्तरपदादिवृद्धयभावश्छान्दसः । सिन्धव इति । अश्वा इत्यर्थः । चटकाया ऐरक। चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः। ननु स्त्रीलि निर्देशात् पुंल्लिङ्गान्न स्यादित्यत आह-चटकादिति । सूत्रे चटकाया इत्यपनीय चटकादिति वाच्यमित्यर्थः । तर्हि स्त्रीलिङ्गान्न स्यादत आह-लिङ्गेति । स्त्रियः अपीति । स्त्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति । चटकस्य चटकायाश्चेत्यर्थः । ननु चटकेति कथम् , जातित्वान् ङीष्प्रसङ्गादित्यत आह-अजादित्वादिति । गोधाया दक् । गौधेर इति। गोधाया अपत्यमिति विग्रहः । कि ढकार स्य एयादेशे 'लोपो व्योः-' इति यलोपः, कित्वादादिवृद्धिरिति भावः । श्रारगुदीचाम् । गोधाया आरग्वा स्यादित्यर्थः । अन्यत इति । आकारान्तादन्यद् अदन्तम् , तस्मादपि क्वचिद्विधानार्थमित्यर्थः । जाडार इति । रग्विधौ आकारो श्रूयेतेति भावः । षण्डो नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना । तुद्राभ्यो वा अङ्गहीना इति । चक्षुरादिकतिपयावयवविकला इत्यर्थः । शीलहीना इति । स वृत्तहीना इत्यर्थः । सौभगाय' इत्यत्र तूगात्रादित्वादञ् छान्दसत्वान्नोत्तरपदवृद्धिरित्याशयः । चटकाया ऐरक । 'चटकायाः' इति स्त्रीलिङ्गनिर्देशात्पुंसि न स्यादित्याशङ्कशाह-चटकस्येति वाच्यमिति। एवं च 'चटकादैरक्' इत्येव सांप्रदायिकः पाठ इति न्यासकृदुक्तिर्वार्तिकविरोधादुपेक्ष्या। तयोरेवेति । तत्र टाबन्तात्तद्धितलुकि 'लुक्तद्धितलुकि' इति टापोलुकि जातिलक्षणङीषं बाधित्वा अजादिलक्षणष्टाबिति भावः । गोधा। गौधेर इति । ढस्य एयादेशे कृते 'लोपो व्योः-' इति यलोपः । पारगुदीचाम् । वचनादेव द्रग्ढगारकां पर्याये सिद्धे उदीचांग्रहणं पूजार्थम् । 'अरक्' इति न सूत्रितम् 'यस्येति च' इत्याकारलोपे 'गौधरः' इत्यनिष्टप्रसङ्गात् । अन्यत इति । अनाकारान्ताल्लक्ष्यानुरोधेन कुतश्चिदित्यर्थः। पण्डस्येति । पण्डो नपुंसकः, तस्थापत्यं तु कृत्रिमादि १ 'पण्ड' इति बहुत्र पाठ Page #322 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१६ तुद्राः, ताभ्यो वा ढ़क् । पक्षे ढक् । काणेरः, काणेयः । दासेरः, दासेयः । ११३८ पितृष्वसुश्छण् । (४-१-१३२) अणोऽपवादः । पैतृष्वस्त्रीयः । ११३६ ढकि लोपः । (४-१-१३३) पितृष्वसुरन्त्यस्य लोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः । ११४० मातृष्वसुश्च । (४-१-१३४) पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वतीयः, मातृष्वसेयः । ११४१ चतुष्पाद्भयो ढञ् । (४-१-१३५) ११४२ ढे लोपोऽकव्वाः । (६-४-१४७) कभिन्नस्योवर्णान्तस्य भस्य लोपः स्याद् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाजातिविशेषे । ११४३ गृष्ट्यादिभ्यश्च । (४-१-१३६) एभ्यो ढञ् स्यात् । अण्ढकोरपवादः । गार्टेयः । मित्रयोरपत्यम्, ऋष्यणि प्राप्ते यथेष्ट पुरुषसंचारिण्य इति यावत् । 'अनियतपुंस्का अङ्गहीना वा चुदाः, इति भाष्यम् । पितृष्वसुश्छण् । पैतृष्वतीय इति पितृध्वसुरपत्यमिति विग्रहः । छस्य ईयादेशे श्रादिवृद्धिः । सकाराहकारस्य यण् । ढकि लोपः। पितृष्वसुरित्यनुवर्तते । अलोऽन्त्यपरिभाषया अन्त्यस्य लोपः । तदाह-पितृष्वसुरन्त्यस्य लोप इति । ननु पितृष्वसुरपत्ये ढक एव दुर्लभत्वात्कथं तस्मिन् परे लोपविधिरित्यत आह-अत एवेति । शुभ्रादित्वाद् ढगित्यन्ये । पैतृष्वसेय इति । ढकि अन्त्यस्य ऋकारस्य लोपे आदिवृद्धिः । 'मातृपितृभ्यां स्वसा' इति षत्वम् । मातृप्वसुश्च । चकाराच्छण ढकि लोपश्चानुकृष्यते । तदाह-पितृष्वसुर्यदुक्क्रमिति । चतुष्पाद्भयो ढञ् । चतुष्पादः पशवः, तद्विशेषवाचिभ्यः अपत्ये ढजित्यर्थः । ढे लोपोऽकद्रवाः । भस्येत्यधिकृतम् ‘ोर्गुणः' इत्यत ओरिति षष्ठ्यन्तेनानुवृत्तेन विशेष्यते। तदन्तविधिः । तदाह-कद्रभिन्नस्येति । 'अलोऽन्त्यस्य' इत्यन्त्यलोपः। ओर्गुणापवादः। कामण्डलेय इति । कमण्डलोरपत्यमिति विग्रहः । ढकि एयादेशे आदिवृद्धौ उकारलोपः । ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याचेतनस्य कथमपत्ययोगः, तदाह-कमण्डलुशब्दश्चतुष्पाज्जातिविशेष इति । अत एव 'कमण्डलुपदे श्रादधीत' इति बढचब्राह्मणं सगच्छत इति भावः । गृष्ट्यादिभ्यश्च । अगढकोरिति । गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्रयु-एते गृष्ट्यादयः । अत्र अन्त्ययोः ऋषित्वादण प्राप्तः। अन्येभ्यस्तु 'इतश्चानिञः' इति ढक् प्राप्त इति विवेकः । सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गौरव । ततश्च 'चतुष्पाभ्यः ' इत्यनेन न रिति । तुद्राभ्यः । अर्थगतं स्त्रीत्वं शब्दे आरोग्य स्त्रीलिङ्गनिर्देशः । गृष्ट्यादिभ्यश्च । गृष्टि, हृष्टि, हलि, बलि, कुदि, अजगस्ति, मित्रयु । अण्ढकोरपवाद इति । इहान्त्ययोर्द्धयोऋषित्वाद प्राप्तः, अन्येभ्यस्तु 'इतश्चानिञः' इति Page #323 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार । ३२० ] ढञ् । ११४४ केकयमित्रयुप्रलयानां यादेरियः । ( ७-३-२ ) एषां यकारादेरियादेशः स्याद् ञिति णिति किति च तडिते परे । इति इयादेशे प्राप्ते । ११४५ दाण्डिनायन हास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसार वैदवाक मैत्रेयहिरण्मयानि । ( ६-४- १७४ ) एतानि प्राप्तिः । केकयमित्रयु । ' तद्धितेष्वचामादेः' इत्यतस्तद्धितग्रह रामनुवर्तते । 'अचोञ्णिति' 'किति च' इत्यतो णितीति, कितीति च तदाह – रषामिति । श्रादेशे यकारादकार उच्चारणार्थः । केकयस्यापत्यं स्त्री कैकेयी । 'जनपदशब्दात् -' इत्यञ् । मैत्रेयिकया श्लाघते, मित्रयोर्भाव इत्यर्थं 'गोत्रचरणात् -' इति वुञ् । प्रलयादागतं प्रालेयम्, अण् अत्र सर्वत्र यादेरियादेश इत्युदाहरणानि । प्राप्त इति । मित्रयोरपत्ये ढञि एयादेशे मित्रयु एय इति स्थिते ओर्गुणं बाधित्वा यु इत्यस्य इयादेशे सति श्राद्गुणे मैत्रेयेय इति प्राप्ते सतीत्यर्थः । दाण्डिनायन । एतानि निपात्यन्त इति । दण्डिनो हस्तिनश्चापत्यं दाण्डिनायनः हास्तिनायनः । नडादि - त्वात्फक् । निपातनाट्टिलोपो न । अथर्वणा प्रोक्को ग्रन्थ उपचारादथर्वा, तमधीते आथर्वणिकः । वसन्तादित्वात् ठक् । निपातनान्न टिलोपः । जिल्लाशिनोऽपत्यं जैह्माशिनेयः। शुभ्रादित्वाड्ढक् । निपातनान्न टिलोपः । वाशिनोऽपत्यं वाशिनायनिः । 'उदीचां वृद्धात् -' इति फिञ् । निपातनान्न टिलोपः । भ्रणहन धीवन एतयोर्भावे ष्यञ्, नकारस्य तकारश्च निपात्यते । नच 'हनस्तोऽचिराणलो:' इत्यनेनैव तकारः सिद्ध इति शङ्कथम्, 'धातोः कार्यमुच्यमानं तत्प्रत्यये भवति' इति परिभाषया 'हनस्तः-' इति तत्वस्य धातुविहितप्रत्यये पर एव प्रवृत्तेः । इदमेव तकारनिपातनमस्यां परिभाषायां ज्ञापकमिति 'मृजेर्वृद्धि:' इत्यत्र भाष्ये स्पष्टम् । तेन वार्त्रघ्नमित्यत्र तत्वं न । सरय्वां भवं सारवम् उदकम् । अणि यू इत्यस्य व इत्यादेशो निपात्यते । इक्ष्वाकोरपत्यमैक्ष्वाकः । जनपदशब्दात्क्षत्रियादञ् । उकारलोपो निपात्यते । बहुत्वे तु तद्राजत्वाल्लुक् । इक्ष्वाकवः । इक्ष्वाकुषु जनपदेषु भवोऽप्यैदवाकः । कोपधादण् । उकारलोपश्च । सूत्रे ऐक्ष्वाक्त्यत्र अणन्तयोर्ग्रहणम् । बहुत्वे तद्राजत्वादजो लुक् अणस्तु नेति विशेषः । हिरण्यस्य विकारो हिरण्मयः । मयटि एकाराद्यकाराकारविवेकः । गाष्य इति । सत्कृत्प्रसूता सर्वापि गृष्टिः, न तु गौरव । श्रतोऽत्र न 'चतुष्पाद्भ्यः-' इत्यनेन ढसिद्धिः । केकय । केकयस्यापत्यं स्त्री कैकेयी । 'जनपदशब्दात्क्षत्रियादञ्' । मैत्रेयिकया श्लाध्यते । मित्रयूणां भावेनेत्यर्थः । ' गोत्रचरणाच्छ्लाघात्याकार-' इति वुञ् । तत्र हि लौकिकं गोत्रं गृह्यते, लोके च 'ऋषिशब्दो गोत्रमिति प्रसिद्धम्' इति काशिका । एतच्च यदा मित्रयुशब्दोऽभेदोपचारात्तदपत्यसंताने Page #324 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३२१ निपात्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयी । ११४६ यस्कादिभ्यो गोत्रे । (२-४-६३) एभ्योऽपत्यप्रत्ययस्य लुक्स्यानरकृते बहुत्वे, न तु स्त्रियाम् । मित्रयोर्लोपः । इति युलोप इति । मित्रयु एय इति स्थिते यु इत्यस्य लोपो निपातनादिति भावः । मैत्रेयीति 'टिड्ढाणञ्-' इति छीप् । यस्कादिभ्यो गोत्रे । नेदं सूत्रमपत्याधिकारस्थम् , किंतु द्वैतीयीकम् । अतो गोत्रशब्देन प्रवराध्यायप्रसिद्धमेव गोत्रमिह विवक्षितम् , 'अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते' इति 'यूनि लुक्' 'स्त्रीपुंसाभ्याम्-'' इत्यादिसूत्रभाष्ये सिद्धान्तितत्वात् । ‘ण्यक्षस्त्रियाषे-' इत्यतो लुगित्यनुवर्तते । 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रं तद्राजवर्जमनुवर्तते । वर्तते तदा बोध्यम्, अन्यथा 'मित्रयूनाम्' इति बहुवचनान्तेन विग्रहो न स्यात् । प्रलयादागतं प्रालेयम् । इयादेशो वृद्धिं न बाधते 'अचामादरचो वृद्धिः' 'यादेरियादेशः' इति भिन्नविषयत्वात्, अङ्गं तूभयोर्विशेषणं न तु कार्याति हरदत्तः । आदिवृद्धेरपीदमेव सूर्व विधायकमस्तु । किमनेन विषयभेदविचारेणेत्यन्ये । दाण्डिनायन । निपात्यन्त इति । दण्डिन् , हस्तिन् , अाभ्यां नडादित्वात्फक्, निपातनाडिलोपाभावः । वसन्तादिषु 'अथर्वन्' इति पठ्यते । 'अथर्वणा प्रोक्लो ग्रन्थ उपचारादथर्वा, तमधीते पाथर्वणिकः' । शुभ्रादिषु 'जिह्माशिन्' इति पठ्यते तस्यापत्यं जैमाशिनेयः । वाश्निोऽपत्यं वाशिनायनिः । 'उदीचां वृद्धात्-' इति फिञ् । भ्रूणहन्, धीवन् , अनयोः ष्यजि तकारोऽन्तादेशो निपात्यते । भ्रणनो भावो भ्रौणहत्यम् । धैवत्यम् । 'हनस्तोऽचिएणलोः' इत्यनेनैव हन्तेस्तत्त्व सिद्धे तकारनिपातनं ज्ञापयति 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्' इति । तेन वाघ्नमित्यत्र तत्त्वं न। नन्वेवं 'प्रसृड्भ्याम्' इत्यादौ 'अनुदात्तस्य च-' इत्यम् दुर्वारः स्यात् । अम्विधौ धातोः स्वरूपग्रहणाभावात् । अत्राहुः-'मृजेर्वृद्धिः' इति सूत्रस्थभाष्यपर्यालोचनया 'धातोः कार्यमुच्यमानं तत्प्रत्यये भवति' इति ज्ञापनार्थ तकार. निपातनमिति व्याख्येयम् । तेन न कोऽपि दोष इति । सरयू इत्यस्याणि परे य्वादेर्वो निपात्यते । सरय्वां भवं सारवमुदकम् । इक्ष्वाकोरपत्यं ऐक्ष्वाकः । 'जनपदशब्दाक्षत्रियाद' । उलोपो निपातनात् । इक्ष्वाकुषु जनपदेषु भवः 'कोपधादण' ऐक्ष्वाकः। अत्राप्युलोपो निपातनादेव । अनणन्तयोर्द्वयोरप्येकश्रुत्या पाठात् । बहुत्वे तु 'अञस्तद्राजत्वाल्लुक्' 'अणस्तु न' इति विशेषः । तथा च रघुः 'इक्ष्वाकूणां दुरापेऽर्थे' इति । मुरारिस्त्वाह 'ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्वस्माकमद्याशिषः' इति । हिरण्यस्य विकारो हिरण्मयः। मयटि यादेर्लोपोऽत्र निपात्यते । यस्कादिभ्यो। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यत इत्याशयेनाह-अपत्यप्रत्ययस्येति । Page #325 -------------------------------------------------------------------------- ________________ ३२२ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार यवः।११४७ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च । (२-४-६५) एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तस्कृते बहुत्वे, न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः । ११४८ बह्वच इञः प्राच्यभरतेषु । (२-४-६६) बह्वचः परो य इञ् प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पन्नागाराः । युधिष्ठिराः। ११४६ न गोपवनादिभ्यः। (२-४-६७) एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाधन्तर्गणोऽयम् । गपवनाः । शैग्रवाः। ११५० तिककितवादिभ्यो द्वन्द्वे । (२-४-६८) एभ्यो गोत्रप्रत्ययस्य बहुरवे लुक्स्याद् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च, 'तिकादिभ्यः फिज्' (सू ११७८ ) तस्य लुक्, तिककितवाः । ११५१ उपकादिभ्योऽन्यतरस्यामतदाह-एभ्योऽपत्यप्रत्ययस्येति । मित्रयव इति । गित्रयोरपत्यानि पुमांस इत्यर्थः । गृष्टयादिढको लुकि आदिवृद्धिनिवृत्तिः। अत्रिभृगु पूर्वसूत्राद्गोत्र इति, तत्र यदनुवृत्तं तच्च सर्वमिहानुवर्तते, तदाह-एभ्यो गोत्रेति। अत्रेः, भृगोः, कुत्सस्य, वसिष्ठस्य, गोतमस्य, अङ्गिरसश्च अपत्यानि पुमांस इति विग्रहाः । तत्र अत्रेः 'इतश्चानिञः' इति ढकोऽनेन लुक् । इतरेभ्यस्तु ऋष्यण इति बोध्यम् । लुकि आदिवृद्धेर्निवृत्तिः । बह्वच इञः। प्राच्ये उदाहरति-पन्नागारा इति । पन्नागारस्यापत्यानीति विग्रहः । अत इलो लुक् । भरतगोत्रे उदाहरति-युधिष्ठिरा इति । युधिष्ठिरस्यापत्यानीति विग्रहः । कुरुलक्षणं ण्यं बाधित्वा बाह्लादित्वाद् इज, तस्य लुक् । अबहुत्वे तु यौधिष्ठिरिः । न गोपवनादिभ्यः । बिदाद्यन्तर्गणोऽयमिति । ततश्च अनः 'योश्च' इति प्राप्तस्य लुङ् नेति भावः । तिककितव । तैकायनयश्च कैतवायनयश्चेति । द्वन्द्वविग्रहप्रदर्शनम् । तिककितवा इति । द्वन्द्वे ‘ण्यक्षत्रियार्ष-' इत्यतो लुगित्यनुवर्तते, 'तद्राजस्य-' इति सूत्राद् ‘बहुषु तेनैवास्त्रियाम्' इति च, तदाह-लुक् स्यादित्यादि । तत्कृते इति किम् , प्रिययास्काः । बहुत्वे किम् , यास्कः । शिवायण । यस्क, लुह्य, द्रुह्य, कर्णाटक, वस्ति, कुद्रि, मित्रयु, इत्यादि । अत्रि । गोत्रप्रत्ययस्येति । अत्रिशब्दाद् 'इतवानिञः' इति ढक् । इतरेभ्यस्तु ऋष्यणिति बोध्यम् । भरतगोत्रे उदाहरति-युधिष्ठिरा इति । बहुष्वेव लुक् । नेह यौधिष्ठिरिः । कुरुलक्षणं ण्यं बाधि वा बाह्वादित्वादि । बिदाद्यन्तर्गणोऽयमिति । 'योश्च' इति लुगत्र प्राप्नोतीति भावः । तिककितवादिभ्यो । यद्यपि द्वन्द्वरूपाण्येव गणे पठ्यन्ते, तिकादीनि पूर्वपदानि, कितवादीन्युत्तरपदानि, तथापि 'तिकादिभ्यः' इत्युक्ते पूर्वपदेष्वेव लुगाशङ्कयेत, इष्यते तूत्तरपदेष्वपि, अतः 'तिककितवादिभ्यः' इत्युक्तम् । कितकितवा इति । अन्येऽ Page #326 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३२३ द्वन्द्वे । (२-४-६६ ) एभ्यो गोत्रप्रत्ययस्य बहुस्वे लुग्वा स्याद् द्वन्द्वे चाद्वन्द्वे च । [ौपंकायनाश्च लामकायनाच, 'नडादिभ्यः फक्' (सू १९०१), तस्य लुक्, उपकलमकाः, औपकायनलामकायनाः। भ्राष्ट्रककपिष्ठलाः, भ्राष्ट्रकिकापिष्ठलयः । उपकाः, औपकायनाः । लमकाः, लामकायनाः ।] ११५२ आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् । (२-४-७०) एतयोरवयवस्य गोत्रप्रत्ययस्यायो यजश्च बहुषु लुक्स्यात् , अवशिष्टस्य प्रकृतिभागस्य यथासंख्यम् अगस्ति कुण्डिनच् इति सप्तमीनिर्देशात् पदद्वयादपि फिलो लुक् । उपकादिभ्यो । चकारमध्याहृत्याहद्वन्द्वे चेति । एवं च अस्वरितत्वादेव पूर्वसूत्राद् द्वन्द्वग्रहणानुवृत्त्यैव सिद्धे अद्वन्द्वग्रहणं स्पष्टार्थमेव । नच द्वन्द्वे नेति निषेध एव किं न स्यादिति वाच्यम् , द्वन्द्वानामपि गणे पाठात् । तदेतत्सूचयन् द्वन्द्वमुदाहरति-भ्राष्टककपिष्ठला इति । इजो वा लुक् । अद्वन्द्वे उदाहरति-लमकाः, लामकायना इति । अश्वादिप्यत्रोदाहर्तव्याः-औपकायनाश्च लामकायनाच, 'नडादिभ्यः फक्' तस्य लुक् । उपकलमकाः । भ्राष्ट्र कयश्च कापिष्ठलयश्च 'श्रत इञ्' तस्य लुक् भ्राष्ट्रककपिष्ठलाः। कार्णाजिनयश्च कार्णसुन्दरयश्च 'अत इस' तस्य लुक् कृष्णाजिनकृष्णसुन्दरा इत्यादि। उपकादिभ्यो । श्रद्वन्द्वग्रहणं 'द्वन्द्वे' इत्येतनाधिक्रियत इति स्फुटीकरणार्थम् । उपकादीनां मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते 'उपकलमकाः' इत्यादयस्तेषां पूर्वेण नित्यमेव लुक् , अद्वन्द्व त्वनेन विकल्प इति ज्ञेयम् । भाष्ये 'भ्राष्ट्रकिकापिष्ठलयः' इत्युदाहरणात्तिककितवादिष्वस्य पाठोऽनार्ष इति कैयटः । तेनात्र द्वन्द्वेऽपि विकल्प एवोचित इत्याशयेनोदाहरति-भ्राष्ट्रककपिष्ठला इत्यादि । तिककितवादिषु पठितानामनेनाद्वन्द्व एव विकल्प इत्याशयेनोदहरति-लमकाः । लामकायना इति । एवमन्येऽप्युदाहर्तव्याः । उपकाः औपकायनाः, भ्राष्ट्रकाः भ्राष्ट्रकायना इत्यादि । आगस्त्य । अगस्त्यशब्दादृष्यण, कुण्डिनीशब्दात्तु गर्गाद्यञ् । ननु कुण्डिनीशब्दस्य यत्रि 'भस्याढे-' इति पुंवद्भावे 'नस्तद्धिते' इति टिलोपः प्राप्नोति । न च 'संयोगादिश्च' इति प्रकृतिभावः शङ्कयः, 'अणि' इति तत्रानुवर्तनात् । मैवम् , अस्मादेव निपातनात् तस्याप्रवृत्तेः कौण्डिन्यः सिध्यति । चकारस्त्वन्तोदात्तार्थः । मध्योदात्तः कुण्डिनीशब्दः । कुण्डमस्त्यस्या इति मत्वर्थीयस्येनेरुदात्तत्वादादेशस्यापि कुण्डिनशब्दस्यान्तरतम्यान्मध्योदात्तत्वात् । अवशिष्टस्य प्रकृतिभाग १ बन्धनीधृतः पाठो बालमनोरमायां न व्याख्यातः, अथापि पुस्तकान्तर संवादाय धृतः । २ नायं मूलपाठो बालमनोरमासंमतः। कौमुदीपुस्तकान्तरेष्वपि क्वचिन्न दृश्यते । क्वचिच्च 'उपकाः, औपकाः, लमकाः, लामकाः' इत्येव दृश्यते। Page #327 -------------------------------------------------------------------------- ________________ ३२४ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार एतावादेशौ स्वः । अगस्तयः । कुण्डिनाः । ११५३ राजश्वशुराद्यत् । (४-४-१३७) 'राज्ञो जातावेवेति वाज्यम्' (वा २६२७) । ११५४ ये चाभावकर्मणोः । (६-४-१६८) यादौ तद्धिते परेऽन्प्रकृत्या स्थान तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पनो राजनः । ११५५ अन् । (६-४-१६७) अणि अन् प्रकृत्या स्यात् । इति टिलोपो न । अभावकर्मणोः किम्-राज्ञः कर्म भावो वा राज्यम् । १९५६ संयोगादिश्च । (६-४-१६६) इन् प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः । फलो लुग्विकल्पः । उपका औपकायना इत्याद्यप्युदाहार्यम् । आगस्त्य । अगस्तयः। कुण्डिना इति । अगस्त्यशब्दादृष्यणो लुक् प्रकृतेरगस्त्यादेशः। कौण्डिन्यशब्दो गर्गादियअन्तः । बहुत्वे यो लुक् । प्रकृतेः कुण्डिनादेशश्च । 'यस्कादिभ्यो गोत्रे' इत्यारभ्य 'आगस्त्यकौण्डिन्ययोः-' इत्यन् द्वैतीयीकम् । अथ प्रकृतं चातुर्थिकम् । राजश्वशुराद्यत् । राजन्शब्दात् श्वशुरशब्दाचापत्ये यत्प्रत्ययः स्यादित्यर्थः । क्रमेण अणिओरपवादः। राज्ञो जातावेवेति । जातिः समुदायवाच्या चेदित्यर्थः । ये चाभावकर्मणोः । 'अन्' इति पूर्वसूत्रमनुवर्तते। 'प्रकृत्यैकाच्' इत्यतः प्रकृत्येति । अङ्गाधिकारलब्धप्रत्ययो यकारेण विशिष्यते । तदादिविधिः। तदाह-यादाविति । राजन्य इति । क्षत्रियात् क्षत्रियायां स्वभार्यायामुत्पन्नो राजन्य इति धर्मशास्त्रेषु प्रसिद्धम् । यत्प्रत्यये प्रकृतिभावान टिलोपः । शूद्रादाविति। क्षत्रियात् शूदायां वा तदन्यस्यां वा अनूढायाम् उत्पन्न इत्यर्थः। राजन इति । अणि रूपम् । तत्र 'नस्तद्धिते' इति टिलोपे प्राप्ते । अन् । 'इनण्यनपत्ये' इत्यतः अणीत्यनुवर्तते, 'प्रकृत्यैकाच्' इत्यतः प्रकृत्येति च, तदाह-प्रणीति । राज्यमिति । 'गुणवचनब्राह्मणादिभ्यः' इति ध्यञ् । टिलोपः । संयोगादिश्च । इन् प्रकृत्येति । 'इनण्यनपत्ये' इत्यतः 'प्रकृत्यैकाच्' इन्यतश्च तदनुवृत्तेरिति भावः । चक्रिणोऽपत्यं चाक्रिण इति । 'इनण्यनपत्ये' इत्यत्रानपत्ये इति स्येति । न च प्रत्ययविशिष्टस्यादेशमानं विधीयतां किं लुग्विधानेनेति वाच्यम् , अगस्तीयाश्छात्रा इत्यनापत्तेः, लुकि हि सति 'गोत्रेऽलुगचि' इति लुकि प्रतिषिद्धे वृद्धत्वाच्छः सिध्यति । प्रत्ययविशिष्टस्यादेशविधौ तु वृद्धत्वापगमे शैषिकोऽणेव स्यात् । कौण्डिनाश्छात्रा इति तूभयथापि सिद्ध्यत्येव । छापवादस्य 'कण्वादिभ्यो गोत्रे' इत्यणप्रत्ययस्य प्रवृत्त्या तत्र विशेषाभावात्।राजश्वशुराद्यत् । क्रमेणाणिजोरपवादः । जातावेवेति । प्रकृतिप्रत्ययसमुदायेन जातिश्चेद्वाच्यत्यर्थः । प्रत्ययस्त्वपत्य एव । एवं च पङ्कजादिवद्योगरूढ इति फलितोऽर्थः। अन् टिलोपोनेति । 'नस्तद्धिते' Page #328 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३२५ ११५७ न मपूर्वोऽपत्येऽवर्मणः । (६-४-१७०) मपूर्वोऽन् प्रकृत्या न स्यादपत्येऽणि । भादसामः । मपूर्वः किम्-सौत्वनः । अपत्ये किम्-चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम्-चक्रवर्मणोऽपत्यं चाक्रवर्मणः । 'वा हितनान्न इति वाच्यम्' (वा ४२११)। हितनाम्नोऽपत्यं हैतनामः, हैतनामनः । ११५८ ब्राह्मो जातौ । (६-४-१७१) योगविभागोऽत्र कर्तव्यः । ब्राझ इति निपात्यतेऽनपत्येऽणि । ब्राझं हविः । ततो जातौ । अपत्ये जातावणि पर्युदासादप्राप्तिः । न मपूर्वोऽपत्येऽवर्मणः। भाद्रसाम इति । भद्रसाम्नोऽपत्यमिति विग्रहः । अणि टिलोपः । अनो मपूर्वत्वान प्रकृतिभावः । सौत्वन इति । सुत्वनोऽपत्यमिति विग्रहः । मपूर्वत्वाभावात्प्रकृतिभावः । चार्मण इति । 'परिवृतो रथः' इत्यणि टिलोपः। अणः आपत्यत्वाभावात्प्रकृतिभावः। वा हितनाम्न इति । 'न मपूर्वः' इति प्रतिषेध इति शेषः। ब्राह्मौ जाती। ब्रह्मशब्दादपत्ये अणि 'न मपूर्वोऽपत्ये-' इति प्रकृतिभावनिषेधो जातावेवेत्यर्थः फलति । तथा सति ब्रह्मणोऽपत्यं ब्राह्मण इति जातिविशेषे न सिध्यत् , 'नमपूर्वः-' इति प्रकृतिभावनिषेधे सति 'नस्तद्धिते' इति टिलोपस्य दुर्वारत्वात् । किंच ब्रह्मा देवता अस्य ब्राह्मं हविरिति न सिध्येत् , 'न मपूर्व-' इति प्रकृतिभावनिषेधस्य जातावेवेति नियमितत्वेन 'अन्' इति प्रकृतिभावाट्टिलोपासंभवात् , अत आह-योगविभाग इति । 'ब्राह्मः' इत्येकं सूत्रम् । तत्र 'इनण्यनपत्ये' इत्यतः अनपत्येऽणीत्यनुवर्तते, तदाह-ब्राहा इति निपात्यते अनपत्येऽणीति । तथाच ब्रह्मन्शब्दादनपत्येऽणि अनिति प्रकृतिभावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति--ब्राह्मं हविरिति । ब्रह्मा देवता अस्येति विग्रहः । ‘सास्य देवता' इत्यण् । ततो जाताविति । ततो ब्राह्म इति प्राप्तष्टिलोपो नेत्यर्थः । ब्राह्मो जातौ । योगविभागोऽत्रेति । एकयोगत्वे त्वारम्भसामर्थ्यादनपत्ये जातो 'ब्राह्मी' इत्यत्र प्राप्तटिलोपसिद्धावपि ब्राह्मण इति न सिद्ध्येत् । 'अन्' इति प्रकृतिभावस्य 'न मपूर्वोऽपत्ये-' इति निषेधाडिलोपस्य दुर्वारत्वात् । किंच जाती ब्राह्मणमित्यादि न सिचेत्, 'अन्' इति प्रकृतिभावस्य दुरित्वादिति भावः । ब्राह्म इति । इह 'अपत्ये' इति न सम्बध्यते । अन्यथा निपातनमिदं व्यर्थ स्यात् 'न मपूर्व-' इति प्रकृतिभावनिषेधाडिलोपसिद्धरित्याशयेनाह–अनपत्येऽणीति । ब्राह्ममिति । 'ब्राह्मो मुहूर्तः, ब्राह्मः स्थालीपाकः' इत्याद्यप्युदाहरणम् । नन्वेवमपि ब्राह्मणो न सिध्यति 'न मपूर्वः' इति प्रकृतिभावनिषेधादपत्येऽणि 'नस्तद्धिते' इति टिलोपप्रवृत्तेरत आह-जाताविति । इह १ 'ब्रह्म' इति क. ख.। Page #329 -------------------------------------------------------------------------- ________________ ३२६ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारब्रह्मणष्टिलोपो न स्यात् । ब्रह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम्-प्राझी ओषधिः । ११५६ औक्षमनपत्ये । (६-४-१७३) अणि टिलोपो निपात्यते । और पदम् । अनपत्ये किम्- उषणोऽपत्यमौषणः। ११६० षपूर्वहन्धृतराज्ञामणि (६-४-१३५ ) षपूर्वो योऽन् तस्य हनादेश्च भस्थातो लोपोऽणि । औषणः । ताणः । श्रौणनः । धृतराज्ञोऽपत्यं धार्तराज्ञः । षपूर्व इति किम्-सानोऽपत्यं सामनः । अणि किम्-ताक्षण्यः । ११६१ क्षत्त्राद्धः । (४-४-१३८) क्षस्त्रियः । जातौ इत्येव, क्षास्त्रिरन्यः । ११६२ कुलात्खः । (४-४-१३६ ) कुनीनः । तदन्तादपि, उत्तरसूत्रे अपूर्वपदाद् इति लिङ्गात् । बाढयकुलीनः । इति सूत्रात्पृथगेव 'जातौ' इति सूत्रं कर्तव्यमित्यर्थः । इह 'न मपूर्वोऽपत्येऽवर्मणः' इति सूत्रादपये इति 'प्रकृत्यैकाच्' इत्यतः प्रकृत्येति चानुवर्तते, तदाह-- अपत्ये जाताविति । ब्राह्मण इति । ब्रह्मणः सकाशात्सजातीयायां भार्यायामुत्पन्न इत्यर्थः । योगविभागस्त्वयं भाष्ये स्पष्टः। औक्षम् । शेषपूरणेन सूत्रं व्याचष्टे-अणि टिलोपो निपात्यत इति । 'अन्' इति प्रकृतिभावापवाद इति भावः । औक्षमिति । टिलोपे रूपम् । औक्षण इति । अपत्येऽणि टिलोपा. भावे अल्लोप इति भावः । ननु प्रकृतिभावादल्लोपो न स्यादन आह-पपूर्वहन् । 'अल्लोपोऽनः' इत्यनुवर्तते । भस्यत्यधिकृतम् । तदाह-षपूर्व इति । ताक्षण इति । 'तक्ष्णोऽण उपसंख्यानम्' इति कारिलक्षणण्यस्यापवादोऽण् । ताक्षरय इति। 'सेनान्तलक्षणकारिभ्यश्च' इति एयः। क्षत्राद्धः। अपत्ये इति शेषः। क्षत्रिय इति । घस्य इयादेशे 'यस्येति च' इत्यकारलोपः । क्षात्रिरन्य इति । क्षत्राच्छूद्रादावुत्पन्न इत्यर्थः । कुलात्खः । अपत्ये इति शेषः । कुलीन इति । खस्य ईनादेशः । ननु 'समासप्रत्ययविधौ-' इति तदन्तविधिनिषेधाद् श्राध्यकुलीन इति कथमि. त्यत आह-तदन्तादपीति।आत्यकुलीन इति । आब्यकुलशब्दात्कर्मधारमण्डूकप्लुत्या 'अपत्ये' इत्यनुवर्तते, 'न' इति च तदेतदाह-अपत्ये जातावित्यादिना । अयमत्रार्थः-'अपत्ये जातौ ब्राह्मणशब्दे टिलोपो न भवति' इति । केचिदिह 'अजातौ' इति छित्त्वा 'जातौ न भवति' इति व्याचक्षते । तस्मिंस्तु व्याख्याने 'न' इति नानुवर्तनीयम् । जातौ किम् , ब्राह्मो नारदः । तादण इति । शिवादित्वात् , 'तस्येदम्' इति वाण् । ताक्षण्य इति । कारिलक्षणो ण्यः । कुलात्खः । केवलात्कुलशब्दाद् 'अपूर्वपदात्-' इत्यादिना विशेषविहिताभ्यामपि। यड्ढकञ्भ्यां खो न बाध्यते, तद्विधावन्यतरस्यांग्रहणादित्याशयेनाह-कुलीन इति । लिङ्गादिति । अन्यथा 'ग्रहणवता-' इति तदन्तविधिप्रतिषेधादपूर्वपदग्रहणं व्यर्थ स्यादिति भावः । Page #330 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३२७ ११६३ अपूर्वपदादन्यतरस्यां यड्ढको । (४-४-१४०) कुलाद् इत्येव । पक्षे खः। कुल्यः, कौलेयकः, कुलीनः । पदग्रहणं किम्-बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः । ११६४ महाकुलादञ्खो । (४-४-१४१) अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुलः, माहाकुलीनः, महाकुलीनः । ११६५ दुष्कुलाड्ढक् । (४-१-१४२) पूर्ववपक्षे खः । दौष्कुलयः, दुष्कुलीनः । ११६६ स्वसुश्छः। (४-१-१४३) वस्त्रीयः । ११६७ भ्रातुय॑श्च । (४-१-१४४) चाच्छः । अणोऽपवादः । भ्रातृव्यः, भ्रात्रीयः । ११६८ व्यन्सपत्ने । (४-१-१४५) भ्रातुय॑न् स्यादपत्ये, प्रकृतिप्रत्ययसमु. दायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । 'पाप्मना भ्रातृव्येण' इति तूपचारात् । यात्खः । कुल ाढयत्वप्रतीतिरत्र फलम् । कुलीनशब्देन कर्मधारये तु तदप्रतीतिरिति भेदः । अपूर्वपदादन्यतरस्याम् । कुलादित्येवेति । पूर्वपदरहितात् कुलादपत्ये यड्ढको वा स्त इत्यर्थः । पक्षे ख इति । यड्ढकोरभावपक्ष इत्यर्थः। बहुकुल्य इति । 'विभाषा सुपः-' इति बहुच्प्रत्ययो न पदम् । अतः पूर्वपदरहितत्वाद् यड्ढकञ्खा भवन्त्येवेत्यर्थः । महाकुलादञ्खो । अनुवर्तत इति । अन्यथा महाविभाषाधिकारे अपवादेन मुक्ते उत्सर्गस्याप्रवृत्तेः 'पीलाया वा इत्यत्रोक्तत्वात्पूर्वसूत्रोक्तः खो न स्यादिति भावः । तदाह-पक्षे ख इति । तथा सति आदिवृद्धिर्नेति भावः । दुष्कुलाढक् । पूर्ववदिति । अन्यतरस्यांग्रहणानुवृत्तेरिति भावः । स्वसुश्छः । अपत्य इति शेषः । स्वस्नीय इति । छस्य ईयादेशः, ऋकारस्य यण् । भ्रातुर्व्यञ्च । तकारः 'तित्स्वरितम्' इति स्वरार्थ इति बोध्यम् । व्यन् सपत्ने । अपत्य इति । प्रत्ययेनापत्यमुच्यते । भ्रतृशब्दार्थस्तु न विवक्षितः । तथा च 'भ्रातृशब्दोत्तरत्वे व्यन्प्रत्ययार्थः शत्रुः' इति भाष्ये स्पष्टम् । ननु 'पाप्मना भ्रातृव्येण' इति कथम् , पाप्मनोऽपत्यत्वाभावादित्यत आह-पाप्मना भ्रातृव्येण इति तूपचारादिति । हिंसकत्वगुणयोगाल्लाक्षणिक आढयकुलीन इति । श्रादयश्चासौ कुलीनश्चेति कुलीनविशेषणत्वे कुलस्याढ्यत्वं न प्रतीयते । किं च ईकार उदात्त इति खरेऽपि विशेषोऽस्तीति भावः । बहुकुल्य इति । 'विभाषा सुपः-' इति बहुच्प्रत्ययो न पदमिति अपूर्वपदत्वात्प्रत्ययत्रयं भवत्येवेति भावः । व्यन्स्यादिति । भ्रातुरपत्यं यदि शत्रुः तदा भ्रातृशब्दाद् व्यनेव स्यात् । न तु व्यच्छौ इत्यर्थः । समुदायेनेति । तद्धटितप्रत्ययेन शत्रुरूपेऽपये वाच्य इत्यर्थः । यत्तु वृत्तिकृतोक्लम् 'अपत्यार्थोऽत्र नास्त्येव' इति, तदुपक्ष्यं भाष्य. विरोधादिति मनसि निधायाह-पाप्मनेति । श्रुतिगतभ्रातृव्यशब्दस्य गतिं Page #331 -------------------------------------------------------------------------- ________________ ३२८ ] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकार११६६ रेवत्यादिभ्यष्ठक् । (४-१-१४६) ११७० ठस्येकः । (७-३-५०) अङ्गापरस्य ठस्येकादेशः स्यात् । रैवतिकः । १९७१ गोत्रस्त्रियाः कुत्सने रण च । (४-१-१४७) गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठको स्तः कुत्सायाम् । सामर्थ्याथूनि । गार्या अपत्यं गार्गः, गार्गिको वा जाल्मः । 'भस्याढे तद्धिते' इति पुंवद्भावाद्गार्यशब्दाएणठको । 'यस्य-' (सू ३९१ ) इति लोपः । इत्यर्थः । रेवत्यादिभ्यष्ठक । अपत्य इति शेषः । ढगाद्यपवादः । ठस्येकः । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते। तदाह-अङ्गात्परस्य ठस्येति । ठकारस्येत्यर्थः । रैवतिक इति। रेवत्या अपत्यमिति विग्रहः । ठकि ककार इत्, अकार उच्चारणार्थः । ठकारस्य इकः अदन्त आदेशः । अङ्गात्किम् ? कमठ इत्यत्र ठकारस्य न भवति । अत्र भाष्ये अगसबन्धिठस्येति व्याख्याने कर्मठ इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठस्य इकादेशमाशङ्कय अङ्गसंज्ञानिमित्तं यष्टकास्तस्येको भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम् । ततश्च उकि अकार उच्चारणार्थः, ठकार एव प्रत्यय इति विज्ञायते । 'ठस्टे ति संघातग्रहणम्' इत्यपि भाष्ये स्थितम् । अस्मिन्पक्षे ठकि अकार उच्चारणार्थो न भवति, संघात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम् । गोत्रस्त्रियाः। ण इति लुप्तप्रथमाकम् । चात् ठगनुकृष्यते। तदाह-गोत्रं या स्त्री इत्यादिना सामर्थ्यादिति। 'एको गोत्रे' इति नियमादिति भावः । गा- अपत्यमिति। गर्गस्य गोत्रापत्यं स्त्री गार्गी। 'गादिभ्यः' इति यञ् । 'यसश्च' इति ङीप् । 'यस्यति च' इत्यकारलोपः । 'हलस्तद्धितस्य' इति यकारलोपः । गार्या अपत्यं युवेति विग्रहः । पितुरविज्ञाने मात्रा व्यपदेशः कुत्सनम् । यद्यपि णप्रत्यये ठक इकादेशे च 'यस्येति च' इति लोपे गार्गो गार्गिक इति सिध्यति । तथापि वस्तुस्थितिमाह-पुंवद्भावादिति । 'भस्याढे-' इति पुंवत्त्वे सति डीपो निवृत्तौ भूतपूर्वगत्या स्त्रीवाचकत्वमादाय गार्यशब्दारणठकावित्यर्थः। वदति-उपचारादिति । 'अस्त्री पत पुमान्पाप्मा पापं किल्बिषफल्मषम्' इत्यमरः। न हि पापं भ्रातुरपत्यं भवतीत्यतो भाव एवायं प्रयोग इति भाषः । रेवत्या । रेवती, अश्वपाली, मणिपाली, द्वारपाली, इत्यादि । ठस्येकः । 'अङ्गस्य' इत्यनुवर्तनादाह-अङ्गात्परस्येति । 'अङ्गात्' इति ठकारविशेषणादठचष्ठका स्य न भवति । कर्मठः । गोत्रस्त्रियाः । णित्त्वं तु 'ग्लुचुकायन्या अपत्यं ग्लै चुकायनो जाल्मः' इत्यत्र फिन्नन्तारणे वृद्ध्यर्थमिति बोध्यम् । सामर्थ्याधुनीति । 'गोत्रादपरो गोत्रप्रत्ययो न' इत्युक्तत्वादिति भावः । गार्या अपत्यमिति । पितुरसंविज्ञाने मात्रा व्यपदेशात् कुत्सा । गोत्रेति किम् , कारिकेयो जाल्मः । स्त्रियाः किम् , Page #332 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३२९ 'भापत्यस्य-' (सू १०८२) इति यलोपः । ११७२ वृद्धाटक सौवीरेषु बहुलम् । (४-१-१४८) सुवीरदेशोद्भवाः सौवीराः। वृद्धासौवीरगोत्राथूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः, भागवित्तिकः । परे फक् । भागवित्तायनः । ११७३ फेश्छ च । (४-१-१४६) फिसन्तासौवीरगोत्रादपत्ये छः ठक्च कुरसने । गम्ये यमुन्दस्यापत्यं यामुन्दायनिः, तिकादित्वारिफम् । तस्यापत्यं यामुन्दायनीयः, यामुन्दायनिकः । कुस्सने किम्-यामुन्दायनिः । औत्सर्गिकस्यायो 'एयक्षत्रिय-' (सू १२७६ ) इति लुक् । सौवीर इति किम्-तैकायनिः । ११७४ फाण्टाहृतिमिमताभ्यां णफिौ । (४-१-१५०) सौवीरेषु । नेह यथासंख्यम् , अल्पान्तरस्य परनिपातालिङ्गाद् इति वृत्तिकारः। भाष्ये तु 'यथासंख्यमेव' इति स्थितम्। फाण्टाहृतः, फाण्टाहृतायनिः। मैमतः, मैमतायनिः। नच 'वृद्धिनिमित्तस्य च-' इति पुंवत्त्वनिषेधः शङ्कयः, सौत्रस्यैवाय निषेधो न तु 'भस्याढे-' इति वार्तिस्येत्युक्तत्वात् । 'भस्याढे-' इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमभ्युपगम्य गार्यशब्दादित्युक्तम् । तच्च समूहाधिकार 'भिक्षादिभ्योऽण्' इत्यत्र स्फुटीभविष्यति। स्त्रियाः किम् ? औपगवस्यापत्यं युवा औपगविः । प्रकरणादिगम्या कुत्सा। गोत्रेति किम् ? कारिकेयः। णस्य णित्त्वं तु ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्धयर्थम् । वृद्धाक्सौवीरेषु। पूर्वसूत्राद्गोत्रेत्येकदेशोऽनुवर्तते । सौवीरेष्विति प्रकृतिविशेषणम् । तदाह-वृद्धादिति । 'वृद्धिर्यस्याचामादि:-' इति वृद्धसंज्ञका. दित्यर्थः । ठग्ग्रहणं णस्य अनुवृत्तिनिवृत्त्यर्थम् । भागवित्तेरिति । भगवित्तस्य सौवीरं गोत्रापत्यं भागवित्तिः, तस्यापत्यं युवेत्यर्थे ठकि इकादेशे भागवित्तिक इति रूपमित्यर्थः । पक्ष फगिति । 'यजिओश्च' इस्यनेनेति शेषः । फेश्छ च। छेति लुप्तप्रथमाकम् । यमुन्दस्येति । यमुन्दो नाम सुवीरदेशे कश्चित् । यामुन्दा. यनिरिति । यामुन्दायनेरपत्यं युवेत्यर्थे कुत्सनाभावात् छठगभावे 'तस्यापत्यम्' इत्यण् । ‘ण्यक्षत्रियार्ष-' इति तस्य लुगित्यर्थः । तैकायनिरिति । तैकायनेरपत्यं युवेत्यर्थे असौवीरत्वात् छठगभावे 'तस्यापत्यम्' इत्यण् । 'एयक्षत्रिय-' इति तस्य लुगिति भावः । फाण्टाहति । सौवीरोध्विति। शेषपूरणमिदम् । सौवीरगोत्रादित्यर्थः । फाण्टाहृतस्य गोत्रापत्यं फाण्टाहृतिः, अत इञ्। तस्यापत्यं सुवेति विग्रहः । मैमत इति । मिमतस्यापत्यमिति विग्रहः । मिमतशब्दे सौवीर. औपगवस्यापत्यम् औपगविर्जाल्मः । कुत्सनेति किम् , गार्गेयो माणवकः । फाण्टाहृति । 'कुत्सने' इति निवृत्तम् । वृत्तिमते णित्त्वस्य फलमस्तीति ध्वनयन्नुदाहरति-मैमत इति । न च भाष्यमतेऽपि 'फाण्टाहृताभार्यः' इत्यत्र 'वृद्धि Page #333 -------------------------------------------------------------------------- ________________ ३३० ] सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार 1 १७७५ कुर्वादिभ्यो रयः । ( ४-१ - १५१ ) अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः | 'सम्राजः क्षस्त्रिये' (ग सू ७५ ) । साम्राज्यः । साम्राजोऽन्यः । ११७६ सेनान्तलक्षणकारिभ्यश्च । ( ४- १ - १५२ ) एभ्यो ण्यः । 'एति संज्ञायाम् -' ( सू १०२३ ) इति सस्य षः । हारिषेण्यः । लक्षण्यः । कारिः शिल्पी, तस्मात् तान्तुवाय्यः । कौम्भकार्यः । नापित्यः । ११७७ उदीचामिञ् । गोत्रादिति न संबध्यते, व्याख्यानाद्गोत्रत्वाभावाच्चेति भावः । कुर्वादिभ्यो रयः । अपत्ये इति । शेषपूरणमिदम् । सौवीरेष्विति निवृत्तम् । कौरव्या ब्राह्मणा इति । कुरुर्नाम कश्चिद् ब्राह्मणः । तस्यापत्यानीति विग्रहः । रयप्रत्यये श्रोर्गुणे अवादेशः, आदिवृद्धिः । यस्तु 'कुरुनादिभ्यो ण्यः' इति रायो वक्ष्यते, तस्य तद्राजत्वाद् बहुषु लुकि कुरवः क्षत्त्रिया इति भवति । एतत्सूचनार्थमेव बहुवचनं ब्राह्मणा इति विशेष्यं चोदाहृतम् । वावदूक्या इति । वावदूकस्यापत्यानीति विग्रहः । सम्राजः क्षत्रिय इति । कुर्वादिगणसूत्रम् । अपत्य इति शेषः । क्षत्रिय एवेति नियमार्थमिदम् | साम्राजोऽन्य इति । सम्राजः शूद्रादौ उत्पन्न इत्यर्थः । सेनान्त । एभ्य इति । सेनान्तलक्षणकारिभ्य इत्यर्थः । अकुर्वादित्वाद्वचनम् | हारिषेण्य इति । हरिषेणो नाम कश्चित् । 'एति संज्ञायम् -' इति षत्वम्, तस्यासिद्धत्वात्सेनान्तत्वा यः । लाक्षराय इति । लक्षणमस्यास्तीति लक्षणः, अर्शश्राद्यच्, तस्यापत्यमिति विग्रहः । कारिपदं व्याचष्टे -- कारिः शिल्पीति । तस्मादिति । कारिविशेषनिमित्तस्य -' इति पुर्वद्भावनिवृत्तिणित्त्वफलमस्तीति वाच्यम्, स्त्रियाम्' इति युवसंज्ञानिषेधाद् गोत्रसंज्ञासद्भावाद् 'एको गोत्रे' इति नियमादिञन्तात्फाण्टाहृतिशब्दादन्यस्यापत्यप्रत्ययस्याभावात्फाण्टाहृताशब्दस्यैवासत्त्वादिति भावः । कुर्वादिभ्यो । 'सौवीरेषु' इत्यपि निवृत्तम् । कौरव्या ब्राह्मणा इति । यत्तु 'कुहनादिभ्यो ण्यः' इति वक्ष्यति तस्य तद्राजत्वाद्बहुषु लुकि 'कुरवः क्षत्रियाः' इति भवति, न तु ‘कौरव्याः' इति भावः । वावदूक्या इति । वदेर्यङन्तादूकप्रत्ययः। स चात्रैव गणे निपातनादित्याहुः । कुरु, गर्ग, वावदूक । सम्राजः क्षत्रिय इति । सम्राट् - शब्दाद् राय इत्यर्थः । वामरथस्य कण्वादिवत्स्वरवर्जम् । यजन्तस्य कारवशब्दस्य यत्कार्यं तत् ण्यप्रत्ययान्तस्य वामरथ्यशब्दस्य स्यात् श्रायुदात्तं विनेत्यर्थः । बहुत्वे 'यञञोश्च' इति लुक् । वामरथाश्छात्राः । ' कण्वादिभ्यो गोत्रे' इति छापवादोऽण् । वामरथी । वामरथ्यायनी स्त्री । ' यञश्च' । प्राचां ष्फ तद्धितः' इति ङीषूष्फौ । वामरथानि सङ्घाङ्कलक्षणानि 'सङ्घाङ्कलक्षणेषु' इति छापवादोऽण् । सत्यङ्कार, वलभीकार, बुद्धिकार, इत्यादि । हारिषेण्य इति । 'एतिसंज्ञायाम् -' इति Page #334 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३३१ (४-१-१५३ ) हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वारिफलेव । नापितायनिः । 'तषणोऽण उपसंख्यानम्' (वा २५४०) 'षपूर्व-' (सू ११६०) इत्यनोऽकारलोपः । तापणः पक्षे ताक्षण्यः । ११७८ तिकादिभ्यः फिम् । (४-१-१५४) तैकायनिः । ११७६ कौसल्यकार्याभ्यां च । (४-१-१५५) अपत्ये फिन् । इलोऽपवादः। परमप्रकृतेरेवायमिष्यते । प्रत्ययसभियोगेन प्रकृतिरूपं निपात्यते । कोसलस्यापत्यं कौसल्यायनिः । कर्मारस्थापत्य कार्मार्यायणिः । 'छागवृषयोरपि' (वा २६४३) । छाग्यायनिः । वायायणिः। ११८० अणो वचः। (४-१-१५६) अपत्ये फिञ् । इनोऽपवादः । कार्वायणिः । अण इति किम्-दाक्षायणः । यचः किम्वाचिनो ण्ये सतीत्यर्थः। तान्तुवाय्य इति । तन्तुवायस्यापत्यमिति विग्रहः । कौम्भकार्य इति । कुम्भकारस्यापत्यमिति विग्रहः । नापित्य इति । नापित. स्यापत्यमिति विग्रहः । उदीचामि । सेनान्तलक्षणकारिभ्य इञ् स्यादुदीचां मते इत्यर्थः । नापितात्तु परत्वात् फिजेवेति । उदीचां वृद्धादित्यनेनेति शेषः। तक्ष्णोऽण उपसंख्यानमिति । उदीचां मत इति शेषः । तादण इति । अणि प्रकृतिभावान्न टिलोपः । अल्लोपस्तु 'षपूर्वहन्-' इति वचनाद्भवति । पक्षे ताक्षण्य इति । प्राचां मते कारित्वलक्षणो ण्य इत्यर्थः । ये चाभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः । तिकादिभ्यः फिञ् । इञोऽपवादः । तैकायनिरिति । फिनि श्रायन्नादेशः । कौसल्य । परमप्रकृतेरेवेति । कोशलकाराभ्यां फिञ् , तस्य युट् चेत्यर्थः । भाष्ये स्पष्टमेतत् । छागवृषयोरपीति । फिञ् , तस्य युट् चेति वक्तव्यमित्यर्थः । अणो द्वयचः । अपत्ये फिजिति । शेषपूरणमिदम् । षत्वस्यासिद्धत्वात्सेनान्तोऽयम् । तादण इति । उदीचामिञोपवादोऽयमण् । अस्मादुपसंख्यानाच्छिवादिषु तक्षन्शब्दपाठोऽनार्ष इति गम्यते। वृत्तिकारस्तुतक्षन्शब्दं शिवादिषु पठित्वा 'कारिलक्षणमुदीचामिअमयमा बाधते, रयस्य तु बाधो नेष्यते' इत्याह । तदनुरोधेनास्माभिरपि तत्र तथैव व्याख्यातम् । फले विशेषाभावात् । कौशल्य । परमप्रकृतेरेवायमिति । यदि तु 'वृद्धत्कोसला-' इति व्यङन्तात्कोसलशब्दात् कारिलक्षणण्यन्तात्कारशब्दाच्चायं विधिः स्यात् , तदा यून्येव प्रसज्येतति भावः । छागेति । दगुशब्दस्याप्युपलक्षणमेतत् । फिप्रकरणे 'दगुकोसलकारच्छागवृषाणां युट् चादिष्टस्य' इति वार्तिकात् । श्रादिष्टस्य प्रायन्नादे. शस्वेत्यर्थः । अन्यथा, प्रतिपदोक्ने युटि कृते प्रत्ययादित्वाभावात् कौशल्यायनिरित्यादौ फस्यायनादेशो न स्यात् , युकि कृते तु 'दागव्यायनिः इत्यत्र पोर्गुणः, अन्यत्राल्लोपश्च Page #335 -------------------------------------------------------------------------- ________________ ३३२] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारऔपगविः । ['त्यदादीनां फिन्वा वाच्यः' (वा २०१०)। त्यादायनिः, त्यादः]। ११८१ उदीचां वृद्धादगोत्रात् । (४-१-१५७ ) अाम्रगुप्तायनिः । प्राचां तु अाम्रगुप्तिः । वृद्धात् किम्-दाक्षिः। अगोत्रात् किम्-औपनविः। ११८२ वाकिनादीनां कुक् च । (४-१-१५८) अपत्ये फिन्चा। वाकिनस्यापत्यं वाकिनकायनिः, वाकिनिः । ११८३ पुत्रान्तादन्यतरस्याम् । (४-१-१५६) यचः अण्प्रत्ययान्तादपत्ये फिनित्यर्थः । कार्वायणिरिति । कर्तुः छात्रः कात्रः, 'तस्येदम्' इत्यण् । कात्रस्यापत्यं का यणिः । फिनि प्रायन्ना देशे णत्वम् । दाक्षायण इति । दक्षस्यापत्यं दाक्षिः । अत इञ् । दाक्षेरपट दाक्षायमाः । 'यजिओश्च' इति फक् । अण्णन्तत्वाभावान फिजिति भावः। औषगविरिति । उपगोर्गोत्रापत्यमौपगवः। तस्यापत्यमौपगविः युवा । यच्वाभावान्न पिजिति भावः । कर्तुरपत्ये तु कुर्वादिगणे पाठाद् ण्य एवेति बोध्यम् । 'त्यदादीनां किञ्वा वाच्यः । त्यादायनिः त्यादः ।' इति क्वचित्पुस्तके दृश्यते । तत्तु प्रामादिकम् , 'त्यादादीनि च' इति त्यदादीनां वृद्धत्वाद् 'उदीचां वृद्धात्-' इत्येव सिद्धेः, भाष्ये अभय वार्तिकस्य अदर्शनाच्च । उदीचां वृद्धादगोत्रात् । वृद्धसंज्ञकाद् अगोत्रप्रत्ययान्नास्फिञ् स्याद् उदीचां मत इत्यर्थः । आम्रगुप्तायनिरिति । आम्रगुप्तस्यापत्यग्गिति विग्रहः । प्राचां त्विति । मत इति शेषः। आम्रगुप्तिः। अत इञ् । औप्गविरिति । उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः । औपगवस्य गोत्रत्वात्ततो यूनि फिञभावे इसेवेति भावः । वाकिनादीनाम् । शेषपूरणेन सूत्र व्याचष्टेअपत्ये फिज्वेति । चकाराद् उदीचाम् इति फिजिति चानुवर्तत इति भावः। तथा च वाकिनादिभ्यः फिञ् वा स्यात् , प्रकृतीनां कुगागमश्चेति फलितम् । न स्यादिति भावः । कार्वायणिरिति । कर्तुरपत्यं कार्बस्तस्यापत्यं तु का यणिः । अत्र व्याचक्षते-कर्तृशब्दः कुर्वादिषु पठ्यते । तथा च 'कार्व्यः' इत्येव वर्धमानेनोदाहृतम् । तस्मादिह भर्तृहायुदाहार्यमिति । दाक्षिरिति । ' नामधेयस्य' इति वृद्धसंज्ञाभावपक्षे प्रत्युदाहरणमिदम् । पक्षान्तरे तु फिञ् भवत्येव । 'दाक्षायण्यो. ऽश्विनीत्यादि ताराः' इत्यमरः । वाकिनादीनाम् । यदि हि वृद्धमगोत्रं शब्दरूपम् , तत्रागमार्थमेवेदं वचनमन्येषां तूभयार्थम् । 'उदीचाम्-' इत्यनुवर्तनाद्विकल्पः फलित इत्याह-फिञ्वा स्यादिति । वाकिनकायनिरिति । वचनं वाकः सोऽस्यास्तीति वाकिनः । अतएव निपातनादिनन् । अगारे एधत इति गारेधः पृषोदरादित्वादादिलोपः शकन्ध्वादित्वात्पररूपम् । गारेधकायनिः। चर्मिवादौ तूभयार्थम् । चर्मवर्मशब्दाभ्यां व्रीह्यादित्वादिनिः । 'चमिवर्मिणोनलोपश्च' इति गणसूत्रम् । Page #336 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३३ भस्माद्वा फिन्सिद्धः, तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रिकायणिः, गार्गीपुत्रायणिः, गार्गीपुत्रिः । ११८४ प्राचामवृद्धात्फिन्बहुलम् । (४-१-१६०) ग्लुचुकायनिः । ११८५ मनोर्जातावञ्यतौ षुक् च । (४-१-१६१) समुदायार्थो जातिः। मानुषः, मनुष्यः । ११८६ जनपदशब्दात् क्षत्रियाद।(४-१-१६८) जनपदक्षस्त्रिययोर्वाचकादम् स्यादपत्ये। 'दाण्डिनायन-' (सू ११४५) इति सूत्रे निपातनाटिलोपः। ऐचवाकः । ऐचवाको। पुत्रान्तादन्यतरस्याम् । स्पष्टम् । प्राचामवृद्धात् । अवृद्धसंज्ञकाद् अपत्ये बहुलं फिन् स्यादित्यर्थः । प्राचांग्रहणं पूजार्थम् । ग्लुचुकायनिरिति । ग्लुचुकस्यापत्यमिति विग्रहः । अवृद्धात्किम् ? राजदन्तिः । बहुलग्रहणानेह-दाक्षिः। मनोर्जातौ । मनुशब्दाद् अञ् यत् एतौ प्रत्ययौ स्तः, तयोः परयोः मनुशब्दस्य षुगागमश्च प्रकृतिप्रत्ययसमुदायेन जातो गम्यायामित्यर्थः, तदाह-समुदायार्थी जातिरिति । नात्रापत्यग्रहणं संबन्ध्यत इति भावः । अन्यथा मानुषा इत्यत्र 'योश्च' इति लुक् स्यादिति बोध्यम् । जनपदशब्दात् । जनपदो देशः, तद्वाचकशब्दो जनपदशब्दः, तथाभूतो यः क्षत्रियवाचकशब्दः, तस्मादित्यर्थः । फलितमाह-जनपदक्षत्रिययोरिति । ऐक्ष्वाक इति । इक्ष्वाकुर्नाम देशः, चार्मिकायणिः । वार्मिकायणिः । कुकि कृते नकारस्यानन्त्यत्वान्नलोपाप्राप्तौ वचनम् । न च कुक्परादिरस्त्विति वाच्यम् , फस्यानादित्वादायनादेशाभावप्रसङ्गात् । वाकिनिरिति । 'अत इञ्' । फित्रभावे तत्संनियोगशिष्टः कुगत्र न भवति । एवं गारेधिः, चार्मिण इत्यागृह्यम् । पुत्रान्तात् । 'उदीचां वृद्धात्-' इत्यनुवर्तत इत्याशयेनाहवा फिन् सिद्ध इति । तेनैव सूत्रेण फिजि सिद्धे अनेन कुगेव वा विधीयत इति भावः । प्राचामवृद्धात् । प्राचांग्रहणं पूजार्थम् । अवृद्धादिति किम् , राजदन्तिः । बहुलग्रहणान्नेह । दाक्षिः । मानुषः । मनुष्य इति । जातिशब्दावेतौ 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः ॥' णत्वविधानार्थमिदम् । अणः सिद्धत्वात् । अनधीतवेदत्वान्मूढत्वं विहिताननुष्ठानाच कुत्सितत्वम् । इदं च वचनं 'ब्राह्मणमाणव-' इति णत्वनिपातनाल्लब्धमित्याहुः । जनपद । जनपदक्षत्रियेति । जनपदवाची सन् यः क्षत्रियवाचीत्यर्थः । यद्यपि पच्चालादयो जनपदे बहुवचनान्ताः, क्षत्रिये त्वेकवचनान्ताः, तथापि प्रातिपदिकस्योभयवाचित्वमक्षतमेवेति बोध्यम् । जनपदशब्दात्किम् , द्रुह्योरपत्यं द्रौह्यवः । केवलक्षत्रियवाच्यम् । क्षत्रियादिति किम् , ब्राह्मणस्य पञ्चालस्यापत्यं पाञ्चालिरिति वृत्तिकारादयः । बाह्वादिष्वस्य पाठादिदं प्रत्यु Page #337 -------------------------------------------------------------------------- ________________ ३३४ ] सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार 'क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् ' ( वा २६६ ९ ) । तद्राजमाचक्षाणस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् । पञ्चालानां राजा पाञ्चालः 1 'पूरोरण्वक्तव्यः' ( वा २६७० ) पौरवः । ' पाण्डोर्व्यण' वा २६७१ ) पाण्ड्यः । ११८७ साल्वेयगान्धारिभ्यां च । ( ४-१ - १६६ ) श्राभ्यामपत्ये 1 राजा च । तस्य राज्ञोऽपत्यमिति विग्रहे अञ्, अणोऽपवादः । भवरे विशेषः ! ओर्गुणं बाधित्वा ‘दाण्डिनायन-' इति सूत्रे निपातनादुकारस्य टेर्लोपः । ऐदवाकाविति । बहुवचने तु लुग्वक्ष्यत इति भावः । क्षत्त्रियसमानेति । चत्त्रियवाचकशब्देन समानशब्दो जनपदवाचकः, तस्मात् षष्ठयन्ताद् राजन्यर्थे अपत्यवत्प्रत्यया भवन्तीत्यर्थः । वार्तिकमेतत्सूत्रसिद्धार्थकथनपरिमित्याह - तद्राजमिति । 'जनपदशब्दात् -' इत्यादिविहितानानत्रादीनां तद्राजसंज्ञा विहिता 'ते तद्राजाः' इति । प्रत्ययानां तद्वाजत्वं तद्वाचकत्वाद्रौणम् । एवं च तद्राजवाचकास्तद्राजा इत्यन्वर्थसंज्ञैषा, नतु टिघुभादिवदवयवार्थरहिता । तथा च अजादिप्रत्ययानां तद्राजसंज्ञवानां राजवाचकत्वमपि विज्ञायत इति राजन्यपि वाच्ये ते भवन्तीति विज्ञायत इत्यर्थः । पञ्चालानामिति । बहुवचनान्तमिदं देशविशेषनाम, भाष्ये तथैव प्रयोगदर्शनात् । ‘द्यञ्मगध-' इत्यत्र भाष्ये 'नेषो नाम जनपदः' इति दर्शनाद्देशवाचिनोऽप्येकवचनमिति ज्ञेयम् । जनपदशब्दादिति किम् ? दुह्योरपत्यं द्रौह्यवः, अरोव, तद्राजत्वा - भावाद्बहुत्वे न लुक्, द्रौह्यवाः । चत्त्रियादिति किम् ? पञ्चालो नाम कश्चिद् ब्राह्मणः, तस्यापत्यं पाञ्चालिः । वैदेहिः । पूरोरणिति । पूरुशब्दस्य जनपदव चित्वाभावात्प्राग्दीव्यतीये अणि सिद्धे तद्राजसज्ञार्थं वचनम् । देशवाचित्वे तु 'मगध-' इत्येव सिद्धम् । पाण्डोर्च्चणिति । वाच्य इति शेषः । इह श्वेतगुणवाचिनो युष्ठिरपितृवाचिनश्च पाण्डोर्न ग्रहणम्, जनपदादित्युक्तेः, तस्य च पाण्डुदेशाधिपतिराजत्वाभावात् । पाड्य इति । पाण्डोरपत्यं पाण्डोर्देशस्य राजा वेत्यर्थः । साल्वेय । ननु दाहरणं चिन्त्यमित्यन्ये । क्षत्रियसमानशब्दादिति । समानः शब्दो यस्य जनपदस्य सोऽयं समानशब्दो जनपदः । क्षत्रियेण समानशब्दक्षत्रियसमानशब्दस्तस्मात्, 'तस्य ' इति षष्ठीसमर्थाद्राजनि वाच्ये अपत्यवत्प्रत्ययो भवतीत्यर्थः । पाञ्चालानां राजेति । इह ‘अवृद्धादपि बहुवचनविषयात्' इति प्राप्तो वुञ् बाध्यते । पुरोरिति । पूरुशब्दो न जनपदवाचीति प्राग्दीव्यतीये आणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे तु 'यमगध-' इत्येव सिद्धम् । पाण्डोडर्यगिति । णित्करणं तु ‘पण्ड्याभार्यः’ इत्यत्र ‘वृद्धिनिमित्तस्य-' इति पुंवद्भावप्रतिषेधार्थम् । युधिष्ठिर पितृवाचिनो गुणवाचिनश्च पाण्डोर्नेह ग्रहणम्, 'जनपदशब्दात् -' इत्युक्ते तदधिपतिवाचिन एवोप 1 Page #338 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३३५ तस्य ऽञ् । 'वृद्धेत्-' ( सू ११८8 ) इति व्यङोऽपवादः । साल्वेयः । गान्धारः । राजन्यध्येवम् । १९८८ मगधकलिङ्गसूरमसादण् । ( ४ - १ - १७० ) ञोपवादः । द्व्यच् – श्राङ्गः, वाङ्गः, सौह्यः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् । ११८६ वृद्धेत्कोसलाजादाञ्यङ् । ( ४-१-१७१ ) वृद्धात् - श्रम्बष्ट्यः, सौवीर्यः । इत् — श्रावन्त्यः, कौन्स्यः, कौसल्यः । अजादस्यापत्यमाजाद्यः । ११६० कुरुनादिभ्यो एयः । ( ४ - १ - १७२ ) कौरव्यः, नैषध्यः । 'स नैषधस्यार्थपतेः' इत्यादौ तु शैषिकोऽण् । ११६१ साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् । ( ४-१-१७३ ) साल्वो जनपदस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यप्रथादिभ्यस्त्रिभ्यश्च इञ् । श्रञोऽपवादः । श्रौदुम्बरिः । प्रात्यग्रथिः । कालकूटिः । साल्वेयगान्धारिशब्दौ अव्युत्पन्नौ देशतत्त्रियोभयवाचिनौ । ताभ्यां जनपदशब्दादि सिद्धे किमर्थमिदमित्यत आह- वृद्धेदिति । ञ्यङोऽपवाद इति । द्वयञ्मगध । श्रञोऽपवाद इति । जनपदशब्दादिति विहितस्याञोऽपवाद इत्यर्थः । यजिति । उदाह्रियत इति शेषः । श्रङ्ग, वङ्ग, सुह्म इत्येते यो देशत्त्रियवाचिनः । श्रङ्गस्यापत्यमिति विग्रहः । तस्य राजन्यप्येवमिति । अङ्गादिदेशस्य राजेति विग्रहः । वृद्धेत्कोसलाजादाञ्यङ् । जनपद क्षत्त्रियोभयवाचकाद् वृद्धसंज्ञकाद् इदन्तात् कोसलाद् श्रजादाच्चापत्ये व्यङित्यर्थः । वृद्धादिति । उदाहियत इत्यर्थः । श्रम्बष्ठ्यः, सौवीर्य इति । श्राम्बष्टसौवीरशब्दौ जनपदक्षत्त्रियोभयवाचकौ । इदिति । इदन्तोदाहरण सूचन मिदम् । श्रावन्त्य इति । अवन्तिशब्दो देशे राजनि च । कौसल्य इति । कोसलशब्दो देशे राजनि च । श्रजादस्यापत्यमिति । राजवाचकत्वे विग्रहो - ऽयम् । देशवाचकत्वे तु श्रजादानां राजेति विग्रहः । कुरुनादिभ्यो रयः । कुरुशब्दाद् नकारादिभ्यश्च जनपदक्षत्त्रियवाचकेभ्योऽपत्ये राजनि च रायः स्यादित्यर्थः । कौरव्य इति । कुरोरपत्यं कुरूणां राजेति वा विग्रहः । नैषध्य इति । निषधशब्दो देशे राजनि च । शैषिक इति । तस्येदमित्यनेनेति शेषः । साल्वावयव । उदुम्बरादय इति । स्थानात् । वृद्धेत् । तपरकरणं किम्, कौमारः । कुमारीशब्दो हि जनपदक्षत्रियवचनः । कुरुना । नकार दियेषां ते नादयः । कुरुशब्दाद् व्यज्लक्षणे आणि प्राप्ते, नादिभ्यस्त्वत्रि प्राप्ते च वचनम् । उदुम्बरादय इति । 'उदुम्बरास्तिलखला मन्द्रकारा युगन्धराः । भ्रूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिकाः' इति वृत्तिः । Page #339 -------------------------------------------------------------------------- ________________ ३३६ ] सिद्धान्तकौमुदी। (तद्धितेष्वपत्याधिकारपाश्मकिः । राजन्यप्येवम् । ११६२ ते तद्राजाः (४-१-१७४ ) अनादय एतत्संज्ञाः स्युः । ११६३ तद्राजस्य बहुषु तेनैवास्त्रियाम्। (२-४-६२) बहुष्वर्थेषु तद्राजस्य लुक्स्यात्तदर्थकृतबहुस्ने, न तु स्त्रियाम् । इक्ष्वाकवः, पञ्चाला इत्यादि । कथं तर्हि 'कौरव्याः पशवः' 'तस्यामेव रघोः पाण्ड्याः ' इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । 'रघूणामन्वयं वक्ष्ये' 'उदुम्बरास्तिलखला मद्रकारा युगन्धराः । भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः ॥' इति प्रसिद्धिः । 'यज्मगध-' इति भाष्ये तु बुध आजमीड अजक्रन्दा अपि गृहीताः । ते तद्राजाः। ते इत्यनेन जनपदशब्दादित्याद्यारभ्य विहिता अनादयः परामृश्यन्ते । तदाह-अजादय इति । तद्राजस्य । ‘ण्यक्षस्त्रियार्ष-' इत्यतो लुगित्यनुवर्तते । तेनेत्यनन्तरं कृते बहुत्वे इत्यध्याहार्यः। तद ह-बहष्विति । तदर्थकृतबहुत्व इति । अनादिप्रत्ययान्तमात्रार्थगतबहुत्वे नतीत्यर्थः । तेनेति किम् ? प्रियो वाङ्गो येषां ते प्रियवाङ्गाः इत्यत्र बहुत्वस्यान्यपदार्थगतत्वाद् वाङ्गशब्दात्परस्य न लुक् । यद्यपि वर्तिपदार्थविशिष्टान्यपदार्थगतं बहुत्वं वर्तिपदार्थगतमपि भवति, तथापि अञ्प्रत्ययान्तार्थवाङ्गमात्रगतं न भवतीति न लुक् । एतदर्थमेवकारग्रहणम् । इक्ष्वाकवः, पश्चाला इति । 'जनपदशब्दात्-' इति विहितस्य अञो लुकि श्रादिवृद्धिनिवृत्तिः। इत्यादीति। अङ्गाः, वङ्गा इत्यादि बोध्यम् । कथं तीति । कौरव्या इत्यत्र ण्यप्रत्ययस्य पाण्ड्य इत्यत्र ड्यरप्रत्ययस्य च तद्राजतया बहुषु लुक्प्रसङ्गादित्यर्थः। साधव इतीति । कौरव्यशब्दात् पाण्ड्यशब्दाच्च 'तत्र साधुः' इति यत्प्रत्यये 'यस्येति च' इत्यकारलोपे यत्प्रत्ययस्य तद्राजत्वाभावान लुगित्यर्थः। ननु रघुयदुशब्दयोर्जनपदव चित्वाभावात् प्राग्दीव्यतीयेऽणि तस्य तद्राजत्वाभावात् कथं बहुषु तस्य लुगित्याशङ्कय परिहरति औदुम्बरिरिति । तैलखलिः । माद्रकारिः । यौगन्धरिरित्याादाहरणान्युदाहर्तव्यानि । ते तद्राजाः । अआदय इति । ततः प्राचीनस्तु तच्छब्देन न परामृश्यन्ते गोत्रयुवसंज्ञाकाण्डेन विच्छेदात् । एतदर्थमेवेदं न तत्काण्डमध्ये कृतमाचायेणेत्याहुः । वस्तुतस्तु 'तद्राज' इत्यधिकृत्य 'जनपदशब्दात्क्षत्रियादा' इत्यादिसूत्राणामारम्भे गोत्रयुवसंज्ञाकाण्डस्य मध्ये पाठाभावेऽपि न क्षतिरित्यन्ये । तद्राजस्य । तदर्थेति । तद्राजप्रत्ययार्थेन कृत इत्यर्थः । तेनैवेति किम् , प्रियपाञ्चालाः । साधव इतीति । तथा च 'तत्र साधुः' इति यत्प्रत्ययस्य तद्राजत्वाभावाल्लुङ् नेति भावः । रघुयदुशब्दयोजनपदवाचित्वाभावादाभ्यां परस्य तद्राजसंज्ञा नेति लुकोऽप्रवृत्त्या Page #340 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३७ 'निरुध्यमाना यदुभिः कथञ्चित्' इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया । ११६४ कम्बोजाल्लुक् । (४-१-१७५) अस्मात्तद्राजस्य लुक् । कम्बोजः । कम्बोजौ। 'कम्बोजादिभ्य इति वक्तव्यम्' (वा २६७४)। चोलः । शकः । यज्लक्षणस्याणो लुक् । केरलः । यवनः । अजो लुक् । 'कम्बोजाः समरे' इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणी' (सू १४७३) इस्यण् । ११६५ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च । (४-१-१७६) तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः । ११६६ रघूणामिति । लक्षणयेति । प्रयोग इति शेषः । ततश्च नेदमपत्यप्रत्ययान्तमिति भावः । लक्षणाबीजं तु रघुयदुसमानवृत्तिकत्वं बोध्यम् । कम्बोजाल्लुक् । तद्राजा इत्यनुवृत्तं षष्ठया विपरिणम्यते । कम्बोजात्परस्य तद्राजस्य लुक् स्यादित्यर्थः । अबहुत्वार्थ सूत्रम् । तदाह-कम्बोजः कम्बोजाविति । जनपदशब्दादिति । विहितस्य अओ लुक् । चोलः, शक इति । चोलशकौ देशविशेषौ राजविशषौ च । व्यज्लक्षणस्येति । 'यश्मगध-' इति विहितस्येत्यर्थः । केरल इति । केरलयवनशब्दो देशराजोभयवाचिनौ। अमओ लुगिति । जनपदशब्दादिति विहितस्येति शेषः । ननु काम्बोज इति कथम् , लुकप्रसङ्गादित्यत आह--कम्बोजाः समर इति । दीर्घपाठे स्थिति। अचां मध्ये आदेरचो दीर्घभूतस्य पाठे त्वित्यर्थः । अभिजन इति। यत्र पूर्वैरुषितं सोऽभिजन इत्यग्रे वक्ष्यति । सिन्धुतक्षेति । सिन्धबादौ कम्बोजशब्दस्य पाठादिति भावः । स्त्रियामवन्ति । अवन्ती कुन्तीति । अवन्तेः कुन्तेश्वापत्यं स्त्री राजी वेति विग्रहः । 'वृद्धत्कोसल-' इति ज्योऽनेन लुकि 'इतो मनुष्यजातेः' इति ष् । कुरूरिति । 'कुरुनाराषवाणां यादवैरित्येव भवितव्यमित्याशङ्कयाह-रघुयदुशब्दयोरिति । लक्षणयेति । ततश्वोक्तार्थत्वादपत्यप्रत्ययो नात्रोत्पन्न इति भावः । कम्बोजाल्लुक् । तद्राजस्य बहुषु-' इति प्रकरण एवेदं न कृतम्, धेकार्थवाचकस्याओ लुगभावप्रसंगात् । यद्यपि लुगधिकारे पुनर्मुग्विधानसामर्थ्याद् कयोरप्यनो लुग्भविष्यत्येवेति वक्तुं शक्यम् , तथाप्यतद्वाजस्यापि लुक्प्रसङ्गशङ्कापत्तेर्लाघवाभावाच तत्प्रकरणे न कृतमित्याहुः । न चात्र आपत्ये लक्षणयेन 'कम्बोजः कम्बोजो' इत्यादिरूपसिद्धौ किमनेन सूत्रेणेति शङ्कयम् , काम्बोज इत्यादिपाक्षिकानिष्टवारणाय सूत्रस्यावश्यकत्वात् । सिन्धुतक्षेति। कम्बोजशन्दस्य सिन्ध्वादित्वादण् । तस्य तु तद्राजत्वाभावाल्लुङ् नेति भावः । अवन्ती । कुन्तीति । 'वृद्धत् ' इति ध्यो लुकि 'इतो मनुष्यजातेः' इति ङीष् । , 'पूर्वम्' इति कचित् पाठः। Page #341 -------------------------------------------------------------------------- ________________ ३३८] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारअतश्च । (४-१-१७७) तद्राजस्याकारस्य स्त्रियां लुक्स्यात् । शूरसेनी। मद्री । कथं 'माद्रीसुतो' इति-हस्व एव पाठः' इति हरदसः । भर्गादित्वं वा कल्प्यम् । ११६७ न प्राच्यभर्गादियौधेयादिभ्यः। (४-१-१७८) एभ्यस्तद्वाजस्य न लुक् । पाञ्चाली। वैदर्भी । प्राङ्गी । वाङ्गी। मागधी । एते प्राच्याः। भार्गी । कारशी । कैकेयी । केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे डी । युधा शुक्रा श्राभ्यां 'यचः ' (सू ११२४) इति ढक् । ततः स्वार्थे 'पादियौधेयादिभ्योऽणी ' (सू २०७०) इस्यञ् । 'शारिवाद्यन:- ( स १२७) इति डीन् । 'प्रतश्च' (सू ११६६) इति लुकि तु ढगन्तस्वान्डीप्युदात्तनिवृत्तिस्वरः दिभ्यः-' इति ण्यस्य लुक् । अतश्च । तद्राजस्याकारस्येति । अत इति तद्राजविशेषणम् । तद्राजात्मकस्य अकारस्येत्यर्थः । शुरशेनीति । अञो लुकि प्रत्ययलक्षणमाश्रित्य अपत्यप्रत्ययान्तत्वेन जातित्वान् ङीष् । 'न लुमता-' इति निषे. धस्तु न, डीष्विधेरङ्गकार्यत्वाभावात् । एवं मद्री । न प्राच्य । एभ्य इति । प्राच्येभ्यः, भर्गादिभ्यः, यौधेयादिभ्यश्चेत्यर्थः । एते प्राच्या इति । क्षत्रिया इति शेषः । यथायथम् , अञः अणश्च लुक् । भर्गादीनुदाहरति-भार्गी, कारूशी, कैकेयीति । जन्यजनकभावेति । अत्र यद्वक्तव्यं तत् 'पुंयोगादाख्यायाम्' इत्यत्रोक्तम् । अथ यौधेयादिभ्यो लुप्रतिषेधं दर्शयितुमाह-युधा, शुक्रा इत्यादिना । ढगिति । युधाया अपत्यं शुक्राया अपत्यमिति विग्रहे तन्नामिकाणं बाधित्वा 'यचः' इति ढकि एयादेशे 'यस्येति च' इत्यकारलोपे आदिवृद्धिः। यौधेयशब्दात् शौक्रेयशब्दाच्च 'पादियौधेयादिभ्योऽणजौ' इति स्वार्थे तद्राजसंज्ञके पाञ्चमिके अनि 'यस्येति च' इत्यकारलोपे 'शार्ङ्गरवाद्यनः' इति ङीनि यौधेयी शौकेयीत्ति रूपमिति कुरूरिति । ण्यस्य लुक् 'ऊकुतः' इत्यूङ् । अतश्च । इह तद्राजेन अकारो विशेष्यते, न त्वकारेण तद्राजः । विशेषणेन तदन्तविधौ व्यायादीनामप्यदन्ततद्राजत्वादनेनैव लुकि सिद्धे अवन्तिकुन्तिकुरुभ्यो लुग्विधायकस्य स्त्रियामवन्तिइति सूत्रस्य वैयर्थ्यापत्तेः । न चेष्टापत्तिः । कौसल्येति रूपासिद्धिप्रसङ्गादतो व्याचष्टेतद्राजस्याकारस्येति । सूत्रे तपरकरणं विस्पष्टार्थमिति भावः । शूरसेनीति । अजो लुकि 'जातेः' इति ङीष् । न त्वजन्तलक्षणो डीन्, 'अजो योऽकारस्तदन्तात्' इति व्याख्यानात् । कारूशीति । कृञ उः करुः, तं वष्टि करूशः । 'वश कान्तौ' मूलविभुजादित्वात्कः । 'अहिज्या-' इति संप्रसरणम् । तस्यापत्यं राजा वा कारूशः। स्त्रियां कारूशी । एतेन मूर्धन्योपधः पाठो निरस्तः । यौधेयादिभ्यो लुक्प्रतिषेधमुदाहर्तुमाह-युधा । शुक्रेत्यादि । अतश्चेति लुकि त्विति । 'आदय Page #342 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३३६ 1 स्यात् । यौधेयी । शौक्रेयी । ११६८ श्रणिनोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे । ( ४-१-७८) ज्यादीनामन्त्यमुत्तमम् तस्य समीपमुपोत्तमम् । गोत्रे craft विहितावनाषै तदन्तयोर्गुरूपोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः भावः । नन्वत्र ‘अतश्च' इति श्रञो लुकि सत्यपि 'टिड्ढ -' इति ङीपि, यौधेयी शौक्रेयीति सिद्धेरिह यौधेयादिग्रहणमनर्थकमित्यत श्राह - श्रतश्चेति लुक त्विति । उदात्तनिवृत्तीति । 'अनुदात्तस्य च यत्रोदात्तलोपः -' इत्येनन ङीबुदात्तः स्यात् । सिद्धान्ते त्वञन्तत्वाद् ङीनि श्रायुदात्तत्वमिति भावः । अणिज । त्र्यादीनामन्त्यमुत्तममिति । तथा भाष्यादिति भावः । तस्य समीपमुपोत्तममिति । सामीप्येऽव्ययीभाव इति भावः । गुरु उपोत्तमम् उत्तमसमीपवर्ति ययोरिति विग्रहः । प्रातिपदिकादित्यधिकृतं षष्ठीद्विवचनेन विपरिणम्यते । उपोत्तमगुरुवर्णक्रयोः प्रातिः पादेकयोरिति लभ्यते । 'अणियो:-' इत्यनेन प्रत्ययग्रहणपरिभाषया अणित्रन्तयोप्रहणम् । गोत्रे इत्येतद् ऋणिञोरन्वेति । ऋषेरविहितौ नाषै । इदमपि जोर्विशेषणम् । स्त्रियामित्यधिकृतम् । तदाह – गोत्रे यावणिञावित्यादिना । स्तद्राजा ः' इति वक्ष्यमाणत्वादनोऽस्य तद्राजत्वमस्तीति भावः । योपधत्वान् ङीषः प्राप्तिर्नेत्याशयेनाह — ङीपीति । उदात्तनिवृत्तिस्वर इति । 'अनुदात्तस्य च यत्रोदात्तलोपः' इत्यनेन ङीबुदात्तः स्यादित्यर्थः । सिद्धान्ते त्वञो लुगभावाद् ङीन्यायुदात्तत्वमिति ज्ञेयम् । स्यादेतत् । 'अतश्च -' इति सूत्रेण विधीयमानो लुक् चातुरर्थिकानामेव तद्राजानां भवतु, संनिधानात् न तु 'मादयस्तद्राजा:' इति पाचमिकानामपि तद्राजानामिति किमनेन यौधेयादिग्रहणेन । सत्यम्, 'व्याप्तिन्यायेन पाञ्चमिकस्यापीह ग्रहणम्' इति ज्ञापयितुं यौधेयादिग्रहणम् । तेन पार्श्वाद्यणः स्त्रियां लुक् सिध्यति । तथा हि पर्शुः क्षत्रियो जनपदेन समानशब्दः । तस्यापत्यं स्त्री 'द्यष्मगध-' इत्यय्, तस्य 'श्रतश्च' इति लुक् । पुनः पर्श्वादिलक्षणः स्वार्थिकोऽण् । तस्यापि लुकि 'ऊडुतः ' पर्शः । एवं रक्षसः क्षत्रियस्यापत्यं स्त्री रक्षाः । पूर्ववदण्द्वयस्यापि लुकि 'वसन्तस्य -' इति दीर्घः । उक्तं च वार्तिककृता – 'पर्श्वादिभ्यो लुग्वक्तव्यः । यौधेयादिप्रतिषेधो वा ज्ञापकः पार्श्वादिलुकः' इति । यौधेयीत्यादि । युधायाः शुकाया अपत्यं स्त्रीति विग्रहः । श्रणिजः । उत्तममिति । अव्युत्पन्नं प्रातिपदिकमिदम् । न तूच्छब्दात्तमप्, तेन किमेत्तिङव्ययघात् -' इत्याम् न शङ्कयः । गोत्रे याविति । 'अपत्याधिकारादन्यत्र लौकिकं गोत्रम्' इति नेह शास्त्रीयं गृह्यते । तथा च 'अनार्षयोः' इति पर्युदासादेव सिद्धे गोत्रग्रहणमिह त्यक्तुं शक्यम् । न चात्र गोत्रग्रहणसामर्थ्यात् शास्त्रीयमेव गोत्रं गृह्यत इति वाच्यम् । देवदत्त्या Page #343 -------------------------------------------------------------------------- ________________ ३४०] सिद्धान्तकौमुदी। [तद्धितेष्वपत्याधिकारस्यात् । 'निर्दिश्यमानस्यादेशा भवन्ति' (१३) इत्यणिोरेव । षडाविती । 'यश्चा' (सू ५२८)। कुमुदगन्धेरपत्यं सी कौमुदगन्ध्या । वाराया । अनाप्रादेशः स्यादिति । स्थानषष्टीनिर्देशादादेशत्वलाभः । ननु अणिअन्तयोः ध्यादेशोऽयमनेकाल्त्वात् सर्वादेशः स्यादित्यत आह-निर्दिश्यमानस्येति । तथा च अणिोरेवायमादेश इति भावः । 'उिच्च' इत्यन्तादेश इति तु न युक्तम् , ङित्त्वस्य 'ध्यङः सम्प्रसारणम्-' इत्यादौ चरितार्थत्वात् । कुमुदगन्धेरिति । कुमुदगन्ध इव गन्धो यस्येति विग्रहः । 'सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्य उत्तरपदलोपश्च' इति बहुव्रीहिः, पूर्वखरडे उत्तरपदस्य गन्धशब्दस्य लोपश्च । 'उपमानाच्च' इति इत्त्वम् । कुमुदगन्धेरपत्यं स्त्रीति विग्रहे अण् । 'यस्येति च' इति इकारलोपः, पादिवृद्धिः, कौमुदगन्धशब्दः, तत्र धकारादणोऽकार उत्तमः । तत्समीपवर्ती गुरुः गकारादकारः, 'संयोगे गुरु' इत्युक्तेः । नचानुस्वारधकारव्यवहितत्वात्कथमुत्तमसमीपवर्तित्वं गकारादकारस्येति वाच्यम् , 'येन नाव्यवधानं तेन व्यवहितेऽपि' इति न्यायेन हला व्यवधान स्यादोषत्वात् । नाणि परे अव्यवहितो गुरुः क्वचिदस्ति । एवं च गुरूपोत्तमं प्रातिपदिकं कौमुदगन्धेत्यणन्तम् , तदवयवस्य अणः ध्यादेशे 'यङश्वाप्' इति चापि कौमुदगन्ध्याशब्द इत्यर्थः । इअन्तस्योदाहरति-वाराहोति । याज्ञदत्त्येत्यादीनामनन्तरापत्येऽपीष्यमाणस्वात् । अतएवानुपदं वक्ष्यति 'कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या' इति । इदं च कौस्तुभानुसारि व्याख्यानमत्रत्यमूलानुगुणमपि 'देवयज्ञि-' सूत्रस्थेन 'अगोत्रार्थमिदम्' इत्यादिमूलमन्थेन सह विरुध्यत इति तत्रैव स्फुटीभविष्यति । यद्यपि स्त्रीप्रत्ययाः प्रकृताः तथापि “पत्युनों यज्ञसंयोगे' इति नकारस्येव ष्यङ आदेशत्वमेवोचितम् 'अणिोः -' इति षष्ठीवरसादित्यभिप्रेत्याहष्यङादेशः स्यादिति । ष्यङः प्रत्ययत्वेऽपि लक्ष्यसिद्धिरप्रत्यूहेति मनोरमायां स्थितम् । नन्वयं 'ङिच्च' इत्यन्तादेशं बाधित्वा परत्वात्सर्वादेशः स्यात् । 'ङिच्च' इत्यस्यानन्यार्थङित्त्वेष्वनकादिषु चरितार्थत्वात् । ष्यडोऽनुबन्धस्य 'यङश्चाप्' इति विशेषणार्थतया सप्रयोजनत्वादित्याशङ्कयाह-निर्दिश्यमानस्येति । षडाविताविति । अनुबन्धद्वयकरणं व्यङ इव ध्यडोऽपि 'यङश्वाप्' इत्यत्र सामान्यग्रहणार्थम् । न च 'प्यङः संप्रसरणम्' इत्यत्र विशेषणार्थ तयोरुपयोगोऽस्ति । अन्यथा पाश्यापुत्रः पाश्यापतिरित्यत्र 'पाशादिभ्यो यः' इति यप्रत्ययेऽपि संप्रसारणप्रसङ्ग इति वाच्यम् । 'यङः संप्रसारणम्' इत्येकानुबन्धेनापि तद्वारणात् । लोलूयापतिरित्यत्र त्वकारप्रत्ययेन व्यवधानात्संप्रसारणाभावः । कौमुदगन्धीपुत्र इत्यत्र त्वेकादेशस्य पूर्वान्तत्वेन प्रहणानास्ति व्यवधानमिति संप्रसारणं सिध्यति । कौमुदगन्ध्येति । अणः व्यङ् । Page #344 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३४१ योः किम् - वासिष्ठी | वैश्वामित्री । गुरूपोत्तमयोः किम्-औपगवी । जातिलक्षणो ङीष् । गोत्रे किम्-श्रहिच्छस्त्रे जाता श्रहिच्छत्री । ११६६ गोत्रावयवात् । (४-१-७६) गोत्रावयवा गोत्राभिमताः कुलाख्याः, ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । श्रगुरूपोत्तमार्थ श्रारम्भः । पौणिक्या । भौणिक्या । वराहस्यापत्यं स्त्रीति विग्रहः, अत इञ्, अकारलोपः, वाराहिशब्दः । तत्र इकार उत्तमः | रेफादाकार उत्तमसमीपवर्ती गुरुः । इञ इकारस्य व्यङादेशः, चाविति भावः । वासिष्ठी । वैश्वामित्रीति । ऋष्ययान्तावतौ । श्रपगवीति । अणन्तत्वेऽपि गुरूपोत्तमत्वाभावान्न ष्यङ् । जातिलक्षण इति । 'गोत्रं च चरणैः सह' इति जातित्वम् । श्रहिच्छत्रीति । जातार्थे श्रणयम् नतु गोत्र इति न व्यङ् । नच व्यङ्प्रत्यय एव कुतो न विधीयत इति वाच्यम्, तथा सति उदमेवस्यापत्यं स्त्री इति विग्रह व्यङि चापि यदमेय्या, तस्या अपत्यं श्रदमेयेय इति न सिध्येत्, अस्यापत्यप्रत्ययत्वाभावेन यलोपाप्राप्तेरिति स्पष्टुं भाष्ये । गोत्रावयवात् । गोत्रावयवशब्द व्याचष्टे - गोत्रावयवा गोत्राभिमता इति । गोत्रं कुलम् अभिमतं प्रख्यातं याभिरिति विग्रहः । कुलप्रख्यातिकृत इत्यर्थः । कुलव्यपदेशकृत इति यावत् । तदाह--कुलाख्या इति । कुलम् आख्यायते व्यपदिश्यते श्राभिरिति कुलाख्याः । कुलनामानीत्यर्थः । पुणिकादिशब्दैर्हि कुलं व्यपदिश्यते - पुणिका वयम्, भुणिका वयमित्यादि । श्रवपूर्व काद् 'यु मिश्रणे' इति धातोरुपसर्गवशेन प्रख्यात्यर्थकात् पचाद्यचि श्रवयवशब्दः । कुलस्यावयवः प्रख्यापकशब्दः कुलावयव इति लभ्यत इति भावः । ननु पूर्वेौव सिद्धे किमर्थमिदमित्यत आह- गुरुपोत्तमार्थ इति । गोत्रादवयुतं मिश्रितम् अनन्तरापत्यं तदर्थमित्यपि भाष्ये स्पष्टम् । एवं च पूर्वसूत्रे अपत्याधिकारबहिर्भूतेऽपि पारिभाषिकमेव गोत्रं गृह्यत इति भाष्यस्वरसः । वाराह्येति । इञः ष्यङ् । णित्रोः किम् ऋतभागस्यापत्यमार्तभागी । बिदादित्वादञ् 'शार्ङ्गरवाद्यञः' इति ङीन् । 'टिड्ढा-' इत्यादिना ङीबिति तु वृत्तिकारः । 'अणिञोः -' इत्यत्र तु लौकिकं गोत्रं गृह्यते । 'गोत्रं च चरणैः-' इत्यत्र तु पारिभाषिकमेव गृह्यते । तेन जातित्वाभावान्डीनः प्राप्तिर्नास्तीति स्थितस्य गतिमाहुः । गोत्रावयवात् । अवयवशब्दोऽप्रधानवाची, श्रवयवश्वासौ गोत्रं चेति कर्मधारयः, निपातनाद् गोत्रशब्दस्य पूर्वनिपातः । गोत्राभिमता इति । गोत्रमित्येवमभिमताः गोत्रवाचित्वेन देशविशेषे प्रसिद्धाः, न तु प्रवराध्याये पठिता इत्यर्थः । प्रवराध्यायेsपाठाच्चाप्राधान्यम् । कुलाख्या इति । कुलमाख्यायते यैरिति कुलाख्याः पुणिकभुणिकमुखरप्रभृतयः तैर्हि कुलमाख्यायते 'पुणिका वयं गोत्रेण' 'भुणिका वयं गोत्रेण' Page #345 -------------------------------------------------------------------------- ________________ ३४२ ] सिद्धान्तकौमुदी । [तद्धितेष्वपत्याधिकार I 1 १२०० क्रौड्यादिभ्यश्च । (४ - १ - ८० ) स्त्रियां व्यङ्प्रत्ययः स्यात् । श्रगुरूपो• त्तमार्थोऽनणिञन्तार्थश्चारम्भः । क्रौड्या । ब्याड्या | गौकेच्या । 'सूत युवत्याम् ' (ग सू ५५ ) सूत्या | 'भोज क्षस्त्रिये' (ग सू ५६ ) । भोज्या | १२०१ दैवयशिशौचिवृक्षिसात्यमुत्रिकाण्डेविद्धिभ्यो ऽन्यतरस्याम् । (४-१-८१) एभ्यश्चतुर्भ्यः ष्यङ्वा । श्रगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पते 'इतो पौणिक्येति । पुणिकस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् व्यङि चाप् । एवं भौणिक्या । मनुष्यनामत्वे तन्नामिकाणः ष्यङ् । क्रौड्यादिभ्यश्च । 'प्रत्ययविधिः’ इति भाष्योक्तं पक्षान्तरमाश्रित्याह - ष्यङ्प्रत्यय इति । पूर्वेण सिद्धे किमर्थमिदमित्यत आह — अगुरूपोत्तमार्थोऽनणिञन्तार्थश्वेति । कौड्येति । क्रोडस्यापत्यं स्त्रीति विग्रहे अत इञन्तात्यङ्, चाप् । इह 'त्र्यादीनामन्त्यमुत्तमम्' इत्युक्तेर्न गुरूपोत्तमत्वम् । मनुष्यनामत्वे त्वत् । गौकदयशब्दो गगादियजन्तः । तस्य अनणिजन्तत्वेऽपि व्यङ् । सूत युवत्यामिति । गणसूत्रमिदम् । सूतशब्दो युवत्यां ष्यङं लभत इत्यर्थः । सूत्येति । प्राप्तयौवनेत्यर्थः । जातौ तु सूतीत्येव । भोजक्षत्रिये । इदमपि गणसूत्रम् । दैवयशि । गोत्रार्थमिति । अनन्तरापत्यार्थमित्यर्थः । प्रवर्तत इति । विकल्प इति शेषः । पक्ष इति । ष्यङभावइति । तत इति । गोत्रावयवादित्यर्थः । क्रौड्यादिभ्यश्च । पञ्चमीनिर्देशात्प्रत्ययत्वमेवेहाश्रीयत इत्याह — ष्यङ् प्रत्यय इति । कौडि, व्याडि, श्रपिशलि, गौकक्ष्य इत्यादि । गौकक्ष्यशब्दो गर्गादियजन्तस्तदर्थमाह — अनणिञन्तार्थश्चेति । सूतेति । गणसूत्रम् । सूतशब्दो ष्यकं लभते युवत्यां वाच्यायामित्यर्थः । सूत्येति । व्यङि 'यङश्चान्' । अन्यत्र तु क्रियाशब्दाट्टाप् । सूतजातिवाचिनस्तु ङीष्, सूती । भोजेति । इदमपि गणसूत्रम् । जातिलक्षणङीषोऽपवादः व्यङ्, क्रियाशब्दात्तु टाबेव । भोजयतीति भोज्या । दैवयज्ञि | चतुर्भ्य इति । इन्तेभ्य इति शेषः । देवा यज्ञा यष्टव्या यस्य स देवयज्ञः । शुचिर्वृतो यस्य शुचिवृक्षः । सत्यमुग्रं यस्य सत्यमुग्रः । निपातनाद्विशेष्यस्य पूर्वनिपातो मुमागमश्च । काण्डेन विद्धः काण्डेविद्धः । 'कर्तृकरणे कृता-' इति समासः । निपातनात्काण्डशब्दस्य एकारः । पाठान्तरे कण्ठे विद्धमस्य, कण्ठे वा विद्धः कण्ठेविद्धः । 'श्रमूर्धमस्तकात् -' इत्यलुक् । एभ्यः सर्वेभ्योऽपत्ये 'अत इञ्' । गोत्रेऽपि । परत्वादिति । तथा चोभयत्र विभाषेति भावः । अत्रेदमवधेयम् -'अणिञोः -' इति सूत्रे यदि शास्त्रीयं गोत्रं गृह्यते तदा 'गोत्रार्थमिदम्' इत्यादिग्रन्थः स्वरसतः संगच्छते । यदि तु लौकिकं गोत्रमेव तत्र गृह्यते तदा 1 १ नास्तिक । Page #346 -------------------------------------------------------------------------- ________________ [३४३ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। मनुष्य-' (सू ५२० ) इति लीए । दैवयश्या, दैवयशी इत्यादि । इत्यपत्याधिकारप्रकरणम् । अथ तद्धितेषु चातुरर्थिकप्रकरणम् । २७ । १२०२ तेन रक्तं रागात् । (४-२-१) रज्यतेऽनेनेति रागः, कषायेण रकं वस्त्रं काषायम् । माञ्जिष्ठम् । रागात् किम्-देवदत्तेन रकं वस्त्रम् । १२०३ लाक्षारोचनाटक । (४-२-२) लाविकः, रौचनिकः । 'शकलकर्दमाभ्यापक्ष इत्यर्थः । दैवयशीति । देवयज्ञस्यापत्यं स्त्रीति विग्रहे अत इअन्तात् ध्यविकल्पः । इत्यादीति । शुचिवृक्षस्यापत्यं स्त्री शौचिवृक्ष्या, शौचिवृक्षी । सत्यमुग्रः, निपातनान्मुम् । सत्यमुप्रस्यापत्यं स्त्री सात्यमुग्रया, सात्यमुग्री। काण्डेन विद्धः काण्डेविद्धः । निपातनादेत्त्वम् कारडेविद्धस्यापत्यं स्त्री काण्डेविड्या, काण्डेविद्धी। काण्ठेविद्धीति पाठान्तरम् । कण्ठे विद्धं वेधो यस्य, तस्यापत्यम् , काण्ठेविद्धिः । ___ इत्यपत्याधिकारप्रकरणम् । अथ तद्धितचातुरर्थिकप्रकरण निरूप्यते । तेन रनं रागात् रज्यत इति । रज्यते वर्णान्तरं प्राप्यते अनेनेत्यर्थे रजेः करणे घनि कृते 'घमि च भावकरणयोः' इति नलोपे 'चजोः कुघिएण्यतोः' इति कुत्वे उपधावृद्धौ रागशब्द इत्यर्थः । तथा च रागशब्देन रञ्जनसाधनं द्रव्यमुक्तं भवति । तेनेति सामान्यनिर्देशः । तथाच तेन रक्तं वर्णान्तरं प्राप्तमित्यर्थे रागाद् रञ्जनद्रव्यवाचकात् तृतीयान्तादण् स्यादित्यर्थः, 'प्राग्दीव्यतोऽण्' इत्यधिकारात् । कषायेणेति । कषायो धातुविशेषो रञ्जनद्रव्यम् , तेन रक्तं वर्णान्तरं प्राप्तं कापायमित्यर्थः । माअिष्ठमिति । मञ्जिष्ठा नाम रजनद्रव्यविशेषः । लाक्षारोचनाद्वक् । अणोऽपवादः । लाक्षिक 'अणिोः -' इति नित्ये प्राप्ते विकल्पार्थमिदमित्येव व्याख्यातुमुचितमिति । इति तत्त्वबोधिन्यामपत्याधिकारप्रकरणम् । तेन रक्तम् । तृतीयान्तात्समर्थाद्यथाविहितं प्रत्ययाः स्युः । रज्यतेऽ. नेनेतीति । बाहुलकात्करणे घञ् । राग इति । रअकद्रव्यमित्यर्थः । शुक्लस्य वर्णान्तरापादनमिह रञ्जरर्थः । लाक्षारोचनात् । वृत्तिकृता तु वार्तिकस्थौ शकल १ कण्ठविद्धमित्यारभ्य काण्ठेविद्धिरितियावत् पाठः क्वचित् पुस्तके नास्ति । Page #347 -------------------------------------------------------------------------- ________________ ३४४ ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिकमुपसंख्यानम् ।' (वा २६७१)। शाकतिकः । कार्दमिकः । 'प्राभ्यामणपि' इति वृत्तिः । शाकलः । कार्दमः । 'नील्या अन्' (वा २६८०) नील्या रकं नीलम् । 'पीतास्कन्' (वा २६८१)। पीतकम् । 'हरिद्रामहारजनाभ्यामम्' (वा २६८२)। हारिद्रम् । माहारजनम् । १२०४ नक्षत्रेण युक्तः कालः। (४-२-३) पुष्येण युक्तं पौषमहः । पौषी रात्रिः । १२०५ लबविशेषे। (४-२-४) पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मककालस्यावान्तरविशेषश्चेन्न इति । पट इति शेषः । लाक्षया रक्त इति विग्रहः । रौचनिक इति । रोचनया रक्त इति विग्रहः । शाकलिक इति। शकलं रागद्रव्यविशेषः । वृत्तिरिति । भाष्ये तु नैतद् दृष्टम् । नील्या अनिति । वक्तव्य इति शेषः । अणोऽपवादः। नीली ओषधिविशेषः । 'पीतात्कन्' अणोऽपवादः । पीतं हरितालकादि द्रव्यम् । हारिद्रामहेति । अणोऽपवादः । स्वरे विशेषः । हरिद्रा प्रसिद्धा । महारजनं नाम रागद्रव्यविशेषः । इति रक्ताधिकारः । नक्षत्रेण । अस्मिन्नर्थे प्रथमोच्चारिताद् नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः । नक्षत्रयुक्तश्चन्द्रमाः नक्षत्रशब्दन विवक्षितः । पुष्येण युक्तमिति । पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थः । पौषम् अहरिति । पुण्यशब्दादणि 'तिष्यपुष्ययोर्नक्षत्राणि यलोपः' इति यलोपः। पौषी रात्रिति । पुष्ययुक्तचन्द्रमसा युक्त्यर्थः । अणि यलोपेः 'टिड्ढ-' इति ऊँप् । नक्षत्रेणेति किम् ? चन्द्रेण युक्ता रात्रिः । कालः किम् ? पुष्येण युक्तश्चन्द्रमाः । लुबविशेषे । षष्टिदण्डेति । षष्टिघटिकापरिच्छिन्ने काले एकैकस्मिन् एकैकेन कर्दमौ सूत्रे प्रक्षिप्तौ । 'शकलं त्वचि खण्डे च रागवस्तुनि वल्कले' इति विश्वः । वृत्तिकार इति । भाष्ये तु नैतद् दृष्टमिति भावः । नील्येति । नीली ओषधिविशेषः । अणपवादोऽयम् । नक्षत्रेण । नक्षत्रवाचकाः शब्दा वृत्तिविषये तयुक्तं चन्द्रमसमभिधानाः प्रत्ययं लभन्ते । पुष्यणेति । पुष्यसमीपस्थेन चन्द्रमसेत्यर्थः । एवं च पौषमहः, इत्यादिव्यवहारः सङ्गच्छते । सर्वेषामप्यहां पुष्ययोगसत्त्वेऽपि तत्समीपस्थचन्द्रमसा योगस्यासार्वत्रिकत्वात्। नक्षत्रेणेति किम् , चन्द्रेण युक्ता रात्रिः । कालः किम् , पुष्येण युक्तश्चन्द्रः । लुबविशेषे । पूर्वसूत्रस्यानुवर्तनादिह 'नक्षत्रेण युक्तस्य कालस्याविशेषे गम्ये' इत्यर्थः उपलभ्यते तदाह-षष्टिदण्डेति । 'अद्य पुष्यः' इत्युक्त्या 'न ह्यो, न श्वः' इति विशेषे गम्यमानेऽपि अहोरात्रात्मककालस्यावान्तरविशेषानवगमाल्लुब् भवत्येवेति भावः । अविशेषे' इत्यत्र प्रसज्य प्रतिबंधाश्रयणात् 'पोषोऽहोरात्रः' इत्यत्र लुब् न भवात, षष्टिदण्डसमुदायरूपकालस्य Page #348 -------------------------------------------------------------------------- ________________ प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३४५ गम्यते । अद्य पुष्यः । कथं तर्हि 'पुष्ययुक्ता पौर्णमासी पौषी' इति । 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' (सू १२२५) इति निर्देशेन पौर्णमास्यामयं लुन्नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अत एव लुब् युक्रवन्नावाभावश्च । अबाध. कान्यपि निपातनानि । श्रावणी । १२०६ संज्ञायां श्रवणाश्वत्थाभ्याम् । (४-२-५) विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम्-श्रावणी, श्राश्वत्थी। १२०७ द्वन्द्वाच्छः। (४-२-६) नक्षत्रद्वन्द्वाचुक्ने काले छः स्याद्विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया नक्षत्रेण चन्द्रमा युज्यत इति स्थितिः । तस्य षष्टिदण्डस्य कालस्य अवान्तरविशेषः अहर्वा रात्रिर्वेति न गम्यते चेदित्यर्थः। अद्य पुष्य इति । अयेत्यव्ययम् अहोरात्रवाचि अधिकरणशक्तिप्रधानम् , इह तु अधिकरणशक्लिविनिर्मुक्तः अहोरात्रकालो विवक्षितः । तथा च अयमहोरात्रः पुष्ययुक्तचन्द्रमसा युक्त इत्यर्थः । अहर्वा रात्रिर्वेति विशेषानवगमादणो लुप् । कथं तीति। पौर्णमास्याः षष्टिदण्डात्मिकाया अवान्तर. विशेषानवगमादिह लुप् स्यादित्याक्षेपः। समाधत्ते-विभाषेति । फाल्गुनीकार्तिकीचैत्रीशब्दानां नक्षत्राण्विशिष्टानां पौर्णमास्यां प्रयोगदर्शनेन पौर्णमास्यां नक्षत्रयुक्तायां 'लुबविशेषे' इत्ययं लुब् नेति ज्ञापितत्वात् पौषी पौर्णमासीत्यत्र न लुबित्यर्थः । ननु तर्हि श्रवणयुक्तपौर्णमास्यां लुबभावात् कथं श्रवणेति निर्देश इत्यत आह-श्रवणशब्दात्त्वत एव लुबिति । श्रवणेति निपातनादेव पौर्णमास्यां लुबित्यर्थः । ननु 'कृत्तिका श्रवणः पुष्यः चित्रास्वात्योर्यदन्तरम् ।' इत्यादौ श्रवणशब्दस्य पुँल्लिङ्गत्वदर्श नेन तस्मादणो लुपि कृते 'लुपि युक्तवद्यक्तिवचने' इति पुंल्लिङ्गत्वावश्यंभावाच्छ्त्रणेति कथं स्त्रीलिङ्गतेत्यत आह-युक्तवद्भावाभावश्चेति । निपातनादिति शेषः । ननु तर्हि श्रावणीति नैव स्यादित्यत आह--अबाधकान्यपि निपातनानीति । इयं परिभाषा वृत्तौ स्थिता । सर्वादिसूत्रभाष्ये तु 'बाधकान्येव निपातनानि' इत्युक्तम् । संज्ञायाम । श्रवणाश्वत्थाभ्यां परस्य नक्षत्रप्रत्ययस्य लुप् स्यात्संज्ञायामित्यर्थः । ननु 'लुबविशेषे' इत्येव सिद्ध किमर्थमिदमित्यत आह--विशेषार्थोऽयमारम्भ इति । श्रवणा रात्रिरिति । श्रवणयुक्तचन्द्रमसा युक्ता रात्रिरित्यर्थः । 'विभाषा फाल्गुनीश्रवणा-' इति सूत्रे श्रवणेति निर्देशस्य सामान्यापक्षत्वाद् अपौर्णमास्यामपि युक्तवद्भावो नेति विज्ञायते । अतः श्रवणा रात्रिरिति सिद्धमिति प्रकृतसूत्रे भाष्ये स्पष्टम् । अश्वत्थो मुहूर्त इति । अश्वत्थो नाम अश्विनीनक्षत्रम् । तेन युक्तः अश्वत्थो प्रतीतावप्यवयवद्वयात्मकस्य विशेषस्य प्रतीतेरित्याशयेनाह - विशेषश्चेन्नेति । अद्य पुष्य इति । 'मूलेनावाहयेद्देवी श्रवणेन' इत्यप्युदाहरणं बोध्यम् । द्वन्द्वाच्छः । Page #349 -------------------------------------------------------------------------- ________________ ३४६ ] सिद्धान्तकौमुदी। तद्धितेषु चातुरर्थिकरात्रिः । १२०८ दृष्टं साम । (४-२-७ ) तेनेत्येव । वसिष्ठेन दृष्टं वासिष्ठं साम । 'अस्मिन्नर्थेऽण डिद्वा वक्तव्यः' (वा २६६०)। उशनसा दृष्टमौशनम्, प्रौशनसम् । १२०६ कलेढक् । (४-२-८) (वा २६८६) । कलिना दृष्टं कालेयं साम । १२१० वामदेवाडुयडयो। (४-२-६ ) वामदेवेन दृष्टं साम वामदेव्यम् । मुहूर्तविशेषो ज्यौतिषे प्रसिद्धः । द्वन्द्वाच्छः । तिष्यपुनर्वसवीयमहरिति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः । छस्य ईयादेशे ओर्गुणः। राधानुराधीया रात्रिरिति । राधेति विशाखानक्षत्रमुच्यते। राधा च अनुराधाश्च राधानुराधाः, तयुक्ता रात्रिरित्यर्थः। दृष्टं साम । तेनेत्यवेति । अनुवर्तत एवेत्यर्थः। तेन दृष्टं सामेत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । अस्मिन्नर्थ इति । 'दृष्टं साम' इत्यर्थे यः अण् स डिद्वेत्यर्थः । औशनमिति। अणि टिलोपपक्षे रूपम् । कलेढक् । वामदेवाड्यड्डयौ । वामदेव्यमिति । डित्त्वाहिलोपः, तित्वं स्वरार्थम् । ननु 'यस्येति च' इति लोपेन सिद्धे किमर्थमिह डित्करणमिति चेत्, सत्यम्-ययतोरेव विधौ ‘ययतोधातदर्थे' इति नञः परस्य ययदन्तस्यान्तोदात्तस्वरविधौ अनयोग्रहणं स्यात् , तदभावार्थ' डित्करणम् । डित्करणे सति तु स्वरविधावनयोन ग्रहणम् , 'निरनुबन्धकग्रहणे सति न सानुबन्धकस्य ग्रहणम्' इति परिभाषया 'तदनुबन्धकग्रहणे सति नातदनुबन्धकस्य' इति परिभाषया च तन्निवृत्तिर्भवति । एते तु परिभाषे इहैव विशेषे उदाहरणमाह-तिष्येत्यादि । अविशेषे तूदाहर्तव्यम् ‘अद्य राधानुराधीयम्' इति । न चात्र 'लुबविशेष' इति प्रण इव छस्यापि लुप्स्यादिति वाच्यम् । मध्येऽपवादन्यायरीत्या पूर्वोपस्थितस्याण एव तत्प्रवृत्तेः। यत्तु 'लुपं परत्वाद्बाधते' इति वृत्तिकृतोक्तम् । तन्न । द्वयोर्युगपत्प्राप्त्यभावात् । दृष्टं साम । तृतीयान्ताद् दृष्टमित्यर्थेऽणादयः स्युर्यदृष्टं तच्चेत्साम । अस्मिन्नर्थ इति । तथा च श्लोकवार्तिकम्---‘दृष्टे सामनि जाते वाप्यण डिद् द्विर्वा विधीयते। तीयादीकक् न विद्याया गोत्रादङ्कवदिष्यते।' इति जातेऽर्थे यो द्विरण स च वा डिदित्यन्वयः। शतभिषजि जातः शताभिषः, शातभिषजः । इह हि 'प्राग्दीव्यतः-' इति प्राप्तोऽण कालाटूना बाधितः, स च 'सन्धिवेलादि-' सूत्रेण प्रतिप्रसूयते इत्ययं द्विरुक्तोऽण् । तीयादीति । तीयादीकक् स्वार्थे भवतीत्यर्थः । द्वैतीयकः, तार्तीयकः । न विद्याया इति । विद्यावाचकात्तीयान्तादीका न भवतीत्यर्थः । द्वितीया विद्या । गोत्रादकवदिति । गोत्रप्रत्ययान्तादके यः प्रत्ययः स दृष्टे सामन्यपि भवति । औपगवेन दृष्टमौपगवकम् । १ इदं वार्तिकमिति शेखरे । Page #350 -------------------------------------------------------------------------- ________________ [ ३४७ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । 'सिद्धे यस्येति लोपेन किमर्थं ययतौ डितौ । ग्रहणं माsतदर्थे भूद्वामदेव्यस्य नव्हवरे ॥' इति भाष्यम् । १२११ परिवृतो रथः । ( ४-२ - १० ) वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम्-वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । तेनेह नछात्रैः परिवृतो रथः । १२१२ पाण्डुकम्बलादिनिः । ( ४-२ - ११ ) पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् । १२१३ द्वैपवैयाघ्रादञ् । I ज्ञाप्येते । तथा च श्रवामदेव्यमित्यत्रायं स्वरो न भवति । एतत्संग्राहकं भाष्यस्यं श्लोकं पठति-सिद्धे यस्येत्यादि । अत्र पूर्वार्धमपिपरम् । 'यस्य -' इति लोपेन सिद्धे ययतौ किमर्थं डितौ कृतावित्यर्थः । ग्रहणमिति । वामदेव्यशब्दस्य नञ्स्वरे नाश्र - यस्वरविधौ अतदर्थे ‘ययतोश्चातदर्थे' इति सूत्रे अनयोर्व्यड्डयोग्रहणं मा भूदित्येतदर्थं डित्करणमित्यर्थः। परिवृतो रथः । तेनेत्यनुवर्तते । तेन परिवृतो रथ इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । ननु छात्रैः परिवृतो रथ इत्यत्रापि स्यादित्यत आहसमन्ताद्वेष्टितः परिवृत इत्युच्यत इति । रथस्य समन्तादाच्छादनार्थं यद्वस्त्रादिकं रथावयवभूतं तद्वाचकादेवेत्याशयः, एकान्तग्रहणमिति वार्तिकात्। पाण्डुकम्बलादिनिः । 'तेन' इति परिवृतो रथ इति चानुवर्तते । इनिप्रत्यये नकारादिकार उच्चारणार्थः । ननु ‘अत इनिठनौ' इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह-- अणो निवृत्त्यर्थमिति । द्वैपवैयाघ्रादक्ष । 'तेन' इति परिवृतो रथ इति इह ‘गोत्रचरणाद् वुञ्' इति वुञ् । वामदेवात् । ग्रहणं मातदर्थ इत्यादि । श्रुतदर्थे ‘ययतोश्चातदर्थे' इति विहिते नञ्स्वरे नञाश्रितखरे ड्यड्डयतोर्ग्रहणं मा भूदित्यर्थः । ‘ययतोश्च-' इति सूत्रेण विधीयमानं नञः परस्य यत्पदन्तस्योत्तरपदस्यान्तोदात्तत्वं वामदेव्यशब्दे मा भूत् । किंतु — अव्ययपूर्वपदस्वर एव यथा स्यादित्येतदर्थं डित्करणमिति फलितोऽर्थः । न च कृतेऽपि डित्त्वे 'ययतो :-' इत्यस्य प्रवृत्तिः कुतो नेति शङ्कयम् । 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' 'तदनुबन्धकग्रहणे नातदनुबन्धकस्य' इति परिभाषयोः सत्त्वात् । इमे च परिभाषे इहैव डित्त्वेन ज्ञाप्येते । तत्राद्यायाः प्रयोजनं 'पूरणगुण-' इति सूत्रे तव्यग्रहणे तव्यतोऽग्रहणम् । द्वितीयस्यास्तु अङ्ग्रहणे चङोऽग्रहणम् । श्वयतेरः' अङि परे इति शेषः । श्रश्वत् । चङि परे तु न, अशिश्वियत् । परिवृतो । तृतीयान्तात्परिवृत इत्यर्थेऽणादयः स्युर्यः परिवृतः स चेद्रथो भवति । रथाच्छादनार्थं यद्वत्रकम्बलादिकं तत एव सर्ववेष्टनं भवति, न तु च्छ्त्रादिभ्य इत्याशयेनाह – समन्ताद्वेष्टित इति । परिः सर्वतोभावे Page #351 -------------------------------------------------------------------------- ________________ ३४८ ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिक(४-२-१२) द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः । १२१४ कौमारापूर्ववचने । (४-२-१३) कौमार इत्यविभक्तिको निर्देशः। अपूर्वस्वे निपातनमिदम् । अपूर्वपति कुमारी पतिरुपपनः कौमारः। यद्वाअपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या । १२१५ तत्रोद्धृतममत्रेभ्यः। (४-२-१४) शरावे उद्धतः, शाराव प्रोदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी। उद्धृत्य निहित इत्यर्थः । १२१६ स्थगिडला. च्छयितरि व्रते । (४-२-१५) तत्र इत्येव । समुदायेन चेद् व्रतं गम्यते । चानुवर्तते तृतीयान्ताद् द्वैपशब्दाद्वैयाघ्रशब्दाच्च परिवृतो रथ इत्यर्थे अञ् स्यादित्यर्थः अणोऽपवादः । स्वरे विशेषः। द्वीपिन इति । द्वीपी व्याघ्रः, तस्य विकारः चर्मेत्यर्थे 'प्राणिरजतादिभ्यः' इत्यभि टिलोपे द्वैपशब्द इत्यर्थः । एवं वैयाघ्र इति । व्याघ्रस्य चर्म वैयाघ्रम् । अनि 'न ग्वाभ्याम्-' इत्यैच् । तेन परिवृतो वैयाघ्र इति भावः । कौमारापूर्ववचने।'तेन' इति परिवृतो रथ इति च निवृत्तम्। अविभक्तिक इति। लुप्तप्रथमाक इति भावः । अपूर्वशब्दो भावप्रधान इत्याह-अपूर्वत्वे निपातनमिदमिति । न पूर्वः पतिर्यस्याः सा अपूर्वपतिः, तां कुमारीमुपयतवान् पतिरित्यर्थ द्वितीयान्तात् कुमारीशब्दादण् स्यादित्येकोऽर्थः । कुमारी अपूर्व पतिमुपपन्नेत्यर्थे प्रथमा. न्तात्कुमारीशब्दादण् स्यादित्यन्योऽर्थः । ये उदाहरति-अपूर्वपतिमिति । द्वितीये उदाहरति-यद्वेत्यादि । आये उपयन्तरि प्रत्ययः । द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः । तत्रोदधृतम् । तत्रोद्धृतमित्यर्थे अमत्रवाचकशब्दात् सप्तम्यन्तात् प्रत्ययः स्यादित्यर्थः । अमत्रं भाजनं शरावादि । ननु उद्धरणे पृथक्करणे शरावस्यापादानत्वात् कथं सप्तमीत्यत आह-उद्धरतिरिहेति । 'सास्मिन्पौर्णमासी' इत्यतः प्राक् 'तत्र' इत्यनुवर्तते। स्थण्डिलाच्छयितरि। स्थण्डिलशब्दात्सप्तम्यन्ताद् वर्तत इति भावः । कौमारा। तेनेति निवृत्तम् । 'अपूर्व' इति भावप्रधानो निर्देश इत्याह-अपूर्वत्व इति । अपूर्वत्वं तु स्त्रिया एवेष्यते, पुरुषस्तु अपूर्वभार्योऽस्तु वा मा वेत्यनाग्रहः । अपूर्वपतिमिति । न पूर्वः पतिर्यस्या इति बहुव्रीहिः । कौमारः पतिरिति । द्वितीयान्तात्कुमारीशब्दादुपयन्तरि प्रत्ययः । कौमारीति । इह कुमारीशब्दात्प्रथमान्तात्स्वार्थे प्रत्ययः, 'टिड्ढाण-' इति डीप् । तत्रोदधृत । 'सास्मिन्पौर्णमासी-' इति सूत्रात्प्राक् 'तत्र' इत्यधिकारः । पात्रवाचिभ्यः सप्तम्यन्तेभ्य उद्धृतमित्यर्थे यथाविहितं प्रत्ययाः स्युः । शाराव इति । भुक्तोच्छिष्ट इत्यर्थे इति वृत्तिकृत् । अवशिष्ट इति तदर्थः । 'उच्छिनष्टि, न सर्व जुहोति' इति कल्पसूत्रव्यवहारात् । सप्तमीति । निधानक्रियापेक्षया अधिकरणत्वादिति भावः। Page #352 -------------------------------------------------------------------------- ________________ प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३४६ स्थण्डिले शेते स्थाण्डिलो भिन्नुः । १२१७ संस्कृतं भक्षाः । (४-२-१६) सप्तम्यन्तादरस्यात्संस्कृतेऽर्थे, यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृता भ्राष्ट्रा यवाः। श्रष्टसु कपालेषु संस्कृतोऽष्टाकपालः पुरोडाशः। १२१८ शूलोखाद्यत् । (४-२-१७) अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः। तस्यां संस्कृतमुख्यम् । १२१६ दध्नष्ठक् । (४-२-१८) दनि संस्कृतं दाधिकम् । १२२० उदश्वितोऽन्यतरस्याम् । (४-२-१६) ठक्स्यात् । पक्षेऽण् । १२२१ इसुसुक्तान्तात्कः । (७-३-५१) इस् उस् उक् त् एतदन्ता. व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यथः । संस्कृतं भक्षाः। भक्ष्यन्त इति भक्षाः, कर्मणि घन् । तत्रत्यनुवर्तते। तदाह-सप्तम्यन्तादिति । एकवचनं बहुवचनं च सामान्याभिप्रायम् , 'जात्याख्यायामेकस्मिन्बहुवचनम्-'इत्युक्तरित्यभिप्रेत्याह यत्संस्कृतं भताश्चेत्त स्युरिति । संस्कारो नाम पाकादिना गुणविशेषाधानम् , अष्टाकपाल इति । 'तद्धितार्थ-' इति समासः । भक्षा इति किम् ? पुष्पपुटे संस्कृतं वस्त्रम् । शूलोखाद्यत् । समाहारद्वन्द्वात्पञ्चमी । 'तत्र' इति 'संस्कृतं भक्षा' इति चानुवर्तते । सप्तम्यन्ताच्छूलशब्दादुखाशब्दाच 'संस्कृतं भक्षाः' इत्यर्थे यत् स्यादि. त्यर्थः । उखा पात्रविशेष इति । 'पिठरं स्थाल्युखा कुण्डम्' इत्यमरः । दध्नष्ठक । सप्तम्यन्नाद्दधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक् स्यादित्यर्थः । अणोऽपवादः । दाधिकामिति । ठकि इकादेशे 'यस्येति च' इति इकारलोपः । इह दध्नि अधि. करणे संस्कारो लवणादिना भवति । प्राग्वहतेरित्यत्र तु 'संस्कृतम्' इति तृतीयान्ताद् ठग्वक्ष्यते । उदश्वितोऽन्यतरस्याम् । ठक् स्यादिति । शेषपूरणमिदम् । स्थण्डिलात् । व्रतं शास्त्रेण विहितो नियमः, तस्मिन्समुदायेन गम्ये सप्तम्यन्ताद्यथाविहितः प्रत्ययो भवति शयितर्यर्थे । अष्टाकपाल इति । 'द्विगोलुंगनपत्ये' इत्यणो लुक् । शूलोखात् । 'संस्कृतं भक्षाः' इत्यनुवर्तते । कथम् 'उख्योग्निः' इति । न ह्यसौ भक्ष इति चेत् । अत्राहुः-दिगादित्वाद्भावार्थे यदिति। दनष्ठक् । दधीति। संस्कारस्त्विह लवणादिना, दधि त्वधिकरणमात्रम् । यस्तु 'प्राग्वहतेः' इत्यत्र 'संस्कृतम्' इति ठग्वक्ष्यते स तृतीयान्ताद्वोध्यः । तेन दना संस्कृतमपि दाधिकमेव । इसुसुक्लान्तात् । 'तात्' इत्युक्तेऽप्यङ्गविशेषणेनैव तान्तादिति लब्धे अन्तग्रहणं प्रत्ययोपदेशकाल यस्तान्तस्तस्मात्परस्य ठस्य कादेशो यथा स्यादित्येवमर्थम् । तेन 'माथितिकः' इत्यत्र ठस्य इकादेशे 'यस्य-' इति लोपे च कृते तान्तत्वेऽपि इकस्य कादेशो न भवतीति 'ठस्येकः' इति सूत्रे कैयटः । संनिपातपरिभाषयैव इकस्य कादेशो न स्यादित्यन्तग्रहणं त्यक्तुं शक्यमित्यन्ये । उदश्विदिति । श्वयतेः क्विपि तुक् Page #353 -------------------------------------------------------------------------- ________________ ३५० ] सिद्धान्तकौमुदी । [तद्धितेषु चातुरर्थिक त्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः, श्रश्विक:, श्रदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । श्राशिषा चरत्याशिषिकः । उषा चरति औौषिकः । 'दोष उपसंख्यानम्' ( वा २०५१ ) दोर्भ्यां चरति दौष्कः । १२२२ क्षीराड्ढञ् । ( ४-२ -२० ) अत्र संस्कृतम् इत्येव सम्बध्यते, न तु भक्षा इति । तेन यवाग्वामपि भवति । चौरेयी । १२२३ सास्मिन्पौर्णमासीति । ( ४-२-२१ ) इतिशब्दात् 'संज्ञायाम्' इति लभ्यते । पौषी पौर्णमास्यस्मिन्पौषो मासः । १२२४ आग्रहायण्यश्वत्थाट्ठक् । उक्तविषये उदश्विच्छन्दाट्ठग्वा स्यादित्यर्थः । इसुसुक्तान्तात्कः । इसुसुक्ताः अन्ता यस्येति विग्रहः । तकारादकार उच्चारणार्थः । ठस्य कः स्यादिति । ठकि ककार इत्, अकार उच्चारणार्थः, ठकारस्य शिष्टस्य ककार आदेश इति 'ठस्येकः' इत्यत्रोक्तम् । श्वयतीत्यस्य विवरणम् - वर्धते इति । 'टु प्रो श्वि गतिवृद्धयोः' इति धातुरिह वृद्धधर्थक इति भावः । उदश्विदिति । क्विपि तुक् । 'उदकस्योदः संज्ञायाम्' इत्युदादेशः । 'तकं ह्यदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्' इत्यमरः । प्रतिपदोक्तयोरिति । इस्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः । यथा सार्पिष्कः, धानुष्कः इति । आशिषिक इति । चरतीति ठक् । शासुधातोः किपि 'आशासः कौ -' इत्युपधाया इत्त्वम् । उषा चरति श्रौषिक इति । वसधातोः क्विपि सम्प्रसारणे उषेति तृतीयान्तम् । 'शासिवसिघसीनां च' इत्युभयत्र षत्वम् । दोष इति । दोषशब्दात् ठस्य कः स्यादित्यर्थः । दौष्क इति । तरतीति ठक् । क्षीराढ्ढञ् । क्षैरेयीति । क्षीरे संस्कृता यवागूरित्यर्थः । भक्षग्रहणानुवृत्तौ त्विह न स्यात् यवाग्वाः पेयत्वेन खाद्यत्वाभावात् । सास्मिन्पौर्णमासीति । 'तत्र' इति, 'संस्कृतं भक्षाः' इति च निरृत्तम् । सा पौर्णमासी श्रस्मिन्नित्यर्थे प्रथमान्तात्प्रत्ययः स्यादित्यर्थः । इतिशब्दादिति । एतच्च भाष्ये स्थितम् । पौषीति । पुष्येण युक्ता पौषी पौणमासी, सा यस्मिन्मासे स पौषो मासः । पौषीशब्दादणि 'यस्येति च' इति इकारलोपः । एवं मघाभिर्युक्ता पौणमासी माघी, सा यस्मिन्स माघो मासः । तथा 'उदकस्योदः -' इत्युदादेशः । इहैव निपातनात्संप्रसारणाभावः । सास्मिन् । सेति प्रथमान्तादस्मिन्निति सप्तम्यन्तार्थे प्रत्ययः स्याद्यः प्रथमान्तार्थः स चेत्पौर्णमासी भवति । इति शब्दादिति । स हि लौकिकीं विवक्षामनुसारयति । वृत्तिकृता तु सूत्रे एव ‘संज्ञायाम्' इति प्रक्षिप्तम् । पौर्णमासीति । पूर्णो मासोऽस्यां तिथाविति बहुव्रीहौ प्रज्ञादित्वात्स्वार्थिकोऽणिति हरदत्तादयः । ' तदस्मिन्वर्तते' इत्यधिकारे Page #354 -------------------------------------------------------------------------- ________________ प्रकरणम् २७] बालमनोरमा तत्त्वबोधिनीसहिता। [३५१ (४-२-२२) अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणवादण् । 'पूर्वपदात्संज्ञायाम्-' (सू ८५७) इति णत्वम् । प्राग्रहायणी पौर्णमास्यस्मिनाग्रहायणिको मासः। अश्वत्थेन युका पौर्णमास्यश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । श्राश्वस्थिकः । १२२५ विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः। (४-२-२३) एभ्यष्टग्वा । पक्षेऽण् । फाल्गुनिकः, फाल्गुनो वा मासः । श्रावणिकः, श्रावणः । कार्तिकिकः, कार्तिकः । चैत्रिकः, चैत्रः । १२२६ साऽस्य देवता । (४-२-२४) इन्द्रो देवता अस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता, मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः। 'आग्नेयो वै ब्राह्मणो देवतया' इति तु शैषिकेऽर्थे 'सर्वनाग्नि-' फाल्गुन इत्यादि । संज्ञायां किम् ? पौषी पौर्णमासी अस्मिन्पञ्चदशरात्रे । आग्रहायएयश्वत्थाट्टक् । पूर्वसूत्रविषये आग्रहायणीशब्दादश्वत्थशब्दाच ठक् स्यादित्यर्थः । अणोऽपवादः । हायनमिति । संवत्सर इत्यर्थः । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री' इत्यमरः । यस्या ऊर्ध्व संवत्सरस्यारम्भः सा पौर्णमासी आग्रहायणीत्यर्थः । तर्हि आग्रहायणेति स्यादित्यत आह-प्रज्ञादेरिति । 'प्रज्ञादिभ्यश्च' इति स्वार्थे अणि 'टिड्ढ-' इति डीबित्यर्थः। अश्वत्थेनेति । अश्विनीनक्षत्रेणेत्यर्थः । अश्वत्थ इति । नक्षत्राणः 'लुबविशेषे' इति लुबिति भावः । ननु 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' इति निर्देशेन पौर्णमास्यां 'लुबविशेषे, इत्यस्याप्रवृत्तेरुकत्वात् कथमिह लुबित्यत आह-निपातनात्पौर्णमास्यामपि लुबिति । तथा च पौर्णमास्यां लुब् नेति ज्ञापनमेतद्यतिरिक्तविषयमिति भावः । विभाषा फाल्गुनी । एभ्यष्ठग्वेति । 'सास्मिन्-' इत्युक्तविषये इति शेषः । फाल्गुनिकः फाल्गुनो वा मास इति । फाल्गुनी पौर्णमास्य. स्मिन्निति विग्रहः । एवं श्रावणिक इत्यादि । इति युक्ताद्यर्थकाः। साऽस्य देवता । अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः । ऐन्द्रं हविरिति । इन्द्रात्मकदेवतासम्बन्धीत्यर्थः । पाशुपतमिति । पशुपतिर्देवता अस्येति विग्रहः । ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्र्यमित्याद्यनुपपन्नमित्यत आह-त्यज्यमानद्रव्ये उद्देश्य. विशेषो देवतेति । हविश्शेषमृत्विग्भ्यो ददाति, विप्राय गां ददाति इत्यादौ ऋत्विग्विप्रादेर्दैवतात्वव्यावृत्तये विशेषग्रहणम् । त्यज्यमानहविस्साध्यः अस्मदाद्य'पूर्णमासादण वक्तव्यः' इति वार्तिकं न कर्तव्यमिति तदाशयः । सास्य । 'सेति प्रकृतं संज्ञासम्बद्धम्-' इति पुनः साग्रहणं कृतमित्याहुः । इहैव सूत्रे निपातनाद्देव Page #355 -------------------------------------------------------------------------- ________________ ३५२ ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिक(वा २६८६ ) इति ढक् । १२२७ कस्येत् । (४-२-२५) कशब्दस्येदादेशः स्यात्प्रत्ययसंनियोगेन । 'यस्य-' (सू ३११) इति लोपात्परत्वादादिवृद्धिः । को ब्रह्मा देवता अस्य कायं हविः । श्रीदेवता अस्य श्रायन् । १२२८ शुक्राद्धन् । प्रत्यक्षः यस्तृप्त्याद्युपकारः तदाश्रयो देवतेति यावत् । मन्त्रस्तुत्या चेति । 'अग्निमीडे पुरोहितम्' इत्यादिमन्त्रषु यज्ञपुरोहितत्वादिगुणविशिष्टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः । ऐन्द्रो मन्त्र इति । इन्द्रस्तुत्यको मन्त्र इत्यर्थः । ननु ‘आग्नेयो वै ब्राह्मणो देवतया' इत्यत्र कथं देवतातद्धित । अत्र अनर्हविरुद्देश्यत्वस्य मन्त्रस्तुत्यत्वस्थ चाभावादित्यत आह-आग्नेयो वै इति । शैषिकेऽर्थ इति । शेषे इति सूत्रलब्धे तदभिमानिकत्वे गम्ये इत्यर्थः । अग्निर्नाम यो देवताजातिविशेषो लोकवेदसिद्धः तदभिमानिको ब्राह्मण इति बोधः। कस्येत् । प्रत्ययसंनियोगेनेति । 'साऽस्य देवता' इति विहिते व शब्दादराप्रत्यये परे तत्सन्नियोगेन प्रकृतेरिकारोऽन्तादेश इत्यर्थः। तथा च कशब्दादणि प्रकृतेरिकारे अन्तादेशे वृद्धौ आयादेशे कायमिति सिद्धम् । तत्र कि अ इति स्थिते 'यस्येति च' इति इकारलोपमाशङ्कयाह—यस्येति लोपात्परत्वादादिवृद्धिरिति । कशब्दस्य विवरणं ब्रह्मेति । यद्यप्यत्र इत्त्वविधिबलादेव लोपो न भवतीति भाष्यम् । तथापि वस्तुस्थितिकथनमिदम् । तस्य प्रयोजनमाह-श्रीर्देवता अस्य श्रायं हविरिति । अत्रेदमवधेयम् । 'कस्येत्' इत्यत्र कशब्दस्य अकारान्तस्य षष्ठयेकवचनमित्येकः पक्षः । सर्वादिगणपठितस्य किंशब्दस्य षष्ठ्येकवचनमिति पक्षान्तरम् । तत्राद्यपक्षे हविःप्रचारे 'कायानुब्रूहि' इति प्रैष इति निर्ववादम् , सर्वादि. गणबहिर्भूतत्वेन स्मभावासंभवात् । द्वितीयपक्षे तु किंशब्दस्य प्रजापतिनामत्वेन असर्वनामत्वान्न स्मैभावः, अन्वर्थसंज्ञाबलेन एकार्थवृत्तेः संज्ञाशब्दस्य सर्वनामत्वाभावात् । तथा च 'कायानुब्रूहि' इत्येव प्रैषः । यद्वा प्रजापतेः सर्वात्मकत्वेन तन्नाम्नः किंशब्दस्य सर्वनामत्वात् 'कस्मा अनुब्रूहि' इत्यैव संप्रैष इति भाष्ये प्रपञ्चितम् । एवं च विष्णुसहस्रनामसु 'विश्वं विष्णुः' इति, ‘एको नैकः नवः कः किं यत्तस्पदमनुत्तमम् ।' इति च पठितविश्वादिशब्देष्वप्ययं न्यायस्तुल्य :। तथा च विश्वस्मै नमः, विश्वाय नम इत्यादि प्रयोज्यमित्यास्तां प्रासङ्गिकम् । शुक्राद्धन् । शब्दात्स्वार्थे तल् । मन्त्रस्तुत्येति । मन्त्रेण स्तुत्या । 'एतिस्तुशास्-' इत्यादिना क्यपि तुक् टाप् । आग्नेयो वै ब्राह्मण इति । इहाग्न्युद्देशेन ब्राह्मणो न त्यज्यत इति कथमयं प्रयोग इति न शङ्कयमिति भावः । परत्वादादिवृद्धिरिति । इदं च समाधानं श्रायमित्यत्रावश्यकमिति तेनैव परिहारसम्भवादित्वविधानसामर्थ्य Page #356 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५३ (४-२-२६) शुक्रियम् । १२२६ अपोनप्त्रपांनप्तृभ्यां घः। (४-२-२७) अपोनस्त्रियम्, अपानस्त्रियम् । अपोनपात्, अपांनपाच देवता।प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एव 'अपोनपाते अपांनपातेऽनुबहि' इति प्रैषः । १२३० छ च। (४-२-२८) योगविभागी यथासंख्यनिवृत्त्यर्थः । अपोनप्नीयम्, अपांनप्त्रीयम् । (छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम्' (वा २७०१) । पैङ्गाक्षीपुत्रीयम् । तार्णबिन्दवीयम् ) । 'शतरुद्राद्धश्च' (वा २७०२) । चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम्, शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्याद् 'द्विगोलुंगनपत्ये' (सू १०८०) इति न लुक् । १२३१ महेन्द्राद्धाणौ च । (४-२-२६) चाच्छः । महन्द्रियम् हविः, माहेन्द्रम्, महेन्द्रीयम् । १२३२ सोमायण् । (४-२-३०) सौम्यम् । टित्वान्डीप्, सौमी ऋक् । १२३३ वाय्वृतुपित्रुषसो यत् । (४-२-३१) 'साऽस्य देवता' इत्यर्थे इति शेषः। शुक्रियमिति । शुको देवता अस्येति विग्रहः । अपोनप्त्रपांनप्तृभ्यां घः। प्रत्ययसंनियोगेनेति । घप्रत्ययसंनियोगेन अपोनपाच्छब्दस्य अपोनप्तभावः, अपांनपाच्छब्दस्य अपांनप्तृभावश्च निपात्यत इत्यर्थः । अत एवेति । घप्रत्ययसंनियोगेनैव उक्तादेशविधेरित्यर्थः । अत्र घप्रत्ययाभावानोक्तादेशाविति भावः । छ च । उक्तविषये छोऽपीत्यर्थः । ननु अपोनप्त्रपांनप्तृभ्यां घच्छौ इत्येवास्तु। तत्राह-योगविभाग इति । पैङ्गाक्षीपुत्रीयमिति । पैङ्गाक्षीपुत्रो देवता अस्येति विग्रहः । तार्णाबिन्दवीयमिति । तार्णबिन्दुः देवता अस्येति विग्रहः । शतरुद्राद्ध श्चेति । वार्तिकमिदम् । शतरुद्रियमिति । घस्य इयादेशः । शतरुद्रीयमिति । छस्य ईया. देशः। उभयत्र 'तद्धितार्थ-' इति द्विगुसमासः । “द्विगो गनपत्ये' इति लुकमाशङ्कयाह-घच्छयोरिति । महेन्द्राद्धाणौ च । महेन्द्रियमिति । महेन्द्रो देवता अस्येति विग्रहः। घस्य इयादेशः। माहेन्द्रमिति । अणि रूपम् । महेन्द्रीयमिति । छस्य ईयादेशः । सोमायण् । सौम्यमिति । सोमो देवता अस्येति विग्रहः । टित्त्वस्य प्रयोजनमाह-टित्त्वान्ङीबिति । सौमीति । सोमो देवता अस्या ऋच इति विग्रहः । डीपि 'हलस्तद्धितस्य' इति यलोपः। वावृतुमिह नाश्रितम् । उक्त रूपमिति । 'नपात्' इत्यस्य 'नप्त' इति रूपमित्यर्थः । शतं रुद्रा इति । शतशब्दोऽनन्तवचनः । सौमीति । 'हलस्तद्धितस्य' इति १ कोष्ठकान्तर्गतः पाठो बहुत्र मूले नोपलभ्यते । बालमनोरमानुरोधादिह स्थाप्यते। २ क्वचिद् ‘घ च' इति शकारहितः पाठः। Page #357 -------------------------------------------------------------------------- ________________ ३५४ ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिक वायव्यम् । एवम् ऋतव्यम् । १२३४ रीडन्तः। (७-४-२७) अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीडादेशः स्यात् । 'यस्येति च' (सू ३११) पित्र्यम् । उषस्यम् । १२३५ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च । (४-२-३२) चाद्यत् । द्यावापृथिवीयम्, द्यावापृथिव्यम् । शुनासीरीयम्, शुनासीर्यम् । १२६ अग्नेर्डक् । पित्रुषसो यत् । वायु, ऋतु, पितृ, उषस् एभ्यो यदित्यर्थः । वायव्यमिति । वायुर्देवता अस्येति विग्रहः । यति ओर्गुणः । 'वान्तो यि-' इत्लवादेशः । एवम् ऋतव्यमिति । ऋतुः देवता अस्येति विग्रहः । रीतः । अङ्गस्येत्यधिकृतम् ऋता विशेष्यते, तदन्तविधिः । 'अयङ् यि क्ङिति' इत्यतो 'ये' इत्यनुवर्तते । 'अकृत्सार्वधातुकयोः-' इत्यतः 'अकृत्सार्वधातुकयोः' इति 'च्वौ च' इति सूत्रं च तदाह-अकृदित्यादिना । पित्र्यमिति । पितरो देवता अस्टेति विग्रहः । यति पितृशब्दस्य रीङ् । 'उिच्च' इत्यन्तादेशः। 'यस्येति च' इति ईकारलोपः । क्यचि पित्रीयतीत्यादौ 'अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्' इति वचनाद् 'अकृत्सार्वधातुकयो:-' इति दीर्घ अप्राप्ते इकारोच्चारणम् । उषस्यमिति । उषो देवता अस्येति विग्रहः । भत्वेन पदत्वाभावात् सकारस्य न रुत्वादि । द्यावापृथिवी । द्यापृथिवी, शुनासीर, मरुत्वत् , अग्नीषोम, वास्तोष्पति, गृहमेध एतेभ्यः, छो यच्च स्य दित्यर्थः । अणः पत्युत्तरपदण्यस्य चापवादः । द्यावापृथिवीयम् , द्याव पृथिव्यमिति । द्यावापृथिवी देवता अस्येति विग्रहः । छस्य ईयादेशः । उभ पत्र 'यस्येति च' इति लोपः । शुनासीरीयमिति । शुनो वायुः, सीरः आदित्यः, शुनश्च सौरश्च शुनासीरौ । 'देवताद्वन्द्वे च' इत्यानङ् । शुनासीरावस्य स्तं इति शुनासीरः । 'वाय्वादित्यवानिन्द्रो विवक्षितः' इति वेदभाष्ये भट्टभास्करः, शुनासी देवता अस्येति विग्रहः । मरुत्वान् देवता अस्य मरुत्वतीयम् , मरुत्वत्यम् । अग्नीषोमौ देवता अस्य यलोपः । रीतः । अङ्गवृत्तपरिभाषया 'अकृत्सार्व-' इति दार्थो न प्रवर्तत इति दीर्घग्रहणमित्याहुः । यस्येति चेति । पित्रीयतीत्यत्र रीतिधिः सावकाश इति भावः । उषस्यमिति । उषस्शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां ब्रवीति । द्यावापृथिवी । अरण्योरपवादः । शुनासीरीयमिति । शुनश्च सीरश्चेति द्वन्द्वे 'देवताद्वन्द्वे च' इत्यानङ् । शुनो वायुः, सीर आदित्य इति यत्तिकृत् । हरदत्तस्तु शुनासीरशब्द इन्द्रस्य गुणवाचीत्यन्ये मन्यन्त इत्याह । तथा च मन्त्रः-'इन्द्रं वयं शुनासीरमस्मिन्यज्ञे हवामहे' इति । मरुतो यस्य सन्तीति मरुत्वानिन्द्रः, मरुत्वतीयम् , १ 'षड्भ्यः ' इत्यधिकः पाठः क्वचित् । Page #358 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५५ (४-२-३३) प्रारमेयम् । १२३७ कालेभ्यो भववत् । (४-२-३४) मासिकम् । प्रावृषेण्यम् । १२३८ महाराजप्रोष्ठपदाट्ठञ् (४-२-३५) माहाराजिकम् । प्रौष्ठपदिकम् । १२३६ देवताद्वन्द्वे च । (७-३-२१) अत्र पूर्वोत्तरपदयोरायचो वृद्धिः स्याद् मिति णिति किति च परे । श्राग्निमारुतम् । १२४० नेन्द्रस्य परस्य । (७-३-२२) परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । अग्नीषोमीयम् । वास्तुनः पतिः वास्तोष्पतिः रुद्रः । निपातनादलुक् षत्वं च । 'रुद्रः खलु वै वास्तोष्पतिः' इति ब्राह्मणम् । अमरस्तु इन्द्रपर्यायेषु 'वास्तोष्पतिः सुरपतिः' इत्याह । वास्तोष्पतिर्देवता अस्य वास्तोष्पतीयम् , वास्तोष्पत्यम् । गृहमेधो देवता अस्य गृहमेधीयम् , गृहमेध्यम् । अग्नेढक । आग्नेयमिति । प्राग्दीव्यती. येष्वर्थेष्वयम् । 'सर्वत्राग्निकलिभ्याम्-' इति वचनात् । कालेभ्यो भववत् । कालवाचिभ्यो भवेऽर्थे येन विशेषणेन ये प्रत्यया वक्ष्यन्ते, ते 'साऽस्य देवता' इत्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः। मासिकमिति । मासो देवता अस्येति विग्रहः कालाञ् । प्रावृषेण्यमिति । प्रावृड् देवता अस्येति विग्रहः । प्रावृष एण्यः । महाराजप्रोष्ठपदाट्ठञ् । माहाराजिकमिति । महाराजो वैश्रवणः, स देवता अस्येति विग्रहः । प्रौष्ठपदिकमिति । प्रोष्ठपदो देवता अस्येति विग्रहः । वृत्तः 'साऽस्य देवता' इत्यधिकारः। अथ प्रासनिकम् । देवताद्वन्द्वे च । 'मजेर्वृद्धिः' इत्यतो 'वृद्धिः' इत्यनुवर्तते । 'अचो णिति' इत्यतो 'रिणति' इति, "किति च' इति सूत्रं चानुवर्तते । तद्धितेष्वचामादेः' इत्यतः 'अचा. मादेः' इति 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्यतः 'पूर्वपदस्य' इति, 'उत्तरपदस्य च' इति सूत्रं चानुवर्तते । तदाह-अत्रेत्यादिना । आग्निमारुतमिति । अग्निश्च मरुच्च अग्नामरुतो, 'देवताद्वन्द्वे च' इत्यानङ् । अमामरुतौ देवता अस्य आग्निमारुतम् । अणि अनेन उभयपदादिवृद्धिः । अलौकिके विग्रहवाक्ये एव आनडं बाधित्वा 'इद् वृद्धौ' इति इत्त्वम् । नेन्द्रस्य परस्य । 'देवताद्वन्द्वे च' इत्युक्ला उभयपदवृद्धिः उत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः । सौमेन्द्र इति। चरुमरुत्नत्यम् । अग्नीषोमीयम् , अग्नीषोम्यम् । 'ईदग्नेः सोमवरुणयोः' । वास्तुनः पतिः वास्तोष्पतिः । इहैव सूत्रे निपातनात्साधुः । 'वेश्मभूर्वास्तुरस्त्रियाम्' वास्तोष्पतीयं वास्तोष्पत्यम् । गृहमंधीयं गृहमेध्यम् । गृहमेधशब्दोऽकारान्तः। तथा च श्राश्वलायनः-'मरुभ्यो ग्रहमेधेभ्यः' इति । कालेभ्यो । कालवाचिभ्यो ये प्रत्यया भवार्थे वक्ष्यन्ते ते 'सास्य देवता' इत्यस्मिन्नर्थेऽननातिदिश्यन्ते । वत्करणं सर्वसादृश्यार्थम् । तेन यस्माद्यो विहितस्तस्मात्स एव भवति नान्यः। तथैवोदाहरति Page #359 -------------------------------------------------------------------------- ________________ ३५६ ] सिद्धान्तकौमुदी। [द्वितेषु चातुरर्थिकपरस्य किम्-ऐन्द्रामः । १२४१ दीर्घाच्च वरुणस्य । (७-३-२३) दीर्घास्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्धार किम्-श्रामिवारुणम् । आग्निवारुणीमनड्वाहीमालभेत । 'तदसिन्वतत इति नव यज्ञादिभ्य उपसंख्यानम्' (वा २७०६ )। नावयज्ञिकः कालः । पाकयज्ञिकः । पूर्णमासादण्वनव्यः' (वा २७०७) । पूर्णो मासोऽस्यां वर्तत इति पौर्णमासी तिथिः । १२४२ पितृव्यमातुलमातामहपितामहाः। (४-२-३६) एते निपात्यन्ते । 'पितुांतरि व्यत्' (वा २७०८)। पितुर्माता पितृग्यः । 'मातुर्दुलच्' (वा १७०८) मातुर्धाता मातुलः । 'मातृपितृभ्यां पितरि डामह' (वा २७०६)। मातुः पिता मातामहः । पितुः पिता पितामहः । 'मातरि षिक' (वा २७१०)। रिति शेषः। तैत्तिरीये 'सोमेन्द्रं श्यामाकं चरुम्' इति छन्दसम् । दीर्घाच वरुणस्य । ऐन्द्रावरुणमिति । इन्द्रावरुणौ देवता अस्येति निग्रहे द्वन्द्वः । आनङ् । इन्द्रावरुणशब्दादणि दीर्घाकारात्परत्वाद् वरुणस्य नादिवृद्धिः । प्राग्निवारुणमिति। 'इद् वृद्धौ' इत्यग्नेरानडं बाधित्वा इत्त्वे कृते दीर्घात्परत्वाभावान्निषेधाभावे सति 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिरिति भावः । इति प्रासङ्गिकम् । अथ प्रकृतम्तदस्मिन्निति । 'महाराजप्रोष्ठपदाठ्ठञ्' इति सूत्रे वार्तिकमिदम् । 'तदस्मिन्वर्तते' इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तम्यः ठा उपसंख्यान मेत्यर्थः । नावयशिकः काल इति । नवयज्ञो नूतनधान्यद्रव्यको यज्ञः - श्रापयणाख्यः स यस्मिकाले वर्तते स नावयज्ञिकः, आपयणकाल इति यावत् । पाकयज्ञिक इति । पाकयज्ञ औपासनाग्निसाध्यः पार्वणस्थालीपाकादिः, स यस्मिन्काले वर्तते स पाकयज्ञिकः । पूर्णमासादिति । तदस्मिन्वर्तत इत्यर्थे पूर्ण मासशब्दात्प्रथमान्तादण वक्तव्य इत्यर्थः । पूर्णो मासोऽस्यामिति । मासश्चन्द्रमाः पूर्णश्वासौ मासश्च पूर्णमासः, पूर्णचन्द्रः, स यस्यां तिथौ वर्तते सा पौर्णमासी तिथिरित्यर्थः । अणि 'टिड्ढाणञ्-' इति ङीप् । यद्यपि पूर्णो माः चन्द्रः पूर्णमाः, तस्येयमि. त्यर्थे 'तस्थेदम्' इत्यणि पौर्णमासीति सिद्धम् , तथापि ईदृश एकार्थे अयं साधुरिति भावः । पितृव्यमातुल । कस्मिन् अर्थे किं निपात्यत इत्यत शाह-पितुर्धातरि व्यदित्यादिना । मातुल इति । मातृशब्दाद् डुलचि :' इति टिलोपः । मातामह इति । मातृशब्दाद् डामहचि टिलोपः । एवं पितामहः । मातरि मासिकम् । प्रावृषेण्यमिति । 'कालाठ्ठञ् ।' प्रावृष एण्यः । डामहजिति । एतच्च वृत्त्याद्यनुरोधेनोक्तम् । भाष्ये तु आनादेशो महच प्रत्ययश्च निपात्यते । १ 'अर्थे' इत्यस्य स्थाने 'शब्दे' क। Page #360 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [ ३५७ मातामही । पितामही । 'अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः' (वा २७१२)। सकारपाठसामर्थ्याच षः। अविसोढम् । अविदसम् । अविमरीसम् । 'तिलाशिष्फलास्पिअपेजौ' (वा २७१३) । तिलपिनः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः । 'पिञ्जश्छन्दसि डि' (वा २७१४) तिल्पितः । १२४३ तस्य समूहः । (४-२-३७) काकानां समूहः काकम् । बाकम् । १२४४ भिक्षादि. भ्योऽण् (४-२-३८) भिक्षाणां समूहो भैतम् । गर्भिणीनां समूहो गार्भिणम् । षिञ्चेति । मातृपितृभ्यां मातरि डामहच् , स च षिद्भवतीत्यर्थः । षित्त्वस्य फलं ङीषित्याह-मातामही, पितामहीति । अवेरिति । अवेर्दुग्धमित्यर्थे अविशब्दात् सोढ, दूस, मरीसच् एते प्रत्यया वक्तव्या इत्यर्थः । सोढसकारस्य प्रत्ययावयवत्वात् षत्वमाशक्याह-सकारपाठसामर्थ्यान्न ष इति । अन्यथा षोढ इत्येवोपदिशेदिति भावः । तिलादिति । तिलशब्द ओषधिविशेषे मुख्यः । तत्फले तु गौणः । तत्र यदा तिलशब्दो निष्फले ओषधिविशेषे वर्तते, तदा तस्मात्स्वार्थे पेज, पिञ्ज इति प्रत्ययौ स्त इत्यर्थः । इति देवतार्थकाः। तस्य समूहः । 'इनित्रकव्यचश्च' इति यावदिदमनुवर्तते । अस्मिन्नर्थे प्रथमोच्चारितात् षठ्यन्तात्प्राग्दीव्यतीया अणादयो यथासम्भवं स्युरित्यर्थः । 'अचित्तहस्तिधेनोष्ठक' इत्याद्यपवादविषयं परिहृत्योदाहरति-काकम् । बाकमिति । समूहप्रत्ययान्तानां नपुंसकत्वं लोकात् । भिक्षादिभ्योऽण् । तस्य समूह इत्येव । भैक्षमिति । अत्र 'अचित्तहस्ति-' इति वक्ष्यमाणठगपवादोऽण् । तेनावग्रहः सिद्ध्यतीत्युक्तम् । सकारपाठेति । अन्यथा प्रक्रियालाघवाय षकारमेव पठेदिति भावः । एतच्च मनोरमायां स्थितम् । अन्ये तूक्तरीत्या अविसोढम्' इत्यत्र षत्वनिवारणेऽपि 'अविदूसम्' इत्यादौ स्यादेव षत्वम् । तत्र हि एयन्तात्विपि 'अविदूः' इत्यादिरूपसिद्धये सकारपाठसामर्थ्यस्योपक्षीणत्वात् । तस्माद् 'अविसोढम्' इत्यादिभाष्यकृदुदाहरणेषु सकारपाठसामर्थ्यादिति व्याख्येयमित्याहुः। तस्य समूहः । इह 'अचित्ता', 'अनुदात्तादेरम्', गोत्रान्ताद् वुञ्, 'केदारायश्च' इत्यादिना प्रतिपदं यादींश्च वक्ष्यति । तथा च चित्तवदायुदात्तमगोत्रान्तं प्रतिपदोक्तप्रत्ययरहितमिहोदाहरणमित्याशयेनोदाहरति-काकम् । बाकमिति । एवं वार्कम् । काकबकवृकशब्दाः 'प्राणिनां कुपूर्वाणाम्' इति फिट्सूत्रेणाद्युदात्ताः । प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्व तेषामुदात्तः स्यादिति सूत्रार्थः । 'अथादिः प्राक् शकटेः' इत्यधिकारात् । यत्तु वृत्तिन्यासयोः शौकमित्युदाहृतं तदुपेक्ष्यम् । खण्डिकादिषु शुकशब्दस्य पाठात्तत्राना भाव्यमिति हरदत्तादयः । भिक्षादिभ्योऽण् । Page #361 -------------------------------------------------------------------------- ________________ ३५८ ] सिद्धान्तकौमुदी। [तद्वितेषु चातुरर्थिकइह 'भस्याढे-' इति पुंवद्भावे कृते । १२४५ इनण्यनपत्ये। (६-४-१६४) अनपत्यार्थेऽणि परे इन्प्रकृत्या स्यात् । तेन 'नस्तद्धिते' (सू १७६) इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरनि यौवतम् । १२४६ गामिणमिति । गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते 'प्रत्ययः' परश्च' 'पायुदात्तश्च' इति इकारस्य उदात्तत्वे 'अनुदात्तं पदमेकवजम्' इति शिष्टस्यानुदात्तत्वे गर्भिनशब्दः अनुदात्तादिः । ततो नान्तलक्षणीपि तस्य 'अनुदात्तौ सुप्पितौ' इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव । ततः समूहेऽर्थे 'अनुदात्तादेर ज्' इति वक्ष्यमाणे अत्रि प्राप्ते भिक्षादित्वादणिति भावः । अणि प्रत्ययस्वरेण न्तोदात्तत्वम् । अनि तु 'नित्यादिनित्यम्' इत्यायुदात्तत्वमिति स्वरे विशेषः । शणि टिलोपाभावोऽपि प्रयोजनमिति दर्शयति-इह भस्येति । गर्भिणीशब्दादणि गति 'भस्याढे-' इति पुंवत्त्वेन डीपो निवृत्तौ गर्मिन् अ इति स्थिते 'नस्तद्धिते' इति टिगोपे प्राप्ते सतीत्यर्थः । इनण्यनपत्ये । इन् अणीति छेदः । प्रकृत्येति । 'प्रकृत्यैक च्' इत्यतस्तदनुवृत्तेरिति भावः। टिलोपो नेति । अनि तु प्रकृतिभावाप्रवृत्तेः टिलोपः स्यादिति भावः । यौवनमिति । 'कनिन्युषितक्षि-' इत्यौणादिककन्न्प्रित्ययान्तो नित्स्वरेणाद्युदात्तः । ततः स्त्रियां 'यूनस्तिः' इति तिप्रत्ययस्य प्रत्यर स्वरेणोदात्तत्वे सति शिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादनि प्राप्ते भिक्षादित्वादणि कृते सति 'भस्याढे-' इति पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ 'अन्' इति प्रकृतिभावाडिलोपाभावे यौवनमिति रूपम् । अनि तु प्रकृतिभावस्याप्रवृत्तेष्टि लोपः स्यादिति भावः । वस्तुतस्तु 'भस्याढे तद्धिते' इत्यस्य अढे तद्धिते विक्षिते सति ततः ग्रागेव पुंवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तेप्रत्ययस्य निवृत्ती युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदानादित्वाभावादअभावे भौमिति । अचित्तत्वाट्टक् प्राप्तः । गाभिणमिति । अनुदात्तादित्वाद प्राप्तः । सति हि तस्मिन्नायुदात्तटिलोपौ स्याताम् । न च 'भस्याढे-' इति पुंवाचकरूपातिदेशान्न टिलोपः स्यादिति वाच्यम् । हस्तिनीनां समूहो हास्तिकमित्यत्रापि टिलोपानापत्तेः । तस्मात् स्त्रीप्रत्ययनिवृत्तिमानपरं तत्, न तु रूपातिदेशकमिति बोध्यम् । यौवनमिति । युवतिशब्दस्यानुदात्तादित्वादनि प्राप्ते अणर्थमित् पाठः। पुंवद्भावात्तिप्रत्यनिवृत्तिः । 'अन्' इति प्रकृतिभावः । ननु भस्याढे-' इत्यत्र 'अढे तद्धिते विवक्षिते पुंवद्भावः' इत्यभ्युपगमात्तद्धितोत्पत्तेः प्रागेव तिप्रत्ययनिवृत्तौ सत्यां 'कनिन्युवृषि-' इति कनिनन्ततया आद्युदात्तत्वादण् सिद्ध एवेति चेत् । सत्यम् , अतएव भाष्ये भिक्षादिषु युवतिशब्दपाठः प्रत्याख्यातः । 'इह युवतिशब्दप ठसामर्थ्यात्पुंवद्भावो Page #362 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५६ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वञ् । (४-२-३६) एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रम् , तथापत्यमात्रम् । १२४७ युवोरनाको । (७-१-१) यु वु एतयोरनुनासिकयोः क्रमाद् अन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । श्रीक्षकमित्यादि । 'आपत्यस्य च-' (सू १०८२) इति यलोपे प्राले 'प्रकृत्याऽके राजन्यमनुष्ययुवानः' ( वा ४२१४) राजन्यकम् । मानुष्यकम् । 'वृद्धाश्चेति वक्तव्यम्' (वा २७१६) 'तस्य समूहः' इत्यणि प्रकृतिभावाडिलोपाभावे यौवनमिति सिद्धमेवेति युवतिशब्दो भिक्षादिगणे प्रत्याख्य तो भाष्यकैयटयोरित्यलम् । शत्रन्तादिति । प्रत्ययस्वरेण मध्योदात्तत्वादनुदात्ता देरयं युवच्छब्दः । तत उगिल्लक्षणडीपः पुंवत्त्वेन निवृत्तौ युवच्छब्दादनुदात्तादेर नि यौवतमिति रूपमिति भावः । गोत्रोक्षोष्ट । एभ्य इति । गोत्र, उक्षन् , उष्ट्र, उरभ्र, राजन् , राजन्य, राजपुत्र, वत्स, मनुष्य, अज एतेभ्य इत्यर्थः । लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः। अत्र लौकिक गोत्रं किमित्यत आह -तच्चापत्यमात्रमिति । प्रवराध्याये परिगणितं पुत्रपौत्रादि कृत्स्नापत्यमित्यर्थः । 'अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्यते, नतु परिभाषिकं गोत्रमिष्यते' इति 'स्त्रीपुंसाभ्याम्-' इत्यादिसूत्रभाष्ये सिद्धान्तितत्वादिति भावः । युवोरनाको । युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाहयु वु एतयोरिति 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासिकयोः किम् ? ऊर्णायुः । ग्लुचुकायनीनामिति । 'प्राचामवृद्धात्' इति ग्लुचुकशब्दादपत्ये फिन् , 'इतो मनुष्यजातेः' इति ङीष् , समूहे वुञ्। अकादेशः, आदिवृद्धिः, 'यस्येति च' इतीकारलोपः। औक्षकमिति । उक्षणां समूह इति विग्रहः । वुञ् , अकादेशः, टिलोपः, श्रादिवृद्धिः । उष्ट्राणां समूह इति विग्रहः, औष्ट्रकम् । उरभ्रा मेषाः, तेषां समूह औरभ्रकम् । राजकम् , राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्त इति । राजन्यशब्दाद् वुजि अकादेशे 'श्रापत्यस्य च-' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः । प्रकृत्याऽके राजन्यमनुष्ययुवान इति । अके परे राजन्य, मनुष्य, युवन् एते प्रकृत्या स्युरिति वक्तव्यमिन' इति वृत्तिकारोक्तिर' यत एव निरस्ता । नन्वेवं 'गार्मिणं यौवतं गणे' इत्यादिप्रयोगा भाष्यमते न संगच्छेरन्नित्याशङ्कयाह-शत्रन्तादिति । युवोः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । उकारस्तूच्चारणार्थो नेत्संज्ञकः । तेन नन्दनः, कारकः, नन्दना, कारिका इत्यत्रोगिल्लक्षणौ नुम्डीपौ न स्वः । अनुनासिकयोरिति किम् , ऊर्णयुः । प्रकृत्याऽक इति । इह राजन्यमनुष्यग्रहणं व्यर्थम् । रूढिशब्दत्वेन 'आपत्यस्य Page #363 -------------------------------------------------------------------------- ________________ ३६० ] सिद्धान्तकौमुदी। तद्धितेषु चातुरर्थिक वार्द्धकम् । १२४८ केदाराद्यञ्च । (४-२-४०) चाद्वा । कैदार्यम्, केदार कम् । 'गणिकाया यमिति वक्तव्यम्' (वा २७१६) । गाणिक्यम् । १२४६ ठकवचिनश्च । (४-२-४१) चाकेदारादपि । कवचिनां समूहः कावचिकम्। कैदारिकम् । १२५० ब्राह्मणमाणववाडवाद्यन् । (४-२-४२) ब्राह्मण्यम् । माणव्यम् । बाडव्यम् । 'पृष्ठादुपसंख्यानम्' (वा २७२०) पृष्ठ्यः षडहः । १२५१ ग्रामजनबन्धुभ्यस्तत् । (४-२-४३) ग्रामता । जनता । बन्धुता। त्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वाद् वुञ् । प्रकृतिभावान्न टिलोपः । 'वृद्धाच्च' इति वृद्धशब्दस्वरूपमेव गृह्यते, नतु 'वृद्धिर्यस्थाचामादिः-' इति वृद्धसंज्ञकम् , भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाह-वार्द्ध कमिति । वृद्धानां समूह इति विग्रहः । केदराद्यञ् च । कैदार्यम् , केदारकमिति । केदाराणां समूह इति विग्रहः । गणिकाया यञ् । यग्रहणाद् वुलो निवृत्तिः । गाणिक्यमिति । गणिकानां समूह इति विग्रहः । ठञ् कवचिनश्च । केदारादपीति । कवचिन्शब्दात् केदारशब्दाच समूहे ठञ् स्यादित्यर्थः । कार्वाचकमिति । ठञ् , एकादेशे टिलोपः । ब्राह्मणमाणववाडवाद्यन् । ब्राह्मण्यमित्यादि । ब्राह्मणानां माणवानां बाडवानां च समूह इति विग्रहः। मनोरपत्यं माणवः । अणि नस्य णत्वम्। 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः।। नकारस्य च मूर्धन्यः तेन सिध्यति माणवः ॥' इति 'मनोर्जातावञ्यतौ षुक्च' इति सूत्रे भाष्यम् । पृष्ठादिति । यन इति शेषः । पृष्ठयः षडह इति । षष्णाम् अह्नां समाहारः षडहः, समाहारे द्विगुः । 'राजाहस्सखिभ्यः-' इति टचि टिलोपः । रथन्तरबृहद्वैरूपवैराजशाक्कररैवताख्यानि षट् पृष्ठाख्यस्तोत्राणि, तद्युक्तान्यहानि लक्षणया पृष्ठानि, तेषां समूह इति विग्रहः । ग्रामजन । समूह इत्येव । ग्रामतेत्यादि । च-' इति यलोपस्य प्राप्त्यभावात् । अतएव 'गोत्रोक्षोष्ट्र-' इत्यत्र तयोर्ग्रहणं सार्थकम्। अन्यथा गोत्रग्रहणेनैव सिद्धे तयोर्ग्रहणं न कुर्यादित्याहुः । यूनो भावो यौवनिका मनोज्ञादित्वाद् वुञ् । वार्धकमिति । यदि वृद्धत्वेऽपि वार्धकमिति प्रयोगोऽस्ति, तर्हि मनोज्ञादित्वं कल्पनीयमित्याहुः । ब्राह्मणमाणव । ननु त्रयोऽप्यमी वृद्धाः । तेभ्यः प्रकृतो यञवास्तु, वृद्धाद्यति यमि वा रूपे विशेषाभावात् । नापि खरे विशेषः, उभयथाप्याद्युदात्तत्वात् । स्त्रियां विशेषस्तु न शङ्कय एव, नपुंसकत्वात् । 'यत्रश्च' इत्यत्रापत्यग्रहणाच । ठञ् तु नानुवर्तिष्यते अखरितत्वादिति चेत् । सत्यम् , अवृद्धादपि कुतश्चिद्विधानार्थ यद्वचनम् । तत्सिद्धार्थानुवादकं वार्तिकमाहपृष्ठादिति । पृष्ठं स्तोत्रविशेषः । पृष्ठय इति । पृष्ठानां समूहः पृष्ठयः षडह इति Page #364 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६१ 'गजसहायाभ्यां चेति वक्तव्यम्' (वा २७२१) गजता, सहायता । 'प्रह्वः खः ऋतौ' (वा २७२२.-२७२३)। अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । ऋतौ किम्-श्राह्नः । इह खण्डिकादित्वादञ् । 'प्रष्टखोरेव' (सू ७८६) इति नियमाटिलोपो न । 'पर्धा णस् वक्रव्यः' (वा २७२४ )। १२५२ सिति च । (१-४-१६) सिति परे पूर्व पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पशूनां समूहः पार्श्वम् । १२५३ अनुदात्तादेर । (४-२-४४) कापोतम् । मायूरम् । १२५४ खण्डिकादिभ्यश्च । (४-२-४५) अस्यात् । खण्डिकानां समूहः ग्रामाणां जनानां बन्धनां च समूह इति विग्रहः । तलन्तानां स्त्रीत्वं लोकात् , 'तलन्तं स्त्रियाम्' इति लिङ्गान शासनसूत्राच्च । गजसहायाभ्यां चेति । आभ्यामपि समूहे तलिति वक्तव्यमित्यर्थः । अह्नः खः क्रतौ इति । वार्तिकमिदम् । कतौ वर्तमानाद् अहन्शब्दात् समूहेऽर्थे खप्रत्ययो वाच्य इत्यर्थः । अहीन इति । अहश्शब्देन सौत्यान्यहानि विवक्षितानि । तेषां समूह इति विग्रहः । अहन्शब्दात् खः, ईनादेशः । 'अह्नष्टखोरेव' इति रिलोप इति भावः। फलितमाह-अहर्गणेति । आह्न इति । अह्नां समूह इति विग्रहः । इह क्रत्वप्रतीतेन ख इति भावः । 'अचित्तहस्तिधेनोः-' इति ठकमाशङ्कयाह-इहेति । 'खण्डिकादिभ्यश्च' इत्यप्रित्यर्थः । नन्वेवं सति 'अन्' इति प्रकृतिभावस्याणि विहितस्यात्रासंभवाट्टिलोपः स्यादित्यत आह-अह्नष्टखोरेवेतीति । टिलोपाभावे सति 'अल्लोपोऽनः' इत्यकारलोपे आह्न इति रूपमिति भावः । पाणसिति । अणोऽपवादः । पशुशब्द उकारान्तस्त्रीलिङ्गः पार्श्वगतमस्थिवाची । तस्माद् णसि ओर्गुणे प्राप्ते-सिति च। 'सुप्तिङन्तं पदम्' इत्यतः पदमत्यनुवर्तते तदाह-सिति परे पूर्वपदसंज्ञमिति । सकार इद् यस्य स सित् । 'स्वादिष्वसर्वनामस्थाने' इत्येव सिंद भसंज्ञापवादोऽयम् । अभत्वादिति । पदत्वेनानेन भत्वस्य बाधादिति भावः। पर्थनां समूहः पार्श्वमिति । पशु अ इति स्थिते 'इकोऽसवर्णे-' इति शाकल्यह्रस्वप्रकृतिभावयोः 'सिति च' इति तत्रत्यवचनान्तरेण तन्निषेधे यणादेशे पार्श्वमिति रूपमिति भावः । अनुदात्तादेरञ् । समूह इत्येव । कापोतम् । मायूरमिति । 'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति कपोतमयूरशब्दौ मध्योतु मत्वर्थलक्षणया बोध्यम् । ग्रामजन । वृत्तिकृता तु वार्तिकस्थसहायशब्दोऽपि सूत्रे प्रक्षिप्तः । अनुदात्तादरञ् । आपूपिकं शाष्कुलिकमित्यादौ परत्वाद् 'अचित्तहस्तिधेनोः' इति ठगेवेत्याशयेनेह सूत्रे चित्तवन्तमुदाहरति-कापोतमिति। 'लघावन्त-' इति फिटसूत्रेण कपोतमयूरशब्दौ मध्योदात्तौ। न च 'शकुनीनां च लघु पूर्वम्' इत्याादात्ताविमाविति शङ्कयम् । 'अन्त्यात्पूर्व लघुदात्तम्' इति तत्र Page #365 -------------------------------------------------------------------------- ________________ ३६२ ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिकखाण्डिकम् । १२५५ चरणेभ्यो धर्मवत् । (४-२-४६) काठकम् । छान्दोग्यम् । १२५६ अचित्तहस्तिधेनोष्ठक् । (४-२-४७) साक्तुकम् । हास्तिकम् । धेनुकम् । १२५७ केशाश्वाभ्यां यञ्छावन्यतरस्याम् । (४-२-४८) पक्षे ठगणौ । कैश्यम्, कैशिकम् । अश्वीयम् , अाश्वम् । १२५८ पाशादिभ्यो यः। (४-२-४६) पाश्या। तृण्या। धूम्या । वन्या । वात्या । १२५६ खलगोरथात् । (४-२-५०) खल्या । गव्या । रथ्या। १२६० इनित्रकट्यचश्च। दात्ताविति भावः । खण्डिकादिभ्यश्च । शेषपूरणेन सूत्रं व्या वष्टे-अञ् स्यादिति । समूह इति शेषः । श्राद्युदात्तार्थमिदम् । चरणेभ्यो धर्मवत् । चरणाः शाखाध्येतारः। धर्मेऽर्थ याभ्य प्रकृतिभ्यो ये प्रत्ययाः वक्ष्यन्ते ते तापः प्रकृतिभ्यः समूहे स्युरित्यर्थः । काठकमिति । कठानां समूह इति विग्रहः । 'गोत्रगरणाद्वज्' इति धर्मे वक्ष्यमाणो वुञ् समूहेऽपि भवति। छान्दोग्यमिति। छन्दोगाः स्मशारिवनः, तेषां समूह इति विग्रहः । 'छन्दोगौक्थिकयाज्ञिकवचनटाद् यः' इति धर्मे वक्ष्यमाणो ज्यः समूहेऽपि भवति । अचित्तहस्ति । अचित्ता अप्रारिनः, तद्वाचिभ्यः, हस्तिशब्दाद् धेनुशब्दाच्च समूहे ठक् स्यादित्यर्थः । साक्तुकमिति । सक्तूनां समूह इति विग्रहः । 'इसुसुक्तान्तात्कः' इत्युकः परत्वात् ठस्य कः । श्रादिवृद्धिः । हास्तिकमिति । हस्तिनां समूह इति विग्रहः, ठक्, इकः, टिलोपः, आदिवृद्धिः। धैनुकमिति । धेनूनां समूह इति विग्रहः । उकः परत्वात् ठस्य कः । अादिवृद्धिः । केशाश्वाभ्याम् । समूह इत्येव । केशाद्यञ् वा, अश्वाच्छो वेत्यर्थः । पक्ष इति । केशाद्यअभावे. 'अचित्त-' इति ठक् । अश्वाच् छाभावे अणितर्थः। कैश्यम् , कैशिकमिति । केशानां समूह इति विग्रहः । क्रमेण यञ्ठको । अश्वीयम् , श्राश्वमिति । क्रमेण छाणौ । पाशादिभ्यो यः। समूह इत्येव । पाश्येत्यादि। पाशानां तृणानां धूमानां वनानां वातानां च समूह इति विग्रहः। स्त्रीत्वं लोकात् । खलगोरथात् । समूह इत्येव । स्व, गो, रथ एभ्यो यः स्यादि यर्थः । खल्या गव्या रथ्येति । खलानां गवां रथानां च समूह इति विग्रहः । यद्यपि पाशादिष्वेव एषां पाठो युक्तः । तथापि उत्तरसूत्रे एषामेवानुवृत्यर्थ पृथक् पाठः । व्याख्यानादित्याहुः : खण्डिका । आद्युदात्तार्थमचित्ताट्टको बाधनार्थं च वचनम् । चरणेभ्यः । यस्याः प्रकृतेयः प्रत्ययो धर्मे वक्ष्यते, स तस्याः प्रकृतेः समूहेऽपि स्यादित्यर्थः। वुजादयो हि चरणेभ्यो वक्ष्यन्ते । तत्र 'चरणाद्धर्मानाययोः' इति तु वार्तिकम् । तदप्यनेनैवातिदेशसूत्रेण ज्ञाप्यते। काठकमित्यादि । गोत्रचरणाद् वुञ्। छान्दोग्यमिति । 'छन्दोगौक्थिक-' इति ज्यः । यञ्छाविति । यथासंख्यं स्तः । Page #366 -------------------------------------------------------------------------- ________________ प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६३ (४-२-५१) खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा। रथकट्या । 'खलादिभ्य इनिर्वनव्यः' (वा २७३५)। डाकिनी । कुटुम्बिनी । श्राकृतिगणोऽयम् । १२६१ विषयो देश । (४-२-५२) षष्ठयन्तादणादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैबः । देशे किम्-देवदत्तस्य विषयो. ऽनुवाकः । १२६६. राजन्यादिभ्यो वुञ् । (४-२-५३) राजन्यकः। १२६३ इनित्रकट्यचश्च । स्युरिति । इनि त्र कटयच् एते स्युरित्यर्थः । खलिनीति । खलानां समूह इनि विग्रहः । इनिप्रत्यये नकारादिकार उच्चारणार्थः । स्त्रीत्वं लोकात् । नान्तत्वान्तीप् । गोत्रेति । गवां समूह इति विग्रहः। गोशब्दात् त्रः। स्त्रीत्वं लोकात् , टाप् । रथकट्येति । रथानां समूह इति विग्रहः । कटयचि ककारस्य नेत्त्वम् , अतद्धित इत्युक्तेः स्त्रीत्वाट्टाप् । खलादिभ्य इनिर्वतव्य इति । 'इनित्रकट्य वश्च' इति सूत्रे इनिग्रहणमकृत्वा 'गोरथात्त्रकट्यचौ' इत्येवं सूत्रं कृत्वा 'खलादिभ्य इनिः' इति पृथक्कर्तव्यमित्यर्थः ।। विषयो देशे । समूह इति निवृत्तम् । तस्येत्यनुवर्तते । तस्य विषय इत्यर्थे प्रथमोच्चारितात् ष प्रयन्तात्प्रत्ययाः स्युरिति लभ्यते । तदाह-षष्ठयन्तादिति । विषयशब्दं व्याच-अत्यन्तपरिशीलितेऽर्थे इति । देवदत्तविषयोऽनुवाक इत्यत्र तथा दर्शनादिति भावः । तर्हि तत्रातिव्याप्तिः स्यादित्यत आह-स चेदिति । सः अत्यन्तपरिशीलितोऽर्थो देशश्चेदित्यर्थः । एवं च अत्यन्तपरिशीलिते देशे गम्ये प्रत्ययाः स्युरिति फलितम् । विषयशब्दो ह्ययं क्वचित् प्रामसमूहात्मके जनपदे वर्तते । तद्यथा-सामन्तस्य राज्ञो विषयोऽनेन लब्ध इति । क्वचिदिन्द्रियग्राह्ये वर्तते । तद्यथा चक्षुर्विषयो रूपमिति । क्वचिदन्यत्रावृत्तौ वर्तते । यथा मत्स्यानां विषयो जलमिति । अन्यत्र नास्तीति गम्यते । प्रकृते तु देवदत्तविषयोऽ नुवाक इतिवदत्यन्तपरिशीलिते वर्तते । तत्र विषयशब्देन अत्यन्तपरिशीलितेऽर्थे अवगते सति अनुवाकादिव्यावृत्त्यर्थ देशग्रहणम् । शिबीनां विषयो देश इति । अत्यन्तपरिचितो देश इत्यर्थः। देवदत्तस्य विषय इति । अत्यन्त. परिचितोऽनुवाक इत्यर्थः । अत्र देशस्यानवगमाद् न प्रत्यय इति भावः । विषय इति किम्-देवदत्तस्य कदाचिद्गन्तव्यो मार्गः । न च देवदत्तस्य गृहमित्यत्र अत्यन्तपरिचितदेशत्वात् प्रत्ययः स्यादिति वाच्यम् , जनपदसमूहात्मकात्यन्तपरिशीलितदेशस्यैवात्र विवक्षितत्वात् । राजन्यादिभ्यो वुञ् । तस्य विषयो देश इत्यर्थे राजन्यादिभ्यः षष्ठयन्तेभ्यो वुञ् स्यादित्यर्थः । अणोऽपवादः । राजन्यक ठगणाविति । केशशब्दादचित्तत्वेन ठक् । विषयो देशे । 'तस्य' इत्यनुवर्तत Page #367 -------------------------------------------------------------------------- ________________ ३६४ ] । सिद्धान्तकौमुदी । [तद्धितेषु चातुरर्थिकभौरिक्याद्यैपुकार्यादिभ्यो विधत्भक्तलौ । ( ४-२-२४) भौरिकीयां विषयो देशो भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् । १२६४ सोऽस्यादिरिति च्छन्दसः प्रगाथेषु । ( ४-२ - ५५ ) अण् । पक्तिरादिरस्येति पाङ्कः प्रगाथः । ' स्वार्थ उपसंख्यानम् ( वा २७४४ ) । त्रिष्टुबेव त्रैष्टुभम् । १२६५ संग्रामे प्रयोजनयोद्धृभ्यः । ( ४-२-५६ ) 'सोsस्य' इत्यनुवर्तते । सुभद्रा प्रयोजनमस्य सङ्ग्रामस्येति सौभद्रः । भरता इत्यत्र राजन्यानां विषयो देश इत्यर्थः । भौरिक्याद्यैषु । भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च षष्ठ्यन्तेभ्यो यथाक्रमं विधल्, भक्तल्, एतौ प्रययौ स्तो विषयो देश इत्यर्थे । भौरिकिविधमिति । भौरिकीणां विषयो देश इत्यर्थः । भौलिकिविधमिति । भौलिकीनां विषयो देश इत्यर्थः । ऐषुकारिभक्तमिति । ऐषुकारीणां विषयो देश इत्यर्थः । सारसायनभक्तमिति । सा सायनानां विषयो देश इत्यर्थः । इह नपुंसकत्वं लोकात् । सोऽस्यादिः । ऋद्वयमाम्नातं पादावृत्त्या ऋक्त्रयं संपद्यते । स च संप्रगाथ इति छन्दोगसूत्रे बहुचसूत्रे च प्रसिद्धम् । षष्टयेकवचनस्थाने सप्तमीबहुवचनमार्षम् । सोऽस्य प्रगाथस्य दिरित्यर्थे प्रथमान्तात् छन्दोविशेषवाचकाद् अणादिप्रत्ययाः स्युरित्यर्थः । अक्षेरेयत्ताविशेषो गयत्र्यादिश्छन्दः । पक्ङ्किरादिरिति । पङ्क्तिच्छन्दस्का ऋग् दिर्यस्य प्रगाथस्य न पाङ्क्तः प्रगाथ इत्युच्यत इत्यर्थः । स्वार्थ इति । छन्दोवाचिभ्यः स्वार्थे प्रणादिप्रत्ययस्योपसंख्यानमित्यर्थः । त्रैष्टुभमिति । क्लीबत्वं लोकात् । संग्रामे । अनुवर्तत इति । तथा च संग्राम इति सप्तम्यन्तं षष्ठ्या विपरिणतम् अस्येत्यनेनान्वेति त् इत्याह - ष्टयन्तादिति । विषयशब्दार्थमाह – अत्यन्तति भौरिया | आभ्यां गणाभ्यां यथासंख्यमेतौ प्रत्ययौ स्तः । औरिकिविधमित्यादि । क्लीबत्वं लोकात् । सोऽस्यादिरिति । छन्दो नामाक्षरेयत्तानिबन्धनपङ्कयादिरिह विवक्षितः । तद्वाचकात्प्रथमान्तादस्येत्यादिमति प्रत्ययः स्यात्, य श्रादिमान्स प्रगाथश्वेत् । प्रप्रथ्यत इति प्रगाथः । ' ग्रन्थ संदर्भे' इत्यस्माद् 'अकर्तरि च कारके -' इति कर्मणि घञ् । पृषोदरादित्वाद्रे फनकारयोर्लोपः । अन्ये तु प्रगीयत इति प्रगाथः 'गै शब्दे' इत्यतः ‘उषिकुषिगार्तिभ्यः स्थन्' इत्याहुः । यत्र द्वे ऋचावावृत्त्या तिस्रः क्रियन्ते स प्रगाथः – त्रैष्टुभमिति । 'स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति न्यायेन क्लबतेति भावः । संग्रामे । ननु 'प्रथमात्' इत्यधिकारात्प्रथमोच्चारितसंग्रामवाचिन एव प्रत्ययः प्राप्नोति न प्रयोजनयोभ्य इत्यत श्राह - सोऽस्येतीति । एवं च प्रथमान्तविशेषणद्वारा प्रयोजनयोद्धृणां प्रकृतित्वम् 'अस्य' इति - तदस्य - Page #368 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६५ योद्धारोऽस्य संग्रामस्य भारतः । १२६६ तदस्यां प्रहरणमिति क्रीडायांणः। (४-२-५७) दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा। १२६७ घनः सास्यां क्रियेति अः। (४-४-५८) घन्ताक्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे अप्रत्ययः स्यात् । घन इति कृग्रहणादतिकारकपूर्वस्यापि ग्रहणम् । १२६८ श्येनतिलस्य पाते मे। (६-३-७१) श्येन तिल एतयोर्मुमागमः स्याद् अप्रत्यये परे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनम्पाता मृगया। तिलपातोऽस्यां वर्तते तैलम्पाता खधा । श्येनतिलस्य संग्रामस्य प्रयोजनम् , तेऽस्य संग्रामस्य योद्धार इत्यर्थे प्रयोजनयोद्धृवाचिभ्यः प्रथमान्तेभ्यः अणादयः स्युरित्यर्थः। तदस्याम् । तद् अस्यां क्रीडायां प्रहरणमित्यर्थे प्रथमान्तात् प्रहरणवाचकाद् णप्रत्ययः स्यादित्यर्थः । प्रह्रियते अननति प्रहरणम् आयुधम् । दाण्डेति । अणि तु डीप स्यादिति भावः । मौष्टेति । मुष्टिः प्रहरणमस्यां क्रीडा. मिति विग्रहः । घत्रः सास्याम् । अस्यामित्यनन्तरं मृगयायामित्यादि स्त्रीलिङ्गविशेध्यमध्याहार्यम् । सा क्रिया अस्यां मृगयादिक्रियायामित्यर्थे घनन्तप्रकृतिकप्रथमान्ताकि यावाचिनो अः स्यादित्यर्थः। फलितमाह-घान्तादित्यादिना । कृदग्रहणादिति। तत्प्रयोजनमनुपदमेव वक्ष्यते । श्येनतिलस्य पाते । मुमागम इति । 'अरुर्द्विषत्-'इत्यतः तदनुवृत्तेरिति भावः । अप्रत्यय इति । अप्रत्यये परे यः पातशब्दः तस्मिन्नित्यर्थः । उत्तरपद इति । 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । श्येनपात इति । पतनं पातः । भावे घञ् । श्यैनंपातेति । श्येनपातशब्दाद् घअन्ताद् ञः । यद्यपि पातशब्द एव घनन्तः तथापि कृग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणं बोध्यम् । श्येनस्य पात इति कृद्योगषष्ठ्या समासः । तथा च श्येनपातशब्दस्यादिवृद्धिः । तैलंपाता स्वधेति । स्वधाशब्दः स्त्रीलिङ्गः पित्र्यक्रियायां वर्तते, 'नमः स्वधायै' इत्यादिदर्शनात् । स्वधेत्यनेन प्रत्ययार्थविशेषणद्वारा संग्रामस्य प्रत्ययार्थत्वं वक्तुं शक्यमिति भावः । तथा चायमिह सूत्रार्थः-प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च प्रथमान्तेभ्योऽस्येति षष्ठयन्तार्थेऽण स्यात् , स च षष्टयन्तार्थः संग्रामश्चेदिति । तदस्याम् । प्रथमान्तात्प्रहरणोपाधिकात्सप्तम्यन्तार्थेऽण स्यात् , स चेत्सप्तम्यन्तार्थः क्रीडा भवति । प्रहरणं किम् , माला भूषणमस्याम् । क्रीडायां किम् , खगः प्रहरणमस्यां सेनायाम् । घनः । कृद्ग्रहणादिति । तेन 'श्यैनंपाता' इत्यत्र 'रिणति' इत्यङ्गस्य विधीयमाना वृद्धिः सिद्धा । श्येनपातस्यापि घअन्तत्वादिति भावः । धनः किम् , श्येनपतनमस्यां वर्तते । क्रिया किम् , प्रकारोऽस्यां वर्तते । तदस्याम्' इति प्रकृते पुनः ‘सास्याम्' इत्युक्तिः Page #369 -------------------------------------------------------------------------- ________________ ३६६ ] सिद्धान्तकौमुदी । [तद्धितेषु चातुरर्थिक , किम् - दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः । १२६६ तदधीते तद्वेद । (४-२-५६) व्याकणमधीते वेद वा वैयाकरणः । १२७० क्रतूक्थादिसूत्रान्ताट्ठक् । ( ४-२ - ६० ) क्रतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि, तत्प्रतिपादकग्रन्थपरेभ्यस्त्वध्येतरि । श्रग्निष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषः, तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम्, तदधीते वेद वा श्रौक्थिकः । ' मुख्यार्थात्तक्यशब्दाट्ठगणौ नेष्येते' । न्यायम्क्रीडायामिति नानुवर्तत इति सूचितम् तदस्यामिति प्रकृते पुनरस्यामिति ग्रहणात् । तदधीते । तदधीते इत्यर्थे तद्वेत्तीत्यर्थे च द्वितीयान्तादणदियः स्युरित्यर्थः । गुरुमुखादक्षरानुपूर्वीग्रहणमध्ययनम् । शब्दार्थज्ञानं वेदनम् । एतेन अध्ययनविधिरर्थज्ञानपर्यन्त इति कतिपयमीमांसकोक्तिः परास्ता, पृथग्ग्रहणवैयर्थ्यात् । यथाचैतत्तथा अध्वरमीमांसाकुतूहल वृत्तौ प्रपञ्चितमस्माभिः । वैयाकरण इति । अणि 'न य्वाभ्याम् -' इत्यैजागमः । क्रतूकथादि । ' तदधीते तद्वेद' इत्यर्थयोः ऋतु, उक्थादि, सूत्रान्त एभ्यः ठक् स्यादित्यर्थः । ऋतुविशेषवा - चिनामेवेति । न तु क्रतुशब्दस्यैवेत्यर्थः । अन्यथा उक्थादिगण एव क्रतुशब्दमपि पठेदिति भावः । ननु क्रतुविशेषाणां कथमध्ययनम् । अक्षरग्रहणात्मकत्वाभावादित्यत आह - तेभ्य इति । श्रमिष्टोमादिशब्दाः क्रतुविशेषेषु मुख्याः । तत्प्रतिपादकप्रन्थेषु तु गौणाः । तत्र क्रतुविशेषात्मकमुख्यार्थकेभ्यः श्रग्निष्टोमादिशब्देभ्यो वेदितरि प्रत्ययाः अग्निष्टोमादिक्रतुप्रतिपादकग्रन्थेषु लक्षणया विद्यमानेभ्यस्तु तेभ्यः अध्येतरीत्यर्थः श्रग्निष्टोमिक इति । श्रनिष्टोमं क्रतुं वेत्ति तत्प्रतिपादकग्रन्थमधीत इति वार्थः । उक्थशब्दः सामसु मुख्यः । सामलक्षणप्रन्थे प्रातिशाख्ये तु गौणः । तत्र गौणार्थका - देव उक्थशब्दात् ठगित्याह-- उक्थं सामविशेष इति । 'अग्निष्टोमस्तोत्रात्परं यत्साम गीयते' इति वृत्तिकृदुक्तेरिति भावः । भाष्ये तुं सामशब्दपर्याय उक्थशब्द 'क्रीडायाम्' इत्यस्य निवृत्तिर्यथा स्यादिति । श्रतएवाह - दण्डपातोऽस्यां तिथाविति । तदधीते । द्वितीयान्तादध्येतरि वेदितरि च प्रत्ययः स्यात् । द्विस्तद्ग्रहणमधीयाने विदुषि च प्रत्येकं विधानार्थम् । तेनोत्तरत्र क्रतुवसन्तादयः शब्दास्तत्प्रतिपादकग्रन्थे गौणा अप्यधीयानेऽपि प्रत्ययं प्राप्नुवन्ति । अन्यथा तेषामध्ययनासम्भवेन वेदितर्यैव प्रत्ययः स्यादिति भावः । क्रतूक्यादि । क्रतुविशेषेति । स्वरूपस्य तु न ग्रहणम् । तथात्वे सत्युक्थादिष्वेव क्रतुशब्दः पठ्येत, नापि क्रतुपर्यायाणामुक्थादिगणे यज्ञशब्दपाठादिति भावः । अध्येतरीति । अध्यतर्यपीत्यर्थः । निष्टोमिक इति । संस्थाविशेषवाचकस्याप्यभिष्टोमशब्दस्य तत्संस्थाके क्रतौ -- Page #370 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३६७ नैयायिकः । वृत्तिम् - वार्त्तिकः । लोकायतम् — लौकायतिक इत्यादि । 'सूत्रान्ताच्वकल्पादेरेवेष्यते' ( वा २७४४ ) । सांप्रहसूत्रिकः । अकल्पादेः किम् - काल्पसूत्रः । 'विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम्' ( वा २७४४ ) वायसविधिकः । गौलक्षणिकः । श्रश्वलक्षणिकः । पाराशरकाल्पिकः । श्रङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तावेति वक्तव्यम्' ( वा २७४५ ) । आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या, तामधीते वेद वा त्रैविद्यः I 'श्राख्यानाख्यायिकेतिहासपुराणेभ्यश्च' ( वा २७४६ ) यवक्रीतमधिकृत्य कृतमाख्यानमुपचाराद्यवक्रीतम्, तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य इति लक्ष्यते । मुख्यार्थादिति । सामवाचिन उक्थशब्दात्तु न ठक् । तस्मिन्निषिद्धे तदधीते इत्यण् च न भवतीत्यर्थः । भाष्ये तु मुख्यार्थ कादुक्थशब्दात् ठक् नेत्येव लक्ष्यते । उक्थादिगणपठिताद् न्यायादिशब्दात् ठकमुदाहरति--न्यायमिति । श्रधीते वेद वेति शेषः । नैयायिक इति । ठकि ऐजागमः । वृत्तिमिति । अधीते वेद वेति शेषः । वार्त्तिक इति । ठकि आदिवृद्धौ रपत्वम् । सांग्रहसूत्रिक इति । संग्रहाख्यं सूत्रमधीते वेत्ति वेत्यर्थः विद्यालक्षणेति । विद्या, लक्षण, कल्प एतदन्तादपि उक्तेऽर्थे ठगित्यर्थः । श्रङ्गेति । श्रङ्ग, क्षत्रधर्म, त्रि एतत्पूर्वकाद्विद्यान्तात् समासात् ठग् नेत्यर्थः । ततश्च श्रणेव । त्रिविधा विद्या त्रिविद्या इति । शाकपार्थिवादित्वाद्विधाशब्दस्य लोप इति भावः । तिस्रो विद्यास्त्रिविद्या इति न विग्रहः, 'दिक्संख्ये संज्ञायाम्' इति नियमात् । नापि तिस्रो विद्या अधीते वेद वेति तद्धितार्थे द्विगुः, तथा सति तद्धितस्य द्विगुनिमित्ततया 'द्विगोर्लुगनपत्ये ' इति लुगापत्तेः । तिसृणां विद्यानां समाहार इति द्विगुरप्यत्र निर्बाध एव । आख्यानेति । आख्यान, आख्यायिका, इतिहास, पुराण एभ्यश्च उक्तेऽर्थे ठग्वक्तव्य इत्यर्थः । तत्र आख्यानशब्देन श्रख्यायिकाशब्देन च श्राख्यान विशेषवाचिन आख्यायिकाविशेषवाचिनश्च ग्रहणम् । इतिहासपुराणशब्दयोस्तु स्वरूपयोरेव ग्रहणम् । श्राख्यानं नाम कथाप्रबन्धः । 'आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्' इत्यमरः । 'इतिहासः पुरावृत्तम्' इति च । 1 । निरूढप्रयोगः । तल्लक्षणेत्यादि । तत्प्रतिपादकप्रातिशाख्यमित्यर्थः । नेष्येते इति । अनभिधानादिति भावः । त्रिविधेति । 'तिस्रो विद्या अधीते' इति विग्रहे तु तद्धितार्थे द्विगौ ‘त्रिविद्यः' इत्येव स्याद् 'द्विगोर्लुगनपत्ये' इति लुक्प्रवृत्तेरिति भावः । १ 'लभ्यते इति क । २ एवं सति 'त्रिविद्यम्' इति जाते विद्याशब्दान्तत्वाभावादुदाहरणं न संभवेदिति चिन्त्यमिदम् । अपिशब्दस्वारस्याद् 'न निर्बाधः ' इति पाठः प्रतीयते । Page #371 -------------------------------------------------------------------------- ________________ ३६८] सिद्धान्तकौमुदी। [द्वितेषु चातुरर्थिक कृता आख्यायिका वासवदत्ता । 'अधिकृत्य कृते ग्रन्थे' (सू १४६७) इत्यर्थे 'वृद्धाच्छः' (सू १३३७)।तस्य 'लुबाख्यायिकाभ्यो बहुलम्' इति लुप् । ततोऽनेन ठक् । वासवदत्तिकः। ऐतिहासिकः। पौराणिकः 'सर्वादेः सादेश्च लुग्वक्तव्यः' (वा २७४८) सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सवा तेकः । द्विगोर्ख'(सू १०८०) इति लुक् । द्वितन्त्रः । 'इकन्पदोत्तरपदाच्छतषष्टेः षिकन्पथः' ( वा २७४६-२७५०) पूर्वपदिकः । उत्तरपदिकः । शतपथिकः, शतपथिकी । षष्टिपथिकः, षष्टिपथिकी। (१२७१ ) क्रमादिभ्यो वुन् । (४-२-६१ ) 'सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥' तत्र आख्यानादुदाहरति । यवक्रीतमिति । आख्यायिका या उदाहरतिवासवदत्तामिति । लुग्वक्तव्य इति । उक्तप्रत्ययस्येति शेष । सर्ववेद इति । अणो लुकि श्रादिवृद्ध्यभावः । सर्वतन्त्र इति । सर्वतन्त्राण्य धीते वेद वेत्यर्थः । सवार्तिक इति । वार्तिकेन सह सवार्तिकम् । तेन बहुव्रीहिः । 'वोपसर्जनस्य' इति सभावः । सवार्तिकं सूत्रमधीत इत्यर्थः । द्विगोरिति । द्वे तन्त्रे अधीते वेत्ति वेत्यर्थे तद्धितार्थे द्विगुनिमित्तत्वादणो लुकि अादिवृद्धयभावे द्वितन्त्र इति रूपमित्यर्थः । इकन पदोत्तरपदादिति । पदशब्द उत्तरपदं यस्य स पदोत्तरपदः, तस्मादुक्तेऽर्थे इकन्प्रत्ययो वक्तव्यः । शतषष्टेः षिकन्पथ इति । शतशब्दात् षष्टिशब्दाच्च परो यः पथिन्शब्दः तस्माद् उक्तेऽर्थे षिकन्प्रत्ययो वक्तव्य इत्यर्थः । पूर्वपदिक इति । पूर्वपदमधीते वेत्ति वेत्यर्थः । एवमुत्तरपदिकः। शतपथिक इति । शतपथं नाम वाजसनेयिब्राह्मणम् । तदधीते वेत्ति वेत्यर्थः । शतपथिकीति । टित्त्वात डीबिति भावः। एवं षष्टिपथिकः षष्टिपथिकीति । क्रमादिभ्यो वुन् । तदधीते तद्वेद इत्यर्थे इति शेषः । आख्यायिकेति । गद्यपद्यरूपो ग्रन्थविशेष इत्यर्थः । सर्वादेरिति । 'सादेः' इत्येव सिद्धे सर्वादिग्रहणमर्थवत्परिभाषाज्ञापनार्थम् । सवार्तिक इति । वार्तिकान्तमधीत इत्यर्थः । अन्तवचने अव्ययीभावः । 'अव्ययीभावे काले' इति सहस्य सभावः । इकन्निति। पदशब्द उत्तरपदं यस्य तस्मादिकन् । शतशब्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तदन्तात्तु षिकन् वाच्य इत्यर्थः । शतपथिक इति । वृत्तिकृता तु वार्तिके 'बहुलम्' इति पूरयित्वा 'शातपथः' इत्यणन्तमप्युदाहृतम् । तत्तु भाष्ये १ 'टिकन् पथः' इति क. ख. । अयमेव पाठो बालमनोर मासंमतः प्रतीयते, परं कौमुदीपुस्तकानामसंवादबाहुल्यादिह षिकन् निवेशितः । २ 'विकन्' इति पाठानुरोधेन 'षित्वात्' इति युक्तं स्यात् । Page #372 -------------------------------------------------------------------------- ________________ प्रकणरम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६६ क्रमकः । क्रम पद शिक्षा मीमांसा क्रमादिः । १२७२ अनुब्राह्मणादिनिः। (४-२-६२) 'तदधीते तद्वेद' (सू १२६६ ) इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् , तदधीतेऽनुब्राह्मणी । मत्वर्थीयेनैव सिद्धेऽएबाधनार्थमिदम् । १२७३ वसन्तादिभ्यष्ठक।(४-२-६३) वासन्तिकः । अथर्वाणमधीते पाथर्वणिकः। 'दाण्डिनायन-' (सू ११४५) इति सूत्रे निपातनाहिलोपो न । १२७४ प्रोक्ताल्लुक । (४-२-६४) प्रोकार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक्स्यात् । पणनं पणः । 'अर्थे कविधानम्' इति कः, सोस्यास्तीति पणी। तस्य गोत्रापत्यं पाणिनः । १२७५ गाथिविदथिकशिगणिपणिनश्च । क्रमक इति । क्रममधीते वेत्ति वेत्यर्थः । क्रमादिगणं पठति-क्रमेत्यादि । क्रमादिरिति । अयं क्रमादिगण इत्यर्थः । पदकः शिक्षकः मीमांसक इत्युदाहरणानि। अनुब्राह्मणादिनिः । शेषपूरणेन सूत्रं व्याचष्टे-तदधीते तद्वदेत्यर्थे इति । इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथा च नकारस्योपदेशेऽन्त्यत्वाभावान्नेत्संज्ञा । ननु 'अत इनिठनौ' इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आहअरबाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदम् । वसन्तादिभ्यष्ठक । 'तदधीते तद्वेद' इत्येव । वासन्तिक इति । वसन्तवर्णनपरग्रन्थो वसन्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति । अथर्वणा प्रोक्लो वेदो लक्षणया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्य 'ऋषिभ्यो लुग्वक्तव्यः' इति वचनाल्लुक् । आथर्वणिक इत्यत्र 'नस्तद्धिते' इति टिलोपमाशङ्कयाह-दाण्डिनायनेति । वान्तसंयोगपूर्वकत्वात्तु नाल्लोपः । अथ पाणिनिशब्दं व्युत्पादयितुमुपक्रमतेप्रोक्ताल्लुक् । प्रोक्तशब्देन प्रोक्तार्थप्रत्ययो विवक्षितः । अध्येतृवेदितृप्रत्ययस्येति प्रकृतत्वान्लभ्यते, तदाह-प्रोक्लार्थकेति । पणनं पण इति । स्तुतिरित्यर्थः । ननु 'हलच' इति घनि उपधावृद्धिः स्यादित्यत आह-घार्थ इति । पणीति । 'श्रत इनिठनौ' इति मत्वर्थे इनिः। तस्येति । पणिनो गोत्रापत्ये तस्यापत्यमित्यणि पाणिन इति रूपमित्यर्थः । अत्र अणः अपत्यत्वात्तस्मिन् परे 'इनण्यनपत्ये' इति न दृष्टम् । षित्त्वफलं दर्शयति-शतपथिकीति । अण्वाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदं सूत्रं तद्रीत्या त्वणिष्यत इति, अनभिधानान्नेति वा बोध्यम् । वसन्ता । उक्थादिष्वेव वसन्तादीन् पठित्वा, वसन्तादिषु वा उक्थादीन् पठित्वा, अन्यतरच्छक्यमवक्तुम् । अथर्वाणमिति । अथर्वणा प्रोक्त उपचारादथर्वा । यद्वा 'तेन प्रोक्तम्' इत्यधिकारे 'ऋषिभ्यो लुग्वक्तव्यः' वसिष्ठो विश्वामित्रोऽनुवाक इत्युदाहृत्य 'अथर्वणो वा' 'अथर्वा' आथर्वणः' इति भाष्योक्तेः साधुः । Page #373 -------------------------------------------------------------------------- ________________ ३७० ] सिद्धान्तकौमुदी । [तद्धितेषु चातुरर्थिक 1 ( ६-४-१६५) एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । तो यून्यपत्ये इन् । पाणिनिः । १२७६ रयक्षत्रियार्षञितो यूनि लुगणिः । (२-४-५८ ) रायप्रत्ययान्तात्क्षस्त्रियगोत्रप्रत्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् जितश्च परयोर्युत्राभिधायिनोरणिनोर्लुक्स्यात् । कौरव्यः पिता, कौरव्यः पुत्रः । श्वाफल्कः पिता, वाफल्कः पुत्रः । वासिष्ठः पिता, वासिष्ठः पुत्रः । तैकायनिः पिता, प्रकृतिभावाभावाट्टिलोपे प्राप्ते । गाथिविदथि । 'इनण्यन त्ये' इत्यतः 'अणि’ इत्यनुवर्तते । 'प्रकृत्यैकाच्' इत्यतः 'प्रकृत्या' इति च । तदाह--ए - एतेऽणि प्रकृत्या स्युरिति । गाथिन्, विदथिन, केशिन्, गणिन्, परिणन् एन इत्यर्थः । अपत्येऽप्यणि प्रकृतिभावार्थमिदम् । ततो यून्यपत्य इति । मूलप्रकृतिः पणी । तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते पाणिनशब्दाद् गोभणन्ताद् अत इञि पाणिनिरिति रूपमित्यर्थः । पाणिनशब्दस्य अनन्तरापत्य प्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृति पयपेक्षया तृतीये गोत्रापत्ये इब् न संभवति 'एको गोत्रे' इति नियमात् । नापि मूलप्रकृत्यपेक्षया चतुर्थापत्ये यूनि पाणिन शब्दादनन्तरापत्य प्रत्ययान्तादिञ् संभवति, 'गोत्रायून्यस्त्रियाम्' इति यून्यपत्ये गोत्रप्रः ययान्तादेवापत्य प्रत्ययनियमात् । अतो गोत्राण्प्रत्ययान्तात् पाणिनशब्दाद्यूनि इञ्प्रत्ययः इत्युक्तमिति बोध्यम् । अत्र इत्रो लुकमाशङ्कितुमाह – रायक्षत्रियार्ष । रयादयः सर्वे गोत्रप्रत्यया एव गृह्यन्ते, ‘गोत्राद्यूनि’ इत्युक्तेः । तदाह – गोत्रप्रत्ययान्तादित्यादि । ण्यप्रत्ययस्योदाहरति- कौरव्य इति । कुरो: गोत्रापत्यं कौरव्यः । कुर्वादिभ्यो रायः । कौरव्यस्यापत्यं युवेत्यर्थे त इञ् । तस्यानेन लुक् । क्षत्त्रियप्रत्ययस्योदाहरति- श्वाफल्क इति । श्वफल्कस्य गोत्रापत्यं श्वापकः । 'ऋष्यन्धक -' इत्यण् । श्वाफल्कस्यापत्यं युवेत्यर्थे त इञ् । तस्यानेन लुक् । श्रर्षप्रत्ययस्यो • दाहरति - वासिष्ठ इति । वसिष्ठस्य गोत्रापत्यं वासिष्ठः । ऋष्यण् । वासिष्ठस्यापत्यं युवेत्यर्थे इञ् । तस्यानेन लुक् । बित उदाहरति — तैकायनिरिति । 1 गाथिविदथि । 'इनरायनपत्ये' इति सिद्धे अपत्येऽप्यरिण प्रकृ तेभावार्थमयमारम्भः । गाथिनः । वैदथिनः । कैशिनः । गाणिनः । पाणिनः । रयन्तत्रियार्ष । कौरव्य इति । 'कुर्वादिभ्यो ण्यः' तत इञो लुक् । कौरव्यः पुत्रः । ननु तिकादिषु कौरव्यशब्दः पठ्यते, तथा च कौरव्यायणिरिति फित्रा भाव्यम्, न त्विजेति चेत् । सत्यम्, 'कुरुनादिभ्यो ण्यः' इति क्षत्त्रियगोत्रे विहितो ओर यस्तदन्तं तत्र पठ्यते । प्रकृते तु ब्राह्मणगोत्रप्रत्ययान्तमित्यवधेयम् । श्वाफल्क इति । 'ऋष्यन्धक - ' इत्यण् । तत इओ लुक्, श्वाफल्कः पुत्रः । वासिष्ठ इति । ऋष्यण तत इज Page #374 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३७१ तैकायनिः पुत्रः । 'एभ्यः' किम् - शिवाद्यय् । कौहडः पिता । तत इञ् । कौहडि: पुत्रः । 'यूनि' किम् - वामरथ्यस्य च्छात्रा वामरथाः, इत्यणो लुक्तु न भवति, श्रार्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणिनिना प्रोक्तं पाणिनीयम् । ‘वृद्धाच्छः' ( सू १३३७ ) | 'इञश्च' ( सू १३३३ ) इत्यण् तु न । गोत्रे य इञ् 1 तिकस्य गोत्रापत्यं तैकायनिः । तिकादिभ्यः फिञ् । तैकायनेरपत्यं युवेत्यर्थे तस्यापत्यमित्यण् । तस्यानेन लुक् । वामरथ्यस्येति । वामरथस्य गोत्रापत्यं वामरथ्यः । कुर्वादिभ्यो रयः । वामरथ्यस्य छात्रा इत्यर्थे 'करावादिभ्यो गोत्रे' इति छापवादः अण्, तस्यानेन लुङ् न भवति, तस्य युवार्थकत्वाभावादिति भावः । इत्यणो लुक्तु न भवतीति । 'रायक्षत्रिय-' इति सूत्रेण पाणिनिरित्यत्र इनो लुङ् न भवतीत्यर्थः । कुत इत्यत आह - - आर्ष ग्रहणेनेति । पाणिनिशब्दे परिणन्शब्दादण्प्रत्ययस्य औत्सर्गिकस्य वस्तुगत्या ऋषिवाचित्वेऽपि ऋषौ प्रतिपदोक्तत्वाभावान्न ततः परस्य इञो लुगिति भावः । न च पणिन्शब्दाद्गोत्रापत्ये ‘ऋष्यन्धक—' इत्यणेव कुतो न स्यादिति वाच्यम्, यत्र औत्सर्गिकस्य अण इजादिना बाधः प्रसक्तः, तत्रैव तद्बाधनार्थम् ऋष्यणः प्रवृत्तेः । वस्तुतस्तु 'वान्यस्मिन्सपिण्डे -' इति सूत्रभाष्ये अत्रिशब्दाद् 'इतश्चानिञः' इति ढकि आत्रेयशब्दादिनो 'रायतत्त्रियार्ष -' इति लुगित्युक्तत्वादिदमुपेक्ष्यम् । 'राय क्षत्रिय - ' इत्यत्र तु ऋषिवाचकस्य रूढस्यैव ग्रहणम् । परिणन्शब्दः, तदपत्ये पाणिनशब्दश्व न ऋषिवाचकौ । अत श्रौत्सर्गिकाणन्त एव पाणिनशब्द इति शब्देन्दुशेखरे प्रपचितम् - पाणिनिनेति । पाणिनिना प्रोक्तमित्यर्थे 'तेन प्रोक्तम्' इत्यणं बाधित्वा 'वृद्धाच्छः' इति छप्रत्यये ईयादेशे पाणिनीयशब्द इत्यर्थः । ननु पाणिनिशब्दात्तद्धिते विवक्षिते 'यूनि लुक्' इति इञो लुकि सत्यपि प्रत्ययलक्षणेन इञन्तत्वमाश्रित्य छापवादः अण् स्यादित्यत आह - इञश्चेत्यण् तु नेति । लुक्। वासिष्ठः पुत्रः । तैकायनिरिति । 'तिकादिभ्यः फिञ्' ततोऽणो लुक् । तैकायनिः पुत्रः । वामरथा इति । कुर्वादित्वाद् रयः । ततो वृद्धाच्छं बाधित्वा ‘कण्वादिभ्यो गोत्रे' इति शैषिकोऽय् । इतीति । 'ण्यक्षत्त्रियार्ष -' इत्युदाहृतसूत्रेणेत्यर्थः । ऋष्यण एवेति । पाणिनशब्दे तु श्रौत्सर्गिक एवाणिति भावः । नन्विदं 'वान्यस्मिन् सपिण्डे--' इति सूत्रस्थ भाष्यकैयटाभ्यां विरुध्यते । अत्रेर्युवापत्यानि पुमांसोऽत्रयः, 'इतश्चानिञः' इति ढक् तदन्ताद्यूनि ' त इञ्' तस्य 'रायतत्त्रिय- ' इति लुक्, 'अत्रिभृगुकुत्स -' इति ढकोऽपि लुक् इत्युक्तत्वात् । 'ऋष्यन्धक -' इत्यण एव ग्रहणे तु ढकोऽप्रहणात्ततः परस्येत्रो लुङ् न स्यादित्याहुः । वस्तुतस्तु 'दाक्षीपुत्र Page #375 -------------------------------------------------------------------------- ________________ ३७२ ] सिद्धान्तकौमुदी। [तहितेषु चातुरर्थिकतदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् ।स्वरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया । १२७७ सूत्राच्च कोपधात । (४-२-६५) सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । प्रोकार्थ प्रारम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सत्रम् । तदधीयते विदन्ति वा अष्टकाः । 'संख्याप्रकृतिकादिति वाच्यम्' । नेह-माहावार्तिकः । कालापकः । पाणिनिशब्दे इञ् युवापत्यार्थक एव, न तु गोत्रार्थकः, वसंज्ञया गोत्रसंज्ञाया बाधादिति भावः । यद्यपि अपत्याधिकारादन्यत्र न पारिभाषिकं गोत्रमित्युक्तम् । तथाप्यत्र पारिभाषिकमेव गोत्रं गृह्यत इति उपरिष्टाद् 'इन' इति सूत्रे वक्ष्यते । तत इति । पाणिनीयशब्दादित्यर्थः । पाणिनीयमधीते वेत्ति वेत्यर्थे पाणिनीयशब्दादणि 'प्रोक्ताल्लुक्' इति तस्य लुगिति भावः । ननु असत्यपि अध्येत. वेदितृप्रत्ययस्याणो लुकि पाणिनीयशब्दः सिध्यत्येवेत्यत आह--स्वरे स्त्रियां च विशेष इति । अध्येतृवेदितप्रत्ययस्याणो जुगभावे प्रत्ययस्वरे. णान्तोदात्तत्वं स्त्रियां च ङीप् स्यात् । लुकि तु सति छादेशस्य ईयादेशस्य ईकारः प्रत्ययस्वरेणोदात्तः टाप् च सिध्यति । तदाह--पाणिनीयः, पाणिनीयेति । सूत्राच्च कोपधात् । ककारोपधादित्यनन्तरं परस्येति शेषः । ननु 'प्रो. क्ताल्लुक्' इत्येव सिद्धे किमर्थमिदमित्यत आह-अप्रोतार्थ प्रारभ्भ इति । अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति । तदस्य परिमाणमित्यधिकारे 'संख्यायाः संज्ञासंघसूत्राध्ययनेषु' इति 'संख्याया अतिशदन्तायाः कन्' इति च सूत्ररूपेऽर्थे कन् । अष्टका इति । अष्टकशब्दादध्येतृवेदितृप्रत्ययस्य अनेन लुक् , कोपधात्सूत्रवाचिनः परत्वादिति भावः । संख्याप्रकृतिकादिति । 'सूत्राच कोपाधात्' इति लुक् संख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः । माहा वार्तिक इति । महावार्तिकं नाम सूत्रम् , तदधीते वेत्ति वा माहावार्तिकः । अत्र अणो पाणिनेः' इति भाष्यप्रयोगादस्य साधुत्वमिति ज्ञेयम् । इअश्चेतीति । 'यनि लक' इति लुक्यपि प्रत्ययलक्षणेन इञन्तमस्तीति भावः । गोत्रे य इति । 'गोत्रमिह शास्त्रीयम् , न तु लौकिकमिति तत्र वक्ष्यते' इति भावः । स्वर इति । लुगभावे प्रत्ययस्वरेणान्तोदात्तत्वं स्त्रियां च ङीप्स्यात् । लुकि सति त्वीकार उदात्तः, टाप् च सिध्यतीति भावः । अष्टकमिति । 'संख्यायाः संज्ञासङ्घसूत्राध्य यनेषु' इति ‘संख्याया अतिशदन्तायाः कन्' । संख्याप्रकृतिकादिति । संख्याप्रकृतिकप्रत्ययान्तादित्यर्थः। कालापक इति । कलापिन्शब्दात्प्रोक्तार्थेऽण , 'सब्रह्मचारी-' इत्युपसंख्यानाट्टिलोपः। ततोऽध्येतर्यण् , तस्य 'प्रोक्ताल्लुक्' इति लुक् । कालापानामाम्नाय इत्यर्थे 'गोत्रचरणाद् Page #376 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३७३ १२७८ छन्दो ब्राह्मणानि च तद्विषयाणि । ( ४-२ -६६ ) छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाणिनिः । तस्य 'कठचरकात् -' ( सू १४८७ ) इति लुक् । ततोऽण् । तस्य 'प्रोक्लाल्लुक्' ( सू १२७४ ) । 1 > न लुक् । छन्दोब्राह्मणानि । छन्दांसि मन्त्राः, ब्राह्मणानि विधिवाक्यानि । तेषां द्वन्द्वः, वेद इति यावत् मन्त्रब्राह्मणयोर्वेदनामधेयमिति स्मरणात् । 'प्रोक्ताल्लक' इत्यतः प्रोक्तादित्यनुवर्तते । प्रथमा बहुवचनेन विपरिणम्यते । प्रोक्तप्रत्ययान्तानीति लभ्यते । तदाह—छन्दांसीत्यादिना । तद्विषयाणीत्यत्र तच्छब्देन अध्येतृवेदितृप्रत्यया विवक्षिताः। तैर्विषयः अविनाभावो येषां तानि तद्विषयाणि, 'षिञ् बन्धने' विशिष्य सयो बन्धः विषयः, अविनाभाव इति यावत् । श्रध्येतृवेदितृप्रत्ययसंयुक्तान्येव स्युरित्यर्थः । फलितमाह — अध्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थ इति । पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम् । पाणिनीयास्तदध्येतारो वेदितारो वेतिवद् अध्येतृप्रत्ययं विनापि प्रयोगे प्राप्ते नियमार्थमिदम् । कठेनेति । कठेन प्रोक्लमधीयत इत्यर्थे कठा इत्युदाहरणमिति भावः । तदुपपादयति - वैशम्पायनेति । कठेन प्रोक्तमित्यर्थे तेन प्रोक्तमित्यणपवादः 'वैशम्पायनान्तेवासिम्यश्च' इति णिनिरित्यर्थः । तस्येति । णिनेः ‘कटचरकाल्लुक्' इत्यनेन लुगित्यर्यः । एवं च कठेन प्रोक्तो वेदभागः कठ इति स्थितम् । ततोऽणिति । तस्माद् लुप्तप्रोक्तप्रत्ययकात् कठशब्दात् तदधीते इति अणित्यर्थ । तस्य प्रोक्ताल्लुगिति । तस्याध्येत्रणः ‘प्रोक्लाल्लुक्' इति लुगित्यर्थः । तथा च कठेन प्रोक्तमधीयते कठा इत्येवं कठशब्दस्य लुप्तप्रोक्तप्रत्ययान्तस्य अध्येत्रणा सहैव प्रयोगार्हता, नतु तेन बिना केवलप्रोक्तप्रत्ययान्तस्येति भावः । वुञ्' ततोऽध्येतृवेदित्रणो लुक् स्वरे स्त्रियां च विशेषः । छन्दोब्राह्मणानि । इह मण्डूकप्लुत्यानुवृत्तं 'प्रोक्तात्' इति पञ्चम्यन्तं जसन्तत्वेन विपरिणम्यते 'छन्दोब्राह्मणानि' इत्यनेन सामानाधिकरण्यात् । प्रोक्तशब्दश्च प्रोक्तार्थके प्रत्यये लाक्षणिक इत्याशयेनाह - प्रोक्रप्रत्ययन्तानीति । तद्विषयाणीति । तच्छब्देन अध्येतृवेदितृप्रत्ययः परामृश्यते, विषयशब्दस्त्विहानन्यभाववाची न तु देशवाचीत्यभिप्रेत्याहप्रत्ययं विना न प्रयोज्यानीत्यर्थ इति । पाणिनीयं पाणिनीया इतिवदनियमेन प्रयोगे प्राप्ते नियमार्थमेतदिति भावः । छन्दोग्रहणादेव सिद्धे ब्राह्मणग्रहणं चिरन्तनप्रोक्तब्राह्मणानामेव तद्विषयत्वार्थम् । तेनेह न - याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि Page #377 -------------------------------------------------------------------------- ________________ ३७४] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिक अथ चातुरर्थिकाः। १२७६ तदस्मिन्नस्तीति देशे तन्नाम्नि। (४.२-६७) उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः । १२८० तेन निवृत्तम् ।। ४-२-६८) कुशा. म्बेन निवृत्ता कौशाम्बी नगरी । १२८१ तस्य निवासः । (४-२-६६) शिबीनां निवासो देशः शबः । १२८२ अदूरभव । (४-२-७०) विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुकास्त्रयोऽर्थाः सन्निधाप्यन्ते, तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति । १२८३ पोरञ् । (४-२-७१) ___ अथ चातुरर्थिकान् प्रत्ययान् वक्तुमुपक्रमते। तस्मिन्नम्तीति। तदस्मिन्नस्तीत्यर्थ प्रथमोच्चारितात्प्रथमान्तादणादयः स्युः। प्रत्ययान्तेन प्रकृतिनामके देशे गम्य इत्यर्थः। प्रसिद्धदेशग्रहणार्थ इतिशब्दः । मतुपोऽपवादः । तेन निवृत्तम् । देशे तन्नाम्नीत्यनुवर्तते । तेन निर्धत्तमित्यर्थे तृतीयान्तादणादयः स्युः तन्नाम्नि देशे इत्यर्थः । तस्य निवासः । तन्नाम्नि देशे इत्येव । तस्य निवास इत्यर्थे षष्ठ्यन्तादणादयः स्युः तन्नाम्नि देशे इत्यर्थः । स्वत्ववान् विषयः । निवासस्तु वसतिमात्रं स्वत्वास्वत्वसाधारणमित्याहुः । अदरभवश्च । 'तस्य' इति 'तन्नाम्नि देशे' इति चानुवर्तते । तस्य अदूरभव इत्यर्थे षष्ठ्यन्तादणादयः स्युः तन्नाम्नि देशे इत्यर्थः । नन्वत्र चकारः किमर्थ इत्यत आह-चकारेणेति । अदूरभव इति विध्यनन्तरं प्रागुतात्रयोऽर्थाः पुनरुपस्थाप्यन्त इत्यर्थः । किमर्थमित्यत आह-तेनेति । अन्यथा संनिहितत्वाद् अदूरभव इत्येव उत्तरविधिष्वनुवर्तेतेति भावः । चातुरर्थिकत्वमिति । चतुरा भव इत्यर्थे याज्ञवल्कानि । यजन्तात् 'करवादिभ्यो गोत्रे' इत्यण् , 'आपत्यस्य च-' इति यलोपः। याज्ञवल्क्यादयो हि पाणिन्यपेक्षया नूतना इति वृत्तिकृतां व्यवहारः । चकारोऽनुक्तसमुच्चयार्थः । तेन काश्यपिनः कौशिकिन इत्यत्र कल्पेऽपि तद्विषयत्वं सिद्धम् । काश्यपकौशिकाभ्यामृषिभ्याम्-' इति प्रोक्ते णिनिः, अध्येत्रणो जुक् । छन्दोब्राह्मणानीति किम् , पाणिनीयं व्याकरणम् ॥ इति रक्ताद्यर्थकाः ॥ अथ चातुरर्थिकाः। तदस्मिन् । अस्तीत्युपाधिकात्प्रथमान्तादस्मिन्निति ससम्यन्तार्थे यथाविहितं प्रत्ययः स्यात्प्रत्ययान्तनामा देशश्चेत् । तत्प्रत्ययान्तं नाम यस्येति बहुव्रीहिः । मतुपोऽ. यमपवादः । इतिशब्दस्तु सकललोकप्रसिद्ध देशे यथा स्यात्, न त्वाधुनिकसंकेतेऽपीत्येतदर्थः । उत्तरसूत्रत्रयेऽपि 'देशे तन्नाम्नि' इत्यनुवर्तते । तेन निवृत्तम् । अन्तर्भावितण्यर्थवृत्तेः कर्मणि क्तः । अदर । अदूरमन्तिकम् , तत्र भवतीत्यदूरभवः, निपातनात्सप्तमीसमासः । चातुरर्थिकत्वमिति । चतुर्णामर्थानां समाहारश्चतुरर्थी । Page #378 -------------------------------------------------------------------------- ________________ प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसंहिता। [३७५ अणोऽपवादः । कक्षतु. काक्षतवम् । नद्यास्तु परत्वान्मतुपू । इक्षुमती । १२८४ मतोश्च बह्वजङ्गात् । (४-२-७२) बह्वच् अङ्ग यस्य मतपखदन्तादन, नाए । सैध्रकावतस् । 'बरचू' इति किम्-श्राहिमतम् । अङ्गग्रहवं बच इति तद्विशेषणं यथा स्वाद् मत्वन्तविशेषणं मा भूत् । १२८५ वह्वचः क्रपेषु । (४-२-७३) अणोऽपवादः । दीर्घवरत्रेण निवृत्तो दैर्घवरत्रः कूपः । १२८६ उदक्च विपाशः । (४-२-७४) विपाश उत्तरे कूले ये कूपास्तेष्वञ् । अबह्वजर्थ श्रारम्भः । दन्तेन निवृत्तो दान्तः कूपः । उदक् किम्-दक्षिणत: कूपेवणेव । १२८७ सङ्कलादिभ्यश्च । (४-२-७५) कूपेषु इति निवृत्तम् । सङ्कलेन निर्वृत्तं साङ्कलम् । पौष्कलम् । १२८८ स्त्रीषु सौवीरसाल्वप्रान। (४-२-७६) स्त्रीलिङ्गवेषु देशेषु वाघ्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्ताभित्री नगरी । साल्वे, वैधूमानी । प्राचि, माकन्दी । १२८६ सुवास्त्वाद्विगोरध्यात्मादित्वाञ् । तद्धितार्थद्विगौ तु 'द्विगोलुंगनपत्ये इति लुक् स्यात् । केचित्त चतुर्णा सूत्राणामर्थाश्चतुराः, तत्र भवाश्चातुरर्थिका इत्याहुः । ओरञ् । 'तदस्मिन्नस्ति' इत्यादिषु चतुर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्तादञ् स्यात् , अणोऽपवादः अनधिकारः ‘सुवास्त्वादियोऽण्' इति यावत् । काक्षतवमिति । कक्षतुरस्मिन्नस्तीत्यादि विग्रहः । मतोश्च । सैध्रकावतमिति । सिध्रकावानस्मिन्नस्तीत्यादयश्चत्वारोऽर्थाः यथायोगं बोध्याः । आहिमतमिति । अहिमानस्मिन्नस्तीत्यादयोऽर्थाः । अहिशब्दस्य ध्यकत्वादञ् नेति भावः । बह्वचः कृपेषु । बह्वचः प्रातिपदिकाद् अञ् चतुर्वर्थेषु अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तः कूपः दैर्घवरत्रः । उदक्च विपाशः। विपाश उत्तरे कले इति । विपाशशब्द शकारान्तो नदीविशेषयाची । सङ्कलादिभ्यश्च । निर्वृत्तमिति । व्याख्यानादिति भावः । अणोऽपवादः । पौष्कलमिति । पुष्कलेन निवृत्तमिति विग्रहः । स्त्रीषु सौवीर । सौवीर इति । उदाहरणं वक्ष्यत इति शेषः । दात्तामित्री नगरीति । 'टिड्ढ-' इति डीप् । साल्व इति । उदाह्रियत इति शेषः । वैधूमाग्नीति । विधूमाग्निना निवृत्तेत्यर्थः । अनि डीप् । प्राचीति । प्राचि देशे उदाहियत इत्यर्थः । माकन्दीति । माकन्देन निवृत्तेत्यर्थः । तत्र भवाश्चातुरर्थिकाः । अध्यात्मादित्वाह । चतुर्वर्थेषु भवा इति तद्धितार्थे द्विगौ तु 'द्विगोलुंगनपत्ये' इति ठओ लुक् स्यात् । मतोश्च । ननु 'मतोर्बह्वचः' इत्येवास्तु । बह्वचो विहितो यो मतुप् तदन्तादिति वैयधिकरण्येन व्याख्यानादिष्टं सिद्ध्यति किमाङ्गग्रहणेनेत्याशङ्कां निवारयति-अङ्गग्रहणमिति । मत्वन्तविशेषणमिति । १ 'दत्तेन निवृत्तो दात्तः कूपः' इति क्वचित्पाठः । Page #379 -------------------------------------------------------------------------- ________________ ३७६ ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिक दिभ्योऽण (४-२-७७ ) अमोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्ष, वार्णवम् । अएग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी । १२६० रोणी। (४-२-७८) रोणीशब्दात्तदन्ताचाए । कूपाजोऽपवादः । रौणः । प्राजकरौणः । १२६१ कोपधाच्च । (४-२-७६) अण् । अनोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् । १२६२ वुञ्छएकछजिलसेनिरढण्ययफक्फिजियकक्ठकोऽरीहणकृशाश्वयकुमुदकाशतणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः । सुवास्त्वादिभ्योऽण् । अत्र इति । श्रोरनित्यस्यापवाद इत्यर्थः । सौवास्तवमिति । अणि श्रोगुणः। वार्णवमिति । वर्णोरदूरभवमित्यर्थः । ननु 'ओरञ्' इत्येव सिद्धे पुनर्विधिसामर्थ्यादेव तदननुवृत्तौ अणि सिद्धे पुनरएनहणं व्यर्थमित्यत आह-अरग्रहणमिति । रोणी । लुप्तपञ्चमीकमिदम् । तदन्तादिति । 'येन विधिः' इति सूत्रस्थभाष्यादिह प्रत्ययविधावपि तदन्तविधिरिति भावः । रौण इति । रोण्या निवृत्तः कूप इत्यर्थः। आजकरौण इति । अजकरोण्या निवृत्त इत्यर्थः। अणि 'यस्य' इति ईकारलोपः। कोपधाच्च । कार्णच्छिद्रक इति । कर्णच्छिद्रकेण निवृत्तः कूप इत्यर्थः । कार्कवाकवमिति । कृकवाकुना निवृत्तः कूप इत्यर्थः। ओगुणः, श्रादिवृद्धौ रपरत्वम् । त्रैशङ्कवमिति । त्रिशङ्कुना निवृत्तः कूप इत्यर्थः । वुञ्छण् । वुञ् , छण् , क, रुच् , इल, स, इनि, र, ढ, ण्य, य, फक् , फिल् , इञ् ञ्य, कक् , ठक् , एतेषां सप्तदशानां द्वन्द्वात्प्रथमाबहुवचनम् । अरोहण, कृशाश्व, ऋश्य, कुमुद, काश, तृण, प्रेत, अश्मन् , सखि, सङ्काश, बल, पक्ष, कर्ण, सुतङ्गम, प्रगदिन् , वराह, कुमुद एतेष' सप्तदशानां द्वन्द्वः। एते श्रादयो येषामिति बहुव्रीहेः पञ्चमीबहुवचनम् । यथासंख्यावगमाय कुमुदशब्दयोरेकशेषो न कृतः । प्रगदिन्शब्दे नलोपाभावस्तु इकारान्तत्वभ्रमनिरासाय । द्वन्द्वान्ते सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वादशग्रहणाभावे मत्वन्तविशेषणं स्यादेव । ततश्चाहिमतमित्यादावतिप्रसङ्गः स्यादिति भावः । रोणी । रोणीशब्दः प्रत्ययमुत्पादयतीत्यर्थः । तथा च फलितमाह-रोणीशब्दादिति । पञ्चम्याः सौत्रो लुगित्यन्ये । तदन्तादिति । 'येन विधिः-' इति सूत्रे भाष्यस्थविशेषवचनाद्, विशेषणविशेष्ययोः कामचारमाश्रित्य 'समासप्रत्ययविधौ प्रतिषेधः' इत्यस्य प्रत्याख्यानाद्वा तदन्तविधिरिति भावः । वुञ्छण । 'ठक्' इत्यन्तमेकं समस्तपदम् । अरीहणादि त्वपरम् । तत्र प्रथमतः कुमुदान्तानां चतुर्णा द्वन्द्वं विधाय, द्वितीयेन काशादिकुमुदान्तर्द्वन्द्वेन सह पुनर्द्वन्द्वो बोध्यः । तेन कुमुदशब्दस्य द्विःपाठेऽपि Page #380 -------------------------------------------------------------------------- ________________ प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७७ (४-२-८० ) सप्तदशभ्यो गणेभ्यः सप्तदश क्रमात्स्युश्चतुराम् । अरीहणादिभ्यो वुञ् , अरीहणेन निवृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण् , काश्विीयम् । ऋश्यादिभ्यः कः, ऋश्यकम् । कुमुदादिभ्यष्ठच्, कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः, तृणसम् । प्रेक्षादिभ्य इनिः, प्रेक्षी । अश्मादिभ्यो रः, अश्मरः सख्यादिभ्यो ढञ् , साखेयम् । सङ्काशादिभ्यो एयः, साङ्काश्यम्। बलादिभ्यो यः, बल्यम् । पहादिभ्यः फक्, पाक्षायणः । 'पथः पन्थ च' (ग सू ७६ ) पान्थायनः । कर्णादिभ्यः फिञ् , काणायनिः । सुतङ्गमादिभ्य इञ् , सौतङ्गभिः । प्रगद्यादिभ्यो न्यः, प्रागद्यः। वराहादिभ्यः कक् , वाराहकः। कुमुदादिभ्यष्ठक् , कौमुदिकः । १२६३ जनपदे लुप् । (४-२-८१) जनपदे वाच्ये चातुर्थिकस्य लुप्स्यात् । १२६४ लुपि युक्तवद्यक्तिवचने । (१-२-५१) लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । श्रूयमाणस्य श्रादिशब्दस्य अरीहणादिषु प्रत्येकमन्वयः । तथा च अरीहणादिभ्यो वुञ् , कृशाश्वादिभ्यः छण इत्येवं सप्तदश वाक्यानि संपन्नानि, तदाहसप्तदशभ्य इति । अरीहणादिसप्तदशगणेभ्यो वुञादयः प्रत्ययाः क्रमात्स्युरित्यर्थः । चतुरामिति । तदस्मिन्नस्तीति देशे तन्नाम्नि' 'तेन निवृत्तम्' 'तस्य निवासः' 'अदूरभवश्च' इति चतुर्वर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्ताद् यथायोगं प्रत्यया इति पलितम् । एतेषु गणेषु चेतनवाचका अचेतनवाचकाश्च सन्ति । तत्र यथायोगं चतुरा अन्वयः । प्रेक्षीति । प्रेक्षत इति प्रेक्षः, तेन निवृत्तमित्यर्थः । प्रेक्षयः निर्वृत्तमिति वा । पथः पन्थ च इति । पेक्षादिगणसूत्रमिदम् । पान्थायन इति । पथः अदूरभव इत्यथः । जनपदे लुप् । चातुरर्थिकस्येति। प्रकरणलभ्यमिदम् । लुपि युक्तवत् । प्रकृतिभूतः शब्दो युक्तः, व्यक्तिः लिङ्गम् , वचनं संख्येति पूर्वाचार्यसंकेतः । तदाह--लुपि सति प्रकृतिवल्लिङ्गवचने स्त इति । लुबिति प्रत्ययादर्शनमुच्यते । लुपः प्रवृत्तेः प्राक् प्रत्ययप्रकृतेर्यल्लिङ्गं वचनं ते एव लुपि सति भवतः, न तु प्रत्ययार्थविशेष्यमनुसृत्येत्यर्थः । पञ्चालानामिति । नैकशेषः । श्रादिशब्दः प्रत्येकं सम्बध्यत इत्याह-अरीहणादिभ्य इति । पक्षाद्यन्तर्गणसूत्रमाह-पथ इति । जनपदे लुप् । तन्नाम्नीत्येव, नेह-उदुम्बराः सन्त्यस्मिन्नौदुम्बरो जनपदः, न ह्यत्र लुबन्तं नामधेयम् जनपदस्यैकत्वादेकवचने प्राप्ते बहुवचनादिफलकमतिदेशमाह-लुपि युक्तवदिति । व्यक्तिवचने किम् , शिरीषाणामदूरभवो ग्रामः शिरीषाः, 'वरणादिभ्यश्च' इति लुप् । तस्य वनं शिरीषवनम् । इह वनस्पतित्वमतिदिश्यत । ततश्च 'विभाषौषधिवनस्पतिभ्यः' इति Page #381 -------------------------------------------------------------------------- ________________ ३७८ ] सिद्धान्तकौमुदी | [तद्धितेषु चातुरर्थिक कुरवः । श्रङ्गाः । वङ्गाः । कलिङ्गाः । १२६५ तदशिष्यं संज्ञाप्रमाणत्वात् । ( १-२-५३ ) युक्तवद्वचनं न कर्तव्यम्, संज्ञानां प्रमाणत्वात् । १२६६ लुब्योगाप्रख्यानात् । ( १-२ - ५४ ) लुबपि न कर्तव्यो ऽवयवार्थस्येहाप्रतीतेः । १२६७ योगप्रमाणे च तदभावेऽदर्शनं स्यात् । ( १-२-५५ ) पञ्चालसंज्ञकानां राज्ञामित्यर्थः । पञ्चाला इति । तस्य निवास इनि विहितस्याणः 'जनपदे लुप्' इति लुपि प्रकृतिवद् बहुवचनमिति भावः । कुरव इत्यादि । कुरूणाम् अङ्गानां वङ्गानां कलिङ्गानां च निवासो जनपद इति विग्रहः । लिङ्गातिदेशे तु कटुबदर्या अदूरभवो जनपदः कटुबदरीत्युदाहार्यम् । तदेतत्पूर्वाचार्यसूत्रं पाणिनिः प्रत्याचष्टे । तदशिष्यम् । यथा दारा इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्य भानम्, तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्गसंख्याविशिष्टस्यैव स्वार्थस्य लोकव्यवहारादेव भानं संभवति, न तु तदंशे शास्त्र व्यापारापेक्षेति भावः । संज्ञानामिति । लोकव्यवहाराणामित्यर्थः । एवं च लुबपि न विधेय इत्याह- लुब्योगाप्रख्यानात् । अशिष्यमित्यनुवृत्त पुंल्लिङ्गेन विपरिणतं लुबित्यनन्तरं संबध्यते । तदाह - लुबपि न कर्तव्य इति । योगः अवयवार्थः, तस्य अख्यानाद् अतीतेरित्यर्थः, तदाह — श्रवयवेति । नहि पञ्चालान्वङ्गादिसंबन्धित्वेन पञ्चाला अङ्गा वङ्गा इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः । प्रत्ययस्वी - त्वं स्यात् । नन्वत्र शिरीषाणामिति षष्ठीबहुवचनं कुतो नातिदिभ्यत इति चेत् । अत्राहुः — वचनमिह संख्या, न त्वेकवचनद्विवचनादि । न चैवमपि संख्याबोधकत्वेन श्रुतैव षष्ठी परिगृह्यतामिति वाच्यम्, षष्ठयर्थस्य तद्धितवृत्त्यन्तर्गतत्वादुक्तार्थे प्रथमाया एव युक्तत्वादिति । पञ्चाला इत्यादि । यद्यप्यन्त्राभिधेयलिङ्गवत्त्वेऽपी सिद्धिः, तथापि कटुबदर्या अदूरभवो ग्रामः कटुबदरीत्यादिसिद्धये प्रकृतिलिङ्गातिदेश इति भावः । पूर्वाचार्यानुरोधेन कृतं सूत्रं संप्रति प्रत्याचष्टे - तदशिष्यमिति । पञ्चालाः, अङ्गाः, वङ्गाः, कलिङ्गा इत्यादयो जनपदस्य यथायथं बहुवचनाद्यन्ता एव संज्ञा, न त्वत्र यत्नेन लिङ्गसंख्ये प्रतिपादनीये । आपो दारा इत्यादिषु यथा । न हि तत्र शात्रेण लिङ्गसंख्ये प्रतिपाद्येते इति भावः । उपजीवकं प्रत्याख्यायोपजीव्यं प्रत्याचष्टे - - लुब्योगेति । 'जनपदे लुप्' 'वरणादिभ्यश्च' इति द्विसूत्री लुप्शब्देन विवक्षित । 'अशिष्यम्' इति सम्बध्यत एव तदाह - लुबपीति । प्रकृतिप्रत्ययार्थयोः सम्बन्धो योग इत्याशयेन फलितमाह - अवयवार्थस्येति । अप्रख्यानादिति व्याचष्टे – अप्रतीतेरिति । पञ्चालादयः शब्दाः क्षत्रियेषु यथा रूढास्तथा जनपदेऽपीति 'तस्य निवासः' 'अदूरभवच' इति तद्धितो नैवोत्पद्यते, किमनेन लुपो विधानेनेस्यर्थः । Page #382 -------------------------------------------------------------------------- ________________ प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७६ यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत । १२६८ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् । (१-२-५६) 'प्रत्ययार्थः प्रधानम्' इत्येवं रूपं वचनमप्यशिष्यम् । कुतः ? अर्थस्य लोकत एव सिद्धेः। १२६६ कालोपसर्जने च तुल्यम् । (१-२-५७) अतीतायाः रात्रेः पश्चार्धेनागामिन्याः पूर्वार्धेन च सहितो दिवसोऽद्यतनः, विशेषणमुपसर्जनम् इत्यादि पूर्वाचार्यैः परिभाषितम् , तत्राप्यशिष्यत्वं समानम् , लोकप्रसिद्धः । १३०० विशेषणानां चाजातेः। (१-२-५२ ) लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने तो जाति वर्जयित्वा । पञ्चाला रमणीयाः । गोदौ रमणीयौ । अजातेः कारे बाधकमाह--योगप्रमाणे च । पच्चालागवङ्गादिशब्देषु योगस्य अवयवार्थस्य प्रमापकत्वे सति तदभावे पञ्चालाङ्गादिक्षत्रियसम्बन्धाभावे संप्रति शूदादिराजके जनपदे पञ्चालादिशब्दो न प्रयुज्येत, प्रयुज्यते च यतः, अतः पञ्चालादिशब्दा जनपदविशेषेषु केवलरूढा इति युक्तमित्यर्थः । तदाह-यदि हि योगस्येति । अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे । प्रधानप्रत्ययार्थ। प्रत्ययार्थ इति । प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं विशेष्यम् , प्रकृत्यर्थस्तु तद्विशेषणमित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः । कालोपसर्जने च । कालश्च उपसर्जनं चेति समाहारद्वन्द्वाद् विषयसप्तमी । अशिष्यमित्यनुवृत्तं भावप्रधानमाश्रीयते । कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनं तत्राप्यशिष्यत्वं समान. मित्यर्थः । तद्विशेषवचनं विशदयन् व्याचष्टे-अतीताया इत्यादिना । विशेषणानां चाजातेः । कम्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ट्या विपरिणतं संबध्यते, लुप्तप्रत्ययार्थस्येति लभ्यते । तदाह-लुबर्थस्येति । तद्वदिति। प्रकृतिवदित्यर्थः । “लुपि युक्तवयक्तिवचने' इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम् । पञ्चाला रमणीया इति । पञ्चालानां निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रमणीयशब्दस्य न दृश्यतेति । विनापि क्षत्रियसम्बन्धं पञ्चालादिशब्दो जनपदेषु प्रयुज्यत इति नार्थः सूत्रेणेत्यर्थः । प्रभङ्गात्पूर्वाचार्यपरिभाषितमन्यदपि प्रत्याचष्टे-प्रधानेत्यादिना । विशेषणानाम् । यद्यपि सूत्रपाठे 'लुपि युक्तवत्-' इति सूत्रादनन्तरमेतत्सूत्रं पठित्वा 'तदशिष्यम्-' इत्यारब्धत्वात्तत्रैवेदं व्याख्यातुमुचितम् । तथापि जातेः प्रतिषेधमात्रपरमिदम् , न तु युक्तवद्भावपरमित्याशयेन तत्र नोक्तमित्याहुः । पश्चाला रमणीया इति । कथं तर्हि 'पञ्चाला जनपदः सुभिक्षः सम्पन्नपानीयः' इति प्रयोग इति चेत् , जनपदविशेषणत्वादित्यवेहि । पञ्चालविशेषणत्वाभ्युपगमे तु तद्वल्लिङ्गवचने Page #383 -------------------------------------------------------------------------- ________________ ३८० ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिककिम्-पञ्चाना जनपदः । गोदौ ग्रामः । 'हरीतक्यादिषु व्यक्निः' (वा ७१५)। हरीतक्याः फलानि हरीतक्यः । 'खलतिकादिषु वचनम्' (वा ७१६) । खल. तिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि । 'मनुष्यलुपि प्रतिषेधः' (वा ७१७) मनुष्यलक्षणे लक्थै विशेषणानां न । लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः । १३०१ वरणादिभ्यश्च । (४-२-२) अजनपदार्थ प्रारम्भः । वरणानामदूरभवं नगरं वरणाः । १३०२ शर्कराया वा । (४-२-८३) प्रकृतिवद्बहुवचनम् । गोदौ रमणीयाविति । गोदयोर्निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवद् द्विवचनम् । पश्चाला जनपद इति । जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुव वनम् । गोदी ग्राम इति । अत्र प्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवद् द्विव वनम् । हरी. तक्यादिषु व्यक्तिरिति । वार्तिकमिदम् । लुपि लिङ्गं प्रकृतिवद्भवति, न तु वचनमिति शेषः । हरीतक्याः फलानि हरीतक्य इति । 'हरितक्यादिभ्यश्च' इति विकारप्रत्ययस्य लुप् । अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचन मिति भावः । खलतिकादिषु वचनम् । वार्तिकमिदम् । एषु लुपि प्रकृतिवद्वचनमेव भवति, नतु लिङ्गमित्यर्थः । खलतिक वनानीति । 'वरणादिभ्यश्च' इति लुप् । अत्र खलतिकशब्दस्य लुप्तप्रत्यायान्तस्य प्रकृतिवत्पुल्लिङ्गत्वं न भवति, किन्तु एकवचनमेवेति भावः । मनुष्यलुपि प्रतिषेध इति । वार्तिक. मिदम् । मनुष्यलक्षण इति । मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गवचनप्रतिषेध इत्यर्थः । चचा अभिरूप इति । चच्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यः चञ्चा । "इवे प्रतिकृतौ' इत्यधिकारे 'संज्ञायाम्' इति कनः 'लुम्मनुष्ये' इति लुप्। अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्टेः वाच्ये प्रकृतिलिङ्गत्वम्, नतु तद्विशेषणस्य अभिरूपशब्दस्येति भावः । इति युक्तवद्भावप्रकरणम् । अथ प्रकृतमारभते । वरणादिभ्यश्च । 'जनपदे लुप्' इत्युत्तरमिदं सूत्रम् । वरणादिभ्यः परस्य चातुरर्थिकप्रत्ययस्य लुप् स्यादित्यर्थः । पूर्वेणैव सिद्ध किमर्थमिदमित्यत आह-अजनपदार्थ प्रारम्भ इति। वरणानामिति । वरणा नाम नदी स्त एव । पञ्चाला जनपदाः सुभिक्षाः सम्पन्नपानीया इति । हरीतक्य इति । 'हरीतक्यादिभ्यश्च' इत्यणो लुप् । तत्र हि 'लुप् च' इत्यतो लुबनुवर्तते । खलतिकमिति । 'वरणादिभ्यश्च' इति लुप् । चञ्चेति । 'संज्ञायाम्' इति कनो 'लुम्मनुष्ये' इति लुप् । चचा तृणमयः पुमान् । वरणादि । चकारोऽनुक्तसमुच्चयार्थः, तेनास्याकृतिगणत्वं सिद्धम् । वरणा इति । एवं कटुबदरी, शिरीषाः, गोदी Page #384 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८१ अस्माचातुरर्थिकस्य वा लुप्स्यात् । १३०३ ठक्छौ च । (४-२-८४) शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पने ठकको । वाग्रहणसामर्थ्यापक्ष औसर्गिकोऽण् । तस्य लुम्विकल्पः । षड् रूपाणि । शर्करा, शार्करम् , शार्करिकम् , शर्करीयम्, शर्करिकम्, शार्करकम् । १३०४ नद्यां मतुप् । (४-२-८५) चातुरर्थिकः । इतुमती। १३०५ मध्वादिभ्यश्च । (४-२-८६) मतुप्स्याचातुरर्थिकः । मधुमान् । अनद्यर्थ प्रारम्भः । १३०६ कुमुदनडवेतसेभ्यो मतुप् । (४-२-८७) कुमुद्वान् । नड्वान् । वेतवान् । प्राययोः ‘झयः' (सू १८१८) इति, अन्त्ये 'मादुपधाया:-' काश्या उत्तरतः प्रसिद्धा । अवयवाभिप्रायं पूजार्थ वा बहुवचनम् । वरणानामदूरभवं नगरं वरणाः । अत्र लुप्तप्रत्ययान्तस्य वरणाशब्दस्य नगरे वाच्ये प्रकृतिवत्स्त्रीलिङ्गं बहुवचनं च। शर्कराया वा । लुबित्यनुवर्तते । प्रत्यासत्त्या चातुरर्थिकस्येति लभ्यते । तदाह-अस्मादिति ठक्छौ च । 'शकराया' इत्यनुवर्तते । तदाहशर्कराया एतौ स्त इति । उच्ककाविति । कुमुदादित्वात् ठच् वराहादित्वात् कक् इति विवेकः । वाग्रहणेति । अन्यथा तत्र पाठसामर्थ्यादेव ठचः ककश्च लोपविकल्पसिद्धेस्तद्वैयर्थ्यादिति भावः । शर्करेति । अणो लुपि युक्तवद्भावे रूपम् । शार्करमिति । अणि रूपम् । शार्करिकमिति । उकि रूपम् । शर्करीयमिति । छ रूपम् । शर्करिकमिति । ठचि रूपम् । शार्करकमिति । ककि रूपम् । शकराः सन्त्यस्मिन् इत्यर्थः, शर्कराभिः निर्वृत्तमिति वा। नद्यांमतुप् । चातुरर्थिक इति । शेषपूरणम् । इक्षुमतीति । मतुपि उपावितौ । इक्षवः सन्त्यस्मिन् इत्यर्थः । मध्वादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे । मतुप् स्याचातुरर्थिक इति । मधुमानिति । मधूनां निवास इत्यर्थः। पूर्वेण सिद्धे किमर्थमिदमित्यत आह–अनद्यर्थ इति । कुमुदनड । कुमुद नड वेतस एतेभ्यो ड्मतुप् स्यादित्यर्थः ।डकार उपौ च इतः । अयं मत्वर्थ एवेति 'न पदान्त-' इति सूत्रभाष्यकैयटयोः स्थितम् । कुमुद्वानिति । कुमुदा अस्मिन् सन्तीति विग्रहः । ड्मतुपि डित्त्वात् टिलोपः । नवानिति। नडा अस्मिन् सन्तीति विग्रहः। कुमुद्वान्कुमुद. प्राये इत्यमरः । वेतस्वानिति । वेतसा अस्मिन् सन्तीति विग्रहः । श्राद्ययो. रिति । कुमुद्रच्छन्दे नड्वच्छब्दे च 'झयः' इति मतुपो मस्य वकारः । वैतस्वखलतिकमित्यादीन्युदाहर्तव्यानि । कुमुद वत्त्वस्यासिद्धत्वात्तस्मिन्कर्तव्ये टिलोपो न स्थानि १ 'शर्कराणां निवास इत्यर्थः' इति क-ख । २ 'इथूणां निवास इत्यर्थः' इति क-ख। Page #385 -------------------------------------------------------------------------- ________________ ३८२ ] सिद्धान्तकौमुदी | [तद्धितेषु चातुरर्थिक ( १८६७ ) इति वच्यमाणेन वः । 'महिषाच्चेति वक्रव्यम्' ( वा २७६१ ) महिष्मान्नाम देश: । १३०७ नडशादाड्ड्वलच् । (४-२-८८ ) च्छब्दे तु ‘मादुपधायाः--' इति मस्य वकार इत्यर्थः । वस्तुतस्तु नड्वच्छब्देऽपि 'झयः ' इत्यस्यासिद्धत्वात् 'मादुपधायाः -' इत्येव न्याय्यम्, 'प्रकरणे प्रकरणमसिद्धम्, नतु एकस्मिन्नेव प्रकरणे पूर्वयोगं प्रति परस्यासिद्धत्वम्' इत्यस्य ' उपसर्गादसमासे-' इति सूत्रभाष्ये दूषितत्वात् । वेतस्वानित्यत्र रुत्वं तु न, अल्लोपस्य स्थानिवत्वात् । 'न पदान्त-' इति निषेधस्तु न, पदे अन्त इति विगृह्य पदे परतश्चरमावयवे कर्तव्ये परपदस्थाजादेशस्यैव तन्निषेधप्रवृत्तेर्भाष्याभ्युपगतत्वात् । 'पूर्वत्रासिद्धे न स्थानिवत्' इति निषेधोऽपि न, पदे अन्त इति विगृह्य तत्र स्थानिवत्त्वनिषेधव्यावृत्तिसाधनपरभाष्य प्रामाण्येन पदचरमावयवकार्यविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणादिति शब्देन्दुशेखरे विस्तरः । महिषाञ्चित्यनन्तरं तु ड्मतुबिति शेषः । महिष्मानिति । महिषा अस्मिन् सन्तीति विग्रहः । डित्त्वाट्टिलोपः । अल्लोपस्य स्थानिवत्त्वान्न जश्त्वम् । वदित्याशयेनाह - भय इति । नड्वानित्यत्रापि परत्वाद् 'मयः' इत्यनेनैव वकारो न तु 'मादुपधायाः -' इत्यनेनेति भावः । न चासिद्धत्वात् 'मादुपधायाः -' इत्येव तत्र न्याय्यमिति वाच्यम्, 'प्रकरणे प्रकरणमसिद्धम्, न तु योगे योगः' इति ' उपसर्गादसमासेऽपि -' इत्यत्र भाष्ये निर्णीतत्वात् । ननु वेतस्वानित्यत्र वेतसशब्दस्य सुबन्तत्वेन पदत्वाद् ड्मतुपो डित्त्वसामर्थ्याट्टिलोपे एकदेशविकृतन्यायेन पदत्वात्सस्य रुत्वं स्यात् । न च स्थानिवत्त्वेन निर्वाहः, पूर्वत्रासिद्धे तन्निषेधादिति चेत्, मैवम्, अन्तररुत्वं प्रति बहिरङ्गस्य टिलोपस्यासिद्धत्वात् । न च षाष्टी बहिरङ्गपरिभाषा त्रैपादिकं न जानातीति वाच्यम्, कार्यकालपक्षाभ्युपगमात् । नन्वेवमपि 'स्वादिषु-' इति सान्तस्य पदत्वे तदाश्रयरुत्वस्यान्तरङ्गत्वाभावाद्वहिरङ्गपरिभाषा न प्रवर्तत इति रुत्वं दुर्वारमेव । न च ' नद्यां मतुप्' इति चतुरर्थ्यां मतुपो विधानाच्चातुरर्थिको ड्मतुप् मत्वर्थीय इति 'तसौ मत्वर्थे' इत्यनेन भत्वं शङ्कयम्, टिलोपस्य स्थानिवत्त्वात् । न च पदत्वेऽप्येवम्, तस्य स्त्वविधिना सह कार्यकालतया 'पूर्वत्रासिद्धे न -' इति निषेधात् इति चेत् — अत्राहुः -- पदसंज्ञायां यथोद्देशपक्षाश्रयणात् 'पूर्वत्रासिद्धे न-' इति निषेधाप्रवर्तनात्स्थानित्त्वप्रवृत्त्या सान्तस्यापदत्वादिति । एतेन घटी आमलकीत्यत्र 'स्वादिषु -' इति पदत्वाज्जश्त्वं स्यात्, औत्सीत्यत्र तु संयोगान्तलोपः स्यादिति शङ्कापि परास्तेति दिक् । ननु प्रक्रियालाघवाय वतुबेव विधीयताम्, अथवा 'कुमुदनडवेतसेभ्यो डित्' इति प्रकृतस्य मतुपो डित्त्वमतिदिश्यताम्, किमनेन ड्मतुब्विधानेन । सत्यम्, अन्यतो विधानार्थं तत् । तत्सिद्धार्थकथनपरं वार्तिकमाह - महिषाच्चेति । Page #386 -------------------------------------------------------------------------- ________________ प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८३ नड्वलः । 'शादो जम्बालघासयोः' इत्यमरः । शाहलः। १३०८ शिखाया वलच । (४-२-८६) शिखावलम् । १३०६ उत्करादिभ्यश्छः । (४-२-६०) उत्करीयः । १३१० नडादीनां कुक्च । (४-२-६१) नडकीयम् । 'ऋञ्चा हस्वत्वं च' (ग सू ८०)। क्रुञ्चकीयः। 'तक्षबलोपश्च' ( ग सू ८१ ) तक्षकीयः । १३११ बिल्वकादिभ्यश्छस्य लुक् । (६-४-१५३) नडावन्तर्गता बिल्वकादयः, तेभ्यश्छस्य लुक्नद्धिते परे । बिल्वा यस्यां सन्ति सा बिस्वकीया । तस्यां भवा बेल्पकाः। वेत्रकीयाः, वैत्रकाः । 'छस्य' किम्-छमात्रस्य लुग्यथा सास्कुको निवृत्तिर्मा भूत् । अन्यथा 'प्रत्यये भाषायां नित्यम्' इति तु न, तस्य सवर्णे परतो विधेः । न हि षकारसवर्णोऽनु. नासिकोऽस्ति । नडशादावलच् । नड्वल इति । डिवाहिलोपः । शाद्वलइति । शादा अस्मिन् सन्तीति विग्रहः । शादो दन्त्योपधः । डोपध इत्यन्ये । 'नडप्राये नड्वान्नड्वल इत्यपि' इत्यमरः । 'शाद्वलः शादहरिते ' इति च । शिखाया वलच् । निर्वृत्ताद्यर्थ सूत्रं देशे तनाम्नि अणो बाधनार्थ च । 'दन्तशिखात्संज्ञायाम्' इति पञ्चमे वक्ष्यमाणं तु अदेशेऽपि शिखावल इति रूपार्थम् । उत्करादिभ्यश्छः। चातुरर्थिक इति शेषः । उत्करीय इति । देशविशेषोऽ. यम् । उत्करेण निवृत्तमिति वा, तस्य निवासः, तस्य अदूरभव इति वा । नडादीनां कुक्च । नडादिभ्यः छः स्यात् चातुरर्थिकः प्रकृतेः कुक् च । क्रुश्चाहस्वत्वं चेति । नडादिगणसूत्रम् । क्रुञ्चाशब्दाच्छः, प्रकृतेः कुक्, आकारस्य ह्रस्वश्च । कुञ्चकीय इति । क्रुञ्चा अस्मिन् सन्तीत्यादिविग्रहः । तक्षन्नलोपश्च । इदमपि गणसूत्रम् । तक्षशब्दात् छः, कुक्, नकारस्य लोपश्च । बिल्वकादिभ्यश्छस्य लुक् । षाष्ठमिदं सूत्रम् । विल्वकादीति नडाद्यन्तर्गतबिल्वादीनां कृतकुगागमानां निर्देशः । ककारादकार उच्चारणार्थः । तद्धित इति । 'आपत्यस्य च तद्धिते-' इत्यतस्तदनुवृत्तेरिति भावः । बिल्वकीयेति । 'नडादीनां कुक च' इति छः । प्रकृतेः कुक् च । तस्यां भवा बैल्वका इति । बिल्वकीयाशब्दाद्भवार्थे अण, तस्मिन्परे छस्य लुगिति भावः । वेत्रकीया इति । वेत्राणि अस्यां सन्तीत्यर्थे नडादित्वाच्छः, प्रकृतेः कुक् च इति भावः। वैत्रका शिखाया । निर्वृत्ताद्यर्थे देशे तन्नाम्न्यणो बाधनार्थ चेदम् । 'दन्तशिखात्संज्ञायाम्' इति पञ्चमे वक्ष्यमाणं त्वदेशेऽपि शिखावल इति रूपसिद्ध्यर्थम् । नडादीनाम् । नड प्लक्ष बिल्व वेणु वेत्र वेतसादयो नडादयः । नडाद्यन्तर्गणसूत्रमाह क्रुश्चेति । एवं तक्षन्नित्यपि । उभयत्रापि षष्ठ्याः सौत्रो लुक् । बिल्वका 'ढे लोप-' इत्यतो लोप . Page #387 -------------------------------------------------------------------------- ________________ ३८४ ] सिद्धान्तकौमुदी | 'सन्नियोगशिष्टानाम् -' ( प ८७) इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् । इति तद्धितेषु चातुरर्थिकप्रकरणम् । [तद्धितेषु शैषिक · अथ तद्धितेषु शैषिकप्रकरणम् । २८ । १३१२ शेषे । (४-२-६२ ) अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषः, तन्त्राणादयः स्युः । चतुषा गृह्यते चाचुषं रूपम् । श्रावणः शब्दः । श्रोपनिषदः पुरुषः । दृषदि पिष्टा दार्षदाः सक्तवः । उलूखले सुरण औलूखलो यावकः । अश्वैरुह्यते श्राश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं इति । वेत्रकीयायां भवा इत्यर्थः । वेत्रकीयाशब्दाद् अणि छस्य लुगिति भावः । छुस्य किमिति । एभ्यः परस्य छस्यैव संभव इति प्रश्नः । संनियोगेति । 'संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः' इति न्यायेनेत्यर्थः । ननु 'ढे लोपोऽकद्रवाः' इत्यतो लोप इत्यनुवृत्त्यैव सिद्धे लुग्ग्रहणं किमर्थमित्यत आहलुग्ग्रहं सर्वलोपार्थमिति । प्रत्ययादर्शनस्यैव लुक्शब्दार्थस्वास् ईंयस्य लोपो लभ्यत इति भावः । लोपविधौ तु नैवं लभ्यत इत्याह-- लोपो हीति । लोपविधौ, 'सूर्यतिष्य-' इत्यतः 'य उपधायाः' इत्यनुवृत्तौ बिल्वकादिभ्यः परस्य छादेशभूतस्य ईयस्य उपधाभूतो यकारः, तस्य लोप इत्यर्थलाभाद्य कारमात्रस्य लोपः स्यात् । 'य उपधायाः' इत्यननुवृत्तौ तु 'प्रादेः परस्य' इति ईकारस्यैव लोपः स्यादिति भावः । इति तद्धितेषु चातुरर्थिकप्रकरणम् । अथ शैषिकप्रकरणं निरूप्यते । शेषे । अणादय इति । 'प्राग्दीव्यतोऽण्' इत्यादिसाधारणाः प्रत्यया इत्यर्थः । चतुर्भिरिति । अश्वादिभिरिति शेषः । चतुर्दश्यामिति । कृष्णचतुर्दश्यां रात्रौ रक्षांसि दृश्यन्ते इत्यागमः । इत्यनुवर्तमान लुग्ग्रहणं व्यर्थमित्याशङ्कयाह – सर्वलोपार्थमिति । यमात्रस्येति । न च 'आदेः परस्य' इतीकारस्य भाव्यमिति वाच्यम् । 'सूर्यतिष्य -' इत्यतो यकारसम्बद्धस्यैव लोपस्यानुवर्तनादिति भावः ॥ इति चातुरर्थिकप्रकरणम् ॥ Page #388 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८५ रक्षः । शेषे' इति लक्षणं चाधिकारश्च । 'तस्य विकारः' इत्यतः प्राक्छेषाधिकारः। १३१३ राष्ट्रावारपाराद्धखौ । (४-२-६३) प्राभ्यां क्रमाद्धखौ स्तः शेषे । लक्षणमिति । प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तरसूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः । अधिकारत्वे तु उत्तरसूत्रेष्वेवानुवृत्तिलाभादिदं न सिध्यदिति भावः । अधिकारश्चेति । उत्तरसूत्रेष्वनुवृत्त्यर्थश्चेत्यर्थः, स्वरितत्वादिति भावः । अधि. कारस्योत्तरावधिमाह-तस्य विकार इत्यतः प्रागिति । नच उत्तरसूत्रेषु निर्दिष्टानामर्थविशेषाणाम् अपत्यादिचतुरर्थ्यन्तादन्यत्वस्य सिद्धत्वात् शेषाधिकारो व्यर्थ इति वाच्यम् , 'तस्येदम्' इत्यादावपत्यादिचतुरर्थ्यन्तार्थानां ग्रहणाभावाय तदावश्यकत्वात् । न च प्रदर्शितेषु ग्रहणाद्यर्थेषु 'तस्येदम्' इत्येव अणादिसिद्धेः शेष इत्यस्य विधित्वं नाश्रयणीयमिति वाच्यम् , 'शैषिकान्मतुब यात्-' इत्यादी प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात् । इदंत्वेन भासमानमपत्याद्यपि न शेषः, 'इदंविशेषा ह्येते अपत्यं समूहो विकारो निवासः' इति भाष्यात् । प्रपञ्चितं चैतत् 'तस्यापत्यम्' इत्यत्र 'तस्येदमित्यपत्येऽपि' इत्यादिश्लोकवार्तिकव्याख्यावसरे। राष्ट्रावारपाराद्धखौ । आभ्यामिति । राष्ट्रशब्दादवारपारशब्दाचे. शेषे । लक्षणं चेति । ग्रहणक्षुण्णादिष्वर्थेषूत्तरसूत्रानुपात्तेष्वेषु अणो विधायकमित्यर्थः । ननु लक्षणं तावद्यर्थम् , 'तस्येदम्' इत्यनेन चाक्षुषादीनाम् , 'संस्कृतं भक्षाः' इत्यनेन दार्षदादीनां सिद्धेः । तथा अधिकारोऽपि व्यर्थः । तथाहि अधिकारस्यापत्यादिचतुरर्थीपर्यन्तेष्वर्थेषु घादीनां टयट्यलन्तानां निवृत्तिः, जाताद्यर्थसाकल्यं वा प्रयोजनम् । तत्र निवृत्तिस्तावन्न प्रयोजनम् । आर्द्रकशालादीनामुत्करादिपाठेन 'इतः प्राचीनेष्वर्थेषु घादयो न प्रवर्तन्ते' इति ज्ञापनात् । अन्यथा 'वृद्धाच्छः' इत्येव सिद्ध तत्पाठस्य वैयर्थ्यप्रसङ्गात् । नाप्यसाकल्यं प्रयोजनम् , जाताधिकाराप्राक्पाठसामर्थ्यादेव तल्लाभात् । यदि संनिहिते जातार्थ एव घादयः स्युः, तदुत्तरेषु भवाद्यर्थेषु 'प्राग्दीव्यतः' इति विशिष्टावधिपरिच्छिन्नेष्वर्थेषु विधीयमानाऽणादय एव स्युस्तदा जाताधिकारानन्तरमेव 'प्रावृषष्ठप्' इत्यादिभिः सह 'राष्ट्रावारपारात्-' इत्यादयोऽपि पठ्येरन् । तस्माद्यर्थमिदं सूत्रमिति चेत् । अत्रोच्यते-'शैषिकात्सरूपः शैषिको न' इति वक्ष्यमाणार्थस्य विषयलाभाय शेषाधिकार आवश्यकः । शषिकत्वप्रयुक्तकार्यविशेष ज्ञापयितुं क्रियमाणः शेषाधिकार एव 'शैषिकान्मतुब यात्' इत्यादिश्लोकं ज्ञापयति । एष च श्लोकः सन्विधौ मतुविधौ च भाष्ये पठितः । इह तु सन्नन्ते पठित इति तत्रैव व्याख्यास्यते । अपत्यादिष्वर्थेषु घादीनां निवृत्त्यर्थमप्यधिकार आवश्यकः । न चोक्कज्ञापकेनैव तत्सिद्धिरिति वाच्यम् , ज्ञापकस्य विशेषापेक्षत्वे Page #389 -------------------------------------------------------------------------- ________________ ३८६ ] सिद्धान्तकौमुदी। [तद्धितेषु शैषिकराष्ट्रियः । अवारपारीणः 'अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्' (वा २७७१-२७७२) । अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद्धादयष्ठ्यव्यलन्ताः प्रत्यया उच्यन्ते, तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते । १३१४ ग्रामाद्यखौ । (४-२-६४) ग्राम्यः, प्रामीणः । १३१५ कल्यादिभ्यो ढकञ् । (४-२-६५ ) कुत्सितास्त्रयः कस्त्रयः । तत्र जातादिः कास्त्रेयकः । नागरेयकः । 'ग्रामात्' इत्यनुवृत्तेामेयकः । त्यर्थः । राष्ट्रिय इति । राष्ट्रे जातो भव इत्यादिरों यथायोगं बोध्यः । घस्य इयः । अवारपारीण इति । खस्य ईनादेशः, णत्वम् । अवारपाराद्विगृही. तादपीति । अवारशब्दात्पारशब्दाच्च पृथग्भूतादपि खो वक्तव्य इत्यर्थः । विपरीताच्चेति । पारावारशब्दादपीत्यर्थः । ननु राष्ट्रावारपारेत्यारभ्य 'विभाषा पूर्वाह्णापराह्णाभ्याम्' इत्यन्तैः सूत्रै राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेऽर्थे प्रत्यया विहिताः । तस्यापत्यमित्यादिवदर्थविशेषास्तु न निर्दिश्यन्ते । यत्किश्चिद्विभक्त्यन्तेभ्यो राष्ट्रादिप्रकृतिविशेषेभ्यो घादयष्ट्यट्यलन्ताः प्रत्ययाः स्युः, 'समर्थानां प्रथमाद्वा' इत्यस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः। किंच 'तत्र जातः' इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः। तत्र प्रथमोचारितसप्तम्यन्तादित्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः। तत्राह-इह प्रकृतीत्यादिना । राष्ट्रावारेत्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनां अर्थविशेषविभक्तिविशेषाका ङायां 'तत्र जातः' इत्यादिसूत्राणां च केवलमर्थविशेषनिर्देशपराणां 'समर्थानाम्-' इति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाका डायां परस्परमेकवाक्यत्वे सति तत्र जात इत्याद्यर्थेषु प्रथमोचारिततत्तद्विभक्त्यन्तेभ्यो राष्ट्रदिशब्देभ्यो घादयष्ट्यव्यलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः । राष्ट्रद्यन्याभ्यस्तु प्रकृतिभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव । ग्रामाद्यखी । ग्राम्य इति । यप्रत्यये 'यस्येति च' इति लोपः। ग्रामीण इति । खञ ईनादेशः, णत्वम् । कल्यादिभ्यो ढकञ् । कत्त्रय इति । 'कुगतिप्रादयः' इति कुशब्दस्य समासः । 'त्रौ च' इति दोषतादवस्थ्यात् । 'आर्द्रकादिभ्यो यदि छः स्यात्तर्हि चतुरामव' इति नियमस्यापि सम्भवाच्च । एवं स्थिते चाक्षुषमित्यादिषु गृह्यमाणत्वादिप्रकारकबोधनाय विधायऋत्वमपि तस्य सुवचमिति दिक् । विगृहीतादपीत्यादि । वचनमेवेदम् , सूत्रे यथासंख्यप्रवृत्त्यर्थं विशिष्टोच्चारणात् । कुत्सितात्रय इति । इह बहुव्रीहिरपि सुवचः । इहैव निपातनात्कोः कद्भावः । 'कद्भावे त्रावुपसंख्यानम्' इति तु प्रत्या Page #390 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३८७ १३१६ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । (४-२-६६) कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः।कौक्षोऽन्यः । प्रैवेयकोऽलङ्कारः । प्रैवोऽन्यः । १३१७ नद्यादिभ्यो ढक । (४-२-६७) नादेयम् । माहेयम् । वाराणसेयम् । १३१८ दक्षिणापश्चात्पुरसस्त्यक् । (४-२-६८) 'दक्षिणा' इत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । १३१६ कापिश्याफक् । (४-२-६९) कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा । १३२० रङ्कोरमनुष्येऽएच । (४-२-१००) चारष्फक् । राङ्कवो कोः कदादेशः । कात्त्रेयक इति । ढकञ् , ढकारस्य एयादेशः 'लोपो व्योः-' इति यलोपः । अनुवृत्तेरिति । स्वरितत्वादिति भावः। तथा च ग्रामशब्दाद् ढकअपि लभ्यत इत्यर्थः । कुलकुक्षि । कुलाच्छनि, कुक्षेः असौ, ग्रीवाया अलंकारे ढकमित्यर्थः । कौलेयकः श्वेति । कुले जातादिरिति विग्रहः। कौक्षयकोs. सिरिति । कुक्षौ कोशे भवः खड्ग इत्यर्थः । अवेयक इति । ग्रीवासु भव इति विग्रहः । नद्यादिभ्यो ढक् । माहेयमिति । मही भूमिः, तस्यां जातादीत्यर्थः । वाराणसेयमिति । वाराणस्यां जातादीत्यर्थः । दक्षिणापश्चात् । अाजन्तमव्ययमिति । अव्ययसाहचर्यादाजन्तं गृह्यत इति भावः । दक्षिया, पश्चात् , पुरस् एभ्योऽव्ययेभ्यो जाताद्यर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः । कापिश्याष्ष्फक् । कापिश्याः ष्फक इति छेदः। कापिशीशब्दात् फक् स्यादित्यर्थः । कापिशी नाम देशविशेषः । कापिशायनी द्राक्षेति । षित्त्वाद् ङीष् । रङ्कोरमनुष्येऽण च । ख्येयम् । 'कुल्याया यलोपश्च' इति गणसूत्रम् । कुल्यायां जातः कौलेयकः । कत्त्रि, उम्भि, कुण्डिन, माहिष्मतीत्यादि । दक्षिणापश्चात् । अव्ययमिति । साहचर्यादिति भावः । एवं च दाक्षिणात्य इत्यत्र 'सर्वनानो वृत्तिमात्रे-' इति पुंवद्भावाशङ्कव नास्तीति बोध्यम् । पाश्चात्त्य इति । कथं तर्हि 'पश्चात्तनैः कश्चन नुद्यमानः' इति न च दिग्देशवाचिनि पश्चाच्छब्दे सावकाशं त्यकं कालवाचकात् ट्यव्यलौ बाधेते परत्वादिति वाच्यम् , 'अप्रादिपश्चात्-' इति डिमचा टयव्यलोबर्बाधस्य दुर्वारत्वात् । सत्यम् , पश्चात्तन्वन्ति पश्चात्तना इति कथंचित्समाधेयम् । कापिश्याः ष्फक् । कापिशीशब्दात्रफक् स्यात् । षित्त्वान्ङीष् ; तदाह-कापिशायनीति । रङ्कोरमनुष्ये । रङ्कवो जनपदः, ततः 'प्राग्दीव्यतोऽण्' इत्यण् प्राप्तः । तद्बाधकत्वेन 'अद्धादपि-' इति वुञ् प्राप्तः. तमपि बाधित्वा 'आर्देशे' इति ढञ् प्राप्तः, तस्य तु 'कोपधादण' बाधकः, ततोऽपि परत्वात्कृच्छ्राद्यणि प्राप्तेऽनेन फगणी विधीयते । कोपधत्वादेवाणि सिद्धे कच्छादिषु रङ्कशब्दस्य पाठो मनुष्यतत्स्थयोधुन् Page #391 -------------------------------------------------------------------------- ________________ ३८८] सिद्धान्तकौमुदी। तद्धितेषु शैषिकगौः। राकवायणः । 'अमनुष्ये' इति किम्-राङ्कको मनुष्यः । १३२१ धुप्रागपागुदक्प्रतीचो यत् । (४-२-१०१ ) दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् । १३२२ कन्थायाष्ठक् । (४-२-१०२) कान्थिकः । १३२३ वर्णों वुक् । (४-२-१०३) वणुपमीपदेशो वणुः । रकोरण स्यात् चात् फक् । राङ्कवो गौरिति । रकर्नाम देशविशेषः, तत्र जातादिरित्यर्थः । राङ्कवको मनुष्य इति । अत्र मनुष्यत्वाच फगणौ । किन्तु 'मनुष्यतत्स्थयोः-' इति वक्ष्यमाणो वुञ् । अकादशः । राङ्कवो मनुष्य इति त्वपपाठः। धुप्रागपाक् । दिव् , प्राञ्च् , अपाञ्च् , उदञ्च् , प्रत्यञ्च् एभ्यो यत्स्यादित्यर्थः । सूत्रे 'दिव उत्' इत्युत्त्वेन निर्देशः । दिव्यमिति । दिवि जात दीत्यर्थः । प्राच्य. मिति । प्राचि प्रदेशे जातादीत्यर्थः । तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थिते 'अनिदिताम्-' इति नलोपे 'अचः' इत्यकारलोपे 'चौ' इति दीर्घ प्राच्यमिति रूपम् । अपाच्यमिति । इदमपि पूर्ववत् । उदीच्यमिति । अत्र 'उद ईत्' इति ईत्त्वं विशेषः । प्रतीच्यमिति । प्राच्यवद्रूपम् । कन्थायाष्टक् । तिर्यक्स्यूतबहुवस्त्रखण्डसमूहः कन्था । देशविशेष इत्यन्ये । वौँ वुक । वर्गुसमीपेति । वर्गुर्नाम सिन्धुनदः, तस्यादूरभव इत्यर्थे सुवास्त्वादित्वादणो “जनपदे लुप्' इति विधानार्थ इति कैयटः । अतएवाह-रावको मनुष्य इति । क्वचित्तु राव इति पठ्यते, स तु लेखकप्रमादः । स्यादेतत्-अमनुष्यग्रहणमिह व्यर्थम् । अपवादेन वुना तत्र फगणोर्बाधेनामनुष्य एव पर्यवसानात् । अण्ग्रहणम पे व्यर्थमेव, कच्छादित्वादेव तत्सिद्धेः । अत्राह काशिकाकृत्-नायं प्रसज्यप्रतिषेधः किं तु पर्युदासः, तेन मनुष्यभिन्ने प्राणिन्येव फग्विधीयत इति, राङ्कवः कम्बत इत्यत्र न फक् । विशेषविहितेन फका अणो बाधा मा भूदित्यण्ग्रहणं च कियत इति । भाष्ये तु अप्राणिन्यपि ष्फकमङ्गीकृत्येदं द्वयपि प्रत्याख्यातम् । थुप्रागपा। दिव्यमिति । सूत्रं 'दिव उत्' इत्युत्वेन निर्देश इति भावः । अपाची दक्षिणा दिक् । द्वितीयो वर्णः पकारो, न तु दन्त्योष्ठयः, 'यदिन्द्र प्रागपागुदक्' इत्यादौ तथा दर्शनादिति स्थितं मनोरमायाम् । केचित्तु 'प्राच्यवाचीप्रतीच्यस्ताः' इत्यमरकोशे अवाचीति दन्त्योष्ठयपाठं क्वाचित्कं पुरस्कृत्य सूत्रेऽपि 'अवाक्' इति पठित्वा अवाच्यमित्युदाहरन्ति । 'प्रागपाक्' इति वेदे तु व्यत्ययेन वकारस्य पकार इति तेषामाशयः। प्रागादयोऽस्तात्यन्ता अव्ययाः, तद्भिन्नास्त्वनव्ययाः, उभयेषामपीह ग्रहणमविशेषात् । कथं तर्हि 'संस्काराः प्राक्तना इव' इति । अत्राहुः-कालवाचिनः प्राक्शब्दायतं बाधित्व' परत्वात् ट्यट्यलो बोध्याविति । वौँ वुक् । वर्गुरिति । 'अदरभवश्च' इत्यर्थे सुवास्त्वादित्वादणि Page #392 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८६ तद्विषयार्थवाचिकन्थाशब्दाद् वुक्स्यात् । 'यथा हि जातं हिमवत्सु कान्थकम् । १३२४ अव्ययात्त्यप् । (४-२-१०४) 'अमेहक्कतसित्रेभ्य एव' (वा २७७६) 'श्रमान्तिकसहार्थयोः' । अमात्यः । इहत्यः । कत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम्-उपरिष्टाद्भवः औपरिष्टः । 'अव्ययानां भमात्रे टिलोप.' (वा ४१८७) । अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न-श्रारातीयः । शाश्वतीयः । 'त्यन्नेधुंव इति वक्तव्यम्' (वा २७८०)। नित्यः। 'निसो गते' (वा २७८१)। १३२५ ह्रखात्तादौ तद्धिते । (८-३-१०१) हस्वादिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चण्डालादिः । 'अरण्याण्णः' (वा २७८२) श्रारण्याः सुमनसः । 'दूरादेत्यः' (वा २७८३) लुप् । तथा च वर्गुसमीपदेशो वर्णः, तस्मिन् या कन्था तद्वाचकात् वुक्प्रत्यय इति यावत् । अव्ययात्त्यप् । अमेहेति । अमा, इह, क, तसि, त्र-एभ्य एव अव्ययेभ्यः त्यप्प्रत्यय इति परिगणनवार्तिकमिदम् । अमात्य इति । समीपे सह वा जात इत्यर्थः। औपरिष्ट इति । उपरिष्टादित्यव्ययस्य परिगणितेष्वनन्तर्भावाद् न त्यप् । अणि औपरिष्ट इति रूपमित्यर्थः । कथमिह टिलोप इत्यत पाहअव्ययानामिति । वार्तिकमिदम् । भमात्र इति । कात्स्न्ये मात्रशब्दः । कृत्स्नस्य भस्याव्ययस्य टेर्लोपः । 'नस्तद्धिते' इत्याद्युपाधिर्नापेक्षित इत्यर्थः । नन्वेवं सति श्रारादित्यव्ययात् छस्य ईयादेशे टिलोपे आरीय इति स्यादित्यत आह-अनित्योऽयमिति । त्यनेरिति । नि इत्यव्ययात् त्यप् स्याद् ध्रवे गम्ये इत्यर्थः । 'नियतं भवं नित्यम्' इति भाष्यम् । निसो गते इति । निस् इत्यव्ययात् त्यब् वक्तव्यो गते गम्ये इत्यर्थः । निस् त्य इति स्थिते सकारस्य पदान्तत्वादादेशप्रत्ययावयवत्वाभावाच्च षत्वे अप्राप्ते । हवात्तादो। इएकोरित्यत इराग्रहणमनुवर्तते । 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते । 'अपदान्तस्य मूर्धन्यः' इत्यतः 'मूर्द्धन्यः' इति च, तदाह-हस्वादिण इति । निष्टय इति । त्यपि सस्य षत्वे तकारस्य ष्टुत्वेन टः । अरण्यारण इति । वक्तव्य इति शेषः । आरण्याः सुमनस इति । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः। अरण्ये भवा इत्यर्थे णप्रत्यये टापि प्रारण्या इति रूपम् । अणि तु डीप् स्यादिति भावः । 'जनपदे लुप्' इति लुप् । अमात्य इति। अमाशब्दः समीपवाची स्वरादिः । अमा समीपे भव इत्यर्थः । ह्रस्वात्तादी। पदान्तत्वात्षत्वस्याप्राप्तावयमारम्भः। श्रादिग्रहणं तु व्यर्थं 'यस्मिन्विधि-' इत्येव सिद्धेः । ह्रस्वात्किम्, गीस्तराम् । धूस्तराम् । तादौ किम् , सर्पिःसाद्भवति । तद्धिते किम् , सर्पिस्तरति । तिङन्तस्य प्रतिषेधो Page #393 -------------------------------------------------------------------------- ________________ ३६०] सिद्धान्तकौमुदी। [नद्धितेषु शैषिकदूरेत्यः । 'उत्तरादाह' (वा २७४४ )। श्रौत्तराहः । १३२६ ऐषमोह्यःश्वसोऽन्यतरस्याम् । (४-२-१०५) एभ्यस्त्यब्बा । पक्षे वयमाणो ट्यध्यलो। ऐषमस्त्यम् , ऐषमस्तनम् । ह्यस्त्यम् , ह्यस्तनम् । श्वस्स्यम्, श्वस्तनम् । पक्षे शौव. स्तिकं वक्ष्यते । १३२७ तीररूपोत्तरपदादयौ । (४-२-१०६) यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूपान्ताद् इति नोक्तम् । बहुचपूर्वान्मा भूत् । बाहुरूपम् । १३२८ दिक्पूर्वपदादसंज्ञायां दूरादेत्य इति । वक्तव्य इति शेषः । दूरेत्य इति । दूरादागतः, दूर भव इति वार्थः । दूरादित्यव्ययाद् एत्यप्रत्यये 'अव्ययानां भमात्रे-' इति टिलोपः। उत्तरादाहजिति । वाच्य इति शेषः । औत्तराह इति । उत्तरस्मादागा उत्तरस्मिन् भव इति वार्थः । औत्तर इति त्वसाधु । ऐषमोह्यः । एभ्य इति। ऐषमस् , ह्यस् , श्वस् एतेभ्य इत्यर्थः । वक्ष्यमाणाविति । 'सायञ्चिरंप्राज्ञेप्रगेऽव्ययेभ्यष्टयटयली तुट् च' इत्यनेनेति शेषः । ऐषमस्त्यमिति । ऐषमस् इत्यव्ययं वर्तमाने संवत्सरे वर्तते, तत्र भवमित्यर्थः । 'परुत्परायैषमोऽब्दे पूर्व पूर्वतरे यांते ।' इत्यमरः । ऐषमस्तनमिति । ट्यट्यलौ वा । टावितो, य्वोरनादेशः, तस्य तुट , ट इत् , उकार उच्चारणार्थः, टित्त्वादाद्यवयवः । ह्यस्त्यं-शस्तनमिति । ह्यस् इत्यव्ययं गतेऽह्नि तत्र भवमित्यर्थः । श्वस्त्यम् ,श्वस्तनमिति । श्वस् इत्यव्ययमनागतेऽह्नि। तत्र भवमित्यर्थः । 'ह्यो गतेऽनागतेऽह्नि श्वः' इत्यमरः । पक्ष इति । 'श्वसस्तुट च' इति ठनि तस्य इकादेशे तुडागमे 'द्वारादीनां च' इत्यैजागमे शौवस्तिकमित्यपि वक्ष्यमाणं रूपमित्यर्थः । तीररूप । तीरोत्तरपदाद् रूपोत्तरपदाच्च क्रमादयश्चेत्यर्थः। काकतीरमिति । कैकतीरे भवमित्यर्थः । पाल्वलतीरमिते । पल्वलतीरे भवमित्यर्थः । शैवरूप्यमिति । शिवरूपे भवमित्यर्थः । रूप्योत्तर पदेति कचित्पाठः। तथा सति ज्यप्रत्यये 'यस्येति च' इत्यकार लोपे द्वियकारं रूपम् । बाहुरूपमिति । 'विभाषा सुपो बहुच पुरस्तात्तु' इति बहुपूर्वस्य रूपान्तत्वेऽपि तहत्तरपदकत्वाभावान व्य इति भावः । दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असंज्ञाभूताद् दिवपूर्वपदकाद् वाच्यः । भिन्युस्तराम् । दूरेत्य इति । दूरादागत इत्यादि र्थः । औत्तराह इति । इहायुदात्तत्वं स्त्रियां टाप् च बोध्यः । यदा तु 'उत्तराच्च' इत्याहिप्रत्यये ततोऽण क्रियते 'अमेह-' इति परिगणनेन त्यपोऽभावात् तदा औत्तराहशब्दोऽन्तोदात्तः, स्त्रियां ङीप् च विशेषः । वक्ष्यमाणाविति । 'सायंचिरम्-' इत्यादिनति शेषः । वक्ष्यत इति । 'श्वसस्तुट् च' इत्यत्र । दिक्पूर्व । 'असंज्ञायाम' इत्यत्र सौत्रत्वा १ 'काकतीरे' इति क, Page #394 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३६१ ञः । (४-२-१०७ ) श्रणोऽपवादः । पौर्वशालः । श्रसंज्ञायां किम्-संज्ञाभूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशम्यां भवः पूर्वेषुकामशमः । 'प्राचां ग्रामनगराणाम्' (सू १४००) इत्युत्तरपदवृद्धिः । १३२६ मद्रेभ्योऽञ् । (४-२ - १०८ ) ‘दिक्पूर्वपदात्' इत्येव । ‘दिशोऽमद्राणाम् ' ( १३६६ ) इति मद्रपर्युदासादादिवृद्धिः । पौर्वमद्रः । श्रपरमद्रः । १३३० उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् । (४-२-१०६ ) अम् स्यात् । शैवपुरम् । १३३९ प्रस्थोत्तरपदपलद्यादिकोपधादण् । ( ४-२ - ११० ) माहिकिप्रस्थः । पालदः । नैनीनकः । १३३२ कण्वादिभ्यो गोत्रे । ( ४-२ - १११ ) एभ्यो गोत्रप्रत्ययाञः स्यादित्यर्थः । पौर्वशाल इति । पूर्वस्यां शालायां भव इत्यर्थे ' तद्धितार्थ-' इति समासाद् ञः । मद्रेभ्योऽञ् । इत्येवेति । दिक्पूर्वाद् मद्रशब्दादनित्यर्थः । पर्युदासादिति । उत्तरपदवृद्धेः पर्युदासे सति आदिवृद्धिरित्यर्थः । बहुवचनाज्जनपदवाचिन एव ग्रहणम् । पौर्वमद्र इति । पूर्वेषु मद्रेषु भव इत्यर्थः । उदीच्यग्रामाच्च । शैवपुरमिति । उत्तरदेशे शिवपुरं नाम ग्रामविशेषः । तत्र भवमित्यर्थः । समासस्येत्यन्तोदात्तः शिवपुर शब्दः । 'बह्वचः ' किम् ? ध्वजी ( ङीषन्तो) नाम उत्तरदेशे ग्रामविशेषः। तत्र भवः ध्वाजः । ' अन्तोदात्तात् किम् । शार्करीधानम् । कृदुत्तरपदप्रकृतिखरेण लित्स्वरस्यैवावस्थानाद् मध्योदात्तोऽयम् । प्रस्थोत्तरपद । प्रस्थोत्तरपदात् पलद्यादिभ्यः कोपधाच्च णित्यर्थः । पलदिः श्रादिर्येषामिति विग्रहः । उदीच्यग्रामलक्षणस्य पञोऽपवादः । माहिकिप्रस्थ इति । महिकिप्रस्थान ग्रामे भव इत्यर्थः । पालद इति । पलदिनानि ग्रामे भव इत्यर्थः । नैलीनक त्पञ्चम्यर्थे सप्तमीत्याशयेनाह – संज्ञाभूताया इति । मद्रेभ्योऽञ् । बहुवचननिर्देशाज्जनपदवाची गृह्यते, न तु भद्रपर्यायः । दिशोऽमद्राणामिति । 'दिग्वाचकादुत्तरपदस्य जनपदवाचिनो मद्रभिन्नस्याचामादेर्वृद्धिः स्याद् ञिति णिति किति च तद्धिते' इति सूत्रार्थः । पौर्वमद्र इति । मद्वैकदेशे मद्रशब्दस्य वृत्तौ दिक्शब्देन सामानाधिकरण्यात् ‘तद्धितार्थ - ' इति समासः । उदीच्य | दिग्ग्रहणं निवृत्तम् । उदीच्यग्रामात्किम्, माथुरः । बह्वचः किम्, ध्वाजः । पिप्पल्यादिङीषन्तो ध्वजीशब्दः । अन्तोदात्तात्किम्, शार्कराधानम्, शर्कराधानशब्दे धाशब्दाकार उदात्तः 1 कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यावस्थानात् । शैवपुरमिति । 'प्रस्थपुरवहान्ताच्च' इति वुञ् न भवति, 'वृद्धात्' इति तत्रानुवृत्तेः । प्रस्थोत्तर । उदीच्यग्रामलक्षणस्यानोऽपवादः । पालद इति । पलदीति ईकारान्त इत्येके । नान्त इत्यन्ये । नलोपे १ ‘ध्वजी' इति क, २ ' ध्वाजः' इति क. ३ 'शार्कराधानम्' इति क. । Page #395 -------------------------------------------------------------------------- ________________ ३६२ ] सिद्धान्तकौमुदी। तद्धितेषु शैषिकन्तेभ्योऽण् स्यात् । कण्वो गर्गादिः। काव्यस्य छात्राः काण्वाः। १३३३ इञश्च । (४-२-११२) गोत्रे य इञ् तदन्तादण् स्यात् । दाताः । गोत्रे किम्-सौतङ्गमेरिदं सौतङ्गमीयम्। गोत्रमिह शास्त्रीयम् , न तु लौकिकम् । तेन्ह न-पाणिनीयम् । १३३४ न यचः प्राच्यभरतेषु । (४-२-११३) 'इजश्व' (सू १३३३ ) इत्यणोऽपवादः । प्रौष्ठीयाः । काशीयाः । भरतानां प्राच्यलेऽपि पृथगुपादानम् अन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् । १३३५ वृद्धिर्यस्याचामादिइति । निलीनकनाम्नि ग्रामे भव इत्यर्थः । करावादिभ्यो गोत्रे । काराव्यस्येति । करावस्य गोत्रापत्यं काराव्यः । गर्गादियञ् । काराव्यस्य छात्रा इत्यर्थ अनेन छापवादः अण् । 'यस्येति च' इत्यकारलोपः, 'अापत्यस्य च-' इति यकारलोपः, कारवा इति रूपम् । इञश्च । दाक्षा इति । दक्षस्य गोत्रापत्यं दाक्षिः । 'अत इञ् ।' दाक्षेः छात्रा इति विग्रहः । सौतङ्गमेरिदमिति । सुतङ्गमस्य निवासः सौतङ्गमिः । 'सुतङ्गमादिभ्य इञ्' । सौतङ्गमेरिदमित्यर्थे वृद्धात् छः, न त्वण, इझो त्रार्थकत्वाभावात्। गोत्रमिह शास्त्रीयमिति । अपत्याधिकारादन्यत्र यद्यपि ले किकमेव गोत्रमिति सिद्धान्तः । तथापि इह सूत्रद्वयेऽपि शास्त्रीयमेव गोत्रं गृह्यते, 'यूनि लुक्' इति सूत्रभाष्ये तथोक्तत्वादिति भावः । पाणिनीयमिति । पणिनो गेत्रापत्यं पाणिनः । तस्यापत्यं युवा पाणिनिः । तस्येदं पाणिनीयम् । वृद्धात् छः । अरा तु न, पाणिनिशब्दस्य युवप्रत्ययान्तत्वादिति भावः । न द्वयचः । प्राच्येषु भरतेषु च गोत्रेषु विद्यमानादिअन्ताद् यचः अण् न भवतीत्यर्थः। इञश्चेत्यणोऽपवादः । प्रतिषेध इत्यर्थः । प्रौष्टीया इति । प्रौष्ठस्य गोत्रापत्यं प्रौष्ठिः, तस्य छात्रा इत्यर्थः । काशीया इति । काशस्य गोत्रापत्यं काशिः, तस्य छात्रा इत्यर्थः । अणो निषेधे वृद्धात् छः। सति यणादेशात्संहिता तुल्यैव । वाहीकशब्दः कोपधोऽपि पलद्य दिषु पठ्यते परं छं बाधितुम् । अन्यथा अणं बाधित्वा परत्वाच्छ एव स्यात्कोप प्रयुक्तोऽण अवृद्ध सावकाश इति । यकृल्लोमनि भवो याकृल्लोमः । 'अन्' इति प्रकृतिभावस्तु न, गणेऽस्मिन्नलोपनिपातनादिति हरदत्तादयः । सौतंगमेरिति । सुतंगमादिभ्यश्चातुरर्थिक इञ् । शास्त्रीयमिति । ननु 'अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते' इति चेत् । अत्राहुः-'पूर्वसूत्रे गोत्रग्रहणेन पौत्रप्रति गोत्रं गृह्यते, करवादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तेभ्यः-' इति गोत्रप्रत्यर नुवादेन तत्राण्विधानात् । कण्वादयश्च गर्गाद्यन्तर्गताः । 'गर्गादिभ्यो यज्' इ यत्र तु 'गोत्रे कुजा. दिभ्यः-' इत्यतो गोत्र इत्यनुवर्तते, न तु शास्त्रीयगोत्रमेव गृह्यते । पत्याधिकारस्थत्वात् तदेव हि 'इअश्च' इति सूत्रेऽनुवर्तत इति । न द्यचः । अपवाद इति । प्रतिषेध Page #396 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६३ स्तवृद्धम् । (१-१-७३) यस्य समुदायस्थाचा मध्ये प्रादिवृद्धिस्तद्वृद्धसंज्ञं स्यात् । १३३६ त्यदादीनि च । (१-१-७४) वृद्धसंज्ञानि स्युः । १३३७ वृद्धाच्छः । (४-२-११४) शालीयः । मालीयः । तदीयः । १३३८ एड् प्राचां देशे ।(१-१-७५) एङ् यस्याचामादिस्तवृद्धसंज्ञं वा स्यादेशाभिधाने । एणीपचनीयः । गोनीयः । भोजकटीयः । पक्षेऽणि ऐणी. पचनः, गौनर्दः, भौजकटः । एङ् किम्-श्राहिच्छस्त्रः । कान्यकुब्जः । 'वा नामधेयस्य वृद्धसंज्ञा वक्तव्या' ( वा ५७६ )। देवदत्तः, देवदत्तीयः । १३३६ भवतष्ठक्छसौ। (४-२-११५) वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् , भवदीयः । वृद्धाद् इत्यनुवृत्तः शत्रन्तादणेव । भावतः । १३४० काश्यादिभ्यष्ठचिठौ । (४-२-११६) इकार उच्चारणार्थः । काशिकी, काशिका । लिङ्गमिति । तेन प्रौद्दालकिः पिता, औद्दालकायनः पुत्र इत्यत्र 'इञः प्राचाम्' इति भरतेभ्यो लुङ् न भवति । वृद्धिय॑स्य । अचामिति बहुत्वमनेकत्वोपलक्षणम् । तेन शालाशब्दस्यापि वृद्धत्वं सिध्यति । व्यपदेशिवत्त्वेन ज्ञाशब्दस्यापि वृद्धत्वम् । त्यदादीनि च । शेषपूरणेन सूत्रं व्याचष्टे-वृद्धसंज्ञानि स्युरिति । आदेरचो वृद्धसंज्ञकत्वाभावादारम्भः । वृद्धाच्छः । वृद्धसंज्ञकात् छः स्याद् जातादिष्वर्थेषु । अणोऽपवादः । शालीय इति । शालायां जात इत्यादिरर्थः। एवं तदीयः । एङ् प्राचां देश । देशविशेषनाम्नश्चेदेङादिरव वृद्धसंज्ञक इति नियमार्थमिदम् । वा नामधेयस्येति । रूढशब्दत्वमिह नामत्वम् , न त्वाधुनिकसंकेतितत्वमेव, तेन घटीयमित्यादि सिद्धम् । भवतष्ठक्छसौ । भावक इति। 'इसुसुक्तान्तात्कः' । ननु भवच्छब्दाच्छस्य ईयादेशे सति भत्वेन पदत्वस्य बाधात्कथं जश्त्वमित्यत आह-जश्त्वमिति । 'सिति च' इति पदत्वेन भत्वस्य बाधादिति भावः । ननु भावत इति कथमरप्रत्ययः, 'त्यदादीनि च' इति भवच्छब्दस्य वृद्धतया छस्यैव युक्तत्वादित्यत आह-वृद्धादित्यनुवृत्तेः शत्रन्तादणेवेति । त्यदादिषु 'भातेडवतुः' इति डवत्वन्तस्येव पाठादिति भावः । काश्यादिभ्यष्ठमिठौ। ठञ् बिठ इति प्रत्ययौ स्तः । मिठप्रत्यये जि इति समुदायस्य 'श्रादिर्बिटुडवः' इति इत्संज्ञायां प्रयोजनाभावाद् अकार एव इत् , तस्य जित्स्वरः प्रयोजनम् । ठञ एव विधौ तु ङीप् स्यात् , टाब् न स्यात् । नन्वेवं सति इठप्रत्यये ठस्य इकादेशो न स्यात् । इत्यर्थः । भरतानामग्रहणस्येति । तेन 'इञः प्राचाम्' इति भरतेभ्यो युवप्रत्ययस्य लुङ् न भवति । औद्दालकिः पिता, औद्दालकायनः पुत्रः, इति 'आदिगोपुच्छ-' इति सूत्रे कैयट भवतः । छादिरय प्रत्ययो न तु शादिः । पदसंज्ञार्थ सित्करणा Page #397 -------------------------------------------------------------------------- ________________ ३६४ ] सिद्धान्तकौमुदी। [तद्धितेषु शैषिकबैदिकी, बैदिका । 'श्रापदादिपूर्वपदात् कालान्तात्' (ग सू ७४) । आपदादिराकृतिगणः । आपत्कालिकी, आपत्कालिका । १३४१ बाहीकग्रामेभ्यश्च । (४-२-१९७) बाहीकग्रामवाचिभ्यो वृद्धभ्यष्ठठिी स्त । छस्यापवादः । कास्तीरं नाम बाहीकग्रामः । कास्तीरिकी, कास्तीरिका । १३४२ विभाषोशीनरेषु । (४-२-११८) एषु ये ग्रामास्तद्वाचिभ्यो वृद्धभष्ठब्जिठौ वा स्तः । सौदर्शनिकी, सौदर्शनिका, सौदर्शनीया। १३४३ ओर्देशे ठञ् । (४-२-११६) उवर्णान्ताद्देशवाचिनष्ठञ् । निषादक': । नैषादकर्षकः । 'केऽणः' (सू८३४) इति हस्वः । 'देशे किम्-पटोश्छात्राः पाटवाः । जिठं व्यावर्तयितुं ठग्रहणम् । वृद्धाच्छं परत्वादयं बाधते। दाक्षिकर्षुकः।१३४४ वृद्धात्प्राचाम् । (४-२-१२०) प्राग्देशवाचिनो वृद्धादेवेति नियमार्थ सूत्रम् । श्राढक म्बुकः । शाकजम्बुकः । नेह-मल्लवास्तु, माल्लवास्तवः । १३४५ धन्वयोपधाद् वुञ् । अङ्गात्परत्वाभावादित्यत आह-इकार उच्चारणार्थ इति । काशिकीति । काश्यां जातादिरित्यर्थः । ठअन्ताद् ङीप् । काशिकेति । जिठप्रत्यये इकादशे टा। बैदिकी, बैदिकेति । बेदिर्देशविशेषः । आपदादिपूर्वपदाकालान्ता देति । गणसूत्रम्। ठझिठावित्येव । आपदादिरिति । आपद् आदियस्येति विग्रहः । आपत्कालिकी, आपत्कालिकेति । ठञि डीप् , गिठे टाप् । वाहीकग्रामे भ्यश्च । बाहीकाख्याः केचिद् ग्रामाः, तद्विशेषवाचिभ्य इत्यर्थः । तदाह-बाहोकग्रामवाचिभ्य इति । विभाषोशीनरेषु । पूर्वसूत्रे समस्तनिर्देशेऽपि 'ग्रामेभ्यः' इत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात् , तदाह-एषु ये ग्रामा इति । शीनरेषु ये ग्रामास्तद्विशेषवाचिभ्य इत्यर्थः । सौदर्शनो नाम उशीनरदेशे कश्चिद् ग्राम । सौदर्शनीया इति । ठञ्जिठयोरभावे वृद्धाच्छः । ओर्देशे ठञ् । निषादकडूरिति । कश्चिद् ग्राम इति शेषः । नैषादकर्षक इति । उगन्तात्परत्वात् वादेशः । वृद्धात्प्राचाम् । 'योदेशे ठञ्' इत्यनुवर्तते । प्राचामिति देशविशेषणम , नतु विकल्पार्थम् , व्याख्यानात् । पूर्वेण सिद्धे नियमार्थमिदम् । तदाह-प्राग्देशेत्यादिना । आढकजम्बुक इति । आढकजम्बूर्नाम कश्चिद् ग्रामः । तत्र भव इ यर्थः । उगन्तात्परपरत्वात् ठस्य कः । 'केऽणः' इति ह्रस्वः । एवं शाकजम्बुकः । मल्लवास्त्विति । दित्याशयेनाह-जश्त्वमिति । काश्यादिभ्यः। इकार सच्चारणार्थ इति । उभयत्र अकार एवानुबन्धः, तस्य व्यत्यासपाठस्तु स्त्रीप्रत्यये विशेषार्थ इति भावः । आपदादीति । गणसूत्रमिदम् । वृद्धादेवेति । 'वृद्धाचेत्प्रा वामेव' इति विपरीतनियमस्तु न भवति, अप्राग्देशवाचिनो वृद्धस्य उवर्णान्तस्याभावात् । धन्वयोपधात्। Page #398 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६५ (४-२-१२१) धन्वविशेषवाचिनो यकारोपधाश्च देशवाचिनो वृद्वाद् वुन् स्यात् । ऐरावतं धन्व, ऐरावतकः । साङ्काश्यकाम्पिल्पशब्दौ वुन्छणादि-(सू १२६२) सूत्रेण एयान्तौ । साकाश्यकः । काम्पिल्यकः । १३४६ प्रस्थपुरवहान्ताच्च। (४-२-१२२) एतदन्ताद् वृद्धाद्देशवाचिनो वुल्स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुबहकः। पुरान्तग्रहणमप्रागर्थम् । प्राग्देशे तूत्तरण सिद्धम् । १३४७ रोपधेतोः प्राचाम् । (४-२-१२३) रोपधादीकारान्ताच प्राग्देशवाचिनो वृद्धाद् वुब्स्यात् । पाटलिपुत्रकः । ईतः, काकन्दकः । १३४८ जनपदतदवध्योश्च । (४-२-१२४) जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद् वुन्स्यात् । श्रादर्शकः । त्रैगर्तकः । १३४६ अवृद्धादपि बहुवचनकश्चित् प्राच्यो ग्राम इति शेषः । धन्वयोपधाद वुझ् । ऐरावतं धन्वेति । ऐरावताख्यं धन्वेत्यर्थः । धन्व मरुप्रदेशः । 'समानौ मरुधन्वानौ' इत्यमरः। आष्टकं नाम धन्व इति भाष्यान्नपुंसकत्वमपि । ऐरावतक इति । ऐरावताख्ये मरुप्रदेशे भव इत्यर्थः । वुञ्, अकादेशः । साङ्काश्यकः । काम्पिल्यक इति । साङ्काश्ये काम्पिल्ये च भव इत्यर्थः । प्रस्थपुरवहान्ताच्च । एतदन्तादिति । प्रस्थ, पुर, वह एतदन्तादित्यर्थः । ननु पुरान्तग्रहणं व्यर्थम् , नान्दीपुरक इत्यत्र 'रोपधेतोः प्राचाम्' इत्युत्तरसूत्रेण सिद्धत्वादित्यत आह-पुरान्तेति । रोपधेतोः प्राचाम् । रोपधश्च, ईच्च तयोरिति द्वन्द्वः । षष्ठी पञ्चम्यर्थे । प्राचामिति देशविशेषणम् । तदाह-रोपधादित्यादिना । ईत इति । उदाहियत इति शेषः। काकन्द इति । काकन्दी नाम देशः, तत्र भव इत्यर्थः । जनपदतदवध्योश्च । आदर्शक इति। आदर्शो गाम जनपदः। तत्र भव इत्यर्थः । त्रिगर्तो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगतशब्दे परमपि गर्वोत्तरपदाच्छं बाधितुमिह तदवधिग्रहणम् । तदाह-त्रैगर्तक इति । अवृद्धादपि बहुवचनधन्वेति न स्वरूपपर्याययोर्ग्रहणम , वृद्धत्वासम्भवादित्याशयेनाह-धन्वविशेषेति । ऐरावतं धन्वेति । यद्यपि 'समानौ मरुधन्वानौ' इत्यमरेण पुंस्त्वमुक्तम् , तथापि 'श्राष्टकं नाम धन्व' इति भाष्ये ह्रस्वपाठान्नपुंसकोऽपि धन्वशब्दोऽस्त्येवेति बोध्यम् । उत्तरेणेति । रोपधत्वादिति भावः । जनपद । स चासौ अवधिश्चेति कर्मधारयाजनपदरूप एवावधिर्लभ्यते । न च जनपदत्वादेव सिद्धे अवधिग्रहणं व्यर्थम् , 'वुझेव यथा स्यान्नान्यत्' इत्येतदर्थ तस्यावश्यकत्वात् । अत एव जनपदावधिवाचिनत्रिगर्तशब्दाद् ‘गर्तोत्तरपदात्-' इति छो न भवति, किंतु 'अवृद्धादपि बहुवचनविषयात्' इत्युत्तरसूत्रेण वुझेव भवतीत्याशयेनोदाहरति--त्रैगर्तक इति । Page #399 -------------------------------------------------------------------------- ________________ ३६६ ] सिद्धान्तकौमुदी। तद्धितेषु शैषिकविषयात् । (४-२-१२५) अवृद्धाद् वृद्धाच जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिका बुब्स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । श्रवृद्धाजनपदात् , प्राङ्गकः । श्रवृद्धाजनपदावधेः, आजमीढकः । वृद्धाजनपदात्, दार्वकः वृद्धाजनपदावधेः, कालअरकः । 'विषय' ग्रहणं किम्-एकशेषेण बहुत्वे मा भूत्-वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः । १३५० कच्छाग्निवक्त्रवर्तोत्तरपदात् । (४-२-१२६ ) देशवाचिनो वृद्धादवृद्धाश्च वुज्स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः । बाहुवर्तकः । १३५१ धूमादिभ्यश्च । (४-२-१२७) देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः । १३५२ नगरात्कुत्सनप्रावीण्ययोः। (४-२-१२८) नगरशब्दाद् वुल्स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । 'कुत्सन' इति किम्-नागरा ब्राह्मणाः । १३५३ अरण्यान्मनुष्ये । (४-२-१२६ ) वुञ् । 'अरण्याएणः' (वा २७८२) इत्यस्यापवादः । 'पथ्यध्यायन्यायविहारमनुष्यहस्तिध्विति वाच्यम्' ( वा २८१६) श्रारण्यकः पन्थाः अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । 'वा गोमयषु' (वा २८२०) । श्रारण्यका प्रारण्या वा गोमयाः । विषयात् । अवृद्धाजनपदादिति । उदाह्रियत इति शेषः । आजमीढकइति । अजमीढेषु भव इत्यर्थः । अजमीढाख्यो जनपदः कस्यचिजनपदस्यावधिः । वृद्धाजनपदादिति । उदाह्रियत इति शेषः । दार्वक इति । दार्वा इति बहुवचनान्तो जनपदविशेषे वर्तते । तत्र भव इत्यर्थः । कालारक इति । कलारेषु भव इत्यर्थः । कच्छाग्नि । कच्छ, अग्नि, वक्त्र, वर्त एतदुत्तरपदादित्यर्थः । शेषपूरणेन सूत्रं व्याचष्टे-देशवाचिन इति । छाणोरप्वादः । दारुकच्छक इति । दारुकच्छे भव इत्यर्थः । काण्डाग्नक इति । काण्डाग्नौ भव इत्यर्थः । अकादेश 'यस्येति च' इति इकारलोपः। सैन्धुवक्त्रक इति । सिन्धुवक्त्रे भव इत्यर्थः । बाहुवर्तक इति । बहुवर्ते भव इत्यर्थः । धूमादिभ्यश्च । देशवाचिभ्यो वुझिति शेषपूरणम् । नगरात्कुत्सन । नागरा ब्राह्मणा इति । कठ्यादिषु माहिष्मतीसाहचर्येण संज्ञाभूतस्यैव नगरशब्दस्य ग्रहणम् तो न ढकञ् । 'प्राची प्रामनगराणाम्' इति सूत्रभाष्ये नागरा इत्युदाहरणात् । अरण्यान्मनुष्ये । आरण्यक इति । पन्थाः अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । वा 'जनपदतदवध्योः' इति सूत्रे जनपदावधिवाचिन उदाहरणं तु 'श्यामायनकः' इत्यादि बोध्यम् । नागरा ब्राह्मणा इति । कल यादिषु माहिष्मतीति संज्ञाशब्दसाहचर्यात्संज्ञाभूतनगरशब्दस्यैव ढकना नागरेयक इति भाव्यमिति भावः । Page #400 -------------------------------------------------------------------------- ________________ प्रकणरम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६७ १३५४ विभाषा कुरुयुगन्धराभ्याम् । (४-२-१३०) वुञ्। कौरवकः, कौरवः । यौगन्धरकः, यौगन्धरः । १३५५ मद्रवृज्योः कन् । (४-२-१३१) जनपदवुमोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः । १३५६ कोपधादण् । (४-२-१३२) माहिषिकः । १३५७ कच्छादिभ्यश्च । (४-२-१३३) देशवाचिभ्योऽण् । वुजादेरपवादः । कान्छः । सैन्धवः । १३५८ मनुष्यतत्स्थयोर्बुञ् । (४-२-१३४) कच्छाधणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । काच्छकं हसितम् । 'मनुष्य' इति किम्-काच्छो गौः । १३५६ अपदातौ साल्वात् । (४-२-१३५) साल्वशब्दस्य कच्छादित्वाद् वुनि सिद्धे नियमार्थमिदम् , अपदातावेवेति । साल्वको ब्राह्मणः । 'प्रपदातौ' किम्-साल्वः पदातिव्रजति । १३६० गोयवाग्योश्च । (४-२-१३६) साल्वाद् वुन् । कच्छाधणोऽपवादः । साल्वको गौः । साल्विका यवागूः । साल्वमन्यत् । १३६१ गोत्तरपदाच्छः।(४-२-१३७) देशे । अणोऽपवादः । वृकगीयम् । उत्तरपदग्रहणं बहुपूर्वनिरासार्थम् । १३६२ गहादिभ्यश्च । (४-२-१३८) गोमयेष्विति । वार्तिकमिदम् । विभाषा कुरु । कुरुयुगन्धरौ जनपदौ । अवृद्धाभ्यामपि ताभ्याम् 'अवृद्धादपि-' इति नित्यं प्राप्ते विकल्पः मद्रवृज्योः कन् । मद्रो वृजिश्व जनपदविशेषः । जनपदवुनोऽपवादः । कोपधादण् । माहिषिक इति । महिषिको नाम जनपदः, तत्र भव इत्यर्थः । प्रस्थोत्तरपद-' इत्यादिना सिद्धे जनपदवुञ्बाधनार्थमिदम् । कच्छादिभ्यश्च । कान्छ इति । अत्र वुओऽपवादोऽण् । सैन्धव इति । ओर्देशे ठोऽपवादः । मनुष्यतत्स्थयोर्बु । कच्छादिभ्य इत्यनुवर्तते । तदाह-कच्छादीति । अपदातौ साल्वात् । नियमार्थमिति । साल्वाचेदपदातावेवेति नियमार्थमित्यर्थः । गोयवाग्वोश्च । जातत्वादिना विवक्षितयोरित्यर्थः । गर्तोत्तरपदाच्छः। देश इति । शेषपूरणम् । देशवाचिन इति यावत् । वृकगीयमिति । वृकगर्तो नाम देशः । तत्र भव इत्यर्थः । ननु गर्ताच्छ इत्येतावतैव केवलगर्तशब्दस्य विभाषा कुरु । कुरुशब्दः कच्छादिषु पठ्यते, तत्सामर्थ्यात्पक्षेऽण सिद्ध इति परिशेषाद्विभाषाग्रहणं युगन्धराथेमेव । 'अवृद्धादपि-' इति नित्यप्राप्तो वुअनेन विकल्प्यते । मनुष्यतत्स्थयोस्तु परत्वान्नित्य एव वुञ् । कौरवको मनुष्यः । कौरवकमस्य हसितम् । एतदर्थमेवास्य कच्छादौ पाठः । अन्यथा अनयैव विभाषया वुअणोः सिद्धौ किं तेनेति भावः । सैन्धव इति । 'ओर्देशे-' इति ठञ् प्राप्तः । वुझि सिद्धे इति । 'मनुष्यतत्स्थयोः-' इत्यनेन । गहादिभ्यश्च । एभ्यो देशवाचिभ्यश्छः Page #401 -------------------------------------------------------------------------- ________________ ३६८ ] सिद्धान्तकौमुदी। [तद्धितेषु शैषिकछः स्यात् । गहीयः । 'मुखपार्श्वतसोर्लोपश्च' ( ग सू ७८ ) । मुखतीयम् । पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् । 'कुग्जनस्य परस्य च' (ग सू ८९ ) । जनकीयम् । परकीयम् । 'देवस्य च' (ग सू ६०) । देवकीयम् । 'स्वस्य च स्वकीयम् । 'वेणुकादिभ्यश्छण्वाच्यः' (ग सू ११)। वैणुकीयम् । वैत्रकीयम् । श्रौत्तरपदकीयम् । १३६३ प्राचां कटादेः । (४-२-१३६) प्राग्देशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् । १३६४ राज्ञः क च। (४-२-१४०) वृद्धत्वाच्छे सिद्ध तत्संनियोगेन कादेशमानं विधीयते, राजकीयम् । १३६५ वृद्धादकेकान्तखोपधात् । (४-२-१४१) 'अक' 'इक' एतदन्तादेशवाचित्वाभावाद् 'गर्वोत्तरपदात्' इति सिद्धे उत्तरपदग्रहणं व्यर्थमित्यत आहउत्तरपदग्रहणमिति । गहादिभ्यश्च । गहीय इति गहो देशविशेषः । मुखपार्वेति । गहादिगणसूत्रम् । मुखपार्वति लुप्तषष्टीकं परम् । तसन्तयोरेतयोरन्त्यस्य लोपश्च । चाच्छः । असंभवादन जनपदस्येति न सम्बध्य ।। कुग्जनस्येति। गणसूत्रमिदम् । जनशब्दस्य परशब्दस्य च कुगागमः स्यात् , पाच्छः । आत्रापि देश इति न सम्बध्यते । देवस्य च । इदमपि गणसूत्रम् । चात्कुक् छश्च । 'देवाद्याऔ' इत्यस्यापवादः । देवानुग्रह इति भाष्यप्रयोगाद्देवमित्यपि साधु । स्वकीयमिति । गहादित्वाच्छः कुक्च । स्वशब्दोऽपि गहादिः, आगमशास्त्रा नेत्यत्वात् स्वीयम् । प्राचां कटादेः। कटनगरीयमिति । कटनगरो नाम प्राव्यो देशः। राज्ञः क च । राजन्शब्दात् छः स्यात् , ककारश्चान्तादेशः । सुद्धादकेकान्तखो. स्यात् । पूर्वपक्षादिशब्देभ्यस्तु देशवाचित्वाभावेऽपि पाठसामर्थ्याच्छः । मुखपार्श्वतसोरिति । गणसूत्रमिदम् । सप्तम्यन्ताभ्यामाभ्यामाद्यादित्वात्तसिः । मुखतीयमिति । मुखे जातमित्याद्यर्थे तसन्ताच्छः । 'अलोऽन्त्यस्य' इति तसः सकारस्य लोपे 'यस्येति च' इत्यकारलोपः । कुग्जनस्येति । इदमपि गणसूत्रम् । स्वकीयमिति। स्वार्थिककन्नन्तात्स्वशब्दाद्गहादेराकृतिगणत्वाच्छः, देशवाचित्वा भावेऽपि पूर्वपक्षादिवद्वोध्यः । अतएव लुब्योगाप्रख्यानादिति सूत्रे 'न हि खक यस्यैव प्रत्याख्यानम्' इति न्यासकारोक्तिः संगच्छते । केवलात्स्वशब्दादणेव । सौवम् । एतच्च 'द्वारादीनां च' इत्यत्र आकरे उदाहृतम् । खीयभित्यत्र तु 'प्राक्क्रीताच्छः' । अन्तरशब्दात्तु गहादित्वाच्छे तदन्तेन नशब्दस्य समासे स्वार्थे कनि च 'नान्तरीयकम्' इति भवति । १ स्वार्थिककन्नन्तात्स्वशब्दाद् गहादेराकृतिगणत्वाच्छः–इति मनोरमातत्त्वबोधिन्यौ । गहादौ तु 'स्वस्य च' इति नोपलभ्यते । Page #402 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसंहिता। [३६६ स्खोपधाश्च वृद्धादेशवाचिनः छः स्यात् । ब्राह्मणको नाम जनपदः, यत्र ब्राह्मणा श्रायुधजीविनः, तत्र जातो ब्राह्मणकीयः। शाल्मलिकीयः । अयोमुखीयः । १३६६ कन्थापलदनगरग्रामहदोत्तरपदात् । (४-२-१४२) कन्थादिपञ्चकोत्तरपदादेशवाचिनो वृद्धाच्छः स्यात् । उम्ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिमामीयम् । दातिहदीयम् । १३६७ पर्वताञ्च । (४-२-१४३) पर्वतीयः । १३६८ विभाषाउमनुष्ये । (४-२-१४४) मनुष्यभिनेऽर्थे पर्वताच्छो वा स्यात् । पक्षेऽण । पर्वतीयानि, पार्वतानि वा फलानि । अमनुष्ये किम्-पर्वतीयो मनुष्यः । १३६६ कृकणपर्णाद्भारद्वाजे । (४-२-१४५) भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम्-कार्कणम् । पार्णम् । १३७० युष्मदस्मदोरन्यतरस्यां खञ् च । (४-३-१) चाच्छः । पक्षेऽण् । पधात् । ब्राह्मणकीय इति । कोपधाणोऽपवादः छः । शाल्मलिकीय इति । शाल्मलिको नाम देशः । तत्र भव इत्यर्थः । इकान्तोदाहरणमिदम् । कोपधाणपवादः। अयोमुखीय इति । 'बाहीकमामेभ्यश्च' इति ठठियोरपवादः छः । कन्थापलद । ठठिादेरपवाद इति। नगरान्ते 'रोपधेतोः-' इति वुओऽपवादः । इतरत्र 'बाहीकग्रामेभ्यश्च' इति ठठियोरपवाद इति विवेकः । पर्वताच्च । इत्यादि स्पष्टंम् । युष्मदस्मदोरन्यतरस्यां खञ् च । युष्मदस्मच्छब्दयोरिह शब्द. स्वरूपपरत्वात् 'त्यदादीनि सर्वैर्नित्यम्' इत्येकशेषो न भवति । पञ्चम्यर्थे षष्ठी । युष्मच्छब्दादस्मच्छब्दाच्च जाताद्यर्थेषु खञ् स्यादित्यर्थः। चाच्छः । गर्तोत्तरपदादित्यधिकृतः छः चकारेण समुच्चीयत इत्यर्थः । पक्षेऽणिति । अन्यतरस्यांग्रहणादिति अविनाभूतमित्यर्थः । वृद्धादके । ब्राह्मणकीय इति । 'कोपधादण्' इत्यण प्राप्तः । आयोमुखीय इति । वाहीकग्रामलक्षणौ ठनिठाविह प्राप्तौ । उञ्जिठादेरिति। श्रादिशब्देन 'रोपधेतोः-' इत्यादिना प्राप्तस्य वुनः । पर्वतीय इति । 'तत्र जन्यं रघो?रं पार्वतीयैर्गणैरभूत्' इत्यत्र तु 'पर्वतीयस्य राज्ञ इमे' इत्यर्थे छान्तादण् । कृकण । भारद्वाजशब्दोऽत्र देशवचनः, स च न प्रत्ययार्थः, किं तु प्रकृतिविशेषणमित्याह-भाद्वाजदेशेत्यादिना । युष्मदस्मदोः। 'त्यदादीनि च' इति वृद्धत्वानित्ये छ प्राप्ते खत्रणोरपि विधानार्थमिदम् । पक्षे अणिति । अन्यतरस्यांग्रहणा १ इह मूले टीकायां च 'इति चतुर्थस्य द्वितीयः पादः' इत्याद्यधिकं दृश्यते क, ख. पुस्तकयोः, परं प्रथमपादान्ते तथा लेखादर्शनान्मूलपुस्तकान्तरेष्वदर्शनाच सोऽत्रोपेक्षितः। Page #403 -------------------------------------------------------------------------- ________________ ४०० ] सिद्धान्तकौमुदी । [तद्धितेषु शैषिक युवयोः युष्माकं वा श्रयं युष्मदीयः । श्रस्मदीयः । १३७१ तस्मिन्नणि च युष्माकास्माकौ । ( ४-३ - २) युष्मदस्मदोरेतावादेशौ स्तः, खम्यणि च । यौष्माकीणः । श्रस्माकीनः । यौष्माकः । श्रास्माकः । १३७२ तवकममकावेकवचने । (४-३-३ ) एकार्थवाचिनो युष्मदस्मदोस्तवकममकौ स्तः खन्यणि च । तावकीनः, तावकः । मामकीनः, मामकः । छे तु । १३७३ प्रत्ययोत्तरपदयोश्च । ( ७-२-६८ ) मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये भावः । अत्र 'युष्मदस्मदो:' इति योगो विभज्यते । श्रभ्यां छो भवतीत्यर्थः । 'खञ् च' इति योगान्तरम् । श्रभ्यां खञ् च भवतीत्यर्थः 'अन्यतरस्याम्' इति योगान्तरम् । आभ्यां छखनौ वा स्तः, पक्षेऽणित्यर्थः । अतो न यथासंख्यमिति भाष्ये स्पष्टम् । युष्मदीय इति । द्विवचनान्ताद्बहुवचनान्नाच्च छः । ईयादेशः । ब्लुकि युवादेशस्य निवृत्तिः, तस्य विभक्तौ परे विधानात् । प्रकृत्यर्थैकत्वे विभक्तेलुप्तत्वेऽपि त्वादशो वक्ष्यते । श्रस्मदीय इति । श्रावयोरस्माकं वा श्रयमित्यर्थः । अथ खत्रि अणि च विशेषमाह -- तस्मिन्नाणि च । पूर्वसूत्रे निर्दिष्टः खञ् तच्छब्देन परामृश्यते । तदाह - खञि अणि चेति । अत्र स्थानिनोरा देशयोश्च यथासंख्यम्, न तु परनिमित्तयोः, 'तस्मिन्नणि' इति व्यस्तनिर्देशात् । पौष्माकीण इति । युवयोर्युष्माकं वा श्रयमिति विग्रहः । खञ्, ईनादेशः, युष्माकादेशः, आदिवृद्धिः, त्वम् । आस्माकीन इति । आवयोरस्माकं वा यमिति विग्रहः । अणि उदाहरति , कः, स्मा इति । तवकममकौ । 'एकवचन' इति युष्मदस्मदोः प्रकृत्योर्विशेषणम् । एकस्य वचनम् उक्तिः एकवचनम् । एकस्यो कौ व्याप्रियमाणयोरिति लभ्यते । तदाह—एकार्थवाचिनोरिति । छे त्विति । एकार्थवृत्तयोर्विशेषो दिति भावः । तथा चैते त्रयः प्रत्यया इति वैषम्याद्यथासंख्यं न भवन्तीति केचित् । मनोरमायां तु यथासंख्यनिवारणाय योगविभागः कृतः, तथा हि 'युष्मदस्मदोरन्यतरस्याम् । श्राभ्यां छो वा स्यात् । ' त्यदादीनि च' इति वृद्धत्वान्नित्ये छे प्राप्ते विकल्पोऽयम् । ततः ‘खञ्च' । एवमुत्तरसूत्रेऽपि योगविभागो योध्यः । तेन आदेशयोः खञराभ्यां यथासंख्यं नेत्यादि । युवयोरित्यादि । एकवचने तवकममकादेशविधानादेकवचनान्तेन विग्रहोत्र न कृतः । तस्मिन्नणि च । तस्मिन्निति साक्षाद्विहितः खम् निर्दिश्यते, न तु चानुकृष्ट । निमित्तयो दिशौ प्रति यथासंख्यं तु न भवति 'खञणोः -' इति वक्तव्ये पृथग्विभक्लिनिर्देशसामर्थ्यात् । स्थान्यादेशयोस्तु इष्यत एव तत् । तवक । इह पूर्ववदेव निमित्तयोः खञणोरादेशौ प्रति यथासंख्यं न भवति, किंतु स्थान्यादेशयोरेवेत्याशयेनोदाहरति - तावकीनः । मामकीन Page #404 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा तत्त्वबोधिनीसहिता। [४०१ उत्तरपदे च । त्वदीयः । मदीयः । उत्तरपदे तु स्वत्पुत्रः, मत्पुत्रः । १३७४ अर्धाद्यत् । (४-३-४) अर्ध्यः । १३७५ परावराधमोत्तमपूर्वाश्च । (४-३-५) पराय॑म् । अवराय॑म् । अधमाय॑म् । उत्तमाय॑म् । १३७६ दिक्पूर्वपदादठश्च । (४-३-६) चाद्यत् । पौर्वाधिकम्, पूर्वाय॑म् । १३७७ ग्रामजनपदैकदेशादौ । (४-३-७) ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादठो स्तः । इमे अस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः, पौर्वाधिकाः । ग्रामस्य पूर्वस्मिन्नर्धे भवा इति तद्धितार्थे समासः । ठग्रहणं स्पष्टार्थम् । प्रत्युक्ने यतोऽप्यनुकर्षः सम्भाव्येत । १३७८ मध्यान्मः । (४-३-८) मध्यमः। १३७६ अ सांप्रतिके । (४-३-६) मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । वक्ष्यत इति शेषः । प्रत्ययोत्तरपदयोश्च । साप्तमिकमिदम् । त्वमावेकवचने इत्यनुवर्तते । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्त. स्येत्यधिकृतम् , तदाह-मपर्यन्तयोरित्यादि । त्वदीयः। मदीय इति।छे सुब्लुकि तवममयोनिवृत्ती मपर्यन्तयोः त्वदिति मदिति च आदेशौ । विभक्तिपरकत्वाभावान्न शेषे लोपः। उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्र इत्युदाहरणम् । अर्धाद्यत् । अर्ध्य इति । अर्धे जातादिरित्यर्थः । 'सपूर्वपदाठ्ठञ् वाच्यः' इति वार्तिकं भाष्ये स्थितम्। बालेयार्धिकः । परावर । अर्धाद्यदिति शेषः । अवरशब्दो दन्तोष्ठयवकारमध्यः । दिक्पूर्वपदाद ठञ् च । अर्धादित्येव परावरपूर्वार्धशब्दात्पूर्वसूत्रेण यदेव, विशिष्य विहितत्वात् । ग्रामजनपद । ननु अञ् चेत्येतावतैव चकारात् ठोऽनुकर्षसिद्धेः ठग्रहणं व्यर्थमित्यत आह-ठग्रहणमिति । ननु अञ् चेत्युक्तेऽपि चकाराट्ठोऽनुकर्षः स्पष्ट एवेत्यत आह-अञ् चेत्युक्त इत्यादि । मध्यान्मः। स्पष्टम् । असांप्रतिके । अ इति लुप्तप्रथमाकम् । मध्यादित्यनुवर्तते । तदाह-मध्यशब्दादित्यादि । संप्रतीत्यव्ययम् इति । परावरा । 'परावराधमोत्तमेभ्यः' इत्येव वक्तव्ये पूर्वग्रहणं पूर्वविप्रतिषेध. सूचनार्थम् । तेन दिक्शब्दयोः परावरयोरर्धशब्देन समासे उत्तरसूत्रेण प्राप्तावपि ठव्यतौ बाधित्वा यदेव भवति । दिक् । पूर्वपदग्रहणं स्वरूपविधिनिरासार्थमित्याहुः । असांप्रतिके । सम्प्रतीत्यव्ययं न्याय्ये वर्तते 'अनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रः स वा एष सम्प्रति यज्ञो यत्पञ्चरात्रः' इत्यत्र तथा दर्शनात् । न न्यूनो नातिरिक्तः सम इत्यर्थः । इदानीमित्यर्थे तु प्रसिद्धमेव । 'एतहिं संप्रतीदानीम्' इत्यमरात् । ततः प्रज्ञादित्वात्स्वार्थेऽण, विनयादित्वात्स्वार्थे ठगपि । तेन सांप्रतं सांप्रतिकमिति पर्यायौ। LETTERYTHRE Page #405 -------------------------------------------------------------------------- ________________ ४०२] सिद्धान्तकौमुदी। तद्धितेषु शैषिकमध्यं दारु । नातिहस्वं नातिदीर्घमित्यर्थः । १३८० द्वीपादनुसमुद्रं यञ् । (४-३-१०) समुद्रस्य समीपे यो द्वीपस्तद्विषयाद् द्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् , द्वैप्या। १३८१ कालाट्ठञ् । (४-३-११) कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रातिकः । पौनःपुनिकः । कथं तर्हि 'शार्वरस्य उत्कर्षापकर्षहीनत्वात्मकसाम्ये वर्तते, तैत्तिरीये 'अनाप्तश्चतूरात्रोऽतिरिक्तः षडात्रोऽथवा एष संप्रति यज्ञो यत्पञ्चरात्रः' इत्यत्र तथा दर्शनात् । पञ्चरात्रो न न्यूनो नाप्यतिरिक्तः, सम इत्यर्थः। संप्रतिशब्दात् स्वार्थे विनयादित्वानि सांप्रतिकम् । प्रज्ञादित्वात् स्वार्थे अणि तु सांप्रतमित्यपि भवति । 'एतर्हि संप्रति' इति को शादिदानीमित्यर्थे ऽपि । प्रकृते तु साम्यं विवक्षितम् । द्वीपादनु । अनुसमुद्रमिति सामीप्ये अव्ययीभावः । अनुसमुद्रमिति सप्तम्यन्तम् , विद्यमानादित्यध्याहायेम्, तदाह--समुद्रस्य समीप इति । द्वैप्येति । 'यजश्च' इति ङीप् तु न, अनपत्याधिकारस्थाद् नेति तन्निषेधात्। कालाट ठञ् । 'कालशब्दस्यैव न ग्रहणम् , किन्तु कालशब्दस्य कालविशेषवाचकानां च ग्रहणम्' इति तदस्य परिमाणम्' 'संख्यायाः-' इति सूत्रभाष्ये स्पष्टम् । तदाह-कालवाचिभ्य इति सायंप्रातिकः पौनःपुनिक इति । उत्कर्षेत्यादि । न्याय्ये विद्यमान एव संप्रतिशब्दोऽत्र गृह्यत इति भावः । द्वीपादनु । समुद्रं समया अनुसमुद्रम् । 'अनुर्यत्समया' इत्यव्ययीभावः । सप्तम्यन्तं चेदम् । विद्यमानक्रियाद्वारा द्वीपविशेषणमित्याशयेनाह-समुद्रसमीपे यो द्वीप इति। कच्छाद्यणो मनुष्यबुञश्चापवादोऽयम् । अनुसमुद्रं किम् , द्वैपमन्यत् । कच्छाद्यण् । द्वैपको मनुष्यः, 'मनुष्यतत्स्थयोः-' इति वुञ् । द्वैप्येति 'यत्रश्च' इति कीन्न भवति । 'अपत्याधिकारस्थादेव यत्रो डीप्' इति प्रागेवोक्तत्वात् । कालाटुञ् । स्वरूपस्यैव न ग्रहणं संधिवलादिसूत्रेण संधिवेलात्रयोदशीचतुर्दशीनभृतिभ्योऽवृद्धेभ्योऽपि ठबाधनार्थमणिवधानात् । किंतु सर्वेषामपि कालवाचिनां ग्रहणमित्याशयेनाहकालवाचिभ्य इति । यत्तु स्वरूपस्य पर्यायाणां च न ग्रहणमिति पदमञ्जर्यादिषु स्थितम् , तदसत् 'कालिकः सम्बन्धः, कालिकी व्याप्तिः' इत्यादिप्रयोगानापत्तेः। न च विशेषाणामेव ग्रहणे सन्धिवेलादिसूत्रेण सन्धिवेलादिभ्योऽरिवधानं ज्ञापकमिति वाच्यम् , तस्य स्वरूपमात्रग्रहणनिरासकत्वेनापि साफल्यात् । गौणमुख्यन्यायस्त्विह नाश्रीयते । तेन कदम्बपुष्पसाहचर्यात्कदम्बपुष्पः कालः, व्रीहिपलालसाहचर्याद् व्रीहिपलालः कालः, तत्र भवं कादम्बपुष्पिकं त्रैहिपलालिकमित्याकरः । अत्र हि प्रमाणं सन्धिवेलादिसूत्रे अनेन कालग्रहणेन नक्षत्राणां विशेषणमेवेत्याहुः । न च पुष्पादिशब्दानां कालो मुख्य एवार्थः, 'लुबविशेष' इति व्युत्पादनात् । तथा च कालविशेषण Page #406 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा तत्त्वबोधिनीसहिता। [४०३ तमसो निषिद्धये' इति कालिदासः। 'अनुदितौषसरागा' इति भारविः । समानकालीनं प्राकालीनमित्यादि च । • अपभ्रंशा एवैते' इति प्रामाणिकाः । 'तत्र जातः' (सू १३६३) इति यावत्कालाधिकारः । १३८२ श्राद्ध शरदः। (४-३-१२) ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् । १३८३ विभाषा रोगातपयोः । (४-३-१३) शादिकः शारदो वा रोग प्रातपो वा । 'एतयोः' किम्-शारदं दधि।१३८४ निशाप्रदोषाभ्यां च (४-३-१४) वा ठञ् स्यात् नैशिकम् , नैशम् । प्रादोषिकम्, प्रादोषम् । १३८५ श्वसस्तुद् च । (४-३-१५) श्वस्शब्दाठ्ठञ् वा स्यात् । तस्य तुडागमश्च । १३८६ द्वारादीनां च । (७-३-४) द्वार, स्वर, स्वाध्याय, व्यल्कश, 'अव्ययानां भमात्रे-' इति टिलोपः । 'सायंचिरम् -' इति ट्यट्यलौ तु न भवतः, 'नस्तद्धिते' इति सूत्रभाष्ये तथा प्रयोगदर्शनात् । शार्वरस्येति । शार्वरिकस्येति भाव्यमिति भावः । अनुदितौषसेति । औषसिकेति भाव्यमिति भावः । समानेति । समानकालिकं प्राक्कालिकमिति भाव्यमित्यर्थः । प्रामाणिका इति । केचित्तु अमुकः पुरतः परेयुरित्यादिवद् एतेऽपि शब्दा अव्युत्पन्नाः, पृषोदरादयो वा साधव इत्याहुः । इति यावदिति । व्याख्यानादिति भावः । श्राद्धे शरदः । ठञ् स्यादिति । शेषपूरणमिदम् । ननु 'काला' इत्येव सिद्धे किमर्थमिदमित्यत आह-ऋत्वण इति । 'संधिवेलातुनक्षत्रेभ्योऽण्' इति वक्ष्यमाणस्येत्यर्थः । शारदिकमिति । शरदि ऋतौ भवमित्यर्थः । शरच्छब्दस्य संवत्सरवाचित्वे तु पूर्वेणैव सिद्धम् । विभाषा रोगातपयोः । 'ठञ्' इति 'शरद' इति चानुवर्तते । शारदं दधीति । ऋत्वणिति भावः । निशाप्रदोषाभ्यां च। वा ठञ् स्यादिति । शेषपूरणम् । 'काला ट्ठञ्' इति नित्यं प्राप्ते विकल्पोऽयम् । श्वसस्तुद् च । तस्येति । प्रत्ययस्येत्यर्थः । मुक्तार्थे न प्रमाणमिति वाच्यम् , पुष्यादिसमीपस्थचन्द्रमसा युक्त काले पुष्यादिशब्दानां गौणत्वात् । 'लुबविशेषे' इति शास्त्रमपि गौणवृत्तित्वान्वाख्यापकमेवेति दिक् । एवं स्थिते 'कालवाचिभ्यः' इति मूलस्य 'कालप्रतिपादकेभ्यः' इति फलितोऽर्थः । श्राद्धमिति । भक्त्या क्रियमाणं पित्र्यं कर्मेत्यर्थः । 'प्रज्ञाश्रद्धार्चाभ्योऽणः' इति मत्वर्थीयेन व्युत्पादितः श्रद्धावान्पुरुषस्तु न गृह्यते, अनभिधानात् । श्वसस्तुद् च । विभाषेत्यनुवर्तनादाह-ठञ् वा स्यादिति । 'ऐषमो ह्यः-' इत्यादिना त्यबपि १ क्वचित् 'स्वानाम' शब्दपाठोऽप्यत्रोपलभ्यते । क्वचिच्च 'स्वाध्याय' शब्दस्यापि पाठो नास्ति। Page #407 -------------------------------------------------------------------------- ________________ ४०४ ] सिद्धान्तकौमुदी । [तद्धितेषु शैषिक > स्वस्ति, स्वर्, स्फ्यकृत् स्वादु, मृदु, श्वस्, श्वन्, स्व एषां न वृद्धिरैजागमश्च । शौवस्तिकम् । १३८७ सन्धिवेलाद्यूतुनक्षत्रेभ्योऽण् । ( ४-३-१६ ) सन्धिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । सन्धिवेला, सन्ध्या, अमावस्या, त्रयोदशी, चतुर्दशी, पौर्णमासी, प्रतिपत् । ' संवत्सरात्फलपर्वणोः' (ग सू १२ ) । सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् । १३८८ प्रावृष एरायः (४-३-१७) तुटि टकार इत् । उकार उच्चारणार्थः । द्वारादीनां च । 'न य्वाभ्याम् -' इति सूत्रं 'पदान्ताभ्याम्' इतिवर्जमनुवर्तते, 'मृजेर्वृद्धिः' इत्यतो 'वृद्धिः' इति च, तदाहएषां न वृद्धिरैजागमश्चेति । द्वारादीनां नादिवृद्धिः, किन्तु यकारवकाराभ्यां पूर्वी ऐजागमौ स्त इत्यर्थः । अत्र यकारवकारयोरपदान्तत्वाद् 'न य्वाभ्यां पदान्ताभ्याम्-' इत्यप्राप्ते वचनमिदम् । शौवस्तिकमिति । श्वस् इत्यव्ययाद् जाताद्यर्थे ठञ इकादेशे तुडागमे वकारात्पूर्वमैजागमेन चौकारः । अकारस्य न वृद्धिः । संधिवेला । कालवृत्तिभ्य इति । कालाट्ठञ्' इत्यतस्तदनुवृत्तेरिति भावः । ठञोऽपवादः । तैषमिति । तिष्ये भवादीत्यर्थः । 'तिष्यपुष्ययोर्नक्षत्राणि -' इति यलोपः । तिष्ये जात इत्यर्थे ' श्रविष्ठाफल्गुनी-' इति लुग्वक्ष्यते । सन्धिवेलादिगणं पठतिसंधिवेलेत्यादि । संवत्सरात्फलपर्वगोरिति । गणसूत्रमिदम् । प्रावृष विकल्पेन विहितः, आभ्यां मुक्के व्यय्यलावपि स्त एव । शौवस्तिकमिति । नन्वन्तरङ्गत्वात् तुटि ठस्य प्रत्ययादित्वाभावात्कर्मठ इत्यत्र ठच इवेकादेशो न स्यात् । न च परत्वादिकादेशे तस्य तुडति वाच्यम्, आदेशात्प्रागेवान्तरङ्गत्वात्तुरः प्रवृत्तेः । इकादेशस्य त्वाङ्गत्वेन बहिरङ्गत्वात् । सूत्रभङ्गेन तुकि हि क्रियमाणे तु 'इसुमुक्तान्तात् -' इति कादेशप्रसङ्ग इति चेत् । सत्यम्, वुञ्छणादिषु ठचश्चित्त्वेन 'एकादेशोऽन्तरनेभ्यो बलवान्' इति ज्ञापितत्वात् । अन्यथा प्रत्ययाद्युदात्तत्वे कृते एकादेशः स्यादिति किं ठचश्चित्त्वेन । कृते त्विकादेशे प्रत्ययस्वरबाधनाय चित्त्वं प्रयुज्यत इति मनोरमायां स्थितम् । संधिवेला । ग्रहणं तु छबाधनार्थम् । अन्यथा 'सन्धिवेलादिभ्यो यथाविहितं प्रत्ययाः स्युः' इत्युक्ते पौर्णमासीशब्दाद् 'वृद्धाच्छः ' स्यात् । वचनं तु ठञो बाधनाय स्यादिति भावः । तैषमिति । तिष्याद्भवादावण् । जातार्थे तु 'श्रविष्ठाफल्गुनी-' इति लुक् स्यात् । 'सूर्यतिष्य -' इत्यत्र 'तिष्यपुष्ययोर्नक्षत्राणि - इति वचनाद्यलोपः । प्रावृष एरायः । ऋत्वणोऽपवादः । प्रवर्षतीति प्रावृद्, 'नहिवृति - ' इति दीर्घः । तत्र भवः । जाते तु ठवं वक्ष्यति । 'रषाभ्याम् -' इति सिद्धे प्रक्रियालाघवार्थं गकारोच्चारणमित्याहुः किंच प्रावृषेण्यमाचक्षाणः प्रावृषेण Page #408 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४०५ प्रावृषेण्यः । १३८६ वर्षाभ्यष्ठक् (४-३-१८) वर्षासु साधु वार्षिकं वासः । 'कालारसाधुपुष्प्यत्पच्यमानेषु' (सू १४१८) इति साध्वर्थे । १३६० सर्वत्राण च तलोपश्च । (४-३-२२) हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पते ऋत्वण । हैमनम् , हैमन्तम् । १३६१ सायंचिरंप्रातेप्रगेऽव्ययेभ्यष्ट्यट्यलौ एण्यः । ऋत्वणोऽपवादः । प्रावृषेण्य इति । प्रावृड् वर्षर्तुः, तत्र भवादित्यर्थः । जाते तु ठप वक्ष्यते । प्रक्रियालाघवार्थ णकारोच्चारणम् । वर्षाभ्यष्टक् । तृतीयतों वर्षाशब्दो नित्यं बहुवचनान्तः, 'अप्सुमनःसमासिकतावर्षाणां बहुत्वम्' इति लिङ्गानुशासनसूत्रात् । 'स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः' इत्यमरः । वर्षाशब्दाजाताद्यर्थे ठगित्यर्थः । वर्षासु साध्विति । हितकारीत्यर्थः । ननु 'तत्र साधुः' इति साध्वधिकारस्य शेषाधिकारबहिर्भूतत्वात्कथं साध्वर्थेऽयं प्रत्यय इत्यत श्राहकालादिति। साध्वर्थ इति । साध्वर्थेऽपि ठगित्यर्थः। अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः। सर्वत्राएच । छन्दसीत्यनुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । लोके वेदे चेत्यर्थः । 'हेमन्ताच्च' इति पूर्वसूत्राद् हेमन्तादित्यनुवर्तते। तदाहहेमन्तादित्यादिना। ननु 'सर्वत्राण तलोपश्च' इत्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह-चकारादिति । हैमनमिति। हेमन्तेत्यत्र तकारात्प्राग नकारस्यानुस्वारपरसवर्णी स्थितौ। तत्र तकाराकारसमुदायस्य लोप इति पक्षे अनिति प्रकृतिभावान्न टिलोपः । तकारस्यैव लोप इति पक्षे तु अकारस्य 'यस्येति च' इति लोपे तस्य भाभीयत्वेनासिद्धत्वात् स्थानिवत्त्वाद्वा न टिलोपः। हैमन्तमिति । इत्यत्र णकारश्रवणार्थमपि तत् । ण्यन्तात्विपि टिलोपणिलोपयलोपाः । सर्वत्राएच । हेमन्तादिति । एतच्च 'हेमन्ताच्च' इत्यतोऽनुवृत्तमिति भावः । हैमनमिति । अकारविशिष्टस्य तशब्दस्य लोपे 'अन्' इति प्रकृतिभावाद् 'नस्तद्धिते' इति टिलोपो न । तकारस्यैव लोप इति पक्षे तु 'यस्येति च' इत्यल्लोपस्याभीयत्वेनासिद्धत्वात्स्थानिवद्भावाद्वा टिलोपो नेति बोध्यम् । हैमन्तमिति । ऋत्वणि तकारलोयो न भवति, तस्य 'सर्वत्राण-' इति प्रतिपदोक्तेन प्रणा संनियोगशिष्टत्वात् । एतच्च प्रत्याख्यातं भाष्ये । तथाहि हेमन्तपर्यायो हेमन्शब्दोप्यस्ति 'हेमन्नागनीगन्ति कौँ' इत्यादिप्रयोगात् , ततश्च हेमन्हेमन्तशब्दाभ्यामृत्वणि हैमनं हेमन्तमिति रूपद्वयं सिद्धम् । छन्दसि तु 'हेमन्ताच्च' इति ठा हैमन्तिकमिति तृतीयमपि रूपं सिध्यति । न च विशेषविहितेन ठा अणो बाधः शङ्कयः, छन्दसि सर्वविधीनां वैकल्पिकत्वात् । वृत्तिकृता तु 'हेमन्ताच' इति सूत्रे सर्वत्रग्रहणमपकृष्य लोकेऽपि हैमन्तिकमिति खीकृतम् । सायंचिरं । नन्वन्तरजत्वात्प्रथमं तुटि ‘मृत्युः' इत्यादाविव त्युशब्दस्य Page #409 -------------------------------------------------------------------------- ________________ ४०६ ] सिद्धान्तकौमुदी | [तद्धितेषु शैषिक तुद् च ( ४-३-२३) सायमित्यादिभ्यश्चतुभ्र्योऽव्ययेभ्यश्च कालवाचिभ्यः व्ययलौ स्तः तयोस्तुट् च । तुटः प्रागनादेशः, 'अनद्यतने - ( सू २१८५ ) इत्यादिनिर्देशात् । सायंतनम् । चिरंतनम् । प्राह्नप्रगयो रेदन्तत्वं निपात्यते । ७७ ऋत्वणि रूपम् । अत्र न तलोपः, तस्य एतत्सूत्र प्रतिपदोक्ताणा संनियोगशिष्टत्वादिति भावः । सायंचिरम् । चतुर्भ्य इति । सायं चिरं प्राह्णे प्रगे इत्येभ्य इत्यर्थः । कालवाचिभ्य इति । 'कालाट्ठञ्' इत्यतस्तदनुवृत्तेरिति भावः । तयोरिति । ट्युट्युलोरित्यर्थः । ननु सायंतनमित्यादौ कथं योरनादेशः । युवोरनाकौ ' इति ह्यङ्गाधिकारस्थम् । अङ्गात्परयोः यु वु इत्येतयोर नाकौ विधीयेते । प्रकृते च अन्तरङ्गत्वात्तुटि यु इत्यस्य अङ्गात्परत्वाभावादनादेशो न संभवति । नच ‘तदागमास्तद्ग्रहणेन गृह्यन्ते' इति न्यायेन त्यु इत्यस्यापि युग्रहणेन ग्रहणात्तस्याङ्गात् परत्वं निर्बाधमिति वाच्यम्, 'निर्दिश्यमास्यादेशा भवन्ति' इति परिभाषया येोरेवाऽनादेशप्राप्तेः तस्य च तुटा व्यवहितत्वादङ्गात्परत्वाभावादित्यत आह - तुटः प्रागनादेश इति । कुत इत्यत आह — अनद्यतने इत्यादि - निर्देशादिति । दिना 'घकालतनेषु -' इत्यत्र तनेति ग्राह्यम् । सायतनमिति । 'षो अन्तकर्मणि' इति धातोर्घञि सायशब्दो दिवसावसाने रूढः तस्माट्टयट्युलौ तयोरनादेशे तुट् प्रकृतर्मान्तत्वं निपात्यते । यत्तु सायमिति स्वरादिपठितमव्ययम्, तस्याव्ययत्वादेव ट्यट्यलौ सिद्धौ । चिरंतनमिति । अत्रापि प्रकृतेमन्तत्वं निपात्यते । श्रस्मादेव लिङ्गाच्चिरमित्यस्याव्ययेषु पठः अप्रामाणिक प्रत्ययतया अङ्गसंज्ञानिमित्तं यो युस्तस्य विधीयमानोऽनादेशो न स्यात् । न चैवं तुगेव क्रियतामिति वाच्यम्, तस्य पूर्वान्तत्वेन विसर्गाभावात्प्रातस्तनमित्यत्र सत्त्वाभावप्रसङ्गात्, अत आह— तुटः प्रागिति । इत्यादीति । आदिशब्देन 'घकालतनेषु -' इति ग्राह्यम् । सायंतनमिति । स्यतेर्घनि सायशब्दोऽकारान्तो दिवसावसाने रूढः, तस्य प्रत्ययसंनियोगेन मान्तत्वं निपात्यत इति वार्तिककृन्मतम् । भाष्यकृता तु 'मान्ताव्ययम्' इत्याश्रित्य सायंग्रहणं प्रत्याख्यातम् । न चैवं सायशब्दात्कालाटूनि अनिष्टरूप प्रसङ्गः । तस्य कालवाचित्वाभावादनभिधानादेत्याहुः । चिरंतनमिति । चिरशब्दस्यापि प्रत्ययसंनियोगेन मान्तता निपात्यत इति भावः । अत्र वदन्ति - स्वरादौ पाठादव्ययत्वादेव सिद्धे सूत्रे चिरमित्येतद्यर्थम् । न चादन्ताचिरशब्दाट्ठञ् स्यादिति वाच्यम्, नेन बाधादिति । एदन्तत्वमिति । प्राह्णः सोढोऽस्य प्राह्णेतनम् इत्याद्यर्थम् । तत्र हि सप्तमी नास्ति । जातार्थे 'घकालतनेषु -' Page #410 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४०७ प्राह्णेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् । 'चिरपरुत्परारिभ्यस्त्रो वक्तव्यः' ( वा २८४२ ) । चिरत्नम् । परुनम् । परारिनम् । ' श्रमादिपश्चाड्डिमच् ' ( वा २८४४ ) । श्रग्रिमम् | आदिमम् । पश्चिमम् । 'अन्ताच्च' ( वा २८४५ ) अन्तिमम् । १३६२ विभाषा पूर्वाह्नापराद्वाभ्याम् ( ४-३ - २४ ) आभ्यां ट्यट्यलौ वा स्तः, तयोस्तुट् च । पते ठञ् । पूर्वाह्णेतनम् । श्रपराह्णेतनम् । ७ 'घकालतनेषु -' ( सू १७५ ) । इत्यलुक् । पूर्वाह्णः सोढोऽस्येति बिग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् । पौर्वाह्निकम् । श्रपराणिकम् । १३६६ तत्र जातः । ( ४-३-२५) सप्तमीसमर्थाजात इत्यर्थेऽणादयो घादयश्च स्युः । इति गम्यते । प्राह्णेतनमिति । प्राणः सोढोऽस्येति विग्रहः, ' तदस्य सोढम् ' इत्यर्थस्य निर्देक्ष्यमाणत्वात् । प्राह्ने जात इत्याद्यर्थे तु 'घकालतनेषु -' इति अलुकैव एदन्तत्वं सिद्धम् । प्रगेतनमिति । प्रगच्छतीति प्रगः तस्मिन् जातादिरित्यर्थः । यत्तु प्रगे इत्यव्ययमदन्तं प्रातरित्यर्थे तस्य त्वव्ययत्वादेव सिद्धम् । अव्ययेभ्य उदाहरति — दोषातनमिति । दोषेत्याकारान्तमव्ययं रात्रौ । दिवातनमिति । दिवेत्याकारान्तमव्ययमह्नि । चिरपरुदिति । चिर, परुत्, परारि एभ्यः नप्रत्यय इत्यर्थः । चिरत्नमिति । ट्युट्युलोरेव प्राप्तयोर्वचनम् । त्नप्रत्ययपक्षे मान्तत्वं न भवति, ट्युट्युलाभ्यां तस्य संनियोगशिष्टत्वात् । परुदिति परारीति चाव्ययं पूर्वस्मिन् पूर्वतरे च वत्सरे क्रमाद्वर्तते । श्रश्रादीति । वार्तिकमिदम् । अग्र, आदि, पश्चाद् एभ्यो डिमच् स्यादित्यर्थः । पश्चिममिति । 'अव्ययानां भमात्रे - ' इति टिलोपः । अन्ताच्च । इदमपि वार्तिकम् । विभाषा पूर्वाद्ध | पक्षे ठञिति । तथा सति न तुद्, तस्य ट्यट्यल्भ्यां संनियोगशिष्टत्वादिति भावः । तदेवं ‘राष्ट्रावार-' इत्यारभ्य एतदन्तैः सूत्रै राष्ट्रादिप्रकृतिविशेषेभ्यो घादयः प्रत्ययविशेषा अनुक्रान्ताः । अथ तेषां प्रत्ययानामर्थविशेषान् प्रकृतीनां च विभक्तिविशेषान् दर्शयितुमुपक्रमते । तत्र जातः । सप्तमीसमर्थादिति । सप्तम्यन्तात्कृत संधेरित्यर्थः । तत्रेत्यनेन सप्तम्यन्तस्यैव प्रथमानिर्दिष्टत्वादिति भावः । अरणादय इति । इत्यलुकापि सिद्धेः । चिरत्नमिति । सूत्रे चिरशब्दस्योपादानात् ट्यट्यलावपि स्तः । न चैवं सूत्रे चिरशब्दस्य प्रत्याख्यानं न सम्भवतीति वाच्यम्, मान्ताव्ययादेव ट्यट्यल्विधौ तत्सम्भवात् । परुत् पूर्वस्मिन् वत्सरे । परारि पूर्वतरे । श्रग्रादीति । डिमचो डित्त्वं स्पष्टार्थम् । तत्र जातः । ननु शेषे इत्यस्य लक्षणत्वोक्तेः 'चाक्षुषं रूपम्, श्रावणः शब्दः' इत्यादाविव जातादिष्वर्थेष्वणादयः सिद्धाः, अधिकाराच्च घादयो 6 ७७ Page #411 -------------------------------------------------------------------------- ________________ ४०८ ] सिद्धान्तकौमुदी । [तद्धितेषु शैषिक , स्रुम्ने जातः स्रौघ्नः । श्रौत्सः । राष्ट्रियः । श्रवारपारीण इत्यादि । १३६४ प्रावृषष्ठप् ( ४-३-२६ ) एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः । १३६५ संज्ञायां शरदो वुञ् । ( ४-३ - २७ ) ऋत्वणोऽपवादः । शारदकाः दर्भविशेषा मुद्गविशेषाश्च । १३६६ उत्तरपदस्य । ( ७-३ - १० ) अधिकारोऽयम्, 'हनस्तः-' ( सू २५७४ ) इत्यस्मात्प्राक् । १३६७ श्रवयवादृतोः । ( ७-३ - ११ ) अवयववाचिनः पूर्वपदाहतुवाचिनोऽचामादेरचो वृद्धिः स्यात् जिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । श्रपरहैमनः । 'श्रवयबात् ' किम् - पूर्वासु वर्षासु भवः पौर्ववर्षिकः । 'ऋतोर्वृद्धिमद्विधाववयवानाम्' अपत्यादिविकारान्तार्थसाधारणा इत्यर्थः । घादय इति । 'राष्ट्रावारपार -' इत्यादिभिः विशेषविहिता इत्यर्थः । प्रावृषष्ठप् । ठपः पित्त्वम् 'अनुदात्तौ सुप्पितौ' इति स्वरार्थम् । एण्यस्येति । 'प्रावृष एण्यः' इति त्रिहितस्येत्यर्थः । एवं च 'प्रावृष एण्यः' इति सूत्रं जातादन्यार्थमिति पर्यवस्यति । संज्ञायां शरदो वुञ् । संज्ञायामित्येतत् 'कृतलब्धकीत -' इत्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः । उत्तरपदस्य । अधिकारोऽयमिति । सप्तमे प्रादिवृद्धिप्रकरणे एतदादिसूत्राणि । अवयवाढतोः । पूर्वपदादिति । परस्येति शेषः । ऋतुवाचिन इति । उत्तरपदस्येति शेषः । पूर्ववार्षिक इति । ऋतुविशेषे वर्षाशब्दो नित्यस्त्रीलिङ्गो बहुवचनान्तः । वर्षाणां पूर्वं पूर्ववर्षाः, तत्र जात इत्यर्थ: । 'पूर्वापराधरोत्तरम्-' इत्येकदेशिसमासः । अपरहैमन इति । हेमन्तस्यापरम् अपरहेमन्तः । तत्र जातादिरित्यर्थः । एकदेशिसमासः । सर्वत्रारच तलोपश्च' इत्यण् तलोपश्च, उत्तरपदादिवृद्धिः । पूर्वासु वर्षास्विते । ' तद्धितार्थे-' इति ऽपि । न च 'जातादिष्वेवाणादयः' इति नियमार्थं जाताद्यर्थनिर्देश आवश्यकः, अन्यथा 'तत्रास्ते, तत्र शेते' इत्याद्यर्थेऽपि प्रत्ययः स्यादिति वाच्यम्, चाक्षुषमित्याद्यसिद्ध्यापत्तेः । ‘स्रुघ्न्ने आस्ते सने शेते' इत्यादौ त्वभिधानादेव तद्धितो न भविष्यति, अङ्गल्या खनत, वृक्षमूलादागत इत्यादौ यथा । समर्थविभक्तयस्त्वापेक्षादेव लप्स्यन्ते । चाक्षुषमित्यत्र तृतीया यथा, तस्मात् 'तत्र जातः' इत्याद्यर्थनिर्देशो व्यर्थ इति चेत् । मैवम्, 'प्रावृषष्ठप्' इत्याद्यपवादार्थं तदावश्यकत्वात् । ये तु निरपवादा अर्थनिर्देशाः 'कृतलब्धक्रीतकुशलाः' इत्यादयः, ते तु व्यर्था एवेति दिक् । संज्ञायां शरदः समुदायेन चेत्संज्ञा गम्यत इत्यर्थः । संज्ञायां किम्, शारदं सस्यम् । 'संज्ञायाम्' इत्येतत् 'कृतलब्ध - ' इत्येतत्पर्यन्तं केचिदनुवर्तयन्तीति वृत्तिकृत् । पूर्ववार्षिक इत्यादि । वर्षाणां पूर्वः, हेमन्तस्यापर इति विग्रहे 'पूर्वापराधरोत्तरम् -' ७ Page #412 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा-तत्त्ववोधिनीसहिता । [ ४०६ ( वा २६० ) इति तदन्तविधिः पूर्वत्र । इह तु न, श्रवयवत्वाभावात् । १३६८ सुसर्वार्थाजनपदस्य । ( ७-३ - १२) उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । ' जनपदतदवध्योः -' ( सू १३४८) इति वुञ् । सुसर्वार्धदिक्छ्ब्देभ्यो जनपदस्य ' ( वा ५५६ ) इति तदन्तविधिः । १३६६ दिशोऽमद्राणाम् । ( ७-३-१३) दिग्वाचकाज्जनपदवाचिनो वृद्धिः । समासः । आदिवृद्धिरेव, न तु उत्तरपदादिवृद्धिः, पूर्वपदस्य श्रवयववृत्तित्वाभावात् । ननु कथमिह 'वर्षाभ्यष्ठक्' इति ठक्, प्रत्ययविधौ तदन्तविधिप्रतिषेधात्, तत्राह — ऋतोरिति । अवयववाचकानां शब्दानामुपरि स्थिताद् ऋतुवाचकाद् वृद्धिनिमित्तकप्रत्यय'विधाने कर्तव्ये तदन्तविधिर्वाच्य इत्यर्थकेन 'येन विधिः -' इति सूत्रभाष्यस्थितवचनेन पूर्वत्र पूर्वमुदाहृते उदाहरणे तदन्तविधिरित्यर्थः । तथा च पूर्ववार्षिक इत्यत्र पूर्वमन इत्यत्र चोदाहरणे 'वर्षाभ्यष्ठक्' इति ठक्, 'सर्वत्राण च तलोपश्च' इत्यण्तलोपौ च सिध्यन्ति । इह तु नेति । प्रत्युदाहरणे तु तदन्तविधिर्नास्ति । पूर्वासु वर्षास्विति सामानाधिकरण्येन पूर्वशब्दस्य श्रवयववृत्तित्वाभावादित्यर्थः । ततश्च प्रत्युदाहरणे पौर्ववर्षिक इत्यत्र 'कालाट्ठञ्' इति ठञेत्र, नतु ठक्, स्वरे विशेषः । पौर्वमन्तिक इत्यत्रापि ठमेवेति भावः । सुसर्वार्थाजनपदस्य । सु सर्व, अर्ध इस्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः। उत्तरपदस्य वृद्धिरिति । शेषपूरणम् । सुपाञ्चालक इति । सुपञ्चालेषु जात इत्यर्थः । जनपदेति । 'जनपदतदवध्योः' इत्यनुवृत्तौ 'वृद्धादपि बहुवचनविषयात्' इति वुमित्यर्थः । ननु 'अवृद्धादपि -' इति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह-सुसर्वेति । सु, सर्व, अर्ध, दिक्शब्द एभ्यः परस्य जनपदवाचिन उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकेन 'येन विधिः -' इति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः । दिशोऽमद्राणाम् । श्रमद्राणामिति च्छेदः । दिग्वाचकादिति । परस्येति शेषः । जनपदवाचिन इति । मद्रवाचिभिन्नस्येत्यपि बोध्यम् । वृद्धिइत्येकदेशिसमासः । पूर्वास्खिति । तद्धितार्थे समासः । ऋतोर्बुद्धिमद्विधाविति । ऋतुवाचिनः शब्दाद् वृद्धिनिमित्तकप्रत्ययविधाने तदन्तविधिर्वाच्यः, स चेदृतुवाची शब्दोऽवयवेभ्यः पर इत्यर्थः । पूर्वत्रेति । पूर्ववार्षिकः, अपरहैमन इत्यत्र । तथा च 'वर्षाभ्यष्ठक्', 'सर्वत्राण् च तलोपश्च' इत्याभ्यां क्रमेण ठगणौ भवतः । वृद्धिमधिकम् पूर्वप्रावृषम् । 'प्रावृष एण्यः' इत्यत्र तदन्तविध्यभावादिह ऋत्वणेव । इह त्विति । पौर्ववार्षिक इत्यत्र । तथा चेह 'कालाट्ठञ्' इति ठञेवेति भावः । अवयवत्वाभावादिति । अन्यथा पूर्वासु वर्षाविति सामानाधिकरण्यं न संगच्छेति भावः । जनपदतदवध्योरितीति । तस्मिन्ननुवर्तमाने 'अवृद्धादपि बहुवचनविषयात् " Page #413 -------------------------------------------------------------------------- ________________ ४१० ] सिद्धान्तकौमुदी। [तद्धितेषु शैषिकपूर्वपाञ्चालकः । 'दिशः ' किम्-पूर्वपञ्चालानामयं पौर्वपञ्चालः । 'अमद्राणाम्' किम्-पौर्वमद्रः । योगविभाग उत्तरार्थः । १४०० प्राचां ग्रामनगराणाम् । (७-३-१४) दिशः परेषां ग्रामवाचिनां नगरवाचिनां चाङ्गानामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वेषुकामशमः । नगरे पूर्वपाटलिपुत्रकः । १४०१ पूर्वाह्णापरालार्दामूलप्रदोषावस्कराद् वुन् । (४-३-२५) पूर्वाह्नकः । अपरालकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः । १४०२ पथ: पन्थ च । (४-३-२६) पयि जातः पन्थकः । १४०३ अमावास्याया वा रिति । श्रादेरिति शेषः । पौर्वपञ्चाल इति । अत्र पूर्वशब्दः कालवाचीति भावः । पौर्वमद्र इति । 'मद्रेभ्योऽञ्' इत्यञ् । ननु 'सुसििदशो जनपदस्यामद्राणाम्' इत्येकसूत्रमेवास्त्वित्यत आह-योगविभाग उत्तरार्थ इति । 'प्राचां ग्रामनगराणाम् ' इत्युत्तरसूत्रे दिश एव संबन्धो यथा स्यादित्येवमर्थमित्यर्थः । एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्रशब्दस्य पर्युदासः प्रसन्थेतति इहार्थोऽपीत्येके । प्राचां ग्रामनगराणाम् । दिश इति । दिशः परे रे प्राच्यग्रामवाचिनः प्राच्यनगरवाचिनश्च तेषामवयवस्यादेवृद्धिः स्यादित्यर्थः। पूर्वेषुकामशम्यामिति । 'दिक्संख्ये संज्ञायाम्' इति समासः । अण । संज्ञात्वाद् 'दिक्पूर्पदात्-' इति ओ न । समुदायस्य ग्रामनामत्वेऽपि उत्तरपदस्यापि तन्नामत्वमस्तीति उत्तरपदादिवृद्धिः । नगरेति । उदाहरणसूचनम् । पूर्वपाटलिपुत्रक इति । 'पूर्वापरप्रथम-' इति समासः । 'अवृद्धादपि-' इति वुञ् । यद्यपि पाटलीपुत्रशब्दे उतरपदे आदिवृद्धिरेव। तथापि पूर्वपदस्य वृद्धिनिवृत्तिः फलम् । पूर्वाह्नापराह्न । पूर्वाह्नकः, अपरालक इति । पूर्वाह्ने अपराह्ने च जात इत्यर्थः । 'विभाषा पूर्वाह्लापराह्नाभ्याम्' इत्यस्यापवादः । ट्यट्यलोः ठञश्च विकल्पस्तु जातादन्याथै सावकाश इति भावः। आर्द्रकः । मूलक इति । आर्द्रायां मूले व जात इत्यर्थः । ऋत्वणोऽपवादः। प्रदोषक इति । 'निशाप्रदोषाभ्याम्' इत्यस्यापवादः । अवस्करक इति। श्रौत्सर्गिकस्याणोऽपवादः। पथः पन्थ च । पथिन्शब्दाद् वुन स्यात् प्रकृतेः पन्थादेशश्च । अमावास्याया वा। वुनिति शेषः। पक्षे इत्यनेनेत्यर्थः । पौर्वमद इति । 'मद्रेभ्योऽञ्' इत्यञ् । पूर्वाह्नक इति । 'विभाषा पूर्वाह्नापरानाभ्याम्' इत्यस्यापवादः । आर्द्रकः । मूलक इति। नक्षत्राणोऽपवादः । प्रदोषक इति । 'निशाप्रदोषाभ्यां च' इत्यस्यापवादः । अवस्करक इति । औत्सर्गिकस्याणोऽपवादः । ये तु 'संज्ञायाम्' इत्येतत् 'कृतलब्ध-' इत्येतत्पर्यन्तमनुवर्तयन्ति तन्मते असंज्ञायां यथायथमणादयो घादयश्च बोध्याः। अमावास्याया वा। Page #414 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ४११ (४-३-३० ) अमावास्यकः, अमावास्यः । १४०४ अ च । ( ४-३-३१ ) अमावास्यः । १४०५ सिन्ध्वपकराभ्यां कन् । ( ४-३ - ३२) सिन्धुकः । कच्छाद्यणि मनुष्य वुनि च प्राप्ते, अपकरकः । श्रौत्सर्गिकेऽणि प्राप्ते । १४०६ अणञौ च । ( ४-३ - ३३ ) क्रमारस्तः । सैन्धवः । श्रपकरः । १४०७ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल लुक् । (४-३-३४ ) एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् संधिवेलादित्वादन् । एकदेशविकृतन्यायादमावस्याशब्दादप्ययं विधिः । अ च । इति लुप्तप्रथमाकम् । श्रमावास्याशब्दादकारः प्रत्ययोऽपीत्यर्थः । श्रादिवृद्धयभावः प्रयोजनम्। सिंध्वपकाराभ्यां कन् । सिन्धुक इति । सिंधौ जात इत्यर्थः । कच्छादीति । 'कच्छादिभ्यश्च' इत्यणि 'मनुष्यतत्स्थयोश्च' इति वुनि च प्राप्ते अयं कन्विधिरित्यर्थः। अपकरक इति । अपकरे जात इत्यर्थः । अणि प्राप्त इति । कन्विधिरिति शेषः । श्रणञौ च क्रमात् स्त इति । सिन्ध्वपकाराभ्यामिति शेषः । श्रविष्ठा । एभ्य इति । श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्य, पुनर्वसु, हस्त, विशाखा, अषाढा, बहुला एतेभ्य इत्यर्थः । जातार्थेति । प्रकरणलभ्यमिदम् । स्वातिशब्दो हस्वान्त इति कैयटहरदत्तौ । दीर्घान्त इति सन्धिवेलाद्यणोऽपवादः । 'अमावस्यदन्यन्तरस्याम्' इति सूत्रेणामापूर्वाद्वर्ण्यति वृद्ध पक्षे ह्रस्वत्वं निपात्यत इति ह्रस्वमध्यस्याप्यमावस्याशब्दस्येह ग्रहणम्, प्रकृतिग्रहणे विकृतेरपि ग्रहणात् । श्रमावस्यकः । आमावस्यः । ये त्विह सूत्रे सन्धिवेलादिषु च ह्रस्वोपधं पठन्ति, तेषां तु दीर्घोपधस्य न स्याद् विकृतिग्रहणेन प्रकृतेर प्रहणादिति हरदत्तादयः । वस्तुतस्तु वृद्धिप्रकृतिभूतस्यानुकरणमिदमित्याश्रित्य हखोपधपाठोऽपि समर्थयितुं शक्यत इत्यन्ये । अ च । अमावास्याशब्दादकारप्रत्ययः स्यात् । श्रयमपि पूर्ववदुभाभ्यां बोध्यः । अमावास्य इति । ह्रस्वमध्यात्तु अमावस्यः । अणञौ च । यथासंख्यार्थो योगविभागः । श्रविष्ठा । इह सूत्रे स्वातिशब्दो हवन्त इति कैयटहरदत्तादयः । माधवस्तु 'दीर्घान्तः' इति 'अंत सातत्यगमने' इति धातावाह | एवं चात्र स्वातीतिष्येति ङीषन्तग्रहणादङीषन्तस्य सौवात इति रूपं भवार्थ इव जातार्थेऽपि माधवमते सिध्यत्येव । कैयटादिमते तु जातार्थे न सिध्यति । लुग्विधायकेऽस्मिन् ङीषन्तप्रहणेऽपि लिङ्गविशिष्टपरिभाषया ङीषन्तादपि अणो लुकः प्रवृत्तेः । उपसर्जनेति । श्रप्रधानमिहोपसर्जनं गृह्यते, न शास्त्रीयमसम्भवात् । ननु 'गोस्त्रियोः-' इति सूत्रेऽप्यप्रधानलक्षणमेवोपसर्जनं गृह्यताम्, 'एकविभक्ति च -' इति शास्त्रीयं न न गृह्यताम् । मैवम्, हरीतक्याः फलानि हरीतक्य इत्यत्र हस्वप्रसङ्गात् । उपसर्जनस्य Page #415 -------------------------------------------------------------------------- ________________ ४१२] सिद्धान्तकौमुदी। [तद्धितेषु शैषिकस्यात् । १४०८ लुक्तद्धितलुकि । (१-२-४६ ) तद्धितलुकि सत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि । 'चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् ' (वा २८५७)। चित्रायां जाता चित्रा। खेती रोहिणी प्राभ्यां ' लुक्नद्धितलुकि ' इति लुकि कृते पिप्पल्यादेराकृतिगणस्वात्पुनर्जीए । ' फल्गुन्यषाढाभ्यां टानौ वक्तव्यो' (वा २८५८) । स्त्रियामिस्येव । फल्गुनी । अषाढा । ' श्रविष्ठाषाढाभ्यां छण्वक्तव्यः' (वा २८५६)। 'अत सातत्यगमने' इति धातौ माधवः । कृत्तिकावाचिबहुलाशब्दष्टावन्तः। समाहारद्वन्द्वे ह्रस्वनिर्देशः । लुक तद्धितलुकि । प्रथमस्य द्वितीये इदं सूत्रम् । उप. सर्जनस्त्रीप्रत्ययस्येति । 'गोस्त्रियोरुपसर्जनस्य' इत्यतस्तदनुवृत्तेरिति भावः । श्रविष्ठ इति । ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः । 'लुक् तद्धितलुकि' इत्यत्र अप्रधानमेवोपसर्जनम् , नतु शास्त्रीयम् , असंभवादिति भावः । फल्गुन इति । फल्गुन्योः जात इत्यर्थः । अणो लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनुराधासु जातः अनुराधः । नक्षत्राणो लुकि स्त्रीप्रत्ययनिवृत्तिः एवमग्रेऽपि । “अनुराधान् हविषा वर्धयन्तः' इत्यादौ छान्दसं पुंस्त्वम् । स्वात्यां जातः स्वातिः। तिष्ये जातः तिष्यः। पुनवस्वोर्जातः पुनर्वसुः। हस्ते जातो हस्तः। विशाखयोर्जातो विशाखः । अषाढासु जातः अषाढः । बहुलासु जातः बहुलः । चित्रेति । चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः। रेवतीरोहिणीति । जातायां नक्षत्राणो लुकि सति प्रकृतेगौरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्जीष् । ननु रेवती नक्षत्रे रोहिणी नक्षत्रे इति गौरादौ पाठादिह जातार्थवृत्तिभ्यां कथं डीषित्यत आह-आभ्यामिति । रेवतीरोहिणीशब्दाभ्यामित्यर्थः। परस्य स्त्रीत्वविशिष्टजातार्थप्रत्ययस्येति शेषः। प्राकृतिगणत्वादिति । स्त्रीत्वविशिष्टजातार्थवृत्त्योरनयोः पिप्पल्यादौ निवेशे भाष्योदाहरणमेव प्रमाणम् । स्त्रियामित्येवेति । तथा भाष्यादिति भावः । फल्गुनी, अषाढा इत्याभ्यां क्रमात् टः अन् च स्त्रीत्वविशिष्टजातार्थे वक्तव्यावित्यर्थः । फल्गुनीति । फल्गुन्योर्जातेत्यर्थः । नक्षत्राणोऽपवादः टप्रत्ययः। 'यस्येति च' इति इकारलोपः । जातार्थस्त्रीत्वे टित्त्वाद् डीप् । अषाढेति । अषाढासु जातेत्यर्थः । नक्षत्राणोऽपवादः अन् , 'यस्येति च' 'किम् , अवन्ती, कुन्ती, कुरूः । श्रविष्ठाखिति । श्रविष्ठा, धनिष्टा । इत्यादीति । श्रादिशब्दादनुराधः, खातिः, तिष्यः, पुनर्वसुः, हस्तः, विशाखः, अषाढः, बहुलः । कृत्तिकावाची बहुलाशब्दष्टाबन्तः, तस्य समाहारद्वन्द्वेन ह्रखनिर्देशः सूत्रे । उपसंख्यानमिति । लुक इति शेषः । चित्रेति । 'लुक्तद्धित-' इति लुकि पुनष्टाप् । Page #416 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४१३ न स्त्रियामपि । श्राविष्ठीयः I आषाढीयः । १४०६ जे प्रोष्ठपदानाम् । ( ७-३-१८) प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे जिति णिति किति च । प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः । ' जे ' इति किम् - प्रोष्ठपदासु भव: प्रोष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भद्रपादः । १४९० स्थानान्तगोशालखरशालाच्च । ( ४-३-३५ ) एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थाने जातो गोस्थानः । गोशालः । खरशालः । ' विभाषा सेना -' ( सू ८२८ ) इति नपुंसकत्वे ह्रस्वत्वम् । १४११ वत्सशालाभिजिदश्वयुक्तभिषजो वा । ( ४-३ - ३६ ) एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः, वात्सशाल इत्यादि । 'जातार्थे प्रतिप्रसूतोइत्याकारलोपः । जातार्थे स्त्रीत्वे टाप् । 'श्रविष्ठाफल्गुनी -' इत्यादिना टानोर्लुक् तु न, विधानसामर्थ्यात् । छण्वक्लव्य इति । नक्षत्राणोऽपवादः । विधिसामर्थ्यादस्यापि लुक् | अस्त्रियामपीति । अत्र स्त्रियामिति न संबध्यते, भाष्ये तथोदाहरणादिति भावः । श्राविष्ठीय इति । श्रविष्टासु जात इत्यर्थः । छण्, ईयः, 'यस्येति च' इत्याकारलोपः । णित्त्वादादिवृद्धिः । आषाढीय इति । अषाढासु जात इत्यर्थः । जे प्रोष्ठपदानाम् । आदिवृद्धिप्रकरण उत्तरपदस्येत्यधिकारे इदं सूत्रम्, तदाहप्रोष्ठपदानामिति । जशब्देन जातार्थप्रत्ययो विवक्षितः, तदाह – जातार्थ इति । प्रोष्ठपदानामिति बहुवचनस्य प्रयोजनमाह - बहुवचनेति । भद्रपाद इति । भद्रपदासु जात इत्यथः । स्थानान्तगोशाल । एभ्य इति । स्थानान्त, गोशाल, खरशाल एतेभ्य इत्यर्थः । गोस्थान इति । गोस्थाने जात इत्यर्थः । गोशाल इति । गोशाले जात इत्यर्थः । एवं खरशालः । सर्वत्र अणो लुकि नादि - वृद्धिः । ननु शालाशब्दस्य स्त्रीलिङ्गत्वाद् हस्वनिर्देशोऽनुपपन्न इत्यत आह- - विभाषा सेनेति । लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि लुक् । वत्सशालाभिजित् । एभ्य इति । वत्सशाला, अभिजित् श्रश्वयुज्, शतभिषज् इत्येभ्य इत्यर्थः । परस्येति शेषः । इत्यादीति । अभिजिति जात अभिजितः, अभिजित् । श्रश्वयुजो नाविति । विधानसामर्थ्यादेतयोर्न लुक् । स्थानान्त । गोशालेत्यत्र ' विभाषा सेना-' इति नपुंसकत्वे ह्रस्वत्वं तत्साहचर्यात्खरशालेऽप्येवमेव । न चैवं स्त्रीत्वपक्षे लुङ् न स्यादिति शङ्कयम्, लिङ्गविशिष्टपरिभाषया तत्रापि लुसिद्धेरित्याहुः । यद्यपि टाबन्तयोः पाठेऽप्येकदेशविकृतन्यायेन क्लीबेऽपीष्टं सिध्यति, तथापि लाघवार्थं हखपाठः । नपुंसकत्वे ह्रस्वत्वमिति । सूत्र इति शेषः । वत्सशाले जात इति । वत्सशालायामित्यपि बोध्यम् । इत्यादीति । श्रादिशब्दादभिजित्, अभिजितः, Page #417 -------------------------------------------------------------------------- ________________ ४१४ ] सिद्धान्तकौमुदी। तद्धितेषु शैषिकऽण्वा डिद्वक्तव्यः (वा २६६०) । शातभिषजः, शातभिषः, शतभिषक् । १४१२ नक्षत्रेभ्यो बहुलम् । (४-३-३७) जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः, रौहिणः। १४१३ कृतलब्धकीतकुशलाः । (४-३-३८) 'तत्र' इत्येव । स्त्रने कृतो लब्धः क्रीतः कुशलो वा स्रौनः। १४१४ प्रायभवः। (४.-३-३६) 'तत्र' इत्येव । खप्ने प्रायेण बाहुल्येन भवति स्रौघ्नः । १४१५ उपजानूपकर्णोपनीवेष्ठक। (४-३-४०) औपजानुकः । औपर्जात आश्वयुजः, अश्वयुक् । शतभिषजि जातः शातभिषजः, शतभिषक् । जातार्थ इति । 'कालाठ्ठञ्' इति ठा निवर्तित औत्सर्गिकोऽण् सन्धिवेलादिसूत्रेण पुनरु. त्थितो डिद्वा वक्तव्य इत्यर्थः । 'दृष्टं साम' इति सूत्रभाष्ये इदं वार्तिकं दृष्टम् । शातभिष इति । अणि डित्त्वपक्षे टिलोपः। नक्षत्रेभ्यो बहुलम् । रोहिण इति । रोहिण्यां जात इत्यर्थः । नक्षत्राणो लुकि आदिवृद्धिनिवृत्तौ 'लुक् तद्धितलुकि' इति स्त्रीप्रत्ययनिवृत्तिः । नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यम् , न हि रोहितशब्दोऽयं वर्णविशेषवाचकः, येन 'वर्णादनुदात्तात्--' इति ङीपो निवृत्तौ तकारोऽपि निवर्तेत । किंतु रोहिणीशब्दोऽयमव्युत्पन्नो नक्षत्रविशेषे रूढः। 'रोहिणी नक्षत्रे' इति गौरादिपाठाद् ङीष् । अत एव 'रोहिणी नक्षत्रं प्रजापतिर्देवता' इत्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते। अन्यथा 'वर्णानां तणतिनितान्तानाम्' इति आयुदात्तत्वं स्यादित्यलम् । कृतलब्ध । तत्रेत्येवेति । 'तत्र जातः' इत्यतस्तत्रेत्येवानुवर्तते । जात इति तु निवृत्तमित्यर्थः। तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्व यथायथं स्युरित्यर्थः । स्रौन इति। श्रौत्सगिकोऽण । राष्ट्र कृतो राष्ट्रिय इत्याद्यप्युदाहार्यम् । प्रायभवः। तत्रेत्येवेति । प्रायभव इत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः। प्रायशब्दस्य व्याख्यानम्-बाहुल्येनेति । तत्र भव इत्येव सिद्धत्वात् प्रत्याख्यातमिदं भाष्ये । उपजानूपकर्ण । प्रायभव इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यः ठगित्यर्थः । अश्वयुक्, आश्वयुजः । प्रतिप्रसूत इति । कालाढा निवर्तमानो य औत्सर्गिकोऽण् 'सन्धिवेलादि-' सूत्रेण पुनरभ्यनुज्ञात इत्यर्थः । कृतलब्ध । ननु कृतक्रीतत्वे जातलब्धत्वयोप्प्ये इति किमनयोर्ग्रहणेन । सत्यम् , कृतत्वक्रीतत्वप्रकारकबोधेऽपि प्रत्ययार्थ तद्ग्रहणम् । अतएव जाते लुग्भाजामपि कृते न लुक् । प्राय । कादाचित्कभवनाश्रयः प्रायभवः । तेन 'तत्र भवः' इत्यनेन न गतार्थतेत्याहुः । भाष्ये तु प्रत्याख्यातमेतत् । 'प्रायभवग्रहणमनर्थकं तत्र भवेन कृतत्वात्' इति । उपजानूप । त्रयोऽप्यमी सामीप्येऽव्ययीभावाः । तेषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । Page #418 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४१५ कर्णिकः । औपनीविकः । १४१६संभूते । (४-३-४१) नन्ने संभवति स्रौनः । १४१७ कोशाड्ढञ् ।। ४-३-४२) कौशेयं वस्त्रम् । १४१८ कालात्साधुपुष्ष्यत्पच्यमानेषु। (४-३-४३) हेमन्ते साधुहेमनः प्रावारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः। १४१६ उप्ते च। (४-३-४४) हेमन्ते उप्यन्ते हैमन्ता यवाः । १४२० अाश्वयुज्या वु । (४-३-४५) ठोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजया माषाः । उपजान्वादिषु सामीप्येऽव्ययीभावः । औपजानुक इति । जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः। उगन्तात्परत्वात् ठस्य कः । औपकर्णिक इति । कर्णस्य समीपमुपकर्णम् , तत्र प्रायभव इत्यर्थः । औपनीविक इति । नीवः समीपमुपनीवि, तत्र प्रायभव इत्यर्थः । संभूते । तत्रेत्येव । सप्तम्यन्तात्सम्भूतेऽर्थे अणादयो घादयश्च यथायथं स्युरित्यर्थः । संभवः संभावना। कोशाड्ढञ् । कौशेयं वस्त्रमिति । कृमिविशेषकोशस्य विकार इत्यर्थः, 'विकारे कोशाड्ढञ्' इति वार्तिकात् । कालात्साधुपुष्प्यत् । तत्रेत्येव । साधुः, पुष्प्यत् , पच्यमानम् इत्यर्थेषु सप्तम्यन्तायथाविहितं प्रत्ययाः स्युरित्यर्थः 'पुष्प विकसने' इति देवादिकाल लटः शतरि पुष्प्यदिति भवति । हैमनः प्रावार इति । 'सर्वत्राण च तलोपश्च' इत्यणि तलोपः । वासन्त्य इति । 'टिड्ढ-' इति ङीप् । शारदा इत्यत्र ऋत्वण । 'तत्र भवः' इति यावत् कालादित्यनुवर्तते । उप्ते च। तत्रेत्येव । कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः । उप्यन्त इति । 'डुवप् वीजसन्ताने' भूतकालस्त्वविवक्षित इति भावः। आश्वयुज्या वुञ् । तत्रोप्त इत्येव । सप्तम्यन्तादाश्वयुजीशब्दाद् उप्तेऽर्थे वुञ् स्यादित्यर्थः । ठोऽपवाद इति । 'काला' इति विहितस्येत्यर्थः । आश्वयुजका माषा इति । अश्वयुग्भ्यां युक्ता पौर्णमासी संभूते । इह तन्त्रादिना सम्भावना, आधारपरिमाणादाधेयस्यानतिरेकश्चेति द्वयमप्याश्रीयते । सौन इति । स्रघ्ने सम्भाव्यते तत्परिमाणानतिरिक्तो वा सेनादिरित्यर्थः । कोशात् । कौशेयमिति । वस्त्रविशेषे योगरूढोऽयम् । कोशे सम्भवस्तु सत्कार्यवादाभिप्रायेण । मतान्तरे तु विकारप्रकरणे 'एण्या ढञ्' इत्यस्यानन्तरं 'कोशाच्च' इति पठितव्यम् । तथा च वार्तिकं 'विकारे कोशाड्ढञ् संभूते ह्यर्थानुपपत्तिः' इति । कालात् । पुष्प्यदिति देवादिकः शत्रन्तस्तदाह-पुष्प्यन्तीति । उप्ते च । कालादित्येव । योगविभाग उत्तरार्थः । उप्यन्त इति । सूत्रे भूतकालोऽतन्त्रमिति भावः । आश्वयुज्या वुञ् । नकारः स्वरार्थ उत्तरत्र वृद्ध्यर्थश्च । आश्वयुज्या. मिति । अश्विनीनक्षत्रपर्यायः अश्वयुक् , तयुक्ता पौर्णमासी आश्वयुजी तत्रेत्यर्थः । Page #419 -------------------------------------------------------------------------- ________________ ४१६ ] सिद्धान्तकौमुदी। [तद्धितेषु शैषिक१४२१ ग्रीष्मवसन्तादन्यतरस्याम् । (४-३-४६) पक्षे ऋस्वण । प्रैष्मकम् , ग्रैष्मम् । वासन्तकम् , वासन्तम् । १४२२ देयमृणे। (४-३-४७) 'कालात्' इत्येव । मासे देयमृणं मासिकम् । १४२३ कलाप्यश्वत्थयवसाद वुन् । (४-३-४८) यस्मिन्काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी । तत्र देयमृणं कलापकम् । अश्वत्थस्य फलमश्वत्थः। तद्युक्नः कालोऽप्यश्वत्थः । यस्मिन्काले अश्वस्थाः फलन्ति, तत्र देयमृणमश्वत्थकम् । यस्मिन्यवबुसमुत्पद्यते तत्र देयमणं यवबुसकम् । १४२४ ग्रीष्मावरसमाद वुञ्। (४-३-४६) प्रीष्मे देयमृणं प्रैष्मकम् । आवरसमकम् । १४२५ संवत्सराग्रहायणीभ्यां ठश्च । (४-३-५०) चाद् वुञ् । सांवत्सरिकम् , सांवत्सरकम् । अाग्रहायणिकम् , आग्रहायणकम् । १४२६ व्याहरति मृगः। (४-३-५१) कालवाचिनः श्राश्वयुजी, तत्रोप्ता इत्यर्थः । ग्रीष्मवसन्तात् । प्रीष्माद् वसन्ताच्च सप्तम्यन्तादुप्ते वुञ् वेत्यर्थः । देयमृणे । कालादित्येवेति । तत्रेत्यप्य नुवर्तते । बुअिति निवृत्तम् । सप्तम्यन्तात्कालवाचिनो देयमित्यर्थे यथाविहितं प्रत्यया. स्युः । तस्मिन् देयद्रव्ये ऋणे सतीत्यर्थः । मासिकमिति । 'काला' । कलाप्यश्वत्थ । कलापिन्, अश्वत्थ, यवबुस एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन् स्यादित्यर्थः । कलापकमिति । वुन् , अकादेशः, 'नस्तद्धिते' इति टिलोपः । अश्वस्थस्य फलमश्वत्थ इति । विकारप्रत्ययस्य फले लुगिति भावः । अश्वत्थशब्दस्य प्लक्षादित्वे तु ततः ‘प्लादिभ्योऽण' इति फले अणो विधानसामर्थ्याल् लुगभावे अश्वत्थशब्दः फले लाक्षणिक इति भावः। ग्रीष्मावरसमादञ्। समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः । ग्रीष्म अवरसमा अनयोः समाहार द्वन्द्वात्पञ्चमी । तत्र देयमणमित्यर्थे आभ्यां बुनित्यर्थः । आवरसमकमिति । अवरासु समासु देय. मृणमित्यर्थः । तद्धितार्थ-' इति समासः । संवत्सराग्रहायणीभ्यां ठञ् च । देयमृणमित्यर्थे सप्तम्यन्तादिति शेषः। सन्धिवेलादिगणे 'संवत्सरात् फलपर्वणोः' इति पठितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तः अण् अनेन ठना बाध्यते । देयमृणे । ऋणे किम् , मासे देया भिक्षा । अश्वत्थ इति । ‘फले लुक्' । इह पुंल्लिङ्गनिर्देशो यद्यप्ययुक्तः, तथापि फले अश्वत्थशब्द औपचारिक इत्याशयेन पुँल्लिङ्गप्रयोग इत्याहुः । ठञ्चेति । 'संवत्सराग्रहायणीभ्यां वा' इत्येव स्वचम् । न च 'वा' इति वक्तव्ये ठग्रहणं व्यर्थम् , सन्धिवेलादिषु 'संवत्सरात्फलपर्वणोः' इति पठ्यते, तत्र फले ऋणत्वेन विवक्षिते अणं बाधित्वा ठओव यथा स्यादिति काशिकादावुक्तमिति वाच्यम् , तस्मै हितास्तद्धिता इत्यन्वर्थसंज्ञाकरणबलेनात्राएप्रत्ययो न भवेदिति वक्तुं Page #420 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा-तत्वबोधिनीसहिता। [४१७ सप्तम्यन्ताच्छन्दायते इत्यर्थे अणादयः स्युः, यो ग्याहरति स मृग । निशायां व्याहरति नैशो मृगः, नैशिकः । १४२७ तदस्य सोढम् । (४-३-५२) • कालात् ' इत्येव । निशासहचरितमध्ययनं निशा, तस्सोढमस्य नैशिकः नैसः। १४२८ तत्र भवः । (४-३-५३) नो भवः सोमः । राष्ट्रियः । १४२६ दिगादिभ्यो यत् । (४-३-५४) दिश्यम् । वय॑म् । १४३० शरीरावयवाच्च । (४-३-५५) हन्स्यम् । कएव्यम् । १४३१ प्राचां नगरान्ते (७-३-२४ ) प्राचा देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादरचो वृद्धिव्याहरति मृगः । तत्र कालादित्येव । देयमृण इति निवृत्तम् । तदस्य सोढम् । अस्मिन्नर्थे प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युः। सोढमित्यस्य अभ्वस्त मित्यर्थः । नैशिकः, नैश इति । 'निशाप्रदोषाभ्यां च' इत्यराठो। तत्र भवः । कालादिति निवृत्तम् । अस्मिन्नर्थे सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । भवनं सत्ता, जननमुत्पत्तिरिति भेदः । स्रौन इति । औत्सर्गिकोऽण । राष्ट्रिय इति । 'राष्ट्रावार-' इति घ । दिगादिभ्यो यत् । भव इत्यर्थे सप्तम्यन्तेभ्य इति शेषः। दिश्यमिति । दिशि भवमित्यर्थः । शरीरावयवाच्च । भव इत्यर्थे सप्तम्यन्तेभ्य इति शेषः । दन्त्यमिति । दन्ते भवमित्यर्थः । यस्येति च' इत्यकारलोपः । एवं कण्ठ्यम् । प्राचां नगरान्ते । अगस्येत्यधिकृतं नगरान्ते इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते । 'उत्तरपदस्य' इत्यधिकृतम् । 'हृद्भगसिन्ध्वन्ते-' इति सूत्रात् 'पूर्वपदस्य' इत्यनुवर्तते । तदयमर्थः-प्राची यन्नगर तदन्ते अङ्गे पूर्वपदस्योत्तरपदस्य च अचामादरचो वृद्धिः स्याद् निति णिति किति च तद्धित इति । सुह्मनगरमिति पुण्ड्रनगरमिति च प्राग्देशस्य पूर्वाशक्यत्वादिति नव्याः । नैशिक इति । 'निशाप्रदोषाभ्यां च' इति वा ठञ् । तत्र भवः । 'कालात्' इति निवृत्तम् । कालसम्बद्धस्य 'तत्र' इत्यस्य निवृत्तये पुनस्तत्र. ग्रहणात् । न च पूर्वसूत्रस्थस्य 'तत्' इत्यस्य व्यावृत्तये तत्रग्रहणमस्त्विति वाच्यम् , 'तदस्य-' इति सूत्रस्येत उत्तरत्रापि सुपठत्वात् । यद्यपि भूधातुरुत्पत्तावपि वर्तते तथापीह सत्तार्थ एव वर्तते, 'तत्र जातः' इति पृथग्ग्रहणादिति बोध्यम् । दिगादिभ्यो । 'दिश् , वर्ग, पूग, पक्ष, रहस् , उखा, साक्षिन्, आदि, अन्त, मुख, जघन, मेघ, यूथ, 'उदकात्संज्ञायाम्' न्याय, वंश, कालेत्यादिदिगादिः । मुखजघनयोः पाठोऽत्राशरीरावयवाथेः । सेनाया मुखे जघने च भवं मुख्यम् , जघन्यम्, प्राचां नगरान्ते । सप्तमीनिर्देशाद् 'अगस्य' इत्यधिकृतमपि सप्तम्यन्तेन विपरिणम्यते, १ 'पूर्वान्तावयवः' इति क. । Page #421 -------------------------------------------------------------------------- ________________ ४१८ ] सिद्धान्तकौमुदी । 'तद्धितेषु शैषिक fifa fur faa च । सुझनगरे भवः सौझनागरः । पौयडूनागरः । 'प्राचाम् ' किम्-मद्रनगरम् उदनु, तत्र भवो माद्रनगरः । १४३२ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् । ( ७-३-२५ ) जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य तु वा त्रिति णिति किति च । कुरुजाङ्गले भवं कौरुजङ्गलम्, कौरुजाङ्गलम् । वैश्वधेनवम्, वैश्वधैनवम् । सौवर्णवलजम्, सौवर्णवालजम् । १४३३ इतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् । ( ४-३-५६ ) दार्तेयम् । कौक्षेयम् । कल्लशिर्घटः, तत्र भवं कालशेयम् । १४३४ ग्रीवाभ्योऽण् च । ( ४-३-५७ ) चाड्ढम् । प्रैवेयम्, प्रैवम् । १४३५ गम्भीराञ्यः । 1 तावधिः । मद्रनगरम् । उददिषति । उदग्देशे मद्रनगरं नाम किञ्चिन्नगरमस्ती - अर्थः । जङ्गलधेनु । जङ्गलाद्यन्तस्याङ्गस्येति । जङ्गल, धेनु, वलज इत्यन्तस्येत्यर्थः । कुरुजङ्गल इति । भवमिति शेषः । कुरुङ्गलादिशब्दा देशविशेषेषु । दृतिकुक्षि । भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि इत्ये भ्यः सप्तम्यन्तेभ्य इति शेषः। दार्तेयमिति । दृत्तौ भवमित्यर्थः । ढञ्, एयः, श्रदिवृद्धिः, रपरत्वम् । दृतिश्चर्म भस्त्रिका | कौक्षेयमिति । धूमादित्वाद् वुञि प्राप्ते ढय् । कलशिर्घट इति । 'कलशिर्मथनपात्रम्' इत्यमरव्याख्यातारः । ' वस्ति भरधो द्वयोः' इत्यमरः । तत्र भवो वास्तेयः । श्रस्तीति विभक्तिप्रतिरूपकमव्ययम् । सत्तायां धने चेति न्यासकारो हरदत्तश्च । तत्र भव स्तेयः । श्रहिः सर्पः, तत्र भव आहेयः । ग्रीवाभ्योऽण् च । 'शरीरावयवाच्च' इति यतोऽपवादः । ग्रीवाशब्दोऽयं धमनीसंघे वर्तते । तत्र उद्भूतावयवभेदसंघविवचायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम्। तिरोहितावयवभेदविवक्षायां एकवचनान्तादप्यraौ स्त एव । गम्भीराञ्ज्यः । गाम्भीर्यमिति । यविधौ तु स्त्रियां 'प्राचां तदाह – नगरान्तेऽङ्ग इति । दृतिकुक्षि । दृतिश्चर्मविकारः, शरीरावयवविशेषश्च । कुक्षिशब्दो धूमादिस्ततो 'धूमादिभ्यश्च' इति वुनि प्राप्ते अनेन ढञ् । कलशिर्मन्थपात्रम् 'कलशिमुदधिगुर्वी बल्लवा लोडयन्ति' इति माघः । 'वस्तिर्नाभेरधं द्वयोः' इत्यमरः । तत्र भवं वास्तेयम् । 'अस्ति ' इति तिङन्तप्रतिरूपको निपातः । स च तिङन्तेन समानार्थो भिन्नार्थश्च । श्राद्यो यथा-- - अस्तितीरा गौः । द्वितीयो यथा— अस्तिमान् । धनवानित्यर्थः । तदिहाविशेषादुभयोरपि ग्रहणमा स्थेयमिति हरदत्तः । श्रहौ भवमाहेयम् । ‘त्रिष्वाहेयं विषास्थ्यादि' इत्यमरः । ग्रीवाभ्योऽण् च । 'शरीरावयवाच्च ' इति यतोऽपवादः । प्रीवाशब्दो धमनीसङ्घाते वर्तते, तत्र उद्भूतावयवसङ्घातविवक्षया सूत्रे बहुवचनम् । तिरोहितावयवसंघातविवक्षायां त्वेकवचनान्तादप्यण्ढञौ स्व Page #422 -------------------------------------------------------------------------- ________________ प्रकणरम् २८] बालमनोरमात्तत्त्वबोधिनीसहिता। [४१६ (४-३-५८) गम्भीरे भवं गाम्भीर्यम् । 'पञ्चजनादुपसंख्यानम्' (वा २८५८) पाञ्चजन्यम् । १४३६ अव्ययीभावाच । (४-३-५६) परिमुखं भवं पारिमुख्यम् । 'परिमुखादिभ्य एवेष्यते' (वा २८६६)। नेह-औपकूलः। १४३७ अन्तःपूर्वपदाञ् । (४-३-६०)'प्रग्ययीभावात्' इत्येव । वेश्मनीत्यन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । श्रान्तर्गणिकम् । 'अध्यात्मादेष्ठमिष्यते' ( वा २८६६ ) अध्यात्मं भवं प्राध्यास्मिकम् । १४३८ अनुशतिकादीनां च एफ तद्धितः' इति ष्फः स्यात् । अव्ययीभावाच । ज्य इति शेषः । परिमुखादिभ्य इति । यद्यपीदं वार्तिकं भाष्ये न दृष्टम् , तथापि दिगादिगणपाठानन्तरं पारमुखादिगणपाठसामर्थ्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । न ह्यष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति । औपकूल इति । उपकूलं भव इत्यथः । अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावाद् न ज्यः। अन्तःपूर्वपदाट्ठञ् । वेश्मनीत्यन्तर्वेश्ममिति । विभक्त्यर्थे अव्ययीभावः। 'मनश्च' इति टच् । आन्तवैश्मिकमिति । ठञ् , इकः, सुन्लुक्, टिलोपः, आदिवृद्धिः। प्रान्तर्गणिकमिति । गणे इत्यन्तर्गणम् । तत्र भवमित्यर्थः । आध्यात्मिकमिति । श्रात्मनीत्य यात्मम् । तत्र भवमित्यर्थः । अनुशतिकादीनां च । एव। ग्रैवेयमित्यादि । प्रीवासु भवं ग्रीवायामिति वा विग्रहः । गम्भीरा ज्यः। पञ्चजनादुपसंख्यानमिति । पाञ्चजन्यम् । परिमुखमिति । यदि परिशब्दादिह वजनं गम्यते, तदा 'अपपरिबहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः । यदि तु सर्वतोभावः, तदा त्वस्मादेव निपातनादव्ययीभाव इत्याहुः। परिमुखादिभ्य एवेति । अयं भावः-दिगादिगणानन्तरं परिमुख, परिहनु, पर्योष्ठ, पर्युलूखलेत्यादि परिमुखादिगणः पठ्यते, तत्साहचर्यादिह सूत्रे अव्ययीभावशब्देन परिमुखादिरेव गृह्यते । तस्य गणस्य कार्यान्तराभावादिति । नन्वेवं 'परिमुखादेः' इति सूत्रं विशिष्यैव क्रियताम् , किमनेन प्रयासेन । उत्तरत्र 'अव्ययीभावात्' इत्यस्यापेक्षायामपि तत्रैव तत्करणौचित्यादिति चेत् । अत्राह हरदत्तः-'परिमुखादेः' इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि नः स्यात् , अव्ययीभावग्रहणात्तु तेभ्योऽणेव भवतीति । परिमुखादिगणे प्रतिशाखशब्दोऽपि बोध्यः । तथा च 'शाख व्याप्तौ' इति धातौ प्रतिशाखं भवं प्रातिशाख्यम् , 'अव्ययीभावाच' इति भवार्थे म इति माधवः । अन्तर्वेश्ममिति । 'नपुसकादन्यतरस्याम्' इति समासान्तष्टच् । अध्यात्ममिति । 'अनश्च' इति टच् । १ आदिपदात् प्रतिशाखं भवं प्रातिशाख्यं व्याकरणम् , तच्च शौनकीयं तैत्तिरीयं कात्यायनीयम् आयर्वणिकं च तत्तच्छाखायां नियतं वर्तते । Page #423 -------------------------------------------------------------------------- ________________ ४२० ] सिद्धान्तकौमुदी। [तद्धितेषु शैषिक(७-३-२०) एषामुभयपदवृद्धिः स्याद् मिति णिति किति च । प्राधिदैविकम् । प्राधिभौतिकम् । ऐहलौकिकम्। पारलौकिकम् । अध्यात्मादिगकृतिगणः। १४३६ देविकाशिंशपादित्यवादीर्घसत्रश्रेयसामात् । (७-३-१) एषां पञ्चानां वृद्धिप्राप्तावादेरच श्राद् जिति णिति किति च । दाविकम । देविकाकूले भवा दाविकाकूलाः शालयः । शिशपाया विकारः शांशपश्चमलः 'पलाशादिभ्यो वा' (स १५२१) इत्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् । १४४० ग्रामात्पर्यनुपूर्वात् । (४-:-६१) ठञ् स्यात् । 'अव्ययीभावात्' इत्येव । पारिग्रामिकः । प्रानुग्रामिकः । १४४१ जिह्वामूलाङ्गले श्छः।(४-३-६२) जिह्वामूलीयम् । अङ्गलीयम् । १४४२ वगान्ताच्च।(४-३-६३) कवर्गीयम् । १४४३ अशब्दे यत्खावन्यतरस्याम् । (४.३-६४) पक्ष पूर्वेण छः । मद्वयः, मवर्गीणः, मद्वर्गीयः । अशब्दे किम्-कवर्गीयो वणः । १४४४ कर्णललाटात्कनलङ्कारे । (४-३-६५) कर्णिका । ललाटिका । १४४५ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः । ४-३-६६) सुपां आदिवृद्धिप्रकरणे उत्तरपदस्य, पूर्वपदस्य चेत्यधिकारे इदं सूत्रम् , तदाह-एषामिति । आधिदैविकमिति । देवेष्वित्यधिदेवम् , तत्र भवमित्यर्थः । ठनि उभयपदवृद्धिः । प्राधिभौतिकमिति । भूतेष्वित्यधिभूतम् । तत्र भवमित्यर्थः । ऐहलौकिकमिति । इह लोके भवमित्यर्थः । पारलौकिकमिति । परलोके वमित्यर्थः । सर्वत्र ठजि उभयपदवृद्धिः । देविका । आदिवृद्धि प्रकरणे इदं सूत्रम् । एषामिति । देविका, शिंशपा, दित्यवाद , दीर्घसत्र, श्रेयस इत्येषामित्यर्थः । वृद्धिप्राप्ताविति । आदिवृद्धिप्राप्तौ तदपवादत्वेन यादरच शाकारः स्यादित्यर्थः । दाविकमिति । देविका नाम नदी, तस्यां भवमित्यर्थः । दाविकाकूला इति । उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरणम् , अस्य सूत्रस्य तदधिकारबहिर्भूतत्यादिति भावः । शांशप इति । इकारस्य आकारः, अनि वृद्धिः, शिपाशब्दस्य पलाशादौ पाठात् पाक्षिकोऽञ् । तदभावेऽणित्यर्थः । दात्यौहमिति । दित्यवाहशब्दात् 'तस्येदम्' इत्यणि 'वाह ऊल्' इति संप्रसारणम् , पूर्वरूपम् एत्येधत्यूठसु' इति वृद्धिः । इकारस्य आदिवृद्धथपवाद श्राकारः । दार्घसत्रमिति । 'तस्येदम्' इत्यण, आदेरीकारस्य आकारः। श्रायसमिति । तत्र भव इत्यणि एकारस्य श्राकारः । ग्रामात्पर्यनुपूर्वात् । ठञ् स्यादिति । 'अन्तः पूर्वपदात्-' इत्यतः तदनुवृत्तेरिति भावः । जिह्वामूलागुलेश्छः। 'शरीरावयवाच्च' इति यतोऽ. कर्णललाटात् । यतोऽपवादः । अलङ्कारे किम् , कराये ललाट्यम् । तस्य व्याख्यान Page #424 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४२१ व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् । १४४६ बह्वचोऽन्तोदात्ताञ् । (४-३-६७) षस्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षास्वणत्विकः । १४४७ क्रतुयशेभ्यश्च । (४-३-६८) सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तमान्यतरोपादानेन पवादः । वर्गान्ताच्च । कवर्गीयमिति । कादिवर्गे भवमित्यर्थः । अशब्दे । वर्गान्तात् छ इति शेषः । मद्वर्ग्यः, मद्वर्गीण इति । मत्पक्ष भव इत्यर्थः । कर्णललाटात् । 'शरीरावयवाच्च' इति यतोऽपवादः । कर्णिका ललाटिकेति । कर्णे ललाटे भवोऽलङ्कार इत्यर्थः । स्त्रीत्वं लोकात् । टापि 'प्रत्ययस्थात्-' इति इत्त्वम् । तस्य व्याख्यान इति च । व्याख्यायते अनेनेति व्याख्यानो ग्रन्थः, करणे ल्युट् । तस्य व्याख्यान इति विग्रहे व्याख्यातव्यग्रन्थ प्रतिपादकात् षष्ठपन्ताद् भव इत्यर्थे च सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। चकारः 'तत्र भवः' इत्यस्य समुच्चयार्थः । सौप इति । श्रौत्सर्गिकोऽण् । तैङ इति । तिहा व्याख्यानो ग्रन्थ इत्यर्थः । कार्त इति । कृतां व्याख्यान इत्यर्थः। अणि आदिवृद्धौ रपरत्वम् । भवार्थे उदाहरति-सुप्सु भवं सौपमिति । नच 'तस्येदम्' 'तत्र भवः' इत्याभ्यामेव सिद्धत्वादिदं सूत्रं व्यर्थमिति वाच्यम् , अर्थद्रयनिर्देशस्य अपवादभूतवक्ष्यमाणठादिविधानायावश्यकत्वादिति भाष्ये स्पष्टम् । बचोऽन्तोदात्तादृञ् । अन्तोदात्ताद्बह्वच उक्तविषये ठञ् स्यात् । अणोऽपवादः । ऋतुयशेभ्यश्च । सोमेति । सोमलताद्रव्यकयागेषु क्रतुशब्दो यज्ञशब्दश्व प्रसिद्ध इत्यर्थः । तान्यतरग्रहणं व्यर्थम् , बहुवचनेन स्वरूपग्रहणनिवृत्तेरित्यत आह-तत्रेति। इति च । व्याख्यायते येन स व्याख्यानः। करणे ल्युट । इतिशब्दो वाक्यार्थ परामशति । तत्समीपे श्रूयमाणश्चकारः 'तत्र भवः' इति वाक्याथेमाक्षिपति । नाम प्रतिपादकम् , तच्च शक्त्या लक्षणया वेत्यत्र नाग्रहः । तथा च षष्ठयन्ताधाख्यानकरणार्थे, सप्तम्यन्तात्तु भवार्थे, व्याख्यातव्यस्य प्रन्थस्य प्रतिपादकात्प्रत्ययाः स्युः' इति सूत्रार्थः । व्याख्यातव्यनाम्रः किम् , पाटलीपुत्रस्य व्याख्यानी सुकोसला। पाटलीपुत्रो हि तया व्याख्यायते 'ईक्संनिवेशविशिष्टम्' इति । न विद्रं व्याख्यातव्यस्य नाम । मन्थेष्वेव व्याख्येयत्वस्य सुप्रसिद्धत्वात् , नाममहणं हि प्रसिधपसंग्रहार्थमेव सूत्रे कृतम् । बढ़चो। अणोऽपवादः । बहुचः किम् , घचष्ठकं वक्ष्यतीत्येकाच् प्रत्युदाहार्यः । सौपम् । तैलम् । अन्तोदात्तात्किम् , संहितायाः संहितम् । 'गतिरनन्तरः' इत्याद्युदात्तोऽयम् । अन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । उदात्तादित्युळेऽपि वर्णमहणे तदन्तग्रहणाद् 'वर्णादनुदात्तात्-' इत्यत्र यथा । ऋतुयझेभ्यश्च । Page #425 -------------------------------------------------------------------------- ________________ ४२२ ] सिद्धान्तकौमुदी । [ तद्धितेषु शैषिक सिद्धे उभयोरुपादानसामर्थ्यादसोमका श्रपीह गृह्यन्ते । श्रग्निष्टोमस्य व्याख्यानस्तत्र भवो वा श्रनिष्टोमिकः । वाजपेयिक. । राजसूयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । श्रनन्तोदात्तार्थ आरम्भः । १४४८ अध्यायेष्वेवर्षेः । (४-३-६६ ) ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्टः, तस्य व्याख्यानः तत्र भवो वा वासिष्ठिकोऽध्यायः । 'अध्यायेषु' किम् - वासिष्ठी ऋक् । १४४६ गृह्यन्त इति । ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन र्ता इतरयागाः विवक्षिता इति भावः । एवं च सोमयागविशेषवाचिभ्यः, तदितरयागविशेषवाचिभ्यश्च उक्तविषये ठमित्यर्थः । पाकयक्षिक इति । औपासनाग्निसाध्याः पर्वणस्थालीपाकादयः पाकयज्ञाः । तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः । नावयज्ञिक इति । नूतनद्रव्यक श्रामयणाख्यो यज्ञो नवयज्ञः । ननु पूर्वसूत्रेण सिद्धे किमर्थमिदमित्यत आह - अनन्तोदात्तार्थ इति । वाजपेयशब्दो मध्योदात्तः तैतेरीयादौ प्रसिद्धः । यद्यपि श्रग्निष्टोम शब्दः श्रन्तोदात्त एव तैत्तिरीये दृष्टः । नव यज्ञशब्दोऽपि षष्ठी. समासत्वात् समासस्वरेणान्तोदात्त एव । तथापि श्रन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तत इति न दोषः । अध्यायेष्वेवर्षेः । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठ इति । लक्षणयेति भावः । वासिष्ठिकोऽध्याय इति । कश्चिद् ग्रन्थविशेषोऽयम् । अग्निष्टोमस्य व्याख्यान इति । श्रग्निष्टोमाद्यर्थेषु मन्त्रब्राह्मणकल्पेषु वर्तमाना श्रग्निष्टोमादिशब्दा इहोदाहरणम्, ग्रन्थानामेव व्याख्येयताया उक्तत्वादित्याहुः । स्तुतिः स्तोमः । अग्नेः स्तोमोऽस्मिन्निति बहुव्रीहिः । 'परादिश्च परान्तश्च' इत्यन्तोदात्तोऽयम् । पीयतेऽस्मिन्निति पेयः । 'कृत्यल्युटो बहुलम्' इत्यधिकरणे यत् । वाजो नाम यवागूभेदस्तस्य पेयो वाजपेयः । श्रयं हि कृदुत्तरपदप्रकृतिस्वरेण मध्योदात्तः । पेयशब्दस्य 'यतो नाव:' इत्युदात्तत्वात् । राज्ञा त्रियेण सूयते, राजा सोभः सूयते अत्रेति वा राजसूयः । 'राजसूयसूर्य -' इति क्यप् । तत एव निपातन समासः षष्ठीसमासो वा । श्रयमप्युत्तरपदप्रकृतिस्वरेण मध्योदात्त एव, धातुस्वरेण सूयशब्दस्यायुदात्तत्वात् । असोमकेभ्य उदाहरति - पाकेति । अल्पपर्यायः पात्र शब्दः । पाकश्वासौ यज्ञश्चेति कर्मधारयः । स च समासस्वरेणान्तोदात्तः । नवैत्र हिभिर्यजनं नवयज्ञः आप्रयणम् । 'यजयाचविच्छ-' इति नङ् । 'कर्तृकरणे कृत-' इति समासः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । अनन्तोदात्तार्थ इति । वाजपेयराजसूयार्थतया श्रस्मिन्नारब्धे सत्यन्तोदात्तादपि यज्ञाभिधायिनः परत्वादनेनैव भाव्यमित्याग्निष्टोमिक इत्याद्युदाहृतमिति भावः । अध्यायेष्वेवर्षेः । एवकारः स्पष्टप्रतिपत्त्यर्थः । 1 Page #426 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसंहिता। [४२३ पौरोडाशपुरोडाशाष्ठन् । (५-३-७०) पुरोडाशसहचरितो मन्त्रः पुरोडाशः, स एव पौरोडाशः, ततः छन् । पौरोडाशिकः । पुरोडाशिकः।१४५० छन्दसो यदणौ। (४-३-७१) छन्दस्य , छान्दसः । १४५१ यजदब्राह्मणप्रथमाध्वरपुरश्वरणनामाख्याताट्ठक् ।(४-३-७२) ब्यचः-ऐष्टिकः (शैषिकः), पाशुकः । तः-चातुर्योतकः । ब्राझणिकः । प्रार्चिक इत्यादि । १४५२ अणगयनादिभ्यः वासिष्ठी ऋगिति । ऋचः अध्यायसमाख्याभावाद् न ठमिति भावः । पौरोडाश । उक्तविषय इति शेषः। पुरोडाशेति । पुरोडाशशब्दसहितो मन्त्रो लक्षणया पुरोडाश इत्युच्यत इत्यर्थः । स एव पौरोडाश इति । प्रज्ञादित्वात्स्वार्थेऽणिति भावः । पौरोडाशिक इति। पौरोडाशात् ष्ठनि रूपम् । पुरोडाशिक इति । पुरोडाशशब्दात् ठनि रूपम् । षित्त्वाद् ीष् । पौरोडाशिकी, पुरोडाशिकी । छन्दसो यदणी । तस्य व्याख्याने तत्र भवे चेति शेषः । छन्दस्यः, छन्दस इति । छन्दसां व्याख्यानः, तत्र भवो वेत्यर्थः । यज्लक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः। यजदब्राह्मण । घच् , ऋत् , ब्राह्मण, ऋक्, प्रथम, अध्वर, पुरश्चरण, नामन् , भाख्यात एभ्यष्ठक् स्यात् तस्य व्या. ख्याने तत्र भवे च । शैषिक इति। शेषस्य व्याख्यानः तत्र भवो वेत्यर्थः । पाशुक इति । पशुयागप्रतिपादकप्रन्थः पशुः, तस्य ब्याख्यानः तत्र भवो वेत्यर्थः । उकः परत्वात् ठस्य कः । ऋत इति । उदाहियत इत्यर्थः । चातुर्योतक इति । 'चित्तिः स्रक्' इत्यादयो मन्त्राश्चतुर्होतारस्तैत्तिरीये प्रसिद्धाः । तेषां व्याख्यानः तंत्र भवो वेत्यर्थः । ब्राह्मणिक आर्चिक इति । ब्राह्मणानि मन्त्रव्यतिरिक्तवेद भागाः, तेषामृचां वा व्याख्यानः तत्र भवो वेत्यर्थः। इत्यादीति । प्राथमिकः, आध्वरिकः, पौरश्वरणिकः, नामिकः, आख्यातिकः । अणगयनादिभ्यः। तस्य वासिष्ठीति । भवार्थेऽण । पौरोडाश । षित्वान्छीष् । पौरोडाशिकी, पुरोडाशिकी। पुरोदाश्यते इति पुरोडाशः । 'दारी दाने कर्मणि घञ् । इहैव निपातनाद्दस्य डत्वम् । छन्दसो । छन्दःशब्दाद्भवव्याख्यानयोरथयोर्यदणौ स्तः, यज्लक्षणस्य ठकोऽपवादः । छन्दस्य इत्यादि । इहार्थवार्यदण्भ्यां यथासंख्यं भवत्यस्खरितत्वादिति बोध्यम् । द्यजृत् । अणोऽपवादः । चातुर्योतक इति । 'पृथिवी होता द्यौरध्वयुः' इत्यादिमन्त्रस्य चतु)तेति नामधेयम् । इत्यादीति । आदिशब्दात्प्राथमिकः । श्राध्वरिकः । पौरश्वरणिकः। 'नामाख्यातग्रहणं सातविगृही. तार्थम्' इति वार्तिकम् । तत्र नामशब्दाद् यच्वादेव सिद्धे विगृहीतग्रहणमाख्यातायमिति ज्ञेयम् । नामिकः । आख्यातिकः । नामाख्यातिकः । अणगयन । ऋगयना Page #427 -------------------------------------------------------------------------- ________________ ४२४ ] सिद्धान्तकौमुदी। तद्धितेषु शैषिक (४-३-७३ ) ठनादेरपवादः । श्रार्गयनः । औपनिषदः । वैयाकरणः । १४५३ तत आगतः।(४-३-७४) सन्नादागतः स्रौनः । १४५४ ठगायस्थानेभ्यः। (४-३-७५) शुल्कशालाया पागतः शौल्कशालिकः । १४५५ शुण्डिकादिभ्योऽण । (४-३-७६) प्रायस्थानठकश्छादीनां चापवादः। शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः । औदपानः। १४५६ विद्यायोनिसंबन्धेभ्यो वुञ् । (४-३-७७) प्रौपाध्यायकः, पैतामहकः । १४५७ ऋतष्ठञ् । व्याख्याने तत्र भवे चेति शेषः । आर्गयन इति । ऋगयनम् ऋक्संहिता, तस्य व्याख्यानः तत्र भवो वेत्यर्थः । 'बचोऽन्तोदात्तात्' इति ठजि प्राप्ते अण् । औपनिषद इति । उपनिषदो व्याख्यानस्तत्र भवो वेत्यर्थः । एवं वैयाकरणः । 'न स्वाभ्याम्-' इत्यैच् । अरग्रहणं तु छबाधनार्थम् । अन्यथा प्रणा मुक्ते छो दुर्वार. स्यादित्याहुः । तत आगतः। अस्मिन्नर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । स्रौन इति। औत्सर्गिकोऽण् । ठगायस्थानेभ्यः । तत अागत इत्यर्थे इति शेषः । हट्टादिषु स्वामिग्राह्यो भाग प्रायः। स यस्मिन् गृह्यते तदायस्थानम् , तद्वाचिभ्य इत्यर्थः । शुण्डिकादिभ्योऽण । तत श्रागत इत्येव । शुण्डिकमायस्थानविशेषः । पूर्वसूत्रविहितठगपवादः । कार्कण इति । कृकर गदागत इति शेषः । 'कृकणपर्णाद्भारद्वाजे' इति छस्यापवादः। तैर्थ इति । धूमादिवोऽपवादः । औदपान इति । अत्र उत्सादित्वाद प्राप्तो न भवति, पुनररग्रहण त् । अन्यथा यथाप्राप्तविधाने आयस्थानठकं. बाधित्वा अमेव स्यात् । विद्यायोनि । तत आगत इत्येव । औपाध्यायकः, पैतामहक इति । उपाध्यायापितामहाच श्रागत इत्यर्थः । ऋतष्ठञ् । ऋदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्य: । तत श्रागत दिभ्यो भवव्याख्यानयोरर्थयोरण स्यात् । ठञादेरिति । आदिशब्दाहक्छयोः । आर्गयन इति । अयनशब्दो भावसाधनः, तेन समासे :प्रनो भावकर्मवचनः' इत्यन्तोदात्तः, अभेदोपचाराद्भाववचनोऽपि ग्रन्थे वर्तते । इह 'बह्वचोऽन्तोदात्तात्' इति ठञ् प्राप्तः । औपनिषद इत्यत्राप्येवम् । विद्यान्यायशिक्षाशब्देभ्यो 'द्यजद्ब्राह्मण-' इति ठक् प्राप्तः । व्याकरणशब्दात्तु 'वृद्धाच्छः' । ठगाय । एलानं स्वामी, स्वामिनमयमेतीति वाऽऽयः खामिग्राह्यो भागः । स यस्मिन्नुत्पद्यते तदायस्थानम् । बहुवचननिर्देशः स्वरूपग्रहणनिरासार्थः । वृद्धाच्छं परत्वादयं बाधते । प्राणिकः । प्राकरिकः। छादीनां चेति । कार्कण इत्यत्र 'कृकणपर्णाद्भारद्वाजे' इति छः प्राप्तः । तीर्थ. शब्दात्तु धूमादित्वाद् वुञ् प्राप्तः । उदपानशब्दस्योत्सादित्वाद प्राप्त इत्यर्थः। विद्यायोनि । विद्यायोनिकृतः सम्बन्धो येषां तेभ्यो वुञ् स्यादगोऽपवादः। छं तु Page #428 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४२५ (४-३-७८) वुनोऽपवादः । हौतृकम् । भ्रातृकम् । १४५८ पितुर्यञ्च । (४-३-७६) चाट्ठम् । 'रीतः' (सू १२३४) 'यस्येति च' (सू ३११) इति लोपः । पित्र्यम् , पैतृकम् । १४५६ गोत्रादङ्कवत् । (४-३-८०) बिदेभ्म अागतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् । १४६० नञः शुचीश्वरक्षेत्रशकुशलनिपुणानाम् । (७-३-३०) नजः परेषां शुच्यादिपञ्चानामादरचो वृद्धिः, पूर्वपदस्य तु वा निदादौ परे । प्राशौचम्, अशौचम् । अानैश्वर्यम् , इत्येव । हौतृकम् , भ्रातृकमिति । उकः परत्वात् ठस्य कः । पितुर्यच्च । यति प्रक्रियां दर्शयति-रीत्त इति । गोत्रादङ्कवत् । अङ्के ये प्रत्ययाः ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः । बिदेभ्य आगतमिति । विग्रहप्रदर्शनम् । अत्र 'यजओश्च' इति बहुत्वे अओ लुकि विदेभ्य इति निर्देशः । बैदमिति । 'सङ्घाङ्कलक्षणेष्वन्यजिआमण' इत्युक्तेरअन्तादिहाप्यर्थे अणि विवक्षिते 'गोत्रेऽलुगचि' इत्यत्रो लुनिवृत्तौ बैदशब्दादण् । 'यजृद्ब्राह्मण-' इति यज्लक्षणस्य ठकोऽपवादः । गार्गमिति । यजन्तादण् । दाक्षमिति । इमन्तादण् । औपगवकमिति । उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः । ‘गोत्रचरणाद् वुञ्' इति वुन् । यद्यपि तस्येदमित्यर्थे अयं वुञ् विहितः, तथाप्यञ्यमिन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति । न हि 'संघाङ्क-' इति प्रतिपदोक्तस्याण एवात्रातिदेशः । किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः । नञः शुचीश्वर । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम् । आशौचम् , अशौचम् इति । परत्वाद्बाधते । आचार्यकः । मातामहकः । मातुलकः । ऋतष्ठञ् । 'विद्यायोनिसम्बन्धेभ्यः' इति वर्तते, तदाह-वुओऽपवाद इति । 'उष्कञ्' इति वक्तव्ये तपरकरणं ठग्रहणं च चिन्त्यप्रयोजनमिति प्राञ्चः । पैतृकी विद्येत्यत्र ङीबर्थ ठग्रहणमिति तु तत्त्वम् । न च 'टिडा-' इति सूत्रे कञ्ग्रहणाद् डीप सिध्यतीति वाच्यम् , यादृशीतादृशीत्याद्यसिद्धेः । तदनुबन्धकग्रहणे नातदनुबन्धकस्य ग्रहणात् 'त्यदादिषु हश:-' इति कनो यनुबन्धकत्वात् । तपरकरणं विहाय 'उष्ठम्' इत्येव सुवचमित्याहुः । गोत्रादङ्कवत् । 'अपत्याधिकारादन्यत्र लौकिकं गोत्रम्' इत्युक्तम् । अपत्यप्रत्ययान्तात् 'तत आगतः' इत्यस्मिन्नर्थे अङ्कवत्प्रत्ययाः स्युः । अङ्के दृष्टस्य सर्वस्यायमतिदेशः, न तु साक्षाविहितस्यैवेत्याग्रहः तेन 'गोत्रचरणाद् वुञ्' इति वुअपि लभ्यते । स हि 'तस्येदम्' इति सामान्येन विधीयमानोऽपि अञ्यअिनन्तादन्यत्र अङ्केऽपि दृष्टः । बैदमित्यादि । 'सङ्घाङ्क-' इत्यादिना अङ्कार्थेऽण विहित इतीहाप्यध्यजिअन्तादण् । औपगवकमिति । 'गोत्रचरणात्-' इति वुम । अढे Page #429 -------------------------------------------------------------------------- ________________ ४२६ ] सिद्धान्तकौमुदी | [तद्धितेषु शैषिक ? ● अनैश्वर्यम् । श्रक्षैत्रज्ञम् श्रचैत्रज्ञम् । श्रकौशलम् अकौशलम् । श्रनैपुणम्, अनैपुणम् । १४६१ हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः ( ४-३ - ८१ ) समादागतं समरूप्यम् । विषमरूप्यम् । पत्ते महादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् दैवदत्तम्, देवदत्तीयम् । १४६२ मयट् च । ( ४-३ - ८२ ) सममयम् । विषमयम् । देवदत्तमयम् । १४६३ प्रभवति । ( ४-३ - ८३ ) तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा । १४६४ विदूराञ्यः । ( ४-३-८४ ) विदूरात्प्रभवति अशुचेरागतमित्यर्थः । तत श्रागत इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः । उत्तरपदस्य नित्यादिवृद्धिः । एवमग्रेऽपि प्रक्षेत्रज्ञाद् अकुशलाद् अनि णाच्च श्रागतमि त्यर्थो बोध्यः । श्रनैश्वर्यमित्यत्र तु ब्राह्मणादित्वाद् भावे ष्यञ् । हेतुभनुष्येभ्यः । तत श्रागत इत्येव | हेतुभ्य उदाहरति — समादागतमित्यादि । मनुष्यवाचिन उदाहरति-देवदत्तरूप्यमिति । मयट् च । उक्तविषय इति शेषः । प्रभवति । तत इत्येवेति । श्रागत इति तु निवृत्तम् । प्रभवतीत्यर्थे पत्र म्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । प्रभवः प्रथमप्रकाशः । हिमवतः प्रभवतोति । हिमवति प्रथमं प्रकाशत इत्यर्थः । 'भुवः प्रभवः' इत्यपादानत्वम् । विदू पञ्ञ्यः । ततः दृष्ट इतीद्दाप्यण्णन्ताद् वुञ् । हेतुमनुष्येभ्यो । मनुष्यग्रहणमहेत्वर्थम्, बहुवचनं तु स्वरूपविधिनिरासार्थम् । समरूप्यमिति । 'विभाषा गुणे -' इत्या 'विभाषा' इति योगविभागादगुणवचनादपि पञ्चमी । योगविभागे तु 'बाहुलकं प्रकृतेस्तदनुदृष्टेः' इति लिङ्गम् । मयट् च । योगविभागो यथासंख्यनिरासार्थः । टो ङीबर्थः । हैमवतीति । हिमवतः प्रकाशते । तत्र प्रथमं दृश्यत इत्यर्थः । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्यते, 'तत्र जातः' इत्यतो भेदेन निर्देशात् । वैदूर्य इति । दन्त्यमध्योऽयं शाद्वलवत्, न तु नड्वलवन्मूर्धन्यमध्यः । नन्वत्रार्थसिंगतिः । बालवायपर्वतादसौ प्रभवति, विदूरनगरे तु संस्क्रियते । सत्यम्, अतएव समाहितं भाष्ये --' बालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तत्रेति चेद्द्रयाज्जित्वरी दुपाचरेत्' इति । अस्यार्थः—बालवायशब्दः प्रत्ययं लभते विदूरादेशं च, सूत्रे पतेिनादेशेनानुरूपः स्थानी बालवायशब्द प्रक्षिप्यते । यथा शिवादिषु पठिताभ्यां विश्रव गरवणादेशाभ्यामनुरूपः स्थानी विश्रवश्शब्द श्राक्षिप्यते, यथा वा 'पन्न -' इत्यादौ गदाद्यादेशानुरूपः स्थानी पाददन्तादिराजिभ्यते, तद्वत् । प्रकृत्यन्तरमेवेति । विदूर शब्दो नगरस्येव पर्वतस्यापि वाचकोऽस्तीत्यर्थः । एवं चास्मिन्पत्ते 'बालवायात्प्रभवति' इति विग्रहे विदरशब्दात्प्रत्यय इति व्याख्यानक्लेशो नेति भावः । न वा इति । वैशब्दोऽक्षमां " Page #430 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४२७ वैदूर्यो मणिः । १४६५ तद्गच्छति पथिदूतयोः। (४-३-८५) स्वघ्नं गच्छति स्रौनः पन्था दूतो वा । १४६६ अभिनिष्कामति द्वारम् । (४-३-८६) तद् इत्येव । सुन्नममिनिष्कामति सौनं कान्यकुब्जद्वारम् । १४६७ अधिकृत्य कृते ग्रन्थे । (४-३-८७ ) तद् इत्येव । शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः । 'शारीरकं भाष्यम्' इति स्वभेदोपचारात् । १४६८ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः। (४-३-८८) शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । प्रभवतीत्येव । विदूरशब्दो दन्त्यमध्यः वालवायाख्यदेशपर्यायो विदूरशब्द इति भाष्ये स्पष्टम् । तद् गच्छति पथितयो। गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः, स चेद् गन्ता पन्था दूतो वा इत्यर्थः । अभिनिष्कामति द्वारम् । कान्येति । कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः। अधिकृत्य । तदित्येवेति । अधिकृत्य कृतो ग्रन्थ इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः । शारीरकमिति । शरीर. स्यायं शारीरो जीवात्मा, तमित्यर्थः । 'तस्येदम्' इत्यणन्तात् स्वार्थे कः । शारीरकीय इति । वृद्धत्वाच्छः । शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि द्योतयति । तत्र पर्वते विदूरशब्दोऽप्रसिद्ध इति चेद् ब्रयाजित्वरीवधवहरेत् । नियतपुरुषापेक्षो हि व्यवहारो दृश्यते, यथा वणिज एव वाराणसी जित्वरीति व्यवहरन्ति एवं वैयाकरणा एवादि विदूर इति । तद्गच्छति । द्वितीयान्ताद्च्छतीत्यर्थे प्रत्ययः स्यात्स चेद्गन्ता पन्था वेत्यर्थः । तत्र साध्वसिश्छिनत्ति, काष्ठानि पचन्तीत्यादाविव करणस्य वातळ्यविवक्षया पन्थाः कर्ता । अभिनिष्कामति । द्वितीयान्तात्प्रत्ययः स्याद्यनिष्कामति तच्चेद् द्वारमित्यर्थः । सौनं कान्यकुब्जद्वारमिति । स्रनाभिमुखनिष्क्रमणे करणीभूतमिति फलितोऽर्थः । पूर्ववत्करणस्य कर्तृत्वम् । तदित्येवेति । 'अधिकृत्य' इत्येतदपेक्षयात्र द्वितीया । शारीरकीय इति । कुत्सितं शरीरं शरीरकं तत्सम्बन्धी शरीरको जीवात्मा तमधिकृत्य प्रस्तुत्य कृतो प्रन्थः शारीरकीयः चतुर्लक्षणीसूत्रसन्दर्भः । वृद्धाच्छः । अत्र वार्तिकम्'लुबाख्यायिकाभ्यो बहुलम्' इति । तादर्थ्य एषा चतुर्थी । आख्यायिका नाम गद्यरूपो ग्रन्थविशेषः। अतएवाख्यानाख्यायिकयोस्तत्र तत्र भेदेनोपादानम्। आख्यायिकाभिधानाय यः प्रत्यय उत्पन्नस्तस्य बहुलं लुगित्यर्थः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । सुमनोहरा । क्वचिन्न, भैमरथी । अभेदोपचारेण गतार्थत्वानेदं वार्तिकमावश्यकमिति मूले नोक्तम् । शिशुक्रन्द । अत्र वार्तिकम्-'द्वन्द्वे देवासुरादिभ्यः Page #431 -------------------------------------------------------------------------- ________________ ४२८ ] सिद्धान्तकौमुदी । [ तद्धितेषु शैषिकक्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्ध भोजनीयम् । १४६६ सोऽस्य निवासः । (४-३-८६ ) स्रघ्नो निवासोऽस्य स्रौघ्नः । १४७० श्रभिजनश्च । ( ४- ३ - ६० ) सन्नोऽभिजनोऽस्य स्त्रौघ्नः । यत्र स्वयं वसति स निवासः । यत्र पूर्वैर बितं सोऽभिजन इति विवेकः । १४७१ आयुधजीविभ्यश्छः पर्वते । ( ४-३ -६१ ) पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः पर्वतोऽभिजनो येषामायुधजीविनां ते हृद्गोलीयाः । ' श्रायुध' इति किम्-ऋक्षोदः पर्वतोऽभिजनो येषां एभ्यः छः स्यादधिकृत्य कृते ग्रन्थ इत्यर्थः । निपातनादिति । 'सभा राजा' इति तु नपुंसकत्वं न भवति । तत्र 'अमनुष्यशब्दो रूढ्या रक्षःपिताचादीनाह' इत्युक्तेरिति भावः । सोऽस्य निवासः । अस्मिन्नर्थे प्रथमान्तात्यत्ययाः स्युरित्यर्थः । 'यत्र संप्रत्युष्यते स निवास:' इति भाष्यम् । श्रभिजनश्च । स इत्यनुवर्तते । पूर्ववद्याख्येयम् । यत्र पूर्वैरुषितं सोऽभिजनः' इति भाष्यम् । यत्र स्वयमिति । उदाहृतभाष्यस्यायमर्थ इति भावः । आयुधजीविभ्यः । पर्वतादिति पाठान्तरम् । अभिजनशब्दादिति । अभिजनदेशवाचिन इत्यर्थः । आयुधजीविनोऽभिधातुमिति शेषः । सूत्रे 'क्रियार्थोपपदस्य -' इति चतुर्थी । हृद्गोल इति । पर्वतविशेषोप्रतिषेधः' । दैवासुरम् । राक्षोसुरम् । निपातनादिति । 'सभा राजा -' इति सूत्रे 'मनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह' इत्युक्तत्वात्तेन सूत्रेण क्लीबत्वं न सिध्यतीति भावः । सोऽस्य निवासः । स इति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितः प्रत्ययः स्याद्यः प्रथमान्तार्थः स निवासश्चेत् । स्रुघ्नो निवास इति । निवासाधिकरणमित्यर्थः । नन्वस्येति कृद्योगे कर्तरि षष्टी । तथा च विशेषणविशेष्यभावव्यत्यासात् स्रघ्नाधिकरणवासकर्तेह वृत्त्यर्थः तथा च ' तत्र भवः' इत्येव सिद्धं किमनेनेति चेत् । अत्राहु:: - वासस्य चेतनमात्रकर्तृकतया प्रसिद्धत्वात्प्रकारकृतो भेदोऽस्तीति नास्ति वैयर्थ्यम् । 'वसन्ति हि प्रेम्णि गुणा न वस्तुनि' इत्यादौ तूपचारो बोध्य इति । अभिजनश्च । योगविभाग उत्तरार्थः । 'अभिजनाः पूर्वबान्धवाः' इति वृत्तिः । अभिजायते येभ्य इति व्युत्पत्तेरिति भावः । पूर्वबान्धवाः पित्रादयः । प्रज्ञादिः बन्धुशब्दः । पूर्वसूत्रादिह 'निवासः' इत्यनुवृत्तम् । तत्सामानाधिकरण्यादभिजनशब्दस्य तत्सम्बन्धिनि लक्षणा । एवं स्थिते फलितमाह – यत्र पूर्वैरिति । श्रायुधजीविभ्यः । तादयै एषा चतुर्थी । श्रायुधजीविभ्य श्रायुधजीव्यर्थम्, श्रायुधजीविनोऽभिधातुं प्रत्ययः स्यादित्यर्थः । 'सोस्याभिजनः' इत्यनुवर्तते, पर्वत इति प्रकृतिविशेषणं तदाह - - पर्वतवाचिन इत्यादि । पर्वत इति किम्, सांकाश्यकाः ७ , Page #432 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४२६ ते पाझेदा द्विजाः । १४७२ शण्डिकादिभ्यो व्यः । (४-३-६२) शण्डिको ऽभिजनोऽस्य शाण्डिक्यः । १४७३ सिन्धुतक्षशिलादिभ्योऽणी । (४-३-६३ ) सिन्ध्वादिभ्योऽण् तक्षशिलादिभ्योऽञ् स्यादुक्तंऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः । १४७४ तुदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः । (४-३-६४) तुदी अभिजनोऽस्य तौदेयः । सालातुरीयः । वार्मतेयः । कौचवार्यः। १४७५ भक्तिः।(४-३-६५) 'सोऽस्य' इत्यनुवर्तते । भज्यते सेव्यत इति भक्तिः, सन्नो भक्तिरस्य स्रौनः । १४७६ अचित्ताददेशकालाद्वक् । (४-३-६६) अपूपा भनिरस्य श्रापपिकः । पायसिकः । 'अचित्तात्' किम्-दैवदत्तः । 'अदेशात्' किम्-स्रौनः । 'अकालात्' किम्-प्रेष्मः । १४७७ महाराजाट्ठञ् । (४-३-६७) माहाराजिकः । १४७८ वासुदेवार्जुनाभ्यां वुन् । (४-३-६८) वासुदेवकः। अर्जुनकः । ऽयम् । ऋक्षोद इति । अयमपि पर्वतविशेषः । शण्डिकादिभ्यो ज्यः । सोऽभिजन इत्यर्थे प्रथमान्तेभ्य इति शेषः । सिन्धुतक्ष । सैन्धव इति । सिन्धुर्देशविशेषः, अभिजनोऽस्येति विग्रहः । तुदीसलातुर । तुदी, सलातुर, वर्मति, कूच. वार एभ्यः प्रथमान्तेभ्यो ढक्, छग, ढञ्, यक्, एते स्युः अस्याभिजन इत्यर्थे । भक्तिः । अनुवर्तत इति । सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । अचित्ताददेश । देशकालव्यतिरिक्तादप्राणिवाचिनः ठक् स्यादुक्तविषये । अपूपा भक्तिरिति । सामान्याभिप्रायं भक्तिरित्येकवचनं वेदाः प्रमाणमितिवत् । पायसिक इति । पयो भक्तिरस्येति विग्रहः । महाराजा । सोऽस्य भक्तिरित्यर्थ इति शेषः । माहाराजिक इति । महाराजो भक्तिरस्येतिविग्रहः । वासुदेव । सोऽस्य भक्तिरित्येव । वासुदेवक इति । वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु आयुधजीविनः । 'योपधात्-' इति वुञ् । शण्डिकादिभ्यो ऽयः। शण्डिका सर्वसेनशकेल्यादि । सिन्धुतक्ष । सिन्धु वर्ण गन्धार कम्बोजादयः सिन्ध्वादयः, ते तु प्रायेण कच्छादिष्वपि पठ्यन्ते । तेभ्योऽणि तत एव सिद्धे मनुष्यवुओ बाधनार्थ वचनम् । तक्षशिला वत्सोद्धरणा बर्बरेत्यादयस्तक्षशिलादयः । वासुदेवार्जुनाभ्यां वुन् । छाणोरपवादः । 'अजाद्यदन्तम्' 'अल्पाच्तरम्' इति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तस्याकरणं 'सर्वतोऽभ्यर्हितं पूर्व निपतति' इति ज्ञापनार्थम् । ननु वसुदेवस्यापत्यमित्यर्थे 'ऋष्यन्धक-' इत्यणि वासुदेवशब्दो निष्पन्नः। तथा च तत्र 'गोत्रक्षत्रियाख्येभ्यः-' इत्युत्तरसूत्रेण वुञवास्तु, किमनेन वुना । न यत्र वृद्धौ विशेषः, प्रागेव वृद्धत्वात् । न च 'वृद्धिनिमित्तस्य-' इति पुंवद्भावनिषेधो दोषः स्यादिति Page #433 -------------------------------------------------------------------------- ________________ ४३० ] सिद्धान्तकौमुदी। तद्धितेषु शैषिक१४७६ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्। (४-३-६६) अणोऽपवादः । परत्वाद् वृद्धाच्छं बाधते । ग्लुचुकायनिर्भनिरस्य ग्लौचुकाय नकः । नाकुलकः । बहुलग्रहणाभेत । पाणिनो भनिरस्य पाणिनीयः । १४८० जनपदिनां जनपदवत्सर्वे जनपदेन समानशब्दानां बहुवचने । (४-३-१००) जनपदस्वामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवरसवं वसुदेवस्यापत्यमित्यर्थे 'ऋष्यन्धकवृष्णिकुरुभ्यश्च' इति वाष्ण् यत्वादणि वासुदेवशब्दाद् 'गोत्रक्षत्रियाख्येभ्यो बहुलं वुन्' इति वुजैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत् , सत्यम्-अणन्तो वासुदेवशब्दोऽत्र न गृह्यते । किं तु यस्मिन् समस्तं वसति यो वा समस्ते वसति स वासुः, स चासौ देवश्चति व्युत्पत्त्या वासु वशब्दोऽयं भगवति योगरूढ एवेति न दोषः। उक्तं च भाष्ये-'नैषा क्षत्रियाख्या संज्ञेषा तत्रभवतः' इति । गोत्रक्षत्रिय । गोत्रप्रत्ययान्तेभ्यः क्षत्रियवाचिभ्यश्च उक्तविष पे बहुलं वुञ् स्यादित्यर्थः । इह न पारिभाषिकं गोत्रम् । छं बाघत इति । अपगवक इत्यादाविति शेषः । ग्लुचुकायनिरिति। 'प्राचामवृद्धात्-' इति फिनि ग्लुचुझायनिशब्दः। नाकु: लक इति। क्षत्रियाख्योदाहरणम्। जनपदिनाम् । बहुवचने रे ये जनपदेन समानशब्दाः-जनपदवाचिशब्देन समानः शब्दः श्रवणं येषां तथाविध:,तेषां जनपदिनाम्जनपदस्वामिवाचिनाम् , जनपदवद्-जनपदे इव सर्व स्यादित्यर्थः । 'जनपदतदवध्योश्च' इति प्रकरणे ये प्रत्यया विहिताः, ते भवन्ति । प्रकृतयोऽपि तथैव भवन्तीति तु सर्वशब्दालभ्यते । तदाह-जनपदस्वामिवाचिनामित्यादिना । अङ्गा जनपद इति । दृष्टान्तार्थमिदम् । अङ्गनाम्नां राज्ञां निवासो जनपदः अङ्गाः, 'जनपदे लुप्' इति चातुरर्थिकस्य लुप् । स जनपदो भक्तिरस्येत्यर्थ 'जनपदतदवध्योश्च' वाच्यम् , वुन्यपि 'न कोपधायाः' इति निषेधस्येष्यमाणत्वात् । न वा स्वरे विशेषः, 'नित्यादिनित्यम्' इति तुल्यस्वरत्वात् । नापि 'अभ्यर्हितं पूर्वम्' इति ज्ञापनमेव तत्फलगिति वाच्यम् , तथात्वे हि पूर्वनिपातप्रकरणे 'अभ्यर्हितम्' इत्येव लाघवाकुर्यादिति चेत् । अत्र भाष्यम्-'संज्ञेषा तत्र भगवतः' इति । अपं भावः-'सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते ॥' इति स्मृतेः परमात्मा इह वासुदेवः, सर्वत्रासी वसति, सर्वमत्र व पतीति वा व्युत्पत्त्या वासुः, बाहुलकादुण , वासुश्चासौ देवश्चेति विग्रहः । तथा च मयं गोत्राख्या, नापि क्षत्रियाख्येति युक्त एव वुन्विधिः । 'अभ्यर्हितं पूर्वम्' इति तु प्रसङ्गाज्ज्ञापितम् , तदप्यनित्यम् , 'श्वयुवमधोनाम्-' इत्यादिलिङ्गादित्यवधेयम् । वृद्धाच्छं बाधत इति। औपगवो भक्तिरस्य औपगवकः । जनपदिनाम् । खखामिभ वसम्बन्धे मत्वर्थीयं Page #434 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३१ स्यात्प्रत्ययः प्रकृतिश्च । 'जनपदतदवध्योश्च' (सू ३४८) इति प्रकरणे ये प्रत्यया उकास्तेऽत्रातिदिश्यन्ते । अङ्गा जनपदो भनिरस्य प्राङ्ग : । अङ्गाः स्त्रियाः भक्तिरस्य प्राङ्गकः । 'जनपदिनाम् किम्-पशाला ब्राह्मण भक्तिरस्य पाञ्चालः। 'जनपदेन' इति किम्-पौरवो राजा भक्रिरस्य पौरवीयः । १४८१ तेन प्रोक्तम् । (४-३-१०१) पाणिनिना प्रोक्तं पाणिनीयम् । १४८२ इति वुप्रत्यये प्राङ्गक इति यथा, तथा अङ्गदेशस्वामिनः क्षत्रिया अङ्गा भक्तिरस्येत्यर्थे क्षत्रियवाचकादङ्गशब्दाद् वुनि आनक इति रूपमित्यर्थः । पश्चाला ब्राह्मणा इति । अभेदोपचारादिह ब्राह्मणेषु पञ्चालशब्दः। तत्रातिदेशाभावादणेव भवति । पौरव इति । पौरवशब्दो न जनपदवृत्तिरिति नावः । 'बहुवचने' किम् ? एकवचनद्विवचनयोः सत्यपि शब्दभेदे अतिदेशो भवति । यथा आङ्गो वा आगो वा भक्तिरस्य श्राङ्गक इति। 'प्रकृतिश्चेति' किम् ? मद्राणां राजा माद्रः, 'यष्मगध-' इत्यम्। माद्रो भक्तिरस्येत्यर्थे अतिदेशान्मादस्य मद्रत्वे सति 'मद्रवृज्योः - इति कनि माद्रक इति सिध्यति । तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्ताद् यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति । व्याकरणमिति शेषः। वृद्धाच्छः । प्रथमं प्रकाशितं प्रोक्त दर्शयति-जनपदस्वामिवाचिनामिति । प्रत्ययः प्रकृतिश्चेति । अनेन सर्वशब्दस्यार्थो दर्शितः । असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यात् , न तु प्रकृतेरिति हरदत्तः । अत्र वार्तिककारः सर्वशब्दस्य प्रयोजनमाह-सर्ववचन प्रकृतिनिहर्हासार्थम् , तच्च मद्रवृज्यर्थमिति । अयं भावः-वृद्धिनिमित्तेषु वुनादिष्वतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृध्या भाव्यमिति विशेषस्य तत्र दुर्लभत्वान्मद्रवृज्योः कनि विशेषो बोध्यः । सोऽप्यबहुत्व एवेति निर्हासोपचयोल्पता। तथा हि, मद्राणां राजा 'यञ्मगध-' इत्यण् । माद्रः । वृजिशब्दाद् 'वृद्धत्कोशला-' इति व्यङ् । वायंः । स भक्तिरस्येति प्रकृतिनिहाँसे मद्रकः, वृजिकः । 'मद्रवृज्योः कन्' । अन्यथा मादकः वाय॑क इति स्यात् । प्राङ्गक इति । 'जनपदतदवध्योश्च । 'श्रवृद्धादपि-' इति वुञ् । अङ्गशब्दात्स्वामिवाचिनो बहुवचनान्तादणि प्राप्ते वुनतिदिश्यते । पश्चाला ब्राह्मणा इति । अभेदोपचाराब्राह्मणेषु पञ्चालशब्दस्य वृत्तिः। बहुवचनग्रहणं किम् , एकवचनद्विवचनयोः सत्यपि शब्दभेदे अतिदेशो यथा स्यात् । आज श्राङ्गो वा भक्तिरस्य श्राङ्गकः । इह वृद्धाच्छे प्राप्ते वुन् । तेन प्रोक्तम् । प्रकर्षणोक्तं प्रोक्तमित्युच्यते, न तु कृतम् , 'कृते ग्रन्थे' इत्यनेन गतार्थत्वात् । पाणिनिना प्रोक्नमिति । स्वयमन्येन वा कृतं व्याकरणमध्यापनेनार्थव्याख्यानेन वा प्रकाशितमित्यर्थः । प्रेति किम् , देवदत्तेनाघ्यापितं प्रख्यातस्यैव ग्रन्यस्याध्यापनमिति नेहानेन प्रत्ययः । Page #435 -------------------------------------------------------------------------- ________________ ४३२] सिद्धान्तकौमुदी। [तद्धितेषु शैषिक. तित्तिरिवरतन्तुखण्डिकोखाच्छण् । (४-३-१०२ ) 'छन्दोब्राह्मणानि-' (सू १२७८ ) इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः । १४८३ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः। (४-३-१०३ ) काश्यपेन प्रोक्तमधीयते काश्यपिनः । १४८४ कलापिवैशम्पायनान्तेवासिभ्यश्च । (४-३-१०४) कलाप्यन्तेवासिभ्यः-हरिगुणा प्रोकमधीयते हारिद्रविणः । म् । नेह-देवदत्तेनाध्यापितम् । तित्तिरिवरतन्तु । तेन त्रोक्तमित्येव । तित्तिरि, वरतन्तु, खण्डिक, उखें एभ्य उक्तविषये छण् स्यादित्यर्थः । इत प्रारभ्य 'तेनैकदिक्' इतिपर्यन्तं प्रोक्ते वेदे भवन्ति, 'शौनकादिभ्यः छन्दास' इति छन्दो. ग्रहणस्य ततः पूर्वं तत उत्तरं चापकर्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्य. यान्तानामेषां केवलानां न प्रयोगः । किंत्वध्येतृवेदितृप्रत्यय शेरस्काणामेवेत्याहछन्दोब्राह्मणानीति । तद्विषयतेति । अध्येतृवेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः। तैत्तिरीया इति । प्रोक्ते वेदे छण् , ईयः । तैत्तिरीयः शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण् । 'प्रोक्ताल्लुक' इति तस्य लुगिति भावः । वारतन्तवीयाः, खाण्डिकीयाः । औखीयाः । तित्तिरिणा प्रोक्तः श्लोक इत्यत्र तु न, छन्दसीत्यनुवृत्तेः । छन्दःशब्देन च कल्पसूत्राणामपि ग्रहणम् , तेष सर्वशाखागतविधिवाक्यसंग्रहात्मकत्वात् । काश्यप । तेन प्रोक्तमित्येव । छस्या पवादः । काश्यपिन इति । काश्यपशब्दाद् णिनिः । णकार इत् , नकारादिकार उच्चारणार्थः । काश्यपिन्शब्दात् 'प्रोक्ताल्लुक्' इत्यध्येतृप्रत्ययस्याणो लुगिति भावः । एवं कौशिकिनः । 'ऋषिभ्यां' किम् ? इदानींतनेन काश्यपेन प्रोक्तं काश्यपेयम् । कलापि । तेन प्रोक्तमित्येव । कलापिशिष्यवाचिभ्यो वैशम्पायनशिष्यवाचि यश्च णिनिः स्यादित्यर्थः । कलाप्यन्तेवासिभ्य इति । उदाह्रियत इति शेषः । हारिद्रविण तित्तिरिवर । अणोऽपवादः । तद्विषयतेति 'शौनकादिभ्यश्छन्दसि' इत्यत्रास्यानुवृत्तेस्तित्तिरिणा प्रोक्ताः श्लोका इत्यत्र न भवतीति भावः । तैत्तिरीया इति । 'प्रोक्ताल्लुक्' इत्यध्येतृप्रत्ययस्य लुक् । एवमग्रेऽपि । काश्यप । छस्यापवादः । णकार उत्तरत्र वृद्ध्यर्थः । ननु 'वृद्धिनिमित्तस्य-' इति पुंवद्भावनेषेधोऽत्र फलमस्तीति चेत् । अत्राहुः-णिन्यन्तस्याध्येतृवादेतृविषयत्वेन स्त्रियामप्रवृत्तेः । प्रवृत्तावपि 'जातेश्च' इति सिद्धत्वात् , चरणत्वेन जातित्वादिति । ऋषिभ्यामिति किम् , इदानींतनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम् । कलापिवैशम्पायन । अणोऽ. पवादः। छं तु परत्वाद्वाधते । कलाप्यन्तेवासिनश्चत्वारः । ह रेछ, छगली, तुम्बुरुः, १ 'उखा' इति क. Page #436 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३३ वैशम्पायनान्तेवासिभ्यः-पालम्बिनः। १४८५ पुराणप्रोक्नेषु ब्राह्मणकल्पेषु। (४-३-१०५) तृतीयान्ताप्रोकार्थे णिनिः स्याद् यत्प्रोकं पुराणमोकाश्चेद् ब्राह्मण. कल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्काः । भल्लु, भाल्लविनः । शाव्यायन-शाकायनिनः । कल्पे, पिक-पनी कल्पः । 'पुराण' इति किम्इति । हरिद्रुर्नाम कलापिनः शिष्यः । ततः प्रोक्ते णिनिः, ओर्गुणः, श्रादिवृद्धिः । हारिद्रविन्शब्दादध्येत्रणः 'प्रोक्ताल्लुक्' इति लुगिति भावः । हरिदुः, छगली, तुम्बुरुः, उलप इति चत्वारः कलापिशिष्याः। तुम्बुरुणा प्रोक्तमधीयते तौम्बुरविणः । छगलिनस्तु ढिनुग्वक्ष्यते, औलपिनः । वैशम्पायनान्तवासिभ्य इति । उदाहियत इति शेषः । प्रालम्बिन इति । श्रालम्बिः, कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति नव वैशम्पायनशिष्याः। तत्र आलंबिशब्दाद् अध्येत्रणः प्रोक्ते णिनिः। श्रालम्बिन्शब्दादध्येत्रणः 'प्रोक्ताल्लुक्' इति लुक् । श्रालम्बिनः, कालिङ्गिनः, कामलिनः, आर्चाभिनः, आरुणिनः, लाण्डिनः । अत्र 'भापत्यस्य-' इति यलोपः। श्यामायनिनः । कठात्तु लुग्वक्ष्यते । कलापिनस्त्वण वक्ष्यते । वैशम्पायनशिष्यः कलापी। तथा च कलाप्यन्तेवासिनां वैशम्पायनशिष्यत्वादेव सिद्धे पृथग्ग्रहणात् तच्छिष्यशिष्याणां न ग्रहणमिति भाष्ये स्पष्टम् । पुराणप्रोक्नेषु । 'तेन प्रोक्तम्' इति 'णिनिः' इति चानुवर्तते । मन्त्रव्यतिरिक्तवेदभागा ब्राह्मणानि । बोधायनादिकल्पसूत्राणि कल्पाः । तथाभूतेषु पुरातनमुनिप्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्तारिणनिः स्यादित्यर्थः । तदाहतृतीयान्तादिति । यत्प्रोक्तमिति । सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राह्मणकल्पात्मकं चेदिति यावत् । पुराणप्रोक्तमित्येतद् व्याचष्टे । पुराणेनेति । ब्राह्मणे उदाहरति-भल्लु-भालविन इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्लान् ब्राह्मणभागानधीयते इत्यर्थे प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि भाल्लविन इति रूपमिति भावः । ब्राह्मणे उदाहरणान्तरमाह-शाट्यायन-शाट्यायनिन इति । शाट्यायनेतिप्रकृतिनिर्देशः । शाय्यायनेन पुरातनमुनिना प्रोक्लान् ब्राह्मणभागान् अधीयते इत्यर्थे प्रोक्तार्थणिनिप्रत्यये शाट्यायनिन्शब्दादध्येत्रणो लुकि शाट्यायनिन इति रूपमित्यर्थः । कल्प इति । उदाह्रियत इति शेषः । पिङ्ग-पैङ्गी कल्प इति । उलप इति। वैशम्पायनान्तेवासिनस्तु नव । श्रालम्बिः, कलिङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति । हारिद्रविण इति । एवं तौम्बुरविणः, औलपिनः । छगलिनस्तु ढिनुकं वक्ष्यति । प्रालम्बिन इति । Page #437 -------------------------------------------------------------------------- ________________ ४३४ ] सिद्धान्तकौमुदी । [द्धितेषु शैषिकयाज्ञवल्कानि ब्राह्मणानि । श्राश्मरथः कल्पः । श्रणि 'आपत्यस्य -' ( सू १०८२ ) इति यलोपः । १४८६ शौनकादिभ्यश्छन्दसि । ( ४-३-१०६ ) छन्दस्य - भिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौकिनः । १४८७ कठचरकाल्लुक् । ( ४-३ - १०७ ) आभ्यां प्रोक्तप्रत्ययस्य लुक्स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः । १४८८ कलापिनो ( ४-३ - १०८ ) कलापिना प्रोक्तमधीयते कालापाः । 'नान्तस्य टिलोपे सब्रह्मच रिपीठसर्पिकलापिकौथुमितै तिलिजाजलिलाङ्ग लिशिलालि शिखण्डि सूकरसनसुपर्वामुपसंख्यानम्' ( वा ४१८३ ) इत्युपसंख्यानाट्टिलोपः । १४८६ छ‍ लिनो ढिनुक् । पिङ्गेति प्रकृतिनिर्देशः । पिङ्गेन पुरातनमुनिना प्रोक्त इत्यर्थे शिनौ रूपम् । 'छन्दोब्राह्मणानि च तद्विषयाणि इत्यध्येतृ प्रत्ययान्तत्वनियमस्तु कल्पेषु सर्वत्र प्रर्वतत इति 'छन्दो ब्राह्मणानि -' इति सूत्रे भाष्ये स्पष्टम् । याज्ञवल्कानि ब्राह्मणानीति । याज्ञवल्क्येन प्रोक्लानीत्यर्थः । श्राश्मरथः कल्प इति । श्राश्मरथ्येन प्रोक्त इत्यर्थः । यलोप इति । यज्ञवल्काश्वरथशब्दौ कण्वादी । ताभ्यां यजन्ताभ्याम् अणि 'आपत्यस्य च-' इति यलोप इत्यर्थः । याज्ञवल्क्याश्मरथ्यावाधुनिकावित्यभिमानः । भाष्ये तु शाट्यायनादितुल्यकालत्वाद् याज्ञवल्क्यादिभ्यो णिनिप्रतिषेध इति तद्विषयता च नेति वचनद्वयमारब्धमित्यास्तां तावत् । कठचरकाल्लुक् । प्रोक्तप्रत्ययस्येति । प्रकरणलभ्यम् । कठा इति । वैशम्पायनान्तेवासित्व नक्षराणिनेर्लुक् । अध्येत्रणस्तु 'प्रोक्ताल्लुक्' इति लुक् 1 चरका इति 1 चरकेण प्रोक्तमधीयत इत्यर्थः । प्रोक्ताणोऽनेन लुकि अध्येत्रणः प्रोक्त ल्लुक् । कलापिनोऽण् । 'तेन प्रोक्तम्' इत्येव । वैशम्पायनशिष्यत्वात् प्रास्य निरपवादः । कालापा इति । कलापिनशब्दादणि टिलोपे कालापशब्दादरे तृप्रत्ययस्य छस्य एवं कालिङ्गिनः, कामलिनः श्रर्चाभिनः, श्रारुणिनः, तारिङनः, श्यामायनिनः । कठाल्लुकं वक्ष्यति कलापिनश्चाणम् । याज्ञवल्क्याश्मरथ्यशब्दौ क वादी, तेन ताभ्यां यञन्ताभ्यां वृद्धाच्छो न भवतीत्याशयेनाह - अणि आपत्यस्येतीति । ' याज्ञवल्क्यादयो ह्यचिरकालाः' इति भारतादिषु व्यवहारः, स एवानुसृतः सूत्रकृता । कठचरकाल्लुक् । कठशब्दस्य वैशम्पायनान्तेवासित्वारिणनिः । चरकाद- तयोर्लुक् । छन्दसीत्येव । काठाः चारकाः श्लोकाः । कलापिनोऽण् । त्रैशम्पायनान्तेवारित्वात्प्राप्तस्य णिनेरपवादः । ' इनण्यनपत्ये' इति प्रकृतिभावे प्राप्त आह- नान्तस्य टिलोप इति । 'कलापिनः' इत्युक्तेऽप्यौत्सर्गिकेऽणि सिद्धे पुनरग्रहणमधिकविधानार्थ सद्वाधकबाधनार्थ भवति । तेन माथुरेण प्रोक्ता माधुरी वृत्तिः । मौदाः पैप्पलादाः शाकलाः इति सिद्धम् । मुद पिप्पलाद शाकल्य एभ्यः 'पुराणप्रोक्तेषु -' Page #438 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [४३५ (४-३-१०६) छगलिना प्रोक्तमधीयते छागलेयिनः । १४६० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः। (४-३-११०) णिनिः स्यात् । पाराशर्येण प्रोक्तं मितुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः । १४६१ कर्मन्दकृशाश्वादिनिः। (४-३-१११ ) 'भिक्षुनटसूत्रयोः' इत्येव । कर्मन्देन प्रोनमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः । १४९२ तेनैकदिक् । लुगिति भावः । 'इनण्यनपत्ये' इति प्रकृतिभावमाशङ्कयाह-नान्तस्येति। छग. लिनो ढिनुक् । छगलिन्शब्दादुक्तविषये ढिनुक्प्रत्ययः स्यादित्यर्थः। कलाप्यन्तेवासित्वात् प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इत् , उकार उच्चारणार्थः। ढिन् शिष्यते। ढस्य एय् , टिलोपः। ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य। णिनिः स्यादिति । उक्तविषय इति शेषः । मण्डूकप्लुल्या णिनिरेवानुवर्तत इति भावः। पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शिलालिना प्रोक्तं नटस्त्रमित्यर्थे च तृतीयान्तारिणनिः स्यादिति यावत् । भिक्षवः संन्यासिनः, तदधिकारिक सूत्रं भिक्षुसूत्रं व्यासप्रणीतं प्रसिद्धम् । पाराशयेणेति । पराशर. शब्दाद्र्गादित्वाद् गोत्रे यषि पाराशर्यो व्यासः । इह त्वनन्तरापत्ये गोत्रत्वारोपाद्यञ् । तेन प्रोक्ते भिक्षुसूत्रे णिनिः, ततोऽध्येतृप्रत्ययस्य छस्य लुक् । पाराशरिण इति । जसि रूपम् । शैलालिन इति । शिलालिन्शब्दाद् नटसूत्रे प्रोक्त णिनी टिलोपे शैलालिन्शब्दादध्येतृप्रत्ययस्याणो लुकि शैलालिन इति जसि रूपमिति भावः । कर्मन्द । कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे कृशाश्वेन प्रोक्तं नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः, ततोऽध्येत्रणो लुक् । एवं कृशाश्विनः । तेनैकदिक् । सहार्थे तृतीया। एका दिक् अधिकरणात्मिका यस्य तदेकदिक् । तेन सह एकस्या इति णिनेरपवादोऽण् । छगलिनो दिनुक् । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादोऽयम् । पाराशर्य । मण्डूकप्लुत्या णिनिरिह सम्बध्यत इत्याह-णिनिः स्यादिति । तद्विषयताऽत्रेष्यते । तदर्थ छन्दोग्रहणमनुवर्त्यम् । सूत्रयोश्छन्दस्त्वं तु गौण्या वृत्त्या बोध्यम् । भिक्षुसूत्रमिति । चतुर्लक्षणीरूपम् । पाराशरिण इति । पराशर्यो व्यासः । अनन्तरापत्येऽपि गोत्रत्वेनोपचाराद् 'गर्गादिभ्यः-' इति यम्, 'आपत्यस्य च-' इति यलोपः । अध्येत्रणस्तु 'प्रोकात्-' इति लुक् । भिक्षुनटसूत्रयोः किम्, पाराशरम् । शैलालम् । कर्मन्द । इहापि छन्दोनुवृत्त्यादि प्राग्वत् । भिक्षुनटसूत्रयोः किम् , कार्मन्दम् । काश्विम् । तेनैकदिक् । तृतीयान्तादेक १ 'अयम्' इति पाठः क्वचिनास्ति । Page #439 -------------------------------------------------------------------------- ________________ ४३६ ] सिद्धान्तकौमुदी। तद्धितेषु शैषिक(४-३-११२) सुदाना अद्रिणा एकदिक् सौदामनी । १४६३ तसिश्च । (४-३-११३) स्वरादिपाठादव्ययत्वम् । पीलुमूलेन एकदिक पीलुमूलतः । १४६४ उरसो यञ्च । (४-३-११४) चात्तसिः । अयोऽपवादः । उरसा एकदिक् उरस्थः, उरस्तः । १४६५ उपज्ञाते । (४-३-११५) तेन इत्येव । पाणिनिनोपज्ञातं पाणिनीयम् । १४६६ कृते प्रन्थे । (४-३-११६) वररुचिना कृतो वाररुचो ग्रन्थः । १४६७ संशायाम् । (४-३-११७) तेन इत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माहिकं मधु । १४६८ कुलालादिभ्यो वुञ् । (४-३-११८) तेन कृते संज्ञाय म् । कुलालेन कृतं कौलालकम् । वारुडकम्। १४६६ मुद्राभ्रमरवटरपादपादञ्। (४-३-११६) तेन कृते संज्ञायाम् । तद्राभिः कृतं चौद्रम् । भ्रामरम् । वाटरम् । पादपम् । १५०० तस्येदम् (४-३-१२०) उपगोरिदमौपगवम् । 'वहेस्तुरणिट् च' दिशि विद्यमानमित्यर्थ तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । सौदामनीति । अणि 'अन्' इति प्रकृतिभावान टिलोपः। तसिश्च । 'तेनैक देक्' इत्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः । इकार उच्चारणार्थः । स्वरादिपाठादिति । 'स्वरादिनिपातमव्ययम्' इति प्रकरणे 'तद्धितश्चासर्वविभक्तिः' इत्यत्र 'तसिलादयः-' इति परिगणने तसेः पाठादित्यर्थः । उरसो यश्च । उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः । उपशाते। तेनोपज्ञातमित्यर्थे तृतीयान्ताद् थाविहितं प्रत्ययाः स्युरित्यर्थः । उपज्ञातं प्रथमज्ञातम् । कृते ग्रन्थे । तेन कृतो पन्थ इत्यर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायाम । तेनेत्यवेति । तेन कृतमित्यर्थे संज्ञायां तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । प्रन्थे इति नानुवर्तते । तदाह-अग्रन्थार्थमिति । कुलालादिभ्यो वुझ् । तेन कृते संज्ञायामिति शेषपूरणम् । वारुडकमिति । वरुडो जातिविशेषः । नुद्राभ्रमर । तेन कृते संज्ञायामिति शेषपूरणम् । नुा मधुमक्षिकाः । तस्येदम् । इदमित्यर्थे षष्ठयन्तादणादयः साधारणप्रत्यया । राष्ट्रावारेत्यादिदिगित्यर्थे श्रणादयः स्युः । एका दिक् समाना दिगित्यर्थः । पुनस्तेनेत्युक्तिश्छन्दोऽधिकारनिवृत्त्यर्था । सौदामनीति । 'अन्' इति प्रकृतिभावान दिलोपः । 'तडित्सौ' दामनी विद्युत्' इत्यमरः । तसिश्च । पूर्वोक्तविषये । उपनाते। विनोपदेशं ज्ञातमुपज्ञातम् । कुलालादिभ्यो । कुलाल वरुड चण्डाल निषाद कुम्भकार श्वपाकादयः कुलालादयः । क्षुद्राभ्रमर । पादपशब्दाच्छे प्राप्ते, 'अन्येभ्योऽपि अणि अञ् विधीयते । तस्येदम् । अणादयः पञ्च महोत्सर्गाः, घादर श्च षष्ठयन्तात्सम्ब. Page #440 -------------------------------------------------------------------------- ________________ प्रकरणम् २८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३७ (वा २६१०)। संवोदुः सं सांवहिनम् । 'अग्नीधः शरणे रण भरवं च' (वा २६११)। अग्निमिन्छ अनीत् , तस्य स्थानमानीध्रम् । तास्थ्यासोऽप्यानीध्रः । 'समिधामाधाने न्यण' (वा २६१२) । सामिधेन्यो मन्त्रः, सामिधेनी भिर्विशिष्य विहिता घादयश्च प्रत्यया यथाविहितं स्युरित्यर्थः । अत्र शेषे इत्यनु. वृत्तम् । ततश्च अपत्यादिचतुरर्थ्यन्तार्थेभ्योऽन्येषां शेषभूतसर्वविशेषाणां सामा. न्यविशेषरूपेण प्रत्ययार्थत्वं लभ्यते। अपत्यादीनां तु न केनापि रूपेण इदंशब्दा. र्थत्वमिति 'तस्यापत्यम्' इत्यत्रोक्तम् । वहेस्तुरणिट् चेति । वार्तिकमिदम् । तुरिति तृन्तृचोः सामान्येन प्रहणम् । वहधातोविहितो यः तृप्रत्ययः तस्मादण स्यात् तप्रत्ययस्य इडागमश्च । तत्र अण पूर्वेण सिद्ध इड्विध्यर्थमनूद्यते। संवोदुःस्वमिति। विप्रहप्रदर्शनम् । वहेस्तृच् , तृन् वा। वहेरनुदात्तत्वाद् ‘एकाच उपदेशे-' इति नेट् । ढत्वधत्वष्टुत्वढलोपाः। 'सहिवहोरोदवर्णस्य' इत्योत्त्वम्। सांवहित्रमिति । ढत्वादीनामसिद्धत्वादलौकिक एव विप्रहवाक्ये पूर्वमिट् । ततो निमित्ताभावान्न ढत्वादि । अग्नीधः शरणे रण भत्वं चेति । वार्तिकमिदम् । शरणमित्यर्थे अमीच्छब्दात् षष्ठयन्ताद्रण, तस्मिन्परे भत्वं च वक्तव्यमित्यर्थः । शरणं गृहम् । अग्निमिन्द्धे अग्नीदिति । ऋत्विग्विशेषोऽयम् । इन्धेः विप्, 'अनिदिताम्-' इति नलोपः। प्राग्नीध्रमिति । सोमे महावेदेरुत्तरार्धे पञ्चारनिचतुरश्रस्थानविशेषसंज्ञेयम् । भत्वान जश्त्वम् । प्रत्ययखरेणान्तोदात्तोऽयं शब्दः । तैत्तिरीये 'एतद्वै यज्ञस्यापराजितं यदामीध्रम्' इत्यादावाद्युदात्तत्वं तु 'श्रामीध्रसाधारणाद वक्तव्यः' इति स्वार्थिक अनि बोध्यम् । नन्वेवम् 'श्रामीध्रः प्रत्याश्रावयेत्' इत्यादौ कथमृत्विग्विशेष प्रामीध्रशब्दः । तत्राह-तात्स्थ्यादिति । श्रामीध्राख्यदेशस्थन्धिनि स्युः । अनन्तरादिष्वनभिधानान, देवदत्तस्यानन्तरमिति । वहेस्त्विति । इडर्थमिदमुपसंख्यानम् , अण तु सिद्ध एवानूद्यते । तुरिति तृन्तृचोः सामान्यग्रहणम् । ढत्वादीनामसिद्धत्वादलौकिके प्रक्रियावाक्ये पूर्वमिट. ततो निमित्ताभावान ढत्वादीत्याशयेनोदाहरति-सांवहित्रमिति । अग्नीदिति । किम् । ऋत्विग्विशेषोऽयम् । 'त्वमग्निदृतायते' इत्यत्र तु छान्दसं ह्रखत्वम् । प्राग्नीध्रमिति । भत्वविधानाद्धस्य जश्त्वं नेति भावः । सोऽपीति । अमीदपीत्यर्थः । ननु 'पिबानीध्रात्तव' इत्यादावा. युदात्तं प्रयुज्यते । वार्तिके 'तुरण' इति पाठादयमन्तोदात्त इति चेत् । अत्राहः'श्रामीध्रसाधारणादञ्' इति वार्तिकेन विहितो यः स्वार्थेऽञ् तत्पक्षे तत्राद्युदात्तत्वं बोध्यमिति । समिधामिति । कर्मणि षष्टीयम् । श्राधानमिति करणे ल्युट । १ क्वचित् पुस्तके 'भम्' इति पाठः। Page #441 -------------------------------------------------------------------------- ________________ ४३८ ] सिद्धान्तकौमुदी । [राद्धितेषु शैषिक 2 ऋक् । १५०१ रथाद्यत् । ( ४-३ - १२१ ) रथ्यं चक्रम् । १५०२ पत्त्रपूर्वादम् । (४-३-१२२ ) पत्रं वाहनम् । अश्वरथस्येदम श्वरथम् । १५०३ पत्त्राध्वर्युपरिषदश्च । (४-३-१२३ ) श्रञ् । 'पत्राद्वाह्ये' ( वा २६०८ ) । अश्वस्येदं वहनीयमाश्वम् । श्राध्वर्यवम् । पारिषदम् । १५०४ हलसीराट्ठक् त्वाद् ऋत्विग्विशेषे आग्नीध्रशब्दो गौण इति भावः । समिधामिति । श्रधीयते अनेने त्याधानो मन्त्रः । श्रधानो मन्त्र इत्यर्थे षष्ठयन्तात् स मेच्छब्दात् षेन्यप्रत्ययो वा इत्यर्थः । षित्वं ङीषर्थमित्याह - सामिधेनी गिति । सामिधेन्यशब्दाद् ङीष् 'हलस्तद्धितस्य' इति यलोपः । रथाद्यत् । 'तस्येदम्' इत्येव । रथ्यं चक्रमिति । ‘रथाद्रथाङ्गे' इति वचनाच्चक्रमिति विशेष्यम् | पत्त्रपूर्वादञ् । रथादित्येव । पत्त्रं वाहनमिति । 'पत्त्रं वाहनपक्षयोः' इति को ः | पत्त्राध्वर्युपरिषदश्च । अञिति । शेषपूरणम् । पत्त्रादिति । पत्त्राद्वाच्य एवेति वक्तव्यमित्यर्थः । श्वमिति । पत्त्रेत्यर्थग्रहणमिति भावः । श्रध्वर्यवं पारिषदमिति । कर्मणि षष्ठयन्तादाधान करणे न्यण् स्यात् । सामिधेन्य इति । यया श्रग्निः समिध्यते सा समित्, सम्पदादित्वात्करणे क्विप् तस्या आधन इति विग्रहः । सामिधेनीति | षित्त्वान्ङीष्, 'हलस्तद्धितस्य' इति यलोपः । या ऋचा समिदाधीयते सा सामिधेनीत्यर्थः । ' प्रवो वाजा प्रभिद्यवः' इत्याद्याः 'श्राजुहोता दुवस्यत' इत्यन्ताः सामिधेन्य इति व्यवह्रियन्ते । रथाद्यत् । अणोऽपवादः । ' रथाद्रथाङ्गे' इति वार्तिकमभिप्रेत्याह - रथ्यं चक्रमिति । ' रथसीताहले यो यद्विधौ' इति तदन्तविधिरुपसंख्यायते । परमरथ्यम् । उत्तमरथ्यम् । द्वयो थयोरनं द्विरथम् । इह 'द्विगोर्लुगनपत्ये' इति यतो लुक् । ननु यत्प्रत्ययोऽत्र रथाङ्ग एव यदीष्यते कथं तर्हि 'रथस्य वोढा रथ्यः' इति । ' तद्वहति-' इत्यनेनेति चेत् एवं तर्हि अयमेव यद्रथाङ्ग इव वोढर्यपीष्यतां, 'तद्वहति रथयुगप्रासङ्गम् ' इत्यत्र रथग्रहणं त्यज्यतामिति चेत् । मैवम् । द्वौ रथौ वहति द्विरथ्य इत्यत्र 'द्विगोर्लुगनपत्ये' इति प्राग्दीव्यतीयस्य लुक्प्रसङ्गात् । 'तद्वहति-' इति यत्प्रत्यस्य तु प्राग्दीव्यतीयत्वाभाव न्न लुगिति द्विरथ्य इति सिध्यतीति । ननु 'द्विगोर्लुगनपत्ये' इत्यत्राचीत्यस्यापकर्ष णात्कथमत्र यतो लुक्प्रसक्तिरिति चेत् । अत्राहुः - ' तद्वहति - ' इत्यत्र रथग्रहण मेव ज्ञापकमेतस्य यतो हलादेरपि लुग् भवतीति । अन्यथा तत्र रथग्रहणं व्यर्थमेव स्थात्, तथा च द्वयो रथयोरङ्गमिति विग्रहे द्विरथमिति प्रयोगः सुस्थ इति । पत्त्रपूर्वादञ् । पूर्वस्य यतोऽपवादः । पत्त्रमिति । पतन्त्यनेनेति विप्रहे 'दानी -' इत्यादिना ष्ट्रन् । रथादित्येव सम्बध्यत इत्याह- अश्वरथस्येदमिति । श्रश्वयुक्तो रथोऽश्वरथस्तस्या : 1 Page #442 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४३६ 1 ( ४-३-१२४ ) हालिकम् । सैरिकम् । १५०५ द्वन्द्वाद् वुन्वैर मैथुनिकयोः । (४-३-१२५) काकोलूकिका | कुसकुशिकिका । "वैरे देवासुरादिभ्यः प्रतिषेधः ' ( वा २११४ ) । वैवासुरम् । १५०६ गोत्रचरणाद् वुञ् । (४-३-१२६ ) औपगवकम् | 'चरणाद्धर्मान्नाय्योरिति वक्तव्यम्' ( वा २११३ ) । काठकम् । १५०७ सङ्घाङ्कलक्षणेष्वयञिञामण । ( ४-३ - १२७ ) घोषग्रहणमपि अध्वर्योरिदम्, परिषद इदमिति विग्रहः । हलसीराट्ठक् । तस्येदमित्येव । हालिकम् । सैरिकमिति । हलस्येदम्, सीरस्येदमिति विग्रहः । द्वन्द्वाद् वुन् । वैरे मैथुनिकायां च इदन्त्वेन विवक्षिते द्वन्द्वात् षष्ठयन्ताद् वुन् स्यादित्यर्थः । काकोलूकिकेति । काकोलूकस्य वैरमित्यर्थः । वुनि स्त्रीत्वं लोकात् । कुत्स - कुशिकिकेति । कुत्सकुशिकयोर्विवाह इत्यर्थः, वुनि स्त्रीत्वं लोकात् । मिथुनं दम्पती । तस्य कर्म मैथुनिका । मनोज्ञादित्वाद् वुञ् । स्त्रीत्वं लोकात् । वैरे देवासुरेति । वार्तिकमिदम् । दैवासुरमिति । देवासुरयोर्वैरमित्यर्थः । वनभावे अण् । मैथुनकायां तु देवासुरिकेत्येव । ' द्वन्द्वे देवासुर -' इति त्वपपाठः, अत्र भाष्ये वैर इत्येव वार्तिकपाठात् । ‘शिशुक्रन्द -' इति सूत्रभाष्ये तु 'द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः' इति पठितम्, दैवासुरम् राक्षोऽसुरमित्युदाहृतं च । देवासुराद्यधिकृत्य कृतमाख्यानमित्यर्थः । गोत्रचरणाद्वुञ् । गोत्रप्रत्ययान्तात् शाखाध्येतृवाचिनश्च ष्टतादिदमित्यर्थे, वुञित्यर्थः । प्रवराध्यायप्रसिद्धमिह गोत्रमित्यभिप्रेत्योदाहरतिऔपगवकमिति । श्रौपगवस्येदमित्यर्थः । वस्तुतस्तु श्रौपगवः प्रवरसूत्रेषु न दृष्टः । ग्लौचुकायनकमिति वृत्त्यादौ उदाहृतम् । चरणादिति । चरणाद्यो वुञ् विहितः स धर्मे आम्नाये च वाच्ये भवति, नान्यत्रेत्यर्थः । काठकमिति । कठेन प्रोक्लमधीयते कठाः, तेषां धर्म आम्नायो वेत्यर्थः श्राम्नायो वेदाभ्यासः । सङ्घाङ्क । ङ्गमित्यर्थः । पत्त्राध्वर्यु । प्रणोऽपवादः । वार्तिकमाह - पत्त्राद्वाह्य इति । इह पत्त्रेत्यर्थग्रहणे, इतरयोस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम् । द्वन्द्वाद् वुन् । अणोऽपवादः । छं तु परत्वाद्वाधते । काकोलूकिकेति । काकोलूकस्य वैरमित्यर्थः । वुन्नन्तं स्त्रियाम् । 'वैर मैथुनिकादिवुन्' इति स्त्र्यधिकारे श्रमरः । कुत्सकुशिकिति । कुत्कुशिकयोमैथुनिका विवाहरूपः सम्बन्ध इत्यर्थः । मिथुनं हि दम्पती तस्य कर्म क्रियानिष्पादनम्, मनोज्ञादित्वाद् वुञ् । वुमन्तं चेदं स्त्रियाम् स्वभावात् । अत्र वदन्ति - कुत्साश्च कुशिकाश्च कुत्सकुशिकास्तेषां मैथुनिकेत्यपि विग्रहः । इह कुत्सश्च कुशिका चेति द्वयोरेव मैथुनिकायां वुनिति नाग्रहः कार्यः । 'यूनि लुक्' इति सूत्रे कैटेन श्रत्रिभरद्वाजिकेत्यादिकं प्रसङ्गादुदाहृत्य बहुवचनान्तद्वन्द्वाद् वुञो व्याख्या " ――― Page #443 -------------------------------------------------------------------------- ________________ ४४० ] सिद्धान्तकौमुदी । [तद्धितेषु शैषिक कर्तव्यम्' ( वा २११५ ) । श्रञ् । बैदः, सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । बञ्-गार्गः, गार्गम् । इञ् - दात्तः, दाक्षम् । परम्परासम्बन्धोऽङ्कः । साक्षात्तु लक्षणम् । १५०८ शाकलाद्वा । ( ४-३ - १२८ ) श्रवोक्ते । पत्ते चरणस्वाद् वुञ् । शकलेन प्रोकमधीयते शाकलाः, तेषां सङ्घोऽङ्को घोषो वा शाकलः, शाकलकः । लक्षणे क्रीबता । १५०६ छन्दोगौक्थिकया शिकववृचनटाञ्ञ्यः । (४-३-१२६ ) छन्दोगानां धर्म आम्नायो व छान्दोग्यम् । चक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् । 'चरणाद्धर्नानाययोः' ( वा २११३ ) इत्युक्तम् । तत्साहचर्यानटशब्दादपि तयोरेव । १५१० न दण्डमाअञन्तात्, यजन्तात्, इलन्ताच्च सङ्के अङ्के लक्षणे च इदन्त्वेन विवक्षिते अणित्यर्थः । छस्यापवादः । घोषेति । 'सङ्घाङ्कलक्षणघोषेषु' इति सूत्रं कर्तव्य मेत्यर्थः । तथा च तिस्रः प्रकृतयः प्रत्ययार्थाश्चत्वार इति न यथासंख्यम् । गार्ग इति । सङ्घः अङ्को घोषो वेति शेषः । गार्गमिति । लक्षणमिति शेषः । एवं दाक्षो दाक्षमित्यत्रापि । नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यत आह-- परमपरेति । यथा गवादिनिष्ठस्तप्तमुद्राविशेषः अङ्कः । तस्य हि गोद्वारा स्वामिसम्बन्धः । साक्षादिति । विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः । बैदी विद्या । 'घोष आभीरपल्ली स्यात्' इत्यमरः । शाकलाद्वा । शकलेनेति । शकलशब्दात्प्रोक्लाणन्तादध्ये तृप्रत्ययस्य लुकि शाकलशब्दाद् 'गोत्रचरणात् -' इति धर्माम्नाययोर्बुञोऽपवादः अण् । तदभावे वुञ् । छन्दोगौक्थिक । संघादयो निवृत्ताः । छन्दोगादीनां चरणत्वाद् धर्माम्नाययोरिति संबध्यते । छन्दोग, औक्थिक, याज्ञिक, बहूवच, नट एभ्यो धर्मे आम्नाये च इदंत्वेन विवक्षिते यः स्यादित्यर्थः । ननु नटस्य अचरणत्वात्तत्र धर्माम्नाययोः कथमन्वय इत्याशङ्कते - चरणाद्ध तत्वादिति । सङ्घाङ्क । पूर्वस्य वुञोपवादः । घोषग्रहणमिति । एवं च प्रकृतयस्तिस्रः प्रत्यार्थविशेषणानि चत्वारीति वैषम्याद्यथासंख्यमपि न प्रवर्तने । गार्ग इति । 'आपत्यस्य -' इति यलोपः । यद्यप्यङ्कलक्षणयोः पर्यायत्वं प्रसिद्धं 'कलङ्काङ्कौ लाञ्छनं चचिह्नं लक्ष्म च लक्षणम्' इत्यमरः, तथापि पृथग्ग्रहणसामथ्यादिह विशेषपरतेत्याह — परम्परासम्बन्ध इति । यथा गवादिनिष्ठः स्वामिना द्वारा सम्बन्धः । साक्षादिति । यथा बिदानां विद्या । घोष आमीरस्थानम् । णित्त्वं ङीबर्थं पुंवद्भावनिषेधार्थं च । बैदी विद्या यस्य बैदीविद्यः । बिदानामसाधारणी या विद्या तद्वानित्यर्थः । छन्दोगौक्थिक । सङ्घादयो निवृत्ताः, एभ्यो ञ्यः स्यत्तस्येदमित्यर्थे । चरणशब्देभ्यो वुञोऽपवादः न त्वौत्सर्गिकस्याणः । धर्मान्नाययोरित्युक्तेर्नेह । छन्दोगं Page #444 -------------------------------------------------------------------------- ________________ प्रकरणम् २८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४४१ णवान्तेवासिषु । (४-३-१३०) दण्डप्रधाना माणवा दण्डमाणवाः, तेषु शिष्येषु च तुम्न स्यात् । दाचा दरडमायवाः शिष्या वा । १५११ रैवतिकादिभ्यश्छः । (४-३-१३१) तस्येदमित्यर्थे । वुलोऽपवादः । रैवतिकीयम् । बैजवापोयम् । १५१२ कौपिजलहास्तिपदादण् । (४-३-१३२) (वा २६१८) । कुपिजलस्थापत्यम् । इहैव निपातनादण् । तदन्तात्पुनरण् । कौपिञ्जलः । गोत्रवुजोऽपवादः । हस्तिपादस्थापत्यं हास्तिपदः, तस्यायं हाखिपदः। १५१३ आथर्वणिकस्येकलोपश्च । (४-३-१३३) अपस्यात् । पाथर्वर्माम्नाययोरित्युक्तमिति । यद्यपीति शेषः । परिहरति-तत्साहचर्यादिति। तथापि छन्दोगादिसाहचर्यानटशब्दादपि धर्माम्नाययोरेव प्रत्यय इत्यर्थः। न दण्ड। दण्डमाणवाश्च अन्तवासिनश्च तेष्विति द्वन्द्वः । दाक्षा इति । दक्षस्यापत्यं दाक्षिः, तस्येमे दण्डमाणवाः शिष्या वेत्यर्थे गोत्रत्वलक्षणो वुञ् न भवति, कित्वौत्सर्गिको. ऽणेव । रैवतिकादिभ्यश्छः । तस्येदमित्यर्थ इति । शेषपूरणम् । वुञ इति। गोत्रत्वलक्षणवुञोऽपवाद इत्यर्थः । रैवतिकीयमिति । रेवत्या अपत्यं रैवतिकः । रेवत्यादिभ्यष्ठक् । रैवतिकस्येदमिति विप्रहः । बैजवापीयमिति । बीजवापस्यापत्यं बैजवापिः, तस्येदमिति विग्रहः । कौपिजलहास्तिपदादण् । कुपिजलस्यापत्यमित्यनन्तरम् 'इत्यर्थे' इति शेषः । इहेति । अस्मिन् वार्तिके कौपिजलेति निर्देशाद् अत इजं बाधित्वा पणित्यर्थः । तदन्तादिति । अणन्ताद् 'तस्येदम्' इत्यर्थे अनेन वार्तिकेन पुनरणित्यर्थः । हस्तिपादस्येति । हस्तिन इव पादौ मस्येति विग्रहः, 'पादस्य लोप-' इति न भवति, अहस्त्यादिभ्य इति प्रतिषेधात् । हस्तिपादस्यापत्यं हास्तिपदः । अत इसं बाधित्वा अत एव निपातनादण पद्भावश्च । हास्तिपदस्यायमित्यर्थे अनेन अणिति भावः । गोत्रवुनोऽ. पवादः । पाथर्वणिकस्येकलोपश्च । इदं सूत्रमिति कैयटः । वार्तिकमित्यन्ये । अण् स्यादिति । पाथर्वणिकशब्दात्तस्येदमित्यर्थे अण् स्यात् । प्रकृतेरि. कुलमित्यादि । न दण्ड । 'तस्येदम्' इत्यनुवर्तते तेषु शिष्येषु चेति प्रत्ययार्थविशेषणेष्विति शेषः । दाक्षा इति । 'इमश्च' इत्यण् । रैवतिकादिभ्यश्छः। रैवतिकशब्दो 'रेवत्यादिभ्यष्ठक्' इति ठगन्तः। रैवतिक, औदमेधि, बैजवापीत्यादिरैवतिकादयोऽमी गोत्रप्रत्ययान्ताः, ततः पूर्वेण वुनि प्राप्ते छविधानार्थमिदमित्याह-वुमओपवाद इति । अत इसमाशङ्कयाह-इहैव निपातनादिति । हस्तिनः पाद इव पादो यस्य हस्तिपादः । पादस्य लोपो न भवति अहस्त्यादिभ्य इति वचनात्तदाह-हस्तिपादस्येति । हास्तिपद Page #445 -------------------------------------------------------------------------- ________________ ४४२] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्दीव्यतीयणिकस्यायमाथवणो धर्म आम्नायो वा । चरणाद् वुमोऽपवादः । ___ इति तद्धितेषु शषिकप्रकरणम् । अथ तद्धितेषु प्राग्दीव्यतीयप्रकरणम् । २६ । १५१४ तस्य विकारः। (४-३-१३४) 'भश्मनो विकारे टिलोपो वक्तव्यः' (वा ४१८५) । अश्मनो विकार पाश्मः । भाप्मनः । मार्तिकः । कस्य लोपश्चेत्यर्थः । आथर्वणिकस्येति । अथर्वणा प्रोक्तो वेदः अथर्वेत्युपचर्यते, तमधीते प्राथर्वणिकः । वसन्तादित्वाट्टक् । आथर्वणिकस्यायमित्यर्थे अनेन अणि, इको लोपे 'दाण्डिनायन-' इति टिलोपाभावे, पाथर्वण इति रूपमित्यर्थः । धर्म आम्नायो वेति । 'चरणाद्धर्माम्नाययोः' इत्युक्तेरिति भावः । ननु तस्येदमित्येव सिद्ध अरिवधिर्व्यर्थ इत्यत आह-चरणाद् वुञोऽपवाद इति । आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः । इति तद्धितेषु शैषिकप्रकरणम् । अथ विकारार्थप्रत्यया निरूप्यन्ते । तस्य विकारः। विक्रियते इति वि. कारः, कर्मणि घञ् । प्रकृतेरवस्थान्तरात्मिकां विक्रियां प्राप्त इत्यर्थः । विकार इत्यर्थे षष्टयन्तादणादयः साधारणा वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरि. त्यर्थः । अश्मनो विकार इति । विकारार्थकप्रत्यये परे अरमन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः । अनिति प्रकृतिभावापवादः । श्राश्म इति । अणि टिलोपे इति । अस्मादेव निपातनादण् पद्भावश्चेति भावः। आथर्वणिकस्य । अथर्वणा प्रोक्तो वेदोऽथा, अभेदोपचारात् 'तमधीते' वसन्तादित्वादृक् 'दाण्डिनायन-' आदिसूत्रे निपातनाडिलोपाभावः । अन्ये त्वाहुः-अथर्वणा प्रोक्तमधीते आणिकः। इह प्रोक्तेऽण् , ततः 'छन्दोब्राह्मणानि.' इति तद्विषयतयाथर्वण शब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक् , तस्य विधानसामर्थ्यात्प्रोक्ताल्लुङ् नेति । इति तत्त्वबोधिन्यां शैषिकप्रकरणम्। तस्य विकारः । षष्ठयन्ताद्विकारे अणादयः स्युः । घादिसम्बद्धस्य तस्य प्रहणस्य निवृत्तये पुनस्तस्येत्युक्तम् । अणादयस्तु न निवर्तन्ते 'प्राग्दीव्यत:-' 'प्राग्भवनात्' इति विशिष्टावधिपरिच्छेदेनाधिकृतत्वात् । इह प्राणिरजतादिभ्योऽञ्, श्रोरञ्, अनुदात्तादेश्च, मयड्वैतयोः, नित्यं वृद्धशरीरादिभ्यः, पिष्टाच्च, इत्यादिभिरपवादानां वक्ष्यमाणत्वादणि श्राद्युदात्तम् अवृद्ध प्रतिपदमवक्ष्यमाणप्रत्ययं चोदाहरणमिति पर्यालोच्य तथैवोदाहरति-प्राश्म इत्यादि । अश्मन्-भस्मन्शब्दौ Page #446 -------------------------------------------------------------------------- ________________ प्रकरणम् २६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४४३ " १५१५ अवयवे च प्राण्योषधिवृक्षेभ्यः । ( ४-३ - १३५) चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्व काण्डं भस्म वा । पैप्पलम् । १५१६ बिल्वादिभ्यो ऽण् । ( ४-३ - १३६) बैल्वम् । १५१७ कोपधाच्च । रूपम् । एवं चर्मणो विकारः चार्मः कोशः । ' चर्मणः कोशे' इत्युपसंख्यानाट्टिलोपः । भास्मन इति । भस्मनो विकार इत्यर्थः । श्रणि 'अन्' इति प्रकृतिभावान्न टिलोपः । मार्त्तिक इति । मृत्तिकाया विकार इत्यर्थः । अत्र 'प्राणिरजतादिभ्योऽन्' 'ओरञ्' 'अनुदात्तादेश्च' इत्यादिवच्यमाणापवादविषयभि नमुदाहरणम् । तत्र अश्मन् भस्मन् चर्मन् इति त्रयं मनिन्प्रत्ययान्तं नित्स्वरेणायुदात्तम् । मृत्तिकाशब्दोऽपि 'मृदस्तिकन्' इति तिकन्नन्तः । नित्स्वरेणायुदात्तः । अवयवे च प्राण्योषधि । प्राणिवाचिन श्रोषधिवाचिनो वृक्ष - वाचिनश्च षष्ठयन्तेभ्यः श्रवयवे विकारे च अणादयः साधारणा उक्ता वक्ष्यमाणाश्च प्रत्यया यथाविहितं स्युः । श्रन्येभ्यस्तु विकारमात्र इत्यर्थः । प्राणिन उदाहरतिमायूर इति । 'लघावन्ते -' इति मयूरशब्दो मध्योदात्तः । ततः 'प्राणिरजतादिभ्यः -' इत्यञ् । श्रोषधेरुदाहरति — मौर्वमिति । मूर्वा श्रोषधिविशेषः । तस्या अवयवो विकारो वेत्यर्थः । श्रौत्सर्गिकोऽण् । 'अनुदात्तादेश्व' इत्यञ् तु वक्ष्यमाणो न मवति, 'तृणधान्यानां च द्वयषाम्' इत्याद्युदात्तत्वात् । वृक्षस्योदाहरति — पैप्पलमिति । पिप्पलः अश्वत्थः, तस्यावयवो विकारो वेत्यर्थः । ‘लघावन्ते-' इति मध्योदात्तः पिप्पलशब्दः । 'अनुदात्तादेश्च' इति वक्ष्यमाणागोऽभावे औत्सर्गिकोऽण् । बिल्वादिभ्यो ऽण् । एषु प्राण्योषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे अण् स्यादित्यर्थः । बैल्वमिति । बिल्वस्यावयवो विकारो वेत्यर्थः । विल्व, व्रीहि, काण्ड, मुद्ग, मसूर, गोधूम, इक्षु, वेणु, गवेधुक, कार्पासी, पाटली, कर्कन्धू, कटीर इति बिल्वादयः । तत्र गवेधुकस्य 'कोपधाच्च' इत्यणि सिद्धे मयटो बाधनार्थमिह पाठः । इतरेषां तु 'अनुदात्तादेश्च' इत्यत्रो बाधनार्थमिति मनिन्प्रत्ययान्तौ, 'मृदस्तिकन्' नित्स्वरेण त्रयोऽप्यायुदात्ताः । प्राचीनस्य तस्येत्यस्य निवृत्तत्वादधिकारोक्नप्रत्यया न प्रवर्तन्त इति नेह ठक् । हालः, सैरः । चाद्विकार इति । तेन वक्ष्यमाणप्रत्ययाः प्राण्यादिभ्यस्त्रिभ्योऽर्थद्वये भवन्त्यन्येभ्यस्तु विकार एवेति फलितम् । मायूर इति । 'प्राणिरजतादिभ्यः -' इत्यञ् । अनुदात्तादेरमः सिद्धत्वादुदात्ताद्यर्थं वृद्धेषु मयड्बाधनार्थं चावश्यकमिदं परत्वादनुदात्तादिष्वपि प्रवर्तते । श्रोषधिभ्य उदाहरति — मौर्वमिति । मूर्वाशब्दः 'तृणधान्यानां च व्यषाम्' इत्याद्युदात्तः । पिप्पलशब्दस्तु 'लघावन्ते -' इत्यनेनायुदात्तः । बिल्वा Page #447 -------------------------------------------------------------------------- ________________ hili ४४४] सिद्धान्तकौमुदी। [तद्धितेषु, प्राग्दीव्यतीय. (४-३-१३७ ) अण् । अशोऽपवादः । तई-तार्कवम् । वैसिडीकम् । १५१८ अपुजतुनोः षुक् । (४-३-१३८) प्राभ्यामण स्थाद्विकारे, एतयोः षुगागमश्च । त्रापुषम् । जातुषम् । १५१६ ओरम् । (४-३-१३६ ) देवदारवम् । भाददारवम् । १५२० अनुदात्तादेव । (४-३-१४०) दाधिस्थम् । कापि. स्थम् । १५२१ पलाशादिभ्यो वा । (४-३-१४१) पालाशम् । सादिरम् । कौस्तुभे विस्तर । कोपधाच्च । अणिति शेषः । तत्र प्रण्योषधिवृक्षेभ्योऽवयवे विकारे च, इतरेभ्यस्तु विकारे एव । तर्कु-तार्कवमिति । त• इति प्रकृतिनिर्देशः । तर्कुर्नाम वृक्षविशेषः, तस्यावयवो विकारो वेत्यर्थः । 'भोर' इत्यस्यापवादः अण् । तित्तिडीकशब्दो 'लघावन्ते-' इति मध्योदात्तः । 'अनुदात्तादेश्च' इत्योऽपवादः अण् । अपुजतुनोः षुक् । त्रापुषम् । जातुषमिति । त्रपुणो जतुनश्च विकार इत्यर्थः । ओरम् । उवर्णा स्यादित्यर्थः । प्रारयोषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे । देवदारवम् । भाददारवमिति । देवदारोभद्रदारोश्चावयवो विकारो वेत्यर्थः । 'पीतवर्थानाम्' इत्याद्युदात्तावेतौ। ततश्च 'अनुदात्तादेश्च' इत्यनेन गतार्थता न। अनुदात्तादेश्च । विकारे अमिति शेषः । 'अवयवे च' इति सूत्रमप्यत्र संबध्यते । दाधित्थमिति । दधित्थस्यावयवो विकारो वेत्यर्थः। एवं का पत्थम् । 'कपित्थे तु दधिस्थग्राहिमन्मथाः' इत्यमरः । अव्युत्पन्नप्रातिपदिकत्वात फिट्स्वरेणान्तोदात्तावेतौ । पलाशादिभ्यो वा । अनिति शेषः । अवयवे वेत्येव । पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वाद् नित्यं प्राप्ते इतरेषाम् अप्रा' ते विकल्पोऽयम् । दिभ्योऽण् । अश्मयटोरपवादः । बिल्व, व्रीहि, काण्ड, मुद्ग, म पूर, गोधूम, इक्षु, कासी, वेरवादयो बिल्वादयः । अपुजतनोः। 'बिल्वादिभ्योऽण' इत्यतोऽनुवर्तनादाह-अण् स्यादिति । 'पोरञ्' इत्यस्यायमपवादः । अप्रागयादित्वादवयवे न भवतीत्याशयेनाह-विकार इति । त्रापुषमिति । त्रपुणो विकारः। एवं जतुनो विकारो जातुषम् । अोरञ् । अनुदात्तादेरन्यदिहोदाहरणम् । दैवदारवमिति । देवदारु-भद्दारुशब्दौ 'पीतवर्थानाम्' इत्यायुदात्तौ । दाधित्थमिति । दधनि तिष्टतीति 'सुपि स्थः' इति कः । उपपदसमासः । पृषोदरादित्वात्सकारस्य तकारः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम् । एवं कपित्थेऽपि बोध्यम् । पलाशादिभ्यो वा । उभयत्र विभाषेयम् । पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, करीरशिरीषविकङ्कतपूलाकयवासशब्दानामप्राप्ते विधानात् । पालाशमिति । पलाशशब्दो घृतादित्वादन्तोदात्तः । खदिरशब्दः 'अजिरशिशिर-' इत्यादौ किरच्प्रत्ययान्तो Page #448 -------------------------------------------------------------------------- ________________ प्रकरणम् २९ ] बालमनोरमा तत्त्वबोधिनीसहिता। [४४५ कारीरम् । १५२२ शम्याः प्लम् । (४-३-१४२) शामीलं भम । विस्वा. न्छीष् । शामीली सक् । १५२३ मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः । (४-३-१४३) प्रकृतिमात्रान्मयड् वा स्याद्विकारावयवयोः । अश्ममयम्, पाश्मनम् । 'अभषय-' इत्यादि किम्-मौदः सूपः । कार्पासमाच्छादनम् । १५२४ शम्याः प्लम् । शमीशब्दो गौरादिङीषन्तः । तस्मात्षष्ठयन्तादवयवे विकारे च प्लञ् स्यादित्यर्थः । षकारलकारावितो। 'अनुदात्तादेश्च' इत्यशोऽपवादः । शामीलं भस्मेति । शम्या विकार इत्यर्थः । शामीली स्रगिति । शम्या विकार इत्यर्थः । वरुणप्रघासेषु शमीमय्यः सचः प्रसिद्धाः । अवयवे तु शामीली शाखा । मयड्वैतयोः। 'अधिकारादेव विकारावयवयोरिति सिद्धरेतयोरिति वचनम् उक्तवक्ष्यमाणापवादविषयेष्वपि पक्षे मयडर्थम्' इति भाष्ये स्पष्टम् । तेन बिल्वमयं बैल्वमित्यादि सिध्यतीत्यभिप्रेत्य आह-प्रकृतिमात्रादिति । सर्वस्याः प्रकृतेरित्यर्थः । अश्ममयमिति । मयटि अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वम्, नलोपः। श्राश्मनमिति । कल्माषांघ्रिनाम कश्चिद्राजा तत्पत्न्यां वसिष्ठनोत्पानिपातितः । शिशपाशब्दः 'अथ द्वितीयं प्रागीषात्' इति वर्तमाने 'पान्तानां गुर्वादीनाम्' इति मध्योदात्तः । 'स्पदि किंचिञ्चलने' 'अनुदात्तेतश्च हलादेः' इति युच् । कारीरमिति । 'किरतेरीरन्' । नित्स्वरेण करीरशब्दोऽयमाद्युदात्तः। 'कदृभ्यामीषन्' 'शदृभ्यां किच्च' पूर्ववच्छिरीषशब्दोऽप्याद्युदात्तः । विककृतपूलाकयवासशब्दाः 'ग्रामादीनां च' इत्यायुदात्ताः । षित्त्वान्ङीषिति । टित्त्वान्छीबिति तु माधवः । मयड्वैतयोः । भाषायां किम् , खादिरो यूप इति वृत्तिकारः । ननु मयटो वैकल्पिकत्वात्सिद्धमिदमिति चेत् । अत्राहु:-वेदे बह्वचः परस्य मयटोऽर्थान्तर. परत्वमेवेति तात्पर्यग्रहणार्थमेवेदम् । 'घचश्छन्दसि' इति सूत्रस्य 'यच एव' इति नियमार्थत्वे यद्यपीदं गतार्थम् , तथापि 'घचश्छन्दस्येव' इति विपरीतनियमशङ्कानिवृत्त्यर्थं भाषाग्रहणं कृतमिति । अधिकारादेव विकारावयवयो मे एतयोरिति वचनं ये विशेषप्रत्ययाः 'प्राणिरजतादिभ्योऽञ्' इत्येवमादयस्तद्विषयेऽपि यथा स्यादित्येवमर्थम् । कपोतमयम् , लोहमयम् । इह विकारावयवाभ्यां सह प्रत्येकम् 'अभक्ष्याच्छादनयोः' इति सम्बध्यते समासनिर्देशादतो यथासंख्यं न । आश्मनमिति । 'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः' इति वचनादश्मभेदशब्दे भेदशब्दस्य लोपे अश्मनिति नान्तमवशिष्यते, तथा कल्माषाङ्ग्रे राज्ञो भार्यायां मदयन्त्यां वसिष्ठेनोत्पादितः सुतोऽश्मको नाम, तत्र संज्ञात्वद्योतकस्य कप्रत्ययस्याभावे अश्मन्निति नाम भवति, तस्यावयवे आश्मनं विकारेऽप्याश्मनमित्येव भवति । न च Page #449 -------------------------------------------------------------------------- ________________ ४४६ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्दीव्यतीयनित्यं वृद्धशरादिभ्यः । (४-३-१४४) आम्रमयम् । शरम्यम् । 'एकाचो नित्यम्' (२०५२)। स्वायम् । वाङ्मयम् । कथं तर्हि 'अ प्यम्, अम्मयम्' इति–'तस्येदम्' (१५००) इत्यगणन्तात्स्वार्थे व्यञ् । १५२५ गोश्च पुरीषे । (४-३-१४५) गोः पुरीषं गोमयम् । १५२६ पिष्टाच्च । (४-३-१४६) दितः अश्मक इति । अश्मन्शब्दात् स्वार्थे कप्रत्ययः, तदभावे अश्मेत्यपि नाम, तस्य विकारो अवयवो वेत्यर्थः । 'अन्' इति प्रकृतिभावान टिलोपः । नच विकारार्थकत्वे 'अश्मनो विकारे-' इति टिलोपः शङ्कयः। तत्र पाषाणवाचकत्वेन प्रसिद्धस्याश्मन्शब्दस्यैव ग्रहणादिति भावः । नित्यं वृद्धशर । मयडिति शेषः । उक्तविकल्पस्यापवादः । एकाचो नित्यमिति । नित्यमिति योगविभागलब्धमिदम् । अराणन्तादिति । अपामिदमापम् , 'तस्येदम्' इत्यगा। ततः स्वार्थे चतुर्वर्णादित्वात् ष्यत्रि प्राप्यमिति रूपमित्यर्थः । गोश्च पुरीषे । नित्यं मयडित्यनुवर्तते । गोमयमिति । यद्यपि पुरीषं न गोविकारो नाप्य वयवः । तथापि 'अश्मनो विकारे-' इति टिलोपः स्यादिति वाच्यम् , प्रसिद्धतरत्वेन पाषाणवाचकस्यैव तत्र ग्रहीतुमुचितत्वात् । वस्तुतस्तु 'तस्येदम्' इति सामान्यविवक्षायां पाषाणवाचकस्याप्यश्मन्शब्दस्याश्मनमिति भविष्यति, पैष्टी सुरेतिवत् । मौद्गः नूपः । कास. मिति । मुद्गशब्दो घृतादित्वादन्तोदात्तः । 'कृञः पासः' इति पासप्रत्यये गुणे रपरे च कर्पासीशब्दो जातिलक्षणीषन्तस्ताभ्यां 'अनुदात्तादेश्च' इत्यजं बाधित्वा बिल्वादित्वादण् । नित्यं वृद्धः । इह 'भाषायामभक्ष्याच्छादनयोः इत्यनुवर्तत इति वृत्तिः । नन्वेवमानन्दमयाधिकरणे शङ्कराचार्यैः 'अन्योन्तर आत्मानन्दमयः' इति श्रुतौ 'आनन्दमय इति विकारे मयट्' इत्युक्तं तत्कथं संगच्छताम् , 'प्राचुर्ये मयट् इति तु वक्तुमुचितमिति चेत् । अत्राहुः-प्राचुर्य मयट्यपि प्रकृत्यर्थविरोधिनो दुःखस्य लेशतोऽनुवृत्तिलाभात्प्रकृते विकारार्थः पर्यवस्यतीति तेषामाशयः । यद्वा 'नित्यं वृद्ध-' इत्यत्र भाषाग्रहणं नानुवर्तते अनुवृत्तावपि 'भाषायां नित्यम् , अन्यत्र क्वाचित्कः' इत्याश्रित्य मयट् सुसाधः । अथवा 'हेतुमनुष्येभ्यः-' इत्यनुवर्तमाने 'मयट च' इति सूत्रेण आगतार्थे मयट् । विकार इति त्वार्थिकार्थकथनमेवातः शङ्करभगवत्पादोकिरनवद्यैवेति । शरमयमिति । शर दर्भ मृत् कुटी तृण सोम बिल्वज इति शरादिः । एकाचो नित्यमिति । आरम्भसामर्थ्यादेव सिद्धे 'नित्यं वृद्ध-' इति नित्यग्रहणं योगविभागेनान्यत्रापि क्वचिद्विधानार्थम् , तेनैतल्लभ्यत इति भावः । एकाच्वादेव सिद्ध शरादिषु मृच्छब्दपठनं विस्पष्टार्थमित्याहुः । गोश्च पुरीषे । पुरीष न विकारो, नाप्यवयवः । तथापि तस्येदम्' इत्यर्थेऽयं प्रत्ययः विकारावयवयोस्तु Page #450 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसंहिता। [४४७ मयट् स्याद्विकारे । पिष्टमयम् भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदम्' (सू १५००) इस्यण । १५२७ संज्ञायां कन् । (४-३-१४७) 'पिष्टात्' इत्येव । पिष्टस्य विकारविशेषः पिष्टकः । 'पूपोऽपूपः पिष्टकः स्यात्' । १५२८ बीहेः पुरोडाशे । (-३-१४८) मयट् स्यात् । बिल्वाधणोऽपवादः । बीहिमयः पुरोडाशः । चैहमन्यत् । १५२६ असंज्ञायां तिलयवाभ्याम् । (४-३-१४६ ) तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः । १५३० तालादिभ्योऽण् । (४-३-१५२) अन्मयटोरपवादः । 'तालाद्धनुषि (ग सू १६४) तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् । १५३१ जातरूपेभ्यः परिमाणे । ( ४-३-१५३) अण् । बहुवचनात्पर्यायग्रहणम् । तस्येदमित्यर्थेऽयं प्रत्ययः । पिष्टाच्च । शेषपूरणेन सूत्रं व्याचष्टे-मयट् स्याद्विकार इति । संज्ञायां कन् । विकारविशेष इति । अपूप इत्यर्थः । तदाह-पूपोऽपूपः पिष्टकः स्यादिति । अमरकोशोऽयम् । पुरोडाशस्तु न पिष्टकः, तस्यानपूपत्वात् । 'अतुङ्गमनपूपाकृतिमश्वशफमात्रं पुरोडाशं करोति' इति श्रुतेः । बीहेः पुरोडाशे। पुरोडाशात्मके विकारे नित्यं मयट् स्यादित्यर्थः । तर्हि बिल्वादिगणे पाठः किमर्थमित्यत आह-त्रैहमन्यदिति । असंज्ञायां तिलयवाभ्याम् । नित्यं मयडिति शेषः। यावक इति । यवशब्दाद्विकारे अण् । ततः 'यावादिभ्य -' इति स्वार्थे कन् । तालादिभ्योऽण । तालाद्धनुषीति । गणसूत्रमिदम् । तालं धनुरिति । 'नित्यं वृद्ध-' इति मयटोऽपवादः । ऐन्द्रायुधमिति । 'अनुदात्तादेश्च' इत्योऽपवादः, समासस्वरेणान्तोदात्तत्वात् । जातरूपेभ्यः । अणिति । शेषपूरणम् । जातरूपं सुवर्णम् , तद्वाचिभ्योऽण स्यात्परिमाणे विकारे गम्य इत्यर्थः । ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत 'गोपयसोर्यत्' वक्ष्यति । पुरीषे किम् , गव्यं पयः।यावक इति। यवशब्दाद्विकारेऽण, तदन्ताद् 'यवादिभ्यः' इति स्वार्थे कन् । तालादिभ्योऽण । अमयटोरिति । तालश्यामाकशब्दाभ्यां वृद्धत्वान्मयट प्राप्तः । बर्हिणां विकारो बार्हिणम् । 'प्राणिरजतादिभ्योऽञ्' ततो 'जितश्च तत्प्रत्ययात्' इत्यञ् प्राप्तः, शेषेभ्यस्त्वनुदात्तादित्वाद प्राप्तः । तथाहि विशिशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः । 'अन्येषामपि-' इति दीर्घः। इन्द्राविशः, इन्द्रादृशः । 'चप सान्त्वने' पचाद्यच् । चपापीयूक्षाशब्दो 'लघावन्ते-' इति मध्योदात्तः 'फिषः' इत्यधिकारादापः प्रागेव खरप्रवृत्तेः । इन्द्रायुधशब्दः समासखरेणान्तोदात्तः । अण्ग्रहणं बाधकबाधनार्थम् । यथाविहितप्रत्ययविधौ बर्हिणशब्दाद् वृद्धलक्षणो मयट् स्याद् , 'मितश्च तत्प्रत्ययात्' इत्यमो बाधनेन वचनस्य Page #451 -------------------------------------------------------------------------- ________________ ४४८ ] सिद्धान्तकौमुदी । [तद्धितेषु प्राग्दीव्यतीय हाटकः खापनीयः सौवर्णो वा निष्कः । 'परिमाणे' किम् - हाटकमयी यष्टिः । १५३२ प्राणिरजतादिभ्योऽञ् । ( ४-३ - १५४ ) शौकम् । बाकम् । राजतम् । १५३३ ञितश्च तत्प्रत्ययात् । ( ४-३ - १५५ ) जियोविकारावयवप्रत्ययः तदन्तादव्स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दास्य दाधित्थम् । कापित्थम् । त्रितः किम् - बैरमयम् । १५३४ क्रीतवत्परिमाणात् । ( ४-३ - १५६ ) 'प्राग्वहतेष्ठक्' ( सू १५४८ ) इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । श्रह - बहुवचनादिति । हाटक इत्यादि । हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरिमाणको विकार इत्यर्थः । तापनीय इति । 'नित्यं वृद्धशरादिभ्यः' इति मयोऽपवादः । इतरत्र तु 'अनुदात्तादेश्च' इत्यत्रोऽपवादः । ' गुञ्जाः पञ्चाद्यमाषकः । ते षोडशाक्षः' इत्यमरः । 'सुवर्णबिस्तौ हम्नोऽक्षे इति च । प्राणिरजतादिभ्योऽञ् । शौकम् । बाकमिति । शुकस्य बकस्य वा अवयवो विकारो वेत्यर्थः । ‘प्राणिनां कुपूर्वम्' इत्यायुदात्तत्वाद् 'अनुदात्तादेश्च' इत्यत्रो न प्राप्तिः । राजतमिति । अनुदात्तादित्वादनि सिद्धे मयड्वाधनार्थमविधिः । जितश्च तत्प्रत्ययात् । तयोर्विकारावयवयोः प्रत्ययः तत्प्रत्ययः । तदाह - ञिद्य इति । तयोरेवेति । विकारावयवयोरेवेत्यर्थः । शामीलस्येति । शम्या विकारः अवयवो वा शामीलम् | 'शम्याः प्लञ्' । शामीलस्य विकारः श्रवयवो वेत्यर्थे अनि शामील - मिति भवतीत्यर्थः । 'नित्यं वृद्ध -' इति मयटोऽपवादः । दाधित्थमिति । दधित्थस्य विकारोऽवयवो वा दाधित्थम् । अनुदात्तादित्वादञ् । दाधित्थस्य विकारो दाधित्थम् · मयडपवादोऽञ् । बैल्वमयमिति । 'बिल्वादिग्भ्योऽण्' इति बिल्वशब्दादरिण बैल्वः, तस्य विकार इत्यर्थे मयडेव, न त्वञ् । अणो वित्त्वाभावादिति भावः । भाष्ये तु 'विकारावयव प्रत्ययान्तात् पुनस्तत्प्रत्यया अनभिधानाद् न' इत्याश्रित्य सूत्रमिदं प्रत्याख्यातम् । क्रीतवत्परिमाणात् । उपाधिनेति । प्रकृत्यादिविशेषणेचरितार्थत्वादित्याहुः । तालानुषीति । गणसूत्रमिदम् । हाटक इति । इह वृद्धलक्षणो मयद् प्राप्तः, तपनीयादेः 'अनुदात्तादेश्व' इत्यम् प्राप्तः । प्राणि । अनुदात्तादेरञः सिद्धत्वात्परिशिष्टमिहोदाहरणं तदाह - शौकम् । बाकमिति । शुकबकशब्दौ 'प्राणिनां कुपूर्वम्' इत्यायुदात्तौ । राजतमिति । रजत सीस लोह उदुम्बर, कण्टकारेत्यादयो रजतादयस्तेषु अनुदात्तादीनां पुनः नाठो मयड्वाधनार्थः । अन्यथा हि परत्वान्मयट् स्यादेव | शामीलमिति । शामीलशब्दः 'शम्याः ब्लञ्' इति ष्लञन्तः । दधित्थाद् 'अनुदात्तादेश्च' इत्यन् । दाधित्थस्य दाधित्थम् । बैल्व , Page #452 -------------------------------------------------------------------------- ________________ प्रकणरम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [४४६ अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः। शतस्य विकारः शत्यः, शतिकः । १५३५ उष्ट्राद् वुन् । (४-३-१५७) प्राण्यमोऽपवादः । श्रौष्ट्रकः । १५३६ उमोर्णयोर्वा । (४-३-१५८) श्रीमकम् , भौमम् । और्णकम् , और्णम् । वुमभावे यथाक्रममणौ । १५३७ एण्या ढञ् । (४-३-१५६) ऐणेयम् । एणस्य तु ऐणम् । १५३८ गो. पयसोर्यत्। (४-३-१६०) गग्यम् । पयस्यम् । १५३६ द्रोश्च । (४-३-१६१) दुर्वृतः, तस्य विकारोऽवयवो वा द्रव्यम् । १५४० माने वयः । (४-३-१६२) दोः इत्येव । द्रुवयम् । 'योतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम्' इत्यमरः । नेत्यर्थः । नैष्किक इति । 'असमासे निष्कादिभ्यः' इति क्रीते ठक् । शत्यः, शतिक इति । 'शताच ठन्यतौ--' इति क्रीते ठन्यतौ । उष्ट्राद्वञ् । प्राण्या इति। 'प्राणिरजतादिभ्योऽञ्' इत्यस्यापवाद इत्यर्थः । उमोर्णयोर्वा । वुनिति शेषः । श्रीमकमिति । उमा सस्यविशेषः । 'उमा स्यादतसी सुमा'इत्यमरः । उमाया विकारोऽवयवो वेत्यर्थः । श्रीममिति । 'तृणधान्यानो च' स्युमाशब्द श्रायुदात्तः, ततो वुञभावे 'अनुदात्तादेश्च' इत्यमभावादौत्सर्गिकोऽण् । ऊर्णाशब्दस्तु फिट्स्वरेणान्तोदात्तः। ततो वुजभावे अनुदात्तादित्वादमित्यर्थः । 'ऊर्णा मेषादिलोनि स्यात् इत्यमरः । 'स्थूणोणे नपुंसके च' इति लिङ्गानुशासनसूत्रम् । एण्या ढम् । एण्या अवयवो विकारो वा ऐणेयम् । ढस्य एयादेशः। 'यस्येति च' इति ईकारलोपः। स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह-एणस्य त्विति । गोपयसोर्यत् । गव्यमिति। गोर्विकारोऽवयवो वेत्यर्थः । 'वान्तो यि-' इत्यवादेशः । पयस्यमिति । पयसो विकार इत्यर्थः । 'सर्वत्र गोरजादिप्रसङ्गे यत्' इत्येव सिद्धे यद्विधानं 'मयड्वैतयो:इति पाक्षिकमयटो बाधनार्थम् । द्रोश्च । यदिति शेषः । 'एकाचो नित्यम्' इति मयटः ‘ोरञ्' इत्यस्य चापवादः । माने वयः। द्रोरित्यवति । माने विकारे मयमिति । बिल्वशब्दोऽणन्तः । नैष्किकमिति । 'तेन क्रीतम्' इति ठक् । शत्यः । शतिक इति। 'शताच ठन्यतौ-' । अणसाविति । उमाशब्दः 'तृणधान्यानां च' इत्याद्युदात्तः । ऊर्णाशब्दस्तु प्रातिपदिकखरेणान्तोदात्त इति भावः । एण्या ढञ् । प्राण्यमोऽपवादः । स्त्रीलिङ्गनिर्देशादाह-एणस्य त्विति । गोपयसोः । यद्यपि सर्वत्र गोरजादिप्रसङ्गे यदुक्तस्तथापि 'मयड्वैतयोः-' इति पक्षे प्राप्तं मयटं बाधितुं पुनरयं यद्विधिः । द्रोश्च । ओरबः, "एकाचो नित्यम्' इति मयटश्चापवादोऽयम् । द्रव्यमिति । 'ओर्गुणः' 'वान्तो यि प्रत्यये' 'द्रव्यगुणकर्मइत्यादिषु प्रयुज्यमानद्रव्यशब्दस्तु गुणैर्दूयते-आश्रीयते इति दुधातोः 'अचो यत्' Page #453 -------------------------------------------------------------------------- ________________ ४५० ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्दीव्यतीय१५४१ फले लुक् । (४-३-१६३) विकारावयवप्रत्ययस्य लुक्स्यास्फले । प्रामलक्याः फलमामलकम् । १५४२ लक्षादिभ्योऽण । (४-३-१६४) विधानसामर्थ्याश लुक् । प्राधम् । १५४३ न्यग्रोधस्य च केवलस्य । (७-३-५) अस्य न वृद्धिरैजागमश्च । नयग्रोधम् । १५३४ जम्ब्वा वा । (४-३-१६५) जम्बूशब्दारफलेऽएवा स्यात् । जाम्बवम् । पक्षे श्रोरन् , तस्य लुक्, जम्बु । १५४५ लुप् च । (४-३-१६६ ) जम्ब्वाः कलप्रत्ययस्य लुब्वा गम्ये द्रुशब्दाद्वयप्रत्ययः स्यादित्यर्थः । फले लुक् । आमलकमिति । फलितस्य वृक्षस्य फलमवयवो विकारश्च, तस्मिन्मयटो लुकि 'लुक्तद्धितलुकि' इति डोषो लुक् । लक्षादिभ्योऽण् । विकारे अवयवे चेति शेषः। तत्र शिग्रकर्कन्धुशब्दयोरुवर्णान्तत्वादनि प्राप्ते प्लक्षन्यग्रोधादीनाम् अनुदात्तादित्वादनि प्राप्ते अणविधिः । नन्वस्य फले अणो लुक् कुतो नेत्यत श्राह-विधानेति । न्यग्रोधस्य च केवलस्य । 'न य्वाभ्याम्-' इत्युत्तरसूत्रमिदम् । अस्येति । केवलस्ट न्यग्रोधस्येत्यर्थः । केवलत्वं पदान्तरविहीनत्वम् । न्यग् रोहतीति न्यग्रोध इति व्युत्पत्तिपक्ष यद्यपि 'न य्वाभ्याम्-' इत्येव सिद्धम् , यकारस्य पदान्तत्वात् । तथापि केवलस्यैव इति नियमार्थ सूत्रम् । अव्युत्पत्तिपक्षे तु यकारस्य अपदान्तत्वाद् विध्यर्थमेव । 'केवलस्य' किम् ? न्यायोधमूलाः शालयः । जम्ब्वा वा । जम्ब्विति । जम्ब्वाः फलमित्यर्थः । अञो लुकि विशेष्यानुसारेण नपुंसकत्वाद् ह्रस्व इति भावः । इति यत्प्रत्ययान्तः। माने वयः । यतोऽपवादः । द्रुवयमिति । द्रोविकारभूतं प्रस्थादिपरिमाणमित्यर्थः । फले लुक् । विकारावयवेति । फ लेतस्य वृक्षस्य फलमवयवो विकारश्च, तेनान्यतरस्मिन् प्रत्ययः। आमलकमिति । मपटो लुक्, 'लुक्लद्धितलुकि' इति डोषो लुक् । न चात्र स्थानिवद्भावेन 'यस्येति च' इति लोपः शङ्कयः । 'लुका लुप्तं न स्थानिवत्' इत्यभ्युपगमात् । अतएव पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुरित्यत्र 'अध्यर्धपूर्व-' इति ठो लुकि कृते 'लुक्तद्धित -' इति डीपो लुका लुप्तत्वेन स्थानिवत्त्वाभावादुकारस्य यणादेशो न भवति । लक्षादिभ्योऽण् । अञोऽपवादः । शिग्रकर्कन्धूशब्दाभ्याम् 'पोरञ्' इति, अन्येभ्य त्वनुदात्तादित्वादनः प्राप्तिः। प्लक्ष न्यग्रोध अश्वत्थ इङ्गदी शिग्र कर्कन्धू बृहती। तत्र प्लक्षशब्दः 'फिषः' इत्यन्तोदात्तः । न्यग्रोधशब्दो 'लघावन्ते-' इति मध्योदात्तः । अश्वत्थशब्दस्तु घृतादि. त्वादन्तोदात्तः । इङ्गदीबृहतीशब्दो गौरादिङीषन्तौ। 'पाश्वत्थर्वणवप्लाक्षनैयग्रोधैङ्गदं फले' इत्यमरः । न्यग्रोधस्य च । केवलस्येति किम् , न्यग्रोध मूले भवा न्याग्रोध. मूलाः शालयः ।। न्यग् रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियगार्थम् , अव्युत्पत्ति Page #454 -------------------------------------------------------------------------- ________________ प्रकरणम् २६] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५१ स्यात् । 'लुपि युक्रवत्-' (स् १२६४) जम्वाः फलं जम्बूः । 'फलपाकशुषामुपसङ्ख्यानम्' (वा २६४६) । व्रीहयः। मुद्राः । 'पुष्पमूलेषु बहुलम्' (वा २९५०) मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती। विदार्या मूलं विदारी। बहुलग्रहणानेह । पाटलानि पुष्पाणि । साल्वानि मूलानि । बाहुलकास्कचिल्लुक् । अशोकम् । करवीरम् । १५४६ हरीतक्यादिभ्यश्च । (४-३-१६७) एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि लुप् च । लुकैव सिद्ध लुम्विधेः फलमाह-लुपि युक्तवदिति । जम्बूरिति । जम्ब्वाः फलमित्यर्थः । फलप्रत्ययस्य लुपि युक्रवत्त्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः । तथा च जम्ब्वाः फलान्यपि जम्बूरेव। फलपाकेति । फलपाकेन शुष्यन्तीति फलपाकशुष ओषधयः, तद्वाचिभ्यः परस्य फलप्रत्ययस्य लुप उपसंख्यानमित्यर्थः । 'फले लुक्' इत्यस्यापवादः । व्रीहय इति । व्रीह्याख्यानामोषधीनां फलानीत्यर्थः । एवं मुद्राः । बिल्वाद्यणो लुप् । युक्तवद्भावात्पुंस्त्वम् , नतु विशेष्यनिन्नत्वम् । पुष्पमुलेषु बहुलमिति । वार्तिकमिदम् । विकारावयवप्रत्ययस्य लुप् स्यादिति शेषः । पुष्पं मल्लिकेति । 'अथ द्वितीयं प्रागीषात्' इत्यनुवृत्तौ 'मादीनां च' इति फिट्सूत्रेण मध्योदात्तो मल्लिकाशब्दः । ततः 'अनुदात्तादेश्च' इत्यओ लुप् । युक्तवत्त्वात्स्त्रीत्वम् । जातीति । 'लघावन्ते-' इत्यन्तोदात्तो जातिशब्दः । ततः 'अनुदात्तादेश्व' इत्योऽनेन लुप् । युक्तवत्त्वात्स्त्रीत्वम् । विदारीति । जातिबीषन्तमिदं प्रत्ययस्वरेणान्तोदात्तम् । अनुदात्तादित्वादनि तस्य लुप् , युक्तवत्त्वात्स्त्रीत्वम् । पाटलानीति । बिल्वादित्वादण् । एवं साल्वानि । ननु अशोकस्य पुष्पम् अशोकम् , करवीरस्य पुष्पं करवीरम् , इत्यत्रापि 'पुष्पमूलेषु बहुलम्' इति लुपि युक्तवत्त्वात् पुंस्त्वे अशोकः पुष्पं करवीरः पुष्पमिति स्यादित्यत आह-बहुलग्रहणात् क्वचिल्लुगिति । तथा च युक्तवत्त्वस्यप्रवृत्तेः विशेष्यनिघ्नत्वमेवेति भावः। हरीतक्यादिभ्यश्च । हरीतक्यादीनामिति । वार्तिकमिदम् । एषां प्रकृतिलिङ्गमेव लुप्तप्रत्ययार्थे अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः । हरीतक्य पक्षे तु विध्यर्थम् । जम्ब्विति । नपुंसकह्रखः । 'फले जम्ब्वा जम्ब्बूः स्त्री जम्बु जाम्बवम्' । फलपाकेति । फलपाकेन शुष्यन्तीति फलपाकशुषः । व्रीहयः । मुद्दा इति । बिल्वाद्यणो लुक् । मल्लिकेति । अनुदात्तलक्षणस्यानो लुप् । 'मालादीनां च' इति फिटसूत्रान्मल्लिकाशब्दे द्वितीयमुदात्तम् । जातीविदारीशब्दौ गौरादिछीषन्तौ । पाटलानीति । विल्वादित्वादण् । साल्वशब्दः प्रातिपदिकखरेणान्तोदात्तः । हरीतक्यादिभ्यश्च । इह द्राक्षाप्रमृतिभ्यो 'नित्यं वृद्ध-' इति प्राप्तस्य Page #455 -------------------------------------------------------------------------- ________________ ४५२ ] सिद्धान्तकौमुदी। [तद्वितेषु प्राग्वहतीय हरीतक्यः । १५४७ कंसीयपरशव्ययोर्यत्रो लुक्च। (४-३-१६८) कंसीयपरशव्यशब्दाभ्यां यजौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम् , तस्य विकारः कांस्यम् । परशवे हितं परशव्यम् , तस्य विकारः पारशवः । ___ इति तद्धितेषु चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् । अथ तद्धितेषु प्राग्वहतीयप्रकरणम् । ३० । १५४८ प्राग्वहतेष्ठक् । (४-४-१) तद्वहतीत्यतः प्राक् ठगधि. क्रियते । तदाहेति माशब्दादिभ्य उपसङ्ख्यानम्' (वा २६३१) मा शब्दं कार्षीः इति । जातिङीषन्तः प्रत्ययस्वरेणान्तोदात्तो हरीतकीशब्दः । ततोऽनुदात्तादित्वादनि तस्य ‘फले लुक्' इति लुकि प्राप्ते लुपि युक्तवत्त्वात्त्रीत्वे विशेष्यानुरोधाद्वहुवचनम् । कंसीयपरशव्य । अत्र यसोने लुक् , विधिवैयर्थ्यात् । नापि प्रकृत्योः, प्रत्ययादर्शनस्यैव लुक्त्वात् । अतः परिशेषात् प्रकृत् पेकदशयोः छयतोरिति लभ्यते । तदाह-छयतोरिति । कंसीयमिति । कंसो नम धातुर्लाहविशेषः । तस्मै हितमिति छः । कांस्यमिति । कंसीयशब्दाद् यनि छस्य लुकि श्रादिवृद्धौ 'यस्येति च' इत्यकारलोपः । परशव्यमिति । 'तस्मै हितम' इत्यधिकारे 'उगवादिभ्यो यत्' इति यति, ओर्गुणे 'वान्तो यि-' इत्यवादेशः । पारशव इति । परशव्यशब्दादनि यतो लुकि ओर्गुणे पारशवः । 'हलस्त द्धितस्य' इति तु न, ईतीत्यनुवृत्तेः । अनापत्यत्वाद् 'आपत्यस्य च-' इत्यपि लोपो न प्रसज्यत इति भावः । इति तद्धितेषु चतुर्थस्य तृतीयपादे प्राग्दीव्यतीयप्रकरणम् । अथ चतुर्थस्य चतुर्थः पादः प्रारभ्यते-प्राग्वहतेष्ठक् । वहतीत्येक देशेन 'तद्वहति रथयुगप्रासङ्गम्' इति सूत्रं परामृश्यते इत्यभिप्रेत्याह-तद्वहमयटो लुप्, अनुदात्तादिभ्योऽञः, इतरेभ्यस्त्वणः । लिङ्गमेवेति । वचनं तु विशेष्यवदेव । 'हरीतक्यादिषु व्यक्तिः' इत्युक्तत्वादिति भावः । कंसीयमिति । 'प्राक्क्रीताच्छः' इत्यधिकारे 'तस्मै हितम्' इति छः । तस्यैव छस्यापवादतया 'उगवादिभ्यो यत्' परशव्यं दारु । परशव्यशब्दस्यानुदात्तादित्वादनि सिद्धे तत्संनियोगेन यतो लुगथं वचनम् । न च 'यस्येति-' यलोप कृते 'हलस्तद्धितस्य' इति यलोपेन सिद्धमिष्टमिति भ्रमितव्यम् । ईतीत्यनुवृत्तेः । इति तत्त्वबोधिन्यां प्राग्दीव्यतीयप्रकरणम् । तदाहेतीति । वाक्यादयं प्रत्ययविधिः, शब्दो माकारीति यो निषेधति स माशब्दिक इत्युच्यते । तथा नित्यः शब्द इति य आह स नैत्यशब्दिकः। Page #456 -------------------------------------------------------------------------- ________________ प्रकरणम् ३०] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५३ इति य प्राह स माशब्दिकः । १५४६ स्वागतादीनां च । (७-३-७) ऐन स्यात् । स्वागतमिस्याह स्वागतिकः । स्वावरिकः । स्वङ्गस्यापत्यं स्वाभिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यस्थापत्यं ज्याडिः । व्यवहारेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् । 'श्राही प्रभूतादिभ्यः' (वा २६५२) । प्रभूतमाह तीत्यत इति। तदाहेति । इतिशब्दो व्युत्क्रमेण तच्छब्दानन्तरं द्रष्टव्यः । तदित्याहेत्यर्थे माशब्दस्वागतइत्यादिशब्देभ्यः ठक उपसंख्यानमित्यन्वयः । तदित्यनेन वाक्यार्थो विवक्षितः। इतिशब्दस्तस्य वाक्यार्थस्य कर्मत्वं गमयति । 'मा शब्द कार्षीः' इत्याहेत्याद्यर्थे तद्वाक्यावयवाद् 'माशब्द' इत्यादिशब्दात् ठगिति यावत् । मा शब्दं कार्षीः इति य ाह स माशब्दिक इति । शब्दं मा कार्षीरित्यन्वयः। 'माडि लुङ्' इति लोडर्थे लुङ् । 'न माङ्योगे' इत्यडागमनिषेधः। शब्दं न कुरु इत्यर्थः । अत्र आहेति बेञ्धात्वर्थव्यक्तवचनक्रिया प्रति मा शब्दं कार्षीरिति वाक्यार्थः कर्म । तद्वाक्यैकदेशो माशब्देति समुदायः। तस्मानिर्विभक्तिकादयं प्रत्ययः । न हि माशब्देति समुदायाद्विभक्तिरस्ति। एवं च माशब्देति समुदायाट्ठकि माशब्दिक इति रूपम् । 'मा शब्दः कारि' इति पाठे तु कारीति कर्मणि लुङ् । शब्दो न कार्य इत्यर्थः। नच तदाहेत्यर्थे माशब्दादिभ्यः ठगिति यथाश्रुतम् अभ्युपगम्य माशब्दमाहेत्याद्यर्थे माशब्देत्यादिशब्देभ्यो द्वितीयान्तेभ्यः ठगित्येव कुतो न व्याख्यायत इति वाच्यम् , एवं सति 'श्राही प्रभूतादिभ्यः' इत्युत्तरवार्तिकारम्भवैयर्थ्यापत्तरिति भावः । स्वागतादिगणे स्वागत, स्वध्वर इति पठितम् , तत्र विशेषमाह-स्वागतादीनां च । 'न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच्' इति प्रकरणे 'कर्मव्यतिहारे' इत्यस्मादुत्तरं सूत्रमिदम् । ऐज्न स्यादिति । शेषपूरणमिदम् । 'न य्वाभ्यां पदान्ताभ्यां पूर्षों तु ताम्यामैच' इति प्राप्त ऐज् न स्यादित्यर्थः । स्वाध्वरिक इति । स्वध्वर इत्याहेत्यर्थः । अथ स्वागतादिगणशेषमुदाहरति-स्वङ्गस्येति । व्याङ्गिरिति । व्यास्यापत्यमिति विग्रहः । व्यडस्येति । न विद्यते डो यस्य सः अडः, विगतः अडः व्यडः । स्वापतेयमिति । 'पथ्यतिथिवसतिस्वपतेढ' । द्वारादित्वादैच् प्राप्तो निषि. ध्यते । आहाविति । 'आह' इति पदैकदेशादिकारस्य उच्चारणार्थो निर्देशः । 'तत्' कार्यशब्दिकः । इह वाक्याद् द्वितीया न सम्भवत्यप्रातिपदिकत्वात् । तेन तच्छन्देन कर्ममात्रं निर्दिश्यते, तच्च वाक्यार्थरूपमित्याहुः। ऐज न स्यादिति । 'न य्वाभ्याम्-' इति प्राप्त ऐजागमोऽनेन निषिध्यते । 'न कर्म-' इत्यतो नअनुवर्तनादिति भावः । स्वापतेयमिति । 'पथ्यतिथिवसतिखपतेर्हज्' । स्वशब्दस्य द्वारादित्वादैजागमस्य Page #457 -------------------------------------------------------------------------- ________________ ४५४ ] सिद्धान्तकौमुदी । [तद्धितेषु प्राग्वहतीय प्राभूतिकः । पार्याप्तिकः । 'पृच्छतौ सुनातादिभ्यः' ( वा २९५३) । सुख्खातं पृच्छति सौखातिकः । सौखशायनिकः । श्रनुशतिकादिः । 'गच्छतौ परदारादिभ्यः' ( वा २६५४ ) । पारदारिकः । गौरुतल्पिकः । १५५० तेन दीव्यति खनति जयति जितम् । ( ४-४-२ ) अचैर्दीव्यति आक्षिकः । श्रभ्रया खनति श्रभ्रिकः । श्रक्षैर्जयति श्रातिकः । श्रतैर्जितमाक्षिकम् । १५५१ संस्कृतम् । ( ४-४-३ ) दना संस्कृतं दाधिकम् । मारीचिकम् । १५५२ कुलत्थकोपधादण् । ( ४-४-४ ) ठकोऽपवादः । कुलस्यैः संस्कृतं कौलत्थम् । तैन्तिणीकम् । १५५३ तरति । ( ४-४-५ ) उडुपेन तरति धौडुपिकः । १५५४ गोपुच्छाट्ठञ् । ( ४-४-६ ) गौपुच्छुिकः । १५५५ नौह्यचष्ठन् । ( ४-४-७ ) इति पूर्ववार्तिकादनुवर्तते । श्रहेत्यर्थे द्वितीयान्तेभ्यः प्रभूतादिभ्यष्टग्वाच्य इत्यर्थः । पार्याप्तिक इति । पर्याप्तमाहेत्यर्थः । पृच्छताविति । 'तत्' इत्यनुवर्तते । पृच्छतीत्यर्थे द्वितीयान्तेभ्यः सुस्नातादिभ्यः ठग्वाच्य इत्यर्थः । सौखशायनिक इति । सुखशयनं पृच्छतीत्यर्थः । अनुशतिकादिरिति । सुखशयनशब्द इति शेषः । ततश्च 'अनुशतिकादीनां च' इति पूर्वोत्तरपदयोरादिवृद्धिरिति भावः । गच्छताविति । 'तत्' इत्यनुवर्तते । गच्छतीत्यर्थे परदारादिभ्यो द्वितीयान्तेभ्यः ठगित्यर्थः । पारदारिक इति । परदारान्गच्छतीत्यर्थः । गौरुतल्पिक इति । गुरुतल्पं गच्छतीत्यर्थः । गुरुतल्पो गुरुखी । तेन दीव्यति खनति जयति जितम् । तेन दीव्यति, तेन खनति, तेन जयति, तेन जितम् इति विग्रहेषु तृतीयान्ताट्ठगित्यर्थः । श्रभ्रिः कुद्दालः । देवदत्तेन जितमित्यत्र तु न ठक् । करणतृतीयान्तादेव तद्विधेः । संस्कृतम् । तेनेत्येव । संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः । 'संस्कृतं भक्षाः ' इत्यत्र तु सप्तम्यन्तादणादिविधिः । मारीचिकमिति । मरीचिभिः संस्कृतमित्यर्थः । कुलत्थकोपधादण् । संस्कृतमित्यर्थे तृतीयान्तादिति शेषः । तैन्ति - गीकमिति । तिन्तिणीकेन संस्कृतमित्यर्थः । तरति । ततीत्यर्थे तृतीयान्ताप्राप्तिः । द्वारादिफलं तु स्वस्येदं सौवमिति ज्ञेयम् । श्रहाविति । उपसंख्यानमित्यनुषज्यते । श्रहेतिपदे एकदेशस्य प्रकृतिभागस्यागन्तुकेनेकारेण श्राहावित्यनुकरणम् । प्राभूतिक इति । क्रियाविशेषणाद्वक्तरि प्रत्ययः । तेन दीव्यति । इह कालपुरुषसंख्या न विवक्षिताः । तेनाक्षैरेदवीद् देविष्यति वा प्राक्षिक इति भवति । एवमदेविष्यसि देविष्यामि वा श्रातिकः, दीव्यन्ति दीव्यथ दीव्यामो वा श्राक्षिकाः । कारकं तु विवक्षितमेव ‘जयति, जितम्' इति कर्तृकर्मणोः पृथगुपादानात् । तेनाक्षैद्यूतः, अक्षैः खातः इति कर्माद्यर्थे आक्षिक इति न भवति । अभ्रयेति । 'अभिः स्त्री Page #458 -------------------------------------------------------------------------- ________________ प्रकरणम् ३०] बालमनोरमा तत्त्वबोधिनीसहिता। [४५५ नाविकः । टिकः । बाहुभ्यां तरति बाहुका स्त्री। १५५६ चरति । (४-४-८) तृतीयान्तादच्छतिभक्षयतीत्यर्थयोष्ठक्स्यात् । हखिना चरति हास्तिकः । शाकटिकः । दन्ना भक्षयति दाधिकः । १५५७ आकर्षाष्ठा । (४-४-६) आकर्षों निकषोपलः । 'प्राकषात्' इति पाठान्तरम् । तेन चरति प्राकर्षिक: । पित्त्वान्ङीष् प्राकर्षिकी। १५५८ पर्यादिभ्यः ष्ठन् । (४-४-१०) पण चरति पर्पिकः, पर्पिकी । येन पीठेन पनववरन्ति स पर्पः। अश्विकः । रथिकः । १५५६ श्वगणाट्ठञ् च। (४-४-११) चारष्ठन् । १५६० श्वादेरित्रि। (७-३-८) ऐन्न । श्वभवस्थापत्यं श्वाभस्तिः । श्वादंष्ट्रिः । तदादिविधौ चेदमेव ज्ञापकम् । ट्ठगित्यर्थः । गोपुच्छाट्ठञ् । तरतीत्यर्थे तृतीयान्तादिति शेषः। नौद्वयचष्ठन् । ठनिति च्छेदः । ष्टुत्वकृतः सस्य षकारः। तरतीत्यर्थे नौशब्दाद् द्यचश्व तृतीयान्तात् ठनित्यर्थः । नाविक इति । नावा तरतीत्यर्थः। घटिक इति । घटेन तरतीत्यर्थः । बाहुका स्त्रीति । उकः परत्वात् ठस्य कः। अदन्ताट्टाप् । चरति । गच्छति भक्षयतीति । 'चर गतिभक्षणयोः' इति 'चरधा. तोरर्थद्वये वृत्तेरिति भावः । हास्तिक इति । ठनि इके 'नस्तद्धिते' इति टिलोपः। आकर्षाष्ठल् । तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात् छलित्यर्थः । पादिभ्यः ष्ठन् । ठन् इति च्छेदः । चरतीत्यर्थे तृतीयान्तेभ्य इति शेषः । षित्त्वं डीपर्थमित्याह-पपिंकीति । अश्विक इति । अश्वेन चरितीत्यर्थः । श्वगणाहन च । उक्तविषय इति शेषः। श्वगणशब्दात्ततीयान्ताचरतीत्यर्थ ठञ् ष्टन् च स्यादित्यर्थः । श्वागणिक इत्युदाहरणं वक्ष्यति । तत्र श्वन्शब्दस्य द्वारादित्वादै. जागमे प्राप्ते । श्वादेरिजि । 'न कर्मव्यतिहारे' इत्यतो 'न' इत्यनुवर्तते । अस्य .इत्यधिकृतम् । श्वन्शब्द आदिर्यस्येति विग्रहः । श्वशब्दपूर्वपदस्याङ्गस्य इनि परे काष्ठकुद्दालः' इत्यमरः । संस्कृतम् । योगविभाग उत्तरार्थः । बाहुकेति । सूत्रे षकारः साहितिकः, न त्वनुबन्ध इति न ङीष् । तथा च 'आकर्षात् पर्यादेः' इत्यादि श्लोकवार्तिकं षित्त्वविवेचनाय प्रकरणान्ते पठिष्यत्ति । निकषोपल इति । सुवर्ण परीक्षार्थः । पाठान्तरमिति । एतच भ्वादौ 'कषखष-' इत्यादिदण्डके 'श्राकर्षास्ष्टल' इति माधवेनोपन्यस्तम् । किंतु 'आकर्षात्पर्यादेः' इति वार्तिकस्याननुगुणम् । तत्र हि नीरेफपाठे वृत्तासङ्गतिप्रसङ्गात् । पर्प इति । 'पर्प गतौ' । 'हलश्च' इति करणे घञ् । इहान्तर्गणसूत्रं 'पादः पञ्च' इति पादाभ्यां चरति पदिकः । यत्तु वार्तिक 'पद्भाव इके चरतावुपसंख्यानम्' इति सोऽस्यैव प्रपञ्चः । पर्प, अश्व, अश्वत्थ, रथ, जाल, न्याय, व्याल, 'पादः पच्च' । श्वगणाश्च । ठकोऽपादः । इदमेव शापक. HTTETTELLITERE Page #459 -------------------------------------------------------------------------- ________________ ४५६ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्वहतीय'इकारादाविति वाच्यम्' (वा ४५१२) । श्वगंणेन चरति श्वार णिकः, श्वागणिकी श्वगणिकः, श्वगणिकी । १५६१ पदान्तस्यान्यतरस्याम् । (७-३-६) श्वादेरङ्गस्य पदशब्दान्तस्यैज् वा । श्वापदस्येदं श्वापदम् , शौवापदम् । १५६२ वेतनादिभ्यो जीवति । (४-४-१२) वेतनेन जीवति वैतनिकः । धानुष्कः । १५६३ वस्नक्रयविक्रयाट्टन् । (४-४-१३) वस्रेन मूल्येन जीवति वास्त्रिकः । नैजागम इत्यर्थः । श्वाभस्त्रिरिति । अत इञ् । श्वादष्ट्रिरिति । श्वदंष्ट्र स्यापत्यमित्यर्थः । ननु श्वन्शब्द एव द्वारादौ पठ्यते नतु श्वभत्रशब्दः । ततश्च तस्य द्वारादित्वाभावादजागमप्रसक्तिरेव नेत्यत आह--तदादिविध विति । द्वारादिगणे श्वन्शब्दस्य पाठेऽपि अस्मादेव प्रतिषेधात् श्वन्शब्दपूरकस्याङ्गस्य द्वारादिगणे ग्रहणं विज्ञायत इत्यर्थः । तत्फलं तु श्ववहनस्येदं शौवा नं नाम नगरम् । ननु प्रकृते श्वागणिके इअभावात्कथमयं निषेध इत्यत आह-इका रादाविति वाच्यमिति । इनीति परित्यज्य इकारादाविति वाच्यमित्यर्थः । इ जे तु व्यपदेशिवत्वेन इकारादित्वम् । श्वागणिक इति । ठञि आदिवृद्धिः। श्वागणिकीति । ठमन्तात् 'टिड्ढाणद्वयसज्दघ्नमात्रच्तयप्ठकठकञ्चरपः' इति डीप । श्वगणिक इति । ठनि रूपम् । श्वगणिकीति । षित्त्वाद् ङीष् । प्रसङ्गादाह-- पदान्तस्यान्यतरस्याम् । 'श्वादेरिबि' इत्यस्मादुत्तरं सूत्रमिदम् । पदं पद. शब्दः अन्तो यस्येति विग्रहः । तदाह-पदशब्दान्तस्यति । ऐज्वेति । निषेधविकल्प सति विधिविकल्पः फलित इति भावः । श्वापदस्येति । शुनः पदमिव पदं यस्येति विग्रहः । 'शुनो दन्तदंष्ट्रा-' इत्यादिना दीघः । शौवापदमिति । 'तस्येदम्' इत्यण् । 'वृद्धाच्छः' इति तु न, अनभिधानादित्याहुः । अन्ये तु श्वपुच्छबद्दीर्घाभावे अणमाहुः। वेतनादिभ्यो जीवति । जीवतीत्यर्थे रतीयान्तेभ्यः ठगिति शेषः । वैतनिक इति । वेतनेन जीवतीत्यर्थः । धानुक इति । धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षत्वम् । वस्नक्रयविक्रयाट्ठन् । जीवतीत्यर्थे तृतीयान्तेभ्यो वस्नादिभ्यः ठन् स्यादित्यर्थः । संघातविगृहीतामिति । द्वारादिगणे श्वन्शब्दः पठ्यते, न तु श्वभस्त्रः श्वदष्ट्रत्यादि तथा च 'श्वादेरित्रि' इति निषेधसूत्रमेव व्यर्थ सद् द्वारादिषु तदादिविधि ज्ञापयतीत्यर्थः । फलं तु द्वारपालस्यायं दौवारपाल इत्यादावैजागमस्य प्रवृत्तिः । इकारादाविति । सूत्रे इत्रीत्यपनीय इकारादाविति पठनीयमित्यर्थः । अन्ये तु इसीति स्थाने इतीति पठनीयम् । तथा चाङ्गाक्षिप्तप्रत्ययस्य विशेष्यत्वाद् 'यस्मिन्विधिस्तदादौ-' इत्यनेन इकारादिर्लभ्यत इत्याह-श्वगणिकीति । टनः षित्त्वान्ङीष् । श्वापदस्येति । 'अन्येषामपि दृश्यते' इति दीर्घः । धानुष्क इति । वेतनादिगणे धनुर्दण्डेति पठ्यते, तच्च सङ्घातविगृही Page #460 -------------------------------------------------------------------------- ________________ प्रकरणम् ३०] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५७ क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम् । क्रयविक्रयिकः, ऋयिकः, विक्रयिकः । १५६४ आयुधाच्छ च । (४-४-१४) चाहन् । प्रायुधेन जीवति प्रायुधीयः, श्रायुधिकः । १५६५ हरत्युत्सङ्गादिभ्यः । (४-४-१५) उत्सङ्गेन हरत्यौत्सङ्गिकः । १५६६ भस्त्रादिभ्यः ष्ठन् । (४-४-१६) भस्त्रया हरति भस्त्रिकः । षित्त्वाद् भस्त्रिकी । १५६७ विभाषा विवधात् । (४-४-१७) विवधेन हरति विवधिकः । पले ठक् । वैवधिकः। एकदेशविकृतस्यानन्यवाद्वीवधादपि छन् । वीवधिकः, वीवधिकी। विवधवीवधशब्दो उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते । १५६८ अण कुटिलिकायाः । (४-४-१८) कुटिलिका व्याधानां गतिविशेषः, कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानगारान्वा कौटिलिको व्याधः कर्मारश्च । १५७९ निर्वृत्तेऽक्षयूतादिभ्यः । (४-४-१६) अक्षयूतेन निवृत्तमाक्षयूतिकं वैरम् । १५७० त्रेमम्नित्यम् । (४-४-२०) त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तानिवृत्तेऽर्थे र्थमिति । व्याख्यानादिति भावः । आयुधाच्छ च । जीवतीत्यर्थे तृतीयान्ताद् प्रायुधशब्दात् छः स्यात् ठन् चेत्यर्थः । हरत्युत्सङ्गादिभ्यः । हरतीत्यर्थे तृतीयान्तेभ्यः उत्सङ्गादिभ्य ठक् स्यादित्यर्थः । भस्त्रादिभ्यः ष्ठन् । टनिति छेदः । हरतीत्यर्थे तृतीयान्तेभ्यो भत्रादिभ्यः छन् स्यादित्यर्थः। षित्त्वादिति । ङीष् इति शेषः। विभाषा विवधात् । हरतीत्यर्थे तृतीयान्तात् ठनिति शेषः । अ कुटिलिकायाः । हरतीत्यर्थे तृतीयान्तात् कुटिलिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः तस्य यद् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयम् , तदपि कुटिलिकेत्यर्थः । निर्वृत्तेऽक्षतादिभ्यः । निर्वृत्तमित्यर्थे तृतीयान्तेभ्योऽक्षयूतादिभ्यः ठगित्यर्थः । त्रेमस्नित्यम् । तेन निवृत्तमित्यर्थे 'ड्वितः त्रिः' इति त्रिप्रत्ययान्तान्नित्यं मप्प्रत्ययः स्यादितार्थम् । तथा च धानुर्दण्डिकः, दाण्डिक इत्यप्युदाहार्यम् । आयुधाच्छ च । श्रायुध्यन्ते अनेनेति श्रायुधम् , 'घर्थे कविधानम्' इति कः। हरत्युत्सङ्गादिभ्यः। एभ्यस्तृतीयान्तेभ्यष्ठक् स्यादुपादत्ते नयति वेत्यर्थे । उत्सङ्ग, उडुप, उत्थित, पिटक, पिटाक । भस्त्रादिभ्यः ष्ठन् । भस्वा चर्मविकारः । शीर्षेभारशब्दोऽत्र पठ्यते निवातनाच्छीर्षभावः सप्तमीसमासश्च, 'तत्पुरुषे कृति-' इति वा अलुक् । पक्ष शीर्षमारः । एकदेविकृतस्येति । 'वीवधाचेति वक्तव्यम्' इति वार्तिकं न्यायसिद्धार्थकथनपरमिति भावः । वृत्तिकृत्तु सूत्रे वीवधशब्दं प्रक्षिप्य 'विभाषा विवधवीवधात्' इति पपाठ । ।मनित्यम् । नित्यग्रहणं खातन्त्र्येण प्रयोगं वारयितुम् । Page #461 -------------------------------------------------------------------------- ________________ ४५८ ] सिद्धान्तकौमुदी । [तद्धितेषु प्राग्वहतीय स्यानित्यम् । कृत्या निर्वृत्तं कृत्रिमम् । पक्त्रिमम् । 'भावप्रत्ययान्तादिमब्वक्तव्यः' ( वा २५१ ) पाकेन निर्वृत्तं पाकिमम् । स्यागिमम् । १५७१ अपमित्ययाचिताभ्यां कक्कनौ । ( ४-४-२१ ) अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तमापमित्यकम् । याचितेन निर्वृत्तं याचितकम् । १५७२ संसृष्टे । ( ४-४-२२ ) दक्षा संसृष्टं दाधिकम् । १५७३ चूर्णादिनिः । ( ४-४-२३) चूर्णैः संसृष्टात्यर्थः । ' समर्थानां प्रथमाद्वा' इति महाविकल्पनिवृत्त्यर्थं नित्यम् हणम् । ततश्च अस्मिन्नर्थे मप्प्रत्ययं विना वित्रप्रत्ययान्तस्य प्रयोगो नेति भाष्ये स्पष्टम् । एवं चात्र अस्वपदविप्रहं दर्शयति- कृत्या निर्वृत्तमिति । अत्र विग्रहवाक्ये 'स्त्रियां क्लिन्' इति क्विन्नन्तोऽयं कृतिशब्दः । कृत्रिममिति । 'डुकृन् करणे' इति धातोः 'ड्वितः क्त्रिः' इति वित्रप्रत्ययान्तान्मप् । पक्त्रिममिति । पक्त्या निर्वृत्तमित्यस्वपदविग्रहः । 'डुपचष् पाके' इत्यस्मात् क्त्रिप्रत्ययान्तान्मं । इमब्वक्लव्य इति । निर्वृत्तमित्यर्थे तृतीयान्तादिति शेषः । अत्र नित्यमिति न संबध्यते इत्यभिप्रेत्य लौकिकस्वपदविग्रहं दर्शयति- पाकेन निर्वृत्तमिति । अपमित्ययाचिताभ्याम् । ल्यबन्तमिति । 'मेङ् प्रणिदाने' इत्यस्माद् विनिमयार्थकाइ ‘उदीचां माङो व्यतिहारे' इति क्त्वाप्रत्यये गतिसमासे ल्यपि 'मयतेरिदन्यतरभ्याम्' इति इत्त्वे 'ह्रस्वस्य पिति-' इति तुगागमे श्रपमित्येत्यव्ययम्, ' क्त्वातोसुन्कसुनः' इत्युक्तेरित्यर्थः । निर्वृत्तमित्यर्थे श्रपमित्येत्यव्ययात्प्रथमान्ताद्याचितशब्दाच्च तृतीयान्तात कक् कन् च यथासंख्यं स्यातामित्यर्थः । अपमित्येत्यंशे तृतीयान्तत्वासंभवात प्रथमान्तादिति लभ्यते। संसृष्टे । संसृष्टमित्यर्थे तृतीयान्तात् ठग् इत्यर्थः । चूर्णादिनिः । श्रतएव लौकिके विग्रहवाक्ये क्लिन्नादीनां प्रयोगः, न तु क्त्रेः, तदाह — कृत्या निर्वृत्तमिति । एवमग्रेऽपि पाकेन निर्वृत्तमिति विग्रहो बोध्यः । संख्यावाची त्रिशब्दो नेह गृह्यते, प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणात्, 'गिजां त्रयाणाम् -' इति लिङ्गाच्च । ननु नित्यग्रहणेन निर्वृत्तार्थविवक्षायां मपं विना त्रिप्रत्ययान्तस्य प्रयोगनिवारणेऽपि तदविवक्षायां तस्य स्वातन्त्र्येण प्रयोगो दुर्वार इते चेत्, न । नित्यमिति योगं विभज्य तत्सामर्थ्यादर्थविशेषानादरेणैव स्वातन्त्र्य वारणात् । इमबिति । एवं च मप् न कर्तव्यः । तथा हि 'भावप्रत्ययान्तादिम'र्' । ततः ‘त्रैः’। पूर्वेण सिद्धे नियमार्थमिदं त्रिप्रत्ययान्त इमब्विषय एवेति । तेन विप्रत्ययान्तप्रयोगो निवर्तते । ततो 'नित्यम्' अनेन निर्वृत्तार्थाविवक्षायामपि त्र्यन्तस्य स्वातन्त्र्यं वार्यते । एवं च संख्यावाचित्रिशब्दस्य ग्रहणशङ्केव नास्ति, भावप्रत्ययान्तादित्यनुवृत्तेः । स्वरेऽपि विशेषो नास्ति, उदात्तनिवृत्तिस्वरेण इमप इकारस्योदात्तत्वात् । श्रपभित्येति । Page #462 -------------------------------------------------------------------------- ________________ प्रकरणम् ३० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५६ अचूर्णिनोऽपूपाः । १५७४ लवणाल्लुक् । (४-४-२४) लवणेन संसृष्टो लवणः सूपः । नवणं शाकम् । १५७५ मुद्रादण् । (४-४-२५) मौद् मोदनः । १५७६ व्यअनैरुपसिक्ने । (४-४-२६) ठक् । दना उपसिकं दाधिकम् । १५७७ ओजःसहोऽम्भसा वर्तते। (४-४-२७) प्रोजसा वर्तत औजसिकः शूरः । साहसिकश्चौरः । प्राम्भसिको मत्स्यः । १५७८ तत्प्रत्यनुपूर्वमीपलोमकूलम् । (४-४-२८) द्वितीयान्तादमाद्वर्तत इत्यस्मिन्नर्थे ठक्स्यात् । क्रियाविशेषणत्वाद् द्वितीया।प्रतीपं वर्तते प्रातीपिकः । भान्वीपिकः। संसृष्टमित्यर्थे तृतीयान्तादिति शेषः। लवणाल्लुक् । पूर्वसूत्रविहितस्येति शेषः । मुद्गादण । तेन संसृष्टामत्यर्थे तृतीयान्तादिति शेषः । मौद्ग प्रोदन इति । मुद्गः संसृष्ट इत्यर्थः । व्यञ्जनैरुपसिक्ने । उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यः ठगित्यर्थः । सेचनेन मृदूकरणमुपसेकः। संसृष्ट इत्येव सिद्धे नियमार्थ सूत्रम्-व्यञ्जनवाचिभ्य उपसिक्त एवेति । तेनेह न-सूपेन संसृष्टा स्थाली । ओजःसहो । वर्तते व्याप्रियते इत्यर्थे ओजस् , सहस् , अम्भस् एभ्यः तृतीयान्तेभ्यः ठक् स्यादित्यर्थः । औजसिक इति । ओजसा बलेन वर्तते, युद्धे व्याप्रियत इत्यर्थः । साहसिक इति । सहसा प्राणवियोगाभ्युपगमेन स्तेये व्याप्रियत इत्यर्थः । प्राम्भसिक इति । अभ्भसा हेतुना संचारे व्याप्रियत इत्यर्थः। तत्प्रत्यनुपूर्व । तदिति द्वितीयान्तानुकरणम् । प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्य ईपलोमकूलशब्देभ्यो वर्तते इत्यर्थे ठक् स्यादित्यर्थः । ननु प्रतीपं वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात् कथं द्वितीयेत्यत आह -क्रियाविशेषणत्वादिति । इदं च कारकनिरूपणे निरूपितम्। 'क्रियाविशेषणानां प्रथमान्तत्वमेव' इति तु शब्देन्दुशेखरे। प्रतीपमिति । प्रतिगता आपो यस्मिन्निति बहुव्रीहिः । 'ऋक्पू:-' इत्यकारः समासान्तः । 'धन्तरुपसर्गभ्योऽप इत्' इति इत्त्वम् । अनुगता 'उदीचां माङ:-' इति क्त्वाप्रत्यये अपेत्यनेन सह गतिसमासः, क्त्वो ल्यप् । 'मयतेरिदन्यतरस्याम्' इति इत्वम् , 'हखस्य-' इति तुक् । ल्यबन्तादस्मात्तृतीयान्तात्प्रत्ययो न भवति, किं तु वचनात्प्रथमान्तादेवेति बोध्यम् । व्यञ्जनैरुप । व्यज्यते अनेन ओदनादिरस इति व्यञ्जनं तद्वाचिभ्य उपसिक्त इत्यर्थे ठक् स्यात् । तत्प्रत्यनु । वृत्तेरकर्मकत्वात्कथं तस्य द्वितीयान्तेन प्रतीपमित्यादिना सम्बन्ध इत्याशङ्कायामाहक्रियाविशेषणत्वादिति । प्रतीपमिति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः । 'ऋक्पू:-' इत्यकारः समासान्तः । 'यन्तरुपसर्गेभ्यः' इति ईत्वम् । व्युत्पत्तिमात्रमिदम् । प्रतिकूलानुकूलपर्याया हीमे रूढिशब्दाः । आन्वीपिक इति । अन्वीप Page #463 -------------------------------------------------------------------------- ________________ ४६० ] सिद्धान्तकौमुदी | [तद्धितेषु प्राग्वहतीय प्रातिलोमिकः । श्रानुलोमिकः । प्रातिकूलिकः । श्रानुकूलिकः । १५७६ परिमुखं च । ( ४-४-२६ ) परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः । १५८० प्रयच्छति गर्ह्यम् । (४-४-३०) द्विगुणार्थं द्रव्यं द्विगुणम्, तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिकः । 'वृद्धेर्वृधुषिभावो वक्तव्यः' ( वा २६६५ ) । वार्धुषिकः । १५८१ कुसीददशैकादशात्ष्टष्टचौ । ( ४-४-३१ ) गह्यर्थाभ्यामाभ्याhaौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसीदम्, तत्प्रयच्छतीति । पो यस्मिन् तदन्वीपम् । 'ऊदनोर्देशे' इत्यत्त्वं तु न, प्रदेशत्वात् । प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्याय रूढौ । श्रवयवार्थेषु तु नाभिनिवेष्टव्यम् । परिमुखं च । अस्माद् द्वितीयान्ताद् वर्तते इत्यर्थे ठगित्यर्थः । चादिति । चकारादनुक्तसमुच्चयार्थात् परिपार्श्वमित्यस्मादपि ठकि पारिपार्श्विक इति भवतीत्यर्थः । पारिमुखिक इत्यस्य यतो यतः स्वामिनो मुखं तत्र वर्तते इत्यर्थः । एवं पारिपार्श्विकः । प्रयच्छति गर्ह्यम् । 'तत्' इति द्वितीयान्तमनुवर्तते । गर्तं प्रयच्छतीत्यर्थे द्वितीयान्ताट्टगित्यर्थः । द्विगुणार्थं द्रव्यं द्विगुणमिति । द्वैगुणिक इति वक्ष्यमाणोदाहरणे द्विगुणशब्देन द्विगुणार्थं द्रव्यं विवक्षितमित्यर्थः । तत्प्रयच्छति द्वैगुणिक इति । द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः 'अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धकः' इत्यादिधर्मशास्त्रविरुद्धत्वादिदं गर्द्धमिति भावः । वृद्धेरिति । वृद्धिशब्दाद् उक्तार्थे ठकि प्रकृतेर्वृधुषि इत्यादेशो वाच्य इत्यर्थः । इकारान्त आदेशः । वार्धुषिक इति । वृद्धयर्थं द्रव्यं वृद्धिः, तत्प्रयच्छतीत्यर्थे वृद्धिशब्दात् ठक इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः । ' वृद्धयाजीवस्तु वार्धुषिः ' इति तु प्रमाद एव । कुसीद । गह्यर्थाभ्यामिति । कुसीद, दशैकादश आभ्यां द्वितीयान्ताभ्यां गर्ह्यार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात् ष्ठनुष्ठचौ स्त इत्यर्थः । षित्त्वम् मित्यत्र 'ऊदनोर्देशे' इत्युत्वं तु न भवत्यदेशत्वात् । परिमुखमिति । 'अपपरी वर्जने' इति परेः कर्मप्रवचनीयसंज्ञायां 'पञ्चम्यपापरिभिः' इति पञ्चमी, प्रपपरिबहिरञ्चवः पञ्चम्या' इत्यव्ययीभावः, ततष्टक् । स्वामिनो मुखं वर्जयित्वा यः सेंवको वर्तते स पारिमुखिकः । यदा तु सर्वतोभावे परिशब्दः प्रादिसमासश्च तदा यतो यतः स्वामिनो मुखं ततस्ततो यो वर्तते स एवमुच्यते । एवं पारिपार्श्विकोऽद्वये बोध्यः । प्रयच्छति । द्वितीयान्तात्प्रयच्छतीत्यर्थे ठक् स्यात् यत्प्रच्छति गह्यं चेत्तत् । द्विगुणार्थं द्विगुणमिति । तादर्थ्यात्ताच्छब्धमिति भावः । बहुवृध्यद्देश्यकदा न कर्मतयास्य द्रव्यस्य गर्ह्यत्वम् । वार्धुषिक इति । वृद्ध्यर्था वृद्धिः तां प्रयच्छतीति विग्रहः अथ कथं 'वृद्ध्याजीवश्च वार्धुषिः' इत्यमरः । ठक्संनियोगनैव वृधुषिभाव Page #464 -------------------------------------------------------------------------- ________________ प्रकरणम् ३० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६१ कुसीदिकः, कुसीदिकी । एकादशार्थत्वादेकादश, ते च ते वस्तुतो दश चेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते, दशैकादशिकः, दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः । १५८२ उञ्छति । (४-४-३२) बदराण्युन्छति बादरिकः । १५८३ रक्षति । (४-४-३३) समाज रक्षति सामाजिकः । १५८४ शब्ददर्दुरं करोति । (४-४-३४) शब्दं करोति शाब्दिकः । दार्दुरिकः । १५८५ पक्षिमत्स्यमृगान्हन्ति । (४-४-३५) ङीषर्थमित्याह-कुसीदिकीति । नित्त्वचित्त्वयोस्तु स्वरे विशेषः । अथ ठप्रकृति दशैकादशशब्दं व्युत्पादयति—एकादशार्थत्वादित्यादिना । यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति समयं कृत्वा दश निष्का ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्का एकादशार्थत्वाद् एकादशशब्देन उपचर्यन्ते । ततश्च एकादश च ते दश चेति कर्मधारये 'संख्याया अल्पीयस्याः' इति दशनशब्दस्य पूर्वनिपातः । इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशा इति रूपमित्यर्थः । दशैकादशिक इति । एकादश निष्कानधिकान् ग्रहीतुं दश निष्कान् अधमर्णाय प्रयच्छतीति यावत् । अथ लौकिकविग्रहवाक्यं दर्शयति-दशैकाद. शान् प्रयच्छतीति । इहापीति । विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्दिश्यते, तथा समासेऽपि उत्तमर्ण एव ऋणदातैव तद्धितार्थः प्रधानभूत इत्यर्थः । उच्छति । 'तत्' इति द्वितीयान्तमनुवर्तते । उञ्छतीत्यर्थे द्वितायान्ता?गित्यर्थः । भूम्यां निपतितस्य व्रीह्यादेः कणश आदानमुञ्छः। रक्षति । अस्मिन्नर्थे द्वितीयान्ताहगित्यर्थः । शब्ददर्दुरं करोति । शब्दं करोति द१रं करोतीति विग्रहे द्वितीयान्ताहगित्यर्थः । इह शब्दविषये प्रकृतिप्रत्ययविभागपूर्वकज्ञाने करोतिर्वर्तते, व्याख्यानात् तेनेह न-शब्दं करोति खरः । दार्दुरिक इति । 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरा चण्डिकायां स्यात्पामजाले तु दर्दुरम् ।' स्वीकारात् । अत्राहुः-निरङ्कशाः कवय इति। गर्यमिति किम् , द्विगुणं त्रिगुणं वा वृद्धि प्रयच्छत्यधमर्ण इत्यर्थे द्वैगुणिक इत्यादि माभूत् । निपात्यत इति । अतएव व्याख्यातृप्रयोगोऽप्युपपद्यत इत्याशयेनोदाहरति-दशैकादशानीति । 'संख्याया अल्पीयस्याः' इति पूर्वनिपातः । उत्तमर्ण एवेति । दश दत्त्वा एकादश गृह्णातीति तस्यैव गह्यत्वादिति भावः । उञ्छति । भूमौ पतितस्यैकैकस्योपादानमुञ्छः। सामाजिक इति । समजन्ति अस्मिन्निति समाजः समूहः । शब्दं करोतीति । प्रकृतिप्रत्ययविभागेन व्युत्पादयतीत्यर्थः । अभिधानखाभाव्याद् व्युत्पादन एवायं प्रत्ययः । नेह शब्दं करोति बर्बरः खरो वा। दार्दुरिक इति । कुलालः । Page #465 -------------------------------------------------------------------------- ________________ ४६२ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्वहतीय'स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणम्' (वा ५२३) । 'मत्स्ययर्यायेषु मीनस्यैव' । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुलिकः । मार्गिकः । हारिणिकः । सारङ्गिकः। १५८६ परिपन्थं च तिष्ठति । (४-४-३६) अस्माद् द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक्स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकचौरः । निपातनात् पन्थादेशः । परिपन्थं हन्ति पारिपन्थिकः । १५८७ माथोनरपदव्यनुपदं इति विश्वः । इह यथायोग्यमन्वयः । पक्षिमत्स्यमृगान्हन्ति । अस्मिभर्थे पक्ष्यादिशब्देभ्यो द्वितीयान्तेभ्यः ठगित्यर्थः । स्वरूपस्येति । पक्षिमत्स्यमृगशब्दैः तत्तत्स्वरूपाणां तत्तत्पर्यायाणां तद्विशेषवाचिनां च ग्रह णमित्यर्थः, 'स्वं रूपम्-' इति सूत्रभाष्ये तथोक्वेरिति भावः । भीनस्यैवेति । मत यपर्यायेषु मीनस्यैव ग्रहणम् , न त्वनिमिषादिशब्दानामित्यर्थः । इदमपि 'स्वं रूपम्-' इत्यत्र भाष्ये स्थितम् । पाक्षिक इति । स्वरूपस्योदाहरणम् । शाकुनिक इति तु पक्षिपर्यायस्य । मायूरिक इति । पक्षिविशेषस्य । तथा मात्स्यिकः, मैनिकः, शाकुलिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् । तथा मार्गिकः, हारिणिकः, सारङ्गिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् । परिपन्थं च तिष्ठति अस्मादिति । परिपन्थशब्दादित्यर्थः । चकाराद् ‘हन्ति' इत्यनुकृ यते । तदाहतिष्ठति हन्ति चेति । पन्थानं वर्जयित्वेति । एतेन 'अपपी वर्जने' इति परेः कर्मप्रवचनीयत्वे 'पञ्चम्यपाङ्परिभिः' इति पञ्चम्याम् 'अपपरिबहिरञ्चवः पञ्चम्या' इति अव्ययीभावसमासः सूचितः। व्याप्य वेति । एतेन सर्वतःश दपर्यायस्य परे परिगतः पन्था इति प्रादिसमासे परिपन्थशब्द इति सूचितम् । अव्ययीभावः प्रादिसमासो वेत्यपि बोध्यम् । उभयथापि क्रियाविशेषणत्वाद् द्वितीयान्तत्वम् । निपातनात् पन्थादेश इति । नेदं प्रत्ययसंनियोगेन निपातनम् । किंतु ततोऽन्यत्रापि परिपन्थशब्दोऽस्ति इदमेव सूचयितुं प्रकृतेरपि द्वितीयोच्चारणमिति वाद्यभाण्डवाचीह दर्दुरशब्दः । मात्स्यिक इति । 'मत्स्यस्य ड्याम्' इति परिगणनात् 'सूर्यतिष्या-' इति यलोपाभावः । हारिणिक इति । नन्विदं पर्यायस्योदाहरणं न भवति हरिणस्य मृगविशेषत्वात्तथा चात्र पर्यायस्योदाहरणं किमिति न प्रदर्शितमिति चेत् । अत्राहुः-आरण्यकचतुष्पात्सु हरिणे च मृगशब्दो वर्तते । यदा हरिणवाची मृगशब्दः, तदा मृगपर्यायस्योदाहरणं भवत्येवेति । परिपन्थं च । परिमुखवदयमव्ययीभावस्तत्पुरुषो वा क्रियाविषयत्वात्तिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वमस्त्येवेत्याह । द्वितीयान्तादिति । चकारो भिन्नक्रमः प्रत्य पार्थ समुच्चिनो Page #466 -------------------------------------------------------------------------- ________________ प्रकरणम् ३०] बालमनोरमा तत्त्वबोधिनीसंहिता। [४६३ धावति । (४-४-३७) दण्डाकारो माथः पन्था दण्डमाथः । दण्डमार्थ धावति दाण्डमाथिकः । पादविकः । भानुपदिकः । १५८८ आक्रन्दाटुञ् च । (४-४-३८) अस्माट्ठम्स्यात्, चाक् धावतीत्यर्थे । आक्रन्दं दु:खिना रोदनस्थानं धावति प्राक्रन्दिकः । १५८६ पदोत्तरपदं गृह्णाति । (४-४-३६) पूर्वपदं गृहाति पौर्वपदिकः। श्रौत्तरपदिकः । १५६० प्रतिकण्ठार्थललामं च । (४-४-४०) एभ्यो गृहास्यर्थे ठक्स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः । १५६१ धर्म चरति । (४-४-४१) धार्मिकः । 'अधर्माचेति वक्तव्यम्' (वा २६६६)। आधर्मिकः । १५९२ प्रतिपथमेति ठंश्च । (४-४-४२) प्रतिपथमेति प्रतिपथिकः, प्रातिपथिकः । १५६३ वृत्तिकृतः । इदमेवाभिप्रेत्य विग्रहं दर्शयति-परिपन्थं तिष्ठतीति । माथोत्तर । माथोत्तरपद, पदवी, अनुपद एभ्यो द्वितीयान्तेभ्यो धावतीत्यर्थे ठगित्यर्थः । माथपदं व्याचष्टे-माथः पन्था इति । मथ्यते गन्तुंभिराहन्यते इति व्युत्पत्तेरिति भावः। दण्डमाथ इति । शाकपार्थिवादिः । पन्थानं धावतीति धावतेर्गत्यर्थत्वात् सकर्मकत्वम् । पादविक इति । पदवी धावतीति विग्रहः । आनुपदिक इति । अनुपदं धावतीति विग्रहः । प्राक्रन्दाञ् च । अस्मादिति । श्राक्रन्दशब्दाद् द्वितीयान्तादित्यर्थः । आकन्दन्ति अस्मिन्नित्याक्रन्दः, तदाह-आक्रन्दो दुःखिनां रोदनस्थानमिति । पदोत्तरपदम् । पदशब्द उत्तरपदं यस्य तस्माद् द्वितीयान्ताद् गृह्णातीत्यर्थे ठक् स्यादित्यर्थः । प्रतिकण्ठार्थ । एभ्य इति । प्रतिकण्ठ, अर्थ, ललाम इत्येभ्य इत्यर्थः । आर्थिक इति । अर्थ गृह्णातीत्यर्थः । लालामिक इति । ललाम चिह्न तद् गृह्णातीत्यर्थः । 'लिङ्गं ललामं च ललाम च' इत्यमरः। धर्म चरति । चरतीत्यर्थे द्वितीयान्ताद् धर्मशब्दागित्यर्थः । अधर्माश्चेतीति । 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति तदन्ताग्रहणादप्राप्त प्रारम्भः। प्रतिपथमेति तीत्याह । तिष्ठति हन्ति चेति । माथ इति । मथ्यते गन्तृभिरिति माथः । 'मथे विलोडने' कर्मणि घञ् । पदोत्तरपदम् । पदशब्द उत्तरपदं यस्य तत्पदोत्तरपदम् । पदान्तमिति तु नोक्तम् , बहुच्पूर्वान्मा भूदिति । प्रतिकण्ठमिति । कण्ठं कण्ठं प्रतीति यथार्थेऽव्ययीभावः, 'लक्षणेनाभिप्रती अभिमुख्ये' इत्यनेन वा । यस्तु प्रतिगतः कण्ठं प्रतिकण्ठ इति प्रादिसमासः, तस्येह न ग्रहणं व्याख्यानादित्याहुः। धर्म चरति । चरतिरिहासेवायां न त्वनुष्ठानमात्रे । तेन दैववशाद्धर्मे प्रवृत्तो दुर्वृत्तो धार्मिक इति नोच्यते । आसेवा हि स्वारसिकी प्रवृत्तिः । एवं दैववशादधर्मे प्रवृत्तः यः सवृत्त आधर्मिक इति नोच्यते। प्रतिपथमिति । वीप्सायामाभिमुख्ये वा Page #467 -------------------------------------------------------------------------- ________________ ४६४ ] सिद्धान्तकौमुदी । [तद्धितेषु प्राग्वहतीय समवायान्समवैति । ( ४-४-४३ ) सामवायिकः । सामूहिकः । १५६४ परिषदो एयः । ( ४-४-४४ ) परिषदं समवैति पारिषद्यः । १५६५ सेनाया वा । ( ४-४-४५ ) ययः स्यात् । पच ठक् । सैन्याः, सैनिकाः । १५६६ संज्ञायां ललाटकुक्कुट्यौ पश्यति । ( ४-४-४६ ) ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पाताईः स्वल्पदेशो लक्ष्यते । atraटिको मितुः । १५६७ तस्य धर्म्यम् । ( ४-४-४७ ) आपणस्य धर्म्यमापणिकम् । १५६८ अण् महिष्यादिभ्यः । ( ४-४-४८ ) महिष्या ठंश्च । प्रतिप्रथमित्यव्ययीभावाद् एतीत्यर्थे ठन् ठक् च स्यादित्यवः । प्रतिपथमिति 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । 'ऋक्पूः -' इति समासान्तः । समवायान् समवैति । द्वितीयान्तेभ्यः समवायवाचिशब्देभ्यः समर्वतीत्यर्थे ठगित्यर्थः । बहुवचनात्तदर्थवाचिशब्दग्रहणम् । समवैति मेलयतीत्यर्थः । परिषदो रायः । द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो राय इत्यर्थः । सेनाया वा । ण्यः स्यादिति । शेषपूरणमिदम् । द्वितीयान्तात्सेनाशब्दात्समवैतीत्यर्थे रायो वा स्यादित्यर्थः । सैन्याः, सैनिका इति । सेनां मेलयन्तीत्यर्थः । संज्ञायाम् । ललाटकुक्कुटी शब्दाभ्यों पश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः । संज्ञा रूढिः, न त्वाधुनिकः संकेतः । लालाटिकः सेवक इति । दूरे स्थित्वा प्रभोललाटं पश्यति, नतु कार्ये प्रवर्तत इत्यर्थः । ' तालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः' इत्यमरः । कौक्कुटिक इति । कुक्कुटीपतनार्हदेशं पश्यतीत्यर्थः । तस्य धर्म्यम् । धर्मादनपेतं धर्म्यम्, आचरितुं योग्यमित्यर्थः । अव्ययीभावः । 'ऋक्पू:-' इति समासान्तः । समवायान् । समूहवाचिभ्यो द्वितीयान्तेभ्यष्ठक् स्यात्समवैतीत्यर्थे । इह समवपूर्वस्येणोऽर्थः प्रविश्यैकदशीभवनम् । तत्र गुणभूतप्रवेशापेक्षया समवायानिति द्वितीयानिर्देशः । विशेष्यापेक्षया तु लोके सप्तमी प्रायेण प्रयुज्यते 'कुरुक्षेत्रे समवेताः' इति यथा । 'एत्येधति -' इति वृद्धिरिह न भवति, एजादित्वाभावात् । सैन्याः, सैनिका इति । द्वितीयान्ताण्ठौ । यत्तु, 'सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते' इति निघण्टुषूक्तं तत्फलितार्थकथनपरं बोध्यम् । संज्ञायाम । ललाटकुक्कुटीशब्दाभ्यां द्वितीया । ताभ्यां पश्यतीत्यर्थे ठक् स्यात् । सम्यग्ज्ञानं संज्ञा प्रसिद्धिस्तस्याम्, प्रसिद्धिविषयभूतेऽर्थे इत्यर्थः । लालाटिक इति । दूरे स्थित्वा प्रभोर्ललाटं पश्यति न तु कार्येषूपतिष्ठत इत्यर्थः । 'लालाटिकः प्रनोर्भालदर्शी कार्याक्षमश्च यः । कौक्कटिको भिक्षुरिति । संन्यासी १ एतद द्वितीयान्ताभ्यामित्यधिकः पाठः क. ख. । Page #468 -------------------------------------------------------------------------- ________________ प्रकरणम् ३० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४६५ धर्म्यं माहिषम् । याजमानम् । १५६६ ऋतोऽञ् । ( ४-४-४६ ) यातुर्धर्म्य यात्रम् । 'नराच्चेति वक्तव्यम्' ( वा २३६७ ) । नरस्य धर्म्या नारी । 'विशसितुरिड्लोपश्वाञ्च वक्रव्यः' ( वा २३६८ ) । विशसितुर्धर्म्यं वैशस्वम् । 'विभाजयितुणिलोपश्चाञ्च वाच्यः' ( वा २३६६ ) । विभाजयितुर्धर्म्य वैभाजित्रम् । १६०० अवक्रयः । (४-४-५० ) षष्ठयन्ताट्ठक्स्यादवक्रयेऽर्थे । प्रापणस्यावक्रयः श्रापणिकः । राजग्राह्यं द्रव्यमवक्रयः । १६०१ तदस्य पण्यम् । ( ४-४-५१) अपूपाः पण्यमस्य आपूपिकः । १६०२ लवणाट्ठञ् । ( ४-४-५२ ) लावणिकः । १६०३ किसरादिभ्यः ष्ठन् । ( ४-४-५३ ) किसरं पययमस्य किसरिकः । पिवान्ङीष् । किसरिकी । किसर, उशीर, नलद इत्यादिकिसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः । १९६०४ शलालुनोऽन्यतरस्याम् । ( ४-४-५४ ) ष्ठन् स्यात् पते ठक् । शलालुकः, शलालकी । शाल।लुकः, शालालुकी । शलालुः सुगन्धिद्रव्यविशेषः । १६०५ शिल्पम् । ( ४-४-५५ ) मृदङ्गवादनं धर्म्यमित्यर्थे षष्ठ्यन्तादृगित्यर्थः । अण् महिष्यादिभ्यः । षष्ठ्यन्तेभ्यो धर्म्य - मित्यर्थे इति शेषः । ऋतोऽञ् । ऋदन्तात्षष्ठयन्ताद् धर्म्यमित्यर्थे श्रमित्यर्थः । नारीति । अनन्तत्वाद् ङीबिति भावः । इड्लोप इति । इटो लोप इत्यर्थः । वैशस्त्रमिति । विशसितृशब्दादमि इटो लोपे ऋकारस्य यणि आदिवृद्धिः । वैभाजित्रमिति । विभाजयितृशब्दादनि णिलोपः । श्रवक्रयः । 'तस्य' इत्यनुवर्तते, तदाह – षष्ठ्यन्तादिति । तदस्य पण्यम् । श्रस्मिन्नर्थे प्रथमान्तात् ठगित्यर्थः । विक्रेतव्यं द्रव्यं पण्यम् । लवणाट्ठञ् । 'तदस्य पण्यम्' इत्येव । लावणिक इति । लवणमस्य पण्यमित्यर्थः । किसरादिभ्यः छन् । ‘तदस्य पण्यम्' इत्येव । ष्ठन्निति च्छेदः, तदाह - षित्त्वान्ङीषिति । शलालुनोऽन्यतरस्याम् । ष्ठन्निति शेषः । ' तदस्य पण्यम्' इत्येव । शलालुक इति । शलालुः पण्यमस्येति विग्रहः । उकः परत्वाठ्ठस्य कः । वित्त्वस्य फलमाह - शलालुकीति । शिल्पम् । तदस्य शिल्पमित्यर्थे प्रथमान्तात् ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु मार्दङ्गिक इत्युदाहरण वक्ष्यति, तत्र मृदङ्ग शिल्पमिति कथं विग्रहः, भृदङ्गस्य शिल्पत्वासंभवात्, तत्राह - मृदङ्गवादनमिति । मृदङ्गवादनविषयकमित्यर्थः । हि पादविक्षेपपर्याप्तदेशपर्यन्तमेव चतुः संयम्य गच्छतीति भावः । धर्म्यमिति । धर्मादनपेतं धर्म्यम् । 'धर्मपथ्यर्थन्यायादनपेते' इति यत । अवक्रयः । श्रवक्रीयते अनेनेति करणे 'एरव्' । पण्यमिति । पणितव्येऽर्थे 'अवद्य राय -' इति यदन्तो निपातितः । शलालुक इति । 'इसुसुक्तान्तात्कः' । ठक्पत्ते त्वादिवृद्धिः । शालालुकः । Page #469 -------------------------------------------------------------------------- ________________ MERE RATANTRE ४६६ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्वहतीय. शिल्पमस्य मार्दङ्गिकः। १६०६मड्डुकभर्भरादणन्यतरस्याम् । (४-४-५६) मडडुकवादनं शिल्पमस्य माड्डुकः, माड्डुकिकः । मार्मरः, झाझरिकः । १६०७ प्रहरणम् । (४-४-५७) 'तदस्य' इत्येव । सिः प्रहरणमस्य पासिकः । धानुष्कः। १६०८ परश्वधाहश्च । (४-४-५८) पारश्वधिकः । १६०६ शक्तियष्टयोरीकक् । (४-४-५६) शाक्नीकः । याष्टीकः । १६१० अस्ति नास्ति दिष्टं मतिः। (४-४-६०) 'तद' इत्येव । अस्ति परलोक इत्येवं मतिर्यस्य स प्राखिकः । नास्तीति मतिर्य य स नास्तिकः । दिष्टमिति मतिर्यस्य स देष्टिकः । १६११ शीलम् । (४-४-६१) अपूपभक्षणं शीलमस्य आपूपिकः । १६१२ छत्त्रादिभ्यो णः। (४-४-६२) मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः । मड्डुकभर्भरात् । तदस्य शिल्पम्' इत्येव । पक्षे ठक् । मड्डुकमर्भरौ वाद्यविशेषौ। प्रहरणम् । 'तदस्य' इत्येव । प्रहरणवाचिनः प्रथमान्तात्तदस्येत्यर्थे ठगित्यर्थः । प्रह्रियतेऽनेनेति महरणम् , आयुधम् । धानुष्क इति । धनुः प्रहरणमस्येति विग्रहः। उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षः । परश्वधाहने च । 'तदस्य प्रहरणम्' इत्येव । चात् ठक् । 'परशुश्च परश्वधः' इत्यमरः । क्रियष्टयोरीका । शक्लियष्टिशब्दाभ्यां प्रथमान्ताभ्यां प्रहरणवाचिभ्यामस्येत्यर्थे । कक् स्यादित्यर्थः । अस्ति नास्ति । तदस्येत्येवेति । अस्तीति मतिरन्यास्ति, नास्तीति मतिरस्यास्ति, दिष्टमिति मतिरस्यास्तीत्यर्थेषु क्रमेण अस्तीत्यस्म द् नास्तीत्यस्माद् दिष्टमित्यस्माच्च प्रथमान्ताहगित्यर्थः। अस्तिनास्तिशब्दौ निपातौ। यद्वा वचनादेव अख्यातात्प्रत्ययः । 'दैवं दिष्टम्-' इत्यमरः । शीलम् । अस्येत्यर्थे शीलवाचिनः प्रथमान्तागित्यर्थः। शीलं स्वभावः । अपूपभक्षणमिति । अपूपशब्दमार्दङ्गिक इति । मृदङ्गशब्देन मृदङ्गवादनं लक्ष्यते । मुख्यार्थे तु प्रयोगो न भवति, अनभिधानादिति भावः । शिल्पं कौशलम् । तच्च मृदङ्गगदनविपयकम् , तेन मृदङ्गवादनविषयक मृदङ्गशब्दस्य लक्षणेति निष्कर्षः । प्रहरणम् । प्रह्रियते अनेनेति प्रहरणमायुधम् । धानुष्क इति । 'इसुसुक्तान्ताव:' 'इणः षः' इति विसर्गस्य षः । परश्वधा?ञ् । चाटुक् । 'द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः'। परलोक इति । एतच्चाभिधानशक्तिस्वाभाव्याल्लभ्यते। आस्तिक इति । अस्तिनास्तिशब्दौ निपाती। यद्वा वचनसामर्थ्यादस्तीत्याख्यातात् , नास्तीति निपाताख्यातसमुदायाच्च प्रत्ययः । दिष्टमिति । 'दैवं दिष्टं भागधेयम्' इत्यमरः । 'नालम्बते दैष्टिकताम्' इति माघः । 'प्रमाणानुगा मतिर्दिष्टा' इति प्राचोविस्तूपेक्ष्या । दिष्टशब्दस्य Page #470 -------------------------------------------------------------------------- ________________ प्रकरणम् ३०] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६७ गुरोर्दोषाणामावरणं छत्त्रम्, तच्छीलमस्य छात्रः । १६१३ कार्मस्ताच्छील्ये। (६-४-१७२) कार्म इति ताच्छील्ये णे टिलोपो निपात्यते। कर्मशीलः कार्मः । 'नस्तद्धिते' (सू ६७६ ) इत्येव सिद्धे 'प्रएकार्य ताच्छीलिके णेऽपि । तेन चौरी, तापसी इत्यादि सिद्धम् । ताच्छील्ये किम्-कार्मणः । १६१४ कर्माध्ययने वृत्तम् । (४-४-६३) प्रथमान्तात्षष्ट्यर्थे ठक्स्यादध्ययने वृत्ता स्तद्भक्षणे लाक्षणिक इति भावः । छत्त्रादिभ्यो णः। एभ्यः प्रथमान्तेभ्यः अस्य शीलमित्यर्थे णप्रत्ययः स्यादित्यर्थः। छत्त्रं शीलमस्य छात्रः, इत्युदाहरणं वक्ष्यति । तत्र छत्त्रस्य शीलत्वानुपपत्तेः छत्रपदं गुरुदोषावरणे गौणमित्याह-गुरोरिति । शीलमित्यर्थे छत्त्रादित्वाद् गा प्रत्यये कृते । कार्मस्ता. च्छील्ये । तत् शीलं यस्य स तच्छीलः, तस्य भावः ताच्छील्यम् । तस्मिन्वोच्ये कार्म इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् , तदाह-टिलोपो निपात्यत इति । णेऽपीत्यनन्तरम् इति ज्ञापनार्थमिदमिति शेषः । अत्र टिलोपविधिर्हि 'अन्' इति प्रकृतिभावनिवृत्त्यर्थः । ततश्च अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादणकार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः । तेनेति । चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे चुरातपःशब्दाभ्यां छन्त्रादित्वाएणप्रत्यये सति तदन्ताभ्यामणन्तकार्ये डीपि चौरी तापसीति सिद्धमित्यर्थः । कार्मण इति । तस्येदम्' इत्यणि 'कार्मस्ताच्छील्ये' इस्यस्याप्रवृत्त्या 'अन्' इति प्रकृतिभावान टिलोप इति भावः । कर्माध्ययने वृत्तम् । 'तदस्य पण्यम्' इत्यतः 'तदस्य' इत्यनुवर्तते । 'तदस्य कर्माध्ययने वृत्तम्' इत्यर्थनिर्देशः। तत्र तदित्यनेन विशेष्येण कर्म वृत्तमित्यन्वेति । कर्मशब्दः क्रियापरः । वृत्तमित्यस्य जातमित्यर्थः । वृत्तं कर्म प्रति विशेष्यसमर्पकं तदिति प्रथमोचारितम् । ततश्च अस्य अध्ययनविषये तत्कर्म वृत्तमित्यर्थे तच्छन्दगम्यविशेष्यवाचकात् प्रथमान्ताद्वक् स्यादित्यर्थः । तदाह-प्रथमान्तादिति । वृत्तं कर्म प्रति विशेष्यसमर्पकादिति शेषः । अध्ययने वृत्तेति । विषयसप्तम्येषा । या क्रियेति । अनेन कर्मशब्दः क्रियापर इति सूचितम् । प्रथमान्तस्यार्थ इति । अनेन कर्म वृत्तमित्येतत् तदित्यस्य प्रथमान्तस्य विशेषणमिति सूचितम् । स्त्रीत्वे प्रमाणानुगमात्स्त्रीवाचकत्वे चोक्तकोशविरोधादिति दिक् । छत्त्रादिभ्यो णः । 'छत्त्रादिभ्योऽण' इत्येव सुवचमिति 'कार्मस्ताच्छील्ये इति सूत्रे कैयटः । ताच्छील्ये ण इति । कर्मन्शब्दस्य छत्त्रादित्वादिति भावः। चौरीत्यादि । चुराशीलमस्याः, तपः शीलमस्या इति विग्रहे णप्रत्यये सति तदन्तान्डी सिध्यतीत्यर्थः। कर्माध्ययने । Page #471 -------------------------------------------------------------------------- ________________ ४६८ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्वहतीयया क्रिया सा चेत्प्रथमान्तस्यार्थः । एकमन्यद् वृत्तमस्य ऐकान्यिकः । यस्याध्ययने प्रवृसस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातम् सः । १६१५ बह्वपूर्वपदाहच् । (४-४-६४ ) प्राग्विषये। द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य जाता इत्यर्थः। १६१६ हितं भक्षाः । (४-४-६५) अपूपभक्षणं हितमस्मै आपूपिकः । १६१७ तदस्मै दीयते नियतम् । (४-४-६६) अग्रभोजनं नियतं दीयते अस्मै अाग्रभोजनिकः । १६१८ श्राणामांसौदनाठिन् । (४-४-६७ ) श्राणा नियतं दीयतेऽस्मै श्राणिकः. श्राणिकी । मांसौदनग्रहणं सङ्घातविगृहीतार्थम् । मांसौ. तदित्यननुवृत्तौ कर्मशब्दस्यैव सूत्रे प्रथमानिर्दिष्टत्वात् तत एव प्रत्ययः स्यात् , नतु तद्विशेष्यवाचकात् , तस्य प्रथमानिर्दिष्टत्वाभावादित्यभिप्रेत्योदाहरति-एकमन्यवृत्तमस्य ऐकान्यिक इति । 'तद्धितार्थ-' इति समासे एकान्यशब्दागिति भावः । द्वैयन्यिकः, त्रैयन्यिकः । ऐजागमो विशेषः । बह्वपूर्वपदाच् । 'तदस्य कर्माध्ययने वृत्तम्' इत्यनुवर्तते । तदाह-प्राग्विषय इति। द्वादशान्यिक इति । 'तद्धितार्थ-' इति समासः । एवं त्रयोदशान्यिकः । चित्त्वान्नादिवृद्धिः। हितं भताः। 'तदस्य' इत्यनुवृत्तम् । तत्र षष्ठी चतुर्थ्या विपरिणम्यते, हितयोगात् । तद् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक् स्याद् यद् हितं भक्षाश्चेत् ते स्युरित्यर्थः । संस्कृतं भक्षाः इतिवद्याख्येयम् । अपूपभक्षणमिति । अनेन अपूपशब्दः अपूपभक्षणे लाक्षणिक इति सूचितम् । अपूपो हितमित्यर्थे तु न ठक् , अभिधानस्वाभाव्यादिति भावः । तदस्मै दीयते नियतम् । अस्मिन्न प्रथमान्ताट्ठगित्यर्थः । नियुक्तमिति पाठान्तरम्, नियतमित्यर्थः । श्राणमांस । तदस्मै दीयते नियतमित्येव । श्राणा यवागूः । 'यवागूरुष्णिका श्राणा विलेपी 'तदस्य' इत्यनुवर्तते, ठगिहाधिक्रियत एव तदाह-प्रथमान्तादित्यादि । ऐका. यिक इति । एकमन्यदिति विगृह्य 'तद्धितार्थ-' इति समाराः, ततष्ठक् । एवं द्वैयन्यिकः, त्रैयन्यिक इत्युदाहार्यम् । इह तु वृद्धि बाधित्वा 'न यवान्याम्-' इत्यैच् । हितं भताः । 'अस्य' इति प्रकृतमपीह हितयोगाच्चतुर्थ्या विपरिगम्यते, 'तदस्मै-' इत्यस्यापकर्षो वेत्याशयेनाह-अपूपभक्षणं हितमस्मा इति । अपूपशब्दस्तद् भक्षणे लाक्षणिक इति भावः । श्राणा। 'यवागूरुष्णिका श्राणा विलेपी तरला १ इह 'ठच्' इति पाठो बालमनोरमासंमतः । काशिक यामपि तथैवोप. लभ्यते । कौमुदीपुस्तकान्तरेषु तु 'ठञ्' इति पाठ उपलभ्यते, मुद्रितेष्वष्टाध्यायीपुस्तकेष्वपि प्रायेण 'ठञ्' इत्येवोपलभ्यते । Page #472 -------------------------------------------------------------------------- ________________ प्रकरणम् ३० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६६ दनिकः, मासकः, प्रोदनिकः । १६१६ भक्तादणन्यतरस्याम् । (४-४-६८) पक्ष ठक् । भक्कममै नियतं दीयते भात्रः, भाक्तिकः । १६२० तत्र नियुक्तः। (४-४-६६)श्राकरे नियुक्त प्राकरिकः। १६२१ अगारान्ताहन् । (४-४-७०) देवागारे नियुक्तो देवागारिकः । १६२२ अध्यायिन्यदेशकालात् । (४-४-७१) निषिद्धदेशकालवाचकाढक्स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः । १६२३ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति । (४-४-७२) 'तत्र' इत्येव । वंशकठिने व्यवहरति वांश. कठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनः । तस्मिन्देशे या क्रिया यथा अनुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः । १६२४ निकटे वसति । (४-४-७३ ) नैकटिको भिक्षुः । १६२५ तरला च सा' इत्यमरः। टित्त्वं डीबर्थम् , तदाह-श्राणिकीति । संघात. विगृहीतार्थमिति । ठकैव सिद्धे ओदनिक इत्यत्र आदिवृद्धयभावार्थ प्रत्ययान्तरविधानमिति भावः । भक्कादणन्यतरस्याम् । तदस्मै दीयते नियतमित्येव । तत्र नियुक्तः । अस्मिन्नर्थे सप्तम्यन्ताक् स्यादित्यर्थः। नियुक्तः अधिकृतः । संरक्षणादौ प्रेरित इति यावत् । प्राकरिक इति । आकरो रत्नााद्भवस्थानम् । अगारान्ताट्ठन् । तत्र नियुक्त इत्येव । नित्त्वानादिवृद्धिः । तदाहदेवागारिक इति । अध्यायिन्यदेशकालात् । निषिद्धेति । अदेशकाले. त्यत्र 'न' निषिद्धे वर्तत इति भावः । श्माशानिकः। चातुर्देशिक इति । देशकालभिन्नादिति व्याख्याने तु इह न स्यादिति भावः। कठिनान्तप्रस्तार । अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान एभ्यः सप्तम्यन्तेभ्यः ठगित्यर्थः । वंशकठिन. शब्दं विवृणोति-चंशा इति । व्यवहरणम् उचितक्रिया, तदाह-यस्मिन्देश इति । प्रस्तारसंस्थानशब्दौ अवयवसंनिवेशपय यो। निकटे वसति । अस्मिनर्थे सप्तम्यन्तान्निकटशब्दाहगित्यर्थः । नैकटिको भिनुरिति । 'ग्रामात्क्रोशे भिक्षुणा वस्तव्यम्' इति शास्त्रमुल्लङ्घय निकटे यो भिक्षुर्वसति तत्रैवायं ठगिति भावः । च सा' इत्यमरः । टिठनिति । इकार उच्चारणार्थः । टो डीबर्थः। सङ्घातविगृही. तार्थमिति । ओदनिक इत्यत्र हि वृद्धिनिवारणाय टिठन्नारब्धः। अन्यथा लाघवाटुञमेव ब्रूयादिति भावः । आकरिक इति । 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । अध्यायिन्य । अदेशकालात् किम् , काश्यामधीते, पूर्वाह्ने अधीते । कठिनान्त । प्रस्तारसंस्थानशब्दौ संनिवेशपर्यायाविति बहवः । प्रस्तारो यज्ञः । 'प्रेनो यज्ञे' इति घञ् । संस्थानं संनिवेश इत्येके । नैकटिको भिक्षुरिति । संन्यासी हि ग्रामस्य Page #473 -------------------------------------------------------------------------- ________________ ४७० ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्वहतीयश्रावसथात् ष्ठत् । (४-४-७४) आवसथे वसति पावसथिकः । पित्त्वान्डीए । श्रावसथिकी। 'प्राकर्षास्पर्पादेर्भस्वादिभ्यः कुसीदसूत्राश्च । श्रावसथास्किसरादेः षितः षडेते ठगधिकारे ॥' ( वा २६५५) षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त। इति तद्धितेषु ठगधिकारप्रकरणम् । अत्र व्याख्यानमेव शरणम् । आवसथाष्ठल । 'तत्र' 'वसति' इत्यर्थे आवसथात् सप्तम्यन्तात् 'लित्यर्थः । आवसथं गृहम् । षित्त्वं ङीषर्थम् । तदाह-श्रावसथिकीति । आकर्षादित्यादि । श्लोकवार्तिकमिदम्-'प्राग्वहतेष्ठक्' इत्यादी ठगिति वा ठगिति छेद इति संशयनिवृत्त्यर्थम् 'आकर्षात्ष्टल' इति सूत्रभाष्ये पठि. तम् । तत्र आकर्षादित्यनेन 'आकर्षात्ष्टल्' इति सूत्रं विवक्षितम् । पर्पादिभ्य इत्यनेन 'पर्पादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । भनादिभ्य इत्यनेन 'भस्त्रादिभ्यः छन्' इति सूत्रं विवक्षितम् । कुसीदसूत्रादित्यनेन 'कुसीददशैकादशात् ठन्ष्टचौ' इति सूत्रं विवक्षितम् । श्रावसथादित्यनेन 'पावसथात् ष्ठल' इति सूत्रं विवक्षितम् । किसरादेरित्यनेन 'किसरादिभ्यः ष्ठन्' इति सूत्रं विवक्षितम् । 'प्राग्वहतेष्ठक्' इत्यधिकारे एतैः सूत्रविहिताः षट् प्रत्ययाः षित इत्यर्थः । ननु 'कुसीद-' इति सूत्रे प्रत्ययद्वयविधानाद् एतत्सूत्रषट्कविहिताः सप्त प्रत्ययाः लभ्यन्त इति षट् षित इति कथमित्यत आह–पडितीति । षडित्यनेन सूत्राभिप्रायं षट्वं विवक्षितमिति भावः। इति तद्धितेषु प्राग्वहतीयप्रकरणम् ॥ निकटे वसन् भिक्षार्थमेव प्रामे प्रविशति, न तु तत्र वसतीति भावः । श्रावसथात् । लकार. खरार्थः । श्रावसन्स्यस्मिन्नित्यावसथः । 'उपसर्गे वसेः' इत्यथप्रत्ययः । कुसीदसूत्रादिति । 'कुसीददशैकादशात्-' इति सूत्रोपात्ताभ्यां प्रकृतिभ्यामित्यर्थः। इह 'नौ यचष्ठन्' इत्यत्रेव येषां षकारः साहितिक इति सम्भाव्यते तेषामेव गणने ठलादेः षित्त्वमनार्षमिति भ्रमः स्यादतः श्लोकवार्तिककारः पित्प्रत्ययान्सर्वानपि पर्यजीगणत् । इति तत्त्वबोधिन्या ठगधिकारप्रकरणम् । Page #474 -------------------------------------------------------------------------- ________________ प्रकरणम् ३१ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [४७१ अथ तद्धितेषु प्राग्घितीयप्रकरणम् । ३१ । १६२६ प्राग्घिताद्यत् । (४-४-७५) 'तस्मै हितम्' (सू १६६५) इत्यतः प्राग्यदधिक्रियते । १६२७ तद्वहति रथयुगप्रासङ्गम् । (४-४-७६) रथं वहति रथ्यः । युग्यः । वत्सानां दमनकाले स्कन्धे यस्काष्ठमासज्यते स प्रासङ्गः, तं वहति प्रासङ्गयः । १६२८ धुरो यड्ढको (४-४-७७) 'हलि च' (सू ३५४) इति दीचे प्रासे । १६२६ न भकुर्छराम् । (८-२-७६) भस्य कुर्छरोश्चोपधाया दी? न स्यात् । धुर्यः, धौरेयः। १६३० खः सर्वधुरात्। (४-४-७८) सर्वधुरां वहतीति सर्वधुरीणः । १६३१ एकधुराल्लुक्च । अथ प्राग्घितीयप्रकरणं निरूप्यते-प्राग्घिताद्यत् । हितशब्दः तद्धटित. सूत्रपरः । तदाह--तस्मै हितमिति । तद्वहति रथ । रथादि वहतीत्यर्थे द्वितीयान्ताद् रथ युग प्रासङ्ग इति त्रयाद् यत्स्यादित्यर्थः । युग्य इति । रथादिवहनकाले अश्वादिस्कन्धेषु तिर्यग् यत् काष्ठमीषत्प्रोतमासज्यते तयुगम् , तद्वहतीत्यर्थः । दमनकाल इति । रथादि वहने सुशिक्षितावश्वौ नियुज्य तत्स्कन्धवात्ययुगे ययुगान्तरमासज्य तस्मिन्नशिक्षिता अश्वादयो वहनशिक्षार्थ नियुज्यन्ते स प्रासङ्ग इत्यर्थः । 'प्रासको ना युगायुगे' इत्यमरः। धुरोयड्ढकौ। धुरशब्दाद् द्वितीयान्ताद् वहतीत्यर्थे यत् ढक् च स्यादित्यर्थः । यड्ढाविति पाठान्तरम् । हलि चेतीति । 'धुर्वी हिंसायाम्' 'भ्राजभास-' इति क्लिप । 'राल्लोपः' इति लोपः। अश्वादिस्कन्धवाह्यप्रदेशो युगावयवो धूः । धुर्शब्दाद् यति 'हलि च' इति दीर्धे प्राप्ते सतीत्यर्थः । न भकुछराम् । वोरुपधाया:-' इत्यत 'उपधायाः' इति 'दीर्घः' इति चानुवर्तते, तदाहभस्येत्यादिना । 'धूर्वहे धुर्यधौरेयधुरीणाः' इत्यमरः। खः सर्वधुरात् । सर्वा धूः सर्वधुरा । 'पूर्वकाल-' इति तत्पुरुषः। 'ऋक्पू:-' इति समासान्तः । 'परवल्लिङ्गम्-' इति स्त्रीत्वाट्टाप् । इह तु शब्दस्वरूपापेक्षया नपुंसकनिर्देशः । द्वितीयान्तात्सर्वेधुराशब्दाद् वहतीत्यर्थे खः स्यादित्यर्थः । सर्वधुरीण इति । सर्वधुरां युग्य इति। युगं रथा वहतीत्यर्थः । प्रासङ्ग इति । प्रासज्यते असाविति कर्मणि घञ् । धुरो । 'धुरो ढक् च' इत्येव सुवचम् । न भ । उपधाया इति । 'उपधायां च' इति पूर्वसूत्रादेतल्लभ्यत इति भावः । उपधायाः किम् , प्रतिदीनः । इह नान्तस्य भत्वेऽपीकारस्यानुपधात्वान्निषेधो न प्रवर्तते । खः सर्वधुरात् । सूर्वधुराया इति वक्तव्ये नपुंसकनिर्देशः शब्दखरूपापेक्षया 'बन्धुनि बहुव्रीही इतिवत् । सर्व धुरामिति । 'पूर्वकालैक-' इति समासः । 'ऋक्पूरन्धूः' इति समासान्ते अप्रत्यये Page #475 -------------------------------------------------------------------------- ________________ ४७२ ] सिद्धान्तकौमुदी । [तद्धितेषु प्राग्घितीय ( ४-४-७६ ) एकधुरां वहति एकधुरीणः, एकधुरः । १६३२ शकटादण् । ( ४-४-८० ) शकटं वहति शाकटो गौः । १६३३ हलसीराट्ठक् । ( ४-४-८१) हलं वहति हालिकः । सैरिकः । १६३४ संज्ञायां जन्याः । ( ४-४-८२ ) जनी वधूः । तां वहन्ति प्रापयन्ति जन्याः 1 १६३५ विध्यत्यधनुषा । ( ४-४-८३ ) द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यात् न चेत्तत्र वहतीत्यर्थः । ' स तु सर्वधुरीणो यो भवत् सर्वधुरावहः' इत्यमरः । एकधराल्लुक् च । एकधुराशब्दाद् द्वितीयान्ताद्वहतीत्यर्थे खः स्यात् । तस्य पत्ते लुगित्यर्थः । एकधुरीणः, एकधुर इति । एकधुरां वहतीत्यर्थः । शकटादण् । द्विती. यान्ताच्छकटशब्दाद् वहतीत्यर्थे अण् स्यादित्यर्थः । यतोऽपवादः । हलसीराट्ठक् । आभ्यां द्वितीयान्ताभ्यां वहतीत्यर्थे ठगित्यर्थः । संज्ञायां जन्याः । जनीशब्दाद् द्वितीयान्ताद् वहतीत्यर्थे यत्स्यात्संज्ञायामित्यर्थः । जनी वधूरिति । जायतेऽस्यां गर्भ इत्यर्थे जनिधसिभ्यामिति जनवातोः इणि 'जनिवध्योश्च' इति वृद्धिप्रतिषेधे 'कृदिकारात् -' इति ङीषि जनीशब्दस्य निष्पत्तेरिति भावः । 'समा स्नुषाजनीवध्वः' इत्यमरः । वहन्तीत्यस्य विवरणं प्रापयन्तीति । वरगृहमिति शेषः । जन्या इति । जामातुर्वयस्या इति शेषः । 'जन्याः स्निग्धा वरस्य ये' इत्यमरः । विध्यत्यधनुषा । 'तद् इति' द्वितीयान्तमनुवर्तते । 'अधनुषा' इति सप्तम्यर्थे तृतीया । धनुषः टाप् । एकधुराल्लुक् च । चात्खः । एवं च प्राकरणिकस्य यतो लुक् खस्य तु विधानसामर्थ्याच्छ्रवणमिति फलितम्, तदाह - एकधुरीण इत्यादि । शाकटो गौरिति । ननु 'तस्येदम्' इत्यणा सिद्धम् । यो हि शकटं वहति शकटस्यासौ भवति । अत्राहुः — आरम्भसामर्थ्यादत्र तदन्तविधिः । तेन द्वे शकटे वहति द्वैशकट इत्यत्र 'द्विगोर्लुगनपत्ये' इति प्राग्दीव्यतीयो लुङ् न भवति, 'तस्येदम्' इत्यणि तु स्यादेव लुगिति । हलसीरात् । ननु 'तस्येदम्' इत्युपक्रमे 'हलसीराट्ठक्' इति पठितम् । तथा च तेनैव शैषिकेण हालिकः सैरिक इति सिद्धौ किमनेनेति चेत् । सत्यम्, आरम्भसामर्थ्यादत्रापि तदन्तविधिः तेन द्वैहलिको द्वैसीरिक इति भवति, शैषिके ठकि तु प्राग्दीव्यतीयो लुक् स्यात् । संज्ञायां जन्या । जायने अस्यां गर्भ इति व्युत्पत्तिमाश्रित्य आह—जनी वधूरिति । 'जनिघसिभ्यामिण्’। 'जनिवध्योश्च' इति न बृद्धिः ।‘कृदिकारात् -' इति ङीष् । ततोऽनेन सूत्रेण यति जन्या जामातुर्वयस्याः । सा हि विवाहादिषु वधूं जामातृसमीपं प्रापयति । कालिदासस्तु वध्वा यानवाहेष्वपि प्रायुङ्क'जन्या' इति निर्विसर्गः पाठः क्वचिदुपलभ्यते । २ मातुर्वयस्या' इति क्वचित् । " , Page #476 -------------------------------------------------------------------------- ________________ प्रकरणम् ३१ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४७३ धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः । १६३६ धनगणं लब्धा । ( ४-४-८४ ) तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः । १६३७ अन्नाण्णः । ( ४-४-८५ ) श्रन्नं लब्धा श्रन्नः । १६३८ वशं गतः ( ४-४-८६ ) वश्यः परेच्छानुसारी १६३६ पदमस्मिन्दृश्यम् । (४-४-८७) पद्यः कर्दमः । नातिशुष्क इत्यर्थः । १६४० मूलमस्याबर्हि । ( ४-४-८८ ) अभावः श्रधनुः, तस्मिन्सतीत्यर्थः । अर्थाभावे नन्तत्पुरुषः । अर्थाभावे अव्ययीभावेन श्रयं विकल्प्यत इत्युक्तत्वात् । द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्याद्धनुषः करणस्याभावे सतीत्यर्थः । न चेत्तत्रेति । तत्र वेधने धनुः करणं न चेदित्यर्थः । पद्या इति । पादशब्दायति 'पद्यत्यतदर्थे' इति पद्भावः । 'अधनुषा' इति किम् ? धनुषा चोरं विध्यति देवदत्तः । अत्र चोराद्यन्न भवति । न चासामर्थ्यादेवात्र यन्नेति वाच्यम्, विध्यतीत्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामर्थ्याविघातात् । अन्यथा औपगवो देवदत्त उपगुनप्तृत्वाद् इत्यादौ णादिकं न स्यात् । प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषनित्यसापेक्षत्वाच्च इति शब्देन्दुशेखरे विस्तरः । धनगणं लब्धा । धनशब्दाद् गणशब्दाच्च द्वितीया - न्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः । ननु लब्धशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत श्राह - तुन्नन्तमेतदिति । तथा च 'न लोक -' इति निषेधान्न षष्ठीति भावः । अन्नारणः । लब्धेत्यर्थे द्वितीयान्तादिति शेषः । वशं गतः । वशशब्दाद् द्वितीयान्ताद्गत इत्यर्थे यदित्यर्थः । वश्य इति । वशं गत इति विग्रहः । ' वश कान्तौ' । कान्तिरिच्छा । वशनं वशः । 'वशिरण्योरुपसंख्यानम्' इत्यप् । वशम् इच्छां गतः प्राप्तः, इच्छाधीन इत्यर्थः । वशधातुः छान्दस इति लुग्विकरणे वक्ष्यते, तत्प्रायिकमिति भावः । सर्वस्यापि स्वेच्छानुसारित्वादाहपरेच्छानुसारीति । पदमस्मिन्दृश्यम् । प्रथमान्तात्पदशब्दाद् दृश्यत इत्यर्थे यदित्यर्थः । अत्र 'तत्' इति द्वितीयान्तमनुवृत्तं प्रथमया विपरिणम्यते । मूल'यातेति जन्यानवदत्कुमारी' इति । जनीं वहन्तीति जन्यास्तानित्यर्थः । पद्या इति । 'पद्यत्यतदर्थे' इति पद्भावः । अधनुषा किम्, चोरं विध्यति । सम्भाव्यते हि चोरव्यधने धनुषः करणता । यदा तु धनुषेति प्रयुज्यते तदा सापेक्षत्वादेव न भवति । एवं च 'न चेत्तत्र धनुः करणम्' इत्यत्र 'सम्भाव्यते' इति शेषो बोध्यः । तृनन्तमिति । एवं च 'न लोका-' इत्यादिना कृद्योगषष्ट्या निषेधाद् धनगणम् -' इति प्रयोगो निर्बाध इति भावः । वशं गतः । वशनं वश इच्छा | 'वशिररायोरुपसंख्यानम्' इत्यप् । मूलमस्याबर्हि । प्रथमान्तादाबर्हि इत्युपाधिकान्मूलशब्दा Page #477 -------------------------------------------------------------------------- ________________ ४७४ ] सिद्धान्तकौमुदी | [तांतेषु प्राग्घितीय श्रबर्हणमाबर्ह उत्पाटनम्, तदस्यास्तीत्या बर्हि, मूलमाबर्हि येषां ते मूल्या मुद्गाः । १६४१ संज्ञायां धेनुष्या ( ४-४-८९ ) धेनुशब्दस्य युगागमो यप्रत्ययश्च स्वार्थे निपात्यते, संज्ञायाम् । 'धेनुष्या बन्धके स्थिता' । १६४२ गृहपतिना संयुक्ते यः । (४-४-६० ) गृहपतिर्यजमानः तेन संयुक्तो गार्हपत्योऽग्निः । १६४३ नैवयोधर्मविषमूलमूलसीता तुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमित संमितेषु । ( ४-४-६१ ) नावा तार्य नाव्यम् । वयसा तुल्यो मस्या | बर्हणमिति । उत्पाटनमित्यर्थः । उपसर्गवशाद् 'हू उद्यमने' इति धातोरुत्पाटने वृत्तिः । मूल्या मुद्रा इति । मूलत उत्पाटनीया इत्यर्थः । संज्ञायां धेनुष्या । यप्रत्ययश्चेति । यति तु तित्स्वरः स्यादेति भावः । धेनुयेति । या धेनुर्दोहनार्थमुत्तमर्णाय धमर्णेन दीयते तस्या इवं संज्ञा, तदाहबन्धके स्थिति | अमर वाक्यमिदम् । संज्ञायामित्यापाद रिसमाप्तेरधिकारः । संज्ञा हि रूढिविवक्षिता । गृहपतिना । श्रस्मिन्नर्थे गृहपतिशब्दात् तृतीयान्ताद् ञ्यः स्यादित्यर्थः । गार्हपत्योऽग्निरिति । श्रग्निविशेष इत्यर्थः । तत्र पत्नीसंयाजेषु श्रग्निहोत्रे च गृहपतिदेवताकहोमस्य क्रियमाणत्वा गृहपतियोगः । यद्यपि देवसूहविःषु 'अमये गृहपतये पुरोडाशमष्टाकपालं निर्वपति' इति हविर्होम हवनीये क्रियते, तथापि संज्ञाधिकारादाहवनीये नास्य प्रयोगः । नौवयोधर्म । नौ, वयस्, धर्म, विष, मूल, मूल, सीता, तुला एभ्योऽष्टभ्यः क्रमात् तार्थे, तुल्ये, प्राप्ये, वध्ये, आनाम्ये, समे, समिते संमिते चार्थे यत्स्यादित्यर्थः । तृतीयान्तेभ्य इत्यर्थाद् गम्यते । तार्यादियोगे करणे कर्तरि हेतौ तुल्यादियोगे च तस्या एव संभवात् । अत्र मूलशब्दयोर्यथासंख्यप्रवृत्तये नेकशेषः । अन्यथा दस्येति षष्ठयर्थे यत्स्यात् । आवई इति । 'बृहू उद्यमने' दन्त्योष्ट्यादिरयम्, न तु पवर्गादिः।‘उद्घृह रक्षः सहमूलमिन्द्र' इत्यादिप्रयोगदर्शनात् । मूल्या मुद्द्रा इति । मूलोत्पाटनं विना संग्रहीतुमशक्याः, मध्यतो लूयमानेषु कोशस्था प्रपि यस्यामवस्थायां पतेयुस्त! मवस्थां प्राप्ताः । सुष्ठु शुष्का इति यावत् । यप्रत्यय इति । तेन धेनुष्याशब्दोऽन्त उदात्तः । यति तु तित्स्वरः स्यादिति भावः । संज्ञायामिति । ऋणप्रत्यगाय या धेनुर्दोहनार्थमुत्तमर्णाय दीयते तस्याः संज्ञेयम् । गार्हपत्य इति । 'गृहपतिना -' इति निर्देशादेव तृतीयान्तात्प्रत्ययः । 'संज्ञायाम्' इत्यनुवृत्तेराहवनीयादौ नातिप्रसङ्गः । नौवयोधर्म | नावादिभ्योऽष्टभ्यो यथासंख्यं तार्यादिष्वष्टस्वर्थेषु यत्स्यात् । इह तार्यादियोगे यथासम्भवं करणे कर्तरि हेतौ तुल्यार्थयोगे च तृतीया भवतीति सैवेह समर्थविभक्तिरर्थालभ्यते । अत्र प्रथमं मूलान्तानां पञ्चानां द्वन्द्वं कृत्वा Page #478 -------------------------------------------------------------------------- ________________ प्रकरणम् ३१ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४७५ 1 वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेनानाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया समितं सीत्यं क्षेत्रम् । तुलया सम्मितं तुल्यम् । १६४४ धर्मपथ्यर्थन्यायादनपेते । ( ४-४ - ६२ ) धर्मादनपेतं धर्म्यम् । पथ्यम् । श्रर्थ्यम् । न्याय्यम् । १६४५ छन्दसो निर्मिते । ( ४-४-६३ ) सप्तानां प्रकृतीनाम् एकैकस्या अष्टस्वप्यर्थेषु प्रत्यय इति भ्रमः स्यात् । तार्यमिति । तरीतुं शक्यमित्यर्थः । 'ऋहलोर्यत्' । वयसा तुल्य इति । मित्रे एवायं प्रत्ययो नतु शत्रौ, संज्ञाधिकारात् । मूलेनानाम्यमिति । पटादेरुत्पत्त्यर्थं वणिग्भिर्विनियुक्तं द्रव्यं मूलम् । तेन सह यदधिकं द्रव्यम् श्रनम्यते विक्रेतुः संमती - करणेन लभ्यते तन्मूल्यमित्यर्थः । लोकास्तु विक्रेतुर्लब्धं सर्वं द्रव्यं मूल्यमिति व्यवहरन्ति । तत्र लक्षणा बोध्या । सा च सांप्रतिकी निरूढा वा । सीतयेति । सीता लाङ्गलपद्धतिः । तया समितं संगतमित्यर्थः । कृष्टमिति यावत् । तुलयेति । तुला वटा, तया उन्मितमित्यर्थः । धर्मपथ्यर्थ । धर्म, पथिन्, अर्थ, न्याय एभ्यः अनपेतमित्यर्थे यदित्यर्थः । श्रौचित्यात्पञ्चम्यन्तेभ्य इति लभ्यते । धर्मादनपेतद्वितीयमूलादिद्वन्द्वेन सह् समाहारद्वन्द्वः । मूलान्तानां द्वित्राणां वा मूलादीनामेव वा द्वन्द्वं कृत्वा नावादिषु द्वन्द्वः । तेन सारूप्याभावादेकशेषो न भवति । नावा तार्यमिति । शक्यार्थे 'ऋहलोर्यत्' करणे तृतीया । वयस्य इति । 'स्निग्धो वयस्यः सवयाः' इत्यमरः । ‘वयसा तुल्यः शत्रुः' इत्यत्र तु न भवति, संज्ञाधिकारात् । विषेण वध्य इति । विषेण वधमर्हतीत्यर्थः । ' दण्डादिभ्यः -' इति सूत्रेण वधशब्दादर्हार्थे यद्विधानात् । मूलेनानाम्यमिति । मूलं नाम पटादीनामुत्पत्त्यर्थं वणिग्भिर्विनियुक्तं द्रव्यम् । तेन स्वस्मादतिरिक्तं लाभाख्यं यद् द्रव्यमात्मानं प्रति शेषीक्रियते आत्मन उपकारकं क्रियते तद् श्रानाम्यम् । श्राङ्पूर्वको नमिरभिभवे वर्तते, तस्मात् 'पोरदुपधात्' इति यति प्राप्त अतएव निपातनाण्ण्यत्, तथा चानाम्यमभिभवनीयम् श्रात्मानं प्रति शेषीकर्तव्यम् । स च लाभाख्यो भाग एव । लोके तु यावता द्रव्येण पटादिकं विक्रीयते तत्रैव समुदाये मूल्यशब्दः प्रसिद्धः, न तु मूलातिरिक्तभागमात्रे व्युत्पादितः । एवं च लाभमात्रे व्युत्पादितस्य मूल्यशब्दस्य तद्घटिते सङ्घाते निरूढलक्षणा बोध्या । सीतेति । सीता हलाग्रम् । सम्पूर्वादिणः क्तः, समितं संगतं निम्नोन्नतादिरहितं कृतमित्यर्थः, समीकृतमिति यावत् । ' रथसीताहलेभ्यो यद्विधौ' इति तदन्तविधिः । परमसीत्यम् । द्वाभ्यां सीताभ्यां समितमिति तद्धितार्थे समासस्ततो यत् । द्विसीत्यम् । तुलया संमितमिति । सम्मितं परिच्छिन्नम् । रूढिशब्दोऽयम्, 'संज्ञायाम्' इत्यधिकारात् । अतएव 'तुल्यम्' इति सदृशमात्रे प्रयुज्यते, न तु Page #479 -------------------------------------------------------------------------- ________________ ४७६ ] सिद्धान्तकौमुदी । [तद्धितेषु प्राग्घितीय छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः । १६४६ उरसोऽण् च । ( ४-४-६४ ) चाद्यत् । उरसा निर्मितः पुत्र औरसः, उरस्यः । १६४७ हृदयस्य प्रियः । ( ४-४-६५ ) हृयो देश: । 'हृदयस्य हृल्लेख-' ( सू 8८८) इति हृदादेशः । १६४८ बन्धने चर्षो । ( ४-४-६६ ) हृदयशब्दात्षष्ठयन्ता - द्वन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धन हृद्यो वशीकरण मन्त्रः । १६४६ मतजनहलात्करणजल्पकर्षेषु । (४-४-६७) मतं ज्ञानम्, तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्षो हल्यः । १६५० तत्र मिति । प्रच्युतमित्यर्थः । पथ्यमिति । पथः अनपेतमित्यर्थः । न्याय्यमिति । न्यायादनपेतमित्यर्थः । छन्दसो निर्मिते । छन्दश्शब्दात्तृतीयान्ताद् निर्मितेऽर्थे यदित्यर्थः । इच्छ्येति । छन्दःशब्द इच्छावाचीति भावः । 'छन्दः पद्येऽभिलाषे च' इत्यमरः । उरसोऽण् च । तृतीयान्तान्निर्मित इत्यर्थ इति शेषः । उरस्य इति । 'अङ्गादङ्गात्संभवसि हृदयादधिजायसे' इति श्रुतेरिति भावः । पुत्र इति संज्ञाधिकाराल्लब्धम् । हृदयस्य प्रियः । षष्ठ्यन्ताद् हृदयशब्दात् प्रिय इत्यर्थे यत्स्यादित्यर्थः । बन्धने चर्षो । मतजनहलात् । यथासंख्यम् एभ्यः वर्थेषु यदिति शेषः । मतं ज्ञानमिति । मनधातोः भावे क्त इति भावः । करणं भावः साधनं वेति । कृञ्धातोर्भावे करणे वा ल्युटि करणशब्दः । तेन जननक्रिया वा जननसाधनं वा विवक्षितमित्यर्थः । मत्यमिति । ज्ञानस्य जननक्रिया तुलायामाग्रहः क्रियते । पथ्यमिति । संज्ञाधिकारादभिधेयनियमः, तेन शास्त्रीयात्पथोऽनपेतमेव पथ्यम् । न तु मार्गादनपेतश्चोरोऽपि । छन्दसो । 'हृदि संवरणे' इति चुरादिरिच्छायामपि वर्तते, धातूनामनेकार्थत्वात् । ततो घञि इच्छा पर्यायश्छन्दःशब्दः प्रसिद्ध एव 'स्वच्छन्दोच्छलदच्छकच्छ-' इत्यादौ । असुनि तु यः सान्तः सोऽत्र प्रकृतिस्तत्र निर्माणे इच्छायाः करणत्वात्सामर्थ्यात्तृतीयान्तात्प्रत्ययः । इच्छया कृतमिति । यद्यपि वेदे त्रिष्टुबादिषु च सान्तश्छन्दःशब्दोऽस्ति, तथापीह न गृह्यते संज्ञाधिकारात् किं त्विच्छ पर्याय एव स गृह्यत इति भावः । पुत्र इति । संज्ञाधिकारान्ने । उरसा निर्मितं सुखम् । हृदयस्य । प्रीणातीति प्रियः, 'इगुपध-' इति कः । कृद्योगात्कर्मणि षष्ठी, अलौकिके तद्धितप्रकृतिभागे तु वचनसामर्थ्यादेव । एवमन्यत्रापि बोध्यम् । बन्धने । बध्यतेऽनेनेति बन्धनः । करणे ल्युट् । वशीकरणमन्त्र इति । तेन हि परहृदयं वशीक्रियते । संज्ञाधिकाराद्वसिष्टादावृषौ नायं यत् । मत । तस्य करणांमति । कर्मणि षष्ठी । कृतिः करणम्, क्रियतेऽनेनेति वा करणमित्याशयेनाह - भावः साधनं वेति । जल्पशब्दो भावसाधनः । कर्तरि , Page #480 -------------------------------------------------------------------------- ________________ प्रकरणम् ३१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४७७ साधुः। (४-४-६८) अग्रे साधुः अभ्यः। सामसु साधुः सामन्यः। ये चाभावकर्मणोः' (सू ११५४ ) इति प्रकृतिभावः । कर्मण्यः । शरण्यः । १६५१ प्रतिजनादिभ्यः खञ् । (४-४-६६) प्रतिजनं साधुः प्रातिजनीनः। सांयुगीनः । सार्वजनीनः । वैश्वजनीनः । १६५२ भक्काराणः । (४-४-१००) भक्ने साधवो भाकाः शालयः। १६५३ परिषदो एयः। (४-४-१०१) पारिषद्यः । परिषद इति योगविभागाएणोऽपि । पारिषदः। १६५४ कथादिभ्यष्ठक (४-४-१०२) कथायां साधुः काथिकः । १६५५ गुडादिभ्यष्ठञ् । (४-४-१०३) गुडे साधु¥डिक इक्षुः । साक्तुको यवः । १६५६ पथ्यतिथिवसतिस्वपतेढेञ् । (४-४-१०४) पथि साधु पाथेयम् । प्रातिथेयम् । वसनं वसतिः, तत्र साधुर्वासतेयी रात्रिः। जननसाधनं वेत्यर्थः । तत्र साधुः। सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः। अनय इति 1 अग्रे साधुरित्यर्थः । साधुरत्र प्रवीणो गृह्यते, नतु हितः, तत्र 'तस्मै हितम्' इति वक्ष्यमाणत्वात् । प्रतिजनादिभ्यः खञ् । 'तत्र साधुः' इत्येव । सप्तम्यन्तेभ्य एभ्यः साधुरित्यर्थे खञ् स्याक्त्यिर्थः प्रातिजनीन इति । प्रतिजनमिति वीप्सायामव्ययीभावः । तत्र साधुरित्यर्थः । एवं वैश्वजनीनः । भक्ताराणः । सप्तम्यन्तादस्मात् साधुरित्यर्थ इति शेषः। परिषदो रायः । सप्तम्यन्तात्साधुरित्यर्थे इति शेषः। योगेति । 'परिषदः' इति प्रथमो योगः । परिषदो णः स्यादित्यर्थः । ततः ‘ण्यः' इति द्वितीयो योगः। परिषदो एयः स्यादित्यर्थः । कथादिभ्यष्ठक् । इत्यादि स्पष्टम् । गुडादिभ्यष्ठञ् । साक्तुको यव इति । सक्तुषु साधुः इत्यर्थः । गुडादित्वाट्ठञ् , उगन्तत्वाट्ठस्य कः । पथ्यतिथि । इत्यादि षष्टी। हलस्येति । कर्षणं कर्षस्तद्योगात्कर्मणि षष्ठी । करणस्य कर्तृत्वविवक्षायां कर्तरि षष्टी वा । 'रथसीता-' इति तदन्तविधिः। द्विहल्यः। त्रिहल्यः। तत्र साधुः। साधुरिह प्रवीणो योग्यो वा गृह्यते, नोपकर्ता । तत्र हि परत्वात् 'तस्मै हितम्' इत्यनेन भाव्यम् । संज्ञाधिकारादुपकर्ता न गृह्यत इत्यन्ये । प्रतिजनमिति । जनो जन इति प्रतिजनम् । वीप्सायामव्ययीभावः। प्रतिजन, इदयुग, संयुग, पापकुल, परस्यकुल, अमुष्यकुल, सर्वजन, विश्वजन, पञ्चजन । 'परस्यामुष्य-' इति षष्टयोनिपातनादलुक् । भक्त इति । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' इत्यमरः । गुडादिभ्यष्ठञ् । गुड, कुल्माष, सक्तु, अपूप, माष, श्रोदन, इक्षु, वेणु, संप्राम, सङ्घात, प्रवास, निवास, वृत् । वसतिरिति । 'वसेश्च' इत्यतिप्रत्ययः । स्वस्य पतिः १ स पार्षदैरम्बरमापुपूरे' इति जाम्बवतीजये पाणिनिस्तु पृर्षादरादित्वात्समाधेयः । Page #481 -------------------------------------------------------------------------- ________________ ४७८ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्घितीयस्वापतेयं धनम् । १६५७ सभाया यः। (४-४-१०५) सभ्यः । १६५८ समानतीर्थे वासी । (४-४-१०७ ) 'साधुः' इति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः । १६५६ समानोदरे शयित ओ चोदात्तः। (४-४-१०८) समाने उदरे शयितः स्थितः समानोदर्यो भ्राता । १६६० सोदराद्यः । (४-४-१०६ ) सोदर्यः, अर्थः प्राग्वत् । इति तद्धितेषु चतुर्थस्य चतुर्थपादे प्राग्घितीयप्रकरणम् । स्पष्टम् । समानतीर्थे वासी । समानतीर्थशब्दात्सप्तम्यन्ताद् वसतीत्यर्थे यत्स्यादित्यर्थः। वसतीति वासीति । ग्रह्यादेराकृतिगणत्वारिणनिः । तीर्थशब्दस्य विवरणं 'गुरौ' इति । सतीर्थ्य इति । समानतीर्थशब्दाद्यति 'तीर्थे ये' इति समानस्य सभावः। समानोदरे शयितः। समानोदरशब्दात् सप्तम्यन्तात् शयित इत्यर्थे यत्स्याद् श्रोकारश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं 'स्थितः' इति । कुशेशयं जलेशयम् इत्यादी तथा दर्शनादिति भावः । समानोदर्य इति । समानमुदरमिति विग्रहे 'पूर्वापरप्रथम-' इत्यादिना समासाद्यति कृते तित्स्वरापवाद अोकारस्योदात्तः। 'विभाषोदरे-' इति सभावे असति रूपम् । लोदराद्यः। सप्तम्यन्तात् शयित इत्यर्थ इति शेषः। तित्त्वाभावात्प्रत्ययस्वरेखपतिराज्यस्तस्मिन्साधु खापतेयम् । सभाया यः । यति तु तित्स्वरः स्यात् 'क्रतु. र्भवत्युक्थ्यः ' इतिवत् । न च 'यतो नावः' इत्यायुदात्तता शङ्कया। 'यदुत्पत्तिवेलायां द्वपच्कस्य यदन्तस्यादिरुदात्तः' इति वेदभाष्ये स्थापितत्वात् । पक्षान्तरे तु 'नमः शष्प्याय च फेन्याय च' इत्यादिवदायुदात्तः स्यात् । एवं च व्याख्यानद्वयस्याप्यावश्यकत्वे लक्ष्यानुरोधेन क्वचित्किंचियाख्येयमिति तत्त्वम् । समानतीर्थे वासी। निपातनारिणनिः, ग्रहादेराकृतिगणत्वान्नन्दिग्रहीत्यनेन वा । सतीर्थ्य इति । 'तीर्थे ये' इति समानस्य सभावः । तरन्त्यनेनेति तीर्थम् । 'तरतेस्थक् । 'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । योनौ जलावतारे च' इति विश्वः । इह तूपाध्यायवाचिन एवं ग्रहणं नान्यस्य, संज्ञाधिकारात् । शयितः स्थित इति । शीधातुः स्थित्यर्थे वर्तते । 'जलाशयः' 'कुशेशयम्' इति प्रयोगादिति भावः । समानमुदरमिति 'पूर्वापरप्रथम-' इत्यादिना तत्पुरुषः, ततो यत्, तित्स्वरापवाद ओकारस्योदात्तः । सोदराद्यः। 'श्रो चोदात्तः' इति नानुवर्तते । 'विभाषोदरे' इति समानस्य सभावः । तत्र 'तीर्थे ये' इत्यतोऽनुवृत्तं ये इत्येतद्विषयसप्तमी । तेन सोदर इत्यस्माद्यः प्रत्ययः । प्राग्वदिति । समानोदरे शयित इत्येवार्थ इत्यर्थः । कथं तर्हि 'अपन्यानं तु गच्छन्तं सोदरोऽपि विमुञ्चति' इति मुरारिरिति चेत् । अत्राहुः-सह समानमुदरं यस्य सोदरः। Page #482 -------------------------------------------------------------------------- ________________ प्रकरणम् ३१] बालमनोरमा-तत्त्वबोधिनीसहिता। [४७६ अथ तद्धितेषु छयद्विधिप्रकरणम् । ३२ । १६६१ प्राक् क्रीताच्छः । (५-१-१) 'तेन क्रीतम्' (सू १७०२) इत्यतः प्राक्छोऽधिक्रियते । १६६२ उगवादिभ्यो यत् । (५-१-२) 'प्राक् क्रीतात्' इत्येव । उवर्णान्तावादिभ्यश्च यत्स्याच्छस्यापवादः । 'नामि नभं च' णान्तोदात्तोऽयम् । 'विभाषोदरे-' इति सभावः । 'अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति' इत्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीही 'वोपसर्जनस्य' इति सभावो बोध्यः । एवं 'यत्र भ्राता सहोदरः' इत्याद्यपि सिद्धम् । इति तद्धितेषु चतुर्थस्य चतुर्थः पादः । अथ पञ्चमाध्यायः । प्राक्क्रीताच्छः । क्रीतशब्दस्तद्धटितसूत्रपरः । तदाह-तेनक्रीतमिति । 'तेन क्रीतम्' इत्यतः प्राग येषु सूत्रेषु अर्था एव निर्देष्यन्ते नतु प्रत्ययाः, तेषु छ इत्युपस्थितं भवतीति यावत् । उगवादिभ्यो यत्। उश्च गवादयश्च इति द्वन्द्वात् पञ्चमी । उवर्णान्तादिति । प्रातिपदिक'वोपसर्जनस्य' इति सहस्य सभावः । तस्य च वैकल्पिकत्वाद् 'यत्र भ्राता सहोदरः' इत्याद्यपि सिद्धमिति । इति तत्त्वबोधिन्या प्राग्घितीयप्रकरणम् । प्राक् क्रीताच्छः। इत्यतः प्रागिति । इहार्थोऽवधित्वेन गृह्यते, न तु प्रत्ययः प्रकृतिर्वा । तेनार्था एवावधिमन्त इति प्राक्क्रीतायेऽर्था हितादयस्तेष्वस्योपस्थानम् । अवधिसजातीयो यवधिमान् भवति । यथा 'मासान्त्यः' इति कालः प्रतीयते, 'प्रामात्पूर्वः' इति देशः, 'अलोऽन्त्यात्पूर्व-' इत्यलेव । एवं च समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यदादिः प्रकृत्यन्तरे सावकाशं छं तक्रकौण्डिन्यन्यायेन बाधते । अन्यथा छस्य यदादेश्व संनिधानाविशेषात्तव्यत्तव्यानीयरामिव पर्यायः स्यात् । अतोऽत्रार्थोऽवाधत्वेन गृह्यते । ननु यदादिविषये छो न भविष्यति 'विभाषा हविरपूपादिभ्यः' इति विभाषाग्रहणालिमात् । तथा च प्रत्ययस्य प्रकृतेर्वा अवधित्वखीकारेऽपि न क्षतिः । उक्तज्ञापकेनोगवादिप्रभृतिभ्यश्छस्यातिप्रसङ्गनिरासादिति चेत् । अत्राहुः-एवं सति 'छः' इत्येवाधिकारोऽस्तु नार्थोऽवधिनिर्देशेन । 'प्राग्वतेष्ठम्' इत्यादिके तु प्रकरणे नास्याधिकारः, अधिकारान्तरेणोपष्टब्धत्वात् । स्पष्टप्रतिपत्त्यर्थमवधिनिर्देशः । अन्यथा प्रतिपत्तिगौरवं स्यादिति चेत् । तर्हि विभाषा हवि-' इत्यादिज्ञापकाश्रयणे प्रतिपत्तिगौरवादर्य एवावधित्वेन निर्देष्टुमुचित इति । उगवादिभ्यो। उवर्णादेर्गवशब्दादेश्च यत्स्यादित्यर्थो न भवति, गवादिगणपाठात् । गवाद्यन्त Page #483 -------------------------------------------------------------------------- ________________ ४८० ] सिद्धान्तकौमुदी। [तद्धितेषु छयद्विधि(ग सू १५) । नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् । 'शुनः सम्प्रसारणं वा च दीर्घस्वम्' (ग सू ६६ ) शून्यम् , शुन्यम् । 'ऊधसोऽनङ् च' ( ग सू १७ )। ऊधन्यः। १६६३ कम्बलाच संज्ञायाम् । (५-१-३) विशेषणत्वात् तदन्तविधिः । 'उगिद्वर्णप्रहणवर्जम्' इत्युक्तेः प्रत्ययविधावपि तदन्तविधिरिति भावः । इदमपि सूत्रं प्राक्क्रीताद्वक्ष्यमाणसूत्रेषु प्रत्ययविशेषानुपादान उपतिष्ठते । नाभि नभं चेति । गवादिगणसूत्रम् । नाभिशब्दो नभादेशं यत्प्रत्ययं च प्राप्नोतात्यर्थः। नभ्योऽक्ष इति । यत्र अक्षदण्डः प्रवेश्यते तच्चक्रमध्यगतच्छिद्रं नामिरित्युच्यते । तस्मै हितः अक्षदण्डः, न हि अनुगुणत्वाद् नाभये हितः। नभ्यमञ्जनमिति । अञ्जनं तैलसेकः । नाभेजने कृते तत्र प्रोतं चक्रं सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्यक्षमताधायकत्वादर्जन नाभये हितम् । अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्यते, भाष्ये रथनाभेरेव ग्रहणादित्यभिप्रेत्य आह-रथनाभाववेदमिति । शरीरावयवविशेषवाचिनाभिशब्दात्तु 'शरीरावयवाद्यत्' इति वक्ष्यमाणः केवलो यत् नतु नभादेश इति भावः । शुनः संप्रसारणमिति । गवादिगणसूत्रम् । श्वनशब्दाद्यत्स्यात् प्रकृतेः संप्रसारणम् , तम्य संप्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः । शून्यम् , शुन्यमिति । शुने हितमित्यर्थः । ऊधसोऽनङ् चेति । इदमपि गणसूत्रम् । ऊधश्शब्दाद् यत्स्यात् प्रकृतेरनादेशश्चेत्यर्थः । आदेशे ढंकार इत् , नकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः । कम्बलाच्च । कम्बलशब्दाद् यत्स्यात् प्राक्क्रीतीयेष्वर्थेषु संज्ञायामित्यर्थः । र्गणसूत्राण्याह-नाभि नभं चेति । नाभिशब्दो यतं लभते नभादेशं चैत्यर्थः । नभ्योऽक्ष इति । रथाङ्ग सच्छिद्रं नाभिः । तदनुप्रविष्टः काविशेषोऽक्षः । स च तदनुगुणत्वात्तस्मै हितः । अञ्जनं तैलाभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम् । रथना. भाववेति । शरीरावयवे तु नाभ्यमित्येव, परेण 'शरीरावयवाद्यत्' इत्यनेनास्य बाधादिति भावः । शून्यमिति । चकारस्यानुक्तसमुच्चयार्थत्वाद् 'नस्तद्धिते' इति टिलोपो न भवति । 'ये चाभावकर्मणोः' इति प्रकृतिभावस्तु दुर्लभः, संप्रसारणे पूर्वरूपे च कृते अन्रूपाभावात् । दीर्घपक्षे तु तद्विधानसामर्थ्यादपि टिले पाभाव सुपरिहरः । नङ् चेति । चाद्यत् । 'नश्च' इति सुवचमिति मनोरमा। आये त्वाहुः-ऊधन्यशब्दात् 'तत्करोति तदाचष्टे' इति णिचि ‘णाविष्टवत्' इति टिलोपे गिजन्तात्कर्तरि क्विपि हिलोपयलोपयोः कृतयोः 'अनुनासिकस्य क्वि-' इति दीर्घ ततः स्विबन्तादाचारक्विपि ऊधानते इत्यादव नेपदार्थ नडो छित्करणमावश्यकमिति । ऊधन्यमिति । 'ये चा-' इति प्रकृतिभावः । कम्बलाच्च संज्ञायाम् । प्राक्क्रीतीयेष्वर्थेषु यत्स्यात् । Page #484 -------------------------------------------------------------------------- ________________ प्रकरणम् ३२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४८१ यत्स्यात् । कम्बल्यमूर्णापलशतम् । 'संज्ञायाम्' किम्-कम्बलीया ऊर्जा । १६६४ विभाषा हविरपूपादिभ्यः । ( ५-१-४) आमिषयं दधि, श्रमितीयम् । पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः । अपूप्यम्, अपूपीयम् । १६६५ तस्मै हितम् । ( ५-१-५) वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शक्तव्यं दाद । गव्यम् । हविष्यम् । १६६६ शरीरावयवाद्यत् । (५-१-६ ) दन्स्यम् । कण्ठ्यम् । 'नस्त्रासिकाया:' ( वा ३४३७ ) । नस्यम् । नाभ्यम् । १६६७ ये च तद्धिते । ( ६-१-६१ ) यादी तद्धिते परे कम्ब्ल्यम् ऊर्णापलशतमिति । कम्बलाय हितमित्यर्थः । विभाषा हविः । हविर्विशेषवाचिभ्यः अपूपादिभ्यश्च प्राक्क्रीतीयेष्वर्थेषु यद्वा स्यादित्यर्थः । पते छः । आमिक्ष्यं दधीति । श्रमिक्षायै हितमित्यर्थः । तप्ते पयसि दनि निक्षिप्ते सति यद् घनीभूतं निष्पद्यते सा आमित्युच्यते । तस्मै हितम् । अस्मिन्नर्थे चतुर्थ्यन्ताद्यथाविहितं प्रत्ययाः स्युः । वत्सीय इति । छे रूपम् । यो गोधुग् वत्सेभ्यः पयः शिष्वा दोग्धि स एवमुच्यते । शङ्कव्यमिति । शङ्कवे हितमित्यर्थः । उवर्णान्तत्वाद्यत् । गव्यमिति । गोभ्यो हितं तृणादिकमित्यर्थः । गवादिलक्षणो यत् । हविष्यमिति । हविषे हितमित्यर्थः । हविःशब्दो गवादिः । 'विभाषा हविः -' इत्यत्र तु हविर्विशेषवाचिनामेव ग्रहणम्, व्याख्यानात् । शरीरावयवाद्यत् । शरीरावयदविशेषवाचकात् चतुर्थ्यन्ताद् हितमित्यर्थे यत्स्यादित्यर्थः । छस्यापवादः । नस्यमिति । नासिकायै हितमित्यर्थः । ' पद्दन् -' इति नस्, प्रमृतिप्रहणस्य प्रकारार्थत्वात् । भाष्ये तु 'नासिकाया यत्तस्तुद्रेषु नस्' इति पठितम् । नाभ्यमिति । नाभये छस्यापवादः । विभाषा हविरपूपादिभ्यः । गवादिषु हविः शब्दस्य पाठादिह हविर्विशेषाणां ग्रहणम् । न च गवादिष्वेव हविर्विशेषाणां ग्रहणं किं न स्यादिति वाच्यम्, असंजातविरोधित्वेन तत्र स्वरूपग्रहणस्य न्याय्यत्वात् । अपूप्यमिति । अपूपेभ्यो हितं चूर्णमित्यर्थः । श्रपूप, तण्डुल, पृथुक, मुसल, कर्णवेष्टकेत्याद्यपूपादिगणे ‘अन्नविकारेभ्यश्च' इति पठ्यते । अन्नविकारा प्रकारा अदनीय विशेषास्तेभ्यो यद्वा स्यादिति तदर्थः । श्रदन्या श्रोदनीयास्तण्डुलाः । एवं चानेनैव गणसूत्रेण सिद्धे अपूपादीनां केषांचिद्रणे पाठः प्रपचार्थः । ' हविरपूपादिभ्यो विभाषया उगवादिभ्यो यत्पूर्वविप्रतिषेधेन' । सक्तभ्या धानाः । चरव्यास्तण्डुलाः । चरुर्नाम हविरिति काशिका । स्थालीवचनस्य चरुशब्दस्य तत्रत्ये हविषि उपचाराद् वृत्तिरिति कैयटादयः । नस्य - मिति । नासिकायै हितम् । 'नासिकायां भवम्' इति विग्रहे तु 'शरीरावयवाच्च' इति यत् । नस्यम् । तस्युदाहरणं नस्तः । 'अपादाने चाहीयरुहो:' इति तसिः । क्षुद्रे तु Page #485 -------------------------------------------------------------------------- ________________ ४८२ ] सिद्धान्तकौमुदी । [तद्धितेषु यद्विधि शिरः शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । ' तद्धिते' किम्-शिर इच्छति शिरस्यति । 'वा केशेषु' (वा ३४६३) । शीर्षण्याः शिरस्या वा केशाः । 'अचि शीर्ष इति वाच्यम्' ( वा ३४६४ ) श्रजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् । १६६८ खलयवमाषतिलवृषब्रह्मणश्च । ( ५-१-७ ) खलाय हितं खल्यम् । यव्यम् । माध्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या । १६६६ अजाविभ्यां थ्यन् । ( ५-१-८ ) अजथ्या हितमित्यर्थः । नाभिरत्र शरीरावयवः । रथावयवत्वे तु नभादेश उक्तः । ये च तद्धिते । शीर्षन्नादेश इति । 'शीर्षन् छन्दसि' इत्यतः तदनुवृत्तेरिति भावः । शीर्षण्य इति । शिरसे हित इत्यर्थः । शरीरावयवत्वाद्यति शीर्षन्नादेशे 'ये चाभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः । शिरस्यतीति । शिर आत्मन इच्छतीत्यर्थे 'सुप आत्मनः -' इति क्यचि, 'नः क्ये' इति नियमात् पदत्वाभावान्न रुत्वम् । वा केशेषु । केशेषु वाच्येषु यो यकारादिस्तद्धितः तस्मिन्परे शिरसः शीर्षन्नादेशो वा स्यादित्यर्थः । प्रसङ्गादह - अचीति । खलयव । खलाः देभ्यश्चतुर्थ्यन्तेभ्यो हितमित्यर्थे यत्स्यादित्यर्थः । वृषशब्दोऽत्र अकारान्त एव गृह्यते नतु नकारान्तः । तेन वृष्णे हितमिति वाक्यमेव । ब्रह्मन्शब्दो ब्राह्मणवाच्येव गृह्यते, नतु वेदादिवाची । तेन ब्रह्मणे वेदाय हितमिति वाक्यमेवेति भाष्ये स्पष्टम् । ब्रह्मण्यमित्यत्र 'ये चाभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः । चाद्रथ्येति । चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः । अजाविभ्यां ध्यन् । अजश्च श्रविश्वेति द्वन्द्वः । श्रविशब्दस्य नासिकायाः क्षुद्रो नःक्षुद्रः । 'सुप्सुपा' इति समासः । नाभ्यमिति । 'नाभि नभं च' इति नभादेशो रथनाभावेव प्रवर्तते । तस्य गवादियता संनियोगशिष्टत्वादिति भावः । 'शीर्षश्छन्दसि' इत्यतोऽनुवर्तनादाह - शीर्षन्नादेश इति । शीर्षण्य इति । 'ये चाभाव -' इति प्रकृतिभावः । शिरस्यतीति । 'नः क्ये' इति नियमेन पदत्वाभावाद्रुत्वाभावः । खलयव । अत्र वृषशब्दोऽकारान्तो गृत्यते न तु नकारान्तः । अन्यथा ह्यसन्देहार्थं नलोपमकृत्वैव निर्दिशेत् । 'आत्मविश्वजन -' इति यत् । वृषाय हितम् वृष्यम् । नान्ताद्यति तु वृषण्यमिति स्यात् । ब्रह्मण्यमिति । ब्रह्मन्शब्दो ब्राह्मणपर्यायः । प्रकृतिभावस्तु 'ये चा-' इत्यनेन पूर्ववत् । इह वृष शब्दाद्राह्मणशब्दाच्च यतः प्राप्तिरेव नास्ति । छोऽप्यनभिधानान्नेत्याकरः । तेन वृष्णे हितं ब्राह्मणेभ्यो हितमिति वाक्यमेव । चाद्रथ्येति । गवादिषु रथशब्दो न पठितः । हितार्थ एव रथ्येति यथा स्यात् अर्थान्तरे मा भूदिति । अजाविभ्याम्। अज , शब्द इह पुंल्लिङ्ग उपात्तः, अतएव 'द्वन्द्वे घि' इत्यविशब्दस्य पूर्वनिपातं बाधित्वा Page #486 -------------------------------------------------------------------------- ________________ प्रकरणम् ३२] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५३ पृथिः । अविथ्या । १६७० आत्मन्विश्वजनभोगोत्तरपदात्खः । (५-१-६) १६७१ आत्माध्वानी खे। (६-४-१६६ ) एतौ खे प्रकृत्या स्तः । प्रात्मने हितमात्मनीनम् । विश्वजनीनम् । कर्मधारयादेवेष्यते। षष्ठीतत्पुरुषाबहुव्रीहेब छ एव । विश्वजनीयम् । 'पञ्चजनादुपसंख्यानम् (वा २९६६) पञ्चजनीनम् । 'सर्वजनाहरू खच' (वा २६६७) । सार्वजनिकः, सर्वजनीनः । 'महाजनाहम्' (वा २९६८)। माहाजनिकः । मातृभोगीणः । घित्वेऽपि 'अजाद्यदन्तम्' इत्यजशन्दस्य पूर्वनिपातः । अजथ्या यूथिरिति । अजेभ्यः अजाभ्यो वा हितेत्यर्थः । लिङ्गविशिष्टपरिभाषया अजाशब्दादपि थ्यन् । 'तसिलादिषु-' इति पुंवत्त्वम् । अविथ्येति । अविभ्यो हितेत्यर्थः । स्त्रीत्वं लोकात् । आत्मन्विश्वजन । आत्मन् । विश्वजन, भोगोत्तरपद एभ्यो हितमित्यर्थे खः स्यादित्यर्थः । आत्मनीनमित्युदाहरणं वक्ष्यति । तत्र टिलोपे प्राप्तेआत्माध्वानी खे । प्रकृत्या स्त इति । 'प्रकृत्यैकाच्' इत्यतस्तदनुवृत्तेरिति भावः । कर्मधारयादेवेति । विश्वजनशब्दादिति शेषः । अत्र व्याख्यानमेव शरणम् । विश्वजनीयमिति । विश्वस्य जनो विश्वजनः साधारणो वैद्यादिः । विश्वो जनो यस्येति बहुव्रीहिर्वा, तस्मै हितमिति विप्रहः । पञ्चजनीनमिति । ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा रथकारजातिश्चेत्येते पञ्च जनाः । तेभ्यो हितमिति विग्रहः । सवैजना? खश्चेति । वक्तव्य इति शेषः । 'समानाधिकरणादिति वक्तव्यम्' इति वार्तिकं भाष्ये स्थितम् । महाजनाहजिति। वक्तव्य इति शेषः । विश्वजनप्रङ्गादिदं दार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपद'अजाद्यदन्तम्' इति अजशब्दस्य पूर्वनिपातः कृतः। 'प्रातिपदिकग्रहणे लिविशिष्टस्यापि- इति स्त्रीलिङ्गादपि थ्यन् । तसिलादिषु थ्यनः परिगणनात्पुंवद्भावे रूपं तुल्यम् । अजथ्येति । अजेभ्यो प्रजाभ्यो वा हितेति विग्रहः । कर्मधारयादेवेति। व्याख्यानादिति भावः । विश्वजनीमिति। विश्वस्य जनः सर्वसाधारणो वेश्यादिः, विश्वो जनोऽस्येति बहुव्रीहावपि स एवान्यपदार्थस्तस्मै हितमिति विग्रहः । पञ्चजनीनमिति । रथकारपञ्चमाश्चत्वारो वर्णाः पञ्चजनास्तेभ्यो हितम् । 'दिक्संख्ये संज्ञायाम्' इति समासः 'पञ्चजनात्' इत्येतत्प्रभृति वार्तिकत्रयमपि कर्मधारयविषयमेव, तेन षष्ठीसमासाद्बहुव्रीहेश्छ एव, पञ्चजनीयः । सर्वजनीन इति । सर्वो जनः सर्वजनः । 'पूर्वकालैक-' इति तत्पुरुषः, तस्मै हितमिति विग्रहः । साध्वर्थे तु १ तेन 'सर्वेषां जनाय (सर्वसाधारणाय वेश्यादिजनाय) हितः सर्वजनीयः' इत्यादौ न । इति भा०। Page #487 -------------------------------------------------------------------------- ________________ ४८४ ] सिद्धान्तकौमुदी । [तद्धितेषु यद्विधि. > पितृभोगीणः । राजभोगीनः । 'श्राचार्यादयस्वं च' (ग सू १८४) श्राचार्य भोगीनः । १६७२ सर्वपुरुषाभ्यां गढञौ । ( ५- १ - १० ) ' सर्वाण्यो वेति वक्तव्यम्' ( वा २६६ ) । सर्वस्मै हितं सार्वम्, सर्वीयम् । 'पुरुषाद्वधविकारसमूहतेन कृतेषु' ( वा ३००० ) भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेश: । पुरुषस्य वधः पौरुषेयः । ' तस्येदम्' ( सू १५०० ) इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः, 'प्राणिरजतादिभ्योऽञ्' ( सू १५३२ ) इत्यभि प्राप्ते । समूहेऽप्ययि प्राप्ते । एकाकिनोsपि परितः पौरुषेयवृता इव' इति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते, स्योदाहरति- मातृभोगीण इति । मातृभोगाय हित इत्यर्थः । आचार्यादिति । आचार्यशब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाभावो वाच्य इत्यर्थः । नच श्रसमानपदस्थत्वादेवात्र गत्वस्याप्रसक्लेस्तनिषेधो व्यर्थ इति वाच्यम्, मातृभोगणादौ णत्वज्ञापनार्थत्वात् । सर्वपुरुषाभ्यां गढ । सर्व, पुरुष अभ्यां चतुर्थ्यन्ताभ्यां क्रमाद् यस्तो हितमित्यर्थे इत्यर्थः । सर्वारण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् । पुरुषाद्वधेति । वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ् स्यात् न हितार्थ इत्यर्थः । ननु तेन कृतमिति समुदायस्य असुबन्तत्वात् कथं समासे निवेश इत्यत आह- भाष्येति । प्रणि प्राप्त इति । अनेन ढमिति शेषः । प्राणीति । रजतादित्वादनि प्राप्त अनेन ढञित्यर्थः । समूहे ऽप्यणि प्राप्त इति । पुरुषाणां समूह इत्यर्थे 'तभ्य समूहः' इत्यणि प्राप्ते 'अनेन ढमित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहनृत इवेत्यर्थः । परित आदर्शप्रतिफलनादिति भावः । तेन कृत इति । पुरुषेण कृतो ग्रन्थ इत्यर्थे ‘प्रतिजनादिभ्यः खञ्' इति खजि सार्वजनीनवेश्वजनीनशब्दौ युत्पादितौ । मातृभोगीण इति । इहाखण्डपदत्वाभावेऽपि 'अकुप्वाङ् -' इत्यनेन यथा णत्वं भवति तथा प्रागेवोपपादितम् । मातुर्भोगः शरीरं तस्मै हित इति विग्रहः । यद्यपि 'भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरेण अहेरित्युक्तम्, तथापि प्रयोगबाहुल्याभिप्रायं तत् शक्तिस्तु शरीरमात्र इत्याकरः । मातृपितृशब्दाभ्या गौत्सर्गिकश्छ एव । मात्रीयः । पित्रीयः । राजाचार्याभ्यां त्वौत्सर्गिकः छोsपि न भवत्यनभिधानात् । किंतु राज्ञे हितम्,आचार्यांय हितमिति वाक्यमेवेत्याकरः । सर्वपुरुषाभ्याम् । श्रभ्यां शब्दाभ्यां यथासंख्यं णढञौ स्तस्तस्मै हितमित्यर्थे 'प्राक्क्रीतात् -' इति छत्यापवादादिति सूत्रार्थः । सर्वादिति । अनुकरणत्वा सर्वनामकार्याभावः पुरुषाद्वधवि-कारेति । योग्यताबलादिह षष्ठी समर्थविभक्तिर्लभ्यते, 'तेन कृते' इत्यत्र तु उपात्तैव तृतीया, तदाह - पुरुषस्य वध इति । समूहे ऽप्यणीति । 'तस्य समूहः ' > Page #488 -------------------------------------------------------------------------- ________________ प्रकरणम् ३२] बालमनोरमा तस्वबोधिनीसहिता। [४८५ अप्रन्ये तु प्रासादादावप्रास एवेति विवेकः । १६७३ माणवचरकाभ्यां खम् । (५-१-११) माणवाय हिवं माणवीनम् । चारकीणम् । १६७४ तदर्थ विकृतेः प्रकृतौ । (५-१-१२) विकृतिवाचकाचतुर्थ्यन्तात्तदायां प्रकृती वाध्यायां प्रत्ययः स्यात् । प्रकारेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कण्यं दारु । १६७५ छदिरुपधिबलेढम् । (५-१-१३) 'कृते ग्रन्थे' इत्यणि प्राप्ते, पुरुषेण कृतः प्रासाद इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढनित्यर्थः । माणव । श्राभ्यां चतुर्थ्यन्ताभ्यां हितमित्यर्थे खञ् स्यादित्यर्थः । माणवीनमिति। मनोः कुत्सितमपत्यं माणवः, 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोऽण् स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः' । इत्यपत्याधिकारवातिकात् । माणवाय हितमिति विग्रहः। चारकीणमिति । चरतीति चरः पचाद्यच् । ततः स्वार्थिकः कः, चरकाय हितमिति विग्रहः। तदर्थ विकृतेः प्रकृतौ। तदर्थमिति सामान्ये नपुंसकम् । तस्मै इदं तदर्थम् । तच्छब्देन विकृतिः परामृश्यते । सप्तम्यर्थे प्रथमा । विकृत्यर्थायां प्रकृताविति लभ्यते । एवं च तच्छन्देन चतुर्थ्यन्तेन विकृतिरेव प्रथमं निर्दिश्यते । तथा च चतुर्थ्यन्ताद् विकृतिवाचकादिति लभ्यते। तदाह-विकृतिवाचकादित्यादिना । प्रत्ययः स्यादिति । यथाविहितमिति शेषः । अङ्गारेभ्य एतानीति । अङ्गारार्थानीत्यर्थः । अर्थेन नित्यसमासविधानादस्वपदविग्रहः । अत्र काष्ठानि प्रकृतिद्रव्याणि, अङ्गारा विकृतयः। तद्वाचकारदारशब्दाच्छप्रत्यये अङ्गारीयाणीति रूपम् । प्राकारीया इत्यनेन । ग्रन्थेऽणीति । 'कृते प्रन्ये' इत्यनेन । अप्राप्त इति । पौरुषेयः प्रासाद इत्यादौ न कस्याप्यपवादोऽयं ढमिति भावः। माणव। खञो मित्करणं वृद्ध्यर्थे खरार्थ च । यद्यपि माणवे पृद्धिः खतःसिद्धव, तथापि माणवीनाभार्य इत्यत्र 'वृद्धिनिमित्तस्य च.' इति पुंवद्भावप्रतिषेधार्थमिति ज्ञेयम् । माणवायेति । मनोः कुत्सितमपत्यं माणवः । 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः ॥' इत्यपत्याधिकारस्थवार्तिकारणत्वम् , तच्च वार्तिकमेतसूत्रस्थनिर्देशसिद्धार्थकथनपरमित्याहुः। चारकीणमिति । चरतीति चरः पचाद्यच् । 'चरिचलिपतिवदीनाम्-' इति द्विर्वचनं विकल्पितत्वादिह न भवति । ततः संज्ञायां कनि चरकः । तदर्थ विकृतेः। तस्मै हितम्' इत्यतस्तस्मा इत्यनुवर्तते तदाहचतुर्थ्यन्तादिति । तदर्यम्' इति 'सामान्ये नपुंसकम्' व्यत्ययेन सप्तमीस्थाने प्रथमेत्याशयेनाह-तदर्थायामिति । विकृत्यर्थायामित्यर्थः । तदिति सर्वनाम्ना हि विकृतिः परामृश्यते । एवं च विकृविरेव प्रथमानिर्देष्टेति 'समर्थानां प्रथमात्-' Page #489 -------------------------------------------------------------------------- ________________ ४८६ ] सिद्धान्तकौमुदी। [तद्धतेषु छयद्विधि. छादिषयाणि तृणानि । बालेयास्तण्डुलाः । 'उपधिशदात्स्वार्थे इष्यते' (वा ३००३)। उपधीयते इत्युपधिः रथाङ्गम् , तदेव भोपधेयम् । १६७६ ऋषभोपानहो ज्यः । (५-१-१४) छस्यापवादः। आर्षभ्यो वत्सः। श्रीपानको मुन्जः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन । श्रौपानां चर्म । १६७७ इष्टका इति । प्राकारेभ्य इमा इति विग्रहः । प्राकारार्था इत्यर्थः । शङ्कव्यमिति । शङ्कवे इदमिति विग्रहः । शङ्कवर्थमित्यर्थः । 'उगवादिभ्यः-' : ति यत् । छदिरुप. धिबलेढञ् । छदिष्, उपधि, बलि एषां समाहारद्वन्द्वे संत्रं पुंस्त्वम् । एभ्यः तादर्थ्यचतुर्थ्यन्तेभ्यः प्रकृती वाच्यायां ढमित्यर्थः । छादिष्याणीति । दिः तृणपटलः । तस्मै इमानीति विग्रहः । छदिरानीत्यर्थः । ढनि एयादेशे षात्परत्वाएणत्वम् । बालेयास्तण्डुला इति । बलये इमे इति विग्रहः । बल्या इत्यर्थः । 'करोपहारयोः पुंसि बलिः' इत्यमरः। 'भागधेयः करो बलिः' इति च उपधिशब्दादिति । वार्तिकमिदम् । उपधीयत इति । अक्षदण्डाले उपधीयते प्रोतं क्रियते इत्युपधिः । “उपसर्गे घोः किः' इति धानः कि ।त्ययः । 'आतो लोप इटि च' इत्याल्लोपः। उपधिः रथाङ्गमिति । तथा भाष्यादिति भावः । ऋषभोपानहो ज्यः । ऋषभ उपानह् अनयोः माहारद्वन्द्वात्पञ्चमी । ऋषभशब्दादुपानशब्दाच्च तादर्थ्यचतुर्थ्यन्तात् प्रकृती वाच्या व्यत्प्रत्ययः स्यादित्यर्थः । आर्षभ्य इति । ऋषभाय अयमिति विग्रहः । ऋषभार्थ इत्यर्थः । यो वत्स ऋषभावस्थाप्राप्त्यर्थं पोष्यते स एवमुच्यते । औपानह्यो मुञ्ज इति । उपानहे अयमिति विग्रहः। उपानदर्थो मुञ्ज इत्यर्थः । क्वमिद्देशे मुञ्जतृणैरुपानत् इत्याधिकारोऽप्यत्र निर्वाध एव । शङ्कव्यमिति । 'उगवा देभ्यः-' इति यत् । छदिरुपधि । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । छस्यापवादोऽयम् । छादिषयाणीति । छाद्यतेऽनेनेति छदिः। 'अर्चिशुचिहुसृपिछादिच्छर्दिभ्य इसिः' । 'इ मन्त्रन्क्विषु च' इति ह्रखत्वम् । यदा तु चर्मविकारः छदिस्तदा परत्वात् 'चर्मणोऽऽ' इत्यञ् प्राप्नोति । पूर्वप्रतिषेधेन तु ढमेवेष्यते । छादिषेयं चर्म । आह च 'यञ्जयावनः पूर्वविप्रतिषिद्धम्' 'ढञ् च' इति । यत उदाहरणं सनङ्गव्यम् , सनगश्चमविका स्तदर्थं चर्म, 'उगवादिभ्यः-' इति यत् । व्यस्योदाहरणमौपानद्यमिति अनुपदं वा । । बालेया इति। 'कारोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्' इत्यमरः। उपधिरिति । 'उपसर्गे घोः किः' इति धात्रः किः । 'पातो लोप इटि च' इत्यालोपः । विप्रतिषेधेनेति । 'यञ्जयावा-' इत्यादिवार्तिकनेत्यर्थः । ननु ढञ्चिधौ छदिरित्यस्य, ज्यविधौ उगहनश्च विशिष्य ग्रहणेन 'प्रतिपदोक्तं बलीयः' इति सिद्धे किमनेन पूर्वविः तिषेधेन। अत्राहुः Page #490 -------------------------------------------------------------------------- ________________ प्रकरणम् ३२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४८७ I 1 चर्मणो ऽञ् (५-१-१५) चर्मणो या विकृतिस्तद्वाचकादम्स्यात् वर्षे इदं वार्ध चर्म । वारत्रं चर्म । १६७८ तदस्य तदस्मिन्स्यादिति । ( ५-१-१६) प्राकार प्रासामिष्टकानां स्यात्प्राकारीया इष्टकाः । प्रासादीयं दारु । प्राकारोऽक्रियते । चर्मण्यपीति । चर्मणि प्रकृतित्वेन वाच्येऽपि श्रयं य एव 'चर्मणोऽव्' इत्य परमपि पूर्वविप्रतिषेधेन बाधित्वा भवतीत्यर्थः । एतच्च 'उगवादिभ्यः - ' इति सूत्रभाष्ये स्थितम् । श्रपानह्यमिति । उपानदर्थं चर्मेत्यर्थः । चर्मणोऽञ् । चर्मण इति पष्ठ्यन्तं विकृतावन्वेति तदाह - चर्मणो या विकृतिः तद्वाचकादिति । तादर्थ्यचतुर्थ्यन्तादिति शेषः । श्रञ् स्यादिति । प्रकृतौ वाच्यायामिति शेषः । वधयै इदमिति । वृधेरौणादिके ष्ट्रनि वर्धशब्दः । टित्त्वाद् ङीप्, वर्धी चर्मरज्जुः । 'नधी वर्धी वरत्रा स्यात्' इत्यमरः । वाघ्र इदमिति पाठान्तरम् । 'वृधिवपिभ्यां रन्' इति वृधे रनि लघूपधगुणे रपरत्वे वर्धशब्दश्चमवाचकः, तस्माद्विकारे अणि डीपि वार्षी रज्जुः 1 तदस्य तदस्मिन् स्यादिति । 'तदर्थं विकृतेः प्रकृतौ' इति निवृत्तम् इति कैयटः । तदस्य स्यादिति, तदस्मिन् स्यादिति चार्थे प्रथमान्ताद्यथाविहितं प्रत्ययः स्यादित्यर्थः । स्यादित्यत्र 'संभावनेऽलमिति' इति संभावने लिङ् । प्राकार आसामिति । करणत्वस्य सम्बन्धसामान्यविवक्षायां षष्टी । श्रभिरिष्टकाभिः प्राकारः कर्तुं शक्यत इति विग्रहवाक्यस्य फलितोऽर्थः । प्राकारीया इति । प्राकारशब्दात्प्रथमान्तात् छः । इष्टकाः प्रत्ययार्थः । प्राकारपर्याप्ता इष्टका इति यावत् । प्रासादीयं दाविति । प्रासादोऽस्य स्यादिति विग्रह: । प्रासादपर्याप्तमिति यावत् । 'निरवकाशत्वे सत्येव प्रतिपदविधित्वं बलीयस्त्वे प्रयोजकम्, न तु सावकाशत्वे' इत्यनेन मुनिवचनेनानुमीयते । तेन 'खम्पि तटाकानि' इत्येव युक्तम्, परत्वान्नुम् प्रवृत्तेः । प्रतिपदोक्तत्वाद्दीर्घमाश्रित्य स्वाम्पि तटाकानीति मतं दुर्बलम् । 'अतृन् -' इति दीर्घस्य आपस्तिष्ठन्तीत्युदाहरणे सावकाशतया प्रतिपदोक्तत्वस्याबलीयस्त्वादिति । चर्मणोऽञ् । ‘तदर्थम्' इत्यादिपूर्वोक्ते श्रञ् स्यात् छस्यापवादः । 'चर्मणः' इति षष्ठी न तु पञ्चमी । पञ्चम्यां तु चर्मशब्दाच्चर्मार्थायां प्रकृतौ प्रत्ययः स्यात् 'चर्मणो द्वीपी -' इत्यादौ । न चेष्यते चार्मणो द्वीपीति तदाह - चर्मणो या विकृतिरिति । वधर्यै इति । 1 ‘वृधिवपिभ्याम्' इति रन्प्रत्यये वर्धशब्द आद्युदात्तश्चर्मवाची, 'तस्य विकारः' इत्यण् । ‘टिड्ढा-' इति ङीप् । वार्धी रज्जुः, तस्यै । वधेरैणादिके ष्ट्रनि तु वधीति भवति ततोऽनि तु वाघ्रम् | 'नधी वर्धी वरत्रा स्यात्' इत्यमरः । ' चञ्चाः पश्य, वधिकाः पश्य' इति भाष्यम् । तदस्य । प्रथमासमर्थात्प्रातिपदिकात्षष्ठ्यर्थे सप्तम्यर्थे च यथा Page #491 -------------------------------------------------------------------------- ________________ ४८] सिद्धान्तकौमुदी। तद्धितेष्वाहीयमिन्स्यायाकारीयो देशः। इतिशब्दो लौकिकी विवक्षामनुसारयति । तेनेह न-प्रासादो देवदत्तस्य स्यादिति । १६७६ परिखाया ढम् । (५-१-१७) पारिखेयी भूमिः। इति तद्धितेषु छयतोः पूर्णोऽवधिः । अथ तद्धितेष्वाहीयप्रकरणम् । ३३ । १६८० प्राग्वतेष्ठम् । (५-१-१८) 'तेन तुल्यम्..' (सू १७७८) प्राकारीयो देश इति । प्रायेण प्राकारोऽस्मिन्देशे संभाव्यत इत्यर्थः । देशस्य तद्योग्यपाषाणेष्टकादिबहुलत्वादिति भावः । अनेन 'तदर्थ विकृतेः' इत्यनुवृत्ताविह न स्यादिति सूचितम् । ननु प्रासादो देवदत्तस्य स्यादित्यत्रातिप्रसङ्गः स्यादित्यत आह-इतिशब्दो लौकिकी विवक्षामिति । शिष्टव्यवहारमित्यर्थः । परिखाया ढञ् । पूर्वसूत्रविषये इति शेषः । पारिखेयी भूमिरिति । परिखा अस्या अस्ति, अस्यामस्तीति वा विग्रहः । परिखायोग्येत्यर्थः । छ्यतोः पूर्णो: ऽवधिरिति । 'प्राग्वतेष्ठञ्' इत्यारभ्य 'द्वित्रिपूर्वादण च' इत्यन्तैः सूत्रः प्रत्ययविशेषेष्वनुक्रान्तेषु 'तेन क्रीतम्' इति पठितम् । ततश्च 'प्राक्क्रीतात्-'' इत्युक्तेस्तेष्वपि सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्कयम् , प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यसंभवादिति भावः। इति तद्धितेषु छयतोरवधिः। अथ आीयाः । प्राग्वतेः । वतिशब्दस्तद्धटितसूत्रपर । तदाह-तेन तुल्यमिति । 'तेन तुल्यम्-' इत्यतः प्राग येषु सूत्रेषु अर्था एव निर्दिश्यन्ते नतु विहितं प्रत्ययः स्याद् इति, 'सम्भावनेऽलमिति च' इत्यादिना सम्भावने लिङ् । इष्टकानां बहुत्वेन प्राकार आसां स्यादिति तत्सम्भाव्यते । देशस्य हि गुणेन प्राकारोऽस्मिन्स्यादिति सम्भाव्यते । इह प्रकृतिविकारभावस्तादर्थ्य च न विवक्षितम् , किंतु योग्यतामात्रम् , तेन पूर्वस्यायमविषयः । द्विस्तच्छब्दस्य ग्रहणं स्पष्टप्रतिपत्त्यर्थम् । 'तदस्यास्त्यस्मिन्-' इतिवत्सकृत्तच्छब्दप्रहणेनैवेष्टसिद्धेः । इति तत्त्वबोधिन्यां छयद्विधिप्रकरणम् । प्राग्वतेष्ठञ् । 'ठञ्' इत्येव वक्तव्ये 'प्राग्वतेः' इति वचनं मध्ये योऽधिकारवानपवादः, 'सर्वभूमिपृथिवीभ्यामणी' 'शीर्षच्छेदाद्यच्च' इत्येवमादि, तेन विच्छेदेऽपि 'पारायण-' इत्यादौ ठमेव यथा स्यादित्येवमर्थम् । न चैवं 'पारायण-' आदिसूत्र एव ठञ् निर्दिश्यतामिति वाच्यम् । उत्तरसूत्रे येषां पर्युदासः क्रियते गोपुच्छादीनां Page #492 -------------------------------------------------------------------------- ________________ प्रकणरम् ३३] बालमनोरमा सत्त्वबोधिनीसहिता। [४८६ इति वर्ति वषयति । ततः प्राक्ठनधिक्रियते। १६८१ आदिगोपुच्छसङ्ख्या परिमाणाद्वक् । (५-१-१६) 'तदर्हति' (सा७२८) इत्येतदभिव्याप्य निधिकारमध्ये ठनोऽपवादष्टगधिक्रियते गोपुच्छादीन्वर्जयित्वा । १६८२ असमासे निष्कादिभ्यः । (५-१-२०) 'मात्'ि इत्येतत् 'तेन क्रीतम्' (स् १७०२) प्रत्ययाः, तत्र ठमित्युपतिष्ठत इति यावत् । आदिगोपुच्छसङ्ख्यापरिमाणादृक् । तदर्हतीति सूत्रगते अर्हतिशब्दे एकदेशानुकरणमर्हति, तश्च तद्धटितसूत्रपरम् , अाङभिव्याप्ती, व्याख्यानात् । तदाह-तदर्हतीति । इत्येतदभिव्याप्येति । इदमपि सूत्रं प्रत्ययविशेषाश्रवणे उपतिष्ठते । अत्र संख्यापरिमाणयोः पृथग्ग्रहणात्संख्या न परिमाणम् । तथा च वार्तिकम्-'ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः ॥' इति । तुलायामारोप्य द्रव्यगुरुत्वं येन परिच्छिद्यते तदुन्मानं गुजामाषनिष्कसुवर्णपलादि । येन काष्ठादिनिर्मितेन श्रायतविस्तृतोच्छ्रितेन पात्रविशेषेण व्रीत्यादि परिच्छिद्यते पात्रगतायामविस्तारोच्छायैः, तत्परिमाणं प्रस्थादि । आयामो देय येन परिच्छिद्यते तत्प्रमाणम् अरनिप्रादेशादि । संख्या तु उक्तत्रितयापेक्षया तेभ्यष्ठत्रः प्रकृतसूत्रं विनालाभात् । तथा च गौपुच्छिकः साप्तातिक इत्यादौ ठअर्थमिदं सूत्रमत्र प्रदेशे प्रारब्धमिति बोध्यम् । आदिगोपुच्छ । तदहर्तीति । इह 'तदहम्' इति सूत्रान्तर्गतमच्प्रत्ययान्तं नानुक्रियते, किं तु तिङन्तस्यैकदेशः शबन्त एव, व्याख्यानादिति भावः । अभिव्याप्येति । तेन श्वेतच्छत्रिक इत्यत्राहत्यर्थे ठग् भवतीति भावः । ननु परिमाणात्पृथक्संख्याग्रहणं व्यर्थम् , परिमीयते परिच्छिद्यते येन तत्परिमाणं संख्ययापि च परिच्छिद्यत इति सापि परिमाणमेवेति चेत् । अत्र श्लोकवार्तिकम्-'उर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्या बाह्या तु सर्वतः' । अस्यार्थ:-तुलादावारोप्य येन द्रव्यान्तरपरिच्छिनगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादेर्गुरुत्वमुन्मीयते तदुन्मानम् । पारोह उच्छ्रायः, परिणाहो विस्तारः, ताभ्यामारोहपरिणाहाभ्यां खगताभ्यो यने काष्ठादिनिर्मितेन ब्रीह्यादिः परिमीयते तत्परिमाणं प्रस्थादि । परिः सर्वतोभावे, आयामो दैर्घ्यम , स येन मीयते तत्प्रमाणम् । तच्च क्वचित्तिर्यगवस्थितस्य वस्तुनो भवतियथा वस्त्रादेर्हस्तादिः। क्वचिदूधिोभागावस्थितस्य भवति-यथा हास्तिनमुदकम् । ऊरुद्वयसमुदकमिति। संख्या तु उन्मानपरिमाणप्रमाणेभ्यः पलादिप्रस्थादिहस्वादिभ्यस्त्रिभ्यो बहिर्भूता एकत्वद्वित्वादिरिति इह संख्यापरिमाणयोरेव प्रकृतत्वेऽप्युन्मानप्रमाणयोर्विवेचनं प्रसङ्गात्कृतमिति बोध्यम् । असमासे निष्कादिभ्यः । निष्क Page #493 -------------------------------------------------------------------------- ________________ ४६० ] सिद्धान्तकौमुदी । [तद्धितेष्वार्हीय I इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक् स्यादाहयेsaर्थेषु । नैष्किकम् । समासे तु ठञेव । १६८३ परिमाणान्तस्यासंज्ञाशाणयोः । ( ७-३-१७ ) उत्तरपदवृद्धिः स्याद् जिदादौ परमनैष्किकः । 'असंज्ञा' इति किम् - पञ्च कलापाः परिमाणमस्य पाञ्चकलाधिकम् । 'दस्य परिमाणम्' (सू १७२३ ) इति ठञ् । असमासग्रहणं ज्ञापकं भवति ' इतः प्राक्तदन्तविधिः' इति । तेन सुगव्यम् - यवापूप्यमित्यादि । इत ऊर्ध्व तु बाह्या भिन्ना एकत्वद्वित्वादीत्यर्थः । समासे । इति यावदिति । 'तेन क्रीतम्' इत्येतत्पर्यन्तमित्यर्थः । ठगिति । पूर्वसूत्रात्तदनुवृत्तेरिति भावः । आह येष्विति । 'तदर्हति' इत्येतत्पर्यन्तमनुक्रान्तेषु 'तेन क्रीतम्' इत्याद्यर्थेष्वित्यर्थः । roseमति । निष्केण क्रीतमित्यर्थः । यथायोगं क्रीतार्थान्वः । समासे तु ठञेवेति । परमनिष्कादिशब्दादित्यर्थः । परिमाणान्तस्याः संज्ञाशाणयोः । प्रादिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकार इद सूत्रम् । शेषपूरणेन त्याचष्टे - उत्तरपदवृद्धिः स्यादिति । उत्तरपदस्य आदेरचो वृद्धिः स्यादित्यर्थः । ञिदादाविति । ञिति णिति किति चेत्यर्थः । परमनैष्किक इति । परमनिष्केरा क्रीत इत्यर्थः । समासत्वागभावे औत्सर्गिकष्ठञ् । स्वरे विशेषः । ननु निष्कादिभ्य एव ठकोविधानात्तदन्तात् समासाट्ठको प्रसक्लेर समासग्रहणं व्यर्थम् । न च प्रातिपदिकग्रहणस्यापञ्चमाध्यायसमाप्तेरधिकृतत्वात्प्रातिपदिकविशेषणतया तदन्तविधौ समासादपि ठकः प्रसक्तिरस्तीति वाच्यम्, ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति इति निषेधात् । निष्कादीनां च विशिष्य गृहीतत्वेन ग्रहणवत्त्वादित्यत आह-असमा सग्रहणमिति । सुगव्यमिति । सु शोभना गौः सुगौः, 'न पूजनात्' इति निषेधाद् 'गोरतद्धितलुकि' इति न टच् । ‘उगवादिभ्यः -' इति गोशब्दान्ताद्यत् । यवापूप्यमिति । पण, पाद, माष, वाह, द्रोण, षष्टि, इति सप्त निष्कादयः । तत्र द्रोराशब्दः परिमाणवाची, षष्टिशब्दः संख्यावाची, ताभ्यां ठञि प्राप्ते वचनम् । इतरेषां तु पञ्चानामुन्मानवाचित्वेन पूर्वसूत्रेणैव ठकि सिद्धे समासप्रतिषेधार्थं वचनमित्येके । अन्ये त्वाहु:पूर्वसूत्रे परिच्छेदकमात्रं संख्याभिन्नं परिमाणशब्देन गृह्यते । तेन सर्वेभ्यष्ट प्राप्ते ठग्विधानार्थं वचनम् । न चैवं 'परिमाणं तु सर्वतः' इति भेदेन व्युत्पादनं व्यर्थमिति वाच्यम्, 'प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये' इत्यादावस्योपयोगादिति पक्षद्वयमप्येतत्पदमञ्जर्यां स्पष्टम् । अथ किमर्थम् ' असमासे' इत्युच्यते, प्रातिपदिकग्रहणे तदन्तप्रहृणाभावादेवेष्टसिद्धेरत श्रह - असमासग्रहणमिति । सुगव्यमिति । ‘उगवादिभ्यो यत्' । यवापूप्यमिति । 'विभाषा हविरापादिभ्यः' इति Page #494 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६१ 'संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतरिष्यते, तचालुकि-' (वा ३०१८)। पारायणिकः । द्वैपारायणिकः । 'अलुकि' इति किम्-द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूपम् । द्विशूर्पण क्रीते 'शूदम्-' (स् १६६१) मा भूत् , किं तु ठन् । द्विशीपिकम् । १६८४ अर्धात्परिमाणस्य पूर्वस्य तु वा । (७-३-२६) अर्धात्परिमाणवाचकस्योत्तरपदस्थादेरचो वृद्धिः, पूर्वपदस्य तु वा मिति णिति किति च । अर्धद्रोणेन क्रीतम् अर्धद्रौणिकम् , प्रार्धद्रौणिकम् । १६८५ नातः परस्य । 'विभाषा हविरपूपादिभ्यः' इत्यपूपान्तत्वाद्यत् । नन्वसमासग्रहणाज् ज्ञापकाद् इत ऊध्वमपि तदन्तविधिः किं न स्यात् । ततश्च परमपारायणं वर्तयतीत्यत्रापि 'पारायणतुरायणचान्द्रायणं वर्तयति' इति ठञ् स्यादित्यत आह-इत ऊर्ध्वं त्विति । वार्तिकमिदम् । नन्वेवमपि द्विशूर्पण क्रीतमित्यर्थे शूर्पशब्दान्तादपि 'शूदअन्यतरस्याम्' इति अञ् स्यादित्यत आह-तञ्चालुकीति । इत ऊर्ध्व संख्यापूर्वपदानां तदन्तग्रहणमिति यदुक्तं तत्तद्धितलुकि सति न भवतीत्यर्थः । इदमपि वार्तिकमेव । द्विशूर्पमिति । 'तद्धितार्थ-' इति द्विगुरयम् । तद्धितप्रकृतिभूतः शब्दो न लुगन्तः। अतः संख्यापूर्वपदात् शूर्पान्तादस्मात् 'शूदअन्यतरस्याम्' इति प्राप्तस्य अअष्ठलो वा 'अध्यर्ध-' इति लुक् । द्विशूर्पशब्दो लुगन्तः। ततश्च तस्मात् क्रीतेऽर्थे 'शूदञ्-' इति न भवति । लुकि सति तदन्तग्रहणाभावादि. त्यर्थः । द्विशौर्पिकमिति । 'तेन क्रीतम्' इति ठमि 'परिमाणान्तस्यासंज्ञाशाणयोः' इत्युत्तरपदवृद्धिः । अस्य ठमो लुक् तु न भवति, तस्य द्विगुनिमित्तत्वाभावात् । अर्धात्परिमाणस्य। 'परिमाणान्तस्य-' इत्यस्मादुत्तरमिदं सूत्रम्।अर्धद्रौणिकम्, आर्धद्रौणिकमिति । द्रोणशब्दस्य निष्कादित्वेऽपि असमासप्रहणान यत् । अन्नविकारत्वादेव सिद्धे 'अपूपादीनां प्रतिपदपाठसामर्थ्यात्तदन्तविधिर्नेति न्यासप्रन्थस्तूपेक्ष्यः, वृत्त्यादिग्रन्थविरोधादिति भावः । अत एव तत्सूत्रे 'अपूपादीनां केषांचित्पाठः प्रपञ्चार्थः' इत्यवोचाम । इत ऊर्ध्वमिति । ज्ञापकेन तदन्तविधी लब्धेऽपि विशेषव्यवस्थार्थमिदम् । संख्यापूर्वपदानामिति किम्, इह मा भूत-परमपारायणं वर्तयति । द्विशूर्पमिति । तद्धितार्थे द्विगुरयम् । एषा हि प्रकृति गन्ता •न भवति इति संख्यापूर्वपदादप्यस्मात् 'शूदिनन्यतरस्याम्' इति प्राप्तस्यामष्ठो वा 'अध्यर्धपूर्व-' इति लुक् । द्विशौर्पिकमिति । 'परिमाणान्तस्य-' इत्युत्तरपदवृद्धिः। ठो द्विगुं प्रति निमित्तत्वाभावाल्लुगभावः । यद्यपि 'अध्यर्ध-' इति सूत्रे द्विगोः परस्याीयस्य लुगित्येव मूले व्याख्यायते, तथापि द्विगोर्निमित्तस्येति व्याख्येयमेव । अन्यथा अत्रैव ठओ लुक् स्यात् । एतच 'अध्यर्ध-' इति सूत्रे स्फुटीकरिष्यते। Page #495 -------------------------------------------------------------------------- ________________ ४६२] सिद्धान्तकौमुदी। तद्धितेष्वाीय(७-३-२७) अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदा तु वा जिदादौ अर्धप्रस्थिकम् , प्रार्धप्रस्थिकम् । 'अतः' किम्-श्रार्धकौडविकम् । 'तपरः' किम्अर्धखायाँ भवा अर्धखारी। अर्धखारीभार्य इत्यत्र 'वृद्धिनिमित्त स्य-' (सू ८४०) इति पुंवद्भावनिषेधो न स्यात् । १६८६ शताच ठन्यतावश । (५-१-२१) शतेन क्रीतं शतिकम् , शत्यम् । 'शते' किम्-शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थी वस्तुतः प्रकृत्यर्थाथ भिधते, तेन ठन्यतौ न, किंतु कनेव । 'श्रसमासे' इत्येव, द्विशतेन क्रीतं द्विशतकम् । १६८७ संख्याया अतिशदन्तायाः ठक् । किंतु ठमेव । नातः परस्य परिमाणाकारस्येति । परिमाणवाचकावयवस्य अकारस्येत्यर्थः । पूर्वपदस्य तु वेति । पूर्वपदस्यादेरन ।स्तु वृद्धिर्वेत्यर्थः । आर्धकौडविकमिति । अर्धकुडवेन क्रौतमित्यर्थः । तेन तम्' इति ठञ् । अत्र कुडवशब्दस्य परिमाणविशेषवाचिन आदेरचः अकारत्वाभावान वृद्धिनिषेधः । किन्तु 'अर्धात्परिमाणस्य-' इत्युत्तरपदवृद्धिरिति भावः । तारः किमिति । दीर्घस्याकारस्य वृद्धिनिषेधे फलाभावाद्धस्वस्येति सिद्धमिति प्राः । अर्धखार्यां भवा अर्धखारीति । निषेधो न स्यादिति । पूर्वपदस्य द्वयभावपक्षे वृद्धि प्रति फलोपहितनिमित्तत्वाभावादिति भावः । पूर्वपदस्य वृद्धिपत्रे तु वृद्धि प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव उत्तरपदाकारस्य वृद्धिनिषेधेका पुंवत्त्वनिषेधः । परिमाणान्तस्येत्यारभ्य एतदन्तं साप्तमिकम् । अथ प्रकृतं पाश्चा मेकम् । शताच ठन्यतावशते । आहीयेष्वर्थेषु शताट्ठन्यतौ स्तः, नतु शतेऽर्थे इत्यर्थः । उत्तरसूत्रप्राप्तकनोऽपवादः । शतकः संघ इति । उत्तरसूत्रेण कन्निति भावः । नन्विह संघस्यैव प्रत्ययार्थत्वात् कथम् 'प्रशते' इति निषेध इत्यल आह-इहति । प्रत्ययार्थः संघः प्रकृत्यर्थात् शतात्परिमाणाद् न भिद्यते । गुणगुरिणनोरभेद एव हि पारमार्थिकः । भेदस्तु काल्पनिक एवेति भावः । यत्र तु शतं प्रत्ययाथः प्रकृत्यथोद्भिद्यते तत्र नायं निषेधः । शतेन क्रीतं शत्यं शाटकशतम् । अत्र हि निष्ट शतं प्रकृत्यर्थः । शाटकशतं तु प्रत्ययार्थः । एतत्सर्वं भाष्ये स्पष्टम् । असमास इत्येवेति । चकारस्य तपरः किमिति । दीर्घाकारस्य वृद्धौ कृतायामपि रूपे विशेषो नास्तीति प्रश्नः । निषेधो न स्यादिति। तथा च वृद्धिनिषेधाभावाय तपरकरणमावश्यकमिति भावः। इदं च पुंवद्भावनिषेधाभावापादनं पूर्वपदस्य वृद्ध्यभावपक्षे क्रियते । यदा तु पूर्वपदस्य पाक्षिकी वृद्धिः क्रियते, तदा फलोपधानवृद्धिनिमित्तं तद्धित त्युत्तरपदाकारस्य वृद्धिनिषेधेऽपि स्यादेव पुंवद्भावनिषेध इति बोध्यम् । शताञ्च । अशतेऽभिधेये आ-येष्वर्थेषु ठन्यतौ स्तः । उत्तरसूत्रेण प्राप्तस्य कनोऽपवादः । चकारः 'असमासे' Page #496 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६३ कन् । (५-१-२२) संख्यायाः कन्स्वादाहीयेऽर्थे, न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः चात्वारिंशस्कः । १६८८ वतोरिवा। (५-१-२३) वस्वन्तास्कन इड् वा स्यात् । तावतिकः, तावस्कः।१६८४ विशतित्रिंशद्धयां खुन्नसंज्ञायाम्। (५-१-२४) योगविभागः कर्तव्यः । श्राभ्यां कन्स्यात् । असंज्ञायां वुन् स्यात् । तदनुकर्षणार्थत्वादिति भावः । द्विशतेनेति । द्विगुणशतेनेत्यर्थः । द्विगुसमासे तु विशतशब्दस्य लुगन्ततया लुकि तदन्तविधिनिषेधात् प्राप्तिरेव नेति बोध्यम् । संख्यायाः । तिश्च शञ्च तिशतो, तो अन्ते यस्याः सा तिशदन्ता, न . तिशदन्ता अतिशदन्ता, द्वन्द्वगर्भबहुव्रीहिगर्भो नस्तत्पुरुषः। साप्ततिक इति । सप्तत्या क्रीत इत्यर्थः । 'तेन क्रीतम्' इति ठञ् । चात्वारिंशत्क इति । चत्वारिंशता क्रीतमित्यर्थः । 'सेन क्रीतम्' इति ठमष्ठस्य तकारात्परत्वात्कः । वतोरिड् वा। वतोरियनेन प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । कनिति प्रथमान्तमनुवृत्तम् । 'वतोः' इति पञ्चमी 'तस्मादित्युत्तरस्य' इति परिभाषया षष्ठयन्तं प्रकल्पयति । तदाह-वत्वन्तादिति । तावतिक इति । तावता क्रीत इत्यर्थः । 'यत्तदेतेभ्य:-' इति वतुप् । 'बहुगणवतु-' इति संख्यासंज्ञायां 'संख्याया अतिशदन्ताया:-' इति कन् , तस्य इट् , टित्त्वादाद्यवयवः । विंशतित्रिंशद्यां ड्खुन्नसंज्ञायाम् । नन्वेकसूत्रत्वे विंशतित्रिंशद्भयां ड्नेव स्यात् , कन् तु न स्यात् । अतिशदन्ताया इति निषेधादित्यत श्राह-योगेति । 'विंशतित्रिंशद्भयाम्' इत्येकं सूत्रम् , 'ड्वुनसंज्ञायाम्' इत्यपरमित्यर्थः । श्राद्यं व्याचष्टे-आभ्यां कन् स्यादिति । 'संख्याया अतिशदन्तायाः' इत्यतः कन् इत्यनुवर्तत इति भावः । द्वितीयसूत्रे इत्यस्यानुकर्षणार्थः । द्विशतकमिति । द्वौ च शतं च तेषां समाहारो द्विशतम् । ततः कन्-'प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि' इत्यनया इष्टया समासादपि प्राप्नोतीति 'असमासे' इत्येतस्यानयनभुचितमिति भावः । त्यन्तशदन्ताया इति । त्यन्तसहिता शदन्तेत्युत्तरपदलोपी समासः । पञ्चक इति । लौकिक्याः संख्याया उदाहरणम् । बहुक इति । तु पारिभाषिक्याः । साप्ततिक इति । ठमो मित्त्वादादिवृद्धिः । ठस्येकादेशे 'यस्येति च' इतीकारलोपः । अर्थवतस्तिशब्दस्य प्रहणाद् डत्यवयवस्य तिशब्दस्य पर्युदासो न भवति, कतिकः । चात्वारिंशत्क इति । 'इसुसुक्लान्तात्कः' । वतोरिड्वा । 'वतोः' इति पञ्चमी, सा च 'कन्' इति प्रथमायाः षष्ठी कल्पयतीत्याह-वत्वन्तात्कन इति । तावतिक इति । 'यत्तदेतेभ्यः-' इति वतुप् । 'आ सर्वनाम्नः' इत्यात्वम् । कर्तव्य इति । अन्यथा त्यन्तशदन्तयोः Page #497 -------------------------------------------------------------------------- ________________ ४६४ ] सिद्धान्तकौमुदी। तद्धितेष्वा यः कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । शिरकः । १६६० कंसाठिन् । (५-१-२५) टो डीबर्थः, इकार उच्चारणार्थः । कंसिकः, कंसिकी । 'अर्धाञ्चेति वक्तव्यम्' ( वा ३०१८) । अधिका, श्रधिकी । 'कार्षापणाटिठन्वक्तव्यः प्रतिरादेशश्च वा' (वा ३०१६) कार्षापणिकः, कार्षापणिकी। प्रतिकः, प्रतिकी। १६६१ शूर्पादान्यतरस्याम् । (५-१-२६) शौर्पम्, शौर्पिकम् । १६६२ शतमानविंशतिकसहस्रवसनादण । (५-१-२७) एभ्योऽएस्यात् । ठठक्कनामपवादः । शतमानेन झीतं शावमानम् । वैशतिकम् । साहस्रम् । वासनम् । १६६३ अध्यर्धपूर्वद्विगोलुंगसंज्ञाया । (५-१-२८) विंशतित्रिंशद्भयाम् इत्यनुवृत्तिमभिप्रेत्याह-असंज्ञायामिति । आभ्यामिति शेषः । विंशक इति । विंशत्या क्रीत इत्यर्थः । ड्वुन् अकादेशः । 'तिविंशतेर्डिति' इति तिशब्दस्य लोपः । त्रिंशक इति । ड्वुन् , अकादेशः, ':' इति टिलोपः । आद्यसूत्रं परिशेषात् संज्ञायामित्यभिप्रेत्याह-संज्ञायां विति । कंसात् । इत्यादि स्पष्टम् । शूर्पादञ् । आहीयेष्वर्थेष्विति शेषः । शूर्पशन दस्य परिमाणवा. चित्वात् ठनि प्राप्ते तदपवादोऽञ् पक्षे विधीयते । पत्ते ठञ् । शातमान । शातमानमिति । अत्र ठञ् प्राप्तः । वैशतिकमिति । विंशत्या *तं विंशतिकम् । संज्ञाशब्दोऽयम् । 'विंशतित्रिंशद्भयाम्' इति योगविभागात् वन् । विंशतिकेन क्रीतमिति विग्रहः । तत्र परिमाणविशेषस्य संज्ञा चेट्ठञ् त्रामः, अन्यस्य संज्ञा चेक् प्राप्तः । साहस्रमिति । सहस्रेण क्रीतमिति विग्रहः । 'संख्याया अतिशदन्तायाः-' इति कन् प्राप्तः। वासनमिति । वसनेन कीतमि ते विग्रहः । अत्र ठक् प्राप्तः । अध्यर्धपूर्व । अध्यर्धशब्दः पूर्वो यस्य सः अध्यर्धपूः, सच द्विगुश्चेति पर्युदासाद्विंशतित्रिंशयां कन् दुर्लभ इति भावः। विशक इति 'ति विंशतेर्डिति' इति तिशब्दस्य लोपः । अधिक इति । अर्धशब्दस्य कार्षापागार्धे रूढत्वाद्भागवदपेक्षयाऽत्रासामर्थ्य नाशङ्कयम् । प्रकरणादिवशेन भागविशेषे विज्ञाते सति नास्त्यस्यासामर्थ्यमिति बोध्यम् । एतेनार्धशब्दस्य सापेक्षत्वात्तदन्तादेव टिठन् , द्रोणार्धिकः, प्रस्थाधिक इति केषांचिदुक्तिः परास्ता । शूर्पादन । शूर्पशब्दस्य पी माणवाचित्वात्रि प्राप्ते तदपवादत्वेनान् पक्षे विधीयते । ठञ्ठकनामिति । शतमानं परिमाणं ततष्ठञ् प्राप्तः, विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् । असंज्ञायां हि विंशतित्रिंशयाम्-' इति ड्वुन् स्यात्। संज्ञा च यदि परिमाणस्य तदा ठञ् सः,अर्थान्तरस्य चेत्तर्हि ठक् प्राप्तः । वसनशब्दात्तु ठगेव । सहस्रशब्दस्य र ख्यावाचित्वात्ततः 'संख्याया अतिशदन्तायाः-' इति कन्प्राप्त इति विवेकः । अध्यर्धर्व । अध्यारूढमध Page #498 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६५ मध्यर्धपूर्वाद् द्विगोत्र परस्याीयस्य लुक्स्यात् । अध्यर्धकसम् । द्विकंसम् । संज्ञायां समाहारद्वन्द्वात्पञ्चमी । सौत्रं पुंस्त्वम् , तदाह-अध्यर्धपूर्वाद् द्विगोश्चेति । आीयस्येति । प्रत्यासत्तिलभ्यम् । अध्यर्धकसमिति । अध्यारुढमध यस्मिन् तद् अध्यर्धम् । 'प्रादिभ्यो धातुजस्य-' इति बहुव्रीही पूर्वखण्डे उत्तरपदलोपः। सार्धमित्यर्थः । अध्यर्धन कसेन क्रीतमिति विग्रहः । तद्धितार्थे द्विगुः । 'संख्याया अतिशदन्तायाः-' इति कन् । तस्यानेन लुगिति भावः । द्विकंसमिति । द्वाभ्यां कंसाभ्यां क्रीतमिति विग्रहः । ठको लुक् । नच अध्यर्धकंसमित्यत्रापि द्विगुत्वादेव सिद्धमिति वाच्यम्, किञ्चित्सङ्ख्याकार्यं कृत्वसुजादिकमध्यर्धशब्दस्य यस्मिन् तदध्यर्धम् 'प्रादिभ्यो धातुजस्य-' इत्युत्तरपदलोपः । अध्यर्धशब्दः पूर्वो यस्मिन्निति बहुव्रीहिगर्भबहुव्रीहौ कृते अध्यर्धपूर्व च द्विगुश्चेति द्वन्द्वः । सौत्रं पुंस्त्वम् । द्विगोरिति पञ्चमी न तु षष्ठीत्याशयेन व्याचष्टे-अध्यर्धपूर्वादित्यादि । एतच्च वृत्तिकाररीत्या व्याख्यातम् । अत्र वार्तिकं 'द्विगो कि तन्निमित्तग्रहणम्'। द्विगोर्निमित्तं यस्तद्धितस्तस्य लुगिति वक्तव्यम् । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पण क्रीतं द्विशौर्पिकमिति । पूर्वोक्तोदाहरणे तु ठओ लुङ् माभूदिति । ननु द्वयोः शूर्पयोः समाहारो द्विशूपी तया क्रीतमिति विग्रहे द्विशूर्पमिति रूपं न स्यात् । तद्धितस्यात्र द्विगोरनिमित्ततया 'अध्यध-' इति लुकोऽप्रवृत्तेः । द्विगोः परस्येति व्याख्यायां तु नः सिद्धमिष्टमिति चेत् । मैवम् , 'अर्थविशेषासम्प्रत्यये अतन्निमित्तादपि' इति वचनान्तरस्य वार्तिककृतैवोक्तत्वात् । यत्र तद्धिताथै द्विगुना सहार्थो न भिद्यते तत्र स तद्धितो यस्य निमित्तं न भवति तस्मादपि द्विगोः परस्य लुगिति वक्तव्यमिति तस्यार्थः । एवं च द्विशर्पमिति तद्धितार्थद्विगुना सह द्विशूा क्रीतमित्यस्यार्थो न भिद्यत इति समाहाराद् द्विगोः परस्य तद्धितस्य लुग् भवत्येवेति न काप्यनुपपत्तिः । वस्तुतस्तु सूत्रे द्विगोरिति षष्ठीमाश्रित्य 'द्विगोनिमित्तं यस्तद्धितः' इति व्याख्याय प्रथमं वार्तिकं प्रत्याख्यातुं शक्यम् । 'द्विशूर्ध्या क्रीतम्' इति विग्रहे तु द्विशुपादेव प्रत्ययो भवति अजाविकन्यायात्, न तु द्विशूशिब्दाद् इत्याश्रित्य द्वितीयमपि प्रत्याख्यातुं शक्यम् । नन्वध्यर्धशब्दः संख्यावाच्येव । तथा च लोके गण्यते 'एकोऽध्य? द्वौ' इति । अत एव अध्यर्धकमिति कन् , अध्यर्धकंसमिति तद्धितार्थे द्विगुः, अध्यर्धसांवत्सरिकमित्यादौ 'संख्यायाः संवत्सरसंख्यस्य च' इत्युत्तरपदवृद्धिश्च भवति, तत्किमध्यपूर्वप्रहणेनेति चेत् । अत्राहुः-'संख्याकार्यमेतस्य किंचिन्न' इति ज्ञापनार्थमिदम् । तेन कन् द्विगुसमासवृद्धिभ्योऽन्यत्र भवति । तदाथा-अध्यधं करोति । नेह कृत्वसुच् । यः सकृत्फलोपेतां क्रियामभिनिवर्त्य पुनस्तामेव कुर्वन् मध्ये निवर्तते स एवमुच्यते Page #499 -------------------------------------------------------------------------- ________________ ४६६] सिद्धान्तकौमुदी। [तद्धितेष्वाहीय. तु पाञ्चकलापिकम् । १६६४ विभाषा कार्षापणसहस्राभ्याम् । (५-१-२६) लुग्वा स्यात् । अध्यर्धकार्षापणम्, अध्यर्धकार्षापणिकम् । द्विकार्षापणम् , द्विकार्षापणिकम् । औपसङ्ख्यानिकस्य टिठनो लुक् । पक्षे अध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् , अध्यर्धसाहनम् । द्विसहस्रम्, द्विसाहस्रम् । १६६५ द्वित्रिपूर्वानिष्कात् । (५-१-३०) लुग्वा स्यात् । द्विनिष्कम् , नेति ज्ञापनार्थत्वात् । पाञ्चकलापिकमिति । पा कलापाः परिमाणमस्येति विग्रहे 'तद्धितार्थ' इति द्विगुः । 'तदस्य' इति तञ् । संख्यासंज्ञा. सूत्रभाष्ये तु अध्यर्धपूर्वात्' इति पाठो दृश्यते । नच द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् , तेन क्रीतं द्विशौपिकमिति पूर्वोक्तोदाहरणे ठओ लुक् स्यादिति वाच्यम् , द्विगुनिमित्तस्याहीयस्य लुगिति व्याख्यानादित्यलम् । विभाषा । लुग्वेति । आहीयस्येति शेषः । औपसंख्यानिकस्येति । 'कार्षापणाट्टिठन् वक्तव्यः' इत्युक्तस्येत्यर्थः । अध्यर्धप्रतिकमिति । प्रत्यादेशस्य टिठन्संनियोगशिष्टत्वात् प्रत्यादेशपक्षे टिठनो न लुगिति भावः । अध्यर्धसहस्रमिति । 'शतमान-' इति विहितस्याणो लुक् । लुगभावे तु 'सङ्ख्यायाः संवत्सरस् ख्यस्य च' इत्युत्तरपदवृद्धिः । द्वित्रिपूर्वानिष्कात् । लुग्वा स्यादिति । पार्टीयस्येति शेषः । द्विनिष्कमिति । ठो लुक् , समासाठ्ठकोऽसंभवात् । बिस्ताच्च । आ-- इति । पाञ्चकलापिकमिति । पञ्च कलापाः परिमाणमस्येति विग्रहे 'तद्धितार्थ-' इति समासः । तदस्य परिमाणम्' इति ठञ् । एवं पञ्चलोहितिकमपि बोध्यम् । पञ्च लोहिन्यो गुञ्जाः परिमाणमस्येति विग्रहे पूर्ववत्समासतद्धितौ । 'भस्याढे तद्धिते' इति पुंवद्भावाल्लोहिनीशब्दस्कारनकारयोरभावः । परिमाणविशेष-य नामधेये एते । असंज्ञाग्रहणं प्रत्ययान्तस्य विशेषणम् , न तु द्विगोः । एतच्च वृत्तिकृता सूत्राशयमनुरुध्य वर्णितमिति इहापि तथैवोक्तम् । भाष्यवार्तिकयोस्त्वसंज्ञाग्रहणं त्याख्यातम् । तथा हि-द्विगुविशेषणमसंज्ञाग्रहणम् । पञ्चकलापपञ्चलोहितशब्दौ ६ द्विगू कृततद्धितलुकावेव संज्ञे । यस्तु ताभ्यामुत्पद्यते ठन् स श्रूयते इति द्विगो निमित्तत्वेन तस्य लुगभावादिति । विभाषा। टिठनो लुगिति । प्रत्यादेशपक्षे तु लुङ न भवति, प्रत्यादेशस्य प्रत्ययसंनियोगशिष्टत्वादिति बोध्यम् । अध्यर्धसहस्रामेति । 'शतमान. विंशतिक-' इति विहितस्याणो लुक् । तदभावपक्षे तु 'संख्यायाः संवत्सरसंख्यस्य च' इत्युत्तरपदवृद्धिः । अध्यर्धशब्दः संख्यावाचीत्यधुनैवोत्तत्वात् । द्वित्रिपूर्वात् । अध्यर्धग्रहणमुत्तरार्थमनुवृत्तमपीह न संबध्यते । 'द्विगोः' इति तु स्'बध्यत एव षष्ठीसमासं व्यावर्तयितुम् । अत्र च व्याख्यानमेव शरणम् । 'द्वित्रिभ्यां विष्कात्' इत्येव Page #500 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६७ द्विनैष्किकम् । त्रिनिष्कम् , त्रिनष्किकम् । 'बहुपूर्वाचति घनव्यम्' (वा ३०२४) बहुनिष्कम् , बहुनैष्किकम् । १६६६ बिस्ताश्च । (५-१-३१) द्वित्रिबहुपूर्वाद्विस्तादाीयस्य लुग्वा स्यात् । द्विबिस्तम्, द्विबैतिकम् इत्यादि । १६६७ विशतिकात्खः। (५-१-३२) अभ्यर्धपूर्वाद् द्विगोरिस्येव । अध्यर्धर्विशतिकीनम् । द्विविंशतिकीनम् । १६९८ खार्या ईकन् । (५-१-३३) मध्यर्धखारीकम् । द्विखारीकम् । 'केवलायाश्चेति वक्रव्यम्' (वा ३०२५)। खारीकम् । १६६६ पणपादमाषशताद्यत् । (५-१-३४) अध्यर्धपण्यम् । द्विपण्यम् । यस्य लुग्वेति शेषः । द्विबिस्तं द्विबैस्तिकमिति । द्वाभ्यां विस्ताभ्यां क्रीतमिति विग्रहः । ठत्रः पाक्षिको लुक् । इत्यादीति । बहुविस्तं बहुबैस्तिकमित्युदाहार्यम् । 'बहुपूर्वाच' इति वार्तिकस्य अत्राप्यनुवृत्तेः भाष्ये उक्तत्वात् । विंशतिकात्खः । अध्यर्धपूर्वाद द्विगोरित्येवेति । पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्यासंभवाद् द्विगोरित्यस्य प्रयोजनाभावादननुवृत्तावपि इह तदनुवर्तत इति भावः । अध्यर्धविशतिकीनमिति । अध्यर्धविंशत्या क्रीतमध्यर्धविंशतिकम् । 'विंशतित्रिंशद्भयाम्' इति योगविभागात् कन् । अध्यर्धविंशतिकेन क्रीतमिति विग्रहः । द्विविंशतिकीनमिति । द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः । खार्या ईकन् । 'अध्यर्धपूर्वात्' इति 'द्विगोः इति चानुवर्तत इत्यभिप्रेत्यो. दाहरति-अध्यर्धखारीकम् , द्विखारीकमिति । तदस्य परिमाणम्' इति ठमि तस्य च लुकि प्राप्ते ईकन् । केवलायाश्चेति । खार्या इति शेषः । पणपाद । 'अध्यर्धपूर्वात्' इति 'द्विगोः' इति चानुवर्तत इत्यभिप्रेत्योदाहरति-अध्यर्घसिद्धे पूर्वग्रहणं चिन्त्यप्रयोजनमिति हरदत्तः । द्विनैष्किकमिति । 'प्राग्वतेष्ठञ्' मतान्तरे तु ठगिति मनोरमायाम् । 'निष्कादिभ्यः समासे ठगभावात् परिच्छेदकमात्रं गृह्यते' इति मतान्तरेऽपि ठमेव भवति, तन्मते उन्मानस्यापि परिमाणत्वाद् 'अगोपुच्छ-' इत्यादिना पर्युदस्तत्वाट्टगभावे निष्कादिभ्यष्ठमि प्राप्ते असमासे ठग्विधानेऽपि समासे ठन एव प्राप्तत्वादित्यन्ये । 'परिमाणान्तस्य-' इत्युत्तरपदद्धिः । 'द्विगोः' इति सम्बन्धानेह लुक् । द्वयोनिष्को द्विनिष्कस्तेन क्रीतं द्विनैष्किकम्। 'अध्यर्धपूर्व-'इत्यसम्बन्धादध्यर्धनैष्किकमित्यत्राप्यनेन लुङ् न भवति । बिस्ताश्च । चकारेण 'द्वित्रिपूर्वात्-' इत्यत्र पूर्वादित्यनुकृष्यते, तत्फलं तु 'चानुकृष्टं नोत्तरत्र' इत्युत्तरत्रानुवृत्त्यभावः । विशतिकात्खः। 'शतमानविंशतिक-'इत्पणि प्राप्ते तस्य च लुकि प्राप्ते खोऽत्र विधी. यते खार्याः। तदस्य परिमाणम्' इति ठमि प्राप्ते तस्य च लुकि प्राप्ते इकन् विधीयते। कन्विधी 'केऽणः' इति हव: स्यात् । इकन्विधावपि 'यस्येति च इति लोपादिलं Page #501 -------------------------------------------------------------------------- ________________ ४६८] सिद्धान्तकौमुदी। तद्धितेष्वाीयमध्यर्धपाद्यम् । द्विपाथम् । इह 'पादः पत्' (सू ४१४ ) इति न । 'यस्य-' (सू ३११) इति लोपस्य स्थानिवद्भावात् । 'पद्यत्यतदर्थे' (स १६1) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् । १७०० शाणाद्वा । (५-१-३५) यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् , अध्यर्धशाणम् । १७०१ द्वित्रिपूर्वादरच । (५-१-३६) 'शाणात्' इत्येव । चाद्यत् तेन त्रैरूप्यम् । 'परिमाणान्तस्यासंज्ञाशाणयोः' (सू १६८३) इति पर्युदासाद दिवृद्धिरेव । वैशापण्यम् । द्विपण्यमिति । अध्यर्धपणेन क्रीतमित्यर्थः । द्विपाद्यमिति । द्वाभ्यां पादाभ्यां चतुर्थांशाभ्यां क्रीतमिति विग्रहः । यति 'यस्येति च' इत्यकारलोपः। स्थानिवद्भावादिति। 'अचः परस्मिन्-' इत्यनेनेति भावः। प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात् पादशब्दोऽपि परिमाणविशेषवाची गृह्यते । शाणाद्वा । पक्षे ठभिति । 'आर्हात्' इति ठग्विधौ परिमाणपर्युदासाठ्ठजिति भावः । तस्य लगिति । ठञ इति भावः । अत्र 'अध्यधपूर्वात्' इति 'द्विगोः' इति चानुवर्तत इत्यभिप्रेत्य अध्यर्धपूर्वादुदाहरति-अध्यर्धशाण्यम् , अध्यर्धशाणमिति । यति ठो लुकि च रूपम् । अथ शाणान्तद्विगोरुदाहरणं न सिध्यतीति भावः । प्राण्यङ्गार्थस्यैवेति । अयं भावः- पादस्य पदाज्यातिगोपहतेषु' इस्त्र प्राण्यङ्गस्यैव हि पादस्य ग्रहणम् , तस्यैवाज्यातिनिर्गतिवचनैः संबन्धसंभवात् । तथा च 'पद्यति-' इत्यादावपि तस्यैवानुवृत्तिः । इह तु पणमाषाभ्यां साहचर्यास्परिमाणवाचिनो ग्रहणमिति । पक्षे ठअिति । यद पि शाण उन्मानम् , तथापि 'आत्-ि ' इति सूत्रे परिमाणग्रहणेन परिमीयते परिच्छिदातेऽनेनेति योगवृत्त्या परिच्छेदकमात्रं गृह्यत इति वादिनां मते अस्यापि पर्युदासाट्ठग नावे ठनिति भावः । मुख्यमते तु ठगेव बोध्यः । 'शाणाद्वा' इति सूत्रे शताच्चेति वक्तव्यम्' पूर्वेण नित्यं प्राप्ते विकल्पार्थम् । एवं च पूर्वसूत्रे शतग्रहणमकृत्वा शतशाणाभ्यां वेत्येव वक्तुंयुक्तमित्याहुः अध्यर्धशत्यम् , अध्यर्धशतम् । पञ्चशत्यम् , पञ्चशतम् । यद नावे संख्यालक्षणस्य कनो लुक् । 'शताच ठन्यतौ-' इति तु न प्रवर्तते, तत्रासमास पहणस्यानुवर्तनात् । द्वित्रिपूर्वादण च । वार्तिकमिदं वृत्तिकृता सूत्रेषु प्रक्षिप्तम् । भा यादिप्रामाण्याच्छतप्रहणमिह न सम्बध्यत इत्याशयेनाह-शाणावित्येवेति । न्यासकृता त्वरिवधायके वार्तिके सूत्रत्वभ्रमेण व्याख्यातम्-शतशाणाभ्यां वा' इति सूत्रयितव्ये 'पणपाद-' इति पूर्वसूत्रे शतग्रहणं क्रियते तस्येदं फलम्, शतशब्दः खरि तत्वेनानुवर्तमानोऽपि 'शाणाद्वा' इत्यत्रैव सम्बध्यते, तदुत्तरसूत्रे 'द्वित्रिपूर्वादण च' इत्यत्र तु न सम्बध्यते, तेन शतशब्दादण न-इति । तदिदं सामर्थ्यवर्णनमरिवधायकं यदि सूत्रं स्यात् Page #502 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३] बालमनोरमा तत्त्वबोधिनीसहिता। [४६६ णम्, द्विशाण्यम् , द्विशाणम् । इह ठादयत्रयोदश प्रत्यपाः प्रकृतास्तेषां समर्थविभक्रयोऽर्थाश्चाकाक्षितास्त इदानीमुच्यन्ते । १७०२ तेन क्रीतम् । (५-१-३७) ठन् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । वक्ष्यन् विशेषमाह-द्वित्रिपूर्वादण् च । वार्तिकमिदम् । चाद्यदिति । पाक्षिको यत् , चकारेण समुच्चीयत इत्यर्थः । ततश्च यतोऽमावे ठअपि लभ्यते । तदाहतेन त्रैरूप्यमिति । अणा यता ठञा चेत्यर्थः । अणि 'परिमाणान्तस्य-' इत्युत्तरपदवृद्धिमाशङ्कयाह-परिमाणान्तस्येति । ठादयस्त्रयोदशेति। प्राग्वते:-' इति ठञ् , 'आत्-ि ' इति ठक्, 'शताच-' इति ठन्यतौ, 'संज्ञयाः-' इति कन् , 'विंशतित्रिशद्याम्-' इति ड्वुन् , 'कंसात्-' इति टिठन् , 'शूपत्-ि ' इत्यञ्, 'शतमान-' इत्यण, 'विंशतिकात्खः' इति खः, 'खार्याः-' इति ईर्कन् , 'पणपाद-' इति यत् , 'द्वित्रि-' इति वार्तिकोक्ताण, इत्येवं त्रयोदशेत्यर्थः । प्रकृता इति । प्रक्रान्ता इत्यर्थः । समर्थविभनय इति । 'समर्थानां प्रथमाद्वा' इति सूत्रलभ्यसमर्थविशेषणीभूतप्रथमो चारिततत्तद्विभक्तय इत्यर्थः । तेन क्रीतम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं ठादयः स्युरित्यर्थः । ठमिति । उदाह्रियत इति शेषः । गोपुच्छेन क्रीतं गौपुच्छिकमिति । 'अगोपुच्छ' इति पर्युदासाठगभावे औत्सर्गिकष्ठमिति भावः । साप्ततिकमिति । सप्तत्या क्रीतमित्यर्थः । 'अगोपुच्छसङ्ख्या-' इति पर्युदासाठगभावे ठमिति भावः । प्रास्थिकमिति । प्रस्थेन क्रीतमित्या : । 'अगोपुच्छसङ्ख्यापरिमाणात्' तदा संगच्छते, नान्यथेत्यास्तां तावत् । त्रैरूप्यमिति । तदेतद्दर्शयति-द्वैशाणमित्यादिना । अण्येकम् , ठो लुकि द्वितीयम् , यति तृतीयम् । ठञादयस्त्रयोदशेति । ननु एकादशैव प्रत्ययाः प्रकृताः, सूत्रभेदेन विहितत्वात् । यत्प्रत्ययस्य द्विर्गणने तु द्वादश, इति त्रयोदशेत्येतद् दुरुपपादमेव । न च 'शूर्पादअन्यतरस्याम्' इत्यन्यतरस्यांप्रहणलभ्यठअमादाय त्रयोदशत्वं सूपपादमिति वाच्यम् , तुल्यन्यायेन 'शाणाद्वा' इति सूत्रलभ्यय?जोर्ग्रहणेन पञ्चदशत्वप्रसङ्गात् । नापि सूत्रोपात्तैदिशभिः सह 'द्वित्रिपूर्वादया च' इति वार्तिकोपात्तारप्रत्ययस्य गणनेन निर्वाहः । उक्तरीत्या 'कंसाठिन्' इति सूत्रे 'अर्धाच्चेति वक्तव्यम्', 'कार्षापणाठिन् वक्तव्यः' इत्यादिवार्तिकोलटिठन्प्रत्ययस्यापि ग्रहणप्रसङ्गादिति चेत् । अत्राहुः-'कंसाटिठन्' इति सूत्रस्थ एव टिठन् अर्धकार्षापणशब्दाभ्यां परामृष्ट इति स न भिद्यते। 'द्वित्रिपूर्वादण च' इति वार्तिकस्थोऽणा तु भिद्यते, 'शतमानविंशतिक-' इत्यणो दूरस्थत्वेन परामर्दुमशक्यत्वादिति । तेन क्रीतम । तेनेति तृतीयान्तात्क्रीतार्थे यथाविहितं प्रत्ययाः स्युः । ठअिति। 'आत्-ि ' इति सूत्रे 'अगोपुच्छ-' इत्यादिपर्युदासाटुगभावे गोपुच्छसप्ततिप्रस्थेभ्यष्ठम् Page #503 -------------------------------------------------------------------------- ________________ ५०० ] सिद्धान्तकौमुदी | | तद्धितेष्वाहीय. 1 ठक् । नैष्किकम् । १७०३ इगोण्याः । (१-२-५०) गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः । १७०४ तस्य निमित्तं संयोगोत्पातौ । ( ५-१-३८ ) संयोगः संबन्धः । उत्पातः शुभाशुभसूचकः । शतिकः शत्यो वा धनपतिसंयोगः । शत्यं शतिकं वा दक्षिणाक्षिस्पन्दनम्, शतस्य निमित्तमित्यर्थः। ‘वातपित्तश्लेष्मभ्यः शमनको पनयोरुपसंख्यानम् ' ( वा ३०३३ ) | वातस्य शमनं कोपनं वा वातिकस् । पैत्तिकम् । श्लैष्मिकम् । 'संनिपाताच्चेति वक्तव्यम्' (वा ३०३७ ) सान्निपातिकम् । १७०५ गोद्यवोऽसंख्यापरिमाणाश्वादेर्यत् । (५-१-३६) गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्व्यचःइति पर्युदासाट्ठगभावे ठञिति भावः । ठगिति । उदाह्रियत इति शेषः । नैष्किकमिति । निष्केण क्रीतमित्यर्थः । 'समासे निष्कादिभ्यः' इति ठगिति भावः । इगोण्याः । लुकोऽपवाद इति । 'लुक्तद्धितलुकि' इति प्राप्तस्येत्यर्थः । पञ्चगोगिरिति । आर्हीयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः । नच उपसर्जनह्रस्वत्वेनैव इदं सिद्धमिति वाच्यम्, इत्त्वविध्यभावे 'लुक्तद्धितलुकि' इति ङीषो निवृ तावदन्तत्वात् टापि पञ्चगोणेत्यापत्तेः । मूलद्रव्यवाचिन एवं तृतीयान्तात्क्रीतार्थे प्रत्यया भवन्ति, नतु देवदत्तेन क्रीतमित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम् । तस्य निमित्तम् । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे यथाविहितं षष्ठ्यन्तात् ठञादयः स्वरित्यर्थः । शत्यः शतिको वेति । शतस्य निमित्तमित्यर्थः । 'शताच -' इति यट्ठनौ धनपतिसंयोग इति । याजनशुश्रूषादिसंपर्क इत्यर्थः । उत्पाते उदाहरति-शत्यं शतिकं वा दक्षिणा क्षिस्पन्दनमिति । शतस्य निमित्तमित्यर्थः । सूचकत्वमेवात्र निमित्तत्वमिति भावः । उपसंख्यानमिति । आयस्य ठक इति शेषः । कोपनं वृद्धिः । संनिपाताच्चेति । 'तस्य निमित्तं संयोगोत्पात' इत्यर्थे ठगिति शेषः । सांनिपातिकमिति । संनिपातो वातपित्तश्लेष्मणां दोषाणां संकर इति वैद्य के प्रसिद्धः । तस्य निमित्तं नपातिकम्, ज्वरप्रकोपादौ पथ्यभक्षादिसंयोगः संनिपातसूचकं जिह्वाकातवादि च । गोद्यचः । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे गोशब्दाद् व्यचश्च षष्ठ्यन्ताद् यत्प्रत्ययः स्यात् नतु सङ्ख्यायाः परिमाणाद् अश्वादेश्चेत्यर्थः । ठकोभवतीत्यर्थः । ननु देवदत्तेन क्रीतं पाणिना क्रीतं संतोषेण क्रीतमित्यादावतिप्रसङ्ग इति चेत् । अत्राहुः — करणे तृतीयैवेह समर्थविभक्तिः, सापि मूल्यद्रव्यसमर्पकाच्छन्दादुत्पन्ना, न त्वन्यापि, अन्यत्र त्वनभिधानान्न प्रत्ययः । एतच 'तद्धिताः' इति महा ज्ञाकरणाल्लभ्यते, तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इति व्याख्यानादिति । लुको अपवाद इति । 'लुक्तद्धितलुकि' इति प्राप्तस्य स्त्रीप्रत्ययस्य लुकोऽपवाद इत्यर्थः । 1 Page #504 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५०१ यशस्यः । धन्यः । स्वर्ग्यः । 'गोयचः ' किम् - विजयस्य वजैयिकः । ' श्रसंख्या- ' इत्यादि किम् - पञ्चानां पञ्चकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । श्रश्वादिआश्विकम् । श्रश्मिकम् | 'ब्रह्मवर्चसादुपसंख्यानम् ' ( वा ३०३५ ) । ब्रह्मवर्चस्यम् । १७०६ पुत्राच्छः । ( ५-१-४० ) चाद्यत् । पुत्रीयः, पुत्र्यः । १७०७ सर्वभूमिपृथिवीभ्यामण । ( ५-१-४१) सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते । १७०८ तस्येश्वरः । ( ५-१-४२) । १७०६ तत्र विदित इति च । ऽपवादः । यच इति । उदाहियत इति शेषः । धन्य इत्यादि । धनस्य यशसः स्वर्गस्य च निमित्तमित्यर्थः । विजयस्येति । निमित्तमिति शेषः । वैजयिक इति । श्रयिष्ठक् । पञ्चानामिति । निमित्तमिति शेषः । पञ्चकमिति । 'सङ्ख्यायाः ' इति कन् । सप्तकमिति । सप्तानां निमित्तमित्यर्थः । प्रास्थिक इति । प्रस्थस्य निमित्तमित्यर्थः । 'आर्थात् -' इति ठग्विधौ परिमाणपर्युदासात् प्रा. ग्वतीयष्ठञ् । खारीकमिति । खार्या निमित्तमित्यर्थः । खार्या ईकन् । अश्वादीति । प्रत्युदाहरणसूचनमिदम् । श्राश्विकमिति । श्रश्वस्य निमित्तमित्यर्थः । आर्हीयष्ठक् । आश्मिकमिति । अश्मनो निमित्तमित्यर्थः । श्रयिष्ठक् । 'नस्तद्धिते' इति टिलोपः । ब्रह्मवर्चसादिति । 'गोद्यचः' इति सूत्रे 'ब्रह्मवर्चसाच ' इति वक्तव्यमित्यर्थः । ब्रह्मवर्चस्यमिति । ब्रह्मवर्चसस्य निमित्तमित्यर्थः । पुत्राच्छु च । तस्य निमित्तमित्येव । कथं तर्हि 'रेभिर यतात्मानः पुत्रीयामिष्टिमृत्विजः” इति ? नहीष्टिः संयोग उत्पातो वा । उध्यते - संयुज्यतेऽनेनेति संयोगः । इष्टथा हि पुत्रेण फलेन युज्यते यष्टा । सर्वभूमि । तस्य निमित्तमित्येव । सर्वभूमि, पृथिवी आभ्यां यथासङ्ख्यमणत्रौ स्तः । सार्वभौम इति । ठञोऽपवादअण् । पार्थिव इति । पृथिव्या निमित्तं संयोग उत्पातो वेत्यर्थः । स्त्रियां पार्थिवी । सार्वभौमशब्दे कथमुभयपदवृद्धिरित्यत आह- सर्वभूमिशब्दोऽनुशविकादिषु पठ्यत इति । तथा च ' अनुशतिकादीनां च' इत्युभयपदवृद्धिरिति भावः । तस्येश्वरः । तत्र विदित इति च । सूत्रद्वयमिदम् । 'सर्वभूमिपृथिवीभ्याम् ' पञ्चकमिति । संख्यालक्षणः कन् । श्रश्मिकमिति । श्रश्मनो निमित्तमित्यर्थे ठक् । 'नस्तद्धित' इति टिलोपः । पुत्राच्छ च । 'गोद्यचः -' इति नित्यं यति प्राप्ते वचनम् । कथं पुत्रीयः क्रतुरिति । नहि क्रतुः संयोगो नाप्युत्पात इति चेत् । अत्राह हरदत्तः —— संयुज्यतेऽनेनेति व्युत्पत्त्या क्रतुरपि संयोग एव, यागकरणेन हि पुरुषः फलेन संयुज्यतेऽतो यागादिरपि संयोगः, न केवलं सम्बन्ध एवेत्याग्रह इति। सर्वभूमि । Page #505 -------------------------------------------------------------------------- ________________ ५०२ ] सिद्धान्तकौमुदी । [तद्धितेष्वाय ( ५-१-४३ ) । सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः । १७१० लोकसर्वलोकाट्ठञ् । ( ५-१-४४ ) 'तत्र विदितः' इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः सार्वलौकिकः । १७११ तस्य वापः । ( ५-१-४५ ) उप्यतेऽस्मिन्निति वापः क्षेत्रम् | प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् । १७१२ पात्रात्ष्ठन् । ( ५- १ - ४६ ) पात्रस्य वापः क्षेनं पात्रिकम्, पात्रिकी क्षेत्रभक्तिः । १७१३ तदस्मिन्वृद्धयायलाभशुल्कोपदा दीयते । ( ५-१-४७ ) वृद्धिर्दीयते इत्यादिक्रमेण प्रत्येकं इत्यनुवर्तते । 'तस्य निमित्तं संयोगोत्पात' इति तु निवृत्तम्, पुनः 'तस्य' इत्युक्तेः । तस्येश्वर इत्यर्थे षष्ठयन्तात्तत्र विदित इत्यर्थे तु सप्तम्यन्ताद् अस्त इत्यर्थः । योगविभागो यथासंख्यनिवृत्त्यर्थः, उत्तरसूत्रे 'तत्र विदितः' इत्यस्यैवानुवृत्त्यर्थश्च । लोकसर्व । तत्र विदित इत्यर्थ इति । योगविभागासामर्थ्यात् 'तम्येश्वरः' इति नानुवर्तत इति भावः । लौकिक इति । लोकेषु विदित इत्यर्थ: । सर्वलोकशब्दे विशेषमाह – अनुशतिकादित्वादिति । तस्य वापः । अस्मिन्नर्थे षष्ठन्ताद्यथाविहितं ठञादयः स्युरित्यर्थः । प्रास्थिकमिति । स्थपरिमितबीजवापयोग्यं क्षेत्रमित्यर्थः । श्रर्थात् -' इति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । द्रौणिकमिति । निष्कादित्वाट्ठक् । खारीकमिति । खाईन् । द्रोणस्य खार्याश्च वाप इत्यर्थः । पात्रात् ष्ठन् । 'तस्य वापः' इत्येव । पात्रिकमिति ! पात्रस्य वाप इत्यर्थः । षित्त्वं ङीषर्थमित्याह - पात्रिकीति । तदस्मिन् । वृद्धि, श्राय, लाभ, शुल्क, उपदा एष द्वन्द्वात्प्रथमाबहुवचनम् ननु तर्हि दीयत इति कथमेकवचनमित्यत आह-वृद्धिर्दीयत इत्यादि कमेण । एवं च तदस्मिन्वृद्धिर्दीयते, तदस्मिन् आयो दीयते, तदस्मिन् लाभो दीयते, तदस्मिन् शुल्को दीयते, तदस्मिन्नुपदा दीयते इत्यर्थेषु प्रथमान्ताद्यैथाविहितं ठञादयः आभ्यां यथासंख्यमणनौ स्तः । तस्येश्वरः । 'तस्य निमित्तम्' इत्यतोऽनुवृत्त्यैव सिद्धे पुनः 'तस्य' इति निर्देशो निमित्तरूपप्रत्ययार्थस्य निवृत्तये । अन्यथा हि संयोगोत्पाताविवेश्वरोऽपि प्रत्ययार्थस्य विशेषणं संभाव्येत । तत्र विदित इति च । योगविभाग उत्तरार्थो यथासंख्यनिवृत्त्यर्थश्च । तस्य वापः । 'तस्य' इति वापापेक्षया कर्मणि षष्ठीत्याह - प्रस्थस्येति । कर्तरि षष्ठयां तु देवदत्तस्य वापः क्षेत्रमित्यादौ स्यादिति भावः । खारीकमिति । 'खार्या ईकन्' । तदस्मिन् । प्रथमासमर्थाद् अस्मिन् इति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति । शुल्कग्रहणं प्रपञ्चार्थम्, तस्याप्याअविशेषत्वात् । तथा च 'ठगायस्थानेभ्यः' इति ठग् भवति, शौल्कशालिक इति Page #506 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५०३ सम्बन्धादेकवचनम् । पक्ष अमिन् वृद्धिः प्रायः लाभः शुल्कम् उपदा वा दीयते पञ्चकः । शतिकः, शत्यः । साहनः । उत्तमर्णेन मूलातिरिक्त प्रामं वृद्धिः । प्रामादिषु स्वामिग्राह्यो भाग प्रायः । विक्रेत्रा मूल्यादधिकमासं लाभः । रक्षानिवेशो राजभागः शुल्कः । उस्कोच उपदा । 'चतुर्थ्यर्थे उपसंख्यानम्' (वा ३०३६ )। पच अस्मै वृद्धयादिर्दीयते पञ्चको देवदत्तः । 'सममब्राह्मणे दानम्' इतिवदधिकरणस्वविवक्षा वा । १७१४ पूरणार्धाहन् । (५-१-४८) यथाक्रमं ठक्टिठनोरपवादः । द्वितीयो वृद्धयादिरसिन्दीयते द्वितीयिकः । तृतीयिकः । अधिकः । अंर्धशब्दो रूपकस्यार्धे रूढः । १७१५ भागाद्यच्च । (५-१-४६) चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । स्युरित्यर्थः । पञ्चक इति । 'संख्यायाः-' इति कन् । शतिकः, शत्य इति । शतमस्मिन्वृद्धिः, प्रायः, लाभः, शुल्कः, उपदा वा, दीयत इति विग्रहः । 'शताच-' ठन्यतौ । साहस्र इति । सहस्रमस्मिन्दीयते इत्यादि विग्रहः । 'शतमानसहस-' इत्यण । रक्षानिर्वेश इति । रक्षा प्रजापरिपालनम् , तदर्थो निर्देशो मृतिः, रक्षानिवेशः । उत्कोच इति । मह्यं किञ्चिद्दत्तं चेत् तव राजद्वारेऽनुकूलो भवामीत्यादि समयं कृत्वा यद् गृह्यते तदुत्कोच इत्युच्यत इत्यर्थः । चतुर्थ्यर्थ इति । तदस्मै वृद्धयादि दीयते इत्युपसंख्यातव्यमित्यर्थः । सममब्राह्मणे इति । एवं च संप्रदानस्यैवाधिकरणत्वविवक्षया इष्टसिद्धरुपसंख्यानमिदं नादर्तव्यमिति भावः । पूरणार्धाट्ठन् । तदस्मिन् वृद्धयादि दीयत इत्यर्थे पूरणप्रत्ययान्तादर्धशब्दाच प्रथमान्ताहन् स्यादित्यर्थः। द्वितीयिकः । तृतीयिक इति । 'आत्-ि ' इति ठकोऽपवादष्ठन् । अधिक इति । अर्धमस्मिन्वृद्धयादि दीयत इत्यर्थः । 'अर्धाच्चेति वक्तव्यम्' इति टिठनोऽपवादष्टन् । टिठनि सति तु स्त्रियां ठीप् स्यात् । अधिकेति तु टाबेवेष्यते । रूपकस्येति । रूप्यस्य कार्षापणस्येत्यर्थः । रूढ इति । अन्यथा अर्धशब्दस्य रूप्यकसापेक्षत्वादसामर्थ्य स्यादिति भावः । रूप्यकस्यार्धे रूढ इत्यत्र प्रमाणं मृग्यम् । असामर्थ्य तु नित्यसापेक्षत्वाद्वारयितुं शक्यमित्याहुः । भागाद्यप। हरदत्तः । उपदा दीयत इति । जसः सस्य रुत्वे यत्वे च यलोपः। साहस्र इति । 'शतमान-' इत्यादिनाए । रक्षानिवेश इति । निर्वेशो मृतिः। रक्षानिमित्तको निर्वेशो रक्षानिर्देशः । सम्बन्धषष्ठया समासः । सममित्यादि । एवं च संप्रदानस्यैवाधिकरणत्वविवक्षयेष्टसिद्धौ उपसंख्यानं नादर्तव्यमिति भावः । पूरणार्धाहन् । पूर्यतेऽनेनेति पूरणोऽर्थस्तद्वाचिनोऽर्थशब्दाच ठन् स्यात् । अधिक इति । 'अर्धाचेति वक्तव्यम्' इति टिठन् प्राप्तः, सति च तस्मिन् त्रियां डीप् स्यात् । इष्यते तु Page #507 -------------------------------------------------------------------------- ________________ ५०४ ] सिद्धान्तकौमुदी। तद्धितेष्वाहीय. भागो वृद्धयादिरस्मिन्दीयते भाग्यम् , भागिकं शतम्। भाग्या, भागिका विंशतिः । १७१६ तद्धरति वहत्यावहति भाराद्वंशादिभ्यः । (५-१-५०) वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद् द्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐतुभारिकः । 'भारावं. शादिभ्यः' इत्यस्य व्याख्यान्तरं 'भारभूतेभ्यो वंशादिभ्यः' इति । भारभूतान्वंशान्हरति वांशिकः । १७१७ वस्नद्रव्याभ्यां ठन्कनौ। (-१-५१) यथासंख्यं स्तः। वस्त्रं हरति वहत्यावहति वा वनिकः । द्रव्यकः । १७१८ सम्भवत्यवहरति पचति । (५-१-५२) प्रस्थं सम्भवति प्रास्थिक कटाहः । प्रस्थं तदस्मिन्वृद्धयादि दीयत इत्यर्थे भागशब्दात्प्रथमान्ताद्यत्प्रत्ययश्च स्यादित्यर्थः । चाट्रनिति । पूर्वसूत्रादनुकृष्यत इति शेषः । भागशब्दोऽपि रूप्यकस्यार्ध इति । वर्तत इति शेषः। तद्धरति वहति । वंशाद्भारादिभ्य इत्येकवचनबहुवचनान्तयोः सामानाधिकरण्यासंभवाद् वैयधिकरण्येनान्वयः स च व्युत्क्रमो व्याख्यानात् , तदाह-वंशादिभ्यः पर इति । द्वितीयान्तादित्यनन्तरं हरति वहति प्रावहतीत्यर्थे यथाविहितं प्रत्ययः स्यादिति शेषः । हरणं कथंचिद्देशान्तरप्रापणं चौथे वा । शकटादिना प्रापणं वहनम् । स्वसमीपं प्रापणभावहनम् उत्पादनं वा। वांशभारिक इति । 'आर्हात्-' इति ठक् । अत्र पवम्यन्तयोव्युत्क्रमेण वैयधिकरण्येन चान्वये प्रमाणाभावादाह-भाराद्वंशादिभ्य इत्यस्य व्याख्यान्तरमिति । भारात्परेभ्यो वंशादिभ्य इत्यर्थभ्रमव्यावृत्तये व्याख्य न्तरं विशदयतिभारभूतेभ्यो वंशादिभ्य इतीति । वंशादिशब्दानां भारभृतत्वं तु भारभूतवंशादिवृत्तेर्बोध्यम् । अस्मिन्व्याख्याने भारादित्येकवचनमार्षम् । यद्वा प्रत्येकान्वयाभिप्रायम् । वस्तुतो भारभूता ये वंशादयः तद्वाचिभ्य इति यावत । वस्नद्रव्याभ्याम् । 'तद्धरति वहत्यावहति' इत्यनुवर्तत इत्यभिप्रेत्याह-वस्नं हरतीत्यादि । संभवत्यवहरति । तद् इति द्वितीयान्तमनुवर्तते । द्वितीयान्तात्संभवतीत्याद्यर्थेषु यथाविहितं प्रत्ययः स्यादित्यर्थः । प्रास्थिक इति । 'आत्'ि इत्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वतीयष्ठञ् । ननु संभवतीत्यस्य उपपद्यत इत्यटाप् । रूपकस्येति । रूपकं कार्षापणम् । रूढ इति । तथा च भागवव्यसापेक्षत्वेनासामध्यमिह नोद्भावनीयमिति भावः । भारभूतेभ्यो वंशादिभ्य इति। ननु वंशादयः शब्दास्ते कथं भारभूता इत्यत आह-भारभूतानिति । भारशब्दोऽर्थद्वारा वंशादीनां विशेषणमिति भावः । 'भारेभ्यः' इति वक्तव्ये प्रत्येकं सम्बन्धविवक्षया सूचे 'भारात्' इति निर्देशः । वस्तिक इति । वनं मूल्यम् । सम्भवत्य Page #508 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३] बालमनोरमा तत्त्वबोधिनीसहिता। [५०५ स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति, उपसंहरति पचति वेत्यर्थः । 'तत्पचतीति द्रोणादरच' (वा ३०३८)। चाहम् । द्रोणं पचतीति द्रौणी, द्रौणिकी। १७१६ आढकाचितपात्रात्खोऽन्यतरस्याम् । (५-१-५३) पक्षे ठञ् । माढकं सम्भवति अवहरति पचति वा आठकीना, बाढकिकी । प्राचितीना, प्राचितिकी । पात्रीणा, पात्रिकी । १७२० द्विगोः ष्ठंश्च । (५-१-५४) 'माढकाचितपात्रात्' इत्येव । आढकाचन्ताद द्विगोः सम्भवत्यादिध्वर्थेषु छन्खौ वा स्तः । पक्षे ठम् । तस्य 'अभ्यर्ध-' (सू १६९३) इति लुक् । पित्त्वान्डीए । व्याढकिकी, याढकीना। 'द्विगोः' (सू ४७१ ) इति र्थकत्वादकर्मकत्वात्प्रस्थं संभवतीति कथं द्वितीयेत्यत आह-समावेशयतीत्यर्थ इति । उपसर्गवशादिति भावः । प्रास्थिकी ब्राह्मणीति । ठअन्तत्वाद् डीबिति भावः । अवहरतीत्येतव्याचष्टे-उपसंहरतीति । किंचिदूनमपि यथा प्रस्थपरिमितं भवति तथा मिमीत इत्यर्थः । तत् पचतीति द्रोणादण चेति । वार्तिकमिदम् । द्वितीयान्ताद् द्रोणशब्दात् पचतीत्यर्थेऽण च स्यादित्यर्थः । पचतिग्रहणं संभवत्यवहरतिनिवृत्त्यर्थम् । चामिति । 'आत्'ि इति ठग्विधौ परिमाणपर्युदासात् ठगभावे प्राग्वतेष्टमेव चकारादनुकृष्यत इति भावः। द्रौणीति । अणन्तत्वाद् ङीप् । द्रौणिकीति । ठमन्तत्वाद् डीप । पाढकाचित । आढक, प्राचित, पात्र एभ्यो द्वितीयान्तेभ्यः संभवत्यवहरतिपचतीत्यर्थेषु खो वा स्यादित्यर्थः । पक्षे ठअिति । 'आत्'ि इत्यतः परिमाणपर्युदासान्न ठगिति भावः । द्विगोष्ठंश्च । ष्ठन्खाविति । चकारेण खस्यानुकर्षादिति भावः । वा स्त इति । अन्यतरस्यामित्यनुवृत्तेरिति भावः । पक्षे ठअिति । 'आत्'ि इत्यत्र परिमाणपर्युदासान्न ठगिति भावः । षित्त्वाद् ङीष् । द्वथाढकिकीति । द्वे आढके संभवत्यवहरति पचति वेत्यर्थे 'तद्धितार्थ-' इति द्विगुः, छन् , षित्त्वाद् डीषित्यर्थः । अत्र 'न य्वाभ्याम्-' इत्यैज् न, वृद्धिनिषेधसंनियोगशिष्टत्वाद् णित्किवहरति ।आधारप्रमाणादाधेयप्रमाणस्य यदनाधिक्यं तदुपसर्जनं धारणं संभवतेरर्थः। तेन सकर्मकत्वात्तदिति द्वितीयान्तानुवृत्तिन विरुध्यते तदाह प्रस्थं स्वस्मिन्निति । प्रास्थिकीति । ठवन्तत्वान्छीप् । अवहरतीत्येतद्वथाचष्टे उपसंहरतीति । तत्पचतीति । वार्तिकेऽस्मिन्पचतिग्रहणं संभवत्यवहरतीतिनिवृत्त्यर्थम् । द्रोणपरिमिते बीह्यादौ द्रोणशब्दो लाक्षणिकः । पक्षे ठभिति । ढकादीनां परिमाणत्वाह नेति भावः । द्विगोष्ठंश्च । ठनिति छेदः, तदाह षित्वादिति । ध्याढकिकीति । 'न य्वाभ्याम्-' इत्यैजागमो न शङ्कयः, वृद्धिनिषेधसंनियोगेन तद्विधानाद HTHENHE Page #509 -------------------------------------------------------------------------- ________________ ५०६ ] सिद्धान्तकौमुदी | [तद्धितेष्वार्हीय ङीप् । व्याढकी । याचितिकी, याचितीना । 'अपरिमाया-' ( सू ४८० ) इति ङीनिषेधात् व्याचिता । द्विपात्रिकी, द्विपात्रीणा, द्विपात्री । १७२१ कुलिजाल्लुक्खौ च । ( ५- १ - ५५ ) कुलिजान्ताद् द्विगोः सम्भवत्यादिवर्थेषु लुक्खौ वा स्तः । चाश्व । लुगभावे ठञः श्रवणम् । द्विकुलिजी, द्विकुलिजीना, द्विकुलिजिकी, द्वैकुलिजिकी । १७१२ सोऽस्यांशवस्नभृतयः ! ( ५- १ - ५६ ) श्रंशो भागः । वस्त्रं मूल्यम् । भूतिर्वेतनम् पञ्च शो वस्त्रं भृतिर्वा अस्य पञ्चकः । १७२३ तदस्य परिमाणम् । ( ९-१-५७ ) प्रस्थ I 1 दभावेन वृद्धेरप्रसक्तेः । द्वयाढकीनेति । खे रूपम् । द्विगः इति ङीप् । द्वयाढकीति । ठमि 'अध्यर्ध - ' इति तस्य लुक् । 'द्विगो:' इति ङीबित्यर्थः प्रत्ययलक्षणमाश्रित्य उनन्तलक्षणङीप् तु नेति 'अपरिमाणबिस्त - ' इत्यत्रोक्तम् । 'अध्यर्ध-' इति लुक् ठञ एव, नतु ठन्खयोरपि विधिसामर्थ्यात् । द्वयाचितिकी, द्वयाचितीनेति । ष्ठनि खे च रूपम् । अथ याचितशब्दात् जो लुकि 'द्विगो:' इति ढीपमाशङ्कयाह- अपरिमाणेति ङीब्निषेधादिति । द्विपात्रिकीत्यादि । कुलिजाल्लुक्खौ च । अन्यतरस्यामित्यनुवृत्तिमभिप्रेत्याह तुक्खौ वा स्त इति । 'आहत' इत्यत्र परिमाणपर्युदासाट्ठगभावे प्राग्वहतीयस्व ठञः 'अध्यर्ध-' इति नित्यं लुकि प्राप्ते लुको विकल्पविधिः । चात् ष्ठंश्चेति । तथा च ठञो लुक् खश्च ष्ठंश्चेति त्रितयं विकल्प्यते । तत्र ष्ठनः खस्य ठञो लुकश्च भावे ठञः श्रवणं पर्यवस्यति, तदाह लुगभावे उञः श्रवणमिति । द्विकुलिजीति । ठञो लुकि रूपम् । 'द्विगोः' इति ङीप् । द्विकुलिजीनेति । खे रूपम् । द्विकुलिजिकीति । ष्ठनि रूपम् । द्वैकुलिजिकीति । ठमो लुगभावे रूपम् । परिमाणान्तस्येत्यत्र 'प्रसंज्ञाशाण कुलिजानाम्' इत्युकेर्नोत्तरपदवृद्धिः । सोऽस्यांश | 'स' इति प्रत्येकमंशादिष्वन्वेति । सोऽस्यांशः तदस्य वस्नम्, सास्य मृतिः, इत्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थ: : पञ्चक इति । 'संख्यायाः -' इति कन् । तदस्य परिमाणम् । श्रस्मिन्नर्थे थमान्ताद्यथाविहितं वृद्धेश्च प्राप्त्यभावात् । अपरिमाणेति । श्रचितस्य परिमाण त्वेऽपि तस्मिन् सूत्रे विशिष्यग्रहणादिति भावः । द्वैकुलिजिकीति । 'असंज्ञाशारयोः' इत्यत्र कुलिजशब्दोऽपि इष्यते, तेनोत्तरपदवृद्धिर्नेत्याहुः । तदस्य परिमाण प् । इह परिमाणशब्देन परिच्छेदकमात्रं गृह्यते, न तु सर्वतोमानमेव, उत्तरसूत्रे राख्यायाः परिमाणेन विशेषणात् । षष्टिजीवितं परिमाणमस्य षाष्टिकः । ' सोऽस्य' इति वर्तमाने पुनः ' तदस्य' इति प्रहणात् 'द्वे षष्टी जीवितं परिमाणमस्य द्विषाष्टिक षाष्टिकः' इत्यादौ , Page #510 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३] बालमनोरमा-तस्वबोधिनीसहिता। [५०७ परिमाणमस्य प्रास्थिको राशिः । १७२४ संख्यायाः संज्ञासासूत्राध्ययनेषु । (५-१-५८) पूर्वसूत्रमनुवर्तते । तत्र 'संज्ञायां स्वार्थे प्रत्ययो वाच्यः' (वा ३०३१) । यद्वा कयोरितिवत्सङ्ख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः । - पञ्चैव पञ्चकाः शकुनयः । पक्ष परिमाणमेषामिति वा । सङ्के पश्चकः । सूत्रे अष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृथगुपात्तम् । प्रत्ययाः स्युरित्यर्थः । प्रास्थिक इति । 'आत्'ि इत्यत्र परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । अत्र संख्यापि परिमाणम् । यद्यपि 'अगोपुच्छसंख्यापरिमाणात्-' इति पृथग्ग्रहणात् संख्या न परिमाणम् , तथाप्यत्र परिच्छेदकत्वात् संख्यापि परिमाणम् , उत्तरसूत्रे संख्यायाः परिमाणेन विशेषणाल्लिनात् । तेन षष्टिः परिमाणमस्य षाष्टिकमिति सिद्धम् । द्विषष्टयादिभ्यस्त्वनभिधानानेति भाष्ये स्पष्टम् । संख्यायाः। अनुवर्तत इति । तथा च तदस्य परिमाणमित्यर्थे प्रथमान्तात् संख्यात्मकपरिमाणवाचिनो यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायां स्वार्थे प्रत्ययो वाच्य इति । पञ्चकाः शकुनय इत्यत्र पञ्च परिमाणमेषामित्यर्थो न संभवति, 'श्रा दशतः संख्याः संख्येये' इति पञ्चन् शब्दस्य संख्येयवृत्तित्वेन पञ्च परिमाणमिति सामानाधिकरण्यानुपपत्तेः । अतः संज्ञायां स्वार्थ एव संख्यायाः प्रत्यय इति पर्यवस्यतीति भावः। यद्वेति । द्विशब्दस्य एकशब्दस्य च संख्ययवृत्तित्वेऽपि 'धेकयोः-' इति समासवृत्तावेकत्वद्वित्वपरत्वमभ्युपगम्यते । अन्यथा 'द्वथेकयोः-' इति द्विवचनानुपपत्तेः । तद्वत्पञ्चकाः शकुनय इति तद्धितवृत्तावपि पचनशब्दस्य पञ्चत्वसंख्यापरतया पञ्चत्वं परिमाणमस्येति सामानाधिकरण्यं स्वीकृत्य पञ्चत्ववाचिनः पञ्चन्शब्दात् पञ्चत्वरूपपरिमाणवति प्रत्यय उपपद्यत इत्यर्थः। तत्र संज्ञायां स्वार्थे उदाहरतिपञ्चैवेति । परिमाणिनि प्रत्ययमुदाहरति पश्च परिमाणमिति । पञ्चत्वमित्यर्थः । सङ्घ इति । उदाहरणं वक्ष्यत इत्यर्थः । पञ्चक इति । पञ्चत्वमस्य संघस्य परिमाणमित्यर्थः । संघस्य पञ्चत्वं तु अवयवद्वारा बोध्यम् । सूत्र इति । उदाह्रियत इति शेषः । अष्टकं पाणिनीयमिति । सूत्रमिति शेषः । अष्टावध्यायाः परि. माणमस्येति विग्रहः । अत्राष्टत्वं अध्यायद्वारा सूत्रेऽन्वेति । सूत्रशब्दश्च सूत्रसंघपरः, एकस्मिन् सूत्रे अष्टकत्वस्यासंभवात् । नन्वेवं सति संघग्रहणेनैव सिद्धे सूत्र'अध्यर्ध-' इति लुङ् न भवति । स्पष्टं चेदं काशिकादौ । पूर्वसूत्रमिति । तेन पञ्च गावः परिमाणस्य पञ्चको गोसङ्घ इत्यादि सिध्यति । यदा तु प्रकृत्यर्थस्यैव परिच्छेदिका संख्या पञ्च गावोऽस्य सक्स्येति, तदा तु प्रत्ययो न भवति, परिमाणस्य प्रत्ययार्थत्वाभावात । एतच्च 'श्रादिगोपुच्छ-' इति सूत्रे कैयटे स्पष्टम् । खाचे उदाहरति Page #511 -------------------------------------------------------------------------- ________________ ५०८ ] सिद्धान्तकौमुदी। तद्धितेष्वाीय. पञ्चकमध्ययनम् । 'स्तोमे डविधिः' ( वा ३०४५)। पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः । सप्तदशः । एकविंशः। डप्रत्यये तिलोपः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठादिसंज्ञिका स्तुतिः स्तोमः । १७२५ पङ्क्तिविंशतित्रिंशञ्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् । (५-१-५६) एते रूढिशब्दा निपात्यन्ते । १७२६ पञ्चदशती वर्गे वा । (५-१-६०) ग्रहणं व्यर्थमित्यत आह-संघशब्दस्येति । पञ्चकमध्ययनमिति । पञ्चावृत्तयः परिमाणमस्येति विग्रहः। स्तोमे डविधिरिति । तदस्य परिमाणमित्यर्थे संख्यावाचिन उपसंख्यातव्य इति शेषः । सामाधारमन्त्रसमूहे स्तोमशब्दः शक्त इति कैयटः । मनुष्यादिसमूहे तु स्तोमशब्दो लाक्षणिक इति तदाशयः । तदाहपञ्चदश मन्त्रा इति । पञ्चदशः स्तोम इति । पञ्चदश् शब्दाद् डप्रत्यये 'टेः' इति टिलोपः । सामाधारभूतपञ्चदशमन्त्रसमूह इत्यर्थः । ननु डित्त्वाभावेऽपि 'नस्तद्धिते' इत्येव टिलोपसिद्धेर्डित्त्वं व्यर्थमित्यत आह–एकविंश इति । एकविंशतिर्मन्त्राः परिमाणमस्य समूहस्येति विग्रहः । डप्रत्यय इति । 'तिविंशतेडिति' इति टिलोपः । मीमांसकास्तु पृष्ठरथन्तरादिशब्दवाच्या प्रगीतमन्त्रसाध्या गुणवत्त्वेन वर्णनात्मिका स्तुतिरेव स्तोमः, स एव डप्रत्ययार्थः । प्रगीतपञ्चदशमन्त्रपरिमाणकः स्तोम इत्यर्थः । पञ्चदशत्वसंख्यात्मकपरिमाएं स्तुतौ मन्त्रद्वारा बोध्यम् । एवं च 'पञ्चदशेन स्तुवते' इत्यादौ धात्वर्थभूतस्तुतिसामानाधिकरण्यं पञ्चदशादिशब्दानामुपपद्यत इत्याहुः । तन्मतमवलम्ब्याह-सोमयागेष्वित्यादि। पतिर्विशति । रूढिशब्दा निपात्यन्त इति । तदस्य परिमाणमित्यर्थे इति शेषः । पञ्च पादाः परिमाणमस्येत्यर्थे पञ्चन्शब्दात् तिप्रत्यः, प्रकृतेष्टिलोपः, चकारस्य कुत्वम् , अनुस्वारपरसवर्णों, पक्तिरिति रूपम् । 'पञ्चाक्षरा पञ्चपदा पङ्क्तिः ' पञ्चैवेति । स्तोमे डविधिरिति । डित्करणमेकविंश ? त्यत्र टिलोपार्थम् । त्रयस्त्रिंशादौ टिलोपार्थं च । पञ्चदश मन्त्रा इति । 'साम्ना स्तुवीत', 'एकं साम तृचे क्रियते' इति हि श्रुतिः । तत्र तृचस्य पञ्चकृत्व आवृत्त्या पञ्चदशमन्त्राः । सप्तदशे स्तोमे अन्त्याया ऋचः सप्तकृत्व आवृत्तिः। प्रथममध्यमयोस्तु पञ्चकृत्व एव, एकविंशे स्तोमे तु तृचस्य सप्तकृत्व आवृत्तिरिति ज्ञेयम् । छन्दोगैरिति । सामगैरित्यर्थः । पङ्क्तिविंशति । तदस्य परिमाणम्' इति वर्तते पञ्चन्शब्दस्य टेिलोपः, तिप्रत्ययः, 'चोः कुः' इति कुत्वम् । पञ्चपदानि परिमाणमस्य पतिश्छन्द इति काशिका । पदशब्दोऽत्र पादपर्याय इति हरदत्तः । रूढिशब्दा इति । तथा चात्र नावयवार्थेऽभिनिवेष्टव्यम् । पङ्किशब्दो हि नानार्थः । अस्ति क्रमसंनिवेशे ब्राह्मणपतिः पिपीलिका Page #512 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३] बालमनोरमा-तत्त्वबोधिनीसहिता। [५०६ पञ्च परिमाणमस्य पञ्चवर्गः । दशत् । पने पञ्चकः । दशकः । १७२७ त्रिंशत्र इति छन्दःशास्त्रे । दशानां वर्गो दशत् । 'पञ्चद्दशती वर्गे वा' इति वक्ष्यते । द्वौ दशतौ परिमाणमस्य संघस्येति विंशतिः, शतिच्प्रत्ययः, प्रकृतेर्विन्भावः, अनुस्वारश्च । अत्र संघग्रहणमनुवर्तते । तथा च गर्वा विंशतिरिति भवति । संघ. संघिनोस्तादात्म्यविवक्षायां तु विंशतिर्गाव इति भवति । स्वभावादेकवचमं स्त्रीत्वं च । एवं त्रिंशदादावपि । 'विंशत्याद्याः सदैकत्वे संख्याः संख्येयसङ्ख्ययोः' इति, 'तासु चानवतेः स्त्रियः' इति चामरः। त्रयो दशतः परिमाणमस्य संघस्य बिरात्, शत्प्रत्ययः, प्रकृतेः त्रिन्भावश्च । चत्वारो दशतः परिमाणमस्य संघस्य चत्वारिंशत् , शत्प्रत्ययः । प्रकृतेः चस्वारिन्भावश्च । पञ्च दशतः परिमाणमस्य संघस्य पश्चाशत् , शत्प्रत्ययः प्रकृतेः पञ्चादेशः । षड् दशतः परिमाणमस्य संघस्य षष्टिः । तिप्रत्ययः प्रकृतेः षष् , जश्त्वाभावश्च । सप्त दशतः मरिमाणमस्य संघस्य सप्ततिः, तिप्रत्ययः, प्रकृतेः सप्तादेशः। अष्टौ दशतः परिमाणमस्य संघस्य अशीतिः, तिप्रत्ययः, प्रकृतेः अशी इत्यादेशः । नव दशतः परिमाणमस्य संघस्य नवतिः, तिप्रत्ययः प्रकृतेः नवादेशः । दश दशतः परिमाणमस्य संघस्य शतम् , तप्रत्ययः प्रकृतेः शादेशश्च । एतत्सर्व भाष्ये स्पष्टम् । “एतान्यव्युत्पनप्रातिपदिकानि' इति तु भाष्यनिष्कर्षः । पञ्चदशती । पञ्च दश वा परिमाणमस्य वर्गस्येत्यर्थे एतौ निपात्येते इत्यर्थः । पश्चद्वर्ग इति । पञ्च परिमाणमस्येत्यर्थे पश्चन्शब्दाद् डतिप्रत्ययः । तत्र इकार उच्चारणार्थः । 'टेः' इति टिलोपः। दशदिति । दश परिमाणमस्य वर्गस्येति पङ्किरिति । अस्ति च दशसंख्यायां पतिरथ इति, दशरथ इत्यर्थः । अस्ति हि छन्दोविशेषे यस्य पञ्चाक्षराः पञ्चपादाः । तथा च छन्दोविशेषे एवावयवार्थो नान्यत्रेति बोध्यम् । द्वयोर्दशतोविन्भावः शतिश्च प्रत्ययः अपदत्वं च। द्वौ दशती परिमाणमस्य विंशतिः, अपदत्वनिपातनामकारस्यानुखारः । केचित्तु विन्भावमुक्त्वा अपदत्वं चेति न पठन्ति । त्रयाणां दशतां त्रिन्भावः शच प्रत्ययः । मतान्तरे तु त्रिभावः । त्रयो दशतः परिमाणमस्य त्रिंशत् । एवं चतुर्णां चत्वारिं । पञ्चानां पञ्चा । प्राभ्यामपि शत्प्रत्ययः । षण्णां दशता षष् , तिश्च प्रत्ययः अपदत्वं च । षड् दशतः परिमाणमस्याः षष्टिः । ततखिभ्योऽपि तिप्रत्यय एव । सप्तानां दशतां सप्त, अष्टानां दशतामशी, नवानां दशता नव, दशानां दशतां शभावः तश्च प्रत्ययः। दश दशतः परिमाणस शतम् । पशहाराती। इभी उत्यन्तत्वेन निपात्येते वगैऽभिधेये । 'तदस्य १ 'तिप्रत्ययः' । 'न लोपः' इति नकारलोपः' इति पाठः क.। २ 'न लोपः' इति पाठः का Page #513 -------------------------------------------------------------------------- ________________ ५१० ] सिद्धान्तकौमुदी । [तद्धितेष्वाहय 1 त्वारिंशतोर्ब्राह्मणे संज्ञायां डण् । ( ५-१-६२ ) त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां शानि । चात्वारिंशानि । १७२८ तदर्हति । ( ५-२-६३ ) लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्त्रमर्हति तच्छस्त्रिकः । १७२६ छेदादिभ्यो नित्यम् । ( ५-१-६४ ) `नेत्यमाभीषण्यम् । छेदं नित्यमर्हति छेदिको वेतसः । छिवप्ररूढत्वात् । 'विराग विरङ्गं च' (ग सू विग्रहः । डति डित्त्वाट्टिलोपः । एतदर्थमेव डित्त्वम् । पक्ष इति । डत्यभावपक्षे ‘संख्यायाः-' इति कन्नित्यर्थः । त्रिंशच्चत्वारिंशतोः । तदव्य परिमाणमित्यर्थे परिमाणिनि ब्राह्मणे वाच्ये त्रिंशच्चत्वारिंशद्भयां डण् स्यादित्यर्थः । ब्राह्मणं वेदेषु मन्त्रव्यतिरिक्तो भागः । त्रँशानीति | ङित्त्वात् 'टे:' इति टिलोपः । तदर्हति । श्रतीत्यस्य योग्यो भवतीत्यर्थे श्रकर्मकत्वात्तदिति द्वितीया न स्यात् । इष्यते तु द्वितीयान्तादेव प्रत्ययः । तत्राह - लब्धुमिति । श्वैत च्छत्त्रिक इति । आर्हीयष्ठक् । छेदादिभ्यो नित्यम् । श्रभीक्ष्ण्यमिति । पौनःपुन्यमित्यर्थः । तन्नित्यमर्हतीत्यर्थे द्वितीयान्तेभ्यः छेदादिभ्यो यथाविहितं प्रत्ययः स्यादित्यर्थः । छैदिको वेतस इति । 'आहत्' इति ठक् । 'तदर्हति' इलेव सिद्धे श्राभीक्ष्ण्य एवेति नियमार्थमिदं सूत्रम् । वस्तुतस्तु नित्यमिति नाभीक्ष्यार्थः प्रत्ययार्थकोटिप्रविटम्, किंतु पाक्षिकार्थकं 'समर्थानां प्रथमाद्वा' इति वाग्रहणानुवृत्तिनिवृत्त्यर्थमित्यभिप्रेत्य विग्रहवाक्यस्यापि लोके दर्शनान्नित्यग्रहणं न कर्तव्यमित्युकं भाष्ये । एवं च छेदादिभ्यः पाक्षिकप्रत्ययस्य ' तदर्हति' इत्येव सिद्धत्वात् सूत्रमेवेदं नारब्धव्यमिति परिमाणम्' इत्यनुवर्तत एव । दशदिति । दश परिमाणस्य | पक्ष इति । वाग्रहणात् 'संख्यायाः -' इति कन्नपि भवतीति भावः । त्रिंशच्चत्वारिंशतोः । व्यत्ययेन पञ्चम्यर्थे षष्ठीद्विवचनम् । 'चत्वारिंशतो ब्राह्मणे' इति पाठे तु समाहारद्वन्द्वात्पञ्चम्येकवचनम् । इह 'ब्राह्मण संज्ञायाम्' इति षष्ठीसमास्न निर्देष्टुमुचितम् । तथा हि सति ब्राह्मणस्य चेत्संज्ञा' इति स्फुटीभवति । अन्यथ तु यस्य कस्यचित् संज्ञायां ब्राह्मणस्थे च प्रयोगे इत्यनिष्टोऽर्थः सम्भाव्येत । ततश्व मन्त्रे भाषायां च डन सिध्येत् । इष्यते च सः । तस्मादिष्टानुरोधेन षष्ठयर्थे सप्तमीति व्याख्येयम् । 'ब्राह्मणेऽभिधेये' इति तु काशिकायां व्याख्यातम् । ठञादय इति । ठञ उदाहरणं तु प्रस्थमर्हति प्रास्थिकः द्रौणिक इत्याद्यूत्यम् । श्रादिशब्दग्राह्यस्य ठक उदाहरणमाह - श्वेतच्छत्रिक इति । एवं खारीकः । शल्यः । शतिक । साहस्रः । इत्यादीन्युदाहर्तव्यानि । छेदादिभ्यो । नित्यग्रहणमिह 'नित्यं क्रोडाजीविकयोः' इत्यत्रेव महाविभाषया प्राप्तस्य वाक्यस्य निवृत्त्यर्थ न भवति, आरम्भसामर्थ्यादेव तन्निवृत्ति Page #514 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३] बालमनोरमा-तत्त्वबोधिनीसहिता। [५११ १६) विरागं नित्यमर्हति वैरजिकः । १७३० शीर्षच्छेदाद्यश्च । (५-१-६५) शिरश्छेदं नित्यमर्हति शीर्षच्छेदः, शैर्षच्छेदिकः । यटकोः सन्नियोगेन शिरसः शीर्षभावो निपात्यते । १७३१ दण्डादिभ्यः । (५-१-६६) एभ्यो यत्स्यात् । दण्डमर्हति दरख्यः । अध्यः । वध्यः । १७३२ पात्राद्धश्च । (५-१-६८) चाद्यत् । तदहतीत्यर्थे । पात्रियः, पाभ्यः । १७३३ कडङ्करदक्षिणाच्छ च । (५-१-६६) चाद्यत् कडं करोतीति विग्रहेऽत एव निपाफलति । विराग विरङ्गं चेति । गणसूत्रमिदम् । उक्तेऽर्थे विरागशब्दो विरङ्गादेश लभत इत्यर्थः । चादा-यष्ठक्। शीर्षच्छेदाद्यश्च । चादा यष्ठक् । ननु 'शीर्षञ्छन्दसि' इति छन्दस्येव शिरसः शीर्षादेशविधानात् कथमिह शीर्षादेश इत्यत आह यट्टकोरिति । दण्डादिभ्यः । यदित्यनुवर्तते तदाह यत्स्यादिति । 'दण्डादिभ्यो यः' इति त्वपपाठः, 'अचो यत्' इति सूत्रभाष्ये तथैव दर्शनात् । अर्घ्य इति । मूल्यं पूजाविधिं वाहतीत्यर्थः । 'मूल्यं पूजाविधावर्घः' इत्यमरः । वध्य इति । वधमर्हतीत्यर्थः। पात्रात् घंश्च । पात्रियः, पाच्य इति । सिद्धेः, किं तु प्रत्ययार्थविशेषणमिति ध्वनयति-छेदं नित्यमर्हतीति । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् , सूत्रमेव मास्त्विति तदाशय इति मनोरमा। अयं भावःनित्यग्रहणमिह प्रत्ययाथेविशेषणं न भवति, नित्यं छेदमहतीत्यस्यार्थस्यासम्भवात् । न हि कश्चित्पदार्थो नित्यं छेदमर्हति । योऽपि वेतसादिरर्धच्छिंन्नः प्ररोहति, सोऽपि न नित्यं छेदमर्हति। कालान्तर एव तस्य छेदप्रवर्तनात् । न चात्र नित्यग्रहणत्यागेऽपि छेदमर्हतीत्यादिविग्रहवाक्यनिवृत्तये सूत्रस्यावश्यकत्वात्तत्प्रत्याख्यानं न युज्यत इति शङ्कयम् , विग्रहवाक्यस्य भाष्यादिसम्मतत्वादिति दिक्।छेद भेद द्रोह दोषेत्यादयश्छेदादयः। गणसूत्रमाह-विरागेति । दण्डादिभ्यः। पूर्वसूत्राद्यदनुवर्तत इत्याह-यत्स्यादिति। केचित्तु “दण्डादिभ्यो यः' इति पठन्ति, स चापपाठ एव भाष्यादिविरोधादित्याहुः । तथा हि-'अचो यत्' इति सूत्रे भाष्ये उक्त 'हनो वा यद् वधादेशश्च' वध्यः, घात्यः। 'तद्धितो वा' वधमर्हति वध्य इति । यदि चेह यद्विधीयेत तदेवैतदुपपद्यते, पक्षद्वयेऽपि 'यतोऽनावः' इत्यायुदात्तत्वात् । यदि त्वत्र यो विधीयेत तदा खरो भिद्येत । मनोरमायां तु 'क्यब्विधौ हनो वा' 'वधस्तद्धितो वा' इति भाष्यम् । यदि चेह यद्विधीयेत, तदैवतदुपपद्येत । क्यप्याद्युदात्तत्वं यत्यपि तद्धिते 'यतोऽनावः' इत्यायुदात्तत्वमित्यादि १ अयमेव बालमनोरमात त्वबोधिनीसंमतः सूत्रपाठः । अष्टाध्यायीपुस्तकेषु तु क्वचिद् 'दण्डादिभ्यो यत्' इति, क्वचिच्च 'दण्डादिभ्यो यः' इत्युपलभ्यते। Page #515 -------------------------------------------------------------------------- ________________ ५१२] सिद्धान्तकौमुदी। तद्धितेष्वाीयतनारखच । कडङ्करं माषमुगादिकाष्टमहतीति कडङ्करीयो गाः । कडङ्कर्यः । दक्षिणामहंतीति दक्षिणीयः, दक्षिण्यः । १७३४ स्थालीबिलात्। (५-१-७०) स्वामीबिल्लमर्हन्ति स्थालीबिलीयास्तण्डुलाः, स्थालीबिल्याः।पाकयोग्या इत्यर्थः । १७३५ यशस्विग्भ्यां घखो । (५-१-७१) यथासङ्खयं स्तः। यज्ञमृविजं वाहवि यज्ञियः, भाविजीनो यजमानः । 'यज्ञविग्भ्यां तस्क र्हितीत्युपसङ्ख्यानम्' (वा ३०१२)। यज्ञियो देशः । प्राविजीनः ऋत्विक __ इत्याीयाणां उगादीनां द्वादशानां पूर्णोऽवधिः । पात्रमईतीत्यर्थः । कडङ्करदक्षिणाच्छ च । 'कड मदे' कडा कडो मदः 'घयर्थे कविधानम्' इति कः । खजिति । तथा च 'खित्यनव्ययस्य' इति मुमिति भावः । कडङ्करं च दक्षिणा चेति समाहारद्वन्द्वात्पञ्चमी। स्थालीबिलात् । छयतावनुवर्तेते, 'तदर्हति' इति च । यक्षत्विग्भ्यां घखो। तदहतीत्येव । यज्ञम् ऋत्विजं वेति। यज्ञमहतीति यज्ञियः, ऋत्विजमहतीत्याविजीन इत्यन्वयः । तत्कर्मेति । यज्ञकर्माहतीत्यर्थे यज्ञशब्दाद् ऋत्विक्कर्माहतीत्यर्थे ऋत्विक् ब्दाच यथासङ्ख्यं घखमोरुपसङ्ख्यानमित्यर्थः। यशियो देश इति । यज्ञ नुष्ठानमर्हतीत्यर्थः । आत्विजीन ऋत्विगिति । ऋत्विकर्तव्यं कर्माहतीत्यर्थः । यद्यपि यज्ञविक्छब्दयोस्तत्कर्मणि लक्षणया सिध्यति । तथाप्यत्र प्रकरणे मुख्या भ्य एव प्रत्यय इति ज्ञापनार्थमिदम् । ठगादीनां द्वादशानामिति । 'प्राग्वतेः' इलारभ्य 'तेन क्रीतम्' इत्यतः प्राक् त्रयोदश प्रत्यया अनुक्रान्ताः । तत्र 'प्राग्वतेः' इति ठसं विना आर्हादित्यादिविहितानां ठगादीनां द्वादशानां विधिः पूर्ण इत्यर्थः । ____इति तद्धितेषु प्राग्वतीये आह-याणां ठगादीनां द्वादशानां पूर्णोऽवधिः। स्थितम् । कडङ्करदक्षिणाच्छ च । 'कडङ्गर' इति पाठस्तपेक्ष्य इति ध्वनयति कडं करोतीति । 'कड मदे' कडतीति कडः। माषमुद्रादिकाष्ठमिति । अमरश्चाह 'कडङ्करो बुसं क्लीबे' इति।गौरिति । 'नीवारपाकादिक डङ्करीयैः' इति रघुः। स्थालीबिलात् । छयतावनुवर्तते । अस्माच्छयतौ स्तः । टकोऽपवादः । पाकयोग्या इति । त्रिफलीकृता इति यावत् । यक्षमृत्विजं चाहतीति । अथीं समर्थो विद्वान् शास्त्रेणापर्युदस्त इत्यर्थः । देशस्यानेवंविधत्वादुपसंख्यानम्यशियो देश इति । यज्ञानुष्ठाने योग्य इत्यर्थः । ऋत्विगिति । स तु ऋत्विकर्हिति. न तु ऋत्विजमिति सूत्रेण खमोऽप्राप्तावुपसंख्यानम् । प्राीयाणां ठगादीनां द्वादशानां गतोऽबिधिः। इति तत्त्वबोधिन्यामाहीयप्रकरणम् । Page #516 -------------------------------------------------------------------------- ________________ प्रकरणम् ३३] बालमनोरमा-तत्त्वबोधिनीसहिता। [ ५१३ अथ ठाधिकारे कालाधिकारप्रकरणम् । ३४। अतः परं उमेव । १७३६ पारायणतुरायणचान्द्रायणं वर्तयति । (५-१-७२) पारायणं वर्तयति पारायणिकश्छात्रः ।वरायणं यज्ञविशेषः । तं धर्तयति तीरायणिको यजमानः । चान्द्रायणिकः । १७३७ संशयमापन्नः । (५-१-७३) संशयविषयीभूतोऽर्थः सांशयिकः। १७३८ योजनं गच्छति । (५.१-७४) यौजनिकः । 'कोशशतयोजनशतयोरुपसंख्यानम्' ( वा ३०५५) कोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः । 'ततोऽभिगमनमहतीति च वक्तव्यम्' ( वा ३०५६)क्रोशशतादभिगमनमहतीति क्रौशशतिको भिक्षुः । अथ तद्धितेषु प्राग्वतीये ठमधिकारे कालाधिकारो निरूप्यते-अतः परं ठमेवेति । श्राहीयेष्वर्थेषु प्राग्वतीयठमपवादा माहीयाष्ठगादयः । आहीयार्थेषु निरूपितेषु तत ऊर्ध्व ठगादिप्रत्ययानाम् अनुवृत्तेरसंभवात् प्राग्वतीयः ठमेवानुवर्तत इत्यर्थः। पारायण । द्वितीयान्तेभ्यः पारायणादिशन्देभ्यो वर्तयतीत्यर्थे ठत्र स्यादित्यर्थः । पारायणं वर्तयतीति । पारायणं वेदाध्ययनम् । तद्वर्तयति भावर्तयतीत्यर्थः । पारायणिकः छात्र इति । गुरौ त्वध्येतरि नायं प्रत्ययः, अन. भिधानादिति भावः । तौरायणिको यजमान इति। ऋत्विजि नायं प्रत्ययः, अनभिधानादिति भावः । चान्द्रायणिक इति । चन्द्रायणं वर्तयतीत्यर्थः । चान्द्रायणं कृच्छ्रविशेषः । संशयमापन्नः । अस्मिन्नर्थे संशयशब्दाद् द्वितीयान्ताक् स्यादित्यर्थः । अत्र आपन्न इति कर्तरि क्तः । विषयतया प्राप्त इत्यर्थ उपसर्गवशात् । संशयविषयीभूतोऽर्थ इति । तेन समवायेन संशयाधारे संदेग्धरि नायं प्रत्यय इति भावः । अमरस्तु 'सांशयिकः संशयापनमानसः' इत्याह । योजनं गच्छति । द्वितीयान्ताद्योजनशब्दाद् गच्छतीत्यर्थे ठञ् स्यादित्यर्थः । कोशशतेति । आभ्यामपि द्वितीयान्ताभ्यां गच्छतीत्यर्थे ठस उपसङ्ख्यानमिः पारायण | आदित आरभ्य प्रान्तादविच्छेदेन वेदस्याध्ययनं पारायणम् । तञ्च गुरुणा शिष्येण वा निवर्त्यते, अन्यतरासंनिधौ अध्ययनक्रियाया अनिष्पादनात् । तथापि शिष्ये एव प्रत्यय इष्यते न तु गुरावित्याकरे स्थितम् । तदाह-छात्र इति। यजमान इति । यद्यपि पुरोडाशादिनिर्वर्तनेन ऋत्विगपि यज्ञं वर्तयति, तथापि तत्र तौरायणिक इति न प्रयुज्यते, अनभिधानादिति भावः । चान्द्रायणं व्रतविशेषः । विषयीभूतोऽर्थ इति । 'स्थाणुर्वा पुरुषो वा' इति संशयविषयीभूते स्थाएवादावेव प्रत्यय इष्यते, न तु संदेग्धरीति भावः । कथं तर्हि 'सांशयिकः संशयापनमानसः' Page #517 -------------------------------------------------------------------------- ________________ ५१४ ] सिद्धान्तकौमुदी । [तद्धितेषु कालाधिकार यौजनशतिक आचार्यः । १७३६ पथः ष्कन् । ( ५-१-७५ ) षो ङीषर्थः । पन्थानं गच्छति पथिकः । पथिकी । १७४० पन्थो ण नित्यम् । (५-१-७६) पन्थानं नित्यं गच्छति । पान्थः, पान्था । १७४१ उत्तरपथेनाहृतं च । ( ५-१-७७ ) उत्तरपथेनाहृतमौत्तरपथिकम् । उत्तरपथेन गच्छति । श्रौत्तरपथिकः । 'आहृतप्रकरणे वारिजङ्गलस्थलकान्तार पूर्वादुपसङ्ख्यानम्' (वा ३०२७) । वारिपथिकम् । १७४२ कालात् । ( ५-२-७८) 'म्युष्टादिभ्योऽण्' ( सू १७६१ ) इत्यतः प्रागधिकारोऽयम् । १७४३ तेन निर्वृतम् । ( ५-१-७६ ) त्यर्थः । क्रोशशतादिति । ल्यब्लोपे पञ्चमी । क्रोशशतमतीत्येत्यर्थः । पथः कन् | पथः ष्कन् इति छेदः । द्वितीयान्तात् पथिन्शब्दाद् गच्छतीत्यर्थे ष्कन् स्यादित्यर्थः । पन्थो ण नित्यम् । पथ इत्यनुवर्तते गच्छतीति च । नित्यमिति गच्छतीत्यत्रान्वितं प्रत्ययार्थप्रविष्टमेव । नतु विधानान्वितं सत् महाविभाषानिवृत्त्यर्थम् । द्वितीयान्तात् पथिन्शब्दाद् नित्यं गच्छतीत्यर्थे णप्रत्ययः स्यात् प्रकृतेः पन्थादेशश्चेत्यर्थः । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् । उत्तरपथेनाहृतं च । उत्तरपथशब्दात् तृतीयान्ताद् आहृतमित्यर्थे गच्छतीत्यर्थे च ठञ् स्यादित्यर्थः । वारिजङ्गलेति । वारि, जङ्गल, स्थल, कान्तार एतत्पूर्वात् पथिन्शब्दात् तृतीयान्ताद् आहृतमिति गच्छतीति चार्थे ठञित्यर्थः । वारिपथेन गच्छति हृतं बेत्यर्थः । जाङ्गलपथिकः, स्थालपथिकः । कान्तारपथिकः । कालात् । इत्यतः प्रागिति । व्याख्यानादिति भावः । तेन निर्वृत्तम् । तृतीयान्तान्निर्वृत्तमित्यर्थे ठञ् इत्यमर इति चेत् । अत्राहु: - संशयापन्नं मानसं यस्मिन्विषये न विषयः संशयापन्न - मानस इति । ततोऽभिगमनमिति । अत्र पञ्चम्यन्तात्प्रत्ययः । पन्थो ण । पथः पन्थ इत्ययमादेशः स्याद् णश्च प्रत्ययः । नित्यग्रहणमिह प्रत्ययार्थविशेषणम्, न तु वाक्यनिवृत्त्यर्थमित्याशयेनाह - नित्यं गच्छतोति । नित्यमिति किम्, पथिकः । भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् । श्रयं हि भाष्याशयः - नित्यं पन्थानं गच्छती - त्यर्थोऽत्र यद्यपि सम्भवति, तथापि नात्रैवार्थे पान्थशब्दस्य प्रयोग इष्यते । कदाचिद् गच्छत्यपि तत्प्रयोगात् । न चैवमपि विग्रहवाक्यनिवृत्त्यर्थं नित्यग्रहणमस्त्विति शङ्कयम् । शिष्ट प्रयोगे विग्रहवाक्यस्य दर्शनादिति । उत्तरपथेन । चकारेण गच्छतीति प्रत्ययार्थः समुच्चीयते । तदाह--उत्तरपथेन गच्छतीति । वारिपथिकमिति । वारिपथेन गच्छतीति वारिपथेनाहृतमिति वा विग्रहः । कालात् । स्वरूप हणमिह न भवति, 'तमधीष्टो भृतो भूतो भावी' इत्यत्यन्तसंयोगे द्वितीयानिर्देशा [ । 'मासाद्वयसि - ' इत्यादौ मासादीनां कालेन विशेषणाच्च । तेन निर्वृत्तम् । तृतीयान्तात् कालवाचिनष्ठञ Page #518 -------------------------------------------------------------------------- ________________ प्रकरणम् ३४] बालमनोरमात्तत्त्वबोधिनीसहिता। [५१५ अह्वा निवृत्तम् आह्निकम् । १७४४ तमधीष्टो भृतो भूतो भावी । (५-१-८०) अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः। भूतः स्वसत्तया ज्याप्तकालः। भावी तादृश एवानागतकालः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतः। मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः। मासं भावी मासिक उत्सवः। १७४५ मासाद्वयसि यत्खी । (५-१-८१) मासं भूतो मास्यः, मासीनः। १७४६ द्विगोर्यप् । (५-१-८२) 'मासाद्वयसि' इत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः । १७४७ षण्मासागण्यच्च । (५-१-८३) 'वयसि' इत्येव । यवप्यनुवर्तते, चाहञ् । षण्मास्यः, पाण्मास्यः, षायमासिकः । १७४८ अवयसि ठंश्च । (५-१-८४) चारण्यत् । षण्मासिको न्याधिः, पाण्मास्यः । स्यादित्यर्थः । आह्निकमिति । 'अष्टखोरेव' इति नियमान्न टिलोपः। तमधीष्टो। द्वितीयान्ताद् अधीष्टादिष्वर्थेषु ठञ् स्यादित्यर्थः । व्यापारित इति । प्रेरित इत्यर्थः । तादृश एवेति । स्वसत्तया व्याप्यमानकाल इत्यर्थः । मासमधीष्ट इत्यादौ 'कालाध्वनोः' इति द्वितीया । मासाद्वयसि । अत्र भूत इत्येवानुवर्तते, व्याख्यानात् । मासशब्दाद् द्वितीयान्ताद् भूत इत्यर्थे यत्खनो स्तः वयसि गम्य इत्यर्थः । द्विगोर्यप् । अनुवर्तत इति । मासान्ताद् द्विगोर्भूत इत्यर्थे यप् स्याद्वयसि गम्य इत्यर्थः । षरामासारण्यच्च । वयसीत्येवेति । षण्मासशब्दाद् भूत इत्यर्थे ण्यच्च स्याद्वयसि गम्य इत्यर्थः । अत्र चकारात्संनिहितस्य यपोऽनुकर्षणे रायद्यपावेव स्याताम् , नतु ठअपि । इष्यते तु ठञपि । तत्राह-यबप्यनुवर्तत इति । स्वरितत्वादिति भावः । तर्हि चकारः किमर्थ इत्यत आह-चामिति । तथा च ण्यत् यप् ठमिति त्रयः प्रत्ययाः फलिताः । अवयसि ठंश्च । स्यात् । तेनेति करणे तृतीया। चतुर्थ्यन्तर्गते 'तेन निर्वृत्तम्' इत्यत्र तु कर्तरि तृतीयेति विशेषः । उभयत्राप्यन्त वितण्यर्थाद् वृतेः कर्मणि क्तः । आह्निकमिति । 'अहष्टखोरेव' इति नियमाद् 'नस्तदिते' इति टिलोपो न। मासाद्वयसि । खो भित्करणं खरार्थ पुंवद्भावप्रतिषेधार्थ च । मासीनाभार्यः । अधीष्टानां चतुर्णामधिकारेऽपि सामर्थ्याद् भूत इत्येतदत्र सम्बध्यते । न हि मासमधीष्टो भृतो वेत्यायुक्तौ काचित्कालकृता शरीरावस्था गम्यत इत्याशयेनाह-मासं भूत इति । एतच्च वृत्तिपदमार्योः स्पष्टम् । मासीन इति । बालकः । द्विगोर्यप । प्राग्वतेः संख्यापूर्वपदाना तदन्त. विधेरभ्युपगमात्पूर्वेण यत्खोः प्राप्तयोर्यप विधीयते । पित्त्वादनुदात्तः। तेन 'द्विमास्यः' इत्यादौ 'इगन्तकाल-' इत्यादिना पूर्वपदप्रकृतिस्वरो न तिष्ठते । 'यः' इत्युक्ते तु प्रत्यय. स्योदात्तत्वादन्तोदात्तो द्विमास्यः स्यात् , सति शिष्टखरबलीयस्त्वादिति भावः । Page #519 -------------------------------------------------------------------------- ________________ ५१६ ] सिद्धान्तकौमुदी । [तद्धितेषु कालाधिकार १७४६ समायाः खः । ( ५-१-८५ ) समामधीष्टो भृतो भूतो भावी वा समीनः । १७५० द्विगोर्वा । ( ५-१-६६ ) समायाः वः' इत्येव । 'तेन परिजय्य -' ( सू १७५७ ) इत्यतः प्राङ् निर्वृत्तादिषु पद्मस्वर्थेषु प्रत्ययाः । द्विसमीनः, द्वैसमिकः । १७५१ रात्र्यहः संवत्सराच्च । ( ५-१-८७ ) 'द्विगो:' इत्येव । द्विरान्रीणः, द्वैरात्रिकः । द्वयहीनः, द्वैयह्निकः । समासान्तषण्मासशब्दाद् द्वितीयान्ताद् भूते वयसि ठन् च स्यादिव्यर्थः । समायाः खः । मण्डूकप्लुत्या 'तमधीष्टो भृतो भूतो भावी' इति कृत्स्नमेव सूत्रमनुवर्तते । समाशब्दाद् द्वितीयान्ताद् अधीष्टादिष्वर्थेषु खः स्यादित्यशः । द्विगोर्वा ! समायाः ख इत्येवेति । तथा च समान्ताद् द्विगोर्द्वितीयान्तात् खो वा स्यात् पक्षे ठगिति फलितम् । 'अप्सुमनः समासिकतावर्षाणां बहुत्वं च' इति लिङ्गानुशासनसूत्रम् । 'हायनोऽस्त्री शरत्समाः' इत्यमरः । ' समां समा विजायते' इति सूत्रादेकवचनमप्यस्ति । पञ्चस्विति । तेन निर्वृत्तम् तमधीष्टो भृतो भूतो भावीति पचस्वित्यर्थः । एषां यथायोगमन्वयः । द्वैसमिक इति । खाभावे प्राग्वतीयष्ठञ् । रात्र्यहः । द्विगोरित्येवेति । रात्र, अहन् संवत्सर एतदन्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु खो वा स्यादित्यर्थः । पते ठञ् । द्विरात्रीण इति । द्वाभ्यां रात्रिभ्यां निर्वृत्तः द्वे रात्री अधीष्टो भृतो भूतो भावी वेत्यर्थः । एवमग्रेऽपि यथायोगं ज्ञेयम् । द्वयहीन इति । द्वाभ्यां अहोभ्यां निर्वृत्तो द्वे अहनी अधीष्ट इत्यादिष्वर्थेषु 'तद्धितार्थ -' इति द्विगोः खः, 'अह्नष्टखो :-' इति टिलोपः । समाहारद्विगोस्तु न खः, टचि कृते हशब्दाभावात् । द्वैयह्निक इति । 'हटखोरेव' इति नियमाद् न टिलोपः । किंत्वल्लोपः श्रह्रादेशो वा । 'न य्वाभ्याम् -' इत्यच् । ननु द्वयहीन इत्यत्र ' तद्धितार्थ -' इति द्विगुसमासे कृते 'रात्र्यहः संवत्सराच' इति सं बाधित्वा परत्वाद् 'राजाहः सखिभ्यः -' इति टचि 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशे तस्य स्थानिवत्त्वेनाहन्शब्दत्वेऽपि टजन्तस्य तदभावाद् 'राज्य : संवत्सराच' इति यवप्यनुवर्तत इति । व्याख्यानमेवात्र शरणम् । समायाः खः । 'हायनोऽस्त्री शरत्समाः' इत्यमरः। समामधीष्ट इत्यादि । अधीष्टादयश्वत्वारोऽर्था अत्राप्यनुवर्तन्त इति भावः । द्विगोर्वा । 'संख्यापूर्वपदानां तदन्तग्रहणम लुकि' इत्यभ्युपगमात्पूर्वेण नित्ये प्राप्ते विकल्पः । द्वैसमिक इति । खेन मुक्ते पक्षे ठमिति भावः । द्वैयह्निक इति । 'टखोरेव' इति नियमादिह टिलोपो न । 'अल्लोपोऽनः' 'न य्वाभ्याम् -' इत्यैच् । ननु ' तद्धितार्थ -' इति द्विगुसमासानन्तरं ' रात्र्यहः संवत्सराच’ इत्येवं बाधित्वा परत्वाट्टचा भाव्यम्, न च महाविभाषया टचो विकल्प इति वाच्यम् । Page #520 -------------------------------------------------------------------------- ________________ प्रकरणम् ३४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५१७ विधेरनित्यत्वान्न टच् । द्विसंवत्सरीणः । १७५२ सङ्ख्यायाः संवत्सरसङ्ख्यस्य च । ( ७-३ - १५ ) सङ्ख्याया उत्तरपदस्य वृद्धिः स्याद् जिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । 'परिमाणान्तस्य' इत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इस्युत्तरपदवृद्धिर्न । १७५३ वर्षाल्लुक्च । ( ५- १ - ८८ ) वर्षशब्दान्ताद् द्विगोर्वा खः । पते ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः, द्विवार्षिकः, द्विवर्षः । १७५४ वर्षस्याभविष्यति । ( ७-३ - १६) उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिकः । 1 खप्रत्ययो न स्यात् । कृतेऽपि खप्रत्यये द्वयहीन इति स्यादित्यत आह- समा-. सान्तविधेरनित्यत्वान्न टजिति । एवं च टजभावे सति नाह्रादेशः, समासान्ते पर एव तद्विधानादिति भावः । 'समासान्तविधिरनित्यः' इति षष्ठाध्यायस्य द्वितीये पादे 'द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ' इति सूत्रभाष्ये स्पष्टम् । अथ संवत्सरान्तस्य खे उदाहरति-द्विसंवत्सरीण इति । उनि त्वादिवृद्धौ प्राप्तायाम् । सङ्ख्यायाः संवत्सर । दिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकार इदं सूत्रम् । संवत्सरश्च सङ्ख्या चेति समाहारद्वन्द्वात् षष्टी । संख्याया उत्तरपदस्येति । संख्यायाः परस्य संवत्सरसंख्यस्योत्तरपदस्येत्यर्थः । नन्वत्र संवत्सरप्रहणं व्यर्थम्, संवत्सरस्य द्वादशमासपरिमाणतया ‘परिमाणान्तस्यासंज्ञाशाणयोः' इत्येव सिद्धेरित्यत आह- परिमाणान्तस्येत्येवेति । वर्षाल्लुक् च । वा लुगिति । खठमोरिति शेषः । द्विवर्षीण इति । खे रूपम् । द्विवर्ष इति । खठनोर्लुकि रूपम् । ठमि आदिवृद्धौ प्राप्तायाम् । वर्षस्याभविष्यति | आदिवृद्धि प्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्व्याचष्टे-उत्तरपदस्य वृद्धिः स्यादिति । श्रभविष्यति यो विदादिः तस्मिन्परे इत्यर्थः । निर्वृत्तादिषु पञ्चस्वर्थेषु भविष्यदर्थ वर्जयित्वा तदितरेषु 'बृहती जात्यन्ताः समासान्ताच' इति नित्येषु परिगणनादत श्राह - समासान्तविधेरिति । यद्यपि टचि कृतेऽप्यहादेशेन 'द्वैयह्निकः' इति रूपं सिध्यति, तथापि 'यहीनः' इति हि रूपं न सिध्यति, टचि सत्यद्वादेशे तस्य स्थानिवत्त्वात्, 'राजाहः - ' इति समासान्तस्याहःशब्दान्तसमासग्रहणेनैव ग्रहणाच ' रात्र्यहः संवत्सराच इति खप्रत्यये कृतेऽपि द्वयह्वीन इति रूपप्रसङ्गादित्याहुः । उत्तरपदवृद्धिर्नेति । एतोपलक्षणम् । द्विवर्षा इत्यत्र 'द्विगोः' इति ङीन्न भवति । परिमाणपर्युदासेन पर्युदासाभावाद् 'अपरिमाणबिस्ताचित -' इतीह निषेधप्रवृत्तेः । द्विवर्षे मृते सति 'तमधीष्ट:-' इति ठञ् ‘वर्षाल्लुक्च' इति लुक् । वर्षा । 'चित्तवति नित्यम्' इति नित्यलुको वक्ष्यमाणत्वादचित्तवानिह प्रत्ययार्थ इति प्रत्युदाहरति - द्विवर्षीगो व्याधिरिति । Page #521 -------------------------------------------------------------------------- ________________ ५१८ ] सिद्धान्तकौमुदी। [तद्धितेषु कालाधिकार भविष्यति तु द्वैवार्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः । 'परिमाणान्तस्यासंज्ञाशाणयोः' (सू १९८३)। द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौगिकम्। द्विनैष्किकम्। 'असंज्ञा' इति किम् - पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैका लेजिकः । १७५५ चित्तवति नित्यम् । (५-१-८६) वर्षशब्दान्ताद् द्विगोः प्रत्ययस्य नित्यं लुक्स्याच्चेतने प्रत्ययार्थे । द्विवर्षो दारकः । १७५६ टिकाः षष्टिरात्रेण पच्यन्ते । (५-१-६०) बहुवचनमतन्त्रम् । षष्टिको धन्यविशेषः । तृतीयान्ताकन् रात्रशब्दलोपश्च निपात्यते । १७५७ तेन परिजय्यलभ्यकार्यसुकरम् । (५-१-६३) मासेन परिजय्यो जेतुं शक्यो मासिको व्याधिः । चतुर्वर्थेषु यस्तद्धितः तस्मिन् परे इति यावत् । द्विवार्षिक इति । द्वाभ्यां वर्षाभ्यां निवृत्तो वे वर्षे अधीष्टो भृतो वेत्यर्थः। अत्यन्तसंयोगे द्वितीय । द्वैवर्षिक इति व्याधिरिति शेषः । चित्तवति नित्यलुको वक्ष्यमाणत्वात् । नन्वेव सति द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्षिक इत्यत्र कथमुत्तरपद द्धिः। भविष्यत्त्वस्य प्रतीतेरित्याशङ्कयाह-अधीष्टभृतयोरभविष्यतीति प्रतिरोधो नेति । कुत इत्यत आह-गम्यते हि तत्र भविष्यत्तति । अध्येषरणभरणयोः क्तप्रत्ययेन भूतत्वमेव शब्दशक्त्या गम्यते। तद्धितप्रत्ययेन च तथाविध ध्येषणभरणकर्मीभूती प्रतीयते । एवंविधाध्येषणभरणविशिष्टयोस्तु भविष्यता कर्माचरणेन सम्बन्धः कर्म करिष्यतीत्यनेनावगत इति न स तद्धितार्थः । एवं च तत्रापि भविष्यदर्थकतद्धितपरकत्वाभावात् स्यादेवोत्तरपदवृद्धिरियर्थः । द्विवार्षिको मनुष्य इति । 'चित्तवति नित्यम्' इति वक्ष्यमाणस्तु नित्यलुग् न भवति, चित्तवतीत्येवारम्भसामर्थ्यान नित्यत्वे सिद्ध पुनर्नित्यग्रहणेन भूत एवार्थे नित्यं लुगित्यभ्युपगमादिति हरदत्तः । केचित्तु द्विवार्षिकः अमनुष्य इति छिन्दन्ति । चित्तवति नित्यम् । प्रत्ययस्येति । खस्य ठञश्चेत्यर्थः । दारकः वालकः । षधिकाः । तृतीयान्तादिति । षष्टिरात्रशब्दादिति शेषः । तेन परिजय्य | निवृत्तादयः पञ्चार्था निवृत्ताः। तेन परिजय्यम् , तेन लभ्यम् , तेन कार्यम् , तेन मुकरम् इत्यर्थेषु द्विवार्षिको मनुष्य इति । अत्र वदन्ति-मनुष्ये 'चित्तवति-' इति नित्यलुक्प्रसङ्गाद् 'मनुष्यो मनुष्यसदृशः प्रतिमादिः' इति व्याख्याय स्थितस्य गतिः समर्थनीयेति । दारक इति । बालकः । 'परिजय्यः' इत्यस्य विवरण 'जेतुं शक्यः' इति । Page #522 -------------------------------------------------------------------------- ________________ प्रकरणम् ३४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१६ मासेन लभ्यं कार्य सुकरं वा मासिकम् । १७५८ तदस्य ब्रह्मचर्यम् । (५-१-६४) द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । प्रार्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् । 'महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम्' (वा ३०६४ ) महानाम्न्यो नाम 'विदा. मघवन्-' इत्याचा ऋचः । तासां ब्रह्मचर्यमस्य माहानान्निकः । हरदत्तस्तु 'भस्याढे-' इति पुंवद्भावान्माहानामिक इत्याह । 'चतुर्मासारण्यो यज्ञे तत्र भव इत्यर्थे' (वा ३०६९)। चतुर्यु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि । 'अण संज्ञायाम्' ( वा ३०७०)। चतुषु मासेषु भवति चातुर्मासी आषाढी तृतीयान्ताप्रित्यर्थः । परिजय्य इत्यस्य विवरणम् जेतुं शक्य इति । तदस्य ब्रह्मचर्यम् । ननु द्वितीयान्तादिति कथम् । सूत्रे ब्रह्मचर्यविशेषणस्य तच्छब्दस्य प्रथमान्तत्वादित्यत आह-अत्यन्तेति । तथा च कालविशेषाभिव्याप्तं ब्रह्मचर्यमस्येत्यर्थे कालात्प्रत्ययः । इदमर्थ प्रति ब्रह्मचर्य विशेषणम् । मासिको ब्रह्मचारीति । मासाभिव्याप्तब्रह्मचर्यवानित्यर्थः । आर्धमासिक इति । 'अर्धापरिमाणस्य' इत्युभयपदवृद्धिः । अत्र इदंशब्दार्थस्य ब्रह्मचारिणः प्राधान्यम् । मासाभिव्याप्तं ब्रह्मचर्य तु तद्विशेषणमिति स्थितिः । यद्धति । सूत्रे तदिति प्रथमान्तम् । ब्रह्मचर्यमिति षष्ठयर्थे प्रथमा । तथा च प्रथमान्तात्कालवाचिनः अस्य ब्रह्मचर्यस्येत्यर्थे ठबित्यर्थः फलति । तदाह-प्रथमान्तादिति । कालवाचिन इति शेषः । अस्येत्यर्थ इति । अस्य ब्रह्मचर्यस्येत्यर्थ इत्यर्थः । मासोऽस्येत्यनन्तरं ब्रह्मचर्यस्येति शेषः । अस्मिन्पक्ष ब्रह्मचर्यमेव प्रत्ययार्थत्वात्प्रधानम् । इदमर्थस्तु तद्विशेषणमिति बोध्यम् । उपसंख्यानमिति । अस्य ब्रह्मचर्यमित्यर्थे ठन इति शेषः । माहानानिक इति । महानाम्नीशब्दस्य ऋग्विशेषेषु रूढस्य नित्यस्त्रीलिङ्गत्वाद् भाषितपुंस्कत्वाभावाद् 'भस्याढे-' इति पुंवत्त्वं नेति भावः । हरदत्त. स्त्विति । माहानानिकमित्येव भाष्ये 'उदाहृतस्वादिदमुपेक्ष्यमिति भावः । चतुर्मासागण्यो यज्ञे तत्र भव इति । वार्तिकमिदम् । तत्र भवो यज्ञ इत्यर्थे 'क्षय्यजय्यौ शक्यार्थे' इत्ययादेशः । महानाम्न्यो नामेति । तथा चाभाषितपुंस्कत्वात्पुंवद्भावो नेति भावः। हरदत्तस्त्विति । यौगिकोऽयम् , न तु रूढ इति मन्यते। माहानामिक इति । पुंवद्भावे कृते 'नस्तद्धिते' इति टिलोप इति । चतुर्मासादिति । मासशब्दस्य कालवाचित्वात्कालाधिकारे वार्तिकारम्भः । न च विशिष्टस्य कालवाचित्वाभावादिह संगतिर्दुनिरूपेति शङ्कयम् । 'प्राग्वतः संख्यापूर्व Page #523 -------------------------------------------------------------------------- ________________ ५२०] सिद्धान्तकौमुदी। [तद्धितेषु कालाधिकार पौर्णमासी । अण्णन्तस्वान्डीप् । १७५६ तस्य च दक्षिणा यज्ञाख्येभ्यः (५-१-६५) द्वादशाहस्य दक्षिणा द्वादशाहिकी। श्राख्या रहणादकालादपि। माग्निष्टोमिकी । वाजपेयिकी । १७६० तत्र च दीयते कार्य भववत् । (५-१-१६) प्रावृषि दीयते कार्य वा प्रावृषेण्यम् । शारदम् । इति तद्धितेषु प्राग्वतीये अधिकारे कालाद् इत्यधिका : सम्पूर्णः । चतुर्मासशब्दात्सप्तम्यन्तारण्यो वाच्य इत्यर्थः । चतुधिति । तुषु मासेषु अतीते. वित्यर्थः । अणू संशायामिति । वार्तिकमिदम् । चतुर्मास शब्दाद् भवार्थे अण् वाच्यः संज्ञायामित्यर्थः । चतुविति । फाल्गुनी पौर्णम् सीमारभ्य चतुर्षु मासेष्वतीवेष्वित्यर्थः । आषाढीति । आषाब्याः पौर्णमास्याः चातुर्मासीति संज्ञेति भावः । नच 'तत्र भवः' इत्यणैव सिद्धमिति वाच्यम् , 'द्विगोर्खर नपत्ये' इति लुनि वृत्त्यर्थत्वात् । तस्य च दक्षिणा । तस्य दक्षिणेत्यर्थे यज्ञकालः त्तिभ्यः ठञ् स्यादित्यर्थः । द्वादशाहस्येति । द्वादशदिनसाध्यसुत्याकः क्रतुदश हः । तस्येत्यर्थः । कालोपसर्जनकतुवाचित्वादयमपि कालवृत्तिरिति भावः । 'कालात्' इत्यधिकारसूत्रे हि यथाकथञ्चित्कालबोधकस्य ग्रहणमिति 'तदस्य परिमाणम्' इति सूत्रे भाष्ये स्पष्टम् । नन्वेवं सति अग्निष्टोमस्य दक्षिणा श्रामिष्टोमिकीत्या ठञ् न स्यात् । अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाभावादित्यत आह -आख्याग्रहणादकालादपीति । अन्यथा यशेभ्य इत्येव सिदे आख्याग्रहणवैयादिति भावः । वस्तुतस्तु यज्ञेभ्य इत्येवोक्तो कालादित्यधिकाराद् द्वादशाहादिश न्देभ्य एव स्यात्, नतु अमिष्टोमादिशब्देभ्यः। आख्याग्रहणे तु अमिष्टोमादिभ्यो द्वादशाहादिशब्दे. भ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति भाष्ये स्पष्टम् । तत्रबदीयते । तत्र दीयते तत्र कार्यमित्यर्थयोः सप्तम्यन्तात्कालवाचिनो भववत्प्रत्ययाः स्युरित्ययः । प्रावृ. घेण्यमिति । 'प्रावृष एण्यः' इति भवार्थे विहितम् इहापि भवति । शारदमिति । पदानां तदन्तप्रहणम्' इत्यभ्युपगमादस्त्येव संगतिरिति । संज्ञायामणिति । 'तत्र भवः' इत्यनेनैव सिद्धे पुनरविधिः 'द्विगो गनपत्ये' इति लुङ्मा भूदित्येतदर्थमिदमत्रारब्धम् । एवं चास्मिन् वार्तिके 'चतुर्मासात्' इत्यस्यानु वृत्तये पूर्ववार्तिकमत्रवारब्धमित्यपि ज्ञेयम् । चातुर्मासीति । कस्य संज्ञेत्याकांक्षायाम ह-आषाढीति। अषाढानक्षत्रयुक्ता पौर्णमासीत्यर्थः। तस्य च दक्षिणा । षष्ठर न्तेभ्यो यज्ञाख्येभ्यो दक्षिणेत्यस्मिन्नर्थे ठञ् स्यात् । कालाधिकादेवेह द्वादशाहादिभ्यः सिद्धे आख्याप्रहण भ्यर्थमित्याशय परिहरति-आख्याग्रहणादिति । तत्र च । कालवाचिनः सप्तम्यन्ताहीयते कार्यमित्येतयोरर्थयोर्भववत्प्रत्ययः स्यात् । भावृषेण्यमिति । Page #524 -------------------------------------------------------------------------- ________________ बालमनोरमा-तत्त्वबोधिनीसहिता । अथ तद्धितेषु ठञ्विधिप्रकरणम् । ३५ । १७६१ व्युष्टादिभ्योऽण् । ( ५-१-६७ ) व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट तीर्थ संग्राम प्रवास इत्यादि । [ 'अभिपदादिभ्य उपसंख्यानम्' ( वा ३०७२ ) अभिपदे दीयते कार्य वा अभिपदम् । पैलुमूलम् । ] १७६२ तेन यथाकथाचहस्ताभ्यां लयतौ । ( ५-१६८ ) यथाकथाचेत्यव्ययसङ्घातात्तृतीयान्ताद्वस्वशब्दाच्च यथासंख्यं णयतौ स्तः । 'अर्थाभ्यां तु यथासंख्यं नेष्यते' । यथाकथा च दीयते कार्य या याथाकथाचम् । श्रनादरेण देयं कार्यं वेस्यर्थः । हस्तेन दीयते कार्य वा हस्स्यम् । १७६३ सम्पादिनि । (५-१-६६ ) 'तेन' इत्येव । कर्ब वेष्टकाभ्यां सम्पादि कार्णवेष्टकिकं मुखम् । कर्णालङ्काराभ्यामवश्यं शोभत इत्यर्थः । १७६४ कर्मवेषाद्यत् । (५-१-१००) शरदि दीयते कार्य वेत्यर्थः । सन्धिवेलाद्यण् भवे विहित इहापि भवति । इदं वृत्त्यनुरोधेन । वस्तुतस्तु तत्र कार्य दीयत इत्यर्थे यज्ञाख्येभ्यो भववत्प्रत्ययाः स्युरित्यर्थः । श्रग्निष्टोमे दीयते भक्कम् श्रामिष्टोमिकम् । कार्यग्रहणादमिष्टोमे दीयते हिरण्यमित्यत्र न भवति । न यमिष्टोमे हिरण्यं क्रियत इति भाष्य स्पष्टम् । इति तद्धितेषु प्राग्वतीये ठमधिकारे कालाद् इत्यधिकारः संपूर्णः । प्रकणरम् ३४ ] [ ५२१ अथ विधिर्निरूप्यते । व्युष्टादिभ्योऽण् । 'तत्र च दीयते कार्यम्' इत्यनुवर्तते । दीयते कार्य वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्यः अण् स्यात् । ठञोऽपवादः । व्युष्टं प्रभातम् । वैयुष्टमिति । अणि ‘न य्वाम्याम्–' इत्यैच् । तेन यथा । अर्थाभ्यामिति । प्रकृत्योः प्रत्यययोश्च यथासंख्यम्, नतु दीयते कार्यमित्यर्थयोरित्यर्थः, व्याख्यानादिति भावः । संपादिनि । तेनेत्येवेति । संपाद: संपत्तिः शोभा अस्यास्तीति संपादी । तस्मिन्नर्थे तृतीयान्ताट्ठगित्यर्थः । कर्मवेषाद्यत् । तृतीयान्तात्कर्मन्शब्दाद् वेषशब्दाच । संपादिन्यर्थे 'प्रावृष एण्यः' इति भवार्थे विहितः स इहाप्यतिदिश्यत इति भावः । शारदमिति । 'संधिवेलायृतुनक्षत्रेभ्योऽण् । इति तत्त्वबोधिन्यां कालिकप्रकरणम् । व्युष्टादिभ्यो ऽण् । व्युष्टशब्दः कालवाची दिवसमुखे वर्तते । संपादिनि । गुणोत्कर्ष: संपत्तिः । 'आवश्यके णिनिः' इति वृत्तिकृत् । एवं वस्त्रयुगेन संपादि १ बन्धनीधृतः पाठः कौमुदी पुस्तकेषु प्रायेण न दृश्यते, टीकाकृता च न व्याख्यातः । क्वचित्तु मूलपुस्तकेषु दृश्यते स केनापि काशिकाया उद्धृत इत्यनुमीयते । Page #525 -------------------------------------------------------------------------- ________________ ५२२ ] सिद्धान्तकौमुदी। [तद्धितेषु ठविधि कर्मणा सम्पादि कर्मण्यं शौर्यम् । वेषेण सम्पादी वेष्यो नटः । वेषः कृत्रिम श्राकारः । १७६५ तस्मै प्रभवति सन्तापादिभ्यः । (५-१--१०१) सन्तापाय प्रभवति सान्तापिकः । सानामिकः । १७६६ योगाद्यञ्च । (५-१-१०२) चाटुन् । योगाय प्रभवति योग्यः, यौगिकः । १७६७ कर्मण उकञ् । (५-१-१०३) कर्मणे प्रभवति कामुकम् । १७६८ समयस्तदस्य प्राप्तम् । (५-१-१०४) समयः प्राप्तोऽस्य सामयिकम् । १७६६ ऋतोरण । (५-१-१०५) ऋतुः प्राप्तोऽस्य प्रार्तवम् । [ 'उपवस्त्रादिभ्य उपसंख्यानम् । उपवस्ता प्राप्तोऽस्य औपवस्त्रम्। प्राशिता प्राप्तोऽस्य प्राशित्रम् ।। १७७० कालाद्यत् । (५-१-१०७) कालः प्राप्तोऽस्य काल्यं शीतम् । १७७१ प्रकृष्टे ठञ् । (५-१-१०८) 'कालात्' इत्येव । 'तदस्य' इति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् । १७७२ प्रयोजनम् । (५-१-१०६) तदस्य' इत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च । यस्यादित्यर्थः । तस्मै प्रभवति । चतुर्थ्यन्तभ्यः संतापादिभ्यः प्रभवतीत्यर्थे ठञ् स्यादित्यर्थः । संतापाय प्रभवतीति । शत्रूणां पीडाथै शक्नोतीत्यर्थः । योगाद्यच्च । चतुयन्तात्प्रभवतीत्यर्थे इति शेषः । कर्मण उकञ्। चतुर्थ्यन्तात्प्रभवतीत्यर्थे इति शेषः । कार्मुकमिति । उकत्रि टिलोपः । समयस्तदस्य । तदिति प्राप्तमिति च सामान्ये नपुंसकम् । समयः प्राप्तोऽस्येत्यर्थे प्रथमान्तात्समयशब्दात् ठनित्यर्थः । तदित्युत्तरार्थम् । ऋतोरण् । 'प्राप्तम्' इत्येव । प्राप्तोऽस्येत्यर्थे प्रथमान्ताद् ऋतोरणित्यर्थः । आर्तवमिति । अणि श्रोर्गुणः, आदिवृद्धिः, रपरत्वम् । कालाद्यत् । तदस्य प्राप्तम्' इत्येव । प्रथमान्तात्कालशब्दाद् अस्य प्राप्त इत्यर्थे यदित्यर्थः । प्रातःकाले काल्यशब्दस्तु कल्यवदव्युत्पन्नं प्रातिपदिकम् । कल्यमेव काल्यं वा । प्रकृष्टे ठञ् । अस्य प्राप्त इत्यर्थे प्रकृष्टवृत्तेः कालशब्दात् ठजित्यर्थः । यतोऽपवादः । प्रकृष्टशब्दस्य विवरणं-दीर्घ इति । प्रयोजनम् । तदस्येत्येवेति । अस्य प्रयोजनमित्यर्थे प्रथमान्ताप्रित्यर्थः । इन्द्रमह इति । इन्द्रोत्सव इत्यर्थः । वास्नबुगिकं शरीरमित्यप्युदाहार्यम् । वस्त्रयुगेन अवश्य शोभत इत्यर्थः । तस्मै प्रभवति । समर्थः शक्तः प्रभवतीत्युच्यते । आर्तवमिति । पुष्पमित्यादि विशेष्यं बोध्यम् । काल्यं शीतमिति । 'प्रत्यूषोऽहर्मुखं कल्यम्' इत्यमरः । तत्र प्रातःकाले काल्यशब्दत्य व्युत्पत्त्यन्तरं मृग्यम् । प्रकृष्ट ठञ् । प्रकृष्यते अयमिति प्रकृष्टः । कर्मणि कः । तेन च प्रकर्षेण कालो विशेष्यत इत्याह-दीर्घः काल इति । ठञ् १ अत्रापि बन्धनीधृतः पाठः पूर्वपृष्टवदेव । Page #526 -------------------------------------------------------------------------- ________________ प्रकरणम् ३५] बालमनोरमा-तत्त्वबोधिनीसहिता। [५२३ १७७३ विशाखाषाढादण् मन्थदण्डयोः । (५-१-११०) श्राभ्यामण स्याप्रयोजनमित्यर्थे क्रमान्मन्थदएडयोरर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । प्राषाढो दण्डः । 'चूडादिभ्य उपसंख्यानम्' । चूडा-चौडम् । श्रद्धाश्राद्धम् । १७७४ अनुप्रवचनादिभ्यश्छः । (५-१-१११) अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् । १७७५ समापनात्सपूर्वपदात् । (५-१-११२) व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयः । १७७६ ऐकागारिकट चौरे । (५-१-१९३) एकमसहायमगारं प्रयोजनमस्य 'मह उद्धव उत्सवः' इत्यमरः । प्रयोजनं फलं कारणं चेति । प्रयुज्यते प्रवृत्त्या निष्पाद्यत इति कर्मणि ल्युटि प्रयोजनशब्दः फलवाची। प्रयुज्यते प्रवर्तते पुरुषोऽनेनेति करणे ल्युटि प्रयोजनशब्दः प्रवर्तकवाचीत्यर्थः । विशाखाषाढात् । विशाखाशब्दाद् आषाढशब्दाच्च प्रथमान्ताद् अस्य प्रयोजनमित्यर्थे अण् स्यात् , समुदायेन मन्थे दण्डे च क्रमाद् गम्ये सतीत्यर्थः, तदाह-आभ्यामिति । स्थूणामेकां निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्ज्य तयोः रज्ज्वोमेन्थनदराड ऊर्ध्वमासज्यते । येन रज्ज्वा भ्रामितेन दधि विलोड्यत इति स्थितिः । तत्र स्थूणा मन्थ इत्युच्यते । मन्थानाख्यदण्डो दण्ड उच्यते । अनयोः वैशाखशब्द आषाढशब्दश्च रूढौ । तत्रावयवार्थाभिनिवेशो न कर्तव्यः। चूडादिभ्य इति । चूडादिभ्यः प्रथमान्तेभ्यः अस्य प्रयोजनमित्यर्थे अणित्यर्थः । चौडमिति । चूडा प्रयोजनमस्येति विग्रहः । डलयोरभेदाचौलमित्यपि । श्रद्धा श्राद्धमिति । श्रद्धा प्रयोजनमस्येति विग्रहः । श्रद्धाशब्दादणि श्राद्धमित्यर्थः । अत्र प्रयोजनशब्दः कारणवाची । श्रद्धाहेतुकमिति यावत् । अनुप्रवचनादिभ्यश्छः । प्रथमान्तादनुप्रवचनादिशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । अनुप्रवचनं नाम उपनय. नाङ्गं किञ्चित्कर्म अाश्वलायनसूत्रे प्रसिद्धम् । समापनात्सपूर्वपदात् । सपूर्वपदासमापनशब्दाद् अस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । व्याकरणसमापनीय इति । मङ्गलाचार इति शेषः । ऐकागारिकद् चौरे । एकमगारं प्रयोजन ग्रहणं विस्पष्टार्थम् । अन्यथा अनन्तरस्य यतोऽनुवृत्तिराशङ्कथेत । इन्द्रमह इति । मह उत्सवः । वैशाखो मन्थः । आषाढो दण्ड इति । वैशाखाषाढशब्दो रूढिरूपेण मन्थदण्डयोर्वतते । तयोस्तु यथाकथंचिद्व्युत्पत्तिः क्रियत इति हरदत्तः । विलोडनदण्डस्यैवाधारभूतः काष्ठविशेषो मन्थ इत्युच्यते । अनुप्रवचना । अनुप्रवचनं नाम ब्रह्मौदनमुच्यते । सपूर्वपदादिति । विद्यमानपूर्वपदादित्यर्थः । ऐकागारिकद् । टो कीवर्थः । ऐकागारिकी । किमर्थमिदमुच्यते, यावता 'प्रयो. Page #527 -------------------------------------------------------------------------- ________________ ५२४ ] सिद्धान्तकौमुदी | [तद्धितेषु विधि समानकालस्या मुमुषिषोः स ऐकागारिकचौरः । १७७७ आकालिकडाद्यन्तवचने । ( ५- १ - ११४ ) समानकालावाद्यन्तौ यस्येत्याकालिकः । काल श्रादेशः । श्राशु विनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा । 'प्राकालाट्ठेश्व' (वा ३०७८ ) । श्राकालिका विद्युत् । इति तद्धितेषु प्राग्वतीयस्य उञः पूर्णोऽवधिः । 1 प्रयोजकमस्य चोरस्येति विग्रह एकागारशब्दादिकट्प्रत्यये ऐकागारिकट् इति निपात्यते । दित्त्वं ङीबर्थम् । प्रयोजनमित्येव सिद्धे चोर एवेति नियमार्थ सूत्रम् । एकमित्यस्य विवरणम् -- असहायमिति । 'एके मुख्यान्यकेवलाः' इत्यमरः । मुमुषिषोरिति । चौर्यं कर्तुमिच्छोरित्यर्थः । चोरस्य हि असहायमगारमिष्टं गेद्दान्तरसत्त्वे चौर्यप्रकटनप्रसङ्गादिति भावः । चोरे किम् ? एकागारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव । भाष्ये तु 'एकागारा चोरे' इत्येव सुवचम् । प्रकृतत्वाट्ठञ् सिद्ध इत्युक्तम् । कालिकट् । समानकालाविति बहुव्रीहिः । श्राद्यन्ताविति । उत्पत्तिविनाशावित्यर्थः । समानकालस्येति । समानकालशब्दस्य इकप्रत्यये परे श्राकालादेशो निपात्यत इत्यर्थः । ननु उत्पत्तिविनाशयोरे ककालिकत्वमसंभवपराहतमित्यत आह- आशु विनाशीति । लक्षणां विनैवाह - पूर्वदिन इति । आकालाट्ठेश्चेति । श्राकालशब्दादायन्तवचनाट्ठन् प्रत्ययश्च वक्तव्य इत्यर्थः । चात् ठञ् । आकालिका विद्युदिति । उनि टाप् । ठमि तु ङीप्, श्राकालिकी । अर्थः प्राग्वत् । इति तद्धितेषु प्राग्वतीयस्य ठञः पूर्णोऽवधिः । जनम्' इत्येव ठगि सिद्धम् । सत्यम्, चौरे नियमार्थमावश्यकमिदं सूत्रम् । अन्यथा एकागारं प्रयोजनं यस्य भिक्षोरित्यत्रापि स्यात् । नन्वेवमपि 'एकागाराचौरे' इति ठमेव नियम्यताम्, किमैकागारिक इति निपातनेन टित्करणेन च प्रयोजनमिति चेत् । अत्राहुः—टकारः कार्यावधारणार्थः । ङीबेव भवति न खिर इति । वृद्धिस्तु निपातनाद्भवत्येवेति । श्राकाल आदेश इति । निपात्यत इति शेषः । श्राद्यन्तौ यस्येत्यादि । अस्येत्यधिकारात्षष्ठ्यर्थे इकट् प्रत्ययो निपात्यत इति भावः । आकालाद्वंश्चेति । वार्तिकमिदम् । इति तत्त्वबोधिन्यां ठञधिकार प्रकरणम् । Page #528 -------------------------------------------------------------------------- ________________ प्रकरणम् ३५] बालमनोरमात्तत्त्वबोधिनीसहिता। [५२५ अथ तद्धितेषु भावकर्मार्थाः । ३६ । १७७८ तेन तुल्यं क्रिया चेद्वतिः। (५-१-११५) ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । 'क्रिया चेत्' इति किम्-गुणतुल्ये मा भूत् , पुत्रेण तुल्यः स्थूलः । १७७६ तत्र तस्येव । (५-१-११६) मधुरायामिव मधुरावस्त्रने प्राकारः । चैत्रस्येव चैत्रवन्मैत्रस्य भावः । १७८० तदहम् । (५-१-११७) __ अथ भावकर्मार्था निरूप्यन्ते । तेन तुल्यं क्रिया चेद्वतिः । तुल्यमिति क्रियेत्यस्य विशेषणम् । सामान्याभिप्रायं नपुंसकम् । तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययः स्यात् । यत्तुल्यं सा चेत् क्रियेत्यर्थः । तुल्या क्रियेत्यर्थे वतिः स्यादिति यावत् । ब्राह्मणेन तुल्यं ब्राह्मणवदधीत इति । अत्र ब्राह्मणवदित्युदाहरणम् । ब्राह्मणेन तुल्यमधीते इति विग्रहवाक्यम् । अत्र ब्राह्मणशब्देन ब्राह्मणकतृका. ध्ययनं लक्ष्यते । ब्राह्मणकर्तृकाध्ययनतुल्यं क्षत्रियकर्तृकाध्ययनमिति बोधः। गुणतुल्य इति । द्रव्यतुल्येऽपीति बोध्यम् । तेन चैत्रेण तुल्यो धनी देवदत्त इत्यादौ न भवति । 'अयमेवं न तद्वत्' इत्यादौ वतेः साधुत्वार्थम् आहेति क्रियापदं प्रयुञ्जते वृद्धाः । तत्र तस्येव । तत्रेवेति तस्येवेति चार्थे सप्तम्यन्तात् षष्ठयन्ताच वतिः स्यादित्यर्थः । अतृतीयान्तार्थ आरम्भः । अस्मादेव निर्देशादिवशब्दयोगे षष्ठयर्थे सप्तम्यपीति भाष्यम् । अत्र क्रिया चदिति नानुवर्तत इत्यभिप्रेत्योदाहरतिमधुरायामिव मधुरावस्त्रघ्ने प्राकार इति । अत्र मधुरायामिवेति नाधिकरणसप्तमी । तथा सति विद्यमानेति क्रियापदसापेक्षतया असामर्थ्यात् । अत एव अस्मादेव सूत्रनिर्देशादिवशब्दयोगे षष्ठयर्थे सप्तमीति भाष्यं संगच्छते । मधुरासंबन्धिप्राकार तेन तुल्यं क्रिया चेद्वतिः । तुल्यमिति सामान्ये नपुंसकम् । तृतीयान्तातुल्यमित्यर्थे वतिः स्याद्यत्तुल्यं क्रिया चेत्सा। ब्राह्मणेन तुल्यमिति । 'नन्वत्र ब्राह्मणो यथा वर्तते तथा क्षत्रियादिकर्तृकाध्ययनं वर्तते' इति वाक्यार्थोऽसंगत इति चेत् । अत्राहुः-ब्राह्मणशब्दस्तत्कर्तृकाध्ययने लक्षणया वर्तते । 'ब्राह्मणकर्तृकाध्ययन तुल्याध्ययनं वाक्यार्थः' इति न कोऽपि दोषः । गुणतुल्य इति । उपलक्षणमिदम् । अक्रियातुल्य इत्यर्थः । एवं च 'ब्राह्मणेन सदृशः क्षत्रियः' इत्यर्थे 'ब्राह्मणवत् क्षत्रियः' इति प्रयोगोऽसाधुरेव । अतएव 'पर्वतो वह्निमान् महानसवत्' इति वाक्ये 'महानससदृशः पर्वतः' इत्यर्थे वतेरसाधुत्वं मत्वा तस्य वतेः साधुत्वरक्षणार्थ 'पर्वतो वह्निमान् भवितुमर्हति' इत्यादि क्रियापदं प्रयुञ्जते वृद्धाः । तत्र तस्येव । सप्तम्यन्तात् षष्ठयन्ताच्च इवार्थे प्रत्ययः । 'क्रिया चेत्' Page #529 -------------------------------------------------------------------------- ________________ ५२६ ] सिद्धान्तकौमुदी । [तद्धितेषु भावकर्मार्थाः 1 1 विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्या श्रनुवर्तते । तेनेह न - राजानमर्हति छत्रम् | १७८१ तस्य भावस्त्वतलौ । ( ५- १ - ११६ ) प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोरखम्, गोता । 'स्वान्तं क्लीबम्' (लि १२० ) सदृशः स्रुन्नस्य प्राकार इति बोधः । मैत्रस्य भाव इति । वृत्तमित्यर्थः । तदर्हम् । अर्हतीत्यर्हम् । पचाद्यच् । ‘तत्' इति कर्मणि द्वितीयान्तम् । लब्धुं योग्यं भवतीत्यर्थात् । कृद्योगलक्षणषष्ठयभावस्तु श्रार्ष: । 'वतिः' इत्यनुवर्तते । द्वतीयान्तादर्हतीत्यर्थे वतिः स्यादित्यर्थः । विधिमर्हतीति । विधिं लब्धुं योग्यं भवतीत्यर्थः । विधिवत्पूज्यत इति । हरिरिति शेषः । विधिं लब्धु योग्यं हरिपूजनमित्यर्थः । विहितं प्रकारमनतिक्रान्तमिति यावत्। मण्डूकप्लुत्येति । पूर्वसूत्रे अननुवृत्तेरिति भावः । तस्य भावः । षष्ठ्यन्ताद्भाव इत्यर्थे त्वतलौ स्त इत्यर्थः । भावशब्दस्य अभिप्रायादावपि वृत्तेराह - प्रकृतिजन्यबोधे प्रकारो भाव इति । त्वतत्प्रत्ययौ यत उत्पत्स्येते तस्मात्प्रकृतिभूतशब्दाद् व्यक्तिबोधे जायमाने यज्जात्यादिकं विशेषणतया भासते तद्व्यक्तिविशेषणं भावशब्देन विवक्षितमित्यर्थः । यथा- - गोशब्दाद्धि व्यक्तिबोधे जायमाने गोत्वं विशेषणत्वेन भासते, गोशब्दस्य गोत्ववतीषु व्यक्तिषु गोत्वे च शक्तिग्रहणात् । न हि गोत्वं विहाय गोव्यक्तिषु गोशब्दस्य शक्तिग्रहः संभवति, अतीतानागतानां वर्तमानानां चानन्तत्वेन युगपदुपस्थित्यसंभवात्, गोशब्दात् प्राणित्व पशुत्वादिरूपेणापि गोव्यक्तिप्रतीत्यापतेश्च । तत्श्च सर्वासु गोव्यक्तिध्वनुगतं तदितरव्यक्तिभ्यो व्यावृत्तं कञ्चिद्धर्मविशेषं शक्यतावच्छेदकं पुरस्कृत्य गोशब्दः प्रवर्तत इति सिद्धान्तः । एवं घटादिशब्दा अपि घटत्वादितत्तद्धर्मं पुरस्कृत्य प्रवर्तन्ते 1 इति नानुवतते इति द्रव्यादितुल्ये वत्प्रत्ययो भवति । मथुरावत्स्रघ्न इति । मथुरायां यादृशः प्राकारः तेन तुल्यः प्राकारः खन्ने इत्यर्थः । तदर्हम् । अर्हतीत्यर्ह पचाद्यच् । यद्यपि कुद्योगे कर्मणि षष्ठ्या भवितव्यम्, तथापि अत्र सौत्रो विभक्तिव्यत्यय इत्येके । ‘कर्तृकर्मणोः -' इति षष्ठ्या अनित्यत्वज्ञापकमिदम् । तेन च 'धायैरामोदमुत्तमम्' इति भट्टिप्रयोगः संगच्छत इति तु कारकेष्ववोचाम । द्वितीयान्तादेव प्रत्यय इति स्फुटीकर्तुं तिङन्तेन विगृह्णाति - विधिमतीति । कथं तर्हि 'ततो यथावद्विहिताध्वराय' इति, सत्त्वार्थकस्य कर्मत्वासंभवेन द्वितीयान्तत्वाभावादिति चेत् । अत्राहुः—यथाशब्दो वृत्तिविषये सत्त्वार्थकः, तथात्वमित्यादिषु त्वतलादिदर्शनाद् । अन्यथा षष्ठयपि नास्तीति त्वतलौ न स्याताम् । तथा च द्वितीयान्ताद्यथाशब्दादर्हार्थे वतिः, योग्यतामर्हतीति विधानमित्यर्थात् क्रियायोगोऽपि सुलभ इति । तस्य भावस्त्वतलौ । प्रकृतीति । न तु यः कश्चिद्धर्मः, घटत्व Page #530 -------------------------------------------------------------------------- ________________ प्रकरणम् ३६ ] बालमनोरमा-तत्ववोधिनीसहिता। [४२७ 'तलन्तं स्त्रियाम्' (लि १७)। १७८२ श्रा च त्वात् । (५-१-१२०) 'ब्रह्मणस्वः-'इत्यतः प्राक्त्वतलावधिक्रियते । अपवादः सह समावेशार्थम् । गुणवचनादिभ्यः कर्मणि विधानार्थ चेदम् । चकारो नम्सम्भ्यामपि समावेशार्थः । स्त्रिया भावः णम्, सीत्वम्, सीता । पोस्नम्, पुंस्त्वम् , पुंस्ता । १७८३ न तदिदं शब्दप्रवृत्तिनिमित्तं भावशब्देन विवक्षितमिति भाष्यकैयटयोः स्थितम् । गोर्भाव इति । गोशब्दस्य प्रवृत्तिनिमित्तमिति बोधः । त्वान्तं क्लीवं तलन्तं स्त्रियाम् इति । लिङ्गानुशासनसूत्रसिद्धमिदम् । प्रा च त्वात् । 'त्वतलौ' इत्यनुवर्तते । आङ्मर्यादायाम् , तदाह ब्रह्मणस्त्व इत्यतः प्रागिति । ननु 'तस्य भावस्त्वतलौ इत्यतः त्वतलोरुत्तरसूत्रेष्वनुवृत्त्यैव सिद्धरधिकारोऽयं व्यर्थ इत्यत आह अपवादरिति । 'पृथ्वादिभ्य इमनिज्वा' इत्यादिविहितैरिमनिजादिभिरपवादैः समुच्चयार्थमित्यर्थः । असति त्वेतस्मिन्नधिकारसूत्रे उत्तरत्र इमनिजादिविधिषु त्वतलोरनुपस्थितिः स्यात् । प्रत्यक्षनिर्दिष्टरिमनिजादिविशेषैः शान्ताकाङ्क्षत्वात् । अन्यथा 'प्राग्दीव्यतोऽण' इत्यधिकृतस्य अणः 'अत इञ्' इत्यादा. वपि प्रवृत्तिः स्यादिति भावः । प्रयोजननान्तरमाह गुणवचनादिभ्य इति । अन्यथा भावेऽर्थे सावकाशयोस्त्वतलोः कर्मण्यर्थे गुणवचनादिभ्यो विशेषविहितेन ष्यमा बाधप्रसङ्ग इति भावः । नन्वेवमपि श्रात्वादित्येवास्तु, स्वरितत्वादेव पूर्वसूत्रादिह त्वतलोरनुवृत्तिसिद्धेस्तदनुकर्षार्थश्चकारो व्यर्थ इत्यत आह-चकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम् , अन्यत्र तयोः सावकाशत्वादिति भावः । पौंस्नमिति। संयोगान्तलोपे 'पुमः खय्यम्परे' इति रुत्वम् । पाक्षिकावनुनासिकानुखारौ, विसर्गे कृते सत्वम् । एवं पुंस्त्वम् । तत्र 'ह्रस्वात्तादौ-' इति षत्वं तु न भवति, सवनादिषु मित्यत्र द्रव्यत्वपृथिवीत्वादेरभानात् । गोर्भाव इति । इह गोशब्दोऽर्थपरः, शब्द. खरूपपरो वेति पक्षद्वयम् । यदार्थपरः, तदा धर्मविशेषः प्रत्ययार्थः, स च धर्मत्वेनैव भासते । प्रकृतिजन्येत्यादिस्तु प्रयोगोपाधिः । यदा तु शब्दपरस्तदा तज्जन्यबोधप्रकारः प्रत्ययार्थः, । स च धर्मविशेष एव । पाचकत्वमित्यंत्र तु कर्तृत्वरूपसम्बन्धः प्रकारः। पच्यमानत्वमित्यत्र तु कर्मत्वरूपसम्बन्धः । तथा औपगवत्वमित्यत्र जन्यत्वरूपसम्बन्धः प्रकारः । राजपुरुषत्वमित्यत्र तु खत्वरूपसम्बन्ध इत्यायूह्यम् । एवं स्थिते हरिटीकायो यदुक्तं 'कृत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावप्रत्ययेन' इति, तत्र नापूर्व शक्त्यन्तरं कल्प्यम् । उक्तरीत्यैव तत्राप्युपपत्तेरिति संक्षेपः । अपवादैः सहेति । 'पृथ्वादिभ्य इमनिज्वा' इत्यादिभिः । चकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्याताम् , अन्यत्र तयोः सावकाशत्वादिति भावः । पौत्रं पुंस्त्वमिति । संयोगान्तलोपे 'पुमः Page #531 -------------------------------------------------------------------------- ________________ ४२८] सिद्धान्तकौमुदी। [तद्धितषु भावकर्मार्थाःनपूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटयुधकतरसलसेभ्यः । (५-१-१२१) इतः परं ये भावप्रत्ययास्ते नन्तत्पुरुषान स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नम्पूर्वात् किम्-बार्हस्पत्यम् । तत्पुरुषात् किम्-नास्य पटवः सन्तीस्यपटुः, तस्य भाव आपटवम् । प्रचतुर इति किम्-वाचतुर्यम् । श्रासङ्गत्यम् । मालवण्यम् । श्रावट्यम् । प्रायुध्यम् । श्राकत्यम् । पारस्यम् । श्रालस्यम् । १७८४ पृथ्वादिभ्य इमनिज्वा । (५-१-१२२) वावचनमणादिसमापाठात् । न नपूर्वात् । इतः परमिति । त्वतल्विधेर्ध्वमित्यर्थः, 'नपूर्वाद् इत्युत्तरस्य प्रतिषेधः' इति भाष्यादिति भावः । चतुरादीनिति । चतुर, संगत, लवण, वट, युध, कत, रस, लस एतान् वर्जयित्वेत्यर्थः । अपतित्वमिति । इह 'पत्यन्तपुरोहितादिभ्यः' इति यक् न भवति । अपटुत्वमिति । इह 'इगन्ताच्च लघुपूर्वात्' इत्यण न भवति । बार्हस्पत्यमिति । 'पत्यन्तपुरोहितादिभ्यः' इति यक् । आपटवमिति । 'इगन्ताच्च लघुपूर्वात्' इत्ला । अपटुशब्दस्य बहुव्रीहित्वात्तत्पुरुषत्वाभावान्नास्याणो निषेध इति भावः । आचतुर्यमिति । अचतुरस्य नावः, ब्राह्मणादित्वात्म्यञ् । आसंगत्यमिति । असंगतशब्दात् ष्यञ् । पालवण्यमिति । अलवणशब्दात् ध्यञ्। श्रावट्यमिनि । न वटः अवटः, तस्मात् ष्यञ् । प्रायुध्यमिति । अयुधशब्दात् ध्यञ् आकत्यमिति । अकतशब्दात् ष्यञ् । पारस्यमिति । अरसशब्दात् व्यञ् । आलस्यमिति । लसतीति लसः, न लसः अलसः, तस्मात् ध्यञ्। पृथ्वादिभ्य इमनिज्वा । 'तस्य भावः' इत्यनुवर्तते । पृथ्वादिभ्यः षष्ठ्यन्तेभ्यो भावे इमनिज् वा स्यादित्यर्थः । ननु 'वा' ग्रहणं व्यर्थम् , 'समर्थानां प्रथमाद्वा' इति महाविभाषयैव वाक्यस्य सिद्धत्वात् । नच इमनिजभावे त्वतल्प्रत्ययार्थ वाग्रहणमिति वाच्यम् , श्रा च त्वादित्येव तत्समावेशसिद्धरित्यत आह-वावचनमणादिसमावेशार्थमिति । पृथुमृदुप्रभृतिषु 'इगन्ताच्च लघुपूर्वात्' इत्यणः, चण्डखण्डादिषु गुणवचनलक्षणष्यञः, बालवत्सादिषु वयोवचनलक्षणस्य भञश्च औत्सर्गिकस्य समावेशार्थमित्यर्थः । अन्यथा महाविभाषावशाद् 'अपवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति 'पारे मध्ये खयि-' इति रुत्वम् । पाक्षिकावनुनासिकानुस्वारी, विसणे कृते सत्वम् । अपतित्वमिति । इह 'पत्यन्त-' इति यग् न भवति । अपटुत्वमिति । इह तु 'इगन्ताच लघुपूर्वात्' इत्यण न भवति । आचतुर्यमित्यादि । ब्राह्मणादित्वात् घ्यञ् । पृथ्वादिभ्यः । अणादीति । इगन्तलघुपूर्वेषु पृथुमृदुप्रभृतिष्वणः समावेशः । चण्डखण्डादिषु गुणवचनेषु ष्यमः । बालवत्सादिषु वयोवचनलक्षणस्यात्र Page #532 -------------------------------------------------------------------------- ________________ प्रकरणम् ३६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५२६ वेशार्थम् । १७८५ र ऋतो हलादेर्लघोः । ( ६-४-१६१) हलादेर्लघोऋकारस्य रः स्याद् इष्ठेमेयस्तु । १७८६ टेः । ( ६-४-१५५ ) भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा, पार्थवम् । म्रदिमा, मार्दवम् । १७८७ वर्णदृढादिभ्यः ष्यञ्च । ( ५-१-१२३ ) चादिमनिच् । शौक्ल्यम्, शुक्तिमा । दाढर्यम् | 'पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम्' (वा ४२११ ) | द्रढिमा | षो ङीषर्थः । श्रौचिती । याथाकामी । १७८८ गुणवचनब्राह्मणादिभ्यः षष्ठ्या वा' इति सूत्रभाष्ये सिद्धान्तितत्वादिमनिच्वतलामभावे तेषां प्रवृत्तिर्न स्यादिति भावः । र ऋतो हलादेः । र इति प्रथमान्तम् । इष्ठेमेयस्स्विति शेषपूरणम् । 'तुरिष्ठेमेयस्सु' इत्यतः तदनुवृत्तेरिति भावः । 'अङ्गस्य' इत्यधिकृतं हलादेरङ्गस्य लघोः ऋकारस्य र इति रेफाकारसंघात श्रादेशः स्याद् इष्टनि इमनि ईयसि च परे इत्यर्थः । टेः। ‘इष्ठेमेयस्सु' इत्यनुवर्तते । 'अल्लोपोऽनः' इत्यतो लोप इति च, तदाह टेर्लोपः स्यादिष्ठेमेयस्स्विति । प्रथिमेति । पृथुशब्दादिमनिच्, चकार इत्, नकारादिकार उच्चारणार्थः 1 ऋकारस्य रः, उकारस्य गुणं बाधित्वा टेर्लोपः। पार्थवमिति । इमनिजभावे 'इगन्ताच्च लघुपूर्वात् इत्यण् । म्रदिमेति । मृदुशब्दादिमनिचि ऋकारस्य रः, 'टेः' इति टिलोपश्च । मार्दवमिति । 'इगन्ताच्च -' इत्यण् । वर्णदृढादिभ्यः ष्यञ्च । षष्ठ्यन्तेभ्यो वर्णवाचिभ्यो दृढादिभ्यश्च भावे ष्यञ् च स्यादित्यर्थः । गुणवचनत्वादेव ष्यञ सिद्धे इमनिच्समुच्चयार्थं वचनम् । 'पृथुं मृदुं भृशं चैव कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत्' इति वार्तिकमर्थतः सङ्ग्रह्णाति पृथुमृदुभृशेत्यादि । तेन कृतयतीत्यादाविष्ठवत्त्वेऽपि रभावो न । द्रढिमेति । शब्दादिमनिचि ऋकारस्य रः । भ्रशिमा ऋशिमा द्रढिमा परिव्रढिमा । ननु वर्णदृढादीनां व्ययन्तानां लोकतो नपुंसकत्वात् ष्यञः षित्त्वस्य किं प्रयोजनमित्यत आह षो ङीषर्थ इति । श्रचितीति । उचितशब्दाद् ब्राह्मणादित्वात् ष्यनि लोकात् स्त्रीत्वम् । षित्त्वाद् द्वीषि 'हलस्तद्धितस्य' इति यलोपः । उचितस्तु न दृढादिः, तद्गणे प्रदर्शनाद् इमनिच्प्रसङ्गाच्च । अस्यैव ष्यञ उत्तरसूत्रे अनुवृत्तेरिहैव तस्य 1 इति बोध्यम् । त्वतलौ तु पूर्वसूत्रेणैव लब्धौ । र ऋतो । हलादेः किम्, ऋजिष्ठः । ऋजीयान्, लघोः किम्, कृष्णिमा | 'पृथुमृदुभृश -' इति परिगणने तु 'हलादेर्लघोः’ इति त्यक्तुं शक्यम् । वर्णदृढादिभ्यः । गुणवचनत्वादेव सिद्धे इमनिजर्थं वचनम् । 'पृथुभृदुभृश -' इति परिगणनादिह रभावो न भवति । कृतमाचष्टे कृतयति । णाविष्ठ - वद्भावः । श्रचितीति । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । 'इलस्तद्धितस्य' इति Page #533 -------------------------------------------------------------------------- ________________ ५३० ] सिद्धान्तकौमुदी। [तद्धितेषु भावकर्मार्थकर्मणि च । (५-१-१२४ ) चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् । 'अर्हतो नुम् च' (वा ३०१२) अर्हतो भावः कर्म वा पार्हन्त्यम् , आर्हन्ती । ब्राह्मणादिराकृतिगणः। १७८६ यथातथायथापुरयोः पर्यायेण । (७-३-३१) नमः परयोरेतयोः पूर्वोत्तरपदयोः पर्यायेणादेरचो वृद्धिर्शिदादौ । अयथातथाभाव प्रायथातथ्यम् , अयाथाषित्त्वप्रयोजनकथनमिति बोध्यम् । याथाकामीति । काममनतिक्रम्य यथाकामम् । ततः स्वार्थे चतुर्वर्णादित्वात् ष्यनि लोकात् स्त्रीत्वं षित्त्वाद् ङीष् । गुणवचन । गुणोपसर्जनद्रव्यवाचिभ्यो ब्राह्मणादिभ्यश्च षष्ठ्यन्तेभ्यो भावे कर्मणि च अर्थे व्यजि. त्यर्थः । अर्हतो नुम्चेति । वार्तिकमिदम् । 'अर्हः प्रशंसायाम्' इति सूत्रेण शतरि अर्हच्छब्दः पूज्यवाचीति कैयटः । अर्हच्छब्दात् ष्यञ् स्यात्प्रकृतेर्नुम् चेत्यर्थः । मित्त्वादन्त्यादचः परः । अनुस्वारपरसवर्णौ । लोकाद् नपुंसकत्वं स्त्रीत्वं च। तदाह आहे. न्त्यमार्हन्तीति । आर्हन्त्यशब्दाद् डीषि 'हलस्तद्धितस्य' इति यलोपः । यथातथेति निपातसमुदायः। यथापुरमिति पुराशब्देन पदार्थानतिवृत्तावव्ययीभावः । इमौ शब्दौ नपूर्वपदौ ब्राह्मणादी । तयोः ष्यनि अादिवृद्धौ विशेषमाह यथातथायथापुरयोः पर्यायेण । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य चेत्यधिकारे इदं सूत्रम् । 'नमः शुचि-' इत्यतो 'नञः' इत्यनुवर्तते, तदाह नञः परयोरेतयोरिति । यथातथा यथापुर इत्यनयोरित्यर्थः । पर्यायेणेति । कदाचित्पूर्वपदस्य कदाचिदुत्तरपदस्येत्यर्थः। यलोपः । एवं यथाकामी । दृढ, वृढ, परिवृढ, भृश, कृश, इत्यादि। अत्र द्वे गणसूत्रे'वेर्यातलाभमतिमनःशारदानाम्' । विशब्दादुत्तरे ये यातादयः पञ्च तदन्तानां समासानामनन्तरः ष्यञ् भवतीत्यर्थः । वियातत्वम् , वियातता, वियातिमा, वैयात्यम् । विलाभिमा, वैलाभ्यम् । विमतिमा, वैमत्यम् । इगन्तत्वादणपि-वैमतम् । विमनिमा, वैमनस्यम् । विशारदिमा, वैशारद्यम् । त्वतलोः समावेशेन विलाभत्वम् , विलाभतेत्यादी. न्यप्यूह्यानि । समो मतिमनसोः। समः परे ये मतिमनसी तदन्तयोः समासयोर. नन्तरः ध्यञ् भवतीत्यर्थः । संमतित्वम् , संमतिता, संमतिमा, सांमत्यम् । इगन्तत्वादणि-सांमतम् । संमनस्त्वम् । संमनस्ता । संमनिमा। सामनभ्यम् । गुणवचन । ध्यअनुवर्तते, कर्म क्रिया कार्य च । 'शरीरायासमात्रसाध्यं शौचादि क्रिया । शास्त्रेण विहितो यागादिः कार्यम्' इति तयोर्भेदमाहुः । अर्हत इति । 'अर्हः प्रशंसायाम्' इति शत्रन्तोऽर्हच्छब्दः पूजार्थाभिधायीति कैयटः । प्राकृतिगण इति । केषांचित्पाठस्तु कार्यान्तराय । तथा हि-'अर्हतो नुम् च' इति नुमर्थः पाठः । एकभावः, त्रिभावः, अन्यभावः, एषां पाठः खार्थे विधानार्थः । तथा च प्रत्याहारातिके वार्तिके Page #534 -------------------------------------------------------------------------- ________________ प्रकरणम् ३६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३१ तथ्यम् । प्रायथापुर्यम् ,अयाथापुर्यम् ,पापादसमातेर्भावकर्माधिकारः। 'चतुर्वर्णादीनां स्वार्थे उपसंख्यानम्' (वा ३०६१)। चत्वारो वर्णाश्चातुर्वर्ण्यम्। चातुराश्रम्यम् । त्रैस्वर्यम् । षाड्गुण्यम् । सैन्यम् । सानिध्यम् । सामीप्यम् । औपम्यम् । त्रैलो. क्यम् इत्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः । 'सर्वादेः-' (वा२७४८) इति लुक् । स एव सार्ववेद्यः । 'चतुर्वेदस्योभयपदवृद्धिश्च' (ग सू १३)। चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । चतुर्विद्यस्य इति पाठान्तरम् । चतुर्विद्य एव चातुर्वैधः । १७६० स्तेनाद्यन्नलोपश्च । (५-१-१२५) 'न' इति सङ्घातग्रहणम् । 'स्तेन चौर्ये' पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । पायथातथ्यमिति । यथातथेति निपातनात् ष्यत्रि पूर्वपदस्यादिवृद्धिः । अयाथातथ्यमिति । उत्तरपदस्यादिवृद्धिः। आयथापुर्यमिति । यथापुरशब्दात् ष्यनि पूर्वपदस्यादिवृद्धिः। अयाथापुर्यमिति । उत्तपदस्यादिवृद्धिः। आपाद. समाप्तरिति । अत्र व्याख्यानमेव शरणम् । चतुर्वर्णादीनामिति । चतुर्वर्णादिभ्यः स्वार्थे प्या उपसंख्यानमित्यर्थः। सववदा इति । 'पूर्वकाल-' इति समासः । लुगिति । अध्येतृप्रत्ययस्येति शेषः । स एव सार्ववैद्य इति । सर्ववेदशब्दात् स्वार्थे व्यमिति भावः । चतुर्वेदस्येति । वार्तिकमिदम् । ष्यनिति शेषः । चतुर्वेद इति । 'तद्धितार्थ-' इति द्विगुः । ततोऽध्येतृप्रत्ययस्याणो 'द्विगोल्गनपत्ये' इति लुक् । चतुर्विद्यस्येतीति । 'चतुर्वेदस्योभयपदवृद्धिश्च' इति वार्तिके 'चतुर्वेदस्य' इत्यस्य स्थाने 'चतुर्विद्यस्य' इति केचित्पठन्तीत्यर्थः। चतस्रो विद्याः अधीते इत्यर्थे 'तद्धितार्थ-' इति द्विगौ 'विद्यालक्षणकल्पान्ताच्च' इति ठकि 'द्विगो गन. पत्ये' इति तस्य लुकि चतुर्विद्यशब्दात् स्वार्थे व्यनि उभयपदवृद्धौ चातुवैद्य इति रूपमिति भावः । स्तनाद्यन्नलोपश्च । यदिति च्छेदः । स्तेनशब्दात् षष्ठ्यन्ताद् भावे कर्मणि चाथै यत्स्यादित्यर्थः। नेति सङ्घातग्रहणमिति । नलोपश्चेत्यत्र नेत्यकार उच्चारणार्थो न भवति । किंतु नकाराकारसंघातग्रहणमित्यर्थः। स्तेयमिति । स्तेनशब्दाद् यत्प्रत्यये सति नेति संघातस्य लोप इति भावः । नच प्रयोगः-'आन्यभाव्यं तु कालशब्दव्यवायाद्' इति । अन्यभाव एव आन्यभाव्यम् । अन्यत्वमित्यर्थः । यत्तु व्याकरणाधिकरणे भट्टपादैरुक्तम् 'अान्यभाव्यमप्रयोगः' इति, तत्त्ववैयाकरणमीमांसकसंतोषार्थमित्यवधेयम् । सर्ववेदा इति । 'पूर्वकालैक-' इति समासः । चतुर्वेद इति । तद्धितार्थे द्विगुः । 'द्विगोलुंगनपत्ये' इत्यणो लुक् । चतुर्विद्य इति । 'विद्यालक्षणसूत्रान्ताक्' । तस्य लुक् । संघातग्रहणमिति । वर्णग्रहणे तु 'यस्येति च' इत्यकारलोपे सतीष्टं न सिध्यति । 'अचः परिस्मिन्-' Page #535 -------------------------------------------------------------------------- ________________ ५३२ ] सिद्धान्तकौमुदी। [तद्धितेषु भावकर्मार्थ'खेनात्' इति योग विभज्य स्तैन्यमिति ष्यमन्तमपि केचिदिच्छन्ति । १७६१ सख्युर्यः । (५-१-१२६ ) सख्युभावः कर्म वा सख्यम् । 'दूतवणिग्भ्यां च' दूतस्य भावः कर्म वा दूत्यम् । 'वणिज्यम्' इति काशिका । माधवस्तु 'वणिज्याशब्दः स्वभावात्स्त्रीलिङ्गः । भाव एव चात्र प्रत्ययो न तु कर्मणि' इत्याह । भाष्ये तु 'दूतवणिग्भ्यां च' इति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि। १७६२ कपिज्ञात्योर्डक् । (५-१-१२७ ) कापेयम् । ज्ञातेयम् । १७६३ पत्यन्तपुरोहितादिभ्यो यक् । (५-१-१२८) सैनापत्यम् । पौरोहित्यम् । 'राजासे' नकारमात्रलोपेऽपि 'यस्येति च' इत्यकारलोपात् स्तेयमिति सिध्यतीति वाच्यम् , 'अचः परस्मिन्-' इत्यकारलोपस्य स्थानिवत्त्वेन तमाश्रित्य एकारस्य अयादेशप्रसङ्गात् । नच संघातग्रहणेऽपि 'अलोऽन्त्यस्य' इत्यकारस्यैव लोपः स्यादिति शङ्कयम् , 'यस्येति च' इत्येव अकारस्य लोपसिद्धाविह नलोपविधिवैयर्थ्यात् , 'नानर्थकेऽलोऽन्त्यविधिः-' इति निषेधाच्च । योगं विभज्येति । 'स्तनात्' इति पृथक् सूत्रम् । 'ध्यञ्' इत्यनुवर्तते। स्तेनशब्दाद्भावे कर्मणि च प्यनित्यर्थः । समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति आकडारसूत्रभाष्यरीत्या स्तेनशब्स्य पचाद्यजन्तस्य कृदन्तस्य गुणवचनत्वाभावादप्राप्ताविदं वचनम् । अव्युत्पन्न प्रातिपदिकतया गुणवचनत्वेऽपि यत्प्रत्ययेनापवादेन पक्षे समावेशार्थ वचनम् । ततो 'यन्नलोपश्च' इति योगान्तरम् । 'स्तेनात्' इत्यनुवृत्तावुक्लोऽर्थः । केचिदिति । भाष्यादृष्टत्वाद् योगविभागोऽयमप्रामाणिक इति भावः । सख्युर्यः । सखिशब्दात् षष्ट्यन्ताद् भावकर्मणोः यः स्यादित्यर्थः । दूतवणिग्भ्यां चेति । वार्तिकमिदम् । आभ्यामपि षष्टयन्ताभ्यां भावकर्मणोः यः स्यादिति वक्तव्यमित्यर्थः । नास्त्येवेति । वार्तिकत्वे तस्य भाष्ये पाठावश्यकत्वात् पाठस्य चाभावादप्रामाणिकमेवेदं वृत्तिपठितं वार्तिकमिति भावः । तर्हि दूतवणिग्भ्यां भावकर्मणोः कथं यप्रत्यय इत्याशङ्कय नास्त्येव यप्रत्ययः, किंतु व्यञवेत्याह ब्राह्मणा. दित्वाद्वाणिज्यमपीति । अपिना दौत्यसंग्रहः । कपिज्ञात्योर्डक् । पञ्चम्यर्थे षष्टी । श्राभ्यां षष्ठयन्ताभ्यां भावकमणोः ढगित्यर्थः । अत्र कपिज्ञात्योः भावकर्मणोश्च न यथासंख्यम् , व्याख्यानात् । पत्यन्त । पत्यन्तेभ्यः पुरोहितादिभ्यश्च षष्ठयइत्यल्लोपस्य स्थानिवद्भावादयादेशप्रसङ्गादिति भावः । ननु संघातग्रहणेऽपि 'अलोऽन्त्यस्य' इत्याकारस्यैव लोपः स्यान्न तु संघातग्रहणस्येति चेत् । मैवम् , अारम्भसामर्थ्याद् 'नानर्थकेऽलोन्त्यविधिः-' इति निषेधाद्वा तत्सिद्धेः । कपिज्ञात्योः । इह कपिज्ञाती द्वौ, भावकर्मणी अर्थावपि द्वौ, तयोर्यथासंख्यं न भवत्यस्खरितत्वप्रतिज्ञानात् । एवं Page #536 -------------------------------------------------------------------------- ________________ प्रकरणम् ३६] बालमनोरमा तत्त्वबोधिनीसहिता। [५३३ (ग सू १०६) राजन्शब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वात्ष्यञ् , प्राधिराज्यम् । १७६४ प्राणभृज्जा. तिवयोवचनोगात्रादिभ्योऽञ् । (५-१-१२६ ) प्राणभृजाति-श्राश्वम् । प्रौष्ट्रम् । वयोवचन-कौमारम् , कैशोरम् , प्रौद्गात्रम् । श्रीनेत्रम् । सौष्ठवम् । दौष्ठवम् । १७६५ हायनान्तयुवादिभ्योऽण् । (५-१-१३०) द्वैहायनम् । न्तेभ्यो भावकर्मणोर्यक् स्यादित्यर्थः । राजासे इति । पुरोहितादिगणसूत्रमिदम् । राजा असे इति च्छेदः । स इति समासस्य प्राचां संज्ञा । तदाह-राजन्शब्द इति । राज्यमिति । यकि टिलोपः। 'ये चाभावकर्मणोः' इति प्रकृतिभावस्तु न, अभावकर्मणोरिति पर्युदासात् । समासे त्विति । अधिको राजा अधिराजः प्रादिसमासः। असे इति पर्युदासाद्यगभावे ब्राह्मणादित्वात् ष्यनि आधिराज्यमिति रूपमित्यर्थः । यध्योः स्वरे विशेषः । प्राणभृजाति । प्राणभृतः-प्राणिनः, तजातिवाचिभ्यो वयोविशेषवाचिभ्य उद्गात्रादिभ्यश्च षष्ठयन्तेभ्यो भावकमणोः अजित्यर्थः । प्राणभृजातीति उदाहरणसूचनम् । एवं वयोवचनेति । हायनान्त । हायनान्तेभ्यो युवादिभ्यश्च षष्ठयन्तेभ्यो भावकर्मणोः अण स्यादित्यर्थः । द्वैहायनमिति । द्विहायनस्य भावः कर्म वेति विग्रहः । वयोवचन'पत्यन्तपुरोहितादिभ्यः- 'द्वन्द्वमनोज्ञादिभ्यः-' इत्यत्रापि बोध्यम् । ब्राह्मणादित्वादिति । यद्यपि ब्राह्मणादिषु राजन्शब्दः केवलः पठितः, तथाप्ययमेव 'असे' इति प्रतिषेधो ज्ञापयति 'अस्त्यत्र प्रकरणे राजन्शब्देन तदन्तविधिः' इति। एवं च ब्राह्मणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति । अन्ये तु ब्राह्मणादेराकृतिगणत्वादेव तदन्तात् कथंचित्ष्यत्रि सिद्ध राजन्शब्दस्य तत्र पाठो यका सह समावेशार्थ इति । तथा चावेष्टयधिकरणे शाबरभाष्ये उक्तं 'राज्ञः कर्म राज्यं ब्राह्मणादित्वात् व्यञ्' इति । पुरोहित, संग्रामिक, पथिक, सारथिकेत्यादयः पुरोहितादयः । प्राणभृजाति । मुखनासासंचारी वायुः प्राणः । 'प्राणिजाति-' इत्येव सुवचम् । प्राणभृदिति किम् , तृणत्वम् , तृणता । जातीति किम् , देवदत्तत्वम् । औद्गात्रमिति । उद्गात्रादिषु ये ऋत्विग्वचनास्तेभ्यो 'होत्राभ्यश्छः' इति छे प्राप्ते अञ् विधीयते । सुष्ठु दुष्ठु द्वाभ्यां गुणलक्षणे व्यनि प्राप्त, वधूशब्दादिगन्तलक्षणेऽणि, शेषेभ्यस्त्वतलोः प्राप्तयोः । इह तु 'सुभगं मन्त्रे' पठ्यते । सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगे अञमुत्पादयतीत्यर्थः । 'महते सौभगाय' । सर्वविधीनां छन्दसि वैकल्पिकत्वादिह 'हृद्भगसिन्ध्वन्ते-' इत्युत्तरपदवृद्धिर्न भवति। अतएव मन्त्रेऽपि कचिदञ् न भवति । 'सौभाग्यमस्यै दत्त्वाय' इह ष्यञ् । हायनान्त। अस्मात्त्वतलोः HTTHLEH Page #537 -------------------------------------------------------------------------- ________________ ५३४ ] सिद्धान्तकौमुदी। [तद्धितेषु भावकर्मार्थत्रैहायनम् । यौवनम् । स्थाविरम् । 'श्रोत्रियस्य यत्नोपश्च' (वा ३०९३)। श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम्, कौशलमित्यादि । १७६६ इगन्ताञ्च लघुपूर्वात् । (५-१-१३१) शुचेर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम्-कविशब्दस्य ब्राह्मणादित्वालक्षणस्य अञोऽपवादः । एवं त्रैहायनमपि । यौवनमिति । अनिति प्रकृतिभावान टिलोपः। श्रोत्रियस्येति । वार्तिकमिदम् । श्रोत्रियशब्दात् षष्ठयन्ताद् भावकर्मणोः अण् , प्रकृतेर्यलोपश्चेत्यर्थः । 'य' इति संघातग्रहणम् । श्रौत्रमिति । छन्दोऽधीते इत्यर्थे छन्दश्शब्दाद् घप्रत्यये तस्य इयादेशे प्रकृतेः श्रोत्र इत्यादेशे 'यस्येति च' इत्यल्लोपे श्रोत्रियशब्दः । श्रोत्रियस्य भावः कर्म वेत्यर्थे श्रोत्रियशब्दादणि यकाराकारसंघातस्य लोपे रेफादिकारस्य 'यस्येति च' इति लोपे श्रौत्रमिति रूपम् । यकारादकारस्य 'यस्येति च' इति लोपे सति यकारमात्रस्यानेन लोपे तु रेफादिकारस्य यण स्यात् । नच तस्य 'यस्येति च' इति लोपः शङ्कयः, लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायात् । अकारलोपस्य स्थानिवत्त्वेन इकारान्तस्य भत्वाभावाच्च । 'श्रोत्रियस्य घलोपश्च' इत्येके पठन्ति । इगन्ताच्च । लघुः पूर्वोऽवयवो यस्येति विग्रहः । पूर्वत्वं च इगवधिकमेव गृह्यते, व्याख्यानात् । तथा च लघुपूर्वो य इक् तदन्तात्प्रातिपदिकात् षष्ठयन्ताद्भावकर्मणोरण स्यादित्यर्थः । गुणवचनेत्यादेरपवादः । कथं काव्यमिति । कविशब्दस्य लधुपूर्वेगन्तत्वाद् प्राप्तयोरण्विधानम् । युवस्थविरशब्दाभ्यां वयोवचनलक्षणे अनि प्राप्ते। यौवनमिति । अणि परतः 'अन्' इति प्रकृतिभावः । मनोज्ञादिपाठाद् वुअपि । यौवनकम् । 'प्रकृत्याऽके राजन्यमनुष्ययुवानः' इति प्रकृतिभावः । श्रोत्रियस्येति । श्रोत्रियंश्छन्दोऽधीते' इत्यत्र छान्दसः श्रोत्रभावः घंश्च प्रत्यय इति यदा व्याख्यानम् , तदेह 'घलोपः' इति यथाश्रुतम् । यदा तु 'वाक्यार्थे पदरचनम्' इति पक्षः, तदा घशब्देन इय इति रूपं लक्ष्यते । क्वचित्तु 'यलोपश्च' इति पाठः, तत्र येति संघातग्रहणं व्याख्येयम् । वर्णग्रहणे त्विकारस्य यणादेशः स्यान्न तु 'यस्येति च' इति लोपः । अकारलोपस्य स्थानिवत्त्वेन इकारान्तस्य भत्वाभावात् । एतच्च हरदत्तग्रन्थे स्पष्टम् । मूलपुस्तकेषु 'यलोपः' इति मुख्यपाठ एव प्रायेण दृश्यते, न तु घलोप इति पाठः । इगन्ताच्च । लघुः पूर्वोऽवयवो यस्येति प्रातिपदिकविशेषणम् । पूर्वत्वं च संनिधानदिगवधिकमेव । तेनातिपाण्डशब्दान्न भवति । 'लघुपूर्वेकः' इत्येव सुवचम् । लघुपूर्वश्वासौ इक् च लघुपूर्वेक् तस्य प्रातिपदिकविशेषणात्तदन्तलाम इति नव्याः । इगन्तात्किम् , घटत्वम् । लघुपूर्वात्किम् , पाण्डुत्वम् । कथं काव्यमिति । कुधातोः Page #538 -------------------------------------------------------------------------- ________________ प्रकरणम् ३६] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३५ स्व्यञ् । १७६७ योपधाद गुरूपोत्तमाद् वुञ् । (५-१-१३२) रामणीयकम् । प्राभिधानीयकम् । 'सहायाद्वा' (वा ३०१४)। साहाय्यम् , साहायकम् । १७६८ द्वन्द्वमनोशादिभ्यश्च । (५-१-१३३) शैष्योपाध्यायिका । मानोज्ञकम् । १७६६ गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु । (५-१-१३४) अत्याकारोऽधिक्षेपः । तदवेतः ते गोत्रचरणयोर्भावकर्मणी प्राप्तः अवगतवान्वा । गार्गिकया श्लाघते। गायत्वेन विकस्थत इत्यर्थः । गार्गिकया अत्याकुरुते । 'गुणवचन-' इति ध्यनं बाधित्वा अण्प्रसङ्गात् काव्यमिति कथमित्याक्षेपः । समाधत्ते कविशब्दस्येति । ब्राह्मणादित्वादित्यनन्तरं ष्यनि उपपाद्यमिति शेषः । योपधात् । योपधाद् गुरुपोत्तमात् प्रातिपदिकात् षष्ठयन्ताद्भावकर्मणोर्बुनित्यर्थः । रामणीयकमिति । रमणीयशब्दाद् वुञ् । आभिधानीयकमिति । अभिधानीयशब्दाद् वुञ् । सहायाद्वेति । बुधिति शेषः । पक्षे ब्राह्मणादित्वात् ध्यञ् । इदं तु वार्तिकं भाष्ये क्वचिन्मृग्यम् । द्वन्द्वमनोज्ञादिभ्यश्च । द्वन्द्वाद् मनोज्ञादिभ्यश्च षष्ठयन्तेभ्यो वुमित्यर्थः । शैष्योपाध्यायिकेति । शिष्यश्च उपाध्यायश्चेति द्वन्द्वाद् वुञ्। स्त्रीत्वं लोकात् । यद्यपि 'योपधात्' इत्येव सिध्यति तथापि गौपालपशुपालिकेत्युदाहरणं बोध्यम् । गोत्रचरणात् । गोत्रप्रत्ययान्तात् शाखाध्येतृवाचिनश्च षष्ठयन्ताद्भावकर्मणोर्बुञ् स्यात् श्लाघादिषु विषयेष्वित्यर्थः । अपत्याधिकारादन्यत्र प्रवराध्यायप्रसिद्धं गोत्रमित्युक्तम् । 'अत्याकार' इत्यस्य विवरणम् अधिक्षेप इति । तदवेत' इत्येतद्विवृणोति-ते गोत्रेति। तच्छब्देन गोत्रचरणयोः भावकर्मणी विवक्षिते । अवपूर्वादिणः प्राप्त्यर्थाद् ज्ञानार्थाद्वा कर्तरि क्तः । ते अवतस्तदवेत इति विग्रहः । 'द्वितीया' इति योगविभागात् समासः । 'ओरावश्यके' इति रूपसिद्धावपि कवेः कर्मेत्यर्थे कावमिति स्यादिति प्रश्नः । योपधात्। गुरु उपोत्तमं यस्य प्रातिपदिकस्य तस्मादित्यर्थः । योपधात्किम् , विमानत्वम् । गुरूपोत्तमादिति किम् , क्षत्रियत्वम् । आभिधानीयकमिति । अत्र प्रकृतिरभेः परोऽनीयरप्रत्ययान्तो दधातिः । श्रभिधानीयस्य भावः कर्म वेत्यर्थः । सहायाद्वेति । सूत्रेण नित्ये प्राप्ते विकल्पार्थ वचनम् । द्वन्द्वमनोशादिभ्यश्च । मनोज्ञ, प्रियरूप, बहुल, अवश्येत्यादिमनोज्ञादिः । गोत्रचरणात् । गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद् वुञ् स्याद्भावकर्मणोः । अपत्याधिकारादन्यत्र लौकिकं गोत्रम् , तेनापत्यप्रत्ययान्तेभ्य इत्यर्थः । प्रवराध्याये ये पठितास्तेभ्य इत्यपरे । 'गोत्रं च चरणैः सह' इति जातित्वाद् 'प्राणभृजाति-' इत्यादिना अनि प्राप्त वचनम् । श्लाघेत्यादि । श्लाघादिषु विषयभूतेष्वित्यर्थः । प्राप्त इति । इणः प्राप्त्यर्थत्वात् । अपूर्वस्येणो ज्ञाने Page #539 -------------------------------------------------------------------------- ________________ ५३६ ] सिद्धान्तकौमुदी। [तद्धितेषु भावकर्मार्थगार्गिकामवेतः । १८०० होत्राभ्यश्छः । (५-१-१३५) होत्राशब्दो ऋविग्याची स्त्रीलिङ्गः । बहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा अच्छावाकीयम् । मैत्रावरुणीयम् । १८०१ ब्रह्मणस्त्वः । (५-१-१३६) होत्रावाचिनो ब्रह्मन्शब्दावः स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेति वाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद् ब्रह्मन्शब्दात्तु स्वतलौ । ब्रह्मत्वम् , ब्रह्मता। इति तद्धितेषु भावकर्माधिकारप्रकरणम् । अवगतवान्वेति । ज्ञातवानित्यर्थः । गार्गिकयेति । गार्यशब्दाद् बुनि 'आपत्यस्य-' इति यलोपे 'यस्येति च' इत्यकारलोपे लोकात् स्त्रीत्वे टापि 'प्रत्ययस्थात्-' इति इत्त्वे गार्गिकाशब्दः । काठिकया श्लाघत इति चरणादुदाहार्यम् । अत्र श्लाघादयः पदान्तरोपात्ता एव प्रत्ययान्वियिनः, नतु प्रत्ययवाच्या इति बोध्यम् । होत्राभ्यश्छः । ऋत्विग्वाचीति । याज्ञिकप्रसिद्धेरिति भावः । ऋत्विग्विशेषवाचिभ्यः षष्टयन्तेभ्यः छः स्याद्भावकर्मणोरित्यर्थः । अच्छावाकीयमिति । 'आ च त्वात्' इति त्वतलोरपि सर्वत्र समावेशो बोध्यः। ब्रह्मणस्त्वः। होत्राभ्य इत्यनुवृत्तमेकवचनेन विपरिणम्यते । तदाह होत्रावाचिनइति । ऋत्विग्वाचिन इत्यर्थः । ननु ब्रह्मणो नेत्येवास्तु । ब्रह्मणश्छो न इत्यर्थलाभे सति छ निषिद्धे आ च त्वादित्यधिकाराद् ‘होत्राभ्यश्छः' इत्येव भावकर्मणो. स्त्वप्रत्ययः लिध्यतीत्यत आह नेति वाच्य इति । तलो वाधनार्थमिति । अधिकारवशाद्धोत्राभ्य इति भावकर्मणोः प्राप्तस्य तलो निवृत्त्यर्थमित्यर्थः । एतेन 'तस्य भावस्त्वतलौ' इत्यनेन ब्रह्मणः कर्मणि त्वस्याप्राप्तेस्तदर्थं त्वप्रत्ययविधानमिति न शक्यम् , नापि ब्रह्मणो नेत्युक्ते पूर्वसूत्रविहितानां त्वतल्छानां निषेधः स्यादित्यपि शङ्कयम् , शब्दोपात्तस्य छस्यैव निषेधात् । अत्र होत्राग्रहणानुवृत्तेः प्रयोजनमाह--ब्राह्मणपर्यायादिति। इति तद्धितेषु भावकर्माधिकारः । प्रसिद्धत्वादाह-अवगतवान्वेति । गार्गिकयेति । 'आपत्यस्य-' इति यलोपः । चरणाद् वुञ उदाहरणं तु काठिकया श्लाघत इत्यादि बोध्यम् । श्लाघादिष्विति किम् , गार्ग्यत्वम् । कठत्वम् । होत्राशब्द इति । जुहोतेनन् । नेति वाच्य इति । छप्रत्यये निषद्धे 'तस्य भावस्त्वतलौ' इत्यनेनैव त्वप्रत्ययः सिध्यति । विभक्तेरनुच्चारणाल्लाघवं च भवतीति भावः । 'होत्राभ्यः-' इत्यनुवृत्तेः फलं दर्शयति-ब्राह्मणपर्यायादिति । इति भावकर्मार्थकाः । इति तत्त्वबोधिन्यां नन प्रकरणम् । Page #540 -------------------------------------------------------------------------- ________________ प्रकरणम् ३६ ] बालमनोरमा-तत्त्ववोधिनीसहिता। [५३७ अथ तद्धितेषु पाश्चमिकप्रकरणम् । ३७। १८०२ धान्यानां भवने क्षेत्रे खञ् । (५-२-१) भवन्त्यस्मिन्निति भवनम् । मुद्दानां भवनं क्षेत्रं मौद्गीनम् । १८०३ व्रीहिशाल्योर्डक। (५-२-२) त्रैहेयम् । शालेयम् । १८०४ यवयवकषष्टिकाद्यत् । (५-२-३) यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् । १८०५ विभाषातिलमाषोमाभङ्गाणुभ्यः। (५-२-४) यद्वा स्यात् । पक्षे खन् । तिल्यम् , तैलीनम् । अथ पाञ्चमिका निरूप्यन्ते । धान्यानां भवने । धान्यवाचिभ्यः षष्टयन्तेभ्यो भवने क्षेत्रेऽर्थे खनित्यर्थः । भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपपत्तेराह-भवन्त्यस्मिन्निति भवनमिति । भूधातुरुत्पत्तिवाची । उत्पत्तिस्थानं भवनमिति लभ्यते । धान्योत्पत्तिस्थानं क्षेत्रम् । 'केदारः क्षेत्रम्' इत्यमरः। क्षेत्रशब्दाभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्या आधारसामान्यं गृहकुसूलादि लभ्येत । अतः क्षेत्रपदम् । भवनपदाभावे तु क्षेत्रशब्देन सेतुबन्धकाश्यादिपुण्य प्रदेशोऽपि लभ्येत । अतो भवनपदम् । उभयोपा. दाने तु धान्योत्पत्तिप्रदेश एव लभ्यत इति न पौनरुक्त्यम् । व्रीहिशाल्योर्डक् । व्रीहिशब्दात् शालिशब्दाच षष्ठ्यन्ताद्भवने क्षेत्रेऽर्थे ढगित्यर्थः। खोऽपवादः । यवयवक । यव, यवक, षष्टिक एभ्यः षष्ठ्यन्तेभ्यो भवने क्षेत्र यत्स्यादित्यर्थः । खजोऽपवादः । 'धान्यानाम्' इत्यनुवृत्तेरिहापि षष्ठ्येव समर्थविभक्तिः । विभाषा तिल । तिल, माष, उमा, भङ्ग, अणु एभ्यो धान्यविशेषवाचिभ्यः षष्ठ्यन्तेभ्यो यद्वा स्यादित्यर्थः । 'उमाभगौ धान्यविशेषौ' इति भाष्यम् । 'उमा स्यादतसी तुमा' धान्यानाम् । 'धिवि प्रीणने' इत्यस्मात् 'कृत्यल्युटो बहुलम्' इति कर्तरि ण्यत् । अस्मादेव निपातनादन्त्यस्य लोप इकारस्य चात्वम् । धिनोतीति धान्यम् । मन्त्रश्च धान्यमसि धिनुहि देवान्' इति दृश्यते । धान्यानामिति भवनापेक्षया कर्तरि षष्टी । सा च निर्देशादेव समर्थविभक्तिः । बहुवचनं तु खरूपविधिनिरासार्थम् । अलौकिके प्रक्रियावाक्ये तु षष्ठयन्तत्वानुवादेन तद्धितविधिसामर्थ्यादेवेति बोध्यम् । भवतिरिहोत्पत्तिवचनः क्षेत्रग्रहणसामर्थ्याद् । सूत्रे हि सत्तावचनस्यापि भवतेर्ग्रहणं मा भूदिति क्षेत्रग्रहणं कृतम् । अन्यथा 'धान्यानां भवनं कुसूलः' इत्यत्रापि स्यादिति । धान्यानां किम् , तृणानां भवनं क्षेत्रम् । व्रीहिशाल्योः । अत्रापि निर्देशादेव षष्ठी समर्थविभक्तिः । सा च भवनापेक्षया कर्तरीत्यादि पूर्ववत् । यवयवक । अत्र प्रत्ययार्थसामर्थ्याल्लभ्या षष्ठी समर्थविभक्तिः । विभाषा । खजि निये प्राप्ते वचनम् । Page #541 -------------------------------------------------------------------------- ________________ ५३८ ] सिद्धान्तकौमुदी। [तद्धितेषु पाञ्चमिकमाष्यम् , माषीणम् । उम्यम् , श्रीमीनम् । भङ्गयम् , भाङ्गीनम् । अणव्यम् , पाणवीनम् । १७०६ सर्वचर्मणः कृतः खखौ । (५-२-५) असामर्थेऽपि निपातनात्समासः । सर्वश्चर्मणा कृतः सर्वचर्मीणः, सार्वचर्मीणः । १८०७ यथामुखसंमुखस्य दर्शनः खः । (५-२-६) मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्व मुखं सम्मुखम् । समशब्दस्या. न्तलोपो निपात्यते । यथामुखं दर्शनो यथामुखीनः । सर्वस्य मुखस्य दर्शनः सम्मुइत्यमरः । अणव्यमिति । अणुर्धान्यविशेषः । यति 'भोर्गुणः' 'वान्तो थि-' इत्यवादेशः । सर्वचर्मणः । सर्वचर्मन्शब्दात्तृतीयान्तात् चर्मणा सर्व कृतम् इत्यर्थे खखनौ स्त इत्यर्थः । औचित्यादिह तृतीया समर्थविभक्तिः । नन्विह सर्वशब्दस्य कृते अन्वयात् चर्मण्यन्वयाभावादसामर्थ्याचर्मणा समासासंभवात् कथं सर्वचर्मन्शब्दा. त्प्रत्यय इत्यत आह असामर्थ्य पीति । सर्वश्चर्मणा कृत इति विग्रहवाक्यम् । चर्मणा कृत्स्नः कृत इत्यर्थः। सर्वचर्मीण इति। 'नस्तद्धिते' इति टिलोपः। सर्वेण चर्मणा कृत इत्यर्थे तु न खखी व्याख्यानात् । यथामुख । यथामुख, संमुख आभ्यां षष्ठ्यन्ताभ्यां दर्शन इत्यर्थे खः स्यादित्यर्थः। दृश्यतेऽस्मिन्निति दर्शन आदर्शादिः। ननु मुखस्य सदृशं यथामुखमिति कथमव्ययीभावः ? 'यथाऽसादृश्ये' इति सादृश्ये तनिषेधादित्यत आह निपातनादिति । संमुखशब्दे आभिमुख्यार्थकस्य समित्युपसर्गस्य न प्रवेशः, किंतु समशब्दस्य सवेपर्यायस्येत्याह समं सवे मुखं संमुखमिति । सममित्यस्य विवरणं सर्वमिति । समं च तन्मुखं चेति कर्मधारये औमीनं भाङ्गीनमिति । ननूमाभङ्गयोर्धान्यत्वाभावात्कथमिह खञ् । 'व्रीहयश्च मे यवाश्च मे' इति चमकानुवाके हि द्वादशैव धान्यानि पठितानि, न तूमाभगौ पठितौ इति चेत् । मैवम् , 'शणसप्तदशानि धान्यानि' इति स्मरणात् । तत्र चोमाभङ्गयोरपि पाठाद्धान्यत्वमस्तीति भाष्यादौ स्थितत्वात् । न च चमकानुवाके धान्यपरिगणनेनार्थः, तत्राधान्यानामप्यश्मादीनां पाठात् । धान्यानामपि केषांचित् कोद्रवादीनामपाठात् । तस्मादन्यत एव धान्यनिर्णय इति पूर्वोक्तस्मृत्या तयोर्धान्यत्वमस्तीति ज्ञेयम् । सर्वचर्मणः। 'खश्च' इत्येव तु नोक्तम् । यतोऽप्यनुकर्षः संभाव्यतेति । अत्र तृतीया समर्थविभक्तिः । कृत इति प्रत्ययार्थे चर्मणः करणत्वस्योचितत्वात् । सर्वश्चर्मणेति । सर्वेण चर्मणा कृत इत्यर्थे तद्धितो नेष्यत इति भावः। यथामुख । दृश्यतेऽस्मिन्दर्शन आदर्शादिः। अधिकरणे ल्युट् । 'असादृश्ये' इति प्रतिषेधात्सादृश्ये यथाशब्दस्य कथं समासस्तत्राहनिपातनादिति । एतच्च वृत्तिग्रन्थमनुसृत्योक्तम् । भट्टिकाव्ये तु पदार्थानतिवृत्तौ यथाशब्द श्राश्रितः । तथा च मायामृगं प्रक्रम्योक्तम्-'ययामुखीनः सीतायाः Page #542 -------------------------------------------------------------------------- ________________ प्रकरणम् ३७] बालमनोरमा तत्त्वबोधिनीसहिता। [५३६ खीनः । १८०८ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति । (५-२-७) सर्वादेः पथ्याद्यन्ताद् द्वितीयान्तात्खः स्यात् । सर्वपथान्व्यामोति सर्वपथीनः। सर्वाङ्गीणः । सर्वकर्मीणः। सर्वपत्रीणः । सर्वपात्रीणः । १८०६ आप्रपदं प्राप्नोति। (५-२-८) पादस्याग्रं प्रपदम् , तन्मर्यादीकृत्य प्राप्रपदम्-श्राप्रदीनः पटः । १८१० अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु । (५-२-६) अनुरायामे सादृश्ये वा । अनुपदं बद्धा अनुपदीना उपानत् । सर्वानानि भक्षयति संमुखशब्द इत्यर्थः । निपात्यत इति । इदं च भाष्ये स्पष्टम् । एवं च समित्युपसर्गपूर्वादयं प्रत्ययो नेष्यत इति भावः । तत्सर्वादेः। पथिन् , अङ्ग, कर्मन्, पत्र, पात्र एषां समाहारद्वन्द्वात् पञ्चम्यर्थे द्वितीया । प्रातिपदिकविशेषणत्वात्तदन्तविधिः। ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तीति निषेधस्तु न, केवलानामेषां सर्वादित्वस्यासंभवात् । तदिति तु द्वितीयान्तं व्याप्नोतीत्यत्रान्वेति । ततश्च तद्यानोतीत्यर्थे सर्वशब्दपूर्वपदकेभ्यः पथ्यङ्गकर्मपत्रपात्रान्तेभ्यः प्रातिपदिकेभ्यो द्वितीयान्तेभ्यः खः स्यादित्यर्थः फलति । तदाह सर्वादेरित्यादिना । सर्वपथानिति । 'ऋक्पू:-' इति समासान्तः । आप्रपदम् । आप्रपदमित्यव्ययीभावाद् द्वितीयान्तात्प्रामोतीत्यर्थे खः स्यादित्यर्थः । पदस्याग्रं प्रपदमिति । 'पादानं प्रपदम्' इत्यमरः। प्राप्रपदमिति । 'पाङ् मर्यादाभिविध्योः' इत्यव्ययीभावः। अनुपद । अनुपद, सर्वान, अयानय एषां समाहारद्वन्द्वाद् द्वितीया । बद्धा, भक्षयति, नेय एषां द्वन्द्वात् सप्तमी। तिङन्तस्य द्वन्द्वानुप्रवेश पार्षः । अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्बद्धादिष्वर्थेषु खः पुप्लुवे बहु लोभयन्' इति । यथामुखं दर्शन इति । अव्ययीभावस्यापि यथामुखशब्दस्योन्मत्तगङ्गादिवत्सत्त्ववचनत्वात्कर्मशक्तियोगे सति कृद्योगलक्षणा षष्ठी। तस्याः 'नाव्ययीभावात्-' इत्यमादेशः । सर्वस्य मुखस्येति । 'संमुखस्य' इति नोक्तम् । प्रत्ययसंनियोगेनैव समशब्दस्यान्त्यलोपनिपातनात् । संशब्दस्तु समशब्दार्थे न दृश्यते, 'संमुखो भव' इत्यत्र 'अभिमुख' इत्यर्थप्रतीतेः । तत्र च खप्रत्ययस्याजनिष्यमाणत्वात् । कथं तर्हि-'संयुगे संमुखीनं तमुद्गदं प्रसहेत कः' इति भट्टिः। अभिमुखावस्थानात्सामाद्भविष्यतीति हरदत्तः । तत्सर्वादेः । तदिति द्वितीया समर्थविभक्तिः । व्याप्नोतीति प्रत्ययार्थः । परिशिष्टं प्रकृतिविशेषणम् । तत्र केवलानां पथ्यादीनां सर्वादित्वासम्भवात्प्रातिपदिकैरपि तैस्तदन्तविधिः । तदाह पथ्याद्यन्तादिति । पथ्यकर्मपत्रपात्रान्तात्प्रातिपदिकादित्यर्थः । सर्वपथीन इति । 'पूर्वकालैक-' इति समासः। 'ऋक्पू:-' इति समासान्तः। तस्य पथ्यन्तसमासग्रहणेन ग्रहणाद्भवति खप्रत्ययः। अनुपदसर्वान्नायानयनम् । बद्धाभक्षयतीत्यत्र निपातनात्तिङन्तेन सह द्वन्द्वः । Page #543 -------------------------------------------------------------------------- ________________ ५४० ] सिद्धान्तकौमुदी। [तद्धितेषु पाञ्चमिकसर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः । तं नेयः अयानयीनः शारः । १८११ परोवरपरम्परपुत्रपौत्रमनुभवति । (५-२-१०) परांश्चावरांश्वानुभवतीति परोवरीणः । अवरस्योत्त्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः । प्रकृतेः परंपरभावो निपात्यते । पुत्रपौत्रान् अनुभवति पुत्रपौत्रीणः। परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गम् । तस्मादेव स्वार्थ स्यादित्यर्थः । अनुरायामे सादृश्ये वेति । श्राद्ये 'यस्य चायामः' इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः। अनुपदं बद्धति । क्रियाविशेषणत्वाद् द्वितीया । अनुपदीना उपानदिति । पदसंबन्धिोपलक्षितेत्यर्थः । पदेन सदृशीति वा । तत्तुल्यपरिमाणेति यावत् । अयानय इति । द्यूते शाराणां प्रदक्षिणपरिवर्तनम् अयः, प्रसव्यपरिवर्तनम् अनयः । अयसहितः अनयः अयानयः । प्रदक्षिणप्रसव्यगामिनां यस्मिन् युग्मादिपदे स्थितानां परकीयैः शारैरनाक्रमणं तत् स्थानमिह अयानयशब्देन लक्षणयोच्यत इत्यर्थः । एतत्सर्व भाष्ये स्पष्टम् । 'ससहायस्य शारस्य परै कम्यते पदम् । असहायस्तु शारेण परकीयेण बाध्यते ॥' इति द्यूतशास्त्रमर्यादा। विस्तरस्तु कैयटमनोरमादावनुसंधेयः । तं नेय इति । तं स्थानविशेषमयानयाख्यं प्रापणीय इत्यर्थः । णीञ् द्विकर्मकः, प्रधाने कर्मणि यत् । 'अप्रधाने द्वितीया' इति भावकर्मलकारप्रक्रियायां वक्ष्यते। परोवर । परोवर, परम्पर, पुत्रपौत्र एभ्यो द्वितीयान्तेभ्यः अनुभवतीत्यर्थे खः स्यादित्यर्थः। परोवरीण इति। परे च अवरे च परावरे । ताननुभवतीत्यर्थः । अवरस्योत्त्वमिति । अवरशब्दस्य आदेरकारस्य खप्रत्ययसंनियोगेन उत्वं निपात्यत इत्यर्थः । एवं च विग्रहवाक्ये इदमुत्वं न भवति । प्रकृतेरिति । परपरतरशब्दाद् द्वन्द्वात्खे सति तत्संनियोगेन प्रकृतेः परम्परभावो निपात्यत इत्यर्थः । नन्वेवं सति कल्याणपरम्परेत्यादौ कथं परम्पराशब्दः ? परम्परभावस्य द्वितीयान्तेभ्योऽनुपदादिभ्यो यथासंख्यं बद्धादिष्वर्थेषु खः स्यात् । अनुरायाम इत्यादि । 'यस्य चायामः' इति यथार्थे 'अव्ययम्-' इति वा अव्ययीभाव इत्यर्थः । सर्वानीन इति । प्रकारकास्न्यें सर्वशब्दः । यान्यन्नानि लभ्यन्ते उष्णानि शीतलानि सरसानि नीरसानि वा सर्वायिा भक्षयतीत्यर्थः । 'अयः प्रदक्षिणगमनम् । अनयः प्रसव्यगमनम् । प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन्परैरसमावेशः सोऽयमयानयः' इति काशिका । तं नेय इति । नयतेर्द्विकर्मकत्वादप्रधाने कर्मणि द्वितीया । अयानयीनः शार इति । 'फलकशिरसि स्थित इत्यर्थः' इति काशिका । अवरस्येति । आदेरिति शेषः । उत्वे कृते 'श्राद्गुणः' । केचित्तु ओत्वं परशब्दस्य १ 'दैर्ध्यसदृशोपलक्षितेत्यर्थः' इति क. । Page #544 -------------------------------------------------------------------------- ________________ प्रकणरम् ३७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५४१ व्यनि पारम्पर्यम् । कथं पाशेवर्यवदिति श्रसाधुरेव खप्रत्ययसंनियोगेनैव परोवरेति निपातनात् । १८१२ श्रवारपारात्यन्तानुकामं गामी । ( ५-२-११) श्रवारपारं गामी श्रवारपारीणः । अवारीणः । पारीणः । पारावारीणः । श्रत्यन्तं गामी अत्यन्तीनः । भृशं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्ता । १८१३ समां समां विजायते । ( ५-२-१२) यज्ञोपोऽवशिष्टविभक्तेरलुक्च खप्रत्ययसंनियोगशिष्टत्वादित्यत आह- परम्पराशब्दस्त्विति । तस्मादेवेति । परम्परेत्यव्युत्पन्नप्रातिपदिकादेवेत्यर्थः । कथमिति । परावरशब्दाद् भावे वा स्वार्थे वा ष्यञि अवरस्यादेरुत्वे पारोवर्यशब्दाद् मतुपि पारोवर्यवदिति कथमित्याक्षेपः, उत्वस्य खप्रत्ययसंनियोगशिष्टत्वादिति भावः । उत्वं दुरुपपादमेवेत्याह- असाधुरेवेति । नन्वत्र परोवरेति निर्देशात् खादन्यत्राप्युत्वं किं न स्यादित्यत श्राह खप्रत्ययसंनियोगेनैवेति । अत एव भाष्ये 'परांश्चावरांश्चानुभवति' इत्येव विग्रहो दर्शित इति भावः । अवारपार । श्रवारपार, अत्यन्त अनुकाम एभ्यो गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य श्रवश्यं गमिष्यन्नित्यर्थः । ' आवश्यक ाधमरार्ययोर्णिनिः' इति णिनिः । 'भविष्यति गम्यादयः' इति भविष्यत्कालता । 'बहुलमाभीक्ष्ण्ये' इति वा णिनिः । अवारपारीण इति । श्रवारपारं गामीति विग्रहः । अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात् । तदाह अवारीणः । पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र भृशवाची । तदाह भृशं गन्तेति । अनुकाममिति । काम इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्ययीभावः । समां समाम् । विपूर्वो जनिर्गर्भविमोचने वर्तते । विजायते - गर्भं विमुञ्चतीत्यर्थः । धात्वर्थेनोपसंग्रहादकर्मकः । अतो न कर्मणि द्वितीया । गर्भविमोचनेन कृत्स्नायाः समाया अव्यापनादत्यन्तसंयोगलक्षणा द्वितीयापि न भवति, किंतु सप्तम्येव । निपात्यते तस्मात्परस्यातः 'एङः पदान्तात्' इति पूर्वरूपादेश इति पक्षान्तरमाहुः । अवारपार । गामीति । 'गमेरिनिः, श्राङि णिच्च' इति बहुलवचनात्केवलादपि णिनिः । 'भविष्यति गम्यादयः' इति भविष्यत्कालता । न्यासकारस्तु 'श्रावश्यके णिनिः सोऽपि भविष्यत्येव' इत्याह । श्रवारपारमिति । 'केनोर्भविष्यदाधमर्ययोः' इति षष्ठीप्रतिषेधः । केचित्तु 'गत्यर्थकर्मणि -' इति सूत्रे द्वितीयाग्रहणमपवादविषये विधानार्थम् । तेन कृद्योगषष्ठी न भवति 'ग्रामं गन्ता' इतिवदिति व्याचख्युः । तदसत्, 'अकेनोः-' इति प्रतिषेधे षष्ठी प्रसङ्गस्यैवाभावात् । अवारीण इत्यादि । 'विगृहीताद्विपरीतादपीष्यते' इति भावः । अत्यन्तमिति । क्रियाविशेषणम् । काममिति । काम इच्छा तस्य सदृशमनुकामसू । कामानुरूपमित्यर्थः । 'अव्ययं w Page #545 -------------------------------------------------------------------------- ________________ ५४२] सिद्धान्तकौमुदी। तद्धितेषु पाञ्चमिकपूर्वपदे निपात्यते। समांसमीना गौः। 'समांसमीना सा यैव प्रतिवर्ष प्रसूयते' इत्यमरः। 'खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः' (वा ३१००)। समां समां विजायते । समायां समायां वा । १८१४ अद्यश्वीनावष्टब्धे । (५-२-१३) अद्य श्वो वा तत्र सप्तम्यन्तस्य समायामित्यस्य 'नित्यवीप्सयोः' इति द्विवचने समायां समायामिति भवितव्यम् । तत्र पदद्वयमपि यकारलोपसहितं निर्दिश्यते-समां समामिति । समायां समायामित्यर्थः । एवं च समायां समायां विजायत इत्यर्थे सप्तम्यन्तद्वयसमुदायाद् विजायत इत्यर्थे खः स्यादिति फलितम् । ननु सप्तम्यन्तद्वयसमुदायात् खप्रत्ययोत्पत्तौ तदन्तस्य समुदायस्य प्रातिपदिकत्वात् तदवयवयोः सप्तम्योलुंकि समासमीन इति स्यात् , इष्यते तु समांसमीनेति, तत्राह यलोप इति । पूर्वपदे विभक्ते तस्य यकारस्य लोपः, अवशिष्टस्य विभक्त्यंशस्य अलुक्च निपात्यत इत्यर्थः। भाष्ये तु 'यलोपनिपातनादवशिष्टविभक्त्यंशस्य न लुक्' इत्युक्तम् । ननु समा समामिति निर्देशाद् उत्तरपदेऽपि यकारलोपः अवशिष्टविभक्त्यंशस्य अलुक् च स्यादित्यत आह पूर्वपद इति । 'पूर्वपदस्य यलोपवचनम्' इति वार्तिकादिति भावः। खप्रत्ययानुत्पत्ताविति। पदद्वयेऽपीति शेषः । इह विभाषया कदाचित् खप्रत्ययाभावे सति समायां समायां विजायत इति वाक्यदशायां सप्तम्यन्तद्वये यकारलोपो वा वक्तव्य इत्यर्थः । तत्र पदद्वयेऽपि निपातनादेव यकारलोपः सिद्धः, सूत्रे उभयत्रापि तथोचाररणात् । विकल्प एव तु यलोपस्य वाक्यदशायां वाचनिक इति बोध्यम् । एतत्सर्व भाष्ये स्पष्टम् । अद्यश्वीनाऽवष्टब्धे । अद्यश्वीनेत्यविभक्तिको निर्देशः। अवष्टब्धम् आसन्नम्। 'अवाच्चालम्बनाविदूर्ययोः' इत्याविदूर्ये स्तम्भः षत्वविधानात् । अद्य श्वो वा विभक्ति-' इति यथार्थेऽव्ययीभावः । समांसमाम् । यलोप इति । 'समायाम्' इत्यत्र यकारलोप इत्यर्थः । पूर्वपदे निपात्यत इति । अन्यथा तद्धिते उत्पन्ने यथोत्तरपदे सुपो लुग् भवति 'सुपो धातुप्रातिपदिकयोः' इति तथा पूर्वपदेऽपि स्यादिति भावः । समांसमीनेति । वीप्सायां द्विवचनम् । सुबन्तसमुदायः प्रकृतिः । विजायत इत्येतद्याचष्टे-प्रसूयत इति । विपूर्वको जनिर्गर्भविमोचने वर्तत इति भावः । गर्भविमोचने कृत्स्नायाः समाया व्याप्त्यभावाद् ‘अत्यन्तसंयोगे च' इति द्वितीया न भवतीत्याशयेनाह-समायामित्यादि । खप्रत्ययानुत्पत्ताविति । पदद्वयेऽपीति शेषः । वार्तिकेन समांसमामिति सौत्रप्रयोगस्तूपपन्न इति भावः । अद्यश्वीना ।अविभक्तिको निर्देशो न तु स्त्रीलिङ्गनिर्देशोऽयम् । अद्यश्वीनो गोसमूहः। अद्यश्वीनं गोमण्डलमित्यादावपीष्टत्वात् । अद्य श्वो वेति । निपातनाद् वार्थे समासोऽयमिति भावः। 'अवाचालम्बना-' इति सूत्रेण आविदूर्ये स्तम्भेः षत्वविधा Page #546 -------------------------------------------------------------------------- ________________ प्रकरणम् ३७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५४३ 1 विजायते श्रद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । श्रद्यश्वीनं मरणम् । श्रासन्नमित्यर्थः । १८१५ श्रागवीनः । ( ५-२-१४) श्राङ्पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स नागवीनः । १८१६ अनुग्वलं गामी । ( ५-२- १५ ) अनुगु - गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः । १८१७ अध्वनो यत्खौ । ( ५-२-१६) विजायत इत्यर्थे अद्य श्वस् इति समुदायात्खः स्यादासन्नत्वे गभ्य इत्यर्थः । अद्यश्वीना वडवेति । श्रद्य वा श्वो वेति वार्थे निपातनात्समासः । खे सति 'अव्ययानां भमात्रे -' इति टिलोपः । सूत्रे अद्यश्वीनेति टाबन्तनिर्देशे तु अद्यश्वीनो गोसमूहः, अद्यश्वीनं गोमण्डलमिति न स्यात् । आगवीनः । कर्मकर इति । वार्तिकलभ्यमिदम् । भृतिं गृहीत्वा यः कर्म करोति स कमकरः । अत्र गोपालो विवक्षितः । स हि प्रातर्गा गृहीत्वा सायं चारयित्वा स्वामिनो गृहं नीत्वा प्रत्यर्पयति, तदाह गोः प्रत्यर्पणेति । श्रगवीन इति । गोशब्दो गोप्रत्यर्पणे लाक्षणिकः। 'आङ्मर्यादाभिविध्योः' इत्यव्ययीभावे 'गोस्त्रियोः -' इति ह्रस्वत्वे गुशब्दात् खे ‘श्रोर्गुणः’ इति भावः । अनुग्वलं गामी । अनुगु इत्यविभक्तिको निर्देशः । गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे ह्रस्वत्वे अनुगुशब्दः । तस्माद् अलंगामीत्यर्थे खः स्यादित्यर्थः । अत्र अनुगु इत्यस्य क्रियाविशेषणत्वाद् द्वितीयैव समर्थविभक्लिरिति हरदत्तः । कृद्योगषष्ठीत्यन्ये । अलंगामीत्यत्र अलंशब्दस्य विवरणं - पर्याप्तमिति क्रियाविशेषणम् । अध्वनो यत्खौ । श्रध्वन्शब्दाद् अलंगामीत्यर्थे यत्खौ स्त नादवष्टब्धशब्द प्रसन्नपरः । 'विजायते' इति हि वर्तते । स च गर्भविमोचनार्थकस्तदाह—आसन्नप्रसवेत्यर्थ इति । कर्मकर इति । यस्तु प्रातर्गां गृहीत्वा गच्छति गोपालस्तस्मिन्नित्यर्थः । गोः प्रत्यर्पणपर्यन्तमिति । गोशब्दो लक्षणया गोः प्रतिदाने वर्तत इति भावः । श्रागवीन इति । 'मर्यादाभिविध्योः' इत्यव्ययीभावे 'गोस्त्रियो-' इति हखे कृते खप्रत्ययः । 'श्रोर्गुणः' । अनुग्वलं । ख इत्यनुवर्तते । अनुगुशब्दाद् 'अलंगामी' इत्यस्मिन्नर्थे खः स्यात् । गोः पश्चादिति । पश्चादर्थेऽव्ययीभावः । पर्याप्तमिति । क्रियाविशेषणम् । अत्र हरदत्तः - अनुवि त्यस्य क्रियाविशेषणत्वाद् द्वितीयान्तादिह प्रत्ययः । न चालंगामीत्यस्य 'सुप्यजातौ - ' इति णिनिप्रत्ययान्ततया कृद्योगलक्षणा षष्टी स्यादिति वाच्यम्, क्रियाविशेषणात्तदप्रवृत्तेः शोभनं पाचक इत्यादौ तथादर्शनादित्याह । अत्र केचित् – धातूपात्त व्यापारजन्यफलाश्रयत्वं यत्र तन्मुख्यं कर्म, यत्र तु व्यापारजन्यत्वमात्रं तदौपचारिकम् । ततश्च तण्डुलानां पाचक इत्यत्र मुख्य कर्मणि कृद्योगलक्षणा षष्ठी भवति । मृदु पाचकः, Page #547 -------------------------------------------------------------------------- ________________ ५४४ ] सिद्धान्तकौमुदी । [तद्धितेषु पाञ्चमिक श्रध्वानमलं गच्छति अध्वन्यः, अध्वनीनः । 'ये चाभावकर्मणोः ' ( सू ११५४ ) 'आत्माध्वानौ खे' ( सू १६७१ ) इति सूत्राभ्यां प्रकृतिभावः । १८१८ अभ्य मित्राच्छ च । ( ५-२-१७) चाद्यखौ । श्रभ्यमित्रीयः, श्रभ्यमित्रयः, श्रभ्यमित्रीणः । श्रमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः । १८१६ गोष्ठात्खभूतपूर्वे । ( ५-२-१८) गोष्ठो भूतपूर्वः गौष्ठीनो देशः । १८२० अश्वस्यैका - हगमः । ( ५-२-१६ ) एका हेन गम्यते इत्येकाहगमः श्रश्वीनोऽध्वा । १८२१ शालीन कौपीने धृष्टाकार्ययोः । ( ५-२-२० ) शालाप्रवेशमर्हति शालीइत्यर्थः । अध्वानमलंगच्छतीति । अलंगामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः । श्रभ्यमित्राच्छु च । श्रमित्रः शत्रुः । तमभिमुखो भूत्वेत्यर्थे 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावे अभ्यमित्रशब्दः । तस्माद् अलङ्गामीत्यर्थे छ. प्रत्ययः स्यादित्यर्थः। गोष्ठात्खञ् । 'भूतपूर्व' इति प्रकृतिविशेषणम् । भूतपूर्वार्थवृत्तेर्गोष्ठशब्दात्स्वार्थे खः स्यादिति वृत्तिकृतः । अश्वस्यैकागमः । श्रश्वशब्दात् षष्ठ्यन्ताद् एकाहगम इत्यर्थे खञ् स्यादित्यर्थः । एकाहगमशब्दं व्युत्पादयतिएकाहेनेति । अस्मादेव निपातनात्कर्मणि गमेरबिति भावः । 'कर्तृकरणे कृता-' इति समासः । अश्वस्येति कर्तरि षष्ठी । आश्वीनोऽध्वेति । अश्वेन कर्त्रा एकान शोभनं पाचक इत्यत्र तु सा न भवति । फलव्यापारयोः क्रियाकर्मभावव्यवहारे सत्यपि फलस्यौपचारिककर्मत्वात्, तद्विशेषणत्वाच्च मृद्वादेरिति तस्याशय इत्याहुः । अन्ये त्वेवं तर्हि तुल्यन्यायेन क्रियाविशेषणाद् द्वितीयाया अप्यप्रवृत्तिः स्यात् । तस्मात् 'तदर्हम्' इति निर्देशादनित्या कृद्योगषष्ठीति क्रियाविशेषणात्सा न स्वीक्रियत इति हरदत्ताशयः कथंचिद्वर्णनीय इत्याहुः । वस्तुतस्तु पश्चादर्थेऽव्ययीभावोऽयमिति निर्विवादम् । पश्चादिति चास्तात्यर्थे निपातितम् । तच्च यद्यपि विभक्तित्रयसाधारणम्, तथापीह योग्यताबलात्सप्तम्यर्थवृत्तिः । श्रतस्तस्य कर्मत्वायोगात्प्रथमान्तादेवेह प्रत्यय इति वक्तुमुचितम्, कृद्योगलक्षणषष्ठीशङ्काप्यत एव नेति बोध्यम् । श्रभ्यमित्रात् । अभ्यमित्रशब्दो ' लक्षणेनाभिप्रती श्रभिमुख्ये' इत्यव्ययीभावः । क्रियाविशेषणत्वाद् द्वितीया समर्थविभक्तिः । गोष्ठात्खञ् । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः । ‘घञर्थे कविधानम्' इत्यधिकरणे कः । ' अम्बाम्बगोभूमि -' इति षत्वम् । पूर्वं भूतो भूतपूर्वः 'सुप्सुपा' इति समासः । श्रश्वस्य । कर्तरि षष्ठीयं निर्देशादेव समर्थविभक्तिः । एकाहगम इति । 'कर्तृकरणे कृता -' इति समासः । नन्विह 'ग्रहवृदृनिश्चिगमश्च' इत्यपं बाधित्वा 'परिमाणाख्यायां सर्वेभ्यः' इति घञ् प्राप्नोति, अस्ति चात्र परिमाणाख्या 'एकाहेन गम्यते' इति परिच्छेदावगमात् । अत्राहुः - अस्मादेव Page #548 -------------------------------------------------------------------------- ________________ प्रकरणम् ३७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४५ नोऽपृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनस्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि, तत्सम्बन्धात्तदाच्छादनमपि । १८२२ वातेन जीवति । (५-२-२१) वातेन शरीरायासेन जीवति न तु बुद्धिवैभवेन स बातीनः। १८२३ साप्तपदीनं सख्यम् । (५-२-२२) सप्तभिः पदैरवाप्यते साप्तपदीनम् । १८२४ गन्तुं शक्य इत्यर्थः । शालीन । 'शालाप्रवेशमहत्यधृष्ट इति, कूपावतरणमर्हत्यकार्य. मिति चार्थे शालाप्रवेशशब्दात्कूपावतरणशब्दाच्च खञ् । प्रवेशशब्दस्य अवतरण. शब्दस्य चोत्तरपदस्य लोपे शालीनकौपीनशब्दौ निपात्येते' इति भाष्यम् । अधृष्ट इति। अप्रगल्भ इत्यर्थः । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालाप्रवेशमेवाहेति यः स शालीन इति यावत् । कूपपतनमिति । कूपावतरणशब्दस्य विवरणमिदम् । कूपशब्दो नरकाभिधायी । कौपीनं पापमिति । नरकपतनसाधनमकार्य पापमित्यर्थः । अनयोरर्थयोरेतौ रूढौ। ननु पुरुषलिङ्गे कथं कौपीनशब्द इत्यत आहतत्साधनत्वादिति । पापसाधनत्वाद्वा, पापवदाच्छादनीयत्वाद्वा पुरुषलिङ्गे कौपीनशब्दो लाक्षणिक इत्यर्थः । तत्सम्बन्धादिति । कौपीनशब्दस्य लक्ष्यपुरुषलिङ्गसम्बन्धात् तदाच्छादनवनखण्डे कौपीनशब्दो लक्षितलक्षणया प्रयुज्यत इत्यर्थः । बातेन जीवति । वातशब्दात्तृतीयान्ताद् जीवतीत्यर्थे खञ् स्यादित्यर्थः । 'नानाजातीयानाम् अलब्धजीवनद्रव्याणां भारवहनादिकष्टकर्मजीविनां सङ्घो व्रातः । तस्य यजीवनाथ कष्टं कर्म तदिह बातम्' इति भाष्यम् । ताहशसङ्घवाचिनो वातशब्दात् 'तस्येदम्' इत्यणि वातशब्दोऽत्र तदीयकर्मणि विवक्षित इति तदाशयः, तदाह शरीरायासेनेति । साप्तपदीनम् । सप्तपदशब्दात् तृतीयान्तादवाप्यं सख्यमित्यर्थे खनि साप्तपदीनमिति भवतीत्यर्थः । सप्तभिः पदैरिति । पदविक्षेपैरित्यर्थः । निपातनादप् द्रष्टव्य इति । शालीनकौपीने । इमौ खप्रत्ययान्तत्वेन विप्रात्येते । रूढिशब्दावेतौ कथंचिव्युत्पाद्याविति नात्रावयवार्थेऽभिनिवेशः कार्यः । शालाप्रवेशमिति । अप्रागल्भ्यादन्यत्र गन्तुमशक्तः शालामेव प्रवेष्टुमर्हतीत्यर्थः । कूपपतनमिति । यदकार्य तत्प्रच्छादनीयत्वात्कूपावतरणमर्हतीत्यर्थः । तदाच्छादनमिति । वासःखण्ड इत्यर्थः । अन्ये त्वाहुः-यदकार्यशब्दे यः करोति स कियासामान्यवचनः, तेन लजाहेतुत्वेन अद्रष्टव्यत्वात्पुरुषलिङ्गं कौपीनम् । अस्पृश्यत्वातदाच्छादनमिति । शरीरायासेनेति । भारवहनादिनेत्यर्थः । यद्यपि वातशब्दो लोके सङ्घातवचनः, तथाप्यत्रत्यभाष्यादिग्रन्थपर्यालोचनया अयमेवार्थ इहोचित इति भावः । साप्तपदीनम् । योग्यतया समर्थविभक्तिस्तृतीयेति दर्शयति-सप्तभिः पदैरिति । पदमिह संभाषणं पादविक्षेपो वा । तद्धितार्थे द्विगुः । अवाप्यत इत्यर्थे Page #549 -------------------------------------------------------------------------- ________________ ५४६ ] सिद्धान्तकौमुदी । [तद्धितेषु पाञ्चमिक हैयङ्गवीनं संज्ञायाम् । ( ५-२-२३) योगोदोहस्य यिङ्गुरादेशो विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनम्नवनीतम् । १८२५ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ । ( ५-२-२४) पीलूनां पाकः पीलुकुणः । कर्णस्य मूलं कर्णजाहम् । १८२६ पक्षात्तिः । ( ५-२-२५) मूलग्रहणमात्रमनुवर्तते । पतस्य मूलं पक्षतिः । १८२७ तेन वित्तश्चुञ्चुप्चणपौ । ( ५-२-२६) यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टः, तेन चस्य नेरसंज्ञा । विद्यया वित्तो विद्यासुन्तुः । विद्याचणः । हैयङ्गवीनम् । ह्यस् इत्यव्ययं पूर्वेयुरित्यर्थे । तत्रोत्पन्नो गोदोहः - गोपयः, ह्योगो - दोहः । तस्मात् षष्ठ्यन्ताद् विकारार्थे खनि ईनादेशे प्रकृतेः हियङ्गु इत्यादेशे श्रोर्गुणे अवादेशे आदिवृद्धौ हैयङ्गवीनमिति भवति संज्ञायाम् इति भाष्यम्, तदाह 1 गोदोहस्येत्यादिना । नवनीतमिति । भाष्ये तु 'हैयङ्गवीनं घृतम्' इति दृश्यते । ' तत्तु हैयङ्गवीनं स्याद् ह्योगोदोहोद्भवं घृतम्' इत्यमरः । तस्य पाकमूले । पाकमूले इति समाहारद्वन्द्वात्सप्तमी । पाकः परिणामः । षष्ठ्यन्तेभ्यः पील्वादिभ्यः पाकेऽर्थे कुणप् । कर्णादिभ्यस्तु मूलेऽर्थे जाहजत्यर्थः । कुणपस्तद्धितस्वात् ककारस्य त्संज्ञा । जाहचस्तु जकारस्य प्रयोजनाभावाद् नेत्संज्ञा । पक्षात्तिः । मूलग्रहणमात्रमिति । पूर्वसूत्रे पाकमूल इति समासनिर्दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः । 'तस्य' इत्यप्यनुवर्तते । पक्षशब्दात् षष्ठ्यन्ताद् मूलेऽर्थे तिप्रत्ययः स्यादित्यर्थः । तेन वित्तः । तृतीयान्ताद् वित्त इत्यर्थे खञ् । हैयङ्गवीनम् । ह्योगोदोहस्येति । गोर्दो हो गोदोहः षष्ठीसमासः । तेन सह ह्यस्ाब्दस्य 'सुप्सुपा' इति समासः । ततो विकारे अनुदात्तलक्षणस्यात्रोऽपवादः खम् । यस्शब्देन कालप्रत्यासत्तिर्विवक्षिता । नवनीतमिति । यद्यपि वृत्तौ घृतमित्युक्तम्, तथैव चामरेणापि - ' तत्तु हैयङ्गवीनं यद् योगोहो-द्रवं घृतम्' इत्युक्तम्, तथापि घृतशब्देन नवनीतमेव विवचितमिति हरदत्तग्रन्थानुरोधेनेदमुक्तम् । तस्य पाक | पाकः परिणामः । मूलमुपक्रमः । ' तस्येदम्' इत्यादिषु प्राप्तेष्वयमारम्भः । जाहचो जकारस्य प्रयोजनाभावान्नत्वम् । पीलु, कर्कन्धु, शर्म, करीर, कुवल, बदर, अश्वत्थ खदिर पील्वादिः । कर्ण, अक्षि, नख, मुख, केश, पाद, गुल्फ, भ्रू, शृङ्ग, दन्त, श्रेष्ठ, पृष्ठ कर्णादिः । मूलग्रहणमात्रमिति । एकादेशे स्वरितत्वप्रतिज्ञाना - दिति भावः । पक्षतिरिति । प्रतिपत्, प्रक्षिणां पक्षमूलं च । तेन वित्तः । वित्तः प्रतीतः । 'वित्तो भोगप्रत्यययोः' इति निपातनाद् ' रदाभ्यां निष्ठातो नः-' इति नत्वं न । लुप्तनिर्दिष्ट इति । 'चुटुषाः प्रत्ययस्य' इति वक्तव्ये पृथग्योगकरणात् Page #550 -------------------------------------------------------------------------- ________________ प्रकरणम् ३७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५४७ १८२८ विनञ्भ्यां नानात्री नसह । ( ५-२-२७ ) असहायें पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना । नाना । १८२६ वेः शालच्छङ्कटचौ । ( ५-२-२८ ) क्रियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतं विशालम् । विशकटम् । १८३० संप्रोदश्च कटच् । ( ५-२-२१) संकटम् । प्रकटम् । उस्कटम् । चाद् विकटम् | 'अल्लाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम्' (वा ३१०७) । श्रलाचुञ्चुप्चणपौ भवत इत्यर्थः । वित्तः प्रसिद्धः । चस्य नेत्संशेति । उपदेशे आदित्वाभावादिति भावः । विनञ्भ्याम् । नसहेति संघातः पृथक्त्वे वर्तते । प्रकृतिविशेषणमिदम्, तदाह असहार्थ इति । तस्य विवरणं पृथग्भाव इति । वर्तमानाभ्यामित्यनन्तरं विनञ्भ्यामिति शेषः । स्वार्थ इति । प्रत्ययार्थस्य निर्देशादिति भावः । प्रत्ययाविति । यथासङ्ख्यं नानानाविति शेषः । विनेति । वेर्ना प्रत्यये रूपम् । पृथगित्यर्थः । नानेति । नमो नानि श्रदिवृद्धौ रूपम् । पृथगित्यर्थः । नसहेत्यस्य प्रत्ययार्थत्वे तु 'ना' इत्यनेन न सहेति गम्येत । एवं सति नाना-न न सह, किंतु सहैवेत्यर्थः स्यात्, 'द्वौ नवौ प्रकृतमर्थं गमयतः' इति न्यायाद् इति भाष्ये स्पष्टम् । वेः शालच्छङ्कटचौ । क्रियाविशिष्टेति । क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययौ स्त इति यावत् । इदं च भाष्ये स्पष्टम् । संप्रोदश्च कटच् । सं, प्र, उत् एभ्यश्च क्रियाविशिष्टसाधनवाचिभ्यः स्वार्थे कटच् स्यादित्यर्थः । चाद्वेरपि । संकटं संहतमित्यर्थः । निबिडीकृतमिति यावत् । प्रकटमिति । प्रज्ञातमित्यर्थः । प्रकाशमिति यावत् । उत्कटमिति । उन्नतमित्यर्थः । अधिकमिति यावत् । रूढशब्दा एते कथश्चिद्व्युत्पाद्याः । अलाबूति'चुटू' इत्येतदनित्यमिति समाधानान्तरमप्याहुः । नानाञाविति । नामो मकारो वृद्ध्यर्थः खरार्थश्च । 'न सह' इति प्रकृतिविशेषणम्, न प्रत्ययार्थ इत्याशयेनाह - असहार्थ इत्यादि । यदि प्रत्ययार्थः स्यात्ततो 'द्वौ प्रतिषेधौ प्रकृतमर्थं गमयतः ' इति सहार्थो गम्येत 'न न सह, अपि तु सहैव' इति । तस्मात्प्रकृतिविशेषणम् । एतश्च व्याख्यानाल्लभ्यते । यद्येवं सहेत्येव प्रत्ययार्थोऽस्तु, विनयोः प्रतिषेधार्थत्वादिष्टसिद्धेः 'विगर्दभरथकः' इत्यादौ विशब्दस्यापि प्रतिषेधवृत्तिर्दृष्टैवेति । सत्यम्, क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत । विगतेन सह विकृतेन सहेति । तस्माद्यथोक्तमेव न्याय्यम् । एतच्च हरदत्तप्रन्थे स्पष्टम् । स्वार्थ इति । विनिर्दिष्टार्थत्वादिति भावः । संप्रोदश्च । क्रियाविशिष्टसाधनवाचकात्स्वार्थे प्रत्ययः । संकटं संहतम्, संबाध इत्यर्थः । प्रकटं प्रज्ञातम्, प्रकाशत इत्यर्थः । उत्कटं उद्भूतम्, विकटं विकृतम्, रूढशब्दाक्षैते कथंचिद्व्युत्पाद्यन्ते । अलाबूतिलेत्यादि । एभ्यः पञ्चभ्यो रजस्यभिधेये Page #551 -------------------------------------------------------------------------- ________________ ५४८ ] सिद्धान्तकौमुदी। [तद्धितेषु पाञ्चमिक बूनां रजः अलाबूकटम् । 'गोष्ठजादयः स्थानादिषु पशुनामभ्यः' (वा ३१०१)। गवां स्थानं गोगोष्ठम्। 'सङ्घाते कटच्' ( वा ३११०)। वीनां सङ्घातः अविकटः । 'विस्तारे पटच्' (वा ३११५) । अविपटः । 'द्वित्वं गोयुगच्' । (वा ३११६)। द्वौ वृषौ वृषगोयुगम् । षट्वे षड्गवच्' (वा ३११७) अश्वषनवम्। 'स्नेहे तैलच' ( वा ३११८)। तिलतलम् सर्षपतैलम् । 'भवने क्षेत्रे शाकटशाकिनी' ( वा ३११६) इशाकटम् , इशाकिनम् । १८३१ अवाकुटालेति । अलाबू , तिल, उमा, भङ्गा-इत्येभ्यः षष्ठयन्तेभ्यो रजसि अभिधेये कटचः उपसंख्यानमित्यर्थः । विकारप्रत्ययानामपवादोऽयम् । रजः चूर्णरेणुः । गोष्ठजादय इति । पशुनामभ्यः स्थानादिष्वर्थेषु गोष्ठजा स्यः प्रत्यया वक्तव्या इत्यर्थः । गोष्ठजादीनां प्रत्ययानां स्थानादीनां चार्थानां पञ्चनपराणि 'सङ्घाते कटच्' इत्यादीनि 'शाकटशाकिनौ' इत्यन्तानि षड् वार्तिकानि । तेषु चतुर्ष 'पशुनामभ्यः' इत्यनुवर्तते । अप्रसूतावयवः समूहः संघातः । प्रस्तावयवस्तु विस्तारः । द्वित्व इति । प्रकृत्यर्थगतद्वित्व इत्यर्थः । द्वौ वृषौ वृषगोयुगमिति । द्यवयवकसंघाताभिप्रायमेकवचनम् । द्वयं युग्ममित्यादिवत् । केचित्तु द्वौ वृषावित्यर्थे वृषगोयुगमिति स्वभावादेकवचनं विंशतिरित्यादिवदिलाहुः । एवमुष्ट्रगोकटच् प्रत्ययो भवति । रजसो विकारत्वाद्विकारे प्रत्ययानामपव दोऽयम् । अलाबूकटमिति । 'ओर' 'मड्वैतयोः-' इति मयड् वेह प्राप्तः । तिलकटमिति । 'असंज्ञायां तिलयवाभ्याम्' इति मयट प्राप्तः। उमाशब्दाद् वृतादित्वादन्तोदात्ताद् 'अनुदात्तादेश्व-' इत्यञ् , 'उमोर्णयोर्वा' इति वुच्च प्राप्तः । भागब्दात् 'तृणधान्यानां च द्यषाम्' इत्यायुदात्तत्वादण्मयड्वा प्राप्त इत्येवं यथासंभा प्रत्ययप्राप्तिरूह्या । हरदत्तस्तु-तिलशब्दस्य घृतादित्वादन्तोदात्तत्वमङ्गीकृत्य त्तः 'अनुदात्तादेश्व' इत्यञ्, 'असंज्ञायां तिलयवाभ्याम्' इति मयड् वा प्राप्त इत्याह । तत्र तिलशब्दस्य घृतादित्वकल्पने बीजं चिन्त्यम् । 'तृणधान्यानां च यषाम्' इति फिटसूत्रेणाद्युदात्तस्यैव न्याय्यत्वात् । 'तिलाश्च में' इत्यत्र तथैव वेदे पाठाच । गोष्ठज दय इति । 'संघाते कटच्' इत्यादीन्यस्यैव प्रपञ्चः । इहोभयत्रादिशब्दः प्रकारे । पशुनामभ्य इति । 'पशुनामादिभ्यः' इति भाष्ये प्रचुरः पाठः । गवां स्थानमिति । 'तस्येदम्' इत्यत्रार्थे 'सर्वत्र गोरजादिप्रसङ्गे-' इति यति प्राप्ते गोष्ठच् । संघात इति । अप्रसृतावयवः समूहः संघातः । प्रसृतावयवस्तु विस्तारः । कटच्पटचौ द्वावपि सामूहिकानामपवादौ । द्वित्व इति । प्रकृत्यर्थस्य द्वित्वे द्योत्य इयर्थः । उष्टगोयुगमिति । द्वयं युगमित्यादिवद् व्ययवसङ्घातप्राधान्यादेकवचनम् । एवमग्रेऽपि । Page #552 -------------------------------------------------------------------------- ________________ प्रकरणम् ३७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४६ रश्च । (५-२-३०) चात्कटच् । अवाचीनोऽवकुटारः, अवकटः । १८३२ नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः (५-२-३१) प्रवाद् इत्येव । नतं नमनम् । नासिकाया नतं अवटीटम् , भवनाटम् , अवभ्रटम् । तद्योगाबासिका अवटीटा। पुरुषोऽप्यवटीटः। १८३३ नेबिडज्विरीसचौ। (५-२-३२) निविडम् , निबिरीसम् । १८३४ इनपिटश्चिकचि च । (५-२-३३) नेः इत्येव । नासिकाया नतेऽभिधेये इनपिटची प्रत्ययो प्रकृते. श्चिक चि इत्यादेशौ च । 'कप्रत्ययचिकादेशौ च वक्रव्यो' (वा ३१२१)। चिकियुगम् । अश्वषङ्गवम् अवात्कुटारच्च । क्रियाविशिष्टसाधनवाचकादवात्स्वार्थे कुटारच्च स्यादित्यर्थः । अवाचीन इति । अवाचीने विद्यमानादवात् कुटारचि अवकुटार इत्यर्थः। नते नासिकायाः। अवादित्येवेति । अवशब्दाद् नासिकाया अवनतेऽर्थे टीटच् , नाटच् , भ्रटच् एते प्रत्ययाः स्युरित्यर्थः । 'णमु प्रहृत्वे' इति धातो वे कृप्रत्यये नतशब्द इत्यभिप्रेत्याह नतं नमनमिति । प्रहृत्वमित्यर्थः । ननु यदि नासिकाया नमनमवटीटं तर्हि अवटीटा नासिकति कथमित्यत आह तद्योगादिति । नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति । तादृशनासिकायोगादिति भावः । नेबिडबिरीसचौ । 'नते नासिकायाः संज्ञायाम्' इत्यनुवर्तते । नेः नासिकाया नतेऽर्थे बिडच् , बिरीसच् द्वौ प्रत्ययौ स्त इत्यर्थः । निबिडा वृक्षी इति तु उपमानादित्याहुः । इनपिटच् । इनच्पिटच् इति समाहारद्वन्द्वात्प्रथमैकवचनम् । चिकचि इत्यपि चिक चि इत्यनयोः समाहारद्वन्द्वात्प्रथमैकवचनम् । प्रकृतेरिति । नेरित्यर्थः। तत्र इनचि परे चिक इत्यादेशः । तत्र प्रकार उच्चारणार्थः । पिटचि तु परे चि इत्यादेशः । नतमिति । नपुंसके भावे तः । नमनमिति । नीचस्त्वमित्यर्थः । अवटीटमिति। नासिकासाधनके नमने वर्तमानादवशब्दात्स्वार्थे प्रत्ययः । कथं तर्हि नासिकायां पुरुषे चावटीटशब्दस्य प्रयोग इत्यत आह-तद्योगादिति नेबिडच । 'नते नासिकायाः संज्ञायाम्' इति वर्तते । निशब्दानासिकाया नतेऽभिधेय बिडज्विरीसची स्तः । निबिडमिति । तद्योमानिबिडा नासिका, निबिरीसा। कथं तहिं 'निबिडाः केशाः, निबिडं वस्त्रम्' इति । उपमानाद्भविष्यति । एतच्च काशिकायां स्पष्टम् । केचित्तु उक्तप्रयोगानुरोधेनेह सूत्रे 'नते नासिकाया:-' इति नानुवर्तत इति व्याचक्षते । प्रकृतेरिति । निशब्दस्येत्यर्थः । श्रादेशी चेति । प्रत्ययौ तत्संनियोगेन यथा. १'निबिडाः केशा इति प्रयोगात् 'नते नासिकाया-' इत्यादेरत्रासम्बन्धः' इति तु शब्देन्दुशेखरे। Page #553 -------------------------------------------------------------------------- ________________ ५५० ] सिद्धान्तकौमुदी। [तद्धितेषु पाञ्चमिकनम् । चिपिटम् । चिक्कम् । 'क्लिनस्य चिल पिल लश्चास्य चक्षुषी' (वा ३१२२) क्लिने चक्षुषी अस्य चिल्लः । पिल्लः । 'चुल च' (वा ३१२३)। चुल्लः । १८३५ उपाधिभ्यां त्यकन्नासनारूढयोः । (५-२--३४) 'संज्ञायाम्' इत्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । प्रारूढं स्थलमधित्यका । १८३६ कर्मणि घटोऽठच् । (५-२-३५) घटत इति घटः । पचाद्यच् । कर्मणि कप्रत्ययेति । उक्तनेः कप्रत्ययः प्रकृतेः चिकादेशश्चेत्यर्थः । अयमपि ककारान्त एवादेशः । चिकिनमिति । इनचि प्रत्यये कृते नेः चिकादेशे रूपम् । चिपिटमिति । पिटचि कृते नेः चि इत्यादेशे रूपम् । चिकमिति । कप्रत्यये नेः चिकादेशे रूपम् । क्लिन्नस्य चिपिल्लश्चास्य चक्षुषी इति । वार्तिकमिदम् । चिल्पिल इति समाहारद्वन्द्वात्प्रथमैकवचनम् । क्लिने अस्य चक्षुषी इति विग्रहे क्लिन्नशब्दाद् अस्य चक्षुषी इत्यर्थे लप्रत्ययः, प्रकृतेः चिल् प्ल् िएतावादेशौ स्त इत्यर्थः । क्लिन्ने इति । नेत्रामयप्रयुक्तजलनिष्यन्दवती इत्यर्थः । चिल्लः । पिल्ल इति । क्लिन्नचक्षुष्क इत्यर्थः । चुल चेति । उक्तविषये जिन्नस्य चुल आदेशश्च लप्रत्ययसंनियोगेन वक्तव्य इत्यर्थः । उपाधिभ्याम् । उप, अधि श्राभ्यां यथासंख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वार्थे त्यकन्प्रत्ययः स्य दित्यर्थः । आसन्न समीपम् । श्रारूढम् उच्चम् । अनुवर्तत इति । 'नते नासिकायाः-' इत्यस्मादिति भावः । कस्य समीपं कस्योच्चम् इस्याकाङ्क्षायां संज्ञाधिकारात, पर्वतस्येति लभ्यत इत्यभिप्रेत्याह पर्वतस्येति। उपत्यका। अधित्यकेति । स्त्रीत्वं लोकात् । अत्र 'प्रत्ययस्थात्-' इति इत्त्वं तु न, 'त्यकनश्च' इत्युक्तेः । कर्मणि घटोऽठच् । सप्तम्यन्तात् कर्मशब्दाद् घट इत्यर्थे अठच्स्यादित्यर्थः। घटशब्दस्य कलशपर्यासंख्यमिमावादेशौ च स्त इत्यर्थः। चिकिनमिति। इनच्प्रत्ययसंनियोगेन चिकादेशः। चिपिटमिति । पिटच्प्रत्ययसंनियोगेन चि इत्यादेशः । क्लिन्नस्येति । चिल् पिल इत्येतावादेशौ भवतो लश्च प्रत्ययः 'अस्य चक्षुषी' इत्येतस्मिन्नर्थे । चुल चेति । चाल्लप्रत्ययः । चुल्ल इति । क्लिन्ने अस्य चक्षुषी इति पूर्वोक्त एव विग्रहः । कथं तर्हि 'स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्षिण चाप्यमी' इत्यमर इति चेत् । अत्राहुःपुरुषे व्युत्पादितानां तदवयवे लक्षणा बोध्या। अन्ये त्वाहुः-अस्य चक्षुषी इत्यत्र 'अस्य' इति न वक्तव्यम् । क्लिन्ने चक्षुषी चिल्ले पिल्ले । पुरुषे तु मत्वर्थेऽच् अर्श आदिषु 'खानाद्धीनात्' इति सूत्रितत्वादिति । उपाधिभ्याम् । संज्ञाधिकारादिह नियतविषयमासन्नारूढं गृह्यत इत्याशयेनाह-पवर्तस्येति । आसन्नं समीपम् । आरूढमुच्चस्थानम् । उपत्यकेति । 'प्रत्ययस्थात्-' इतीत्वं तु न भवति, 'त्यकनश्च Page #554 -------------------------------------------------------------------------- ________________ प्रकरणम् ३७ ] बालमनोरमा तस्वबोधिनीसहिता। . [५५१ घटते कर्मठः पुरुषः । १८३७ तदस्य सञ्जातं तारकादिभ्य इतच् । (५-२-३६) तारकाः साता अस्य तारकितं नमः । प्राकृतिगणोऽयम् । १८३८ प्रमाणे द्वयसज्दनमात्रचः। (५-२-३७) तदस्य इत्यनुवर्तते । उरू प्रमाणमस्य ऊरुद्वयसम् , उरुदनम् , ऊरुमात्रम् । 'प्रमाणे लः' (वा ३१२८) शमः । दिष्टिः । वितस्तिः । 'द्विगोनित्यम्' (वा ३१२६) । द्वौ शमौ प्रमाणमस्य यत्वभ्रमं वारयति। कर्मणि घटत इति । व्याप्रियत इत्यर्थः। तथा चात्र घटशब्दो यौगिको घटमाने वर्तत इति भावः । कर्मठ इति । अठचि 'नस्तद्धिते' इति टिलोपः । अठचि ठस्य अङ्गात्परत्वाभावादिकादेशाभवि इति भावः । तदस्य । प्रथमान्तेभ्यस्तारकादिभ्यः अस्य तत्संजातमित्यर्थे इतच् स्यादित्यर्थः । तारकितं नभ इति । संजातनक्षत्रमित्यर्थः प्राकृतिगणोऽयमिति । तेन पुष्पितो वृक्षः फलित इत्यादिसंग्रहः । प्रमाणे | अनुवर्तत इति। ततश्च अस्य प्रमेयस्य तत्प्र. माणमित्यर्थे प्रमाणे विद्यमानात्प्रथमान्ताद् द्वयसच, दनच, मात्रच् एते प्रत्ययाः स्युः । 'प्रमाणवानिदमर्थोऽत्र प्रत्ययार्थः' इति भाष्ये स्पष्टम् । तत्र 'प्रथमश्च द्वितीयश्च ऊर्ध्व. माने मतौ मम' इति भाष्ये उक्तम् । प्रमाणमिह परिच्छेदकमात्रम्, तत्र मात्रप्रस्थमात्रमूरुमात्रमित्यादि इति कैयटः । वस्तुतस्तु 'यत्तदेतेभ्यः' इति सूत्रभाष्यस्वर• सादायामपरिच्छेदकमेवात्र प्रमाणम् इति शब्देन्दुशेखरे विस्तरः। प्रमाणे ल इति । लुको ल इति पूर्वाचार्यशास्त्रसिद्धा संज्ञा । प्रमाणे वर्तमानाद्विहितस्य द्वयसजादे ग्वक्तव्य इत्यर्थः । शमो दिष्टिर्वितस्तिरिति । शमः प्रमाणमस्येत्यादिविग्रहः । शमादयः अनूप्रमानविशेषाः । तेभ्यो मात्रचो लुक, इतरयोरसंभवात् । अत्र 'अायानिषेधः' इत्युक्तत्वात् । कर्मणि घटो। सप्तम्यन्ताकर्मनशब्दाद् ‘घटते' इत्यर्थेऽठच् स्यात् । कर्मठ इति । 'ठस्येकः' इतीह न भवति । अठचि ठस्याप्रत्ययत्वेनाङ्गसंज्ञानिमित्तत्वाभावात् । तारकितमिति । एवं पुष्पितं फलितं पुलकितं रोमाञ्चितमित्यायुदाहार्यम् । प्रमाणे द्वयसज् । प्रमाणे विद्यमानात्प्रथमान्ताद् 'अस्य' इति निर्दिष्टे प्रमेयेऽथें त्रयः प्रत्ययाः स्युः । प्रमाणमिह परिच्छेदकमात्रम् । तत्र मात्रच् । द्वयसच्दनचौ तूर्ध्वमान एव भवतः । 'प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम' इति भाष्यात् । ऊविस्थितेन येन मीयते तदूर्ध्वमानम् ऊर्वादि । तेन तिर्यमानादौ 'दण्डद्वयसं क्षेत्रम्' इत्यादि न प्रयुज्यते, यथोत्तरं मुनीनां प्रामाण्यात् । अतएव 'द्विकाण्डा क्षेत्रभक्तिः' इत्यत्र 'द्वयसचो लुक्' इति प्राचोक्तं नादर्तव्यमित्यवोचाम । प्रमाणे ल इति । लुक एषा पूर्वाचार्यसंज्ञा । प्रमाणत्वेन ये प्रसिद्धास्ततः परस्यैवायं लुगित्युदाहरति-शमः । दिष्टिः । वितस्तिरिति । शमः प्रमाणमस्येत्यादि Page #555 -------------------------------------------------------------------------- ________________ ५५२ ] . सिदान्तकौमुदी। तद्धितषु पाश्चमिक विरामम् । 'प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वकन्या' (वा३५३) शममात्रम् । प्रस्थमात्रम् । पश्चमात्रम् । 'वस्वन्तास्वार्थे द्वयसज्मात्रची बहुलम्' (वा ३१३४ )। तावदेव तावद्वयसम् । तावन्मात्रम् । २८३६ पुरुषहस्तिभ्यामएच । (५-२-३८) पुरुषः प्रमाणमस्य पौरुषम्, पुरुषद्वयसम् । हास्तिमस्तु प्रमाणं स्यात्' इत्येव गृह्यते । एवं च ऊरुद्वयसमित्यादौ न लुक् । द्विगोनित्यमिति । प्रमाणान्ताद् द्विगोः परस्य द्वयसजादेनित्यं लुक् स्यादित्यर्थः । प्रमाणासस्य द्विगोः प्रमाणावृक्त्विात् सामर्थ्यादिह तदन्तविधिः। पूर्ववार्तिकेन तु नात्र प्राप्तिरस्ति, द्विगोः प्रमाणत्वाभावात् । द्विशममिति । तद्धितार्थ द्विगुः । ततो मात्रचः अनेन लुक् । 'विकल्पस्याप्रकृतत्वादेव सिद्धे नित्यग्रहणं संशये वक्ष्यमाणस्य मात्रचो लुगर्थम् । अन्यथा शममात्रमित्यत्रेव द्विशमशब्दादपि स मात्रच् न लुप्यत' इति भाष्ये स्पष्टम् । प्रमाणेति । प्रमाणवाचिनः परिमाणवाचिनः संख्यावाचिनश्च संशये मात्रज्वक्तव्य इत्यर्थः । अत्र प्रमाणमायाम एव गृह्यते, 'आयामस्तु प्रमाणं स्यात्' इति वचनात् । अत एव परिमाणग्रहणमर्थवत् । शममात्रमित्यादि । शमः स्यान वेत्यादिविग्रहः । वत्वन्तादिति । वार्तिकमिदम् । पुरुषहस्तिभ्यामण् विग्रहः । एषु मात्रचो लुक, इतरयोरसंभवात् , शमादीनामार्वमानत्वात् । द्विगोनित्यमिति । द्विगोरप्रमाणत्वात्तदन्तविध्यभावाच पूर्वेणाप्रा लुग्विधीयते । ननु विकल्पस्याप्रकृतत्वान्नित्यग्रहणमिह निरर्थकमिति चेत् । अत्राः -अनुपदं संशये वक्ष्यमाणो मात्रच् शममात्रमित्यादौ यथा न लुप्यते, 'प्रमारी लः' इत्यस्य 'प्रमाणे द्वयसच्-' इति यः पूर्वविधिस्तद्विषयत्वात् , एवं द्विगोरपि न लुप्येत । इभ्यते च लक। द्वौ शमौ स्याता न वा द्विशम इति । तथा चाधिकसंग्रहार्थ नित्यग्रहणमिति । अत्र केचित्-'द्विगोलः' इत्युक्तेऽपि पुनर्लग्रहणं नित्यार्थमधिकसंग्रहार्थमिति व्याख्यातुं शक्यत इति वैचित्र्यार्थ नित्यग्रहणमित्याहुः-शममात्रमित्यादि । शमः स्यान्न वेस्यादिविग्रहः । पुरुषहस्तिभ्यामएच । 'इनरायनपत्ये' इति प्रकृतिभावः । हस्ती प्रमाणमस्य हास्तिनम् । अत्र काशिकायामुक्तं 'द्विग्गोनित्यं लुक् , द्विपुरुषमुदकम्' इत्यादि । व्याख्यातं च हरदत्तेन-यद्यपि 'प्रमाणे लो द्विगोर्नित्यम्' इत्यस्य नायमनुवादः, पुरुषहस्तिनोः शमादिवत्प्रमाणत्वेनाप्रसिद्धत्वात् , 'प्रत एव हि पुरुषद्वयसमित्यादौ 'प्रमाणे लः' इति लुङ् न भवति। तथाप्यपूर्वोऽत्र लुग्विधीयत इति । एतच्चासंगतम् , 'द्विगोनित्यं लुक्' इत्यपूर्ववचनस्य मुनित्रयाक्तत्वात् । वस्तुतस्तु विधीयत इत्यस्यानुमीयत इत्यर्थः । अयं भावः-'द्विगोः' 'तद्धितलुकि' इत्यनुवर्तमाने 'पुरुषात्प्रमाणेऽन्यतरस्याम्' इति डीब्विकल्प्यते तदेव लुकमनुमापयतीति । Page #556 -------------------------------------------------------------------------- ________________ प्रकरणम् ३७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५५३ । नम् , हस्तिद्वयसम् । १८४० यत्तदेतेभ्यः परिमाणे वतुप् । (५-२-३६) यत्परिमाणमस्य यावान् । तावान् । एतावान् । १८४१ किमिदम्भ्यां वो घः। च । उक्तविषय इति शेषः । चाद् द्वयसजादयस्त्रयः । यत्तदेतेभ्यः । तदस्येत्यनुवतते । अस्य तत्परिमाणमित्यर्थे परिमाणवाचिभ्यः प्रथमान्तेभ्यः किम्, यद्, तद्, एतद् एभ्यो वतुप् स्यादित्यर्थः । यावानिति । यच्छब्दावतुप् , उपावितौ। 'श्रा यत्तदेतेभ्यः। यावानित्यादि । 'श्रा सर्वनाम्नः' इत्यात्वे 'उगिदचाम्-' इति नुम् 'अत्वसन्तस्य च-' इति दीर्घः । हल्ल्यादिलोपसंयोगान्तलोपी । 'प्रमाणे' इत्यनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोमदात्कृतम् । तथा च वार्तिकम् -'डावतावर्थवैशेष्यानिर्देशः पृथगुच्यते। मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः' इति । अस्यार्थः-पह शास्त्रे वतुपं विधाय तस्मिन् परे प्रात्वं विहितम् । पूर्वाचार्यास्तु डावतुं विदधिरे, तद्रीत्या निर्देशोऽयं डावताविति । विशेष्यत इति विशेषस्तस्य भावो वैशेष्यं तस्मात् , अर्थभेदादित्यर्थः । अर्थभेदस्तु 'परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्' इति प्रागेवोक्त इति भावः । नन्वनयोरर्थभेद सति यावानध्वा यावती रज्जुरित्यादि न सिध्येत्, अत्र त्यायाममात्रं गम्यते। यद्युपमानाद्भविष्यतीति ब्रूषे, तर्हि प्रमाणग्रहणमेवानुवर्त्यताम् , यावानध्वेत्यादिप्रयोगाश्च मुख्याः सन्तु । ये तु परिमाणे प्रयोगाः 'यावान् धान्यराशिः' इत्यादयः, त एवोपमानाद्भवन्तु तत्राह-'मात्रादीति' । 'यत्तदेतेभ्यः-' इति विशेषविहितो हि वतुप सामान्यविहितान् मात्रजादीन् बाधेत, तेन तन्मात्रमित्यादि न स्यात् । परिमाणग्रहणे सति तु भिन्नोपाधिकत्वाद्वतुपः प्रमाणे विहितमात्रजादिभिः सह बाध्यबाधकभावों नेति भावः। नन्वेवमपि बाधः स्यादेव । 'प्रमाणे द्वयसच्-' इत्यत्र प्रस्थमात्रमित्यादि. सिद्धये प्रमाणग्रहणस्य परिच्छेदकमात्रपरतया व्याख्यातत्वेन वतुपो यत्तदेतेभ्यो विहितत्वेन विशेषविहितत्वानपायात् । तस्माद् 'यत्तदेतेभ्यो वतुप् च' इत्येव सूत्र्यताम् , मास्तु परिमाणग्रहणम् , अस्तु च प्रमाणे इत्यर्थाधिकारः, तेन यावती रज्जुर्यावान् धान्यराशिरित्यादिप्रयोगाः सर्वेऽप्युपचारं विनव निर्वहन्तीत्यपरमनुकूलमत आह'भावः सिद्धश्चेति' । डावतोरिति पञ्चम्यन्तम् । अर्थनेदे सति वत्वन्तान्मात्रजादीनामुत्पत्तिः सिध्यति । तत्परिमाणमस्य तावद्धान्यं राशीकृतम् , सावत्प्रमाणमस्य कुड्यादेः, तावन्मात्रम् । यादृप्राशीकृतस्य धान्यादेदैर्घ्य तादृशं कुड्यादेरपीत्यर्थः । एकविषयत्वे तु वतुपैव विशिष्टस्य प्रमेयस्योकत्वाद्वतुबन्तान्मात्रजादयो न स्युः । यस्य हि तावप्रमाणं तस्य तदपि प्रमाणम् । जानुप्रमाणकं जलादि यस्य प्रमाणं तदपि जानुप्रमाणकमिति वक्तुं शक्यत्वात्। एवं च तावच्छब्द एव प्रयुज्येत, न तु तावन्मात्रमित्यादि। अन्यथा तत्प्रमाणमस्य तन्मात्रम् । तन्मात्रं प्रमाणमस्य तन्मात्रमात्रमित्येवं मात्रजा Page #557 -------------------------------------------------------------------------- ________________ ५५४ ] सिद्धान्तकौमुदी। [तद्धितेषु पाञ्चमिक(५-२-४०) आभ्यां वतुः स्याद्वस्य च घः। कियान् । इयान् । १८४२ किमः संख्यापरिमाणे डति च। (५-२-४१) चाद्वतुप । तस्य च वस्य घः स्यात् । का संख्या एषां ते कति कियन्तः, पे तु न, का सर्वनाम्नः' इत्यात्त्वम, सुः, 'उगिदचाम्-' इति नुम्, 'श्र वसन्तस्य-' इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ । एवं तावान्, एतावान् । किमिदंभ्यां वो घः। 'तदस्य' इति 'परिमाणे वतुप्' इति चानुवर्तते । तदाह-प्राभ्यां वतुप स्यादिति । श्राभ्यां प्रथमान्ताभ्याम् अस्य तत्परिमाणमित्यर्थे वर प् स्यादित्यर्थः । वस्य च घ इति । वकारस्य घकार इत्यर्थः । कियानिति । विं परिमाणमस्येति विग्रहः । किंशब्दाद् वतुप , उपावितो, कारस्य घकारः, इयादेशः, किम् इयत् इति स्थिते 'इदकिमोरीश्की' इति किमः कोभावे 'यस्येति च' इति ईकारलोपे किय. तूशब्दात्सौ 'उगिदचाम्-' इति नुमि 'अत्वसन्तस्य-' इति दीर्घे, हङयादिसंयोगान्तलोपाविति भावः । इयानिति । इदंशब्दाद् वतुपि वकारस्य घकारे इयादेशे इदम् इयत् इति स्थिते 'इदकिमोरीश्की' इति शित्त्वादिदम ईकारे सर्वादेशे 'यस्येति च' इति ईकारस्य लोपे इयत् इति प्रत्ययमानं शिष्यते। ततः सौ नुमादि पूर्ववत् । किमः संख्या। 'तदस्य' इत्यनुवर्तते । संख्यायाः परिमाणं परिच्छेदः । किंशब्दः प्रश्ने वर्तते । का अस्य संख्येत्येवं संख्यापरिच्छेदविषयकप्रश्ने विद्यमानात् किंशब्दात् प्रथमान्ताद अस्येत्यर्थे डतिप्रत्ययश्च स्यादित्यर्थः । का संख्या एषां ते कतीति । का संख्या अस्येति, का संख्या अनयोरिति च प्रश्नो न संभवति, अस्येत्यनेन एकदिभ्यः प्रत्ययमालाप्रसङ्गात् । किमिदंभ्याम् । वतुप्स्यादिति । वकारस्य घविधिसामद्वितुपमनुवर्त्य सोऽप्यत्र विधीयत इति भावः । 'अदेः पदस्य' इत्येव सिद्धे 'वः' इति वचनमादेशप्रतिपत्त्यर्थम् । इतरथा घः प्रत्यगान्तरं विज्ञायेत । कियानिति । 'इदंकिमोरीश्की' । 'यस्येति च' इति लोपः । इयानिति । ईशादेशस्य 'यस्य' इति लोपे प्रत्ययमात्रमवशिष्यते । पठन्ति च-'उदितवति परस्मिन् प्रत्यये शास्त्रयोनी गतवति विलयं च प्राकृतेऽपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते को हृदा पण्डितोऽपि ।' वैयाकरणानामौपनिषदानां च प्रक्रियामाश्रित्य प्रवृत्तो द्यर्थोऽयं श्लोकः । किमः संख्या। 'तदस्य-' इत्यनुवर्तत एव । संख्यायाः परिमाणं परिच्छेदः, तस्मिन् कर्तव्ये यः प्रश्नस्तस्मिन्वर्तमानात्किमः प्रथमासमर्थादस्येति षष्ठयर्थे डति स्यात् । संख्यापरिमाणे किम् , क्षेपे माभूत् । का संख्येयमेषां दशानाम् । 'अवतानाममन्त्राणां जातिमात्रोपजीविनाम्। सहस्रशः समेतानां परिषत्त्वं न विद्यते॥' इत्येवं संख्येयद्वारेणात्र संख्यायाः Page #558 -------------------------------------------------------------------------- ________________ प्रकरणम् ३७ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ५५५ संख्या एषां दशानाम् । १८४३ संख्याया अवयवे तयप् । ( ५-२-४२ ) पञ्च अवयवा अस्य पञ्चतयं दारु । १८४४ द्वित्रिभ्यां तयस्यायज्वा । ( ५-२-४३) द्वयम् द्वितयम् । श्रयम् त्रितयम् । १८४५ उभादुदात्तो नित्यम् । ( ५-२-४४) उभशन्दात्तयप आदेशोऽयच् स्यात्, स चोदात्तः । उभयम् । इति तद्धितेषु पाञ्चमिकाः । " त्वस्य अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात् ज्ञाते च प्रश्नासम्भवात् । का संख्या एषामिति तु प्रश्नः संभवति, तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तद्व्याप्यत्रित्वचतुष्ट्वादिसंख्यानामज्ञातत्वात् । उक्तं च भाष्ये - 'न येकयोः प्रश्नोऽस्ति' इति । ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दः । ' इति च' इति षट्संज्ञकत्वात् 'षड्भ्यो लुक्' इति जश्शसोर्लुक् । कियन्त इति । कियानितिवत्प्रक्रिया । बहुवचनं विशेषः । संख्यापरिमाणे इत्युक्तेः किमः क्षेपार्थकत्वे डतिर्न भवति । का संख्या एषां दशानामिति । दशावरा परिषदित्यत्र ब्राह्मणब्रुवाणां मेलने इदं वाक्यं प्रवृत्तम् । संख्येयद्वारा संख्यायाः कुत्सात्र गम्यते, 'अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥' इति स्मरणात् । संख्यायाः । तदस्येत्यनुवर्तते । द्वित्र्यादिसंख्याका अवयवा अस्यावयविन इति विग्रहे अव ययीभूतसंख्यावाचिनः प्रथमान्ताद् अस्यावयविन इत्यर्थे तयबित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः । द्वित्रिभ्याम् । द्वित्रिभ्यां परस्य तयपः अयज्वा स्यादित्यर्थः । द्वयमिति । द्विशब्दात्तयपः प्रयचि 'यस्येति च' इति इकारलोपः । द्व्यवयवकसमुदाय इत्यर्थः । एवं त्रयम् । उभादुदात्तो नित्यम् । कुत्सा बोध्या । संख्याया । श्रवयवे वर्तमाना या संख्या तद्वाचिनः प्रथमान्तात् षष्ठ्यर्थे तयप् स्यात् । यं प्रत्यवयवः सोऽवयवी प्रत्ययार्थः । 'अस्य' इत्यधिकारात् । यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयं प्रत्ययार्थस्तद्वत् । त्रयमिति । ननु 'त्रयोs - वयवाः तन्तवो यस्य त्रयं सूत्रम्' इति प्रयोगे संभवत्यपि 'मुनित्रयम्' इति प्रयोगो न संगच्छते, अन्यपदार्थस्यावयविनोऽभावादिति चेत् । अत्राहुः - श्रवयवी त्वत्र समुदाय एव । स चातिरिक्को वाऽनतिरिक्तो वेति विचारान्तरम् । एवं च समुदायस्यातिरिक्तत्वपक्षेऽपि समुदायघटकत्वेन मुनीनां प्रत्यभिज्ञानान्मुनित्रयनमस्कारस्य विघ्नविघातकत्वमस्त्येवेति । उभादुदात्तो नित्यम् । इह 'चितः' इत्यनेनैवान्तोदात्तत्वं सिद्धम् । सर्वोदात्तत्वं तु 'अनुदात्तं पदमेकवर्जम्' इति वचनाद्वाधितम् । न च हे उभ संबुद्ध्यन्ते आमन्त्रितायुदात्तत्वं बाधितुं वचनमिति शङ्खयम्, पुरस्तादपवादन्यायेन चित्स्वरस्यैव बाध्यता, न त्वामन्त्रिताद्युदात्तत्वस्येति सुवचत्वात् । तस्मादुदात्तवचन " Page #559 -------------------------------------------------------------------------- ________________ ५५६ ] सिद्धान्तकौमुदी । [तद्धितेषु मत्वर्थीय अथ तद्धितेषु मत्वर्थीयप्रकरणम् । ३८ । १८४६ तदस्मिन्नधिकमिति दशान्ताड्डुः । ( ५-२-४५ ) एकादश अधिका अस्मिनेकादशम् । 'शतसहस्रयो रेवेष्यते' ( वा ३१४१ ) । नेह - एकादश अधिक अस्यां विंशतौ । 'प्रकृतिप्रत्ययार्थयोः समानजातीयस्वमेवेष्यते' (वा ३१४० ) । नेह – एकादश माषा अधिका अस्मिन्सुवर्णशते । १८४७ शदन्तविंशतेश्च । ( ५-२-४६ ) ङः स्यावुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् । १८४८ संख्याया गुणस्य निमाने मयट् । ( ५-२-४७.) स चोदात्त इति । श्रायुदात्त इत्यर्थ: । 'अन्तोदात्तत्वस्य चित्वेनैन सिद्ध:' इति भाष्ये स्पष्टम् । 'अत्र अयचप्रत्यय एव विधीयते, न तु तयप आदेश:' इति स्थानिवत्सूत्रभाष्ये स्पष्टम् । तयप आदेश इति मूलं तु वार्तिकानुरोधेन । इति तद्धितेषु पाञ्चमिकाः । अथ मत्वर्थीयाः - तदस्मिन्नधिकम् । तदधिकमस्मिन् इति विग्रहे प्रथमान्ताद् दशन्शब्दान्तात् समासाद् श्रस्मिन्नित्यर्थे उप्रत्ययः स्यादित्यर्थः । प्रत्ययविधौ तदन्तविधिप्रतिषेधादन्तग्रहणम् । अत एव निर्देशात् पञ्चम्यर्थे सप्तमीत्याहुः । 'औपश्लेषिकेऽधिकरणे सप्तमी' इति भाष्यम् । 'सामीपिकमधिकरणम्' इति कैयटः । एकादश माषा अधिका अस्मिन्निति । श्रस्मादित्यर्थः । अस्मिन् उपश्लिष्टा इति वा । न च व्यपदेशिवत्त्वेन केवलदशन् शब्दादपि स्यादिति शङ्कयम्, 'व्यपदेशि वद्भावोऽप्रातिपदिकेन' इत्युक्तेः । शदन्तविंशतेश्च । शेषपूरणेन सूत्रं व्याचष्टे । डः स्यादुक्तेऽर्थे इति । दशान्तत्वाभावात्पूर्वेणाप्राप्तिः । त्रिंशं शतमिति डे सति ‘टे:' इति टिलोपः । विंशमिति । विंशतिः अस्मिन्नधिका इति विग्रहः । 'ति विंशते:-' इति तिशब्दस्य लोपः । श्रन्तग्रहणादेकत्रिंशं शतमिति सिद्धम् । सामर्थ्यादादेरेवायम् । प्रयुज्यते च तथा 'उभयं शृणवच न' इति । तदेतत्स कलमभिप्रेत्याह - स चेति । 1 तदस्मिन् । पुनस्तद्ग्रहणम् 'अस्य' इति षष्ठयन्त संबद्धतद्ग्रहणनिरासार्थम् । प्रत्ययविधौ तदन्तविध्यभावादाह - दशान्तादिति । श्रन्तग्रहणं किम्, दश अधिका अस्मिन् शते । न चेह व्यपदेशिवद्भावेन दशान्तत्वमस्तीति वाच्यम्, 'व्यपदेशिवद्भावोऽप्रातिपदिकेन' इत्यभ्युपगमात् । शदन्त । प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति 'यस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्य' इति परिभाषया तदादिनियमः स्यात् । तं वारयितुमन्तग्रहणम् । तेन एकत्रिंशं शतम्, Page #560 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८] बालमनोरमा तत्त्वबोधिनीसहिता। [५५७ भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठयर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । 'गुणस्य' इति किम्द्वौ बीहियवौ निमानमस्योदश्वितः । 'निमाने किम्-दौ गुणौ तीरस्य एकस्तै. अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात् । 'विंशतावप्यन्तग्रहणम्' इति कार्तिकाद् एकविंशं शतमित्यादि सिद्धम् । संख्याया गुणस्य । 'तदस्य' इत्यनुवर्तते । गुणो भागः अंशः । निमीयते क्रीयतेऽनेनेति निमानं मूल्यद्रव्यम् । 'मेङ् प्रणिदाने' करणे ल्युट । तदाह-भागस्य मूल्य इत्यादि । षष्ठयर्थ इति । अस्यत्यर्थे इत्यर्थः । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्येति विग्रहवाक्यम् । द्वाभ्यां यवप्रस्थाभ्याम् एक उदश्वित्प्रस्थः क्रीयते यत्र तत्रेदं वाक्यं प्रयुज्यते । द्विमयमुदश्विद्यवानामित्युदाहरणम् । यवानामिति संबन्धसामान्ये षष्ठी। यवप्रस्थद्वयेन क्रेतव्यमुदविदित्यर्थः । द्विशब्दस्य भागवृत्तनित्यसापेक्षत्वाद्यवानामित्येतत्सापेक्षत्वेऽपि प्रत्ययः। द्वौ वीहियवौ निमानमस्योदश्वित इति । द्वित्वसंख्याविशिष्टौ व्रीहियवराशी यौ तौ अस्य उदश्वितो निमानमित्यर्थः । अत्र उदश्विद्यावत् , तदपेक्षया व्रीहियवराश्योएकचत्वारिंशमित्यादि सिद्धम् । नचैवं गोत्रिंशदधिका अस्मिन् गोशते इत्यादावतिप्रसरः शङ्कयः, 'संख्याया अवयवे तयप्' इत्यतः संख्याग्रहणानुवृत्तेः । अन्तग्रहणमिह विंशतिशब्दानन्तरं कर्तव्यम्-'षड्विंशत्यन्ताच' इति । तेन एकविंशं शतमित्यादि सिध्यति। अन्यथा 'ग्रहणवता-' इति तदन्तविधिप्रतिषेधादिह न स्यात् । संख्याया गुणस्य । गुणो भागः । निमीयते क्रीयतेऽनेनेति निमानं मूल्यम् , 'मेङ् प्रणिदाने' इत्यस्मान्निपूर्वात्करणे ल्युट् । तदाह-भागस्य मूल्य इति । षष्ठयर्थ इति । यद्यपि 'तदस्मिन्नधिकम्-' इत्यतः 'तद्' इत्यनुवृत्तौ प्रथमान्तादित्ययमेवार्थो लभ्यते, तथापि मण्डूकप्लुत्या 'तदस्य संजातम्' इत्यतः 'तदस्य' इत्यनुवर्तनात् 'षष्ठयर्थे' इत्येतदपि लभ्यत इति भावः । द्विमयमिति । द्विशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वाद् ‘यवानाम्' इति पदे सत्यपि तद्धितोत्पत्तिरिहाविरुद्धति ज्ञेयम् । नन्वेवमपि प्रत्ययान्तस्योदश्विच्छब्देन सामानाधिकरण्यं दुर्लभम् । यावतोदश्विद्भागे प्रत्ययो विहितः, नोदश्विति । अत्राहुः-भागेऽपि विधीयमानः प्रत्ययः अभिधानखाभाव्याद् भागवन्तमाचष्टे । तेन सामानाधिकरण्यं भवतीति । 'गुणनिमाने' इति वक्तव्ये व्यस्तोच्चारणाद् ‘एकत्वं गुणस्य' इत्यत्र विवक्षितम् । तेनेह न भवतियवानां द्वौ भागौ निमानमेषामुदश्वितत्रयाणां भागानामिति । 'भूयसश्च वाचिकायाः संख्यायाः प्रत्यय इष्यते' । इह न भवति । एको भागो निमानमस्येति । भूयस इति च १ "विक्रीयते' इति क. २ 'विक्रीयते' इति क. ३. 'विक्रेतव्यम्' इति क.। Page #561 -------------------------------------------------------------------------- ________________ ५५८ ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीयलस्य द्विगुणं क्षीरं पच्यते तैलेन । १८४६ तस्य पूरणे डट् । (५-२-४८) एकादशानां पूरण एकादशः । १८५० नान्तादसंख्यादेर्मट् । (५-२-४६) डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । 'नान्तात्' किम्-विंशः । 'असंद्विंगुणत्वं न विवक्षितम् । किंतु राशिद्वित्वमेव विवक्षितमिति द्विगब्दस्य भागवृत्तित्वाभावान्न प्रत्ययः। तस्य पूरणे डट् । 'संख्यायाः' इत्यनुवर्तते। संख्येयार्थकसं. ख्यावाचिनः षष्ठयन्तात्प्रतिनिमित्तसंख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः अवयवः, स प्रत्ययार्थः । एकादश इति । एकादशत्वसंख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन् अनुपात्त एकादशत्वसंख्या न संपद्यति, यस्मिन्नुपात्ते तु सा पूर्यते, सोऽवयव एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् ? पञ्चानां घटानां पूरणं जलादि । नान्तादसंख्यादेर्मट् । डटो मडागमः स्यादिति । शेषपूरणमिदम् । डटि टकार इत् । अकार उच्च रणार्थः । पञ्चम इति । पञ्चन्शब्दाद् डटि तस्य मडागमे सति नलोपः । यद्यपि मटः प्रत्ययत्वेऽपि प्रत्ययार्थादाधिक्यमानं प्रकृत्यर्थस्य विवक्षितम् , न तु बहुत्वम् । तेन द्विशब्दादपि भवत्येव । तस्य पूरणे । 'तस्य' इति षष्ठयन्तानुकरणम् । एकत्वं त्वविवक्षितम् , एकस्य पूरणासम्भवात् । पूर्यतेऽनेनेति पूरणः, ण्यन्तात्करणे ल्युट । एकादशानामिति । उद्भूतावयवभेदः समुच्चयः प्रकृत्यर्थः । अवयव इह प्रत्ययार्थः । यस्मात्संख्यावाचिनः प्रत्ययविधिस्तदीयप्रवृत्तिनिमित्तस्य एकादशत्वादेः पूरणे प्रत्ययः। यथा 'अतिशायने-' 'याप्ये-' इत्यादिषु प्रवृत्तिनिमित्तस्यैवातिशयादिकं गृह्यते, अन्तरकत्वात् , तथेहापि । तेन 'एकादशानां घटानां पूरणो जलादिः' इत्यत्र नातिप्रसङ्गशङ्कालेशोऽपीति भावः । ननु यदि प्रवृत्तिनिमित्तस्य पूरणे प्रत्ययः, तत्रि एकादशत्वस्य पूरण इति विग्रहो वक्तुं युक्त इति चेत् । अत्राहुः-'वैयाकरणपाशः' इत्यत्र यथा 'याप्यो वैयाकरणः' इति विग्रहः । न तु 'याप्यं वैयाकरणत्वम्' इति, तथेहापि बोध्यमिति । एवं च व्युत्क्रमेणाध्यायेषु गम्यमानेषु 'वृद्धिरादैच्' इत्यध्यायो यदा चरमं गण्यते तदा सोऽप्यष्टमो भवत्येव । नान्तादसंख्यादेः। डट इति । 'डट्' इति प्रथमान्तस्थानुवृत्तस्य 'नान्तात्-' इति पञ्चम्या षष्टी कल्प्यत इति भावः । यद्यपीह मटः प्रत्ययत्वेऽपि न क्षतिः, तथाप्युत्तरत्र तमट आगमत्वमेवाभ्युपगन्तव्यम् । अनुदात्तता यथा स्यात् । प्रत्ययत्वे ह्याद्युदात्तः स्यात् । तथा चैकरूप्येणैव संदर्भव्याख्यानमुचितम्। अन्येऽप्याहुः-मटः प्रत्ययत्वे अकारसहितो मकारो विधेयः। श्रागमत्वे तु मकारमात्रमिति लाघवमस्तीति। विंश इति । विंशतः पूरणः । 'तिविंशतेर्डिति' इति तिलोपः । १. 'प्रत्ययनिर्मित' इति क.। Page #562 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५५६ ख्यादेः किम्-एकादशः । १८५१ षद्कतिकतिपयचतुरांथुक् । (५-२-५१) एषां थुगागमः स्याइटि । षण्णां पूरणः षष्ठः । कतियः । कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाइट् । कतिपययः । चतुर्थः । 'चतुरश्यतावाद्यक्षरस्य लोपश्च' (वा ३१५८) । तुरीयः, तुर्यः । १८५२ बहुपूगगणसङ्घस्य तिथुक् । (५-२-५२) 'डटि' इत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यत एव डट् । बहुतिथ इत्यादि । १८५३ वतोरिथुक् । (५-२-५३) 'डटि' इत्येव । यावतिथः । १८५४ द्वेस्तीयः। (५-२-५४) डटोऽपवादः । द्वयोः पूरणो द्वितीयः । १८५५ त्रेः सम्प्रसारणं च । (५-२-५५) तृतीयः । न रूपभेदः । तथापि 'स्वरविशेषार्थ मडागमाश्रयणम्' इति भाष्ये स्पष्टम् । षद् कति । थुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्यादचः परः । षष्ठ इति। अपदान्तत्वात् षस्य न जश्त्वम्। चतुर्थ इति । अपदान्तत्वान्न रेफस्य विसर्गः । चतुर इति । वार्तिकमिदम् । चतुर् शब्दात् षष्ठयन्तात्पूरणे छयती स्तः। आद्यक्षरस्य लोपश्चेति । 'च' इति संघातस्य लोपश्चेत्यर्थः । बहुपूगगण । बहु, पूग, गण, संघ एषां डटि तिथुगागमः स्यादित्यर्थः । ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्यादचः परः । इत्यादीति । पूगतिथः, गणतिथः, संघतिथः। वतोरिथुक् । डटीत्येवेति । वतुबन्तस्य इथुगागमः स्याद् डटीत्यर्थः। यावतिथ इति । यावतां पूरण इति विग्रहः । 'बहुगण-' इति संख्यात्वात् 'तस्य पूरणे-' इति डटि प्रकृते. रिथुक् । द्वेस्तीयः। द्विशब्दात् षष्टयन्तात् पूरणे तीयप्रत्ययः स्यादित्यर्थः । वे षट्कति । इह षष्टीनिर्देशबलात् षडादीनामागमित्वं स्पष्टमिति तदानुकूल्येनानुवृत्तो डट् सप्तम्या विपरिणम्यते, तदाह डटीति । डट एव थुट् तु न कृतः, षष्ठे षकारस्य जश्त्वप्रसङ्गात् । चतुर्थे रेफस्य विसर्गप्रसशाच । न चैवं 'नान्तात्-' इति सूत्रेऽपि इति परे मुगेव विधीयतामिति वाच्यम् , पञ्चमः सप्तम इत्यादौ नलोपाभावापत्तेः । चतुरश्छयताविति । विशेषविहिताभ्यामपि छयन्यां डट्प्रत्ययो न बाध्यते, थुग्विधानसामर्थ्यात् । तेन चतुर्थ इति सिद्धम् । आद्यक्षरेति । अचसहितं व्यञ्जनमक्षरशब्देनोच्यते अच्सहितस्यादेर्व्यञ्जनस्येत्यर्थः । व्यञ्जनसहितस्यादेरच इति व्याख्याने तु द्विवचनन्यायेन तकारस्यापि लोपः स्यादिति हरदत्तः । श्रादेर्व्यञ्जनस्येति व्याख्याने प्रमाणं तु 'द्वितीयतृतीय-' इति सूत्रे 'तुर्याणि' इति निर्देशो बोध्यः। द्वेस्तीयः। डटोऽपवाद इति । डट आदेशस्तु न भवति, 'डिति' 'टिड्ढा-' इति कीपः प्रसक्त्या 'द्वितीयाश्रिता-' इति निर्देशानुपपत्तेः । अतएव निर्देशाद् द्विशब्दस्या १ क्वचित्पुस्तकेषु 'वाद्यक्षरलोपश्च' इति पाठः। Page #563 -------------------------------------------------------------------------- ________________ ५६० ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीय१८५६ विंशत्यादिभ्यस्तमडन्यतरस्याम् । (५-२-५६) एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः, विंशः । एकविंशतितमः, एकविंशः । १८५७ नित्यं शतादिमासार्धमाससंवत्सराच्च । (५..२-५७ ) शतस्य पूरणः शततमः । एकशततमः । मासादेरत एव डट् । मासतम । अर्धमासतमः। संप्रसारणं च । त्रेस्तीयः स्यात्प्रकृतेः संप्रसारणं चेत्यर्थः । तृतीय इति । त्रयाणां पूरण इति विग्रहः । तीयप्रत्यये सति रेफस्य संप्रसारणम ऋकारः। 'संप्रसारणाच' इति पूर्वरूपम् । 'हलः' इति दीर्घस्तु न भवति, 'ठूलोपे ' इत्यतः अण इत्यनुवृत्तेः । विंशत्यादिभ्यः। तमटि टकार इत्, मकारादकार उच्चारणार्थः । 'अत्र 'पक्तिविंशति-' इति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्यन्ने, नतु लोकप्रसिद्धा एकविंशत्यादयोऽपि विप्रकर्षात्' इति कैयटः । एकविंशतितम इत्या तु तदन्तविधिना तमडियग्रे वक्ष्यते । नित्यं शतादिमासार्धमाससंवत्सराच । शतादिभ्यः मासाद् अर्धमासात् संवत्सराच्च परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । ननु 'षष्ठ्यादेश्च-' इत्युत्तरसूत्रेण शततमः सिध्यतीत्यत आह-एकशततम इति । प्यादेशो न भवति । तृतीय इति । रेफस्य ऋकारः संप्रसारणम् । 'हलः' इह दीर्घस्तु न भवति, 'लोपे-' इति सूत्रादण इत्यनुवृत्तेः। 'स्तु च' इति नोक्तम् , प्रत्ययो मा विज्ञायीति । विशत्यादिभ्यः । इह प्रत्यासत्त्या 'पति-' इत्यादिसूत्रे निपातिता विंशत्यादयो गृह्यन्ते, न लोकप्रसिद्धा , विप्रकृष्टत्वादिति भाष्यमतम् । वृत्तिकृता तु विंशत्यादयो लौकिका एव संख्याशब्दा गृह्यन्ते, न 'पति-' आदिसूत्रनिर्दिष्टाः । तद्ग्रहणे ह्येकविंशतिप्रभृतिभ्यो न स्यात् , ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । एवं च सति 'षष्ठयादेश्वासंख्यादेः' इति पर्युदासो युज्यत एवेत्युक्तम् । एकविंशतितम इति । यद्यपि भाष्यमते तदन्तविधिदुर्लभस्तथापि 'षष्ठयादेश्व-' इति सूत्रे संख्यादिपर्युदासो ज्ञापयति 'इह प्रकरणे तदन्तानामपि ग्रहणम्' इति। एवं च सति एकानविंशतः पूरण एकानविंशतितम इत्यपि सिध्यति । 'लौकिकानां ग्रहणम्' इति वृत्तिमते तु नैतसिध्येत् । विंशतिसंख्यातः प्राग्भावित्व दस्याः संख्यायाः। एतच्च कैयटहरदत्तग्रन्थयोः स्पष्टम् । ननु 'अनारम्भो वा प्रातिपदिकविज्ञानाद्यथा सहस्रादिषु' इति वदता कात्यायनेन 'पति-' आदिसूत्रस्य प्रत्या व्यातत्वात् तत्सूत्रे निपातिता विंशत्यादयो गृह्यन्ते, इति भाष्यमतमयुक्तमिति चेत् । अत्राहुः-यद्यपि प्रत्याख्यातं तथापीहार्थमावश्यकं तत् । अतएव तत्र भाष्यकृता 'नासूया कर्तव्या यत्रानुगमः क्रियते' इत्युक्तम् । अतः कात्यायनोकप्रत्याख्यानं नादर्तव्यमिति । शततम इति । यद्यपीदं 'षष्ठयादेश्च-' इत्युत्तरसूत्रेणैव सिध्यति, तथापि संख्याद्यर्थ Page #564 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८] बालमनोरमा-तत्वबोधिनीसहिता। [५६१ सवत्सरतमः। १८५८ षष्टयादेश्वासंख्यादेः । (५-२-५८) पहितमः । संस्थादेस्तु 'विंशत्यादिभ्यः-(सू १८५) इति विकल्प एव । एकपट, एक षष्टितमः । १८५६ मतो छः सूक्कसानोः । (५-२-५६) मत्वर्थ : स्यात् । अछावाकशब्दोऽस्मिन्नस्ति भन्छाबाकीय सूकम् । बारवन्ती साम । १८६० अध्यायानुवाकयोलुंह। (५-२-६०) मत्वर्थस्य बस्य । भव 'असंख्यादेः' इति पर्युदासादुत्तरसूत्रस्य नात्र प्रवृत्तिरिति भावः । ननु मासार्धमाससंवत्सरशन्दानां संख्यावाचित्वाभावात् तेभ्यो डट एवाप्रसक्तः तस्य कथ तमड्विधि. रित्यत आह मासादेरिति । मासतम इति। मासस्य पूरणः अर्धमासादिरवयवः । अर्धमासतम इति । अधमासस्य पूरणः तिथ्यादिरवयवः । संवत्सर. तम इति। संवत्सरस्य पूरणः मासादिरवयवः । षष्ट्यादेचासंख्यादेः । असंख्यापूर्वपदात् षष्ट्यादेः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः। 'विंशत्यादिभ्यः' इति विकल्पस्यापवादः । एकषष्टः, एकषष्टितम इति। सख्यादित्वानित्यस्य तमटोऽभावे 'विंशत्यादिभ्यः' इति डटस्तमडविकल्पः। तमडभावे डटि 'यस्येति च' इति इकारलोपे एकषष्ट इति रूपम् । ननु केवलात् षष्ठ्यादेविहितस्य नित्यतमटः संख्यादेः कथं प्रसक्तिः, तमडागमविधेरप्रत्ययविधित्वेऽपि प्रहणवता प्राति. पदिकेन तदन्तविधिर्नास्ति' इति निषेधादिति चेत्, मैवम्-असंख्यादेरिति हि इह प्रकरणे प्रहणवता प्रातिपदिकेन तदन्तविधि ज्ञापयति। तेन 'विंशत्यादिभ्यः' इति पूर्वसूत्रम् एकविंशतितम इत्यादावपि प्रवर्तत इति भाष्ये स्पष्टम् । एवं च एकानविंशतितम इत्यपि सिद्धम् ।मती छः सूक्तसानोः । मतुशब्दो मत्वर्थे लाक्षणिक इत्याहमत्वर्थ इति । अच्छावाकीयं सूक्तमिति । अच्छावाकशब्दः अस्यास्ति अस्मिमस्तीति वा विग्रहः । अच्छावाकशब्दयुक्तमित्यर्थः। अच्छावाकशब्दात् शब्दस्वरूप. पसत् प्रथमान्ताच्छः । वारवन्तीयं सामेति । 'अश्वं नत्वा वारवन्तम्' इत्यस्याम् ऋच्यध्यूढमित्यर्थः । एवमस्यवामीयमित्यपि । 'अस्यवामस्य' इत्यस्य एकदेशानुकरणम. स्यवामेति । तस्माच्छः । अस्यवामशब्दसंयुक्तमित्यर्थः । प्रकृतिवदनुकरणमित्यस्यानित्यत्वात्सुपो लुक् । अध्यायानुवाकयोलुक् । नन्वध्यायानुवाकयोरभिधेयत्वे छस्य 'नित्यं शतादि-' इत्यावश्यकमिति ध्वनयन्नुदाहरति-एकशततम इति । मासादेरिति । सख्यावाचित्वाभावेऽपीति भावः । षष्टयादेश्चेति । 'विशत्यादिभ्यः-' इति विकल्पे प्राप्ते नित्यार्थोऽयमारम्भः । संख्यादेस्विति । एतच्च प्राक् शताबोध्यम् , नित्यं शतादि-' इत्युकत्वात् । मती छ। मत्वर्थ इति । मतोर्विषय इत्यर्थः । तेन 'तत्' इति प्रथमा समथविभक्तिः, अस्यास्मिमिति प्रत्ययार्थश्वेह लभ्यते । HTHHTHHTHANE Page #565 -------------------------------------------------------------------------- ________________ ५६२ ] सिद्धान्तकौमुदी । [र्ता तेषु मत्वधीय एव ज्ञापकात्तत्र छः | विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः, गर्दभाडीयः । १८६१ विमुक्तादिभ्यो ऽस् । ( ५-२-६१ ) मध्वर्थेऽश स्यादध्यायानुवाकयोः । विमुक्तशब्दोऽस्मि श्वस्ति वैमुक्तः । देवासुरः । १८६२ गोषदादिभ्यो वुन् । ( ५-२-६२) मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेवकः । १८६३ तत्र कुशलः पथः । ( ५-२-६३ ) वुन् स्यात् । पथि कुशलः पथकः । १८६४ 1 1 कर्षादिभ्यः कन् । ( ५-२-६४ ) आकर्षे कुशल आकर्षकः । ' श्राकषादिभ्यः' इति रेफरहितो मुख्यः पाठः । आकषो निकषः । १८६५ धनहिरण्याकामे । ( ५-२-६५ ) काम इच्छा | धने कामो धनको देवदत्तस्य । हिरण्यकः । १८६६ स्वाङ्गेभ्यः प्रसिते । ( ५-२-६६ ) केशेषु प्रसितः कथं प्राप्तिः ? ‘सूक्लसाम्नोः' इति नियमादित्यत श्राह श्रत एवेति । विधानात । 'मतुप्प्रकरण एवास्मिन्सूत्रे कर्तव्ये अत्र प्रकरणे छस्य लुग्विधनसामर्थ्यात्' इति कैयटः । ज्ञापकसिद्धविधानसामर्थ्यादित्यन्ये । भाष्ये तु ' अध्यायानुवाकयोर्वा लुग्वक्तव्यः' इति वचनमेवारब्धम् । गर्दभाण्ड, गर्द भाण्डीय इति । गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वत्यर्थः । भाग्योदाहरणादेव क्वचिदेतन्नामकोऽध्यायोऽनुवाको वा अन्वेष्यः । विमुक्तादिभ्योऽण् । वैमुक्त इति । विमुक्त. शब्दयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । गोषदादिभ्यो वुन् । गोषदक इति । गोषदशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । इषेत्वक इति । इषेवा' इति शब्दयुक्त इत्यर्थः । अस्यवामीयमित्यत्रोक्तरीत्या सुपो न लुक् । तत्र कुशलः पथः । वुन् स्यादिति । सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे वुनित्यर्थं । अकादेशे 'नस्तद्धिते' इति टिलोपः । आकर्षादिभ्यः कन् । श्राकर्षक इति । यद्यपि वनैवानुवृत्तेनेद सिध्यति । तथापि शकुनिक इत्याद्य कन्ग्रहणम् । धनहिरण्यात्कामे । 'तत्र' इत्यनुवर्तते । धनशब्दाद् हिरण्यशब्दाच्च सप्तम्यन्तात् कमि वाच्ये कन् स्यादित्यर्थः । काम इच्छेति । नतु कामयित व्याख्यानादिति भावः । स्वाङ्गेभ्यः प्रसिते । 'तत्र' इत्यनुवर्तत । स्वप्तिभ्यः सप्तम्यन्तेभ्यः विधानसामर्थ्यादिति । मतुप्प्रकरण एवास्मिन् सूत्र कर्तव्ये यत्रास्य लुग्विधानें तत्पाक्षिक लुकमनुमापयतीति कैयटः । तत्र कुशलः । सप्तमीसमर्थात्पथिन्शब्दात् कुशल इत्यर्थे वुन्स्यात् । श्राकर्षादिभ्यः कन् । वुना सिद्धे कन्ग्रह - म् इदुदन्तार्थम् । अशनिकः । शकुनिकः । त्सरुकः । मुख्यः पाठ इति । श्राकषन्त्या स्मन् सुवर्णादिकमित्याकषः । ' पुंसि संज्ञायां घः- इति व्याख्याय, ये तु 'आकर्षादिभ्यः' इति सरे फं पठन्ति तेषाम् ' आकर्ष इति धनि रूपम्' इति हरदत्तेनोक्तत्वादिति भावः । धने Page #566 -------------------------------------------------------------------------- ________________ [ ५६३ प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। केशकः । तद्रचनायो तत्पर इत्यर्थः । १८६७ उदराहगाधूने । (५-२-६७) अविजिगीषौ ठक् स्यात्कनोऽपवादः । बुभुक्षयात्यम्तपीडित उदरे प्रसित मौदरिकः । 'पाधूने किम्-उदरकः । उदरपरिमार्जनादौ प्रसक इत्यर्थः । १८६८ सस्येन परिजातः । (५-२-६८) कन् स्वर्यते, न तु ठक् । सस्थशब्दो गुणवाची न तु धान्यवाची । 'शस्यन' इति पाठान्तरम् । सस्येन गुखेन परिजातः संबद्धः सस्यकः साधुः । १८६६ अंशं हारी। (५-२-६६) 'हारी' इत्यावश्यके णिनिः । अत एव तचोगे षही न । अंशको दायादः । १८७० तन्त्रादचिरापहृते । (५-२-७०) तन्त्रकः पटः । प्रत्यन इत्यर्थः । १८७१ प्रसितेऽर्थे कन् स्यादित्यर्थः । प्रसित उत्सुकः । तद्रचनायामिति । वेण्यादिप्रथने इत्यर्थः । अत्रैवार्थे अस्य साधुत्वम् , व्याख्यानादिति भावः । उदराट्रगाने । 'तत्र' 'प्रसित' इत्यनुवर्तते । सप्तम्यन्तादुदरशब्दाद् । आाने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आयूनशब्दं विवृण्वन्नाह -अविजिगीषाविति । 'दिवोऽकिजिगाषाम्' इत्यविजिगाषायामेव दिवो निष्ठानत्वविधानादिति भावः । बुभुक्षयेति । क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितः, न तु मनवयुद्धे विजिगीषयेत्यर्थः । उदरक इति । मल्ल इति शेषः । स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्सुको भवति । तदाह उदरपरिमार्जनादौ प्रसक्त इति । विजिगीषयेति शेषः । सस्येन परिजातः। तृतीयान्तात् सस्यशम्दात्परिजात इत्यर्थे कन् स्यादित्यर्थः । संनिहितष्ठगेव कुतो नानुवतते इत्यत आह कन् स्वयते न तु ठगिति । स्वरितत्व. प्रतिज्ञायां तु पाणिनीयपरंपरैव प्रमाणम् । सस्यशब्दो गुणवाचीति । व्याख्यान. मेवान शरणम् । शस्येनेतीति । 'शंसु स्तुती' इति धातोः कर्मणि यति शस्यशब्दः स्तुत्यपर्यायः । स्तुत्यश्च गुण एवेति भावः । परिजात इत्यस्य विवरणं संबद्ध इति । अंशं हारी । द्वितीयान्ताद् अशशब्दाद् हारीत्यर्थे कन् स्यादित्यर्थः । ननु कृद्योगषष्ठीप्रसादशमिति कथं द्वितीयेत्यत आह आवश्यके णिनिरिति । 'आवश्यकाधमर्ययोः-' इत्यनेनेति शेषः । षष्ठी नेति । 'भकेनोः- इति तनिषेधादिति भावः। तन्त्रादचिरापहते । तन्त्रशब्दात् पञ्चम्यन्ताद् अचि काम इति। 'तत्र' इत्यनुवतनात्सप्तम्यन्तात्प्रत्यय इति भावः । उदात् । श्राद्यूनशब्दार्थमाह अविजिगीषाविति । 'दिवोऽविजिगीषायाम्' इति तत्रैव निष्ठानत्वविधानात् । सस्येन । कर्मकर्तरि तृतीयेयम् । परितो जातः परिजातः । फलितमाह संबद्ध इति । अतएवेति । 'अकेनो:-' इति निषेधादिति भावः । तन्त्रात् । तन्यन्ते तन्तवोऽस्मिमिति व्युत्पत्त्या तन्त्रं तन्तुवायशलाका । चिरः Page #567 -------------------------------------------------------------------------- ________________ ५६४ ] सिद्धान्तकौमुदी। तद्धितेषु मत्वर्थीयब्राह्मणकोष्णिके संज्ञायाम् । (५-२-७१) श्रायुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमझं यस्यां सा उष्णिका यवागूः । अल्पानशब्दस्योष्णादेशो निपात्यते । १८७२ शीतोष्णाभ्यां कारिणि । (५-२-७२) शीतं करोतीति शीतकोऽलसः । उष्णं करोतीत्युष्णकः शीघ्रकारी । १८७३ अधिकम् । (५-२-७३) अध्यारूढशन्दाकनुत्तर पदलोपश्च । १८७४ अनुकाभिकाभीकः कमिता। (५-२-७४) अन्न भिभ्यां कन् , अभेः रापहृतेऽर्थे कनित्यर्थः । तन्त्रं तन्तुवायशलाका । अचिरेण कालेन अपहृतः अचि रापहृतः । 'कालाः परिमाणिना' इति समासः । प्रत्यग्र इति । नूतन इत्यर्थः । ब्राह्मणकोष्णिके । आयुधजीविविषयब्राह्मणशब्दात् प्रामान्ताद् अस्मिन्नित्यर्थे कन् निपात्यत इत्यर्थः । अल्पानशब्दस्येति । अलानशब्दात् प्रथमान्ताद् अस्मिनित्यर्थे कन्प्रत्ययः प्रकृतेरुष्णादेशश्च निपात्यत इत्ययः । शीतोष्णाभ्यां कारिणि । शीतमिव शीतं मन्दमित्यर्थः । उष्णमिव उष्णं शीघ्रमित्यर्थः । आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन् स्यादित्यः । 'य आशुकर्तव्यानर्थान् चिरेण करोति स शीतक उच्यते यस्तु अनाशुकर्तव्यान् आश्वेव करोति स उष्णक उच्यते' इति भाष्ये । 'संज्ञायामित्यनुवृत्तेरयमों लभ्यते' इति कैयटः । तदाह शीतकोऽलस इति । उष्णकः शीघ्रकारीनि च । अधिकम् । अध्यारूढशब्दादिति । व्युत्पादनमात्रमिदम् । शुद्धरूढ एवायमिति बोध्यम् । कालोऽपहृतस्येत्यचिरापहृतस्तस्मिन् । 'कालाः परिमाणिना' इति समासः । प्रत्यय इति । नूतन इत्यर्थः । ब्राह्मणकोष्णिके । ब्राह्ममशब्दादायुधजीवित्वोपाधिकात् प्रथमान्तात् सप्तम्यर्थे कन् प्रत्ययो निपात्यते । अन्नशब्दातु अल्पत्वोपाधिकात् । तदाह प्रायुधेत्यादि । शीतोष्णाभ्याम् । शीतमिव शीतम् , मन्दमित्यर्थः । शीते सति कार्यकरणे पाटवाभावात् । उष्णमिवोष्णम् , शीघ्रमि यर्थः । क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां प्रत्ययः । कृद्योगलक्षणा षष्ठी तु क्रियाविशेष्णान्नेत्युक्तम् । मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवत्यनभिधानात् । अधिकम् । अध्यारुढशब्दादिति । 'गत्यर्याकर्मक-' इत्यादिना रुहेः कर्तरि कर्मणि वा क्लो निहितः । आद्यं क्तप्रत्ययेन कर्मणोऽनभिहितत्वाद् अध्यारूढशन्दयोगे द्वितीया । अध्यारूढो द्रोणः खारीमिति प्रामं गत इतिवत् । तथा अधिकशब्देनापि योगे द्वितीयायां गप्तायां 'यस्मादधिकम्-' 'तदस्मिनधिकम्-' इति च निर्देशद्वयात् पञ्चमीसप्तम्यौ भवतः । अधिको द्रोणः खार्याः, अधिको द्रोणः खार्यामिति । द्वितीये तु क्लेन कर्मणोऽभिहितत्वात्प्रथमा । अधिका खारी द्रोणेन । कर्मणोऽभिहितत्वादेव पञ्चमीसारम्याविह न शङ्कनीये । Page #568 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६५ पाक्षिको दीर्घश्च । अनुकामयते अनुकः । अमिकामयते अभिकः, अभीकः । १८७५ पार्श्वनान्विच्छति । (५-२-७५) अनृजुरुपायः पार्थम् , तेनान्विच्छति पावकः । १८७६ अयःशूलदण्डाजिनाभ्यां उठी । (५-२-७६) तीचणोपायोऽयःशूलम्, तेनान्विच्छति मायःशूलिकः साहसिकः । दण्डाजिनं दम्भः, तेनान्विकृति दाण्डाजिनिकः । १८७७ तावतिथं ग्रहणमिति लुग्वा। (५-२-७७)कन् स्यात्पूरबप्रत्ययस्य च लुग्वा। द्वितीयकम् , अनुकाभिक । अनुक, अभिक, अभीक एषां समाहारद्वन्द्वः। सौत्रं पुस्त्वम् । पार्श्वनान्विञ्छति । तृतीयान्तात्पार्श्वशन्दाद् अन्विच्छतीत्यर्थे सहायां कन् स्यादित्यर्थः । अन्वेषणं मार्गणम् । पार्थमिव पार्श्वम् । अनृजुरुपायः। 'ऋजूपायेन अन्वेष्टव्यान् अर्थान् यः अनृजुना उपायेनान्विच्छति स पार्श्वकः' इति भाष्यम् । तदाह अनुजुरित्यादि । प्रयाशूलदण्डाजिनाभ्यां ठक्ठी । अयःशूल, दण्डोजिन प्राभ्यां तृतीयान्ताभ्यां अन्विच्छतीत्यर्षे संज्ञायां ठकठमो स्त इत्यर्थः । अबःशुलमिव अयःशूलम् , साहसमित्यर्थः । 'यो मृदुनोपायेन अन्वेष्टव्यानर्थान् तीक्ष्णोपायेनान्विच्छति स प्रायःशूलिकः' इति भाष्यम् । तदाह तीणोपाय इत्यादि । दण्डाजिनं दम्भ इति । दम्भार्थत्वाहण्डाजिनशन्दो दम्भे लाक्षणिक इति भावः । तावतिथम्। तावतां पूरणं तापतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः। तृतीयार्थे प्रथमा । ग्रहणमिति भावे ल्युडन्तम् । तथाच तृतीयान्तात्पूरणप्रत्ययान्ताद ग्रहणमित्यर्थे कन् स्यात्पुरणप्रत्ययस्य च लुग्वेत्यर्ष इत्यभिप्रेत्याह कन् स्यादित्यादि । पूरण प्रत्ययान्तस्य तु प्रकृतिभूतस्य न लुक् । किंतु पूरणप्रत्ययमात्रस्य, अनुका । समाहारहन्दै सौत्रं पुंस्त्वम् । सूत्रत्वालिगव्यत्यय इति फलितोऽर्थः । अन्वभिभ्यां कन्निति । क्रियाविशिष्टसाधनवाचिभ्या खार्थे निपात्यत इत्यर्थः । पार्श्वेनान्विच्छति । 'आकर्षादिभ्यः कन्' इत्यतः कननुवर्तते । अनुजुरिति । तिर्यगवस्थानापार्श्वमनृजु, तत्साध/दुपायोऽपि । इह शीतोष्णपार्शयःशूलदण्डाजिनशन्दा गौणा एव गृह्यन्ते । मुख्याभ्वस्तु प्रत्ययो न भवत्यनमिधानात् । तावतिथं ग्रहणमिति लुग्वा । तावतां पूरणं तावतियम् , 'वतोरिथुक्' । यथा 'तस्थापत्यम्' इत्यत्र तस्येति षष्टयन्तानां सामान्यनिर्देशस्तवात्र 'तावतियम्' इति पूरणप्रत्ययान्तानां सामान्यनिर्देशः । अनन्तरावपि ठक्छनौ नानुवर्तेते, भस्वरितत्वादित्यभिप्रेलाह फन्स्यादिति । पूरणप्रत्ययस्येति । न तु कनो लुक्, वाग्रहणानर्थक्यप्रसन्नात् । पञ्चम पञ्चमकमित्यादिरूपं हि तेन साध्यम् । तच महाविभाषाधिकारादिकल्पेन कन उत्पत्त्यापि सिद्धमेव, तस्मात्पूरणप्रत्ययस्यैव लुक्सूत्रकारस्याभिमत इति म्बाचष्टे Page #569 -------------------------------------------------------------------------- ________________ ५६६ ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीयद्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः । 'तावतिथेन गृहातीति कन्वक्तव्यो नित्यं च लुक्' ( वा ३१७२ ) । षष्ठेन रूप ण गृह्णाति षटको देवदत्तः । पञ्चकः । १८७८ स एषां ग्रामणीः । (५-२-७८) देवदत्तो मुख्य एषां देवदत्तकाः । स्वत्काः । मस्काः । १८७६ जालमस्य बन्धनं करभे । (५-२-७६) शृङ्खलकः करभः । १८८० उत्क उन्मनाः । (५-२-८०) उद्गतमनस्कवृत्तेरुच्छन्दात्स्वार्थे कन् । उक उस्कण्ठितः । १८८१ कालप्रयोजनारोगे । (५-२-८१) कालवचनात्प्रयोजनवचनाच कन् स्याद्रोगे । द्वितीयेऽहनि भवो द्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं 'षष्ठेन गृह्णाति षट्क' इति भाष्योदाहरणात् । द्वितीयेन रूपेणेति । अनेन तृतीयैव समर्थविभक्लिरिति सूचितम् । इतिना लोकानुसारित्वं गम्यते । एक च प्रन्थविषयकमेव ग्रहणमिह फलति । तेन द्वितीयं ग्रहणं देवदत्तेन दण्डस्येत्यादौ न भवति । तावति. थेनेति । ग्रहणेऽर्थे विहितं ग्रहीतरि न प्राप्नोतीत्यारम्भः । षटको देवदत्त इति । भाष्ये एवमेवोदाहृतत्वात् पूरणप्रत्ययस्यैव लुगिति गम्यते, न तु तदन्तस्य । स एषां ग्रामणीः । प्रामणीविशेषवाचकात् शब्दात्प्रथमान्ताद् अस्येत्यर्थ कन् स्यादित्यर्थः । देवदत्तो मुख्य एषामिति । एतेन ग्रामणीशब्दो मुख्यपर्याय इति सूचितम् । 'ग्रामणी पिते पुंसि श्रेष्ट ग्रामाधिपे त्रिषु' इत्यमरः । त्वत्का मत्का इति । त्वमहं वा मुख्य एषामिति विप्रहः । 'प्रत्ययोत्तरपदयोश्च इति त्वमौ । शृङ्खलमस्य । करभ इति षष्ठयर्थे सप्तमी । बन्धनमिति करणे ल्युट् । अस्य करभस्य शृङ्खतं बन्धनमिति विग्रहे बन्धनविशेषणात् शृङ्खलशब्दात् प्रथमान्ताद् अस्य करभस्येत्यर्थे कन् स्यादित्यर्थः । शृङ्गालकः करभ इति । शृङ्खलेन बद्ध इति यावत् । करभो बाल उष्ट्रः । उत्क उन्मनाः । उद्गतमनस्कवृत्तेरिति । उत्कण्ठितवृत्तेरित्यर्थः कालप्रयोजनाद्रोगे । काल, प्रयोजन अनयोः समाहारद्वन्द्वः, तदाह कालवचनात् प्रयो. जनवचनाचेति । यथोचितविभक्त्यन्तादिति शेषः । कालशब्देनात्र कालवृत्तिः पूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्यते, न तु मासादिशब्दः, व्याख्यानात् । तदाह द्वितीयेऽहनीति । प्रयुज्यतेऽनेनेति करणे ल्युटि प्रयोजनं साधनम् । द्विकमिति । वार्तिककारस्तु कन एव लुगिति व्याख्यामभिप्रेत्य 'तावतिथं ग्रहणमिति लुग्वा वचनानर्थक्यं विभाषाग्रहणात्' इत्याह । तन्मते द्वितीयकं द्वितीयमित्येव रूपं न तु द्विकमिति बोध्यम् । तावतिथेनेति । पूरणप्रत्ययान्ताद् ग्रहणोपाधिकात् स्वार्थे विधीयमानो प्रहीतरि न प्राप्नोतीति वचनमिति केयटः। स एषां ग्रामणीः । 'प्रामणी पिते पुंसि श्रेष्ठ प्रामाधिपे त्रिषु' इत्यमरः । करभ रति । उष्ट्रवालकः । Page #570 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६७ वा । विषपुष्पैजेनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । 'रोगे' किम्द्वितीयो दिवसोऽस्य । १८८२ तदस्मिन्नन्नं प्राये संज्ञायाम् । (५-२-८२) प्रथमान्तास्सप्तम्यर्थे कन्स्यायप्रथमान्तमचंचेयायविषयं तत् । गुडापूपाः प्रायेगा. अमस्यां गुडापूपिका पौर्णमासी । 'वटकेम्म इनिर्वाच्यः' (वा ३१८९) वटकिनी। १८८३ कुल्माषाद । (५-२-८३) कुल्माषाः प्रायेणाबमस्या कोक्माषी। १८८४ श्रोत्रियंश्छन्दोऽधीते । (५-२-८४) श्रोत्रियः। 'वा' इत्यनुवृत्तेरवान्दसः । १८८५ श्राद्धमनेन भुक्तमिनिठनौ । (५-२-८५) श्रादी, कर्मणि ल्युटि तु फलम् । तदाह प्रयोजनं कारणं रोगस्य फलं वेति । तदस्मिन्नन्नम् । प्रथमान्तादनवाचकाद् अस्मिनित्यर्थे कन् स्याद् अमस्य बाहुल्ये गम्ये संज्ञायामित्यर्थः। वटकेभ्य इति । संज्ञायामित्येव । वटकिनीति। बटकार प्रायेण अन्नमस्यां पौर्णमास्यामिति विग्रहः । कुल्माषादम् । कनोऽपवादः । 'स्याद्यावकस्तु कुल्माषः चणको हरिमन्थकः' इत्यमरः। श्रोत्रियंश्छन्दोऽधीते । द्वितीयान्ताच्छन्दश्शब्दाद् अधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपात्यते। अध्येत्रणोऽपवादः। वेत्यनुवृत्तेरिति । 'तावतिथम्' इति सूत्रान्मण्डूकप्लुत्येति शेषः । ततश्च घनभावे अध्येत्रणिति भावः । वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम् । श्राद्धमनेन । प्रथमान्तात् श्रादशब्दाद् भुक्तमनेनेत्यर्थे इनिठनौ द्वितीयेऽहनीति । यद्यपि द्वितीयशब्दः कालवाची न भवति, तथाप्यर्वप्रकरणादिना वृत्तिविषये काले वर्तत इति भावः । ननु साक्षात्कालवाचिभ्यो मासादिभ्यो न भवति, द्वितीयादिभ्यस्तु भवतीत्यत्र किं मानमिति चेत् । अत्राहु:-उत्तरसूत्रस्थ. संज्ञापकर्षणाच्छब्दखाभाव्याद्वा तद्वोध्यमिति । वटकेभ्य इति । कनि प्राप्ते बचनम् । ननु संज्ञाग्रहणात्कन्न भविष्यतीति चेत् । किं ततः? इनेरप्राप्तत्वात्तदर्थ बचनमगीकार्यमेव । 'अत इनिठनौ' इत्येव कथंचिदिनिः सिध्यतीत्याशात्र व कार्या । 'सप्तम्या च न तो स्मृतौ' इति वचनात् । श्रोत्रियं । यश्छन्दोऽधीते स श्रोत्रियो भवति । अत्र भाष्ये 'छन्दोऽधीते इत्यस्य वाक्यस्यायें श्रोत्रियनित्येतत्पदं निपात्यते' इति बाक्यार्थे पदवचनपक्षः । छन्दसो वा श्रोत्रभावो निपात्यते तदधीत इत्येतस्मिन] पश्च प्रत्ययः' इति पक्षान्तरं च स्थितम् । व्याख्यातं च कैयटेन 'वाक्यार्थस्य संबन्धरूपस्य क्रियारूपस्य वाऽसत्त्वरूपत्वात् । श्रोत्रियशब्दस्य च सत्त्वरूपार्थाभिधायित्वाद्वाक्यार्थग्रहणेन तदाश्रयश्छन्दोऽध्यायी अभिधीयत इति । एको शाखामधीत्व श्रोत्रियो भवतीति धर्मशास्त्रम् । त्यनुवृत्तेरिति । 'तावतियं ग्रहणमिति लुग्वा' इत्यतः । श्राद्धमनेन । श्रद्धास्मिन्नस्त्रीति श्राद्धम् । 'प्रज्ञाश्रदार्चाभ्यो णः' । यद्यपि Page #571 -------------------------------------------------------------------------- ________________ ५६८] सिद्धान्तकौमुदी। द्वितेषु मत्वर्थीयप्रादिकः । १८८६ पूर्वादिनिः । (५-२-८६) पूर्व कृतमनेन पूर्वी । १८५७ सपूर्वाञ्च । (५-२-८७) कृतपूर्वी कटम् । १८८८ इष्टादिभ्यश्च । (५-२-८८) इष्टमनेन इष्टी । अधीती। १८८६ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि । (५-२-८६ ) लोके तु परिपन्थिशब्दो एतौ त इत्यर्थः । श्राद्धसाधनद्रव्ये श्राद्धशब्दो लाक्षणिकः । निप्रत्यये नकारादिकार उच्चारणार्थः । पूर्वादिनिः । अनेनेति कर्तृतृतीयान्तमनुवर्त।। का किया प्रति कर्तेत्याकाक्षायां भुक्तं पीतमित्यादि यत्किञ्चित्क्रियापदमध्याहारम् । उपस्थितस्वात् कृमर्थभूतं क्रियासामान्यमेव प्रतीयते। ततश्च पूर्व कृतमनेनेति विग्रहे कृतमित्यादिक्रियाविशेषणात्पूर्वशब्दाद् अनेनेत्यर्थे इनिः स्यादित्यर्थः । सपूर्वाश्च । विद्यमानपूर्वादपि पूर्वशन्दादुक्तविषये इनिः स्यादित्यर्थः। पूर्वान्तादिति यावत् । प्रातिपदिकविशेषणत्वेऽपि प्रत्ययविधौ तदन्तविधिप्रतिषेधादप्राप्ते सूत्रनिदम् । कृतपूर्वी कटमिति । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्रोक्तम् । इष्ट दिभ्यश्च । इष्टा. दिभ्यः तृतीयान्तेभ्यः अनेनेत्यर्थे इनिः स्यादित्यर्थः । छन्दसि परिपन्थि । परिपन्थिन्, परिपरिन् एतौ शब्दौ छन्दसि निपात्येते पर्यवस्थातरि वाच्ये । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पन्थादेशे परिपन्थिन् शब्दः। पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थतृशब्दस्य पर इत्यादेशे परिपरिन शब्दः । 'मा त्वा पिश्यं कर्म श्राद्धशब्देनोच्यते, तथापीह तत्साधनद्रव्यमुच्यते । मुख्यश्राद्धस्य भोक्तुमशक्यत्वात् । श्राद्धी । श्राद्धिक इति । 'अद्यतन एटेष्यते' अद्य भुक्ते श्वः श्राधिक इति मा भूत् । पूर्वादिनिः । पूर्वमिति क्रियाविशेषणाद् द्वितीयान्तात् प्रत्ययः। अनेन' इति कर्तृवाचकमनुवर्तते । न च क्रियामन्तरेण का संभवतीति कांचिकियामध्याहृत्य प्रत्ययो विधेयस्तदाह पूर्व कृतमनेनेति । सर्वाश्च । 'अनेन' इति पूर्वसूत्रं चानुवर्तते। विद्यमानपूर्वकात्पूर्वशब्दादनेनेत्यस्मिन्नर्थे इनिः स्यात् । 'पूर्वान्ताच' इत्येतत्फलितम् । कृतपूर्वीति । कृतपूर्वशब्दयोः ‘सुप्सुपा' इति समासः । इह प्रातिपदिकाधिकारात् 'पूर्वादिनिः' इत्यनेनैव पूर्वशब्दान्तप्रातिपदि कात् कृतपूर्वशब्दा. दिनौ सिद्धे 'सपूर्वाञ्च' इत्येतद् 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न' इति परिभाषा ज्ञापयति । कृतपूर्वीयेतत्सिद्धये 'पूर्वान्ताच्च' इति स्वीकृते तेव व्यपदेशिवदावेन पूर्वीयपि रूपे सिद्ध 'पूर्वादिनिः' इत्येतद् 'व्यपदेशिवद्भावो प्रातिपदिकेन' इति परिभाष ज्ञापयति । छन्दसि । पर्यवस्थातृशब्दाच्छत्रुपयाय स्वार्थे इनिप्रत्ययः, अवस्थातृशब्दस्य च पन्य पर एतावादेशौ निपात्येते । अपत् परिपन्थिनम्', 'मा चा परि परिणो विदन्' । उभयत्रापि परिशब्देऽवग्रहः । लोके चिति । 'अनुपस्थित Page #572 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६६ न न्याय्यः । १८६० अनुपचन्वेष्टा । (५-२-६०) अनुपदमन्वेष्टा गया. मनुपदी । साक्षाददष्टरि संज्ञायाम् । (५-२-११) साचाद्या साची । १८४२ क्षेत्रियच् परक्षेत्रे चिकित्स्यः । (५-२-६२) नेत्रियो ग्याधिः, शरीरान्तरे चिकित्स्यः, अप्रतिकार्य इत्यर्थः । १८६३ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा । (५-२-६३) विदन्परिपन्थिनः, मा वा परिपरिणो विदन्' इति श्रुतौ उदाहरणम् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् । अनुपधन्वेष्टा । पदस्य पश्चादनुपदम् । पश्चादर्थे अव्ययीभावः । सप्तम्या अम्भावः । अनुपदमित्यस्माद् अन्वेष्टरि अर्थे इनिप्रत्ययो निपात्यते । साक्षाद्ष्टरि संज्ञायाम् । साक्षादित्यव्ययम्, इह शन्दस्वरूपपरं लुप्तपञ्चमीकम् । साक्षादित्यव्ययाद् द्रष्टर्यर्थे इनिः स्यादित्यर्थः । साक्षीति। यः कर्मणि स्वयं न व्याप्रियते, किन्तु कम क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते । साक्षादित्यव्ययादिनिप्रत्ययः 'अव्ययानां भमात्रे- इति टिलोपः। क्षेत्रियच् । परम् अन्यत् क्षेत्रं शरीरम् परक्षेत्रम्। चिकित्स्यः प्रतिकार्यः, 'कितेाधिप्रतीकारे' इत्युक्तेः । परक्षेत्रशब्दात् सप्तम्यन्तात् चिकित्स्य इत्यर्थे घच्, परशब्दस्य लोपश्च निपात्यते। शरीरान्तर इति । भाविनि शरीरे चिकित्स्यः, नतु वर्तमाने शरीर इस्यर्थः । फलितमाह अप्रतिकार्य इति । इन्द्रियम् । परिपन्थिभिः पार्थिवैः' इत्यादौ । अनुपचन्वेष्टा । अन्वेष्टरि इनिः प्रत्ययो निपात्यते। अनुपदमिति । पदस्य पश्चात् , पश्चादर्थेऽव्ययीभावः । अनुपदी गवामिति । पदापेक्षया षष्ठी । गोपदात्पश्चादन्वेषणं गवामेव । तेन हिरण्यादावन्वेष्ये न भवतीति हरदत्तः । साक्षाद्दष्टरि । द्रष्टर्यर्थे इनिः स्यात् । साक्षाच्छब्दोऽव्ययम् , तेन 'प्रकृतिवदनुकरणम्' इत्यतिदेशादिह सूत्रे पञ्चम्या लुक् । 'उदः स्थास्तम्भो-', 'वाचालम्बना- इत्यादौ तु 'प्रकृतिवत्-' इत्यतिदेशस्य वैकल्पिकत्वेनाव्ययत्वाभावात् । पञ्चम्या लुङ् न भवतीति बोध्यम् । साक्षीति । 'अव्यानां भमात्रे-' इति टिलोपः। यद्यपि साक्षाद्दष्टारत्रयो भवन्ति दाता ग्रहीता उपद्रष्टा च, तथापीह संज्ञाग्रहणात् साक्षिशब्देनोपद्रष्टवोच्यत इत्याहुः । क्षेत्रियच् । 'परक्षेत्रशब्दात्सप्तम्यन्ताद्धच् परशन्दस्य लोपश्च निगल्यते' इति मनोरमा। अन्ये तु 'परक्षेत्र चिकित्स्यः' इत्यर्थे 'क्षेत्रियच्' इति निपात्यते । वाक्यार्थे पदवचनं श्रोत्रियवदित्यप्याहुः । एवमन्यत्राप्यूह्यम् । क्षेत्रियो व्याधिरिति । किंच क्षत्रियं विषम् , यत्परशरीरे संक्रमय्य चिकित्स्यते । अपि च क्षेत्रियाणि तृणानि, यानि सस्यार्थक्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि । किं च क्षेत्रियः पारदारिकः, परदाराः परक्षेत्रम् । Page #573 -------------------------------------------------------------------------- ________________ ५७० ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीयइन्द्र पारमा, तस्य निङ्गम् , करणेन कर्तुरनुमानात् । इतिकरणं प्रकारार्थम्। इन्द्रेण दुर्जयमिन्द्रियम् । १८१४ तदस्यास्त्यस्मिन्निति मतुप् । (५-२-६४) गावोऽस्यास्मिन्वा सन्ति गोमान् । 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुवादयः ॥' (वा ३१८३) इन्द्रलिङ्गमित्याद्यर्थेषु इन्द्रियमिति भवति । इन्द्रशब्दाद् यथायोगं षष्ठीतृतीयान्ताद् लिङ्गमित्याद्यर्थेषु घच् निपात्यत इति यावत् । इन्द्र आत्मेति । ‘स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिति । तस्मादिदन्द्रो नामेदन्द्रो ह - नाम तमिदन्द्रं सन्तामन्द्रमित्याचक्षते' इति श्रुतेरिति भावः । तस्य लिङ्गमिति । श्रात्मनोऽनुमापकमित्यर्थः । लिङ्गत्वमुपपादयति करणेनेति । चक्षुरादीन्द्रियं किञ्चित्क. धिष्ठितं भवितुमर्हति, करणात्वात् , घटकरणदण्डादिवदित्यनुमानादित्यर्थः । मम चक्षुरित्येवमिन्द्रेण दृष्टं ज्ञातमिन्द्रियम् । इन्द्रेण सृष्टमिन्द्रियम् । इन्द्रेण जुष्टं सेवितं प्रीणितं वा इन्द्रियम् । रूढशब्दोऽयं कथञ्चिद्व्युत्पादितः । इन्द्रेण दुर्जयमिन्द्रियमिति साधयितुमाह इतिकरणमिति । इतिशब्द इत्यर्थः । तदस्यास्त्यस्मिन्निति मतप । तदस्यास्तीति तदस्मिन्नस्तीति विप्रहे अस्तिसमानाधिकरणात्प्रथमान्ताद् अस्य अस्मिन्निति चार्थे मतुप् स्यादित्यर्थः । उपावितौ । इतिशब्दो विषयविशेषलाभार्थः । तत्र चिकित्स्यो निग्रहीतव्यः। सर्वेऽप्येते पक्षा प्राकरे स्थिताः । इन्द्रियमिन्द्र। इन्द्रशब्दाद्धच् । इन्द्रेण दृष्टं ज्ञातं 'मम चक्षुः, मम श्रोत्रम्' इत्यादिक्रमेण सृष्टमदृष्टद्वारा, जुष्टं प्रीणितं सेवितं वा । दत्तं यथायथं विषयेभ्यः । रूढिशब्दोऽयं यथाकथंचिद्व्युत्पादितः । तदस्यास्त्यस्मिन्निति मतुप् । तदिति प्रथमासमर्थात्प्रत्ययः । अस्तीति पुरुषवचने अविवक्षिते, कालस्तु विवक्षितः, धने गते भाविनि वा 'धनवानयम्' इति प्रतीत्यभावात् । इतिशब्दो विषयविशेषलाभार्थः । तथाहि-'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥' अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयेषु भवन्तीति वार्तिकार्थः । भूमा बहुत्वम् । तच्चापेक्षिकम् । यस्य हि यावदुचितं तावदेव बहुत्वबोधकबहुशब्देनापि प्रतीयते । तथा पञ्चषाभिरपि गोभिर्देवदत्तस्य बढयो गाव इति व्यवहारः। राज्ञस्तु सहस्रगोरपि गावोऽल्पा इति व्यवहारः । गोमान् । यवमान् । यस्य खार्यादिभिः परिच्छिन्ना यवाः सन्ति स एवमुच्यते, न तु सहस्रेणापि यवैर्यवमानिति । कथं तर्हि 'यवमतीभिरद्भिद्रूपं प्रोक्षति' इति । अत्राहुः-जातिमात्रसम्बन्धस्य विवक्षितत्वाद् भूमाभावेऽप्यत्र मतुप् । भूमादिग्रहणं तु प्रायेण भूमादयः प्रतीयन्त Page #574 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७१ १८६५ रसादिभ्यश्च । (५-२-१५) मतुप् । रसवान् । रूपवान् । अन्यमत्वर्थीयनिवृत्यर्थ वचनम् । रस, रूप, वर्ण, गन्ध, स्पर्श, शब्द, नेह, भाव। 'गुणात् (ग. सू. ११२)। 'एकाचः' (ग. स. ११३)। स्ववान् । गुणग्रहणं रसादीनां विशेषणम् । १८६६ तसो मत्वर्थे। (१-४-१६) तान्तसान्ती भसंज्ञो स्तो मत्वर्थे प्रत्यये परे । 'वसोः सम्प्रसारणम्' (सू ४३५) विदुष्मान् तदाह भूमनिन्देति । श्लोकवार्तिकमिदम् । भूमा बहुत्वम् , यथा गोमान्, यवमान् । निन्दायाम् ककुदावर्तिनी कन्या। प्रशंसायाम्-रूपवान् । नित्ययोगे-क्षीरिणो वृक्षाः। अतिशायने-उदरिणी कन्या । संसर्गे-दण्डी छत्री। वृत्तिनियामकः संसर्गविशेषो विवक्षितः, तेन पुरुषी दण्ड इति नास्ति । रसादिभ्यश्च । मतबिति। शेषपूरणमिदम् । उक्तविषय इति शेषः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह अन्यमत्वर्थीयेति । 'अत इनिठनौ' इत्यादिनिवृत्त्यर्थमित्यर्थः । रसादीन् पठति रसरूपेत्यादि भावेत्यन्तम् । गुणादिति । एकाच इति । गणसूत्रम् । उदाहरति स्ववानिति । गुणग्रहणमिति । गुणादित्येतद् रसादीनां षण्णां विशेषण मित्यर्थः । तेन गुणवाचकानामेव एषां ग्रहणाद् जलादिवाचकानां रसादिशब्दानां द्रव्यवाचिनां च गन्धादिशब्दानाम् इह न ग्रहणमिति भावः । 'रसिको नटः, स्पर्शिकं वारि' इत्यादिप्रयोगदर्शनाद् इदं सूत्रं भाष्ये प्रत्याख्यातम् । ननु विद्च्छन्दान्मतुपि यजादिस्वादिपरकत्वाभावेन भस्वाभावाद् 'वसोः संप्रसारणम्' इति कथं संप्रसारणमित्यत आह तसौ मत्वर्थे । मत्वर्थप्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभिप्रेत्याह तान्तसान्ताविति । तकारसकारान्ता. इत्येवंपरमिति । निन्दायां ककुदावर्तिनी कन्या। प्रशंसायां रूपवान् । नित्ययोगे क्षीरिणो वृक्षाः । अतिशायने उदरिणी कन्या । संसर्गे दण्डी । संसर्गः संयोगः, तेन संयुक्तदण्ड एवोच्यते, न तु गृहावस्थितदण्डोऽपि । इह दण्डपुरुषयोः संयोगे सत्यपि दण्डी पुरुष इत्यादिवत् 'पुरुषी दण्डः' 'पुरुषवान् दण्डः' इति न प्रयुज्यते । वृत्तिनियामकस्य विलक्षणसम्बन्धस्याभावात् । संयोगे समानेऽपि प्रतीतिबलाद्वैलक्षण्यं कल्प्यत इत्याहुः । एवं च यवसंयोगमात्रेण यवमत्य आपो न भवन्ति, किं तु यवमज्जलवच्च पात्रमेवेत्याशयेन 'कथं यवमतीभिरद्भिः' इत्यापो भूमादिग्रहणं प्रायिकमित्याद्युत्तरं च संगच्छत एव । अन्यमत्व येति । कथं तर्हि 'रूपिणी कन्या' 'रसिको नटः' इति । अत्राहुः-रसादिगणे 'गुणात्' इति पठ्यते । तेन गुणवाचिभ्य एवान्यमत्व-यस्य निषेधः, रूपिणीत्यत्र तु रूपशन्देन सौन्दर्य गृह्यते । तच न गुणः । रसिक इत्यत्र तु रसशब्देन मावो गृह्यते न तु रसनाप्रायो Page #575 -------------------------------------------------------------------------- ________________ ५७२ ] सिद्धान्तकौमुदी । [तद्धितेषु मत्वर्थीय 'गुणवचनेभ्यो मतुपो लुगिष्ट:' (वा ३१८५ ) शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः । १८६७ मादुपधायाश्च मतोर्वोऽयवादिभ्यः । ( ६-२-६ ) मवर्णावर्णान्तान्मवर्षावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान् । लक्ष्मीवान् | यशस्वान् । भास्वान् । यत्रादेस्तु यत्रमान् । भूमिमान् । १८६८ भयः । ( ८-२-१०) कय न्नान्मतोर्मस्य वः स्यात् । अपदान्तस्वाश्च जश्त्वम् । विद्युत्वान् । १८६६ संज्ञायाम् । ( ८-२-११) वित्यर्थः । गुणवचनेभ्य इति । वार्तिकमिदम् । गुणे गुणवने च ये प्रसिद्धाः शुक्लादिशब्दाः त एव गृह्यन्ते, न तु रूपादिशब्दा अपि । तेन रूपं वस्त्रमित्यादि न भवति । अत्र यद्वक्तव्यं तदध्वरभीमांसाकौतूहले अरुणाधिकरणे पश्चितमस्माभिः । मादुपधायाश्च । मात् उपधायाश्चेति च्छेदः । मादित्यावर्तते । म् च अश्वेति समाहारद्वन्द्वात्पञ्चम्येकवचनम् । मतुप्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वातदन्तविधिः । मवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोः मस्य व स्यादित्येकोऽर्थः । मादित्युपधाविशेषणम् । मकारात्मिका कारात्मिका च या उपधा ततः परस्य मतोर्मस्य वः स्यादित्यन्योऽर्थः । फलितमाह मवर्णेत्यादिना । मान्तादुदाहरति — किंवानिति । किमस्यास्मिन्वास्तीति विग्रहः । एवमप्रेऽपि । अकारान्तादुदाहरतिज्ञानवानिति । श्रत्र तपरकरणाभावादाकारस्यापि ग्रहणमिति मत्वाद विद्यावानिति । मोपधादुदाहरति — लक्ष्मीवानिति । श्रदुपधादुदाहरति - यशस्वानिति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति--प्रास्वानिति । अथ विद्युत्वानित्यत्र मकाराकारान्तत्वाभावान्मका राकारोपधत्वा भागश्च मादुपधाया इति वत्वा प्राप्तावाह झयः । अपदान्तत्वादिति । 'तसे' मत्वर्थे' इति भत्वेन पदत्वबाधादिति भावः । संज्ञायाम् । श्रहीवतीत्यादि नदीविशेषस्य नगगुण इति । गुणवचनेभ्य इति । गुणे तद्वति च प्रसिद्धा रे शुक्लादयस्त एव गृश्यन्ते, न तु रूपादयोऽपि । तेन रूपं वस्त्रमित्यादिप्रयोगो न भवति । मादुपधाया । मूच च मं समाहारे द्वन्द्वः । तेन मतुप्प्रत्ययाक्षिप्तं प्रातिपदिकं विशेष्यते, तदाद मवर्णावर्णान्तादिति । 'उपधायाश्च' इति वाक्यान्तरम् । उपधाभूतन्मात्परस्य तोरित्यर्थः । येन नाव्यवधान - ' न्यायेनान्त्या व्यवहितेऽपि भवतीति । एवमक्षरार्थे स्थिते फलितमाह मवर्णावर्णोपधादिति । भयः । इदम मतुबाक्षिप्तस्य प्रातिपदिकस्य विशेषणम्, तदाह यन्तादिति । विद्युत्वानिति । एतेन 'वहिमद्वान्' इति नैयायिक प्रयोगो निरस्तः । उक्तरीत्या जश्त्वस्याप्रवृत्तेः । मत्वन्तान्मतुपों निषेधाच्च । ननु गोधुमान् मधुलिरमा नित्यत्र हस्य घत्वे ढत्ते च कृते 'झयः' T Page #576 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८] बालमनोरमा-तस्वबोधिनीसहिता। [५७३ मतोमस्य वः स्यात् । महीवती । मुनीवती । शरादित्वाद् दीर्घः । १६०० आसन्दीवदष्ठीवश्चक्रीवत्कक्षीवद्मएवच्चर्मरावती । (८-२-१२) एते षट् संज्ञायां निपात्यन्ते । भासनशब्दस्यासन्दीभावः । मासन्दीवान्प्रामः । अन्यत्रासनवान् । अस्थिशब्दस्याठीभावः । अष्ठीवान् । अस्थिमानन्यत्र । चक्र. शब्दस्य चक्रीभावः । चक्रीवासाम राजाचक्रवानन्यत्र । कषयायाः सम्प्रसारणम् । कक्षीवानामर्षिः । कथावानन्यत्र । सवयशब्दस्य रुमरभावः । रुमरवानाम पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी। चर्मवत्यन्यत्र । १६०१ उदन्वानुदधौ च । (८-२-१३) उदकस्योदभावो मतावुदधौ संज्ञायां च । उदन्वाम्समुद्र ऋषिश्च । १९०२ राजन्वान्सौराज्ये । (८-२-१४ ) राजन्वती भूः । राजवानम्यत्र । १९०३ प्राणिस्थादातो लजन्यतरस्याम् । (५-२-६६) चूडालः, चूडावान् । 'प्राणिस्थात्' किम्-शिखावान्दीपः । 'प्रातः किम्-इस्तवान् । 'प्राण्यङ्गादेव' ( वा ३१८९) रीविशेषस्य वा संज्ञा । शरादित्वादिति । 'शरादीनां च' इति दीघ इत्यर्थः आसन्दीवत् । समाहारद्वन्द्वे हस्खत्वम् । निपात्यन्त इति । आसन्दीभा वादिकमेवात्र निपात्यते, वत्वं तु संज्ञायामिति सिद्धम् । कक्ष्यायाः सम्प्रसार णमिति । निपात्यत इति शेषः । 'न सम्प्रसारणे-' इति सूत्रभाष्ये तु 'कक्ष्याया संज्ञायां मतौ सम्प्रसारणं वक्तव्यम्' इत्यारब्धम् । अतोऽत्र सूत्रे कक्षीवच्छन्दपाठः अनार्ष इत्याहुः । उदन्वानुदधौ च । उदधौ संज्ञायां चेति । वस्तुतस्तु 'उदन्वांश्च' इत्येव सूत्रयितुमुचितम् , 'संज्ञायाम्'इत्यनुवृत्त्यैव समुदेऽपि उदन्वच्छ. ब्दस्य सिद्धत्वात् । राजम्वान् सौराज्ये । सु शोभनो राजा यस्य देशस्य स सुराजा, तस्य भावः सौराज्यम् । तस्मिन्नर्थ राजन्शब्दाद् मनुपि 'मादुपधायाः-' इति वत्वं सिद्धम् । नलोपाभावो निपात्यते । प्राणिस्थात् । श्रादन्तात्प्राणिस्थवाचिनः शब्दाद् मत्वर्थे लज् वा स्यादित्यर्थः । शिखावान् दीप इति । अत्र शिखाशब्दस्य इति वत्वप्रवृत्त्याऽनुनासिकपरत्वाभावात् 'प्रत्यये भाषायां नित्यम्' इत्यनेन घकार. ढकारयोरनुनासिकाप्रवृत्तेर्गोधुग्वान् मधुलिड्वानित्यनिष्टं प्रसज्येत । मैवम् , घत्वढत्वरयोसिद्धत्वेन "झयः' इति वत्वाप्रवृत्तेः। प्राणिस्थात् । शिखावान्दीप इति । प्रत्युदाहरणदिगियं दर्शिता । शिखाशब्दस्य व्रीह्यादिपाठेन लचोऽप्रसङ्गात् 'चूडावान् वृक्षः' इति प्रत्युदाहार्यमिति हरदत्तः । न च वृक्षस्य प्राणित्वमस्तीति शङ्कयम् , १ कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भुमिम् । नक्षत्रताराप्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः॥ रघु. ६-२२ । Page #577 -------------------------------------------------------------------------- ________________ ५७४ ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीय. नेह-मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदासस्वे चूडालोऽसीत्यादौ 'स्वरितो वानुदात्ते पदादी' (सू १६५६) इति स्वरितबाधनार्थश्चकारः। १६०४ सिध्मादिभ्यश्च । (५-२-६७) बज्वा स्यात् । सिध्मलः, सिध्मवान् । अन्यतरस्यांग्रहणं मतुप्समुपयार्थम् , न तु प्रत्ययविकल्पार्थम् । तेन प्रकारान्तेभ्य इनिदीपानवाचिनः प्राणिस्थवाचित्वाभावाद् न लजिति भावः । प्राण्यङ्गादेवेति । भाष्ये तथा वचनादिति भावः । ननु लचश्चित्करणं व्यर्थम् , 'चितः' इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धरित्यत आह प्रत्ययस्वरेणेति । चडालोऽसीति । तत्र असीत्येतत् 'तिङतिङः' इति निहतम् । चूडालात्सो स्त्वे उत्वे तस्य सुप्त्वेनानुदात्तस्याद्गुणस्य 'एकादेश उदात्तेन-' इत्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाद्यनुदात्तेन सहैकादेशत्वात् 'स्वरितो वाऽनुदात्ते' इत्यस्य प्राप्तौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः । सिध्मादिभ्यश्च । लज्वा स्यादिति । मत्वर्थे इति शेषः । अन्यतरस्यामिति । पूर्वसूत्रादन्यतरस्यामित्यनुवृनं न लच्प्रत्ययविकल्पार्थकम् , किन्तु मतुप्प्रत्ययसमुच्चयार्थकमेव अन्यतरस्यामित्यस्याव्ययत्वेनानेकार्थकत्वात् । ततश्च सिध्मादिभ्यो लज् मतुप च स्यादिति लभ्यते । नचान्यतरस्यामित्यस्यात्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप् सिद्ध इति वाच्यम् , लजभावे मतुबेव भवति, न तु 'अत इनिठनौ' इत्येतदर्थ समुच्चयावेधानात् । तदाह तेनेति । सिध्मादिषु ये अकारान्ताः । तेभ्य इनिठनौ नेत्यर्थः । एतत्सर्व भाष्ये स्पष्टम् । सिध्म, गडु, मणि, विजय, पांसु, हनु, पाणि इत्य दयः सिध्मादिषु मुखनासासंचारी वायुः प्राणः, तद्वानेव प्राणीति तदाशयात् । प्राण्यङ्गादेवेति । एतच्चेति करणानुवृत्त्या लभ्यते । चडालोऽसीति । असीत्यस्य " तिङतिङः' इति निघातः । चूडालशब्दात्सोरुत्वे तस्य 'अतो रोरप्लुतात्-' इत्युकारे कृते हला स्रंसनधर्मत्वात्तत्स्थानिकोऽकारोऽनुदात्तः । सुपस्थानिकस्यापि सुप्त्वाद् 'अनुदात्तौ सुप्पितौ' इत्यनुदात्त इत्यन्ये। पूर्वेण सह श्राद्गुणे सति “एकादेश उदात्तेन-' इत्योकार उदात्तः । ततः 'एङः पदान्तादति' इति पूर्वरूपमेकादेशस्तस्य 'स्खरितो वानुदात्ते-' इत्यादिना स्वरित प्राप्ते तद्बाधनाय चकार इत्यर्थः । सिध्मादिभ्यश्च । सिध्म, गडु, मणि, विजय, निष्पाव, पांसु, हनु, पाष्र्यादयः सिध्मादयः । समुञ्चयार्थ. मिति । निपातानामनेकार्थत्वादिति भावः । न च इनिठनावप्यन्यतरस्यांग्रहणेन समुच्चौयेतामिति शङ्कयम् , तयोरप्रकृतत्वात् । मतुप्प्रत्ययस्तु समुच्चीयते । तस्य प्रकृतत्वात् । अस्ति चेह लिङ्गं 'केशाद्वः' इत्यत्रान्यतरस्यांग्रहणम् । तद्धि इनिठनोः प्राप्त्यर्य क्रियते । प्रकृतस्यान्यतरस्यांग्रहणस्य विकल्पार्यत्वे तदनुवृत्त्यैव सिद्धौ किं Page #578 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [५७५ ठनौ न । 'वातदन्तबलललाटानामूङ् च' (ग सू १११)। वातूलः । १६०५ वत्सांसाभ्यां कामबले । (५-२-६८)माभ्यां नच् स्यायथासङ्गाय कामवति बलवति चार्थे । वस्सनः। अंसलः । १६०६ फेनादिलच्च । (५-२-६९) चाल्लच । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते। फेनिलः, फेनलः, फेनवान् । पठिताः। एवं च लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे । इदमन्यतरस्यां प्रहणमुत्तरसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, नेतु रूढशब्दषु । अतो न तेषु मतुप्समुच्चय इत्यास्तां तावत् । वातदन्तबलललाटानामू चेति । सिध्मादिगणसूत्रमिदम् । एभ्यो लच् प्रकृतेरूङ् चादेशः। कारस्तु श्रादेशत्वसूचनार्थः । अन्यथा प्रत्ययत्वशका स्यात् । वातूलः, एवं दन्तूलः, बलूलः, ललाटूलः । वत्सांसाभ्यां कामबले। लच् स्यादिति । मत्वर्थे इति शेषः । कामबलशब्दौ तद्वति लाक्षणिकावित्यभिप्रेत्याह कामवति बलवति चेति । फेनादि. लच्च । मत्वर्थे इति शेषः। चाल्लजिति । संनिहितत्वादिति भावः । नन्वेवं सति मतुब् नैव स्यादित्यत आह अन्यतरस्यांग्रहणमिति । सिध्मादिसूत्रे तेन । क्रियमाणं तु पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थता ज्ञापयत्येव । तथा च वार्तिकम्-'लजन्यतरस्यामिति समुच्चयः' इति । अयं भाव:-'प्राणिस्थात्-' इति सूत्रेण लचि विकल्पिते पक्षे मतुबिति चूडालश्चूडावानिति रूपद्वयं यद्यपि सिध्यति तथापि सिध्मादिषु येऽदन्तास्तेषु इनिठनोः प्रवृत्त्या दोषः । समुच्चयार्थत्वे तु न दोष इति । एव च 'लज्वा स्यात्' इति वृत्तौ वाशब्दः समुच्चये बोध्यः । 'वा स्याद्विकल्पो. पमयोरेवार्थेऽपि समुच्चये इत्यमरः । वातदन्तेत्यादि । सिध्माद्यन्तर्गणसूत्रम् । ऊङ् चेति । ङिस्वादन्तादेशः। ऊकारमात्रोकावन्तादेशत्वसिद्धावपि प्रत्ययत्वशङ्कानिवारणाय अनुबन्धः कृतः । न च षष्ठपन्ताद्विहितस्य प्रत्ययत्वं जति शङ्कयम् । 'अहंशुभमोर्युस्' 'गोपयसोर्यत्' इत्यादौ प्रत्ययत्वाभ्युपगमात् । वातूल इति । अन्तोदात्तमिदम् । प्राचा तु 'बलादूलः' 'वाताच' इति पठित्वा वातुल इत्युक्तम् । तदुपेक्ष्यम् , अन्त्यस्वरेण मध्योदात्तत्वप्रसङ्गात् । गणसूत्रबलेनान्तोदात्तमेवेष्यत इत्याहुः। पाणिधमन्योदीर्घश्च' 'क्षुदजन्तूपतापाच' इत्यपि गणे पठ्यते । पाष्णीलः । धमनीलः । क्षुद्रजन्तुः-यूकालः । मक्षिकालः । उपतापो रोगः विपादिकालः । वत्सांसाभ्याम् । कामवतीति । कामबलशब्दौ सूत्रे अशआद्यजन्ताविति भावः वत्सल इति । स्नेहवानित्यर्थः । ननु वत्सांसशब्दौ वयोविशेषे प्राण्यङ्गविशेषे च रूढौ, न कामबलयोः । तत्कथं ताभ्यां , लजन्ताभ्यां कामवान् बलवांश्चोच्यत इति चेत् । अत्राहुः-वृत्तिविषये वत्सासशब्दो महबलयोर्वर्तेते इति । अस्मिस्तु प्रकरणे Page #579 -------------------------------------------------------------------------- ________________ ५७६] . सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीय१९०७ लोमादिपामादिपिच्छादिभ्यः शनेलचः । (५-२-१००) खोमादिभ्यः श:-लोमशः, लोमवान् । रोमशः, रोमवान् । पामादिभ्यो न:पामनः । 'मजाकल्याणे' (ग स् ११८)। अङ्गना । 'लचम्या भव' ( ग सू१२१) लषमणः । 'विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः' (वा ३१६४) विषुणः । पिच्छादिभ्य इलच्-पिच्छिलः, पिच्छिवान् । उरसिलः, उरस्वान् । व्याख्यातमिदम् । लोमादि । श, न, इलच् एते त्रिभ्यो गणेभ्यो यथासंख्यं स्युर्मत्वर्थे । अङ्गात्कल्याण इति । पामादिगणसूत्रम् । कल्याएं सुन्दरम् , तद्विशेषणकादङ्गशब्दादू मत्वर्थे नप्रत्यय इत्यर्थः । अङ्गनेति । कल्याणानि अङ्गानि अस्या इति विग्रहः । 'लक्ष्म्या अच्च' इत्यपि पामादिगणसूत्रम् । लक्ष्मीशब्दाद् मत्वर्थे नप्रत्ययः स्यात् प्रकृतरकारोऽन्तादेशश्च । लक्ष्मण इति । लक्ष्मीरस्यास्तीति विग्रहः । नप्रत्यये प्रकृतेरकारे अन्तादेशे णत्वम् । विष्वगिति । इदमपि पामादिगणसूत्रमिति केचित् । भाष्ये तु नप्रकरणे इदं वार्तिकं पठितम् । विषु इत्यव्ययं सर्वत इत्यर्थे । विषु अञ्चतीति विष्वङ् । सर्वतो गामीत्यर्थ इति धूर्तस्वामी । विषु इति तिर्यगर्थे इति भवस्वामी । पराङ्मुख इति भट्टभास्करः । विषु अञ्च् इत्यस्माद् अकृतसन्धेर्मत्वथै नप्रत्ययः स्यात्, उत्तरपदलोपश्चेत्यर्थः । विषुण इति । विष्वङ् अस्यास्तीति लौकिकविग्रहः । विषु अञ्च् इत्यलौकिकविग्रहवाक्यम् । कृतसन्धेर्नप्रत्यये तु विष्वक्शब्दस्य उत्तरपदस्य लोपे 'लोपो व्योः' इति वलोपे 'विष्ण' सर्वत्र समुच्चीयमानोऽपि मतुविह नेष्यते । मतुबन्तेनोक्तार्थस्याप्रतीतेः । किं त्वर्थान्तरमेव तेन प्रतीयते । वत्सवती गौः । अंसवान् दुर्बल इति । लोमादि । इह 'नन्दिग्रहिपचादिभ्यः-' इति वत् लोमपामपिच्छादिभ्यः' इति सुपठम् । 'अङ्ग कल्याणे' इति गणसूत्रमथेतः पठति अङ्गादिति । शाकीपलालीददेवा ह्रखत्वं च । चानप्रत्ययः। महच्छाकं शाकी, तद्वत् शाकिनम् । महत्पलालं पलाली, तद्वत् पलालिनम् । 'दरिद्रातरालोपश्च' इत्युणादिसूत्रेण इकाराकारयोर्लोपश्चादूप्रत्ययः । दस्त्वयोगविशेषः । तद्वान् दर्दुणः । विष्वगिति । 'समर्थानाम्-' इत्यस्यापवादोऽयम् । अकृतसन्धेरकृतयणादेशस्याश्चतेर्लोपः । चकारानप्रत्यय इत्यर्थः । यदि तु कृते यणादेशे उत्तरपदलोपः स्यात् , तदा वलिलोपे सति विष्ण इति स्यात् । विषुण इति । विषु नाना अञ्चन्तीति विष्वञ्चि, तान्यस्य सन्ति विषुणः, विषुवदाख्यः कालः। तस्य हि नानागतानि दिनानि सन्ति । दिनान्तराणां न्यूनाधिकभावस्य तन्मूलत्वात् । अयं भावः-विषुवति दिनानां समताया जातायामप्रे न्यूनान्यधिकानि च दिनानि भवेयुरिति नानागतदिनवत्त्वं यद्यपि विषुवति नास्ति तथापि नानागतदिनमूलभूत Page #580 -------------------------------------------------------------------------- ________________ 1 प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५७७ १६०८ प्रज्ञाश्रद्धाचभ्यो णः । ( ५-२-१०१ ) प्राज्ञो व्याकरणम् । प्राज्ञा । श्राद्धः । आर्चः । 'वृत्तेश्व' ( वा ३१९५ ) वार्त्तः । १६०६ तपःसहस्राभ्यां विनीनी । ( ५-२-१०२ ) विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधो मा भूदिति । सहस्रान्तु इति स्यादिति भावः । समर्थानामित्यस्यापवादोऽयम् । प्रज्ञाश्रद्धाचभ्यो णः । प्रज्ञा, श्रद्धा, अर्चा एभ्यो मत्वर्थे णप्रत्ययः स्यादित्यर्थः । प्राज्ञो व्याकरणमिति । प्रज्ञानं प्रज्ञा । स्त्रियामित्यधिकारे प्रपूर्वकाद् ज्ञाधातोः 'प्रातश्चोपसर्गे' इति भावे अङ् । प्रज्ञा अस्यास्तीति विग्रहः । उपसर्जनभूतामपि प्रज्ञानक्रियां प्रति व्याकरणस्य कर्मत्वाद् द्वितीया । कृद्योगषष्ठी नात्र प्रवर्तते, 'कर्तृकर्मणोः कृति' इत्यत्र कृद्ग्रहणेन तद्धितयोगे तन्निषेधात् । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्र प्रपञ्चितम् । नच प्रजानातीति प्रज्ञः । ' इगुपध-' इति कः । प्रज्ञ शब्दात् स्वार्थे णि प्राज्ञ इति सिध्यतीति शङ्कथम्, तथा सति स्त्रियां ङीप्प्रसङ्गात्, तदाह प्राज्ञेति । श्राद्ध इति । श्रद्धा अस्यास्तीति विग्रहः । श्रर्च इति । अर्चा अस्यास्तीति विग्रहः । वृत्तेश्चेति । वार्तिकमिदम् । मत्वर्थे णप्रत्यय इति शेषः । वार्त्त इति । वृत्तिरस्यास्तीति विग्रहः । तपःसहस्त्राभ्याम् । विनिश्च इनिश्चेति द्वन्द्वः । मत्वर्थे इति शेषः । यथासंख्यमन्वय: । विनिप्रत्यये इनिप्रत्यये च नकारादिकारौ उच्चारणार्थौ । ननु नकारयोः इत्संज्ञा कुतो न स्यात् । न च प्रयोजनाभावः, नित्स्वरस्यैव फलत्वादित्यत आह विनीन्योरिकारो नकारपरित्राणार्थ इति । तथा च उपदेश अन्त्यत्वाभावान्नेत्संज्ञेति भावः । यद्यपि 'अस्मायामेधा -' इत्यसन्तत्वादेव तपः शब्दाद्विसिद्धः । सहस्रशब्दात्तु 'अत इनिठनौ' इत्येवेन्सिद्धः । तथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्तादन्तलक्षणयोः विनीन्योः सामान्यविहितयोः बाधो मा भूदिति विशिष्येह तपस्सहस्रशब्दाभ्यां तयोः विधानम् । सहस्रशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह इन्विधानम् । एतत्समाधानं क्वचिन्मूलपुस्तदिनानां सत्त्वात्तथोच्यत इति । तथा नानागमनत्त्वान्मृत्युर्वायुरव्यवस्थितचित्तश्च विषुणशब्देनोच्यते । प्रज्ञाश्रद्धा । प्राज्ञो व्याकरणमिति । गुणभूतया क्रियया कर्मत्वेन सम्बन्धः । कृद्ग्रहणात्तद्धितप्रयोगे षष्ठी न कृतपूर्वीकटमितिवत् । ननु प्रकर्षेण जानातीति प्रज्ञः । स एव प्रज्ञावान् । तथा च प्रज्ञ एव प्राज्ञ इत्यणि कृते सिद्धमिष्टं किमत्र प्रज्ञाग्रहणेनेत्याशङ्कां निराकुर्वन्नाह प्राज्ञेति । स्त्रियां टाप् । 'प्रज्ञादिभ्यश्च’इत्यणि तु ङीप् स्यादिति भावः । वृत्तेश्चेति । वार्तिकमिदम् । काशिकाकृता तु वृत्तिशब्दः सूत्रे प्रक्षिप्तः । विच्छिन्नस्य प्रतिविधानं वृत्तिः । तपस्वी । सहस्रीति । Page #581 -------------------------------------------------------------------------- ________________ ५७८ ] सिद्धान्तकौमुदी। तद्धितेषु मत्वर्थीय. ठनोऽपि बाधनार्थम् । १९१० अण् च । (५-२-१०३) योगविभाग उत्तरार्थः । तापसः । साहस्रः । 'ज्योत्स्नादिभ्य उपसंख्यानम्' ( वा ३१६७)। ज्यौरस्नः । तामिस्रः। १६११ सिकताशर्कराभ्यां च । (५-२-१०४) सैकतो घटः । शार्करः । १६१२ देशे लुबिलचौ च । (५-२-१०५) चादण्मतुप् च । सिकताः सन्त्यस्सिन्देशे सिकताः, सिकतिलः, सैकतः, सिकताकेषु दृश्यते। अण च । तपस्सहस्राभ्यां मत्वथ इति शेषः । ननु 'तपःसहस्राभ्यां विनीन्यणः' इत्येकमेव सूत्रमस्तु । नच तपःसहस्राभ्यां विनीयोर्यथासंख्यार्थ पृथक्सूत्रकरणम् , अन्यथा त्रयोऽपि प्रत्यया द्वाभ्यां स्युरिति वाच्यम् , 'तपःसहस्राभ्यामण्विनीनी' इति सूत्रकरणे भिन्नविभक्त्युच्चारणादेव अण उभयसम्बन्धस्य विनीन्योर्यथासंख्यत्वस्य च सिद्धेरित्यत आह योगविभाग उत्तरार्थ इति । उत्तरसूत्रे अण एवानुवृत्त्यर्थ इत्यर्थः । ज्योत्स्न इति । शुक्लपक्ष इति शेषः । ज्योत्स्ना चन्द्रिका, सा अस्यास्तीति विग्रहः। तामिस्त्र इति । कृष्णपक्ष इति शेषः । तमिस्राः तमोयुक्ता रात्रयः, ता अस्य सन्तीति विग्रहः । ज्योत्स्रादित्वादण । सिकताशर्कराभ्यां च । मत्वर्थे अणिति शेषः । सैकतो घट इति । सिकता अस्य सन्तीति विग्रहः । देशे लुपो वक्ष्यमाणत्वाद् घट इति विशेष्यम् । 'अप्सुमनःसमासिकतावर्षाणां बहुत्वं च' इति लिङ्गानुशासनसूत्रात् सिकताशब्दो नित्यं बहुवचनान्तः । देशे लुबिलचौ च । पूर्वसूत्रविहितस्याणो लुप् इलच स्यादित्यर्थः । चादणिति । संनिहितत्वादिति भावः। तर्हि अपवादेन मुक्ते उत्सर्गस्याप्रवृत्तेर्मतुब् नेव स्यादित्यत आह मतुप्चति । समुच्चयार्थकान्यतरस्यांग्रहणानुवृत्तेरिति भावः । सिकता इति । सिकताशब्दात् नित्यं बहुवचनान्तादणो लुपि असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् । एतच्च समाधानं मूलपुस्तकेष्वपि क्वचिद् दृश्यते । उत्तरार्थ इति । विनीन्योर्यथासंख्यप्रवृत्त्यर्थश्चेत्यपि बोध्यम् । ज्योत्स्न इति । शुक्लपक्षः । तामित्र इति । कृष्णपक्षः नरकविशेषश्च । तमःसमूहस्तमिस्रम् । 'ज्योत्स्नातमिस्रा-' इति नितनान्मत्वर्थीयो रः । तत्र ह्यवयवभूतानि तमांसि विद्यन्ते । तदस्मिन्नस्तीति विग्रहे रान्तादण् । स्त्रियां तामिस्री । 'तमिस्रा तामसी रात्रिज्योत्स्त्री चन्द्रिकयान्विता' इत्यमरोक्तौ तु तमिस्रेत्येतद्रान्तं न त्वणन्तमिति न विरोधः । एवं च तमिस्रा रात्रयः अस्मिन् सन्ति तामिस्रः पक्ष इत्यपि व्याख्यातुं शक्यम् । सिकताशर्करा। देशविशेषस्य वक्ष्यमाणत्वादाह घट इति । मतुप चेति । अन्यतरस्यांग्रहणेन सर्वत्र मतपः समुच्चयादिति भावः । सिकता इति । लुपि युक्तवद्भावः । अत्र Page #582 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७६ वान् । एवं शर्करेत्यादि । १६१३ दन्ते उन्नते उरच् । (५-२-१०६) उन्नता दन्ताः सन्त्यस्य दन्तुरः । १६१४ ऊषसुषिमुष्कमधोरः। (५-२-१०७) ऊपरः । सुषिरः । मुष्कोऽएडः, मुष्करः । मधु माधुर्यम् , मधुरः । 'रप्रकरणे खमुखकुओभ्य उपसंख्यानम्' (वा ३१९८) । खरः । मुखरः । कुओ हस्तिहनुः, कुञ्जरः । 'नगपांसुपाण्डुभ्यश्च' (वा ३१६६ )। नगरम् । पांसुरः। पाण्डुरः । पाण्डरशब्दस्त्वव्युत्पन्न एव । 'कच्छ्वा हृस्वत्वं च' (वा ३२००)। प्रातिपदिकावयवत्वात् सुपो लुकि युक्तवद्भावाद्विशेष्यस्य देशस्य एकत्वेऽपि बहुवचनमिति भावः । 'हयवरट्' इति सूत्रे 'एका च सिकता तैलदाने असमर्था' इति भाष्ये प्रयोगात् सिकताशब्द एकवचनान्तोऽप्यस्तीति लिङ्गानुशासने मूलकारो वक्ष्यति । दन्त उन्नत उरच । उन्नतविशेषणकाद्दन्तशब्दाद् मत्वर्थे उरच् स्यादित्यर्थः । उन्नत इति प्रकृतिविशेषणम् । दन्त इति सप्तमी पञ्चम्यर्थे । ऊषसुषि । ऊष, सुषि, मुष्क, मधु एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम्। सौत्रं पुंस्त्वम् । एभ्यो मत्वर्थे रप्रत्ययः स्यादित्यर्थः । ऊषर इति । ऊषः क्षारमृत्तिकाविशेषोऽस्यास्तीति विग्रहः । सुषिर इति । सुषिः बिलम् , अस्यास्तीति विग्रहः । मधुशब्दः क्षौद्रे द्रव्ये माधुर्यात्मकरसविशेषे च गुणे वर्तते । तत्र रसविशेषवाचिन एवात्र ग्रहणमित्याह मधु माधुर्यमिति। तथा भाष्यादिति भावः। अन्यथा मधुव्यवति घटेऽपि मधुरपदप्रयोगः स्यात् । खरो गर्दभः, धिष्ण्यो वा। मुखरः शब्दं कुर्वन् । कुञ्जरो हस्ती। रूढशब्दा एते । नगपांस्विति । वार्तिकमिदम् । नगरमिति जातिविशेषवाची। अत एव नगरीति ङीष् । पांसुर इति। पांसुः अस्यास्तीति विग्रहः । पाण्डुर इति । पाण्डुः शुक्लवर्णः, सः अस्यास्तीति विग्रहः । कथं पाण्डरशब्द इत्यत आह पाण्डरशब्द. स्त्विति । 'हरिणः पाण्डरः पाण्डुः' इत्यमरः। कच्छा इति । वार्तिकमिदम् सूत्रद्वयस्योदाहरणान्यमरः संजग्राह–'स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देश एवादिमावेवमुन्नेयाः सिकतावति' इति । दन्त उन्नत । उन्नत इति किम् , दन्तवान् । ऊषसुषि । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । 'स्यादूषः क्षारमृत्तिका । 'ऊषवानूषरः' इत्यमरः । सुषिश्छिद्रम् । खर इति । महत्कण्ठविवरं खं तद्वानित्यर्थः। गर्दभे रूढोऽयम् । मुखरो वाचाल इति हरदत्तः । नगरमिति । नगा वृक्षाः पर्वताश्च । जातिशब्दोऽयम् । तथा च नगरीत्यत्र ङीष् भवति । नगशब्दोऽयमश्मादिषु पठ्यते इति 'वुञ्छण-' आदिसूत्रेणास्य सिद्धत्वादस्माद्रोऽयं न वक्तव्य इति हरदत्तः । पाण्डुर इति । पाण्डुः शुक्लो वर्णस्तद्वान् । अव्युत्पन्न एवेति । गुणमात्रे गुणिनि च वर्तते । 'हरिणः पाण्डरः पाडः' इत्यमरः । 'गुणे शुक्लादयः Page #583 -------------------------------------------------------------------------- ________________ ५८० ] सिद्धान्तकौमुदी। [तद्वितेषु मत्वर्थीयकछुरः । १६१५ युटुभ्यां मः। (५-२-१०८) घुमः । द्रुमः । १९१६ केशाद्वोऽन्यतरस्याम् । (५-२-१०६) प्रकृतेनान्यतरस्याग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम् । केशवः, केशी, केशिकः, केशवान् । 'मन्येभ्योऽपि दृश्यते' ( वा ३२१०)। मणिवो नागविशेषः । हिरण्यवो निधिविशेषः । 'अर्णसो लोपश्च' (वा २०५३)। अर्णवः। १९१७ गाण्ड्यज. गात्संज्ञायाम् । (५-२-११०) हस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डि. कच्छूशब्दाद्रप्रत्ययः, प्रकृतेर्हस्वश्च अन्तादेश इत्यर्थः । कच्छुरः शुनां रोगविशेषः । धुभ्यां मः। 'दिव उत्' इति कृतोत्वस्य दिवशब्दस्य गु इति निर्देशः। दिवशब्दाद् द्रुशब्दाच्च मप्रत्ययः स्यादित्यर्थः । धुमः । द्रुम इति । रूढशब्दावेतौ । केशाद्वोऽन्यतरस्याम् । मत्वर्थे इति शेषः। नन्विहान्यतरम्यांग्रहणं व्यर्थम् , समर्थानामिति वाग्रहणेनैव वाक्यस्य सिद्धत्वात् । न च महाविभाषया अपवादेन मुक्त औत्सर्गिकस्याप्रवृत्तेः 'पारेमध्ये पष्ठ्या वा' इत्यत्रोक्लत्वादिह मतुपोऽप्रवृत्त्यापत्तौ तत्प्रवृत्त्यर्थमन्यतरस्यांग्रहणमिति वाच्यम् , प्राणिस्थादिति सूत्रादन्यतरस्यांग्रहणस्य समुच्चयार्थकस्यानुवृत्त्येव तत्सिद्धेरित्यत आह प्रकृतेनेति । दृनिठनोरिति । इनिठनोरपीत्यर्थः । अन्यथा 'सिध्मादिभ्यश्च' इत्यत्रेव मनुबेव समुच्चीयेत, नत्विनिठनाविति भावः । तथा च वप्रत्यये इनिठनोर्मतुपि च चत्वारि रूपाणीत्याह केशव इत्यादि । अन्येभ्योऽपीति । वार्तिकमिदम् । केशादन्येभ्योऽपि मत्वर्थे वो दृश्यत इत्यर्थः। अर्णस इति । वार्तिकमिदम् । अर्णसो वप्रत्ययः प्रकृतेः सकारस्य लोपश्चेत्यर्थः । अर्णव इति । अर्णः जलम् । तत्प्रभूतमस्मिन्नस्तीति विग्रहः । इदं तु वार्तिकं भाष्ये न दृश्यते । गाण्ड्यजगात्संशायाम् । ह्रस्वदीर्घयोरिति । गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणोः गाण्ड्य इति युगपन्निर्देशः। 'ख्यत्यात्परस्य' इत्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथेत्यर्थः । ततश्च गाण्डिशब्दाद् गाण्डीशब्दाद् अजगशब्दाच मत्वर्थे पुंसि गुणिलिङ्गास्तु तद्वति' इति च । कच्छा इति । कच्छ स्त्वयोगविशेषः । धुभ्यां मः। धुम इति । द्यौरस्यास्ति 'दिव उत्' इत्युत्वम् । दुर्वृतः । सोऽ. स्यास्ति जनकतयेति द्रुमोऽपि वृक्ष एव । 'पलाशी द्रुदुमागमाः' इत्यमरः । इह सर्वत्र समुच्चीयमानोऽपि मतुप् रूढशब्देषु नेष्यते । तदर्थस्य मतुपा अभिधातुमशक्यत्वात् । दृश्यत इति । व इत्यनुवर्तते । अर्णव इति । अर्तेरसुन् नु च । अर्णो जलं तद्वान् । संज्ञायामिति । 'तदस्यास्ति-' इति सूत्रस्थेतिशब्दस्यैवायं प्रपश्वः । यणेति । 'ख्यत्यात्-' इतिवत्कृतयणादेशस्यानुकरणं न भवति । लक्ष्ये यणोऽ Page #584 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५८१ वम्, गाण्डीवमर्जुनस्य धनुः । अजगत्रं पिनाकः । १६१८ काण्डाण्डादीरनीरचौ । ( ५-२-१११ ) काण्डीरः । श्रएडीरः । १६१६ रजःकृष्यासुतिपरिषदो वलच् । ( ५-२- ११२ ) रजस्वला स्त्री | कृषीवलः । 'वले' ( सू १०४० इति दीर्घः । श्रसुतीवलः शौण्डिकः । परिषद्वलः । 'पर्षत्' इति पाठान्तरम् । पर्षद्वलम् । 'अन्येभ्योऽपि दृश्यते' (वा ३२१०) भ्रातृवलः । पुत्रवलः । शत्रुवलः । 'वले' ( सू १०४० ) इत्यत्र 'संज्ञायाम्' इत्यनुवृत्तेर्नेह दीर्घः । १६२० दन्तशिखात्संज्ञायाम् । ( ५-२-११३ ) दन्तावलो हस्ती । शिखावलः केकी । १६२१ ज्योत्स्नातमिस्राभ्टङ्गिगोर्जस्विन्नूर्जस्वल - गोमिन्मलिनमलीमसाः । ( ५-२-११४ ) मत्वर्थे निपात्यन्ते । ज्योतिष वप्रत्ययः स्यादित्यर्थः । रूढशब्दत्वादिह न मतुप्समुच्चयः । काण्डाण्डादीरन्नीरचौ । काण्ड, श्रण्ड श्राभ्याम् ईरन्, ईरच् इति प्रत्ययौ मत्वर्थे स्त इत्यर्थः । रजः कृषिः । रजस्, कृषि, आसुति, परिषद् एभ्यो मत्वर्थे वलच् स्यादित्यर्थः सुतीवल इति । 'पुञ् अभिषवे' श्राङ्पूर्वात् स्त्रियां क्तिन् । 'वले' इति दीर्घः । अन्येभ्योऽपीति । वार्तिकमिदम् । ' रजः कृषि -' इत्यादिसूत्रोपात्तादन्येभ्योऽपि वलच् दृश्यत इत्यर्थः । भ्रातृवलः । 'ठूलोपे -' इत्यतः अण इत्यनुवृत्तेः 'वले' इति न दीर्घः । पुत्रवल इत्यादौ 'वले' इति दीर्घमाशङ्क्याह वल इत्यत्रेति । दन्तशिखात् संज्ञायाम् । समाहारद्वन्द्वात्पञ्चमी । दन्तशब्दात् शिखाशब्दाच मत्वर्थे वलच् स्यात्संज्ञायामित्यर्थः । ज्योत्स्ना । ज्योतिष इति । ज्योत्स्नावयवा ज्योतींषि, तान्यस्यां सन्तीति विग्रहे ज्योतिष्शब्दाद् नप्रत्यय उपधाभावात् । किंतु सूत्रे सांहितिकोऽयं यरिति भावः । प्रयुज्यते चोभयथा । 'अधिरोहति गाण्डिवं महेषौ’ । ‘गाण्डीवी कनकशिलानिभं भुजाभ्याम्' इति च । श्रसुतीवल इति । 'षुञ् अभिषवे' क्तिन् । सुतिरभिषवः । परिषद्बल इति । परितः सीदतीति परिषत् 'सत्सूद्विष - ' इत्यादिना क्विप्, 'सदिर प्रतेः' इति षत्वम् । पाठान्तरमिति । 'शुदृमसोऽदि:' इत्यदिप्रत्ययो बाहुलकात् पृषेरपि भवति । तथा च भाष्यम् – 'पार्षद कृतिरेषा तत्रभवताम्' 'सर्ववेदपार्षदं हीदं शास्त्रम्' इति च । भट्टिस्त्वाह – 'पर्षद्वलान्महाब्रह्मेराट नैकटिकाश्रमान्' इति । 'पर्षदेषा दशावरा' इति मनुः । भ्रातृवल इति । 'वले' इत्यत्राणग्रहणानुवृत्तेर्नेह दीर्घः । पुत्रवलादौ तु स्यात्तत्राह संज्ञायामित्यनुवृत्तेरिति । 'वनगिर्यो :-' इति सूत्रादिति भावः । ज्योत्स्ना चन्द्रप्रभा । तत्रावयवीभूतं ज्योतिरस्तीति मत्वर्थीयोपपत्तिः । एतेन तमःसमूहे तमिस्राशब्दो व्याख्यातः । निघण्टुषु तमः पर्यायस्तमिस्रशब्दः पठितः । तत्र • Page #585 -------------------------------------------------------------------------- ________________ ५८२ ] सिद्धान्तकौमुदी । [तद्धितेषु मत्वर्थीय उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च तमिस्रा । स्वीस्वमतन्त्रम्, तमिस्रम् । शृङ्गादिनच्, शृङ्गिणः । उर्जसो वलच् तेन बाधा माभूदिति विनिरपि, ऊर्जस्वी । ऊर्जस्वल: । 'ऊर्जोऽसुगागमः' इति वृत्तिस्तु चिन्त्या, 'ऊर्जस्वती:' इतिवद सुन्नन्तत्वेनैवोपपत्तेः । गोशब्दान्मिनिः, गोमी । मलशब्दादिनच्, मलिनः । ईमसच्च, मलीमसः । १६२२ त इनिठनौ । 1 भूतस्य इकारस्य लोपश्च निपात्यते । सति च इकारस्य लोपे इणः परत्वाभावात् षत्वनिवृत्तौ ज्योत्स्नेति रूपम् | 'चन्द्रिका कौमुदी ज्योत्स्ना' इलमरः । तमस इति । तमः अस्यास्तीति विग्रहे तमस्शब्दाद् रक्प्रत्ययः, उपधाभूतस्य मकारादकारस्य इत्वं च निपात्यत इत्यर्थः । ' तमिस्रा तामसी रात्रिः' इत्यमरः । ननु 'तमिस्रा' इति स्त्रीलिङ्गनिर्देशात् तमिस्रं गृहमिति कथमित्यत ग्रह स्त्रीत्वमतन्त्रमिति । शृङ्गादिनजिति । निपात्यत इति शेषः । शृङ्गिण इति । शृङ्गमध्यास्तीति विग्रहः । इनचि णत्वम् । ऊर्जसो बलजिति । निपात्यत इति शेषः । ऊर्जस् इत्यसुन्नन्तं प्रातिपदिकम् । ननु 'अस्मायामेधा -' इति विनिना सिद्धेरूर्जस्विन्निति निपातनं व्यर्थमित्यत श्राह तेनेति । विशेषविहितेन वलचा अस्मायेति सामान्यविहितस्य विनो निवृत्तिर्मा भूदित्येतदर्थं विनो निपातनमित्यर्थः । ऊर्ज इति । ऊर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थः अनुपपन्न इत्यर्थः । कुत इत्यत आह ऊर्जस्वतीरितिवदिति । ऊर्जस्वतीरित्यत्र वलप्रत्ययाभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याप्रसक्तेः तत्र ऊजस् इत्यसुन्नन्तं प्रातिपदिकमवश्यमभ्युपेयम् तेनैव ऊर्जस्विन्नूर्जस्वलयोः विनिवलज्मात्रनिपातनोपपत्तेरित्यर्थः । ईमसच्चेति । मलशब्दाद् निपात्यत इति शेषः । अत इनि. ठनौ । दन्तान्मत्वर्थे इनि ठन् एतौ स्त इत्यर्थः । समुच्चयार्थकान्यतरस्यांग्रहणानुवृत्तेर्मतुबपि भवति । 'एकाक्षरात्कृतो जातेः सप्तम्यां च न नौ स्मृतौ' इति भाष्यम् । एकाक्षरात् स्ववान् कृतः कारकवान् जातेः वृक्षवान् सप्तम्यां दण्डा अस्यां शालायां सन्ति दण्डवती । इदं प्रायिकम् । तेन कार्यो, कर्यिकः, तण्डुली समूह समूहिनोरभेदोपचार इति हरदत्तः । स्त्रीत्वमतन्त्रमिति । व्याख्यानमत्र शरणम् । ऊर्जस्विन्गोमिन्नित्यत्र नान्तत्वाभिव्यक्तये नलोपो न कृतः । त इनिठनौ । तपकरणं किम् खट्वावान् । 'एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ' । एकाक्षरात् — स्ववान् । कृतः -- कारकवान् । जातेः - व्याघ्रवान् सिंहान् । सप्तम्यां— दण्डा अस्यां सन्ति दण्डवती शाला । ' तदस्यास्ति -' इति सूत्रस्थतिकरणो विषय नियमार्थः सर्वत्रापि संबध्यत इति । क्वचित्कृतोऽपि भवति - कार्यो, कार्यिकः । " , , " " Page #586 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५८३ " ( ५-२- ११५ ) दण्डी, दण्डिकः । १६२३ व्रीह्यादिभ्यश्च । ( ५-२-११६) व्रीही, व्रीहिकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते, किं तर्हि - 'शिखामाला संज्ञादिभ्य इनिः, यवखलादिभ्य इक:' ( वा ३२०६ ) । अन्येभ्य उभयम् । १६२४ तुन्दादिभ्य इलच्च । ( ५-२-११७) चादिनिठनौ मतुप् च । तुन्दिलः, तुन्दी, तुन्दिकः, तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि । 'स्वाङ्गाद्विवृद्धौ' (ग. सू. १२४) विवृद्ध्युपाधिकारस्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य स कर्णितः, कर्णी, कर्णिकः, कर्णवान् । १६२५ एकगोपूर्वानित्यम् । ( ५-२- ११८ ) एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः । १६२६ शतसहस्रान्ताच्च निष्कात् । ( ५-२-११६) तण्डुलिक इत्यादि सिद्धम् इति भाष्ये स्पष्टम् । व्रीह्यादिभ्यश्च । मत्वर्थे इनिठनौ इति शेषः । शिखामालेत्यादि । वार्तिकमिदम् । शिखा, माला, संज्ञा, वीणा, वडवा, बलाका, पताका, वर्मन् शर्मन् एभ्य इनिरेव, न तु ठनित्यर्थः । यवखलेति । यवखल, नौ, कुमारी एभ्यः ठनेव, न त्विनिरित्यर्थः । श्रवशिष्टेभ्यस्तु व्रीह्यादिगणपठितेभ्य उभावित्यर्थसिद्धम् । इदं वृत्तौ स्पष्टम् । तुन्दादिभ्य इलच्च । मतुप्चेति । समुच्चयार्थकान्यतरस्यांग्रहणानुवृत्तेरिति भावः । उदरादयश्चत्वारस्तुन्दादिगणपठिताः । स्वाङ्गाद्विवृद्धाविति । गणसूत्रमिदम् । वृद्धविषयात् स्वाङ्गादिलच्, इनिठनौ मतुप् चेत्यर्थः । कर्णिल इति । वृद्धौ कण अस्येति विग्रहः । एकगोपूर्वानित्यम् । एकपूर्वाद् गोपूर्वाच्च नित्यं ठन् स्यादित्यर्थः । यद्यपि नित्यग्रहणाभावेऽपि ठञा इनिठनोर्निवृत्तिः सिध्यति, तथापि समुच्चयार्थकान्यतरस्यांग्रहणानुवृत्त्या मतुप् समुच्चीयेत । तन्निवृत्यर्थं नित्यग्रहगम् । ऐकशतिक इति । 'पूर्वकाल -' इति समासः । ' संख्यायाः संवत्सर - ' क्वचित्तु जातेरपि—तण्डुली, तण्डुलिकः । एतच्च काशिकादौ स्पष्टम् । तुन्दादिभ्य इलच्च । अन्यतरस्यामित्यनुवर्तनादाह - मतुप्चेति । अत्र 'खाङ्गाद् विवृद्धौ' इति पठ्यते । विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णावस्य कलिः, कर्णी, कर्णिकः, कर्णवान् । एकगोपूर्वात् । ऐकशतिक इति । एकं च तच्छतं चेति 'पूर्वकाल -' इत्यादिना कर्मधारयः । षष्ठीतत्पुरुषाद्बहुव्रीहेर्द्वन्द्वाच्च न भवत्यनभि धानादिति हरदत्तादयः । अत इत्येव, नेह -- एकविंशतिरस्यास्तीति । नित्यग्रहणं मतुपो बाधनार्थम् । अन्यथा ठञा इनिठनोर्बाधे कृते ध्यन्यतरस्यांग्रहणानुवृत्त्या मतुप् स्यादेवेत्याहुः । कथम् एकद्रव्यवान् इति, श्रसाधुरेवायम् । एकेन द्रव्यवानिति वा विग्रहीतव्यम् । कथम् एकदराडी इति, 'एकदेशिनैकाधिकरणे' इति निर्देशो ज्ञापयति Page #587 -------------------------------------------------------------------------- ________________ ५८४ ] सिद्धान्तकौमुदी। तद्धितेषु मत्वर्थीय. निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मन्वर्थे । नैष्कशतिकः। नैष्कसहस्निकः । १६२७ रूपादाहतप्रशंसयोर्यप् । (५-२-१२०) आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । 'आहत' इति किम्-रूपवान् । 'अन्येभ्योऽपि दृश्यते' वा ३२१०) । हिम्याः पर्वताः । गुण्या ब्राह्मणाः । १६२८ अस्मायामेधास्रजो विनिः । (५-२-१२१) यशस्वी, यशस्वान् । मायावी । व्रीह्यादिपाटदिनिठनौ, मायी, इत्युत्तरपदवृद्धिस्तु न, तत्र प्रतिपदोक्ततद्धितार्थसमासस्यैव ग्रहणा ।। शतसहस्र। निष्कात् पराविति । असामर्थेऽपि सौत्रत्वात् , समास इति भावः। रूपादाहत। आहतेति भावे क्तः । पाहतविशेषणकात् प्रशंसाविशेषण काच्च रूपशब्दाद् मत्वर्थे यप् स्यादित्यर्थः । आहतं रूपमिति । आहतेन निष्पन्नं स्वरूपं यस्येति विग्रहे रूपशब्दाद् यपि रूप्यशब्द इत्यर्थः । रूप्यः कार्षापण इति । परिमाणविशिष्टः रजतसुवर्णादिमुद्रिकाविशेषयुक्तः कार्षापण इत्युच्यते। तत्स्वरूपं च स्वर्णकारकृता हनननिष्पाद्यमिति बोध्यम् । रूप्यो गौरिति । प्रशस्त पसम्पन्न इत्यर्थः । अन्येभ्योऽपीति । वार्तिकमिदम् । रूपशब्दादन्येभ्योऽपि यप् दृश्यत इत्यर्थः । हिम्याः पर्वता इति । भूम्नि यप् , बहुलं हिममेष्वस्तीति विग्रहः । गुण्या ब्राह्मणा इति । प्रशंसायां यम् । प्रशस्त गुणसम्पन्ना इत्यर्थः । अस्मायामेधास्त्रजो विनिः । असित्यनेन असन्तं विवक्षितम् । असन्त, माया, मेधा, बज़ एभ्यो विनिप्रत्ययः स्यादित्यर्थः। प्रत्यये नकारादिकार उच्चारणार्थः। यशस्वीति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वमिति भावः । यशस्वानिति । 'एकगो पूर्वात्-' इति सूत्रे नित्यग्रहणेन निवृत्तमपि समुच्चयार्थमन्यतरस्यांग्रहणमिह मराडूक लुत्या अनुवर्तते । 'तसौ मत्वर्थे' इति सूत्रे यशस्वानिति भाष्योदाहरणादिति भावः । त्रग्वीत्यत्र 'ब्रश्च-' 'इनिरपि क्वचिद्भवति' इति । रूपादाहत । आहतप्रशंसाविशिष्टेऽर्थे वर्तमानाद्रूपशब्दान्मत्वर्थे यप् स्यात् । पाहतमिति । श्राहननमाहतं त डनमित्यर्थः । ततो निष्पन्नं यत्कार्षापणादिरूपं तदपि कार्ये कारणोपचारादाहतमित्युच्यते इत्याहतरूपयोः सामानाधिकरण्यमुपपद्यते । हिम्या इति । भूम्नि यप् । पर्वता इति । हिमवान् तत्पर्यन्तवर्तिनश्च । गुण्या इति । दृशिग्रहणादिनिरपि । तथा च माघः'गुण्यगुण्य इति न व्यजीगणत्' । गुणी अगुण्य इति पदच्छेदः । अस्मायामेधा । यशस्वीति । 'तसौ मत्वर्थे' इति भत्वाद्रुत्वं न । यशस्वानिति । नित्यग्रहणात् पूर्वत्रासम्बद्धमप्यन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमिह संबध्यत एव । 'तसौ मत्वर्थे' इति सूत्रे यशस्खानिति भाष्योदाहरणादिति भावः । 'चोः :' इत्यनेन सिद्धे Page #588 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५८५ मायिकः । क्विश्चन्तत्वास्कुः, स्रग्वी । 'आमयस्योपसंख्यानं दीर्घश्व” ( वा ३२१३ ) श्रामयावी । 'शृङ्गवृन्दाभ्यामारकन्' ( वा ३२१४ ) शृङ्गारकः । वृन्दारकः । 'फलबर्हाभ्यामिनच्' ( वा ३२१५ ) । फलिनः । बर्हिणः । 'हृदयाच्चालुरन्यतरस्याम्' (वा ३२१६) । इन्ठनौ मतुप्च । हृदयालुः, हृदयी, हृदयिकः, हृदयवान् । 'शीतोष्ण तृप्रेभ्यस्तद सहने -' ( वा ३२१७ ) । शीतं न सहते शीतालुः । उष्णालुः 'स्फायितञ्चि' (उ सू १७० ) इति रक् । तृप्रः पुरोडाशः, तं न सहते तृप्रालुः । 'तृप्रं दुःखम्' इति माधवः । 'हिमाचेलुः' (वा ३२१८) । हिमं न सहते हिमेलुः । 'बलादूलः' ( वा ३२१६ ) बलं न सहते बलूलः । 'वातात्समूहे च' (वा ३२२०) वातं न सहते वातस्य समूहो वा वातूलः । 'तप्पर्व मरुद्रयाम् ' ( वा ३२२१ ) । इति षत्वमाशङ्कयाह 'क्विन्नन्तत्वादिति । श्रमयस्येति । श्रमयशब्दाद् मत्वर्थे विनिः प्रकृतेर्दीर्घश्चेत्यर्थः । शृङ्गवृन्दाभ्यामिति । फलवर्णाभ्यामिति । हृदयाच्चालुरन्यतरस्यामिति । वार्तिकत्रयमिदम् । मतुप्चेति । वक्तव्य इति शेषः, भाष्ये तथोक्तत्वात् । 'चुटू' इति चकारस्येत्संज्ञा । अन्यतरस्यांग्रहणाच्चालोरभावे इनिठनौ । समुच्चयार्थ कान्यतरस्यांग्रहणानुवृत्तेर्मतुबपि । तथा चात्र चत्वारः प्रत्ययाः । तदाह हृदयालुरित्यादि । 'शीतोष्ण तृप्रेभ्यः तन्न सहते' इति वार्तिकमर्थतः संगृह्णाति - शीतेति । शीत, उष्ण, तृप्र एभ्यो द्वितीयान्तेभ्यो न सहते इत्यर्थे चालुर्वक्तव्य इत्यर्थः । तृप्रः पुरोडाश इति । मन्त्रभाष्ये तथोक्तत्वादिति भावः । हिमाच्चेलुरिति । वार्तिकमिदम् । हिमशब्दाद् द्वितीयान्ताद् न सहत इत्यर्थे चेलुः स्यादित्यर्थः । चकार इत् । बलादूल इति । तन्न सहते इत्यर्थे वक्तव्य इति शेषः । वातात्समूहे चेति । षष्ठयन्ताद्वातशब्दात् समूहेऽर्थे, द्वितीयान्ताद् न सहते इत्यर्थे च, ऊलप्रत्ययो वाच्य इत्यर्थः । तप्पर्वमरुद्भयामिति । वार्तिकमिदम् । पर्वमरुद्भ्यां तप् वक्तव्य इत्यर्थः । तन्वक्तव्य इति वृत्तिकृत्, हरदत्तश्च । व्रश्चादिषत्वमाशङ्कयाह – क्विन्नन्तत्वादिति । हृदयाच्चालुरन्यतरस्याम् । अन्यतरस्यांग्रहणम् इनिठनोः प्राप्त्यर्थम् । मतुप् सर्वत्र समुच्चीयत एव । चकारस्य 'चुटू' इतीत्संज्ञा । तेन हृदयालुशब्दोऽन्तोदात्त इत्याहुः । शीतोष्णेति । इह चालुरनुवर्तते । पुरोडाश इति । 'न तृप्रा उरुव्यचसम्' इति मन्त्रस्य भाष्ये तथा व्याख्यासत्वादिति भावः । माधव इति । सुब्धातुवृत्तौ स्थितमिदम् | हिमाच्चेलुरिति । एकारादिरयं प्रत्यय इति माधवः । बलादिति । सिध्मादिषु बलूलवातूलशब्दौ मत्वर्थे प्रकारान्तरेण व्युत्पादितौ । तप्पर्वमरुद्भ्याम् । पित्त्वमनुदात्तत्वार्थम् । काशिकायां तु 'पर्वमरुद्भ्यां तन्वक्तव्यः' इति स्थितम् । हरदत्तेन तु तन्निति प्रतीकमुपादाय Page #589 -------------------------------------------------------------------------- ________________ ५८६ ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीय. पर्वतः । मरुत्तः । १९२६ ऊर्णाया युस् । (५-२-१२३) सित्त्वात्पदस्वम् । ऊर्णायुः । अत्र 'छन्दसि' इति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथा हि 'अहंशुभमो:-' (सू १६४६ ) इत्यत्रैवोर्णाग्रहणं कुर्यात् । १६३० वाचो ग्मिनिः। (५-२-१२४) वाग्ग्मी । १६३१ आलजाटचौ बहु. भाषिणि । (५-२-१२५) 'कुत्सित इति वक्तव्यम्' (वा ३२२३) कुत्सितं बहु भाषते वाचालः, वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्मीत्येव । १६३२ स्वामिन्नैश्वर्ये । (५-२-१२६) ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे श्रामिनच् । स्वामी । १६३३ अर्शआदिभ्योऽन् । (५-२-१२७) अशांस्यस्य विद्यन्ते प्रौढमनोरमायां तु नित्त्वं निराकृतम् । शब्देन्दुशेखरे तु हरदत्तसंमतं नित्त्वमेव स्थापितम् । रूढत्वादवयवार्थाभावान्न मतुप् । ऊर्णाया युस् । ऊर्णायुशब्दे 'यस्येति च' इति लोपमाशङ्कयाह सित्त्वादिति । अनुवर्तयन्तीति । 'बहुलं छन्दसि' इत्यस्मादिति शेषः । वाचो ग्मिनिः। वाचशब्दाद् मत्वर्थे ग्मिनिप्रत्ययः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः। अतद्धित इति पर्युदासाद् गकारस्य नेत्संज्ञा।वाग्ग्मीति। वाचशब्दाद् ग्मिनिप्रत्यये कुत्वम् , जश्त्वम् । प्रत्यये गकारोच्चारणं तु 'प्रत्यये भाषायाम्-' इत्यनुनासिकाभावार्थम् । आलजाटचौ । वाचशब्दाद् अालच, आटच् एतौ मत्वर्थे बहुभाषिणीत्यर्थः । ग्मिनोऽपवादः । यस्तु सम्यगिति । नच अबहु, अकुत्सितं च यो वदति तत्रापि वाग्ग्मीति कुतो न भवतीति वाच्यम्, 'यो हि सम्यग् बहु भाषते वाग्मीस्येव स भवति' इति भाष्यबलेन पूर्वसूत्रस्य सम्यग् बहु. भाषिरायेव प्रवृत्तरभ्युपगमादिति भावः। स्वामिन्नैश्वर्य। ऐश्वर्य इति प्रकृतिविशेषणमित्यभिप्रेत्याह ऐश्वर्यवाचकादिति । आमिनजिति । निपात्यत इति शेषः । स्वामीति । स्वम् ऐश्वर्यम् , तद्वानित्यर्थः । नियन्ते ते यावत् । ऐश्वर्येआद्युदात्तत्वार्थो नकार इत्युक्तम् । तच्च मनोरमायां महता प्रबन्धेन दीक्षितैनिराकृतं तत एव तदवधार्यम् । पदत्वमिति । तेन 'यस्येति च' इति लोपो न प्रवर्तत इति भावः । अनुवर्तयन्तीति । 'बहुलं छन्दसि' इत्यतः । वाचो ग्मिनिः । इकारो नकारपरित्राणार्थः । चकारस्य कुत्वे जश्त्वे च कृते वाग्ग्मी वारिग्मनावित्यादौ द्वयो. कारयोः श्रवणं भवति । द्वित्वं तु त्रयाणाम् । 'मिनिः' इत्युक्ते तु द्वित्वे सति द्वयोर्गकारयोः श्रवणम् । द्वित्वाभावे त्वेकस्यैव श्रवणं स्यात् । किंच 'यरोऽनुनासिके-', 'प्रत्यय भाषायां नित्यम्' इति वाङ्मयमित्यत्रेव नित्यमनुनासिकः प्राप्नोति । तच्चानिष्टमिति ग्मिनिः कृतः। स्वामिन्नैश्वर्ये । ऐश्वर्यवाचकादिति । स्वशब्दस्यैश्वर्यवाचित्वमेतवृत्तिविषयकमेवेति बोध्यम् । ईशिता हि ईश्वरः । स तु स्वामीत्युच्यते । यथा Page #590 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८] बालमनोरमा तत्त्वबोधिनीसहिता। [५८७ प्रशंसः । प्राकृतिगणोऽयम् । १९३४ द्वन्द्वोपतापगात्प्राणिस्थादिनिः । (५-२-१२८) द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापो रोगः । कुष्ठी। किलासी । गई निन्द्यम् । ककुदावर्ती । काकतालुकिनी । 'प्राणिस्थात् किम्-पुष्पफलवान्घटः । 'प्राण्यङ्गान' । पाणिपादवती । 'अतः' इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम् । १९३५ वातातीसाराभ्यां कुक्च । (५-२-१२६) चादिनिः । वातकी । अतीसारकी। 'रोगे चायमिष्यते' । नेह । वातवती गुहा । 'पिशाचाच' (वा ३२२४) । पिशा. चकी । १६३६ वयसि पूरणात् । (५-२-१३०) पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि थोत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चम्युष्ट्रः । उना. दिबाधनार्थमिदम् । वयसि' किम्-पञ्चमवान् ग्रामः । १६३७ सुखादिभ्यश्च । त्युक्तेर्धनवानित्यर्थे स्वामीति न भवति । अर्शआदिभ्योऽन् । अर्शस्शब्द आदिः एषामिति विग्रहः । अर्शस इति । अर्शो गुदरोगविशेषः । द्वन्द्वोप ताप। द्वन्द्वसमासाद् उपतापवाचकाद् गहवाचकाच्च प्राणिस्थविषयेभ्यो मत्वर्थे इनिः स्यादित्यर्थः। द्वन्द्वति उदाहरणसूचनम् । कटकवलयिनीति । कटकवलययोः कञ्चिदाकृतिभेदं परिकल्प्य द्वन्द्व उपपाद्यः । उपताप इत्यस्य विवरणम्रोग इति । किलासः कुष्ठभेदः । गर्यमित्यस्य विवरणम्-निन्द्यमिति । ककुदाव. र्तीति । ककुदं ग्रीवाया अधस्तात्पृष्ठभागः । तत्र आवर्तः ककुदावर्तः, सः अस्यास्तीति विग्रहः । काकतालुकिनीति । काकस्येव तालुके काकतालुके, ते अस्याः स्त इति विग्रहः । प्राण्यङ्गान्नेति । व्याख्यानमेवात्र शरणम्, एवंविधवार्तिकस्य भाष्ये अदर्शनात् । अत इत्येवति । 'समासान्त' इति सूत्रभाष्यरीत्या मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । चित्रकललाटिकावतीति । चित्रकं च ललाटिका चेति द्वन्द्वः । अदन्तत्वाभावादिनिर्नेति भावः । ननु 'अत इनिठनौ' इत्यतोऽनुवृत्त्यैव सिद्ध पुनरिह इनिग्रहणं किमर्थमित्यत आह सिद्धे प्रत्यय इति । ठनादीति । श्रादिना मतुपः संग्रहः । वातातीसाराभ्यां कुक्च । चादिनिरिति । वात, अतीसार श्राभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक चेत्यर्थः । कुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । वातकीति । वातरोगवानित्यर्थः । अतीसारकीति । अतीसाररोगवानित्यर्थः । रोगे चायमिति । व्याख्यानादिति भावः। रोग एवे. त्यर्थः । वातवती गुहेति । अत्र रोगस्याप्रतीतेरिनिकुको नेति भावः । पिशाचाच्चेति । वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः । वयसि वागीश एव वाचस्पतिः वाचः स्वामीति । ऐश्वर्ये किम् , स्ववान् । अर्शआदि Page #591 -------------------------------------------------------------------------- ________________ ५८८ ] सिद्धान्तकौमुदी। [तद्धितेषु मत्वर्थीय(५-२-१३१) इनिर्मस्वर्थे । सुखी । दुःखी । 'माला क्षेपे' ( ग. सू. ११६ )। माली। १९३८ धर्मशीलवर्णान्ताच्च । (५-२-१३२) धर्माद्यन्तादिनिमत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली। ब्राह्मणवर्णी । १६३६ हस्ताजाती। (५-२-१३३) हस्ती। 'जातौ' किम्-हस्तवान्पुरुषः । १६४० वर्णाद्ब्रह्म चारिणि । (५-२-१३४) वर्णी । १६४१ पुष्करादिभ्यो देशे । (५-२-१३५) पुष्करिणी । पमिनी । 'देशे' किम्-पुष्करवान्करी । 'बाहूरुपूर्वपदादलात्' ( वा ३२२५) बाहुबली । अरुबली । 'सर्वादेश्व' (वा ३२२६ )। सर्वधनी। सर्वबीजी । 'अर्थाचासन्निहिते' (वा ३२२७) । अर्थी । सन्निहिते तु अर्थवान् । 'तदन्ताच' (वा ३२२८) । धान्यार्थी । हिरण्यार्थी । १६४२ बलादिभ्यो मतुबन्यतरस्याम् । (५-२-१३६) बलवान् , बली । उत्साहवान् , उत्साही । १६४३ संज्ञायां मन्माभ्याम् । (५-२-१३७) मन्नन्तान्मान्तानिर्मत्वर्थे । मन्-प्रथिमिनी । दामिनी । म-होमिनी । सोमिनी । पूरणात् । 'अत इनिठनौ' इत्येव इनिसिद्धेः किमर्थमिदमित्यत आह ठनादि. बाधनार्थमिति। सुखादिभ्यश्च । इनिर्मत्वर्थ इति । इनिरेव, नतु ठनित्यर्थः । मालाक्षेप इति । सुखादिगणसूत्रमिदम् । धर्मशील । धर्माद्यन्तादिति । धर्म, शील, वर्ण एतदन्तादिनिरेवेत्यर्थः । हस्ताज्जाती। हस्तान्मत्वर्थे इनिरेव समुदायेन जातिविशेषे गम्य इत्यर्थः । वर्णाब्रह्मचारिणि । वर्णशब्दान्मत्वर्थे इनिरेव समुदायेन ब्रह्मचारिणि गम्य इत्यर्थः। वर्णीति । वर्णो ब्राह्मणादिततद्वर्णोचितवसन्तादिकालमुपनयनम्, सोऽस्यास्तीति विग्रहः । पुष्करादिभ्यो देशे। पुष्करशब्दान्मत्वर्थे इनिरेव स्याद् देशे गम्ये । बाहुरुपूर्वपदाद्वलादिति। वार्तिकमिदम् । बाहु, ऊरु एतत्पूर्वपदकाद् बलशब्दान्तान्मत्वर्थे इनिरेवे. त्यर्थः । सर्वादश्चेति । वार्तिकमिदम् । इनिरेवेति शेषः । अर्थाचासंनिहित इति । वार्तिकमिदम् । असंनिहितविषयकादर्थशब्दाद् इनिरेवेर र्थः। अर्थीति । असंनिहितः अर्थः अस्येति विग्रहः। अर्थो नास्तीति यावत् । अत्र विरोधादस्तीति न संबध्यते । अर्थोऽसंनिहितोऽस्येत्यर्थे अप्राप्त एव इनिर्विधीयत इति कैयटः । प्रत्ययविधौ तदन्तविधिनिषेधादाह तदन्ताच्चेति । अर्थशब्दान्तादपि इनिर्वक्तव्य इत्यर्थः । बलादिभ्यो । मतुबभावपक्षे संनिहित इनिरित्यभिप्रेत्योदाहरतिबलवान् , बलीति। संज्ञायां मन्माभ्याम् । प्रथिमिनीति । 'पृथ्वादिभ्य भ्योऽच् । इह ‘खानाद्धीनात्' इति गो पठ्यते । खञ्जः पादोऽस्यास्तीति खञ्जः । काणं चक्षुर्यस्यास्तीति काणः। प्रथिमिनीति । 'पृथ्वादिभ्यः-' इतीमनिचि ‘टेः' Page #592 -------------------------------------------------------------------------- ________________ प्रकरणम् ३८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५८६ 'संज्ञायाम्' किम्-सोमवान् । १६४४ कंशंभ्यां वभयुस्तितुतयसः । (५-२-१३८ ) कम् , शम् इति मान्तौ । 'कम्' इत्युदकसुखयोः । 'शम्' इति सुखे । श्राभ्यां सप्त प्रत्ययाः स्युः। युस्यसोः सकारः पदत्वार्थः । कंवः। कंभः । कंयुः । कंतिः । कंतुः । कंतः। कंयः । शंकः । शंभः । शंयुः। शंतिः । शंतुः। शंतः । शयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनासिकौ वयौ । १६४५ तुन्दिवलिवटेर्भः । (५-२-१३६ ) वृद्धा नाभिस्तुन्दिः । 'मूर्धन्योपधोऽयम्' इति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलिनोऽपि । १६४६ अहंशुभमोर्युस् । (५-२-१४०) अहम् इति मान्तमइमनिज्वा' इमनिजन्तः प्रथिमन्शब्दः । अत्र मनोऽनर्थकत्वेऽपि 'अनिनस्मन्-' इति तदन्तविधिना इमनिजन्तोऽपि गृह्यते । प्रथिमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणडीपि प्रथिमिनीशब्दः। दामिनीति । दामन्शब्दादिनौ टिलोपे डीबिति भावः । मेति। मान्तोदाहरणसूचनमिदम् । होमिनी सोमिनीति । होमशब्दात्सोमशब्दाच इनौ डीबिति भावः । कंशंभ्याम् । व, भ, युस् , ति, तु, त, यस्, एषां सप्तानां द्वन्द्वात् प्रथमाबहुवचनम् । सप्त प्रत्ययाः स्युरिति। मत्वर्थ इति शेषः। पदत्वार्थ इति । अन्यथा कम् इत्यस्माद् युप्रत्यये यप्रत्यये च कृते भत्वात् पदत्वाभावादनुस्वारो न स्यादिति भावः। वकारयकारपरस्येति । बहुव्रीहिः। वकारपरकस्य यकारपरकस्य चानुस्वारस्येत्यर्थः । तुन्दिवलि । तुन्दि, वलि, वटि एभ्यो मत्वर्थे भप्रत्ययः स्यादित्यर्थः । समाहारद्वन्द्वात्पञ्चम्येकवचनम् । पुंस्त्वमार्षम् । वटिभ इति । 'वट वेष्टने' वटनं वटिः अस्यास्तीति विग्रहः । अहंशुभइति टिलोपः । र ऋतः-' इति रभावः । 'अनिनस्मिन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' इति मन्नन्तादिनौ कृते 'नस्तद्धिते' इति टिलोपे नान्तत्वान्डीप् । दामिनीति । दाधातोर्मनिन् । होमिनी । सोमिनीति । 'अर्तिस्तुसुहुसृवृक्षि-' इत्यौणादिके मनि नित्वाद्धोमसोमशब्दौ मन्प्रत्ययान्तौ । कंशंभ्याम् । पदत्वार्थ इति । अन्यथा 'कम्युः, काम्यः, शम्युः, शाम्यः' इति स्यादिति भावः । वकारयकारपरस्येति । बहुव्रीहिरयम् । अनुनासिको वयाविति । एतेन प्रथमप्रत्ययो दन्त्योष्ठयादिः, न तु पवर्गतृतीय इति ध्वनितम् । माधव इति । 'तुडि तोडने' इति धातौ तेनोक्तम्-'वृद्धा नाभिस्तुण्डिः' । इन् । तुण्डिरस्यास्तीति तुण्डिलः । 'तुन्तादिभ्य इलच्च' इत्यत्र 'स्वाङ्गाद्विवृद्धौ' इति गणसूत्रेण इलच् । तुण्डिल एव तुण्डिभः । 'तुण्डिवलिवटेर्भ' इति मत्वर्थीयो भ इति । वटिभ इति । 'वट वेष्टने' इन् । वटिशब्दः पामादिषु पठ्यते । तेन वटिन इत्यपि भवति। Page #593 -------------------------------------------------------------------------- ________________ ५६० ] सिद्धान्तकौमुदी। तद्धितेषु प्राग्दिशीय. व्ययमहङ्कारे । 'शुभम्' इति शुभे । अहंयुः, अहङ्कारवान् । शुभंयुः, शुभान्वितः। ___ इति तद्धितेषु मत्वर्थीयाः। अथ तद्धितेषु प्राग्दिशीयप्रकरणम् । ३६ । १९४७ प्राग्दिशो विभक्तिः। (५-३-१) 'विक्षन्वेभ्यः' इत्यतः प्राग्वक्ष्यमाणाः प्रत्ययाः विभक्निसंज्ञाः स्युः । अथ स्वार्थिकाः प्रत्ययाः। 'समर्थानाम्' इति 'प्रथमात्' इति च निवृत्तम् । 'वा' इति त्वभुवर्तत एव । १६४८ किंसर्वनामबहुभ्योऽयादिभ्यः । (५-३-२) किमः सर्वनाम्नो बहुशब्दाचेति प्राग्दिशोऽधिक्रियते । १६४६ इदम् इश् । (५-३-३) प्राग्दिशीये परे । १६५० एतेतौ रथोः । (५-३-४) इदंशब्दस्य 'एत' मोर्युस् । अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्कयाह अहमिन्यादीति । सित्त्वं पदत्वार्थम् । तेन पदत्वादनुस्वारे परसवर्णः सिध्यति । इति तद्धितेषु पञ्चमाध्यायस्य द्वितीयपादे मत्वर्थीयप्रकरणम् । अथ पञ्चमाध्यायस्य तृतीयपादे प्राग्दिशीयप्रकरणं निरूप्यते । प्राग्दिशो विभक्तिः । दिक्छब्देन तद्धटितं सूत्रं विवक्षितमित्यभिप्रेत्याह दिक्छन्देभ्य इत्यत इति । विभक्तिसंज्ञका इति । तत्फलं तु 'न विभक्तौ तुस्माः' इति निषेधः, त्यदाद्यत्वम् , इदम 'ऊडिदंपदादि' इति स्वरश्च । स्वार्थिका इति । स्वीयप्रकृत्यर्थे भवा इत्यर्थः । तसिलादिष्वर्थनिर्देशाभावाद् 'अतिशायने' इत्यादीनां प्रकृत्यर्थविशेषणत्वाचेति भावः । निवृत्तमिति । अत्रोपपत्तिः ‘समर्थानाम्' इत्यत्रोक्ता । अनुवर्तत एवेति । व्याख्यानमेवात्र शरणम् । किंसर्वनाम । 'अयादिभ्यः' इति च्छेदः । 'प्राग्दिश' इत्यनुवर्तते । तदाह प्राग्दिशोऽधिक्रियत इति । विधेयानिर्देशादधिकारोऽयमिति भावः । किमः सर्वनामत्वेऽपि यादिपर्युदासात् पृथग्ग्रहणम् । धादिषु किंशब्दपाठस्तु त्वं च कश्च कौ, अहं च कश्च को, इत्यत्र 'त्यदादीनां मिथः सहोक्तौ' इति किमः शेषत्वार्थः । अथ वक्ष्यमाणतसिलादिप्रत्यये परे कार्यविशेषानाह इदम इश् इत्यादिना । इदम इश। प्राग्दिशीये परे इति शेषपूरणम् । प्रकरणलभ्यमिदम् । शित्त्वात् सर्वादेशः। इत इत्युदाहरणम् । अहंयुः। शुभंयुरिति । पूर्ववदनुवारपरसवर्णों । इति तत्त्वबोधिन्यां मत्वर्थीयप्रकरणम् । किंसर्वनाम । यादिपर्युदासात्किमः पृथग्रहणम् । व्यादिषु किम् , शब्दपाठे प्रयोजनं तु त्वं च कश्च को । अहं च कश्च को इत्यत्र किमः शेषः । 'त्यदादीनां Page #594 -------------------------------------------------------------------------- ________________ प्रकरणम् ३६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५६१ कु 'इत्' इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे । इशोऽपवादः । १६५१ एतदोऽन् । ( ५-३ - ५ ) योगविभागः कर्तव्यः । ' एतदः' एतेतौ स्तो रथोः । 'अन्' । एतदः इत्येव । श्रनेकाल्वात्सर्वांदेशः । ' नलोपः प्रातिपदिकान्तस्य' ( सू २३६ ) । १६५२ सर्वस्य सोऽन्यतरस्यां दि । (५-३-६) प्राग्दिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् । १६५३ पञ्चम्यास्तसिल् । ( ५-३-७) पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल्वा स्यात् । १६५४ तिहोः : । ( ७- २ - १०४ ) किमः कुः स्यात्तादौ हकारादौ च विभक्तौ परतः । एतेतौ रथौः । 'इदमः' इत्यनुवर्तते । एतच इच्चेति द्वन्द्वात्प्रथमाद्विवचनम् । रश्च थ् च तयोरिति द्वन्द्वः । रेफादकार उच्चारणार्थः । रेफथकाराभ्यां प्राग्दिशीयं प्रकरणलभ्यं विशेष्यते । ' यस्मिन्विधिः' इति तदादिविधिः । तदाह इदं शब्दस्येत्यादिना । तत्र रेफादौ परे एतः, थादौ तु इदिति यथासंख्यं बोध्यम् । एतर्हि, इत्थम् । एतदोऽन् । प्राग्दिशीये प्रत्यये परे एतदुशब्दस्य अन् स्यादित्यर्थः प्रतीयते । एवं सति एतच्छब्दस्य अनेव स्यात् । नत्वेतेतौ । तत्राह योगविभाग इति । एतद इति । प्रथमसूत्रमिदम् । तस्य शेषपूरणम् 'एते तौ रथोः' इति । एतच्छब्दस्य एतेतौ स्तो रेफथकारादौ प्रत्यये परे इत्यर्थः । एतर्हि, इत्थम् इत्युदाहरणम् । श्रन्निति द्वितीयं सूत्रम् । एतद इत्येवेति । 'रथो:' इति तु नानुवर्तते इति भावः । तथा च एतद इत्यस्य अन् स्यात्प्राग्दिशीये परे इति फलति । अतः अत्र इत्युदाहरणम् । ननु अनादेशे नकारस्य इत्संज्ञायाम् अकारोs न्तादेशः स्यादित्यत श्राह श्रनेकाल्वादिति । नकारस्य प्रयोजनाभावाद् नेत्संज्ञा, नित्स्वरस्य प्रत्ययविषयत्वादिति भावः । तर्हि अत इत्यादौ नकारस्य श्रवणं स्यादित्यत आह नलोप इति । सर्वस्य सोऽन्यतरस्यां दि । दि इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम् । ' यस्मिन्विधिः' इति तदादिविधिः । तदाह प्राग्दिशीये दकारादाविति । सदा इत्युदाहरणम् । तदेवं तसिलादिप्रत्ययेषु प्राग्दिशीयेषु परेषु कतिपयान् देशान् विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते । पञ्चम्यास्तसिल् । किमादिभ्य इति । किंसर्वनामबहुभ्य इत्यर्थः । वा स्यादिति । 'समर्थानाम् -' इत्यतो वाग्रहणस्यानुवृत्तेरिति भावः । कुतिहोः । मिथः सहोक्तौ यत् परं तच्छिष्यते' इत्युक्तत्वात् । एतदोऽन् । भाष्यरूढोऽयं पाठः । वृत्तिकारस्तु 'एतदोऽश्' इति पठित्वा शकारः सर्वादेशार्थ इत्याह । अनिति । प्राग्दिशीये परे अन्स्यात् । अनेकाल्त्वादिति । नित्करणस्य प्रयोजनं नास्ति प्रत्ययनित्त्वस्यैव स्वरार्थत्वादिति भावः । कु तिहोः । तकारादिकार उच्चारणार्थः । Page #595 -------------------------------------------------------------------------- ________________ ५६२] सिद्धान्तकौमुदी। तद्धितेषु प्राग्दिशीय. कुतः कस्मात् । यतः। ततः । अतः । इतः । अमुतः । बहुतः यादेस्तु द्वाभ्याम्। १६५५ तसेश्च । (५-३-८) किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् । १९५६ पर्यभिभ्यां च । (५-३-६) कु इति लुप्तप्रथमाकम् । 'किमः कः' इत्यस्मात् 'किमः' इत्यनुवर्तते । 'अष्टन श्रा' इत्यतो 'विभक्तौ' इति । तिश्च ह च तयोरिति द्वन्द्वः। इकार उच्चारणार्थः । ताभ्यां विभक्तिविशेष्यते। तदादिविधिः तदाह किमः कुः स्यादित्यादिना । कुत इति । किंशब्दात् पञ्चम्यन्तात्तसिल। सुब्लुक् । किमः कुनावः । 'तसिलादयः प्राक् पाशपः' इत्युक्तेरव्ययत्वम् । वेत्यनुवृत्तेः फलमाह कस्मादिति। 'तिहोः' इत्युक्तेरत्र न कुभावः । सर्वनाम्न उदाहरति यत इति । यदशब्दात् पञ्चम्यन्तात् सुब्लुक्, तसिलो विभक्तित्वात् तस्मिन्परे त्यदाद्यत्वं पररूपम् । एवं तच्छ. ब्दात्तत इति रूपम् । पक्षे तस्मादिति भवति । अत इति । एतद्शब्दात् पञ्चम्य. न्तात् तसिल, सुब्लुक् , एतदोऽन् , सर्वादेशः, नलोपः । पक्षे एतस्मादिति भवति । इत इति । इदंशब्दात्पञ्चम्यन्तात् तसिल् , सुब्लुक् , इदम इश् । पक्षे अस्मादिति भवति । अमुत इति । अदस्शब्दात् पञ्चम्यन्तात तसिल , उत्वमत्वे च । पक्षे अमुष्मादिति भवति । बहुत इति । पक्षे बहुभ्य इति भवति । द्यादे. स्त्विति । सर्वनामत्वात् प्राप्तस्तसिल यादिपर्युदासान्नेत्यर्थः । नसेश्च । परस्य तसेरिति । 'प्रतियोगे पञ्चम्यास्तसिः' 'अपादाने चाहीयरहोः' इति वक्ष्यमाणस्य तसेरित्यर्थः । ननु तसेस्तसिल किमर्थमित्यत आह स्वरामिति । लित्स्वरार्थमित्यर्थः। विभक्त्यर्थमिति । विभक्तिनिमित्तकत्यदाद्यत्वाद्यर्थमित्यर्थः । अन्यथा परत्वात्तसौ कृते तस्य अप्राग्दिशीयत्वाद् विभक्तित्वाभावात त्यदायत्वादिकं न वेत्यनुवृत्तेः फलं दर्शयति कस्मादिति । यतस्तत इति । कृत्तद्धित-' इति प्रातिपदिकत्वात्सुपो लुकि त्यदायत्वम् । पक्षे यस्मात् । तस्मात् । इत इति । 'इदम इश्' पक्षे अस्मात् । अत इति । एतदोऽनादेशः । पक्षे एतस्म त् । अमुत इति । 'अदसोसेः-' इति मुत्वम् । पक्षे अमुष्मात् । बहुत इति । पक्षे बहुभ्यः । द्वाभ्यामिति । सर्वनामत्वात्प्राप्तोऽपि तसिल 'अयादिभ्यः' इति पर्युदासान्न । तसेरिति । 'प्रतियोगे पञ्चम्यास्तसिः', 'अपादाने चाहीयरहोः' इति विहितस्य तसेस्तसिलादेश इत्यर्थः । विभक्त्यर्थ चेति । अन्यथा परत्वात्तसौ कृते तस्याप्राग्दिशीयत्वाद्विभक्तिसंज्ञाया अभावात्त्यदायत्वाभावे 'यतोऽवगच्छति' इत्यादि न सिध्येदिति भावः । ननु तसेमित इत्यादौ चरितार्थत्वात्किमादिभ्यस्तसिलो बाध्यत्वेन तसिन प्रवर्तते। तस्य निरवकाशत्वात् । तथा च 'तसेश्च' इति विधानं व्यर्थमिति वाच्यम् , Page #596 -------------------------------------------------------------------------- ________________ प्रकरणम् ३६] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६३ माम्यां तसिल स्यात् । 'सर्वोभयार्थाभ्यामेव' (वा ३२४० ) । परितः सर्वत इत्यर्थः । श्रभित उभयत इत्यर्थः । १६५७ सप्तम्यास्त्रल् । (५-३-१०) कुत्र । यत्र । तत्र । बहुत्र । १९५८ इदमो हः। (५-३-११) लोऽपवादः । इशादेशः । इह । १६५६ किमोऽत् । (५-३-१२) वाग्रहणमपकृष्यते । सप्तम्यन्तारिकमोऽद्वा स्यात् । पक्षे त्रल । १९६० क्वाति । (७-२-१०५) किमः कादेशः स्यादति । क्व । कुत्र । १६६१ वा ह च च्छन्दसि । (५-३-१३) स्यादित्यर्थः । पर्यभिभ्यां च । सर्वोभयार्थाभ्यामेवेति । वार्तिकमिदम् । परिषिञ्चति अभिषिञ्चति इत्यादौ वाग्रहणात् पक्षे न तसिल । सप्तम्यास्त्रल् । किमादिभ्यः सप्तम्यन्तेभ्यः अद्यादिभ्यस्खलित्यर्थः । कुत्र इत्यादिरूपाणि कुत इत्यादिवत् । इदमो हः । इदंशब्दात् सप्तम्यन्ताद् हप्रत्ययः स्यादित्यर्थः । किमोऽत् । अपकृष्यत इति । 'वा ह च छन्दसि' इत्युत्तरसूत्रादिति शेषः । अपकर्षे व्याख्यानमेव शरणम् । अत्प्रत्यये तकार इत् । न विभक्काविति निषेधस्तु न भवति, 'तवर्गस्येत्त्व प्रतिषेधोऽतद्धिते' इति वार्तिकात् । क्वाति । क्व अतीति छेदः । 'क्व' इति लुप्तप्रथमाकं 'किमः कः' इत्यतः 'किमः' इत्यनुवर्तते । तदाह किमः केति । किंशब्दात् सप्तम्यन्ताद् अत्प्रत्ययः, तकार इत् , किमः क्वादेश इति भावः । कुत्रेति । अत्प्रत्ययाभावपक्षे त्रलि 'कु तिहोः' इति कुभावे रूपम् । केचित्तु 'किमोऽत्' इत्यत्र उत्तरसूत्राद्वाग्रहणापकर्षे प्रमाणाभावात्त्रलं बाधित्वा नित्य एव अत्प्रत्ययः, कुत्रेति त्वपशब्द एवेत्याहुः । वा ह च छन्दसि । 'ह' इति लुप्तप्रथमाकम् । किमः सप्तम्यन्ताद् हप्रत्ययः स्यादित्यर्थः । चादत् त्रल् च । कुतोऽवहीयते कुतोऽवरोहतीत्यादौ तसिलः सावकाशत्वात् । सर्वोभयार्थाभ्यामेवेति। अत्र चाभिधानस्वाभाव्यमेव हेतुः । तेनेह न भवति । परिषिञ्चति । अभिषिञ्चति । उपर्यर्थे परिः । अभिस्त्वाभिमुख्ये। नन्वोदनं परिषिञ्चतीत्यत्र सर्वतोभावे परिरिति तसिलभावः कथमिति चेत् । मैवम् , वावचनानुवृत्त्या तु तत्सिद्धः। सप्तम्यास्त्रल । इह त्रल्तसिलो स्वतन्त्री प्रत्ययौ, न तु सप्तमीपञ्चम्योरादेशौ । तेन कुत्र बहुत्र कुतः बहुत इत्यादौ 'अच्च घेः', 'घर्जिति' इत्यादिकं नेत्याहुः । किमोऽत् । 'न विभक्ती तुस्माः' इति निषेधोऽत्र न प्रवर्तते थमोरुकारेण मकारपरित्राणार्थेनानित्यताशापनात् । वाग्रहणमिति । 'किमोऽद्वा' इति सूत्रं पठित्वा 'ह च छन्दसि' इति सूत्रयितुं युक्तम् । कुत्रेति । यद्यपि भागवृत्तिकारो भाषायां त्रल् नेच्छति, तथापि बहुप्रयोगदर्शनादिह खीकृतम् । तथा च श्रीहर्षः-'नान्यत्र कुत्रापि च साभिलाषम्' । अमरश्वाह-'साहचर्याच कुत्रचित्' इति । वा ह च छन्दसि । पूर्वोक्तस्य वाग्रहणाप Page #597 -------------------------------------------------------------------------- ________________ ५६४] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्दिशीय'कुह स्थः' । 'कुह जग्मथुः' । १६६२ एतदनतसोत्रतसौ चानुदात्तौ । (२-४-३३) अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्तसोः परतः, तो चानुदात्तौ स्तः । एतस्मिन्ग्रामे सुखं वसामः । अतोऽत्राधीमहे । अतो न गन्तास्मः । १६६३ इतराभ्योऽपि दृश्यन्ते । (५-३-१४) पञ्चमीसप्त. मीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते । 'दृशिग्रहणाद्भवदादियोग एव' (वा ३२४४ )। स भवान् , ततो भवान्, तत्र भवान् । तं भवन्तम् , ततो भवन्तम् , तत्र भवन्तम् । एवं दीर्घायुः । देवानांप्रियः। श्रायुष्मान् । १६६४ सर्वैकान्यकिंयत्तदः काले दा । (५-३-१५) सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् । सर्वस्मिन्काले सदा। सर्वदा । एकदा । अन्यदा । कदा। यदा । तदा। 'काले किम्-सर्वत्र देशे। १९६५ इदमो हिल । (५-३-१६) सप्तम्यन्ताकाले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । 'काले किम्इह देशे । १६६६ अधुना । (५-३-१७) इदमः सप्तम्यन्तास्कालवाचिनः यद्यपि वैदिकप्रक्रियायामिदमुपन्यसनीयं तथापि वाग्रहणस्य पूर्वसूत्रे अपकर्ष. ज्ञानायात्र तदुपन्यासः । एतदस्त्रतसोः। 'इदमोऽन्वादेशे' इत्यस्माद् 'अन्वादेशेऽशनुदात्तः' इत्यनुवर्तते । तदाह अन्वादेशेत्यादिना । अतोऽत्रेति । एतद्शब्दात् त्रलि प्रकृतेरशादेशे अत्रेति रूपम् । अतो न गन्तास्म इति । एतस्माद् प्रामादित्यर्थः । एतद्शब्दात्तसिल प्रकृतेरशादेशः । 'एतदोऽन्' इत्येव सिद्धे अनुदात्तार्थं वचनम् । नच लित्स्वरे सति शेषनिघातेन तसोर नुदात्तत्वं सिद्धमिति शङ्कयम्, लित्स्वरापवादे अशोऽनुदात्तत्वे कृते लित्स्वराप्राप्त्या प्रत्ययस्वरेण त्रतसोरुदात्तवे प्राप्ते तद्विधानार्थत्वात् । इतराभ्योऽपि दृश्यन्ते । पञ्चमीसप्तमी. तरविभक्तिभ्योऽपीत्यर्थः । फलितमाह पञ्चमीसप्तमीतरविभक्त्यन्तादपीति । किमादेरिति शेषः । एवमिति । स दीर्घायुः, ततो दीर्घायुः, तत्र दीर्घायुरित्यायूह्यमित्यर्थः । सर्वैकान्य। सप्तम्यन्तेभ्य इति । सर्वादिभ्य इति शेषः। सप्तम्या इत्येवानुवर्तते, व्याख्यानादिति भावः । सदा सर्वदेति । 'सर्वस्य सोऽन्यतरस्यां दि' इति सभावविकल्पः । कदेति । किंशब्दाद् दाप्रत्यये सति तस्य 'किमः कः' इति कादेशः । इदमो हिल । 'इदमः' 'हिंल्' इति छेदः । एतहीति। इदम्शब्दाद् हिल्, ‘एतेतौ रथोः' इत्येतादेशः । अधुना । 'इदमः' इति 'सप्तम्या' कर्षणस्य स्फुटीकरणार्थमिदमुपन्यस्तम्। अत इति । एतस्माद् ग्रामादित्यर्थः । तत्रभवन्तमिति । ततोभवता, तत्र भवता। ततोभवते, तत्रभवते इत्यादि। एवमिति। ततो. दीर्घायुस्तत्रदीर्घायुरित्यायूह्यमित्यर्थः । सदेति। 'सर्वस्य सोऽन्यतरस्यां दि' इति सभावः Page #598 -------------------------------------------------------------------------- ________________ प्रकरणम् ३६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५६५ स्वार्थे अधुनाप्रत्ययः स्यात् । इश् । 'यस्य -' ( सू ३११ ) इति लोपः । अधुना । १६६७ दानीं च । ( ५-३ - १८) इदानीम् । १९६८ तदो दा च । ( ५-३ - ११) तदा तदानीम् । 'तदो दावचनमनर्थकम्, विहितत्वात्' (वा ३२४३) १९६६ अनद्यतने हिलन्यतरस्याम् । ( ५-३ - २१ ) कर्हि, कदा । यहि, यदा । तर्हि तदा । एतस्मिन्काले एतर्हि । १६७० सद्यः परुत्परायैषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेघुरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः । इति 'काले' इति चानुवर्तते । तदाह इदम इति । इशिति । 'इदम इश' इत्यनेनेति शेषः । अधुनेति । इयदितिवत् प्रत्ययमात्रं शिष्यते । पठन्ति चाभियुक्ताः 'उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ गतवति विलयं च प्राकृतेऽपि प्रपञ्चे । सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि ।' इति वैयाकरणीमौपनिषदीं च प्रक्रियामाश्रित्य प्रवृत्तो घर्थोऽयं श्लोकः । दानीं च । इदमः सप्तम्यन्तात् कालवाचिनः स्वार्थे दानीमिति च प्रत्ययः स्यादित्यर्थः । इदानीमिति । इदंशब्दाद् दानीं प्रत्ययः, इश् । तदो दा च । सप्तम्यन्तात्कालवृत्तेः तद्शब्दाद् दाप्रत्ययः, दानीं प्रत्ययश्च स्यादित्यर्थः । तदो दावचनमिति । वार्तिकमिदम् । विहितत्वादिति । 'सर्वैकान्य-' इत्यनेनेति शेषः । अनद्यतने हिल् । अनद्यतनकालवृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्यो हिल्प्रत्ययो वा स्यादि - त्यर्थः । पते दाप्रत्ययः । एतस्मिन्काले एतहति । एतद्शब्दाद् हिल् । 'एतदः ' इति योगविभागाद् रेफादौ एतादेशः । सद्यःपरुत् । 'समानस्य सभावो द्यस् चाहनि' इति भाष्यवाक्यमिदम् । अहर्वृत्तेः समानशब्दात् सप्तम्यन्ताद् द्यस्प्रत्ययः । समानस्य सभावश्च निपात्यत इत्यर्थः । सद्यः समानेऽहनीत्यर्थः । 'पूर्वपूर्वतरयोः परादेश उदारी च संवत्सरे' इत्यपि भाष्यवाक्यम् । उच्च आरिश्चेति द्वन्द्वः । सप्तम्यन्तादिमौ प्रत्ययौ संवत्सरे अभिधेये । इदमः ( इश् ) समसग् इत्यपि भाष्यवाक्यम् । ऐषम इति । समसरिण णकार इत्, सकारादकार उच्चारणार्थः । णित्त्वादादिवृद्धिः । 'परस्मादेद्यव्यहनि ' इत्यपि भाष्यवाक्यम् । सप्तम्यन्ताद् एद्यविरिकारान्तः प्रत्ययः । 'इदमोऽश्भावो द्यश्च' इत्यपि भाष्यवाक्यम् । सप्तम्यन्ताद् अकारान्तो द्यप्रत्ययः । कदेति । किमः कः । एतहीति । 'एतेतौ रथोः' एत्येतादेशः । अधुनाप्रत्यय इति । निपातनान्मध्योदात्तोऽयम् । भाष्यमतं चेदम् । वृत्तिकारस्त्वाह — इदमो अश्भावो धुना च प्रत्यय इति । तत्र 'ऊडिदम् -' इत्यादिना विभक्तिस्वरः, स च 'आदेः परस्य' इत्यादेर्भवतीति हरदत्तः । दावचनमिति । 'तदश्च' इत्येव सूत्रं पठनीयमिति भावः । एतस्मिन्काले एतहति । 'एतदः' इति योगविभागाद्रे Page #599 -------------------------------------------------------------------------- ________________ ५६६ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्दिशीय(५-३-२२) एते निपात्यन्ते । 'समानस्य सभावो यस् चाहनि' (वा ३२४५) समानेऽहनि सद्यः। पूर्वपूर्वतरयोः परादेशः, उदारी च प्रत्ययौ संवत्सरे' (वा ३२४६)। पूर्वस्मिन्वरसरे परुत् । पूर्वतरे वत्सरे परारि । 'इदमः ( इश) समसण' (वा ३२४७)। अस्मिन्संवत्सरे ऐषमः । 'परस्मादेवव्यहनि' (वा ३२४८) । परस्मिन्नहनि परेद्यवि । 'इदमोऽश्भावो यश्च' ( वा ३२४६ ) अस्मिन्नहनि अद्य । 'पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एद्युस् च' (वा ३२५०) पूर्वस्मिनहनि पूर्वेधुः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरहोरुभयेयुः । 'घुश्चोभयाद्वक्तव्यः' (वा ३२५१)। उभयद्युः। १६७१ प्रकारवचने थाल । (५-३-२३) प्रकारवृत्तिभ्यः किमादिभ्यस्थाल्स्यात्स्वार्थे । तेन प्रकारेण तथा। यथा। १९७२ इदमस्थमुः। (५-३-२४) थालोऽपवादः । 'एतदो वाच्यः' (वा ३२३५)। 'पूर्वान्यान्यतरेतरापराधरोभयोत्तरेभ्य एास् च' इत्यपि भाष्यवाक्यम् । प्रकारवचने थाल् । पञ्चम्यर्थे सप्तमीत्याह । प्रकारवृत्तिभ्य इति । सामान्यस्य भेदको पि विशेषः प्रकारः। यथा बहुभिः प्रकारैर्भुङ्क्ते इति विशेषैरिति गम्यते । सादृश्यं त्विह न गृह्यते सर्वथेत्यादौ तदप्रतीतेः । तेन प्रकारेणेत्यनन्तरं विशिष्ट इति शेषः । 'यथा हरिः तथा हरः' इत्यादौ यत्प्रकारवान् हरिः तत्प्रकारवान् हर इति बोधे सति हरिसदृशो हर इति फलति । तदभिप्रायेण यथाशब्दस्य सादृश्यार्थकत्वोक्तिः । इदमस्थमुः । इदंशब्दात्प्रकारवृत्तेः थमुप्रत्ययः स्यादित्यर्थः । प्रत्यये उकार उच्चारणार्थः । मकारस्य उपदेशे अन्त्यत्वाभावान्नेत्त्वम् । यद्यपि 'न विभक्तो-' इति निषेधादेव मस्येत्त्वं न भवति । तथापि तदनित्यत्वज्ञापनार्थ मकारोच्चारणमित्याहुः । फादावेतादेशः । सद्यः परुत् । निपातनाद्विषयविशेषो लभ्यत इत्याह अहनीति । सप्तम्यन्तस्याहन्शब्दस्यार्थे इत्यर्थः । तदर्शयति समानेऽहनीति । पर उदारी चेति। पर इत्यादेशः, उदारी प्रत्ययौ । प्रकारवचने थाल । सामान्यस्य भेदको विशेषः प्रकारः । यथा ब्राह्मणसामान्यस्य माठरकाठकादय इति हरदत्तः । यद्यपि 'प्रकारे गुणवचनस्य' इत्यत्र सादृश्यं प्रकारस्तथापि नेह सादृश्यं गृह्यते अनभिधानात् । 'अव्ययं विभक्ति-' इति सूत्रे सादृश्यमपि यथाशब्दार्थ इत्युक्तम् , इह तु केवलस्य थाल्प्रत्ययस्य सादृश्यं नार्थः किं तु प्रकार एवेत्युक्तमिति नास्ति पूर्वापरविरोध इति बोध्यम् । तेन प्रकारेण तथेति । प्रथमान्तात्तु न भवति स प्रकारस्तथेति, अनभिधानादेवेति भावः । किं सर्वनामबहुभ्यो विशेषविहितेनापि थाला जातीयर् न बाध्यते अर्थभेदात् । प्रकारे हि थाल् । जातीयर् तु तद्वति स्वभावात् । एवं च कृत्वा प्रकारमात्रे थालं विधाय तदन्तात्प्रकारवति जातीयरं प्रयुञ्जते । तथाजातीयो यथा Page #600 -------------------------------------------------------------------------- ________________ प्रकरणम् ३६] बालमनोरमात्तत्त्वबोधिनीसहिता। [५६७ अनेन एतेन वा प्रकारेण इस्थम् । १६७३ किमश्च । (५-३-२५) केन प्रकारेण कथम् । इति तद्धितेषु प्राग्दिशीयप्रकरणम् । अथ तद्धितेषु प्रागिवीयप्रकरणम् । ४०। १६७४ दिक्छब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः। (५-३-२७) सप्तम्याद्यन्तेभ्यो दिशि रूढेभ्यो दिग्देशकालवृत्तिभ्यः स्वार्थेऽस्तातिप्रत्ययः स्यात् । १६७५ पूर्वाधरावराणामसि पुरधवश्चैषाम् । (५-३-३६) एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात् , तद्योगे चैषां ऋमात् 'पुर' 'अध्' 'अ' इत्यादेशाः स्युः । १६७६ अस्ताति च । (५-३-४०) मस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्याम् , पूर्वस्याः, पूर्वा वा दिक् । पुरः, इत्थमिति । एतेतौ रथोः' इति प्रकृतेरिदम इदादेशः । एतच्छब्दात् थमुप्रत्यये तु 'एतद' इति योगविभागाद् इदादेशः । किमश्च । प्रकारवृत्तेस्थमुरिति शेषः। कथमिति । 'किमः कः' इति कादेशः। इति तद्धितेषु प्राग्दिशीयानां विभक्तिसंज्ञकानां पूर्णोऽवधिः। अथ प्रागिवीयप्रकरणमारभ्यते। दिक्छब्देभ्यः। सप्तम्याद्यन्तेभ्य इति। सप्तमीपञ्चमीप्रथमान्तेभ्य इत्यर्थः । रूढेभ्य इति । शब्दप्रहणलभ्यमिदम् । अस्तातिप्रत्यये इकार उच्चारणार्थः । तकारान्तः प्रत्ययः । 'संख्याया विधार्थे धा' इति सूत्रपर्यन्तमिदं सूत्रमस्तातिवर्जमनुवर्तते । अत्र विभक्तीनां दिगादीनां च न यथासंख्यम् , व्याख्यानात् । पूर्वाधरावराणाम्। 'असि' इति लुप्तप्रथमाकम् । पुर अध, अव् एषां द्वन्द्वात्प्रथमाबहुवचनम् । प्रस्तात्यर्थ इति । दिग्देशकालवृत्तिभ्य इत्यर्थः। प्रस्ताति च। 'अस्ताति' इति लुप्तसप्तमीकम् । 'अस्ताति' इति तकारान्तात् सप्तम्येकवचनं वा। 'पूर्वाधरावराणाम्-' इति 'पुरधव' इति चानुवर्तते। जातीयोऽन्यथाजातीय इति । अनेन एतेन वेति । द्वितीयान्तादपि थमुर्भवत्येव । इममेतं वा प्रकारमापन्न इत्थंभूतः । अत्र च 'लक्षणेत्थंभूताख्यान-' इत्यादिसौत्रप्रयोगो लिङ्गम् । एतेन कथंभूतो व्याख्यातः । इत्थमिति । एतेतौ रथोः' इति इदम इतादेशः । “एतदः' इति योगविभागादेतदोऽपि इनादेश इति भावः । किमश्च । योगविभागः 'था हेतौ च छन्दसि-' इत्युत्तरसूत्रे किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति। इति तत्त्वबोधिन्या प्राग्दिशीयप्रकरणम् । Page #601 -------------------------------------------------------------------------- ________________ ५६८ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयपुरस्तात् । अधः, अधस्तात् । अवः । १९७७ विभाषाऽवरस्य । (५-३-४१) अवरस्यास्तातौ परेऽव स्याद्वा । अवस्तात् , अवरस्तात् । एवं देशे काले च । 'दिशि रूढेभ्यः' किम्-ऐन्द्यां वसति । 'सप्तम्याद्यन्तेभ्यः' किम्-पूर्व ग्रामं गतः । 'दिगादिवृत्तिभ्यः' किम्-पूर्वस्मिन्गुरौ वसति । 'श्रस्ताति च' (सू १९७६) इति ज्ञापकादसिरस्तातिं न बाधते। १६७८ दक्षिणोत्तराभ्यामतसुच् । (५-३-२८) अस्तातेरपवादः । दक्षिणतः, उत्तरतः। १९७६ विभाषा परावराभ्याम् । तदाह अस्ताताविति । यद्यपि सूत्रक्रमे 'पूर्वाधर-' इति 'अस्ताति च' इति च 'संख्याया विधार्थ-' इत्यतः प्राक् पठितम् । तथापि अस्तातौ पुराधादेशविधानाय 'अस्ताति च' इति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्रदर्शनाय 'पूर्वाधर-' इत्यपि सूत्रमिहैवोपन्यस्तम् । पुर इति । पूर्वाशब्दाद् असिप्रत्ययः प्रकृतेः पुर् आदेशः । पुरस्तादिति । पूर्वाशब्दाद् अस्तातिप्रत्ययः प्रकृतेः पुर् आदेशः। अधः, अधस्तादिति । अधरशब्दाद् असिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः अध् आदेशे रूपम् । अव इति । अवरशब्दाद् असिप्रत्यये प्रकृतेः अव् दिशे रूपम् । विभाषाऽवरस्य । 'अस्ताति च' इति पूर्वसूत्राद् 'अस्ताति' इत्यनुवर्तते । तदाह अवरस्येति । एवमिति । पूर्वस्मिन् पूर्वस्मात् पूर्वो वा देशः, कालो वा पुरः पुरस्तादित्यादि । पूर्वस्मिन्गुराविति । पूर्वकालिकाध्यापनकर्तरीत्यर्थः । ननु 'दिक्छब्दभ्यः' इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह अस्ताति चेतीत्यादि । दक्षिणोत्तराभ्याम् । दिग्देशकालवृत्तिभ्यामिति शेषः। दक्षिणतः, उत्तरत इति। नच तसुजेव प्रत्ययोऽस्तु । दिग्वर्तित्वे तु 'सर्वनानो वृत्तिमात्रे-' इति पुंवत्वेनैव दक्षिणत इत्यादि सिद्धमिति वाच्यम् , स्पष्टार्थत्वात् । अत एव भाष्ये अकारः दिग्देशकालेष्विति । यथासंख्यमत्र नेष्यते अस्वरितत्वात् । पुरः पुरस्तादिति । कथं तर्हि 'पश्यामि तामित इतः पुरतश्च पश्चात्' इति भवभूतिः, 'स्यात्पुरः पुरतोऽप्रतः' इत्यमरः, 'पुरतः प्रथमे चाने' इति विश्वश्च । समानकालीनं पूर्वकालीनमित्यादिवत्प्रामादिकमेवेति बहवः। केचित्तु 'दक्षिणोत्तराभ्यां तसुज्विधिनैवेष्टसिद्धौ अतसुच्' इत्यकारोच्चारणमन्यतोऽपि विधानार्थम् । तेन पुरत इति सिध्यति । 'पुर अग्रगमने' क्विपि पुर् । 'र्वोः' इति दीर्घस्तु न भवति भत्वात् । न च अतसुचश्चित्त्वेऽप्यकारोच्चारणं पक्षे आयुदात्तत्वार्थमिति वाच्यम् , बहूनां प्रयोगानुरोधेनान्यतो विधानार्थमिति कल्पनस्यैव न्याय्यत्वादित्याहुः । यथासंख्यत्वानाश्रयणात् पुरस्ताद्वसति पुरस्तादागतः पुरस्ताद्रमणीयम् । अधस्ताद्वसति, अधस्तादागत इत्यादि सिध्यति । Page #602 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६६ (५-३-२६) परतः । अवरतः । परस्तात् । प्रवरस्तात् । १६८० अञ्चलृक् । (५-३-३०) अश्वत्यन्ताहिन्छन्दादस्तातेच्क्स्यात् । 'लुकद्धितलुकि' (सू १४०८)। प्राच्या प्राध्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च । १६८१ उपर्युपरिष्टात् । (५-३-३१) अस्तातेविषये ऊर्ध्वशब्दस्योपादेशः स्यात् , रिल , रिष्टातिलौ च प्रत्ययौ । उपरि, उपरिष्टाद्वा वसति, पागतः, रमणीयं वा । १९८२ पश्चात् (५-३-३२) अपरस्य पश्चभाव प्रातिश्च प्रत्ययोऽस्तातेविषये । १९८३ उत्तराधरदक्षिणादातिः । (५-३-३४) उत्तरात् । अधरात् । दक्षिणात् । १९८४ एनबन्यतरस्यामदूरेऽपञ्चम्याः । (५-३-३५) उत्तरादिभ्य एनम्बा स्यादवध्यवधिमतोः सामीप्ये पश्चमी विना। उत्तरेण । अधरेण । दक्षिणेन । पने यथास्वं प्रत्ययाः । इह केचिदुत्तरादीनननुवयं दिक्छन्दमात्रादेनपमाहुः। पूर्वेण ग्रामम् । अपरेण ग्रामम् । १९८५ दक्षिणादाच् । (५-३-३६) अस्तातेर्विषये । दक्षिणा वसति । 'अपञ्चम्याः' प्रत्याख्यातः । केचित्तु अकारोच्चारणमन्यतो विधानार्थम् । तेन पुरत इति सिद्धमित्याहुः । समानकालीनमित्यादिवत् पुरत इति प्रामादिकमेवेति बहवः। विभाषा । अतसुजिति शेषः । पक्षे अस्तातिः । अञ्चेर्लुक । प्राच्यामिति । लिङ्गविशिष्टपरिभाषया अस्तातेलृक् । उपर्युपरिष्टात् । 'ऊर्ध्वस्य उपभावः रिल्प्रत्ययो रिष्टातिल्प्रत्ययश्च' इति भाष्यम् । तदाह अस्तातेर्विषये इत्यादिना । वसति, आगतः, रमणीयं वेति । विभक्तित्रयस्य यथासंख्यमुदाहरणम् । पश्चात् । 'अपरस्य पश्चभावः, प्रातिश्च प्रत्ययः' इति भाष्यवाक्यमिदम् । प्रत्यये इकार उच्चारणार्थः। उत्तराधर । आतिप्रत्यये इकार उच्चारणार्थः । अस्तातेरपवादः । एनबन्यतरस्याम् । 'अपञ्चम्या इति प्रागसेः' इति भाष्यम् । सूत्रक्रमे 'पूर्वाधर-' इत्यसिं वक्ष्यति । ततः प्रागित्यर्थः । उत्तरादिभ्य इति । 'उत्तराधरदक्षिणात्' इत्यनुवर्तत इति भावः । अदूरे इत्येतद्याचष्टे अवध्यवधिमतोः सामीप्य इति । पञ्चमी विनति । पञ्चम्यन्तान भवतीत्यर्थः । यथास्वमिति । एनबभावे पक्षे अस्तातिः असिः आतिश्चेत्यर्थः । दिक्छब्दमात्रादिति । अञ्चत्यन्तात्तु नेदम् , व्यवस्थितविभाषाश्रयणात् । तेन प्राचेन प्राममित्यादि न भवतीत्याहुः । दक्षिणादाच् । अस्तातेर्विषय इति । एतेन 'अदूरे' इति नानुवर्तत इति सूचिप्राच्यां प्राच्या इति । प्राच्यां दिशि वसति प्राग्वसति । प्राच्या दिश आगतः प्रागागत इत्यादि योज्यम् । पञ्चम्यन्तं विनेति । नेह उत्तरादागतः । अधरा. दागतः । उत्तरेणेत्यादि । वसति रमणीयं वा । पक्षे यथास्वमिति । दक्षिणतः। Page #603 -------------------------------------------------------------------------- ________________ ६०० ] सिद्धान्तकौमुदी । [तद्धितेषु प्रागिवीय इत्येव । दक्षिणादागतः । १६८६ आहि च दूरे । ( ५-३- ३७) दक्षिणाद् दूरे श्राहि स्यात् । चादाच् । दक्षिणाहि, दक्षिणा । १६८७ उत्तराञ्च । (५-३-३८) उत्तराहि, उत्तरा । १६८८ संख्याया विधार्थे धा । ( ५-३-४२ ) क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा पञ्चधा । १६८६ अधिकरणविचाले च । ( ५-३ - ४३ ) द्रव्यस्य संख्यान्तरापादने संख्याया धा स्यात् । एकं राशि पञ्चधा कुरु । १६६० एकाद्धो ध्यमुञन्यतरस्याम् । तम् । एवंच आच्प्रत्यये, 'उत्तराधरदक्षिणात्' इत्यातिप्रत्यये, 'दक्षिणोत्तराभ्याम् -' इत्यतसुचि च त्रीणि रूपाणि । श्राहि च दूरें । दक्षिणाशब्द दिति शेषः । चादाजिति । तथा दूरे उक्तरूपत्रयेण सह चत्वारि रूपाणीति भावः । उत्तराच्च । आच् आहि चेति शेषः। अतसुचा श्रतिना च चत्वारि रूपाणि । संख्याया विधार्थे धा । विधाशब्दस्यार्थः प्रकारः विधार्थः । 'विधा विधौ प्रकारे च' इत्यमरः । सामान्यस्य भेदको विशेषः प्रकारः । स चाभिधानस्वभावात् क्रियाविषयक एव गृह्यते । तदाह क्रियाप्रकारेति । चतुर्धा पञ्चधेति । गच्छतीत्यादिक्रियाप हमध्याहार्यम् । चतुष्प्रकारा गमनादिक्रियेति बोधः । नवधा देव्यमित्यादावपि भवतीत्यादि क्रियापदमध्याहार्यम् । अधिकरणविचाले च । अधिकरणं द्रव्यम्, तस्य विचालो विचालनं संख्यान्तरापादनम् । तदाह द्रव्यस्येति । संख्यान्तरापादनं च न्यून संख्या अधिक संख्याकरणम् अधिकसंख्यस्य न्यूनसंख्याकरणं च । श्रद्ये उदाहरति एकं राशिं पञ्चधा कुर्विति । द्वितीये तु अनेकमेकधा कुर्वित्युदाहार्यम् । इह राशिविषयक एव प्रकारो गम्यते नतु क्रियाप्रकार इति सूत्रारम्भः । एकाद्धो ध्य मुञन्यतरस्याम् । उत्तरतः । अधः । अधस्तात् । उत्तरात् । अधरात् । दक्षिणात् । संख्याया विधार्थे धा । विधाशब्दस्यार्थो विधार्थः । यद्यप्योदनपिण्डोऽपि विधाशब्देनोच्यते, तथापीह न गृह्यते । तेन एकगोविधेत्यादौ न भवति । इह हि 'विधाय म्' इति वक्तव्ये अर्थग्रहणस्य प्रयोजनं विधाशब्दो यत्रार्थे प्रसिद्धस्तत्रैव यथा स्यात् । तादृशश्चार्थः प्रकार एव, स च क्रियाविषयक एव गृह्यते अभिधानस्वभावात्तदाह क्रियाप्रकारे वर्तमानादिति । कथं तर्हि 'नवधा द्रव्यम्, बहुधा गुणः' इत्यादि । अत्रापि ह्यश्रुता क्रिया प्रतीयते ' उपदिश्यते इति वा, भवति इति वा' हरदत्तः । अधिकरणविचाले च । अधिकरणं द्रव्यम्, विचलनं विचालोऽन्यथाकरम् । णिजन्तादेरच् । तच्चेह् संख्यासंनिधानात्संख्यान्तरापादनमिति व्याचष्टे द्रव्यस्येत्यादिना । संख्यान्तरापादनं हि एकस्यानेकीकरणम्, अनेकस्य च एकीकरणम । तत्राचे उदाहरणम् एकं राशिं पञ्चधेति । पञ्च राशीन् कुर्वित्यर्थः । द्वितीये तु नेकम् एकधा कुर्वित्य 1 Page #604 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०१ (५-३-४४) एकध्यम् , एकधा । १६६१ द्वियोश्च धमुन् । (५-३-४५) प्राभ्यां 'धा' इत्यस्य धमुन्याद्वा । द्वैधम् , द्विधा । त्रैधम् , त्रिधा। 'धमुजन्तास्वार्थे डदर्शनम्' ( वा ३२३० ) पथि द्वैधानि । १९६२ एधाच्च । (५-३-४६) द्वेधा । त्रेधा । १६६३ याप्ये पाशप् । (५-३-४७) कुत्सितो भिषग् भिपक्पाशः । १९६४ पूरणाद्भागे तीयादन् । (५-३-४८) द्वितीयो भागो 'एकात्' 'धः' इति छेदः । धाशब्दस्य 'धः' इति षष्ठयेकवचनम् । एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुआदेशः स्यादित्यर्थः । ऐकध्यमिति । नच एकशब्दाद् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयताम् । न तु धाप्रत्ययस्यादेश इति वाच्यम्, तथा सति अधिकरणविचाल एव संनिहितत्वादापत्तेः। द्विव्योश्च धमुञ् । षष्ठी पञ्चम्यर्थे । 'ध' इति 'अन्यतरस्याम्' इति चानुवर्तते । तदाह आभ्यामिति । परस्येति शेषः। धमुञन्तादिति। वार्तिकमिदम् । दृशिग्रहणात् क्वचिदेवायम् । पथि द्वैधानीति। तृणानीति शेषः । द्वैधमित्यस्माद् डप्रत्यये टिलोपे रूपम् । नच 'तसिलादयः प्राक् पाशपः' इति डप्रत्ययान्तस्याप्यव्ययत्वं शङ्कशम्, स्वभावतः सत्त्ववचनत्वेनाव्ययत्वासंभवाद् 'द्वैधानि' इति भाष्यप्रयोगाच्च । एघाच्च । द्वित्रिभ्यां परस्य धाप्रत्ययस्य एधाजित्यादेशः स्यादित्यर्थः । 'पञ्चम्यास्तसिल्' इत्यारभ्य 'एधाच' इत्यन्तैर्विहितप्रत्ययान्तानामव्ययत्वम् । याप्ये पाशप् । याप्यः कुत्सितः 'निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः' इत्यमरः । कुत्सिते विद्यमानात् स्वार्थे पाशप् स्यादित्यर्थः । प्रवृत्तिनिमित्त कुत्सायामिदम् । अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये स्पष्टम् । पूरणाद्भागे। पूरणार्थकतीयप्रत्ययान्ताद् भागे विद्यमानात्स्वार्थे दाहर्तव्यम् । इह क्रियाविषयकप्रकारो न गम्यत इति सूत्रारम्भः। एकाद्धो । शब्दप्रधानत्वात्सर्वनामकार्याभावः। इह प्रकरणादेव सिद्धे पुनर्धाग्रहणं विधार्थे विहितस्यापि यथा स्यात् । 'अनन्तरस्य-' इति न्यायेनाधिकरणविचाले विहितस्यैव हि प्राप्नोतीति वृत्तिपदमजोः स्पष्टम् । एतेन खतन्त्र एव ध्यमुञ् प्रत्ययोऽस्त्वित्याशङ्का परास्ता । ऐकध्यमिति । विधार्थे ऐकध्यं भुङ्क्ते । अधिकरणविचाले तु ऐकध्यं राशिं कुर्वि. त्यादि ज्ञेयम् । एवमग्रेऽपि द्वैधमित्यादौ योज्यम् । एधाश्च । द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाच् स्यात् । योगविभागो यथासंख्यनिरासार्थः । याप्ये पाशप् । 'कुत्सिते' इत्यत्रैव नायं विहितः, तिङन्तादपि प्रसङ्गात् । पूरणाद्भागे । पूरणार्थत्वात्तीयप्रत्ययः पूरणशब्देनोक्तः । पूरणग्रहणं चोत्तरार्थम् । न ह्यपूरणस्तीयप्रत्ययो भवति । मुखतीयः पार्श्वतीय इत्यत्र त्वनर्थकत्वान्नातिप्रसङ्गः । भाग इति पुंस्त्वं विवक्षितम् । तेन समानेऽप्यर्थे विभक्तो विवक्षितायां चतुर्थी पञ्चमीत्येव भवति । Page #605 -------------------------------------------------------------------------- ________________ ६०२ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयद्वितीयः। तृतीयः । स्वरे विशेषः । 'तीयादीकस्वार्थे वा वाच्यः' (वा २६६१)। द्वैतीयीकः, द्वितीयः । तार्तीयीकः, तृतीयः । 'न विद्यायाः' (वा २६६२)। द्वितीया, तृतीया विद्येत्येव । १६६५ प्रागेकादशभ्योऽच्छन्दसि। (५-३-४१) पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । पञ्चमः । १६६६ षष्ठाष्टमाभ्यां अ च । (५-३-५०) चादन् । षष्ठो भागः षाष्ठः, षष्ठः। श्राष्टमः, अष्टमः। १९६७ मानपश्वङ्गयोः कन्लुको च। (५-३-५१) षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुको स्तो माने पश्चङ्गे च वाच्ये । षष्ठको भागो मानं चेत् । अष्टमो भागः पश्चङ्गं चेत् । अस्यानो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः, षाष्ठः । अष्टमः, श्राष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र मानौ नित्याविति ज्ञापयति । १६६८ एकादाकिनिच्चासहाये । (५-३-५२) चात्कन्लुको । एकाकी, अन् स्यादित्यर्थः । अन्विधेः प्रयोजनमाह स्वरे विशेष इति । नित्यादिनित्यम्' इति स्वरे इत्यर्थः । तीयादीकगिति । वार्तिकमिदम् 'दृष्टं साम' इति सूत्रभाष्ये स्थितम् । न विद्याया इति । वार्तिकमिदमपि तत्रैव स्थितम् । विद्यावृत्तेः तीयप्रत्ययान्तादीका नेत्यर्थः । प्रागेकादशभ्यः। शेषपूरणेन सूत्रं व्याचष्टे पूरणप्रत्ययान्ताद् भागे अनिति । द्वितीयतृतीयशब्दाभ्यो पूर्वसूत्रेण सिद्धत्वाच्चतुर्थादिदशमशब्दपर्यन्तविषयकमिदमित्यभिप्रेत्योदाहरति चतुर्थ इति । नचानेनैव सिद्धत्वात्पूर्वसूत्रं किमर्थमिति शङ्कयम्, तस्य छन्दस्यपि प्रवृत्त्यर्थत्वात् । षष्ठाटमाभ्यां अ च । पूर्वसूत्रविषये इति शेषः । 'अ' इति लुप्तप्रथमाकम् । ॐ आदिवृद्धिः । चादनिति । इह न यथासंख्यम्, व्याख्यानात् । मानपश्वङ्गयोः । अस्य अनो वेति । अष्टमशब्दात्पूर्वसूत्रविहितस्य अप्रत्ययस्य अन्प्रत्र यस्य च अनेन लुगित्यर्थः । चकाराद्यथाप्राप्तमिति । प्रत्ययः अन्प्रत्ययश्चेत्यर्थः । ननु समर्थानाम्-' इत्यतो वाग्रहणानुवृत्त्यैव जानोरभावे सति पश्वङ्गे अष्टमो भाग इत्यस्य सिद्धेरिह लुम्विधानं व्यर्थमित्याशङ्कयाह महाविभाषयेति। पूर्वत्रेति । 'षष्टाष्टमाभ्यां अच' इति सूत्रे इत्यर्थः । एवं षष्ठाष्टमाभ्यां शब्दाभ्यां जानोरिह नित्यं प्राप्तयोः कदाचिल्लुग्विधिरर्थवानित्यर्थः । एकादाकिनिच्चासहाये । असहायवाचक देकशब्दात्स्वार्थे 'प्रागेकादशभ्यः' इत्यनि सति तु टापि चतुर्था पञ्चमेति प्रसज्येत। एकादाकिनिश्च । असहायवाचिन एकशब्दादाकिनिच् स्यात् । कन्लुकाविति । आकिनिचः कनो वा पक्षे लुक् । तयोरेवानेन सूत्रेण विधानात् । असहायग्रहणं संख्याशब्दनिरासार्थम् । अन्यथा प्रसिद्धत्वात्संख्याप्रकरणाच तस्यैव ग्रहणं स्यात् । इष्टापत्तौ तु द्वित्वे बहुत्वे च न स्यादेकाकिनौ एकाकिन इति। न हि द्वयोबेहुषु वा एकत्वसंख्यास्ति । असहायत्वं Page #606 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमात्तत्त्वबोधिनीसहिता। [६०३ एककः, एकः । १६६६ भूतपूर्वे चरट् । (५-३-५३) आढ्यो भूतपूर्व पाढयचरः । २००० षष्ठया रूप्य च । (५-३-५४) षष्ट्यन्तादतपूर्वेऽर्थे रूप्यः स्थाचरट् च । कृष्णस्य भूतपूर्वो गौः कृष्णरूप्यः, कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वाश पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः। २००१ अति. शायने तमविष्ठनौ । (५-३-५५) अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ प्राकिनिष्प्रत्ययः स्यादित्यर्थः। भूतपूर्वे चरद् । भूतपूर्व वर्तमानात्प्रातिपदिकात् स्वार्थे चरट् स्यादित्यर्थः । षष्ठ्या रूप्य च । रूप्येति लुप्तप्रथमाकम् । 'भूतपूर्वे' इत्यनुवर्तते । षष्ठयन्ताद् भूतपूर्वेऽर्थ इति । भूतपूर्वेऽर्थे विद्यमानात् षष्ठयन्तादित्यन्वयः । 'भूतपूर्वे' इत्यनुवृत्तं हि श्रुतत्वात् षष्ठ्या विशेषणम् । भूतपूर्वे सम्बन्धे या षष्ठी तदन्तात्स्वार्थे रूप्यः स्यादिति फलति । यथाश्रुते तु स्वार्थिकप्रकरणविरोधः। कृष्णरूप्य इति । भूतपूर्वगत्या कृष्णसम्बन्धी गौरित्यर्थः । शुभ्रारूप्यशब्दे 'तसिलादिषु-' इति पुंवत्त्वमाशङ्कय 'तसिलादयः प्राक् पाशपः' इत्यादिवार्तिकपरिगणितेषु रूप्यस्यानन्तर्भावात्तस्मिन्परे पुंवत्त्वं नेत्याह तसिलादिष्वित्यादि । शुभ्राया भूतपूर्व इति । गौरिति शेषः। शुभ्रारूप्य इति । भूतपूर्वगत्या शुभ्रासंबन्धी गौरित्यर्थः । अतिशायने । अतिपूर्वकः शीधातुरुपसर्गवशादुत्कर्षे वर्तते। उत्कर्षश्वाधिक्यफलको न्यकारः, नत्वाधिक्यमात्रम्, तथा सति अकर्मकत्वापातात् । न चेष्टापत्तिः, तथा सति 'शुक्लमतिशेते शुक्लतरः, कृष्णमतिशेते कृष्णतरः' इत्यादि. भाष्यविरोधात् । 'अतिशयिता अतिशायिनः, बाहुलकः कर्तरि ल्युट्' इति भाष्यम् । तु परस्परातिरिक्तसहायाभावेन द्वयोर्बहुनामपि भवति । इह 'अकिनिच्' एवायं वक्तव्यः, सवर्णदीर्पण सिद्धमिष्टम् । 'यस्येति च' इति लोपश्चाकारोच्चारणसामर्थ्यान भवतीत्यादि हरदत्तग्रन्थे स्थितम् । भूतपूर्वे । अत्र वर्तमानाच्चरट् स्यात् । 'गोष्ठात् खञ्-' इत्यत्रैव नोक्तम् । विशेषविहितेन खना चरटो बाधा मा भूदिति । संनिधौ हि सामान्यविशेषभावः स्फुटीभविष्यति । यद्यपि दूरस्थस्यापि बाधो न्याय्य एव तथापीह गौरवं स्वीकृत्य दूरे पाठसामर्थ्याद्वाधो नेति भावः । षष्ठया रूप्य च । भूतपूर्व इत्यनुवर्तते । तच्च यद्यपि पूर्वत्र व्याप्प्रातिपदिकस्य विशेषणम् , तथापीह न तथा, षष्ठयन्तार्थस्य विशेषणत्वात् , तदाक्षिप्तस्य सम्बन्धिनो गवादेः प्रधानत्वात् , प्रधानेतरसंनिधौ च प्रधाने कार्यसंप्रत्ययस्य न्याय्यत्वात्तदेतदाह भूतपूर्वेऽर्थे रूप्यः स्यादिति । अतिशायने । अतिपूर्वाच्छेतर्युट् । अतिशयनमेवातिशायनम् । अस्मदेव निपातनादीर्घः । न तु सौत्रः । तेन लोकेऽपि दीर्घः साधुः। अबाधकान्यपि निपातनानि भवन्ति । तेन ह्रखोऽपि साधुः । यद्यपि केवलः शेतिः स्वप्ने वर्तते तथाप्यतिपूर्वः प्रकर्षे । प्रकर्षश्चात्र Page #607 -------------------------------------------------------------------------- ________________ ६०४ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयस्तः । अयमेषामतिशयेनाढ्य माढयतमः । लघुतमो लधिष्ठः । २००२ तिङश्च । (५-३-५६ ) तिङन्तादतिशये द्योत्ये तमप्स्यात् । २००३ तरप्तमपौ घः । अत एव निपातनाद्दीघः । अतिशायने इति प्रकृत्यर्थविशेषणम् । अतिशयितरि 'विद्यमानात् प्रातिपदिकात् स्वार्थे तमप् इष्ठन् च स्यादित्यर्थः । फलितमाह अतिशयविशिष्टार्थवृत्तेरिति । यदि तु अतिशायनशब्दस्य भावल्युडन्तत्वं तर्हि प्रत्ययार्थस्य प्राधान्यापत्तौ शुक्लतरादिशब्दात् शुक्लादिगतमतिशयनमिति बोधः स्यात् । नत्वतिशयितशुक्ल इति । तथा च शुक्लतरः शुक्लतरेति पुंस्त्वं स्त्रीत्वं च न स्यात् । अतिशायने वर्तमानादित्यर्थे तु अतिशयप्रकर्षादिशब्देभ्य एव स्यात्, नतु पटवादिभ्यः। अतिशयविशिष्टे लक्षणया विद्यमानादित्यर्थे अतिशय्यमानादपि प्रत्ययापत्तिः। अतिशयनकर्तरि लक्षणायां तु भाष्योक्तमेव साधु इत्यास्तां तावत् । अयमेषामिति । द्वयोरेकस्य निर्धारणे तरबीयसुनावपवादौ वक्ष्येते । अतः परिशेषाद्बहूनामेकस्य निर्धारणे अस्य तमपः प्रवृत्तिरिति भावः । अतिशयेनाढय इति । द्रव्यस्य जातेर्वा स्वतः प्रकर्षयोगो नास्ति, अन्यथा घटतम इत्याद्यापत्तेः । किंतु गुणद्वारैव द्रव्यजात्योः प्रकर्षयोगः । तथा च आढयतम इत्यत्र उत्कर्षविशिष्ट आढयः प्रकृत्यर्थः । तमस्तु तद्दयोतकः । तमपि सति 'सुपो धातु-' इति सुपो लुक्, 'घकालतनेषु-' इति योगेन सुबन्तादेव तद्धितोत्पत्तेरुक्तत्वात् । अत्र आतिशायनिकप्रत्ययान्तादातिशायनिकप्रत्ययोऽनभिधानान्न भवति । 'श्रेष्टतमाय कर्मणे' इति तु छान्दसमिति भाष्ये स्पष्टम् । लघिष्ठ इति । लघुशब्दादिष्टनि ओर्गुणे प्राप्ते 'इष्ठेमेयस्सु' इत्यनुवृत्तौ 'टेः' इति टिलोपः। तिङश्च । अत्रापातिपदिकत्वादप्राप्ते नाधिक्यम् , किं त्वभिभवः । 'पूर्वान्महाभागतयातिशेषे' इति प्रयोगदर्शनात् । न चैवं 'प्रकर्षे तमबिष्ठनौ' इत्येव कुतो न सूत्रितमिति शङ्कयम् । अतिशायनमिति निपातनार्थमेव तथोक्तत्वाद् अतिशयो न प्रत्यथार्थः। तथा हि सति लघोरतिशायनं लघुतममिति स्यात् । प्रत्ययार्थस्य प्राधान्यात् । नापि प्रकृत्यर्थः । तथा हि सति प्रकर्षातिशयातिशयनादिभ्य एव स्यात्, न त्वाट्यादिभ्यः। किं तु प्रकृत्यर्थविशेषणम् । प्रत्ययस्तु द्योतकस्तदेतदाह अतिशयविशिष्टेत्यादि । अयमेषामिति । व्यवयवे समुदाये यदा एकस्यातिशयो विवक्ष्यते, तदा तरबीयसुनावपवादौ वक्ष्येते । तथा च परिशेषादहूनां मध्ये यदा एकदेशस्य निर्धारणं सोऽस्य विषय इति भावः । आढयतम इति । सुबन्तात्तमप् । 'सुपो धातु-' इति लुक् । यद्यपि 'ठ्या प्रातिपदिकात्' इत्येवानुवर्तते, तथापि सुबन्तपरतयैव व्याख्येयम् । अन्यथा हि पूर्वाह्नेतरां पूर्वाह्नेतमामित्यादौ 'घकालतनेषु कालनाम्नः' इति सप्तम्या अलुग्विधानं कथमुपपद्यताम् । तिङश्च । Page #608 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०५ (१-१-२२) एतौ घसंज्ञौ स्तः । २००४ किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे (५-४-११) किम एदन्तात्तिकोऽव्ययाच यो घस्वदन्तादामुः स्थान तु द्रव्यप्रकर्षे । किंतमाम् । प्राद्धेतमाम् । पचतितमाम् । उस्तमाम् । द्रव्यप्रकर्षे वचनम् । तमप् स्यादिति । 'अजादी गुणवचनादेव' इति नियमादिष्ठन्नानुवर्तत इति भावः । तरप्तमपी घः। प्रथमस्य प्रथमपादे सूत्रमिदम् । आतिशायनिकप्रत्यय. प्रकरणान्ते, 'पितौ घः' 'तादी घः' इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति । तस्य आतिशायनिकप्रकरणबहिर्भूतस्य सत्त्वे तत्संग्रहणार्थ प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः । तेन 'अल्पाच्तरम्' 'लोपश्च बलवत्तरः' इत्यादि सिद्धम् । किमेत्तिङव्यय । 'श्रामु' इति छदः । उकार उच्चारणार्थः । किम्, एत्, तिङ्, अव्यय एषां चतुर्णा द्वन्द्वः । किमेत्ति व्ययप्रकृतिको घः' इति मध्यमपदलोपी समासः। फलितमाह किम एदन्तादित्यादिना । एभ्य इत्यर्थः । किंतमामिति । अत्यन्तस्वार्थिकोऽयं तमप् , नत्वतिशायने । एषामतिशयेनाढय इतिवदेषामतिशयेन क इति विग्रहस्यासंभवात् । जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथकरणं हि निर्धारणम् । किं. शब्दश्च न जात्याद्यन्यतमप्रवृत्तिनिमित्तकः । एवं चात्रातिशयस्याप्रतीतेव्यप्रकर्षो दूरापास्त इति भावः । प्राहृतमामिति । प्राह्नः पूर्वाह्नः । 'प्राह्णापराह्नमध्याहाः त्रिसन्ध्यम्' इत्यमरः। अतिशयिते पूर्वाह्ने इत्यर्थः । पूर्वावयवगतप्रकर्षा दह्नः प्रकर्षो बोध्यः। अत्र अहर्न द्रव्यम् । सूर्योदयादारभ्य सूर्यास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात् । तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः। पचतितमामिति । अतिशयिता पाकक्रियेत्यर्थः । तिङन्तेषु क्रियाविशेष्यकबोधस्यैव 'प्रशंसायां रूपप्' इति सूत्रभाष्ये प्रपञ्चितत्वात् । अतोऽत्र क्रियाया एव प्रकर्षो नतु द्रव्यस्येति भावः। उच्चैस्तमामिति । आशंसतीत्यध्याहार्यम् । अतिशयेन उच्चैराशंसनादिक्रियेत्यर्थः। अत्रापि क्रियाया एव प्रकर्षों न अस्मादिष्ठन्न भवति, 'अजादी गुणवचनादेव' इति नियमादित्याशयेनाह तमप्स्यादिति । तरप्तमपौ घः । अस्मिन्नेवातिशायनिकप्रकरणे 'तादौ घः' "पिती घः' इति वा वक्तव्ये प्रकरणान्तरे गुरुसूत्रकरणमत्यन्तखार्थिकमपि तरपं ज्ञापयति । तेन 'अल्पाचतरम्', 'लोपश्च बलवत्तरः' इत्यादि सिद्धम् । अल्पाजेव ह्यल्पान्तरम् । न त्वत्र द्वयोरेकस्यातिशयविवक्षायां तरप् । अन्यथा 'शिवकेशवौ' इत्यादिसिद्धावपि 'शङ्खदुन्दुभिवीणाः' इत्यादि न सिध्येदित्याहुः । किमेत् । आमोरुकारो यदि त्यज्येत, तर्हि पचतितरामित्यादौ 'हखनद्यापः-' इति नुटि पचतितराणामिति स्यात् । 'यस्येति च' Page #609 -------------------------------------------------------------------------- ________________ ६०६ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयतु उच्चस्तमस्तरः । २००५ द्विवचनविभज्योपपदे तरबीयसुनौ । (५-३-५७) द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादतौ स्तः । तु द्रव्यस्य । उच्चैस्तमस्तरुरिति । अतिशयेन उच्चस्तरुरित्यर्थः । अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाम् नेत्यर्थः। किंतमामित्यादौ 'यस्येति च' इति लोपं परत्वाद् बाधित्वा ह्रस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम् । सति तु तस्मिन् 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि 'आमि सर्वनाम्नः-' इति सूत्रभाष्ये प्रपञ्चितम् । द्विवचन । उच्यतेऽनेनेति वचनम् । द्वयोरर्थयोर्वचनं द्विवचनम् । द्यर्थप्रतिपादकमिति यावत् । न द्विवचनसंज्ञकमिह गृह्यते व्याख्यानात् । विभक्तव्यं विभज्यम् । 'ऋहलो:-' इति ण्यतं बाधित्वा निपातनाद्यत् । द्विवचनं च विभज्यं चेति समाहारद्वन्द्वः। द्विवचनविभज्यं च तदुपपदं चेति कर्मधारयः। द्यर्थप्रतिपादके विभक्तव्यविषयके च उपपदे सतीति फलितम् । 'प्रातिपदिकात्' इति 'तिङ' इति चानुवर्तते । सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात्सुबन्तत्वं प्रातिपदिकविशेषणं लभ्यते। फलितमाह द्वयोरेकस्येत्यादिना। लोपस्य परेण नुटा बाधात् । सिद्धान्ते तु 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया नुविधौ नास्य ग्रहणम् । द्विवचनविभज्योपपदे । द्वयोरर्थयोर्वचनं द्विवचनम् । करणे ल्युट । कर्मणि षष्ठया समासः । येन पदेन द्वावर्थावुच्येते तद्द्विवचनम् । विभक्तव्यं विभज्यम् । 'ऋहलोः-' इति एयति प्राप्ते तदपवादो यत् निपात्यते । एयति तु 'चजोः-' इति कुत्वेन विभाग्यमिति स्यात् । विभाज्यशब्दस्य स्मृतिषु प्रयुक्तस्य साधुत्वं चिन्त्यमिति हरदत्तोनिश्चिन्त्या । ण्यन्ताद् 'अचो यत्' इति विभाज्यमिति रूपसिद्धेः । न चात्रार्थभेदः शङ्कयः, 'निवृत्तप्रेषणाद् धातोः प्राकृतेऽर्थे णिच्' इति 'णेरणौ-' इति सूत्रे व्युत्पादनादिति दिक् । द्विवचनं च विभज्यं चेति द्वन्द्वः । तस्य उपपदेन कर्मधारयः । तथा च द्यर्थवाचके विभजनीये चोपपदे सतीत्यक्षरार्थः । द्विवचनान्ते उपपदे इति व्याख्यायां तु दन्तोष्टस्य दन्ताः स्निग्धतरा इत्यादि न सिध्यति । ननु द्वयोर्वचनं द्विवचनमिति पक्षेऽपि नेदं सिध्यति समाहार. स्यैकत्वाद् गुणभूतवर्तिपदार्थाश्रयणे तु द्वात्रिंशद्दन्ताः द्वावोष्ठाविति तेषां बहुत्वात्सुतरां न सिध्येदिति चेत् । अत्राहुः वृत्तावभेदैकत्वसंख्यामुपाददति वर्तिपदानि । ततश्च भेदस्य परित्यागादभेदैकत्वसंख्यायाश्चोपादानाद्दन्तोष्ठलक्षणार्थद्वयं दन्तोष्टशब्देनोच्यत इति नास्ति 'द्वयोर्वचनं द्विवचनमित्येतदर्थकद्विवचनोपपदे' इति पक्षे दोष इति । विस्तरस्त्वाकरग्रन्थेभ्योऽवगन्तव्यः । अन्वर्थ चोपपदम् उपोच्चारितं पदमिति, न तु कृत्रिमम् , तद्धितविधौ तस्यासंभवात् । तच्च विग्रहवाक्य एव प्रयुज्यते । वृत्तौ तु Page #610 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०७ पूर्वयोरपवादः । अयमनयोरतिशयेन लघुः लघुतरः, लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः, पटीयांसः।२००६ अजादी गुणवचनादेव । (५-३-५८) इष्टनीयसुनौ गुणवचनादेव स्तः । प्रथिष्ठः, प्रथीयान् । नेह-पाचकतरः, पाचकतमः । २००७ तुश्छन्दसि । (५-३-५६) तृन्तृजन्तादिष्ठन्नीयसुनौ द्वयोर्मध्ये अन्यतरापेक्षया अतिशयविशिष्टस्वार्थवृत्तेः विभागप्रयोजकीभूतधर्मवाचकाच्च शब्दात्स्वार्थे तरबीयसुनौ स्त इति यावत् । यद्यप्यत्र द्वे सुबन्ततिबन्ते प्रकृती, द्वौ च प्रत्ययौ, तथापि न यथासंख्यम् , व्याख्यानात् । अथ द्विवचनोपपदे उदाहरति अयमनयोरिति । अत्र उपोच्चारितं पदम् उपपदम् , नतु कृत्रिमम् , तद्धितविधौ तदसंभवाद् धात्वधिकार एव तत्प्रवृत्तेरुतत्वात् । तच्चोपपदं विग्रहवाक्येऽवश्यं प्रयुज्यते । तद्धितवृत्तौ तु गतार्थत्वान्नावश्यकम् । लघीयानिति । ईयसुनि नकार इत् , उकार उच्चारणार्थः, उगित्त्वान्नुम् , 'सान्त-' इति दीर्घः, हल्ङयादिसंयोगान्तलोपौ । अथ विभज्योपपदे उदाहरति । उदीच्याः प्राच्येभ्य इति । 'पञ्चमी विभक्ते' इति पञ्चमी । द्विवचनसंज्ञकग्रहणे तु 'दन्ताः स्निग्धतराः' इति न सिध्येत् । 'बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठः, अयं मे मध्यमः, अयं मे कनीयान्' इति 'अाद्यन्तवत्-' सूत्रस्थभाष्यप्रयोगाद् 'नर्देशिकानां वार्ततरका' इति 'तस्मिन्' इति सूत्रभाष्यप्रयोगाच्च अद्वयर्थोपपदेऽपि तरबीयसुनावित्याहुः । अजादी। तरप्तमपौ इष्टनीयसुनौ चेति चत्वारः प्रत्यया अनुक्रान्ताः। तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः । तदाह इष्ठन्नीयसुनाविति । पाचकतरः, पाचकतम इति । क्रियाशब्दत्वादाभ्यामिष्ठन्नीयसुनौ नेति भावः । गुणवचनादजादी एवेति विपरीतनियमव्यावृत्यर्थः एवकारः । तेन पटुतरः पटुतम इत्यादि सिद्धम् । तुश्छन्दसि । तृ इत्यस्य तुरिति गतार्थत्वान्नावश्यकम् । एवं स्थिते उपपदग्रहणं स्पष्टार्थम् । इह द्वे उपपदे द्वे च सुबन्ततिङन्तरूपे प्रकृती द्वौ च प्रत्ययौ तथापि यथासंख्यं नेष्यते । द्विवचनोपपदमुदाहरति अनयोरिति । लघीयानिति । 'टेः' इति लोपः। उगित्त्वान्नुम् । 'सान्तमहतः-' इते दीर्घः । हल्ङयादिसंयोगान्तलोपौ । विभज्योपपदमुदाहरति प्राच्येभ्य इति । 'पञ्चमी विभक्ते' इति पञ्चमी । कथं तर्हि 'परुद्भवान् पटुरासीत् , ऐषमस्तु पटुतरः' इति । अत्राहुः-एकस्यापि धर्मिणस्तत्कालस्थत्वादिरूपधर्मभेदेन भेदाध्यारोपात्प्रतियोग्यपेक्षस्तत्कालस्थप्रकर्षस्तदाश्रयश्चेह तरप्प्रत्यय इति । व्यपदिशन्ति च-'अन्य एवासि संवृत्तः', 'कच्चित्स एवासि धनंजयस्त्वम्' इति । अजादी गुणवचनादेव । इष्टतोऽवधारणार्थ एवकारः। तेन प्रत्ययनियमोऽयम् । एवकाराभावे तु गुणवचनादजादिप्रत्ययावेवेति प्रकृतिनियमोऽपि संभाव्येत । तथा च पटुतरः, Page #611 -------------------------------------------------------------------------- ________________ ६०८ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीय स्तः । २००८ तुरिष्ठेमेयःसु । (६-४-१५४ ) तृशब्दस्य लोपः स्याद् एषु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः । २००६ प्रशस्यस्य श्रः। (५-३-६०) अस्य श्रादेशः स्यादजायोः । २०१० प्रकृत्यैकाच । (६-४-१६३) इष्टादिष्वेकाच्प्रकृत्या स्यात् । श्रेष्ठः, श्रेयान् । २०११ ज्य च । (५-३-६१) पञ्चम्येकवचनम् । तृ इत्यनेन तृन्तृचोः सामान्येन ग्रहणम् । प्रत्ययत्वात्तदन्तग्रहणम् । अजादी इत्यनुवर्तते । तदाह तृन्तुजन्तादिति । अगुणवचनादपि तृप्रत्ययान्तात् प्राप्त्यर्थमारम्भः । एवं च पूर्वेण नियमेन व्यावर्तितयोः प्रतिप्रसवोऽयं नत्वपूर्वो विधिरिति सूचयितुं छान्दसमप्यत्रोपन्यस्तम् । तथा च अगुणवचनादपि कर्तृशब्दा. दिष्ठन्प्रत्यये कर्तृ इष्ठ इति स्थिते 'इष्ठेमेयस्सु' इति विहिते टिलोपे प्राप्त । तरिष्ठेमेयःसु । तृ इत्यस्य तुरिति षष्ठ्येकवचनम् । एष्विति । इछन् , इमन्, ईयस् इत्येतेग्वित्यर्थः । अयं लोपः सामर्थ्यात्सर्वादेशः, अन्त्यस्य ऋकारस्य 'टेः' इत्येव सिद्धेः । करिष्ठ इति । अयमनयोरतिशयेन कर्तेत्यर्थः । दोहीयसीधेनुरिति । इयमनयोरतिशयेन दोग्ध्रीत्यर्थः । इष्ठनि 'भस्याढे-' इति पुंवत्त्वे डीपो निवृत्तौ तृप्रत्ययस्य लोपे परनिमित्ताभावाद् ‘दादेः-' इति घत्वस्य निवृत्तौ उगित्त्वाद् डीपि दोहीय. सीति रूपम् । 'पुगन्त-' इति गुणस्तु न निवर्तते । लुप्तेऽपि तृचि प्रत्ययलक्षणेन तत्सत्त्वात् । प्रशस्यस्य श्रः। अजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । 'अजादी' इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः। प्रशस्यशब्दस्य क्रियाशब्दतया गुणवचनत्वाभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र इष्ठ, श्र ईयस् इति स्थिते इष्ठेमेयःसु विहितटिलोपे प्राप्ते । प्रकृत्यैकाच । एकः अच् यस्येति बहुव्रीहिः । इष्ठादिष्विति । 'तुरिष्ठेमैयःसु' इत्यतः तदनुवृत्तेरिति भावः । 'अल्लोपोऽनः, पटुतम इत्यादि न सिध्येत् । तुश्छन्दसि । पूर्वेण नियमेन व्यावर्तितयोः प्रतिप्रसवोऽयम् , नत्वपूर्वो विधिः । तेन उपाधिसंकरो न । तुरिष्ठे । 'टेः' इत्यनेनान्यलोपे सिद्धेऽप्यारम्भसामर्थ्यात्सर्वस्य तृशब्दस्य लोपस्तदाह करिष्ठ इति । दोहीयसीति । इयमनयोरतिशयेन दोग्ध्री 'भस्याढे तद्धिते' सिद्धश्च प्रत्ययविधौ' इति वचनात् तद्धिते कर्तव्ये प्रागेव पुंवद्भाव इति डीपि निवृत्ते दोगशब्दात्प्रत्ययः, ततस्तुचि निवृत्ते निमित्ताभावाद् घत्वजश्त्वयोरपि निवृत्तिः । अलौकिकविग्रहवाक्ये प्रागेव तयोरप्रवृत्तिः। 'अकृतव्यूह-' परिभाषयेति तु तत्त्वम् । गुणस्तु प्रवर्तते। लुप्तेऽपि तृचि प्रत्ययलक्षणध्रौव्यात् । छान्दसमपि 'तुः- इति सूत्रम् , इति 'तुरिष्ठेमेयःसु' इति च 'णाविष्ठवत्' इत्यतिदेशेन लोकेऽपि करिमाचष्टे कारयतीत्यादावुपयोक्ष्यमाणत्वादिहोपन्यस्तम् । प्रशस्यस्य श्रः। 'अजादी' इत्यनुवृत्तं सप्तम्या विपरिणम्यत इत्याह Page #612 -------------------------------------------------------------------------- ________________ प्रकरणम् ४०] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०६ प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः । २०१२ ज्यादादीयसः । (६-४-१६०) 'प्रादेः परस्य' (सू ४४) ज्यायान् । २०१३ वृद्धस्य च। (५-३-६२) ज्यादेशः स्यादजाद्योः। ज्येष्ठः, ज्यायान् । २०१४ अन्तिकबाढयोर्नेदसाधौ। (५-६-६३) अजाद्योः । नेदिष्ठः, नेदीयान् । साधिष्ठः, साधीयान् । २०१५ स्थूलदरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः । (६-४-१५६ ) एषां यणादिपरं लुप्यते, पूर्वस्य च गुण इष्ठादिषु । नस्तद्धिते, यस्येति च, टेः' इत्यादेरेतत्प्रकरणस्थलोपस्यायं प्रकृतिभाव इति भाष्ये स्पष्टम् । श्रेष्ठः, श्रेयानिति । अयमनयोरतिशयेन प्रशस्य इत्यर्थः। ज्य च । 'ज्य' इति लुप्तप्रथमाकम् । 'प्रशस्यस्य' इति 'अजादी' इति चानुवर्तते । तदाह प्रशस्यस्येति । ज्येष्ठ इति । 'प्रकृत्यैकाच्' इति प्रकृतिभावान टिलोपः। ईयसुनि ज्यादेशे ज्येयानिति प्राप्ते । ज्यादादीयसः। ज्यात्, आत् इति छेदः । ज्यात् परस्य ईयस आकारः स्यादित्यर्थः । अन्तादेशत्वे प्राप्ते आह आदे परस्येति । वृद्धस्य च । शेषपूरणेन सूत्रं व्याचष्टे ज्यादेशः स्यादजाद्योरिति । इष्ठ. नीयसुनोरित्यर्थः । ज्येष्ठ इति । अयमनयोरतिशयेन वृद्ध इत्यर्थः। अन्तिकवाढयोः । अजाद्योरिति । शेषपूरणमिदम् । अन्तिक, बाढ अनयोः इष्ठेयसुनोः परतः नेद, साध एतावादेशौ स्त इत्यर्थः । नेदिष्ठः, नेदीयानिति । अयमनयोरतिशयेनान्तिक इत्यर्थः । साधिष्ठः, साधीयानिति । अयमनयोरतिशयने बाढ इत्यर्थः । बाढो भृशः । 'भृशप्रतिज्ञयोर्बाढम्' इत्यमरः । 'अतिवेलभृशात्यर्थीतिमात्रोद्गाढनिर्भरम्' इति च । स्थूलदूर । एषामिति । स्थूल, दूर, युवन्, ह्रख, क्षिप्र, क्षुद इत्येतेषामित्यर्थः । यणादीति । यण आदिर्यस्येति विग्रहः । परमिति यणादीत्यस्य विशेषणम्, परभूतं यणादीत्यर्थः। लुप्यत इति । 'अल्लोपोऽनः' इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घनन्तमाश्रीयत इत्यर्थः। भावसाधनत्वे परमित्यनेन सामानाधिकरण्यासंभवात् । पूर्वस्येति । पूर्वत्वं यणपेक्षया बोध्यम् । इष्टादिष्विति । अजाद्योरिति । अजाद्योः किम् , प्रशस्यतरः। प्रशस्यतमः । श्रेष्ठ इति । प्रकृतिभावादिह 'टेः' इति लोपो 'यस्येति-' लोपश्च न भवति । ज्यादात् । ज्यादुत्तरस्य ईयसुन आकारादेशः स्यात् । वृद्धस्य च । वरूपस्येह ग्रहणम् , न तु 'वृद्धिर्यस्याचामादिः-' इति पारिभाषिकस्य, व्याख्यानात् । अस्य 'प्रियस्थिर-' इत्यादिना वर्षादेशोऽपि पक्षे भवति । न च तस्येमनिचि सावकाशता शङ्कया, वृद्धशब्दादिमनिचोडभावात् । यदि तु 'वृद्धस्य वर्षिश्च' इतिसूत्रमिहैव क्रियेत, तदा द्विवृद्धग्रहणं न कर्तव्यमिति लाघवं भवतीत्याहुः । स्थूलदूर । परप्रहणं यविष्ठो हसिष्ठ इत्यत्र पूर्वयणा Page #613 -------------------------------------------------------------------------- ________________ ६१० ] सिद्धान्तकौमुदी । [तद्धितेषु प्रागिवीय. स्थविष्ठः । दविष्ठः । यविष्ठः । वसिष्ठः । चेपिष्ठः । क्षोदिष्ठः । एवम् ईस् । ह्रस्वतिप्रतुद्राणां पृथ्वादित्वात् हसिमा । क्षेपिमा । तोदिमा । २०१६ प्रियस्थिर स्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवहिगर्वत्राधिवृन्दाः । ( ६-४- १५७ ) प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । । 1 'तुरिष्ठेमेयस्सु' इत्यतस्तदनुवृत्तेरिति भावः । स्थविष्ठ इति । स्थूलशब्दादिष्ठनि ल इत्यस्य लोपे ऊकारस्य गुण श्रकारः, श्रवादेश इति भावः । ओर्गुणस्तु न प्रवर्तते, यणादिलोपस्याभीयत्वेनासिद्धत्वात् । एवमग्रेऽपि । दविष्ठ इति । दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे श्रवादेशः । यविष्ठ इति । युवन्शब्दादिष्ठनि वन्नित्यस्य लोपे ऊकारस्य गुणे श्रवादेशः । परमित्यनुक्तौ यु इत्यस्यापि यणादेर्लोपः स्यात् । ह्रसिष्ठ इति । ह्रस्वशब्दादिष्ठनि व इत्यस्य लोपः । परमित्यनुक्तौ अत्र रादेर्लोपः स्यात् । क्षेपिष्ठ इति । क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपे इकारस्य गुणः । ‘इको गुणवृद्धी' इत्युक्तेः न प्रकारस्य गुणः । क्षोदिष्ठ इति । क्षुदशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः । एवमीयस् इति । स्थवी - यानू, दवीयान् यवीयान्, हसीयान्, क्षेपीयान्, क्षोदीयान् । इमनिजनुवृत्तेः प्रयोजन - माह ह्रस्वक्षिप्रेति । प्रियस्थिर । प्रियादीनामिति । प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप, दीर्घ, वृन्दारक एषां दशानामित्यर्थः । प्रादय इति । प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि, त्र, द्राघि, वृन्द एते दशेत्यर्थः । इष्टादिष्विति । इष्ठेमेयस्स्वित्यर्थः। ‘तुरिष्ठेमेयःसु' इत्यतः तदनुवृत्तेरिति भावः । प्रेष्ठ इति । प्रियशब्दादिष्ठनि प्रकृतेः प्रादेशः । याभीयत्वेनासिद्धत्वादकारोच्चारणसामर्थ्याच्च न टिलोपः । श्रद्गुणः । स्थेष्ठ इति । स्थिरशब्दादिष्ठनि प्रकृतेः स्थादेशः । प्रकृतिभावान्न टिलोपः । स्फेष्ठ इति । स्फिरशब्दस्य इष्ठनि स्फादेशः । वरिष्ठ इति । उरुशब्दाद् इष्ठनि वर् आदेशः । बंहिष्ठ इति । बहुलशब्दस्य बंहि इत्यादेशः । इकार उच्चारणार्थः । अन्यथा अभीयत्वेनासिद्धत्वाद् उच्चारणानामर्थ्याद्वा इकारस्य लोपो न स्यात् । गरिष्ठ इति । गुरुशब्दस्य इष्ठनि गर् श्रादेशः । वर्षिष्ठ इति । वृद्धशब्दस्य इष्ठनि वर्षिरादेशः बंहिवदिकार उच्चारणार्थः । त्रपिष्ठ इति । तृप्रदेर्लोपो माभूदिति । पूर्वग्रहणं तु स्पष्टार्थम् । परस्मिन् लुप्ते सामर्थ्यात्पूर्वस्यैव गुणलाभात् । स्थविष्ठ इति । न चात्र 'ओर्गुणः' इत्येव सिद्धे गुणग्रहणं व्यर्थमिति वाच्यम् । परयणादिलोपस्याभीयत्वेनासिद्धत्वात् क्षिप्रक्षुद्रयोर्गुणस्य प्राप्यभावात्, क्षेपिष्ठः, क्षोदिष्ठ इत्यसिद्धिप्रसङ्गाच्च । एवमिति । प्रेयान्, स्थेयान् स्फेयान् " Page #614 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६११ द्राधिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रियोरुबहुलगुरुदीर्घायां पृथ्यादित्वात् प्रेमा इत्यादि । २०१७ बहोर्लोपो भू च बहोः । ( ६-४-१५८ ) बहोः परयोरिमेयसोर्लोपः स्याद्वहोश्च भूरादेशः । भूमा, भूयान् । २०१८ इष्ठस्य यिट् च । ( ६-४-१५९ ) बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च । भूयिष्ठः । २०१६ युवाल्पयोः कनन्यतरस्याम् । ( ५-३ - ६४ ) एतयोः कनादेशो वा स्यादिष्ठेयसोः । कनिष्ठः, कनीयान् । पक्षे यविष्ठः श्रल्पिष्ट इत्यादि । २०२० , शब्दस्य इष्ठनि त्रप् आदेशः अदुपधः । तृपधातोस्तृप्त्यर्थ का दौणादिके रकि तृप्रशब्दः । द्राघिष्ठ इति । दीर्घशब्दस्य इष्ठनि द्राधिरादेशः । बंहिवदिकार उच्चारणार्थः । वृन्दिष्ठ इति । वृन्दारकशब्दस्य इष्ठनि वृन्द आदेशः । प्रकार उच्चारणार्थः । एवमीयसुन्निति । प्रेयान्, स्थेयान् स्फेयान्, वरीयान् बंहीयान्, गरीयान्, वर्षीयान् त्रपीयान् द्राघीयान् वृन्दीयान् । अत्र इमनिजननुवृत्तेः प्रयोजनमाह प्रियोरुबहुलेति । इत्यादीति । वरिमा, बंहिमा, गरिमा, द्राघिमा । बहोर्लोपः । भू इति प्रथमाकम् । 'इष्ठेमेयस्सु' इत्यनुत्तम् । तत्र इष्ठन उत्तरसूत्रे कार्यान्तरविधानादिह तस्य न संबन्धः । तदाह बहोः परयोरिति । 'आदेः परस्य' इति प्रत्यययोरादिलोपः । भूमेति । बहुत्वमित्यर्थः । बहुशब्दात् पृथ्वादित्वादिमनिचि प्रकृतेर्भूभावः, प्रत्ययादेरिकारस्य लोपश्च । भूयानिति । श्रयमनयोरतिशयेन बहुरि त्यर्थः । वैपुल्यवाचकाद् बहुशब्दादीयसुनि प्रकृतेर्भूभावः, प्रत्ययादेरिकारस्य लोपश्च । भूभावस्याभीयत्वेनासिद्धत्वादोर्गुणो न भवति । इष्ठस्य यिट् च । लोपः स्यादिति । 'आदेः परस्य ' इति बोध्यम् । यिटि टकार इत् । इष्ठस्यादिलोपे कृते यिडागमः । ट इत् । दित्त्वात् प्रत्ययस्याद्यवयवः । बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव । यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम् । युवाल्पयोः । इष्ठेयसोरिति । अजादी इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । कनिष्ठः, कनीयानिति । श्रयमनयोरतिशयेन युवा अल्पो वेत्यर्थः । पक्षे यविष्ठ इति । युवन्शब्दादिष्ठनि 'स्थूलदूर - ' इति वनो लोपे उकारस्य गुणे श्रवादेशे रूपम् । अल्पिष्ठ इति । श्रल्पवरीयानित्यादि । इमेयसोर्लोप इति । स च 'प्रादेः परस्य' इत्यादेरेव भवति । इष्टस्य यिट् च । पूर्वसूत्रं संपूर्णमनुवर्तते तदाह बहोरित्यादि । भूरादेशश्चेत्यपि ज्ञातव्यम् । भूयिष्ठ इति । अत्र इष्ठस्यादिलोपे कृते यिशब्दे श्रागमः । यद्वा लोपापवादो यकार आगमः, इकारस्तूच्चारणार्थः । पक्षद्वयमपीदं भाष्यारूढम् । युवाल्पयोः । युवेति स्वरूपग्रहणम्, न तु युवापत्यस्य अल्पसाहचर्या द्वियाख्यानाच्च । 'अजादी' इत्यनुवर्तनादजाद्योरेव पूर्वयोर्न तु तरप्तमपौरित्याशयेन व्याचष्टे इष्ठेय Page #615 -------------------------------------------------------------------------- ________________ ६१२ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीय विन्मतोलुक् । (५-३-६५ ) विनो मतुपश्च लुक्स्यादिष्ठेयसोः । अतिशयेन स्रग्वी नजिष्ठः, स्त्रजीयान् । अतिशयेन त्वग्वान् स्वचिष्ठः, स्वचीयान् । २०२१ प्रशंसायां रूपप् । (५-३-६६) सुबन्तात्तिङन्ताश्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् । २०२२ ईषदसमाप्ती कल्पब्देश्यदेशीयरः । (५-३-६७) ईषदूनो विद्वान्विद्वत्कल्पः । यशस्कल्पम् । यजुष्कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् । २०२३ विभाषा सुपो बहुच्पुरशब्दादिष्ठनि टिलोपः । इत्यादीति। यवीयान् , अल्पीयानिति रूपद्वयमादिपदग्राह्यम् । विन्मतोलृक् । इष्ठेयसोरिति । अजादी इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । स्रजिष्ठ इति। स्रग्विन्शब्दादिष्ठनि विनो लुकि तन्निमित्तपदत्वभङ्गात् कुत्वनिवृत्तिरिति भावः। एवं सजीयानिति । त्वचिष्ट इति। त्वग्वच्छब्दादिष्ठनि मतुपो लुकि तन्निमित्तपदत्वभङ्गात् कुत्वनिवृत्तिरिति भावः । एवं त्वचीयान् । अत एव ज्ञापकादाभ्यामिष्ठन्नीयसुनौ। प्रशंसायां रूपप। सुबन्तात्तिङन्ताञ्चेति । शेषपूरणमिदम् । 'तिङश्च' इत्यनुवृत्तम्, 'प्रातिपदिकात्' इति च । 'घकाल' इत्यादिलिङ्गात् सुबन्तादिति लभ्यत इति भावः । प्रशंसाविशिष्टे स्वार्थे वर्तमानात् तिङन्तात्सुबन्ताच्च रूपबिति फलितम् । पचतिरूपमिति । प्रशस्ता पाकक्रियेत्यर्थः। अत्र भाष्ये 'क्रियाप्रधानमाख्यातं द्रव्यप्रधानं नाम' इति सिद्धान्तितम् । 'पचतोरूपं पचन्तिरूपमित्यत्र च न द्विवचनबहुवचने। तिव द्वित्वबहुत्वयोरुतत्वात् । एकवचनं तु उत्सर्गतः करिष्यते, नपुंसकत्वं तु लोकात्' इत्यपि भाष्ये स्पष्टम् । ईषदसमाप्तौ । ईषदसमाप्तिविशिष्टेऽर्थे विद्यमानात् सुवन्तात् स्वार्थे कल्पप् , देश्य, देशीयर् एते प्रत्ययाः स्युरित्यर्थः। विद्वत्कल्प इति । ईषन्न्यूनवै. दुष्यवानित्यर्थः । यशस्कल्पमिति । असंपूर्ण यश इत्यर्थः । 'सोऽपदादौ' इति सत्वम् । यजुष्कल्पमिति । असंपूर्ण यजुरित्यर्थः । 'इणः षः' इति षत्वम् । विद्वद्देश्य इति । असम्पूर्णवैदुष्यवानित्यर्थः । एवं विद्वद्देशीयः। अत्र सर्वत्र सोरिति । विन्मतोलृक् । त्रजिष्ठ इति । विनो लुकि कृते भत्वात्पदकार्याभावः । अस्मादेव ज्ञापकादगुणवचनत्वेऽपि विन्मतोरजादी भवतः। प्रशंसायां रूपप् । प्रकृत्यर्थस्य परिपूर्णतेह प्रशंसा, न तु स्तुतिः । तेनेहापि भवति । चौररूपोऽयं यदक्ष्णोरप्यञ्जनं हरति । गुप्तवस्त्वपहरणेन चौर्य परिपूर्यते । पचतिरूपमिति। 'क्रियाप्रधानमाख्यातम्' क्रियायाश्चासत्त्वरूपत्वेऽपि औत्सगिकमेकवचनं भवति । तेन पचतोरूपं पचन्तिरूपमित्यादि । इह प्रथमैव विभक्त्यन्तराणामप्राप्तेरिति बहवः । वस्तुतस्तु पश्येत्यादियोगे कर्मणि द्वितीयापि सुलभा । क्लीबत्वं लोकात् । एवं पचति Page #616 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६१३ स्तात्तु । (५-३-६८) ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्वहुज्वा स्यात्स च प्रागेव, न तु परतः । ईषदूनः पटुः बहुपटुः । पटुकल्पः । 'सुपः ' किम् - यजति'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते' इति वचनात् प्रकृतिलिङ्गत्वं बोध्यम् । पचतिकल्पमिति । श्रसंपूर्णा पाकक्रियेत्यर्थः । पचतिरूपमितिवल्लिङ्गवचननिर्वाहः । एवं वृषभकल्प इयं गौरित्यादावपि प्रकृतिलिङ्गत्वं बोध्यम् । 'क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते' इति वचनाद् गुडकल्पा द्राक्षुत्यादौ प्रकृतिलिङ्गातिक्रमः । एतत्सर्वमत्रैव भाष्ये स्पष्टम् । विभाषा । ' ईषदसमाप्तौ ' इत्यनुवर्तते । तदाह ईषदसमाप्तिविशिष्ट इति । प्रागेवेति । सूत्रे तुशब्दोऽवधारण इति भावः । बहुपटुरिति । पटुशब्दात् सुबन्तात् प्राग् बहुचि कृते प्रातिपदिकावयवत्वात् सुपो लुकि समुदायात् पुनः सुबुत्पत्तिः । नच तद्धितान्तत्वाभावात् समासत्वाभावाच्च पूर्वोत्पन्न सुब्विशिष्टस्य प्रातिपदिकत्वाभावात् कथमिह लुगिति वाच्यम्, 'अर्थवत् ' इत्यनेन तस्य प्रातिपदेकत्वसत्त्वात् पटुरित्यस्य पूर्वोत्पन्न सुप्प्रत्ययान्तत्वेऽपि बहुपटुरिति समुदायस्य प्रत्ययान्तत्वाभावात् प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नचैवं सति ‘कृत्तद्धित-' इत्यत्र समासग्रहणं व्यर्थमिति वाच्यम्, पदघटित संघातस्य चेत् प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमार्थत्वात् । नचैवं सति प्रकृते बहुपटुरिति समुदायस्य पूर्वोत्पन्नसुब्विशिष्टस्य कथं प्रातिपदिकत्वम् श्रसमासत्वादिति वाच्यम्, यत्र संघाते पूर्वो भागः पदं तस्य चेत् प्रातिपदिकसंज्ञा तर्हि समासस्यैवेति नियमशरीराभ्युपगमाद् इति प्रागुक्तं न विस्मर्तव्यम् । नच 'समर्थानाम्' इत्यत्र वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यम्, बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात् । अन्यथा महाविभाषया ‘अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्तिः' इति सिद्धान्ताद् बहुकल्पमित्यादावपि बोध्यम् । विभाषा सुपः । सूत्रे 'सुपः' इति षष्ठयन्तम् । ‘षष्ठ्यतसर्थप्रत्ययेन' इत्युक्तेः । सुबन्तादिति । एतच्च पञ्चम्यन्तमुक्तमेव । पुरस्ताच्छब्दपर्यायस्य प्रागितिशब्दस्य वृत्तौ प्रयुक्तत्वात् । प्रागित्यपकृष्यत इति तु मनोरमायां स्थितम् । न च सूत्रस्थपुरस्ताच्छब्दसमानार्थक प्राक्शब्दयोगेऽपि ' षष्ठ्यतसर्थ -' इति षष्ठी स्यादिति वाच्यम् । 'अन्यारात् -' इति सूत्रेऽञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि ' षष्ठ्यतसर्थप्रत्ययेन' इत्येतद्बाधनार्थं पृथग्ग्रहणमिति सिद्धान्तयित्वा प्राक् प्रत्यग्वा ग्रामादित्युदाहृतत्वात् । काशिकायां तु वृत्तावपि पुरस्ताच्छब्दः प्रयुक्तः, सुबन्तादिति च प्रयुक्तम्, तदसमञ्जसमिति मत्वा हरदत्तेन कथंचित् समर्थितम् । ल्यब्लोप एषा पञ्चमी । एवंभूतं प्रकृतित्वेनाश्रित्येत्यर्थ इति । प्रागेवेति । सौत्रस्तुशब्दोऽवधारणे वर्तत इति भावः । तेन च बहुजेव विकल्प्यते, न तु पूर्वत्वम् । तुशब्दाभावे तु प्राक्त्वं Page #617 -------------------------------------------------------------------------- ________________ ६१४ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयकल्पम् । २०२४ प्रकारवचने जातीयर् । (५-३-६६) प्रकारवति चायम् , थाल् तु प्रकारमात्रे । पटुप्रकारः । पटुजातीयः। २०२५ प्रागिवात्कः। (५-३-७०) 'इवे प्रतिकृती' (सू २०५१) इत्यतः प्राक्काधिकारः । २०२६ जभावे वाक्यमेव स्यात् । नच कल्पबादीनां बहुचा समानविषयकत्वान्निरवकाशत्वं शङ्कथम् , तेषां तिङन्ते सावकाशत्वाद् इति भाष्ये स्पष्टम् । एतदभिप्रेत्याह पटुकल्प इति । ननु सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादिह सुग्रहणं व्यर्थमिति पृच्छति सुपः किमिति । 'तिङश्च' इत्यनुवृत्तिनिवृत्त्यर्थ सुब्ग्रहणम् । नच अस्वरितत्वादेव तदनुवृत्तिर्न भविष्यति इति वाच्यम् , 'अव्ययसर्वनाम्नाम्-' इत्याद्युत्तरसूने तिङश्चेत्यनुवृत्तेरावश्यकतया तस्य स्वरितत्वावश्यकत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याह यजतिकल्पमिति । तुग्रहणं तु 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते, क्वचिदतिवर्तन्ते' इति ज्ञापनार्थम् इति भाष्ये प्रपञ्चितम् । प्रकारवचने । 'प्रकारवचने थाल्' इत्यतोऽस्य वैलक्षण्यमाह प्रकारवति चायमिति । प्रकारवत्येवेत्यर्थः । थाल् तु प्रकारमात्र इति । वस्तुतस्तु उभयमपि प्रकारवतीति न्याय्यम् , अविशेषात् । अन्यथा तथेत्यत्र स प्रकार इत्येवार्थः स्यात् । नच किमादिभ्यो विशिष्य विहितेन थाला जातीयगे वाधात् तजातीयः इत्याद्यसिद्धिरिति वाच्यम् , 'जात्यन्ताच्छ बन्धुनि' इति तज्जात्यादिशब्दात् छप्रत्ययेनैव तज्जातीयादिसिद्धः। अत एव यथाजातीयक इत्यादिभाष्यप्रयोगाः संगच्छन्ते। जयादित्यस्तु अत्र प्रकारः भेदः, थाल्विधौ सामान्यस्य भेदको विशेषः प्रकार इत्याह । वामनस्तु सादृश्यं भेदश्चेत्युभयमपि प्रकार इत्याह । प्रागिवात्कः । इवशब्दस्तद्धटितविकल्प्येत । तथा च पक्षे बहुच् परः स्यात् । भाष्यकारस्य मते तु नेदं तुशब्दस्य फलम् । तथाहि-'उदश्वितोऽन्यतरस्याम्' इत्यादौ प्रधानत्वात्प्रत्यय एव विकल्प्यते, न तु परत्वम् , प्रत्यय एव हि परत्वविशिष्टो विधीयत इति विशेषणस्य गुणत्वात् । 'गुणानां च परार्थत्वात्' इति न्यायात् । तद्वदिहापि विभाषाग्रहणेन बहुजेव संभन्स्यते, न पुरस्तादित्येतत् । तुशब्दस्य तु अवधारणार्थस्यान्यदेव प्रयोजनं पुरस्तादेव सर्व यथा स्यादिति । तेन लिङ्गसख्ये अपि प्राक् प्रत्ययोत्पत्तेः प्रकृत्यवस्थायां ये दृष्टे ते एव स्तः । बहुचः प्रयोगश्च प्राक् प्रकृतेरेव भवतीति । तेन 'बहुगुडो द्राक्षा', 'लघुर्बहुतृणं नरः' इत्यादौ प्रकृतिवल्लिङ्गमेव भवति, न त्वभिधेयवल्लिङ्गम् । ननु 'खार्थिकाः प्रकृतितो लिङ्गवचनानि लभन्ते' इत्येव सिद्धमिति किमनेन तुशब्दग्रहणेनेति चेत् । अत्राहुः- एतदेव ज्ञापयति 'ईषदसमाप्तौ ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्ग. वचने स्तः' इति । तेन गुडकल्पा द्राक्षा शर्कराकल्पो गुड इत्यादि सिद्धम् । प्रागि Page #618 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६१५ अव्ययसर्वनाम्नामकच्याक्टेः । (५-३-७१) 'तिङश्च' (सू २००२) इत्यनुवर्तते । २०२७ कस्य च दः । (५-३-७२) कान्ताव्ययस्य दकारोsन्तादेशः स्यादकच्च। २०२८ अशाते । (५-३-७३) कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके । 'श्रोकारसकारभकारादौ सुपि सर्वनाम्नष्टः प्रागकच् , अन्यत्र तु सुबन्तस्य टेः प्रागकच् ।' (वा ३२८४ ) युवकयोः । सूत्रपर इति मत्वाह इवे प्रतीति । अव्ययसर्वनाम्नाम् । अनुवर्तत इति । मण्डूकप्लुत्येति शेषः । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्राक् अकच्प्रत्ययः स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः। चकार इत् । ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः । कस्य च दः । पूर्वसूत्रे 'अव्ययसर्वनाम्नाम्-' इति समासनिर्देशेऽपि एकदेशे स्वरितत्वप्रतिज्ञाबलाद् अव्ययग्रहणमेवात्रानुवर्तते । कस्य इत्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् । तेनाव्ययस्य विशेषणात् तदन्तविधिः । तदाह कान्ताव्ययस्येति । अकञ्चेति । चकारेण तदनुकर्षादिति भावः । एतेन अकसंनियोगशिष्ट एवायं दकार इत्युक्तं भवति । अयमपि प्रागिवाद. धिकारः । अज्ञाते । अज्ञातेऽर्थे विद्यमानात् सुबन्तात्स्वार्थे कप्रत्ययः स्यात् । अव्यय. सर्वनाम्नां तिङन्तानां च टेः प्राक् अकच् स्यात् । तत्रापि ककारान्ताव्ययानां दकारो. ऽन्तादेशः स्यादित्यर्थः । कस्यायमिति । स्यादित्यर्थः। अज्ञातत्वाभिनयोऽयम् । अज्ञातोऽश्व इति विग्रहः । उच्चकैरिति । उच्चैरित्यव्ययस्य टेः प्रागकच् । सर्वके विश्वक इति । ननु 'अव्ययसर्वनाम्नाम्-' इति सूत्रे सुप इत्यनुवृत्तः सुबन्तानां सर्वनाम्नां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिः, इत्यत्र सुबन्तानां टेः प्रागकचि युवकयोः श्रावकयोः, युष्मकासु अस्मकासु, युष्मकाभिः अस्मकाभिः, इति न स्युः। युवयकोः आवयकोः, युष्मा. सकु अस्मासकु, युष्माभकिः अस्माभकिः, इति स्युः। यदि तु सुप इत्यननुवर्त्य प्रातिपदिकादित्येवानुवर्त्य प्रातिपदिकादेव सर्वनाम्नां टेः प्रागकजित्यर्थः स्यात्, तर्हि वात्कः । 'सुपः' इत्यनुवर्तते तेन तिङन्तात्को न । अव्ययसर्वनानाम् । अनुवर्तत इति । मण्डूकप्लुत्येति भावः । 'ड्याप्प्रातिपदिकात्' 'सुपः' इति चानुवर्तत एव । कस्य च दः। कान्ताव्ययस्येति । सर्वनामग्रहणं तिङ्ग्रहणं च नेह संबध्यते, तयोः कान्तत्वासम्भवात् । न चाधोक् अधोगित्यादौ सम्भवोऽस्तीति वाच्यम् । कत्वस्यासिद्धत्वात् । यद्यपि शक्नोतेर्यङ्लुकि लङि तिपि शाशक् इति सम्भवति, तथापि यङ्लुकोऽसार्वत्रिकत्वानेशं लक्ष्यमस्ति । छन्दसि क्वचिल्लक्ष्यसद्भावेऽपि 'सर्वे विधयश्छन्दसि वा विधीयन्ते' इति दत्वविधिर्न प्रवर्तत इति भावः । Page #619 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयश्रावकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः। 'अोकारइत्यादि' किम्-स्वयका । मयका । 'अकप्रकरणे तूष्णीमः कां वक्तव्यः' (वा ३२८५)। मित्त्वादन्यादचः परः । तूष्णीकामास्ते । 'शीले को मलोपश्च' (वा ३२८६) । तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि धकित् । हिरकुत्। त्वयका मयकेति न स्यात् । त्वकया मकया इति स्यादित्यत प्राह अोकारेति । वार्तिकमिदम् । ओकारादौ सकारादौ भकारादौ च सुपि सर्वनाम्नष्टेः प्रागकच् , अन्यत्र तु सुबन्तस्यैव सर्वनाम्नष्टेः प्रागकजित्यर्थः । इदं तु वातिक युष्मदस्मन्मात्रविषयकमेव, भाष्ये तथैवोदाहृतत्वात् । अन्येषां तु सर्वनाम्नां प्रातिपदिकस्यैव टेः प्रागकच् , नतु सुबन्तानाम् । तेन सर्वकेणेत्यादि सिद्धम् । अत एव 'विभक्तौ परतो विहितः किमः कादेशः साकच्कार्थः। कः कौ के' इति भाष्यं रागच्छते। त्वयका मयकेति । इह त्वया मयेति सुबन्तयोष्टेः प्रागकच् । प्रातिपदि कस्य टेः प्रागकवि तु त्वकया मकयेति स्यादिति भावः । कां वक्तव्य इति । काम् प्रत्यय इति वृत्तिस्तु चिन्त्या, भाष्ये प्रत्ययशब्दस्यादर्शनात् । किं तु मित्त्वादागम एवायम् । तदाह मित्त्वादिति । अकचोऽपवादः । तूष्णीकामिति । तृष्णीनित्यव्ययस्य ईकारादुपरि का इत्याकारान्त आगमः । शील इति । इदमपि वार्तिकम् । तूष्णीम् इत्यव्ययात् कप्रत्ययः स्याद् मकारस्य लोपश्च शीले गम्य इत्यर्थः । शीलं स्वभावः । तूष्णीक इति । मौनस्वभाव इत्यर्थः । भाष्ये दीर्घस्यैव प्रयोगदर्शनात् 'केऽणः' इति ह्रस्वो न भवति । 'अव्ययसर्वनाम्नाम्-' इत्यत्र तिङश्चेत्य नुवृत्तेः प्रयोजनमाह पचतकीति । पचतीत्यत्र इकारात् प्रागकच । ककारादकार उच्चारणार्थः । अन्यथा इकारात्प्राग् अकच्प्रत्यये श्राद्गुणे पचतके इति स्यादिति भावः । जल्पतकीति । जल्पतीत्यस्य टेः प्रागकच् । धकिदिति । धिक् इत्यव्ययस्य टेः प्रागकच् , कस्य ओकारेति । अकज्विधौ सुपोऽप्यनुवृत्त्या सर्वनाम्ना सुपा च टेर्वेशेषणे कामचाराद् अव्यवस्थाप्रसङ्गे भाष्यकारवचनाद्यवस्थाश्रीयते । ओकारसकार इत्यादिसंकोचश्च युष्मदस्मन्मात्रविषयकः । तथैव भाष्ये उदाहृतत्वात् । अन्येषां त्वविशेषेण प्रातिपदिकस्यैव टेः प्रागकच्, न सुबन्तस्य । तेन सर्वकेण इमकेण भवकन्तमित्यादि सिध्यति । त्वयका, मयकेति । नन्वत्र सुपः प्रागकचि कृते, प्रत्यये परतस्त्वामादेशयोः सतोरपि 'योऽचि' इति यत्वं न स्यात् , विभक्तिपरत्वाभावादिति चेत् । मैवम् , अकृतव्यूहपरिभाषाया अनित्यतामाश्रित्याकचः पूर्वमेव यत्वविधानात् । एवं युवकामामकामित्यत्राप्यकचः पूर्वमेव युवावादेशाविति बोध्यम् । शीले क इति । शीलं स्वभावो नियमश्च । तूष्णीक इति । 'केऽणः' इति ह्रस्वस्तु भाष्यकारप्रयोगाद् 'न कपि' इत्यत्र 'न' इति Page #620 -------------------------------------------------------------------------- ________________ प्रकरणम् ४०] बालमनोरमा-तत्त्वबोधिनीसहिता। [६१७ २०२६ कुत्सिते । (५-३-७४) कुत्सितोऽश्वोऽश्वकः । २०३० संज्ञायां कन् । (५-३-७५) कुत्सिते कन्स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थ वचनम् । २०३१ अनुकम्पायाम् । (५-३-७६) पुत्रकः। अनुकम्पितः पुत्र इत्यर्थः । २०३२ नीतौ च तद्युक्तात् । (५-३-७७) सामदानादिरूपा नीतिः । तस्यां गम्यमानायामनुकम्पायुक्नात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । दश्च । हिरकुदिति । हिरुगित्यव्ययस्य टेः प्रागकच् कस्य दश्च । कुत्सिते । येन धर्मेण कुत्स्यते वस्तु तद्धर्मयुक्तार्थाभिधायिनः प्रातिपदिकात्स्वार्थे प्रत्ययः स्यादित्यर्थः । अव्ययसर्वनाम्नस्तु टेः प्रागकच् , कान्तस्याव्ययस्य दकारश्चान्तादेश इति बोध्यम् । 'तिङश्च' इत्यप्यनुवर्तते । अश्वक इति । धावनस्य असम्यक्त्वादश्वस्य कुत्सा बोध्या । सर्वनामाव्ययतिङन्तानि पूर्ववदुदाहार्याणि । 'याप्ये पाशप्' इति प्रवृत्तिनिमित्तकुत्सायामेव भवति । इदं तु सूत्रमप्रवृत्तिनिमित्तकुत्सायामपि इति भाष्ये स्पष्टम् । संज्ञायां कन् । 'कुत्सिते' इत्यनुवर्तते । तदाह कुत्सित इति । तदन्तेन चेदिति । कुत्साहतुकसंज्ञाविषये कनिति यावत् । अनुकम्पायाम् । अनुकम्पायुक्तार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः । अनुकम्पा दया । नीतौ च तद्युक्तात्। सामदानादीति । श्रादिना भेददण्डयोर्ग्रहणम् । तद्युक्तादित्येतद्व्याचष्टे अनुकम्पायुक्तादिति । 'अव्ययसर्वनाम्नां' 'टेः प्राक्' इति चानुवर्तते, 'कस्य च दः' इति च । हन्त ते धानका इति। दास्यन्ते इति शेषः । हन्तेत्यव्ययमनुकम्पादोतकम् । 'हन्त हर्षेऽनुकम्पायाम्' इत्यमरः । हन्तेत्यदन्तम् । हे पुत्रेति शेषः। अनुकम्पायुक्ता धाना इत्यर्थः । धानाशब्दात् कप्रत्यये 'केऽणः' इति ह्रस्वे कान्तात् टापि 'प्रभाषितपुंस्काच' इति विकल्पात् पक्षे इत्त्वाभावः । एहकीति । एहीति तिङन्तस्य टेः प्रागकच । 'अव्ययसर्वनाम्नाम्-' इत्यत्र 'तिङश्च' इत्यनुवृत्तेरिति भावः । योगविभागाद्वा न भवतीत्याहुः । अकचो द्वितीयः प्रकार उच्चारणार्थ इति ध्वनयन्नुदाहरति पचतकीत्यादि। अनुकम्पायाम् । 'कृपा दयाऽनुकम्पा स्यात्' इत्यमरः। नीतौ च तद्युक्तात् । अनुकम्पायुक्तादिति । यद्यपि पुत्रादिरेव साक्षादनुकम्पायुक्तो न तु धानादिः, तथापि तद्वारा धानादीनामप्यस्त्यनुकम्पासम्बन्ध इति भावः । धानका इति । धानाशब्दः स्त्रीलिङ्गः । ततः कः 'केऽणः' इति ह्रस्वः । कप्रत्ययान्ताटाप् । अत्र 'प्रत्ययस्थात्-' इतीत्वेन भाव्यम् । प्रायेण तु धानका इति पठ्यते । तत्र लिङ्गातिवृत्तिर्द्रष्टव्येति हरदत्तः । 'कर्मव्यतिहारे णच स्त्रियाम्' इति सिद्धे 'णचः स्त्रियामञ्' इति सूत्रे पुनः स्त्रीग्रहणेन ज्ञापितं 'खार्थिकाः प्रकृतिलिजात्वचिदतिवर्तन्ते' Page #621 -------------------------------------------------------------------------- ________________ ६१८ ] सिद्धान्तकौमुदी। तद्धितेषु प्रागिवीयअनेन तु परम्परासंबन्धेऽपीति विशेषः । २०३३ बह्वचो मनुष्यनाम्नष्ठज्वा । (५-३-७८) पूर्वसूत्रद्वयविषये । २०३४ घनिलचौ च (५-३-७६) तत्रैव । २०३५ ठाजादावू द्वितीयादचः । (५-३-८३) अस्मिन् प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्यये परे प्रकृतद्वितीयादच उर्ध्व सर्व लुप्यते । अनुकम्पितो देवदत्तो देविकः, देवियः, देविलः, देवदत्तकः । अनुकम्पितो वायुदत्तो वायुकः । ठग्रहणमुको द्वितीयस्वे कविधानार्थम् । वायुकः । पितकः । 'चतुर्थादच अद्धकीति । अद्धीति तिङन्तस्य टेः प्रागकच् । पूर्वेणेति । 'अनुकम्पायास्तद्विषयत्वादिति भावः । परम्परासम्बन्धेऽपीति । पुत्रः साक्षाद नुकम्प्यः तद्वारा धाना अनुकम्पायुक्ता इति भावः । बह्वचो मनुष्य । ठजिति च्छदः । पूर्वसूत्रद्वयविषय इति शेषपूरणम् । 'अनुकम्पायाम्' इति 'नीतौ च तद्युक्तात्' इति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नः प्रातिपदिकात् ठज्वा स्यादित्यर्थः । पत्ते कः । घनिलचौ च। तत्रैवेति । शेषपूरणमिदम् । 'बह्वच-' इति पूर्वसूत्रविषये इ यर्थः । 'अनुकम्पायाम्' इति 'नीतौ च तद्युक्तात्' इति च सूत्रद्वयविषये बह्वचो मनुष्ट नाम्नो घन् इलच् एतौ च प्रत्ययावित्यर्थः । ठाजादौ । अस्मिन्प्रकरण इति । 'अनुकम्पायाम्' 'नीतौ च' इत्यस्मिन्प्रकरण इत्यर्थः । संनिधानलभ्यमिदम् । सर्वमिति ऊध्वग्रहणादिदं लभ्यते । अन्यथा 'श्रादेः परस्य' इति परिभाषया द्वितीयाचो यः परः तस्यादेरेव स्यादिति भावः । 'अजिनान्तस्योत्तरपदलोपश्च' इत्यतो 'लोप' इत्यनुवृत्तमिह कर्मसाधनमाश्रीयत इति मत्वाह लुप्यत इति । देविक इति । देवदत्तशब्दात् ठचि द्वितीयादचः परस्य दत्तशब्दस्य लोपे इकादेशे रूपम् । देविय इति । देवदत्तशब्दाद् घनि दत्तशब्दस्य लोपे इयादेशे रूपम् । देविल इति । इलचि दत्तशब्दस्य लोपः । देवदत्तक इति । कप्रत्यये सति ठाजायभावान दत्तपदलोपः । वायुक इति । वायुदत्तशब्दाद् दत्तशब्दस्य लोपः । उकः परत्वात् ठस्य इति । तेन धानका इत्यत्र पुंस्त्वमिति भावः । घनिलचौ च । चकाराद्यथाप्राप्तमिति काशिका । इह पूर्वसूत्रेणैव ठञ् विहितः । वावचनात्कोऽपि । चकारेण तु कस्याभ्यनुज्ञेति चिन्त्यम्। योगविभागे फलभपि चिन्त्यमिति हरदत्तः । ठाजादौ । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । आदिग्रहणं चिन्यप्रयोजनम् , 'यस्मिन्विधिस्तदादौ-.' इत्येव सिद्धमिति हरदत्तः । अस्मिन्प्रकरण इति । अनुकम्पायां नीती चेत्यर्थद्वयस्यैव प्रत्यासत्त्या बुद्धौ सन्निधानादिति भावः । ऊर्ध्वग्रहणमिह सर्वलोपार्थम् । अन्यथा 'आदेः परस्य' इत्यादेरेव स्यादित्यभिप्रेत्याह द्वितीयादच ऊर्ध्वं सर्वमिति । 'अजिनान्तस्य-' इत्यतो लोप इत्यनुवर्तनादाह लुप्यत इति । ननु ठग्रहणं व्यर्थम् , इकादेशे कृते Page #622 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमा तत्त्वबोधिनीसहिता । [ ६१६ ऊर्ध्वस्य लोपो वाच्यः' (वा ३२६६) । अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः । 'अनजादौ च विभाषा लोपो वक्तव्यः' ( वा ३२१७ ) । देवदत्तकः, देवकः । 'लोपः पूर्वपदस्य च ' ( वा ३२६८ ) । दत्तिकः, दत्तियः, दत्तिलः, दत्तकः । 'विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य:' ( वा ३२६६ ) देवदत्तः, दत्तः, देवः । सत्यभामा, भामा, सत्या । 'उवर्णांल्ल इलस्य च ' ( वा ३३०२ ) । भानुदत्तः, भानुलः । 'ऋवर्णादपि' ( वा ५०५४ ) । सवित्रियः । सवितृलः । 'चतुर्थादनजादौ वो लोपः पूर्वपदस्य च । श्रप्रत्यये तथैवेष्ट उवर्णाल इलस्य च ॥' कः । नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह उग्रहणमिति । कृत एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव नित्यत्वाद् लोपे कृते ठस्य उकः परत्वात्कादेशः सिध्यति । अन्यथा इकादेशे कृते अजादित्वं पुरस्कृत्य दत्तशब्दस्य लोपे सति वायु इक इति स्थिते ठस्याभावात् कादेशो न स्यात् । नच स्थानिवत्त्वादिकस्य ठत्वं शङ्कयम्, 'ठस्येकः' इत्यत्र स्थान्यादेशयोरकार उच्चारणार्थ इति पक्षे अविधित्वात् सन्निपातपरिभाषाविरोधाचेति भाष्ये स्पष्टम् । पितृक इति । पितृदत्तशब्दात् ठचि दत्तशब्दस्य लोपे उकः परत्वात् ठस्य कः । अथ 'चतुर्थादनजादौ वा लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्लि इलस्य च ॥' इति वक्ष्यमाणश्लोकवार्तिकं भक्त्वा चतुर्थादच इत्येतद्याचष्टे चतुर्थादच ऊर्ध्वस्य लोपो वाच्य इति । बृहस्पतिक इति । बृहस्पतिदत्तशब्दात् ठचि दत्तशब्दस्य लोपे ठस्य इकादेशः । द्वितीयादूर्ध्वत्वाभावादप्राप्ते वचनम् । श्रजादौ वेति वार्तिकभागं व्याचष्टे अनजादौ च विभाषा लोपो वक्तव्य इति । श्रजादावित्येव सिद्धत्वादत आह ठग्रहणमुको द्वितीयत्व इति । वायुक इति । वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव लोपे ' इसुसुक्कान्तात् -' इति कः । किंच, पृथक् ठग्रहणस्य प्रयोजनान्तरमप्यस्ति । यदा तु चित्रगुप्रभृतिभ्यष्टच्, तदोगन्तत्वात् कादेशप्राप्त्या प्रथममिकादेशस्याऽसंभवेनाजदिलक्षणो लोपो न स्यादिति तदर्थमपि ठग्रहणम् । तेन ठावस्थायामुत्तरपदलोपे कादेशस्यासम्भवादिकादेशे चित्रिक इति रूपं सिध्यतीति बोध्यम् । ‘चतुर्थादनजादौ च' इति वक्ष्यमाणमेव श्लोकं भङ्क्त्वा व्याचष्टे चतुर्थादच ऊर्ध्वस्येति । अनजादाविति । हलादावित्यर्थः 'अस्मिन प्रकरणे' १ 'च' इति क । Page #623 -------------------------------------------------------------------------- ________________ ६२० ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीय (वा ३२६६-३३००) । २०३६ प्राचामुपादेरडज्युचौ च । (५-३-८०) उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचां ग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्त उपडः, उपकः, अनजादौ चेति पाठे विभाषेति भाष्यलब्धम्, तत्र देवदत्तको देवक इति कप्रत्यये दत्तलोपविकल्पोदाहरणात् । लोपः पूर्वपदस्य चेति । विभाति शेषः। 'अनजादौ' इति तु नात्र संबध्यते । तदाह दत्तिक इत्यादि । रचि धनि इलचि के च रूपम् । अप्रत्यये तथैवेष्ट इति वार्तिकभागं व्याचष्टे विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्य इति । दत्तः, देव इति । देवदत्तशब्दात् ठाजादिप्रत्ययस्याप्यभावे पूर्वोत्तरपदयोः क्रमेण लोपे रूपम् । उवदिति । ल इति लोपस्य पूर्वाचार्यसंज्ञा । उवर्णात्परस्य इलचो लोपः स्यादित्यर्थ । 'आः परस्य' इति इकारस्य लोपः। चकारेण ठाजादौ द्वितीयादच ऊर्ध्व लोप: सूत्रसिद्धः अनू. द्यते। ऋवर्णादपीति । ऋवर्णादपि परस्य इलच प्रादेपिः स्यादित्यर्थः । सवित्रियः सवितृल इति । घनि इलचि च रूपम् । वस्तुतस्तु ऋवर्णादपीति भाष्यादृष्टत्वादुपेक्ष्यम् । तदेवं व्याख्यातं वार्तिकं समस्तं पठति चतुर्थादित्यादि । प्राचामुपादेरडज्युचौ च । पूर्वविषय इति । 'बह्वचो मनुष्यनाम्नः-' इति सूत्रविषये इत्यर्थः । चाद्यथाप्राप्तमिति । ठच् , घन् , इलच्छेत्यर्थः । ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्ध 'प्राचाम्' ग्रहणं व्यर्थमित्यत आह प्राचांग्रहणमिति । उपड इति । उपेन्द्रदत्तशब्दाद् अडचि द्वितीयं सन्ध्यक्षरमिति वक्ष्यमाणेन एकारादेर्लोप इति केचित् । 'नेन्द्रस्य परस्य' इति ज्ञापकेन पूर्वोत्तरपदनिमित्तकापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारादिलोप इति शब्देन्दुशेखरे। उपक इति । वुचि इत्येव । लोपः पूर्वपदस्य चेति । ठाजादावनजादौ चेति बोध्यः । 'अप्रत्यये तथेवेष्टः' इत्येतद्वयाचष्टे विनापि प्रत्ययमिति । ल इलस्य चेति । इलस्य लः लोप इत्यर्थः, तत्र 'आदेः परस्य' इति इकारलोपो बोध्यः । प्राचामुपादेः । 'बह्वचो मनुष्य-' इत्याद्यनुवर्तते । उपेन्द्रदत्त इति । ननु कृतसन्धेरुपेन्द्रशब्दादेकादेशस्य पूर्वान्ततया ग्रहणाद् 'उपादेः' इति विधीयमानौ प्रत्ययौ स्तां नाम, लोपस्तु नकारादेरेव स्यात् । ततश्च उपक उपड इति रूपे न स्याताम् । किं तु उपयक उपयड इति रूपे स्याताम् । एवं घनिलच्छच्स्वपि दोष एव । तस्मादिहैव 'द्वितीयं संध्यक्षरं चेत्' इति वार्तिकं कुतो नोक्तमिति चेत् । अत्राहुः- प्रकारान्तरेण निर्वाहसम्भवान्नोक्तम्। तथाहि-श्राद्गुणे कृते 'द्वितीयं संध्यक्षरम्-' इत्यादिना अकारस्यापि लोपप्रसक्त्या गुणात्पूर्वमेवाकृतव्यूहपरिभाषया प्रत्ययः । न च परिनिष्टितत्वपरेण समर्थग्रहणेन Page #624 -------------------------------------------------------------------------- ________________ प्रकरणम् ४०] बालमनारमा-तत्त्वबोधिनीसहिता [६२१ उपियः, उपिलः, उपिकः, उपेन्द्रदत्तकः । षड् रूपाणि । २०३७ जातिनाम्नः कन् । (५-३-८१) 'मनुष्यनाम्नः' इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः । 'द्वितीयं सन्ध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः' (वा ३३०३)। कहोडः, कहिकः। 'एकातरपूर्वपदानामुत्तरपदलोपो वक्तव्यः' (वा ३३०६)। वागाशीर्दत्तो वाचिकः । कथं अकादेशे एकारादिलोपे रूपम् । उपिय इति । घनि रूपम् । उपिल इति । इलचि रूपम् । उपिक इति । ठचि रूपम् । उपेन्द्रदत्तक इति । कप्रत्यये रूपम्। ठाजाद्यभावाल्लोपो न । जातिनाम्नः कन् । जातिशब्दो य इति । यो जातिप्रवृत्तिनिमित्तकः प्रसिद्धः सन् मनुष्यनामधेयभूतः स इत्यर्थः । 'अनुकम्पायाम्' इति 'नीतौ' इति च सूत्रद्वयविहितस्यापवादः। द्वितीयं संध्यक्षरं चेदिति । “एचः संध्यक्षराणि' इति प्राचामाचार्याणां प्रवादः। कहोड इति । ऋषिविशेषस्य नामेदम् । अत्र द्वितीयोऽच् संध्यक्षरम् , तदादेर्लोपः। नतु तदूर्ध्वस्यैव । एकाक्षरेति । व्यञ्जनसहितम् एकोऽच् एकाक्षरम् , एकाच्कमिति यावत् । तथाविधं पूर्वपदं येषां पदानां तानि एकाक्षरपूर्वपदानि, तेषा मध्ये उत्तरभूतानि पदानि यावन्ति तेषां लोपः स्यादित्यर्थः । इह उत्तरपदशब्दो यौगिकः, नतु समासस्य चरमावयवे रूढो व्याख्यानात् । 'द्वितीयादच ऊध्वम्' इत्यनेन द्वितीयाज्विशिष्टस्य लोपे अप्राप्ते वचनमिदम् । वागशीदत्त इति । वाचि आशीः यस्य नतु मनस्येव स वागाशीः । तेन दत्त इति विग्रहः । यद्वा अाशासनमाशीः, वाचा आशीः वागाशीः । 'कर्तृकरणे कृता--' इति समासः । तया वागाशिषा दत्त इति विग्रहः। वाकरणकाशासनेन दत्त इत्यर्थः । वाचिक इति । वागशीर्दत्तशब्दात् ठचि वागित्येकाक्षरपूर्वपदात्परयोराशीदत्तशब्दयोर्लोपे सति अन्तर्वतिविभक्त्या पदत्वमाश्रित्य प्रवृत्तकुत्वजश्त्वयोरिकाश्रयभत्वेन पदत्वबाधान्निवृत्तौ वाचिक इति रूपमिति केचित् । वस्तुतस्तु ठचि सौस्थितिरित्यत्रेव परिभाषाबाधः शङ्कयः, 'प्राग्दिशः-' इति सूत्रे 'समर्थग्रहणं निवृत्तम्' इत्युक्तत्वात् । 'अकृतसंधेः' इति प्रागुक्तज्ञापकबलेन समर्थग्रहणप्रत्याख्यानपक्षेऽपि ज्ञापकस्य विशेषपरत्वाश्रयणादिति । उपेन्द्र उपगुरुरुपकर्तेत्यादिषूपडादीनां पञ्चानां रूपाणां साम्येऽपि सैन्धवादिष्विव प्रकरणादिना विशेषोऽध्यवसेयः । जातिनाम्नः । ये शब्दा जात्यन्तरे प्रसिद्धाः, मनुष्येषु नामत्वेन विनियुक्तास्त इहोदाहरणम्। द्वितीयमित्यादि । एचः संध्यक्षरमिति प्राचां संज्ञा । वागाशीरिति । वाचि प्राशीयेस्येति विग्रहः । वाचिक इति। यद्यत्र द्वितीयादच ऊर्ध्वस्य लोपः स्यात् तदा वाच् आ इक इति स्थिते 'यस्येति च' इत्याकारस्य लोपे तस्य स्थानिवत्त्वादाका. Page #625 -------------------------------------------------------------------------- ________________ ६२२ ] सिद्धान्तकौमुदी । [तद्धितेषु प्रागिवीय षडङ्गुलिदत्तः षडिक इति । ' षषष्ठाजादिवचनात्सिद्धम्' ( वा ३३०७ ) । २०३८ शेवल सुपरिविशालवरुणार्यमादीनां तृतीयात्। ( ५-३-८४) एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्व लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः शेवलिकः, शेवलियः, शेवलिलः । सुपरिकः । विशालिकः । इकादेशात् प्राक् ठावस्थायामेव उत्तरपदलोपे कर्तव्ये श्रसिद्धत्वान्न पूर्वं कुत्वादिप्रवृत्तिरित्याहुः । यद्यपि द्वितीयादच ऊर्ध्वस्य शीर्दत्तशब्दस्य लोपे वागा इक इति स्थिते 'यस्येति च' इत्याकारलोपे उक्तरीत्या कुत्वजश्त्वयोः निवृत्तौ वाचिक इति सिध्यति । तथापि आकारलोपस्य स्थानिवत्त्वेन आकारान्तस्य इकमाश्रित्य भवे सति आकारान्तनिष्ठभत्वेन चकारान्तनिष्ठपदत्वस्य अव्याघातातू कुत्वजश्त्वयोः वागिक इति स्यात् । उत्तरपदलोपे तु अज्झलादेशत्वेन स्थानिवत्त्वाभावात्तुल्यावधिकया भसंज्ञया 'सुप्तिङन्तम् -' इति पदसंज्ञा बाध्यते, एकसंज्ञाधिकारे परत्वादिति भावः । कथमिति । अत्रापि अङ्गलिदत्तशब्दस्य लोपे सति इकप्रत्ययाश्रितभत्वेन पदत्वाभावाद् जश्त्वं दुर्लभमिति प्रश्नः । षष इति । षष्शब्दस्य पूर्वपदत्वे 'ठाजादौ -' इति सूत्रसिद्धो द्वितीयादच ऊर्ध्वस्यैव लोपः, न त्वयमुत्तरपदलोप इति वचनात् षडिक इति सिद्धमित्यर्थः । एवं च षडङ्गलिदत्त इत्यत्र डकाराकारादूर्ध्वस्य लोपे सति डकाराकारस्य 'यस्येति च' इति लोपे सति तस्य स्थानिवत्त्वेन अकारान्तस्य इकमाश्रित्य भत्वे सति तेन अकारान्तनिष्ठेन षकारान्तस्य पदत्वाव्याघाताजश्त्वं निर्बाधमिति भावः । स्पष्टुं चेदं 'स्वादिषु -' इति सूत्रे भाष्ये । शेवल । एषामिति । शेवल, सुपरि, विशाल, वरुण, अर्यमन् एतत्पूर्वपदका नामित्यर्थः । पूर्वस्येति । 'ठाजादौ -' इत्यस्येत्यर्थः । शेवलिक इति । शेवलदत्तशब्दात् ठचि तृतीयादचः G G रान्तस्य भवे अन्तर्वर्तिनीं विभक्तिमाश्रित्य चकारान्तस्य पदत्वेन कुत्वजश्त्वयोः सतोर्वागिक इति स्यात् । उत्तरपदलोपे तु अज्मलादेशत्वेन स्थानिवत्त्वाभावात्तुल्यावधिकतया ' यचि भम्' इति भसंज्ञया 'सुप्तिङन्तम् -' इति पदसंज्ञा एकसंज्ञाधिकारात्परत्वाद्वाध्यते। 'स्वादिषु-' इति पदसंज्ञा तु न शङ्कनीयैव, 'यचि भम्' इति भसंज्ञायास्तदपवादत्वात् । कथमिति । अत्राप्युत्तरपदलोपे जाते जश्त्वं दुर्लभमिति प्रश्नः । षष इति । अत्र सौत्र एव लोप इष्यते, न त्वौपसंख्यानिक इत्यर्थः । शेवलसुपरि । शेवलिक इति । 'बह्वचो मनुष्यनाम्नः -' इति ठच् । घनिलचोस्तु शेवलियः । शेवलिलः । 'शेवलादीनां तृतीयाल्लोपो य उच्यते स च कृतसंधीनां वक्तव्यः । सुपर्याशीः, सुपरिकः, सुपरियः, सुपरिल इति भाष्ये स्थितम् । कैयटेन तु सुपरिक इति प्रतीकमुपादाय संहिताकार्ये तु कृते लोपे सति सुपर्किक इति स्यादिति व्याख्यातम् । Page #626 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमा तत्त्वबोधिनीसहिता। [६२३ वरुणिकः । अर्यमिकः । २०३६ अजिनान्तस्योत्तरपदलोपश्च । (५-३-८२) अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् , तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः । २०४० अल्पे । (५-३-८५) अल्पं तैलं तैलकम् । २०४१ ह्रस्वे । (५-३-८६) हस्वो वृक्षो वृक्षकः । २०४२ संज्ञायां कन् । (५-३-८७) हस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः । २०४३ कुटीशमीशुण्डाभ्यो रः । (५-३-८८) हस्वा कुटी कुटीरः । शमीरः । शुण्डारः । २०४४ कुत्वा डुपच् । (५-३-८९) हस्वा कुतूः कुतुपः । 'कुतूः कृत्तिस्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ।' इत्यमरः । २०४५ कासूगोणीभ्यां ष्टरच । (५-३-६०) आयुधविशेषः कासूः । हस्वा सा कासूतरी। गोणीतरी । २०४६ वत्सोक्षाश्वर्षभेभ्यश्च परस्य दत्तशब्दस्य लोपः । शेवलिल इति । इलचि रूपम् । सुपरिक इति । सुपरिदत्तशब्दात् ठचि दत्तशब्दलोपः । विशालिक इति । विशालदत्तशब्दात् ठचि रूपम् । वरुणिक इति । वरुणदत्ताद् वरुणिकः । अर्यमिक इति । अर्यमदत्ताद् अर्यमिकः । 'अकृतसंधीनामेषाम्-' इति वार्तिकं भाष्ये स्थितम् । तेन सुपर्याशीर्दत्तः सुपरिक इत्यादि सिध्यति । अजिनान्तस्य । व्याघ्रक इति । व्याघ्राजिन इति कस्यचिन्मनुष्यस्य नाम । तस्मात् कनि अजिनस्य लोपः । सिंहक इति । सिंहाजिनचब्दात् कनि अजिनस्य लोपः। अल्पे । अल्पत्वविशिष्टे वर्तमानाद् यथाविहितं प्रत्ययाः स्युः । तैलकमिति । सर्वकम् , उच्चकैः, पचतकीत्याद्यप्युदाहार्यम् । ह्रस्वे । हखत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्यया इत्यर्थः । अल्पत्वं महत्त्वप्रतिद्वन्द्वि, हखत्वं तु दीर्घत्वप्रतिद्वन्द्वीति भेदः । संज्ञायां कन् । वंशक इति । ह्रखस्य वेणुजातिविशेषस्य नाम । कुटीशमी । ह्रख इत्येव । कुटीर इति । 'स्वार्थिकाः क्वचि. प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति पुंस्त्वम् । एवं शमीरः, शुण्डार इत्यपि । ह्रस्वा शमी शुण्डा चेत्यर्थः । कुत्वा डुपच् । कुतुप इति । कुतूशब्दाद् डुपचि डित्त्वाहिलोपः। तत्रापि कुटीरादिवत् स्त्रीत्वमपहाय पुंस्त्वमेव । तत्रामरकोशमपि प्रमाणयति कुतूः कृत्तीति । कासूगोणीभ्यां टरच् । ह्रस्व इत्येव । कासूत. रीति । षित्त्वाद् ङीषिति भावः । 'कासुर्बुद्धे कुवाच्येऽस्त्रे' इति नानार्थरत्नमालायाम् । अयं भावः-संहिताकार्ये यणि कृते तृतीयादच ऊर्ध्वलोपे सति शीर्दत्त इत्यस्यैव लोपः स्यात् , अाकारस्य तु 'यस्येति च' इत्यनेन स्यात्। तथाच स्थानिवद्भावाद्यणो निवृतिर्न भविष्यतीति । हस्खे । तैलादौ ह्रखदीर्घादिव्यवहाराभावाद् वृक्षक इत्युदाहृतम् । यद्यपि 'अल्पे' इत्येनैवेदं रूपं सिध्यति, तथापि शाब्दबोधे विशेषोऽस्तीत्याहुः । कुटीर इति। -HTHHTHHALI Page #627 -------------------------------------------------------------------------- ________________ ६२४ ] सिद्धान्तकौमुदी। [तद्धितेषु प्रागिवीयतनुत्वे । (५-३-६१) वत्सतरः। द्वितीयं वयः प्राप्तः । उक्षतरः। अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् । २०४७ कियत्तदो निर्धारणे द्वयोरेकस्य डतरच । (५-३-१२) अनयोः कतरो वैष्णवः । यतरः । ततरः। महाविभाषया कः । यः। सः । २०४८ वा बहूनां जातिपरिप्रश्ने एवं गोणीतरीति । वत्सोक्ष । ह्रख इति निवृत्तम् । वत्स, उक्षन् , अश्व, ऋषभ एभ्यस्तनुत्वविशिष्टवृत्तिभ्यः ष्टरच्प्रत्ययः स्यादित्यर्थः। तनुत्वं न्यूनत्वम् । वत्सः प्रथमवयाः । वयसश्च प्रथमस्य तनुत्वम् उत्तरवयःप्राप्त्या ज्ञेयम् , तदाह द्वितीयं वयः प्राप्त इति । उक्षतर इति । उक्षा तरुणो बलीवर्दः । तारुण्यस्य तनुत्वं तृतीयवयःप्राप्त्या ज्ञेयम् । अश्वतर इति । गर्दभेन अश्वायामुत्पादितः अश्वतरः। अश्वतरत्वं च अश्वत्वापेक्षया न्यूनमेव । ऋषभतर इति । ऋषभो भारस्य वोढा । तस्य तनुत्वं भारोद्वहने मन्दशक्तिता, तद्वानित्यर्थः । ननु कृशो वत्सो वत्सतर इति कुतो नेत्यत आह प्रवृत्तिनिमित्ततनुत्वे एवायमिति । एतच्च भाष्ये स्पष्टम् । किंयत्तदो निर्धारणे । किम् , यत् , तद् एषां समाहारद्वन्द्वात्पञ्चमी । द्वयोरेकस्य निर्धारणे गम्ये निर्धार्यमाणवाचिभ्यः किमादिभ्यो डतरच् स्यादित्यर्थः । अनयोः कतरो वैष्णव इति । को वैष्णव इत्यर्थः । अत्र वैष्णवत्वगुणेन किंशब्दार्थ इदमर्थाभ्यां निर्धार्यते। अतः किंशब्दाद् डतरचि डित्त्वाडिलोपे कतर इति भवति । एवं यद्शब्दात् तद्शब्दाच डतरचि टिलोपे यतरः, ततर इति भवति । 'निर्धार्यमाणवाचिभ्यः' इति किम् ? कयोरन्यतरो देवदत्तः, ययो'खार्थिकाः प्रकृतितो लिङ्गमतिवर्तन्ते' इति पुँल्लिङ्गताऽत्र संगच्छते । वत्सोक्षाश्व । तनुत्वं न्यूनता । सा च प्रवृत्तिनिमित्तस्य, प्रत्यासत्तेः । क्वचित्तु तत्सहचरितधर्मान्तराणाम् । तत्र वत्सः प्रथमवयाः। वयसश्च प्रथमस्य न्यूनत्वं नाम वयोऽन्तरप्राप्तिस्तदाह द्वितीयमिति । तरुण उक्षा । तारुण्यस्य च तनुत्वं तृतीयवयःप्राप्तिः । अश्वायामश्वा• दुत्पन्नोऽश्वः । अश्वत्वं च जातिः । तत्सहचरितस्याश्वायामश्वादुत्पन्नत्वधर्मस्य न्यूनत्वमन्यपितृकतात्वात् । तथा च गर्दभेनाश्वायामुत्पादितोऽश्वतरः । ऋषभो भारस्य वोढा । तस्य तनुत्वं भारोद्वहने मन्दशक्तिता । तद्वांस्तु ऋषभतरः । कियत्तदो । कतरो वैष्णव इति । गुणेन निर्धारणमिदम् । क्रियासंज्ञाभ्यां निर्धारणे तु कतरोऽध्यापकः । कतरो देवदत्त इत्यादि ज्ञेयम् । ननु द्वयोरेकस्य निर्धारणे डतरच्चेद् भवति, तर्हि 'कयोरन्यतरो देवदत्तः' 'ययोरन्यतरः' 'तयोरन्यतरः' इत्यत्रापि प्राप्नोति । अत्राहुःनिर्धार्यमाणवाचिभ्य एवायं प्रत्ययोऽभिधानखाभाव्यात् । तेनात्र नातिप्रसङ्ग इति । 'एकस्येति किम् , 'द्वयोः' इति कर्मणि षष्ठी मा भूत् । तथा हि सति 'अस्मिन् संघे को Page #628 -------------------------------------------------------------------------- ________________ प्रकरणम् ४० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२५ डतमच् । (५-३-६३) बहूना मध्ये निर्धारणे उतमज्वा स्यात् । 'जातिपरिप्रश्भे' इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविमाषया कः, यः, सः । किमोऽस्मिन्विषये रन्यतरः, तयोरन्यतर इत्यत्र किमादिभ्यो न भवति । वा बहूनाम् । 'किंयत्तद-' इति, 'निर्धारण' इति, 'एकस्य' इति चानुवर्तते । 'बहूनाम्' इति निर्धारणे षष्ठी। तदाह बहूनां मध्ये निर्धारणे डतमज्वा स्यादिति । मध्ये इत्यनन्तरमेकस्येति शेषः । जातिपरिप्रश्ने गम्ये इत्यपि बोध्यम् । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । जातौ परिप्रश्ने च गम्ये इत्यर्थः । तत्र जाताविति किंयत्तदा सर्वेषामेव विशेषणम् । परिप्रश्नग्रहणं तु किम एव विशेषणम्, तच्च क्षेपार्थकस्य किमो निवृत्त्यर्थम् । यत्तदोस्तु परिप्रश्नग्रहणं न विशेषणम्, असंभवादिति वृत्तौ स्पष्टम् । अत्र वार्तिकम्-'किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्यम्' इति 'पूर्वसूत्रे द्वयोरिति, अत्र सूत्रे जातिपरिप्रश्ने इति च न कर्तव्ये इति भावः' इति कैयरः । तदाह जातिपरिप्रश्न इति प्रत्याख्यातमाकर इति । क्षेपार्थस्य त्वनभिधानान ग्रहणमिति तदाशयः । पूर्वसूत्रे द्वयोरिति चेति बोध्यम् । तथाच 'कतम एषां पाचकः शूरो देवदत्तः' इत्यत्र क्रियागुणसंज्ञाभिरपि निर्धारणे डतमच भवति । 'एषां कतरो देवदत्तः' इत्यत्र बहूनामेकस्य निर्धारणे डतरच् भवति। अत एव 'प्रत्ययः' इति सूत्रभाष्ये 'बहुष्वासीनेषु कश्चित् कंचित्पृच्छति कतरो देवदत्तः' इति प्रयोगः संगच्छते । कतमो भवतां कठ इति । 'गोत्रं च चरणैः सह' इति कठस्य जातित्वम् । वाग्रहणमकजर्थमिति । अन्यथा महाविभाषया अपवादेन मुक्ते उत्सर्गस्याप्रवृत्तेरुक्तत्वादकच् न स्यादिति भावः । नच 'अव्ययसर्वनाम्नाम्-' इत्यस्याधिकारत्वात् तदनुवृत्त्यैव सिद्ध वाग्रहणं व्यर्थमेवेति वाच्यम् , इहैव सूत्रे तदनुवृत्तिः, नतु देवदत्तयज्ञदत्तौ' इत्यादावेव स्यात् । वा बहूनाम् । 'किंयत्तदः' इति वर्तते । जातिश्च परिप्रश्नश्चेति समाहारद्वन्द्वः । अत्र जातावितिसर्वेषां विशेषणम् । षष्ठीसमासे तु गुणभूतस्य जातिग्रहणस्य निष्कृष्य संबन्धोऽनुपपन्नः स्यात् । परिप्रश्नग्रहणं तु किम एव विशेषणम् । तच्च क्षेपनिवृत्यर्थम् । तत्र जातिग्रहणं प्रायोऽभिप्रायम् । क्रियागुणसंज्ञाभिरपि निर्धारणे डतमच इष्टत्वात् । तथा पूर्वसूत्रे द्वयोरिति प्रायोऽभिप्रायम् । बहूनां निर्धारणेऽपि डतरच इष्टत्वात् । तथा च वार्तिकम्-'किमादीनां द्विबह्वर्थे प्रत्ययविधानादुपाध्यानर्थक्यम्' इति । अत्र कैयट:-'द्वयोः' इति, 'जातिपरिप्रश्ने' इति च न कर्तव्यमिति भाव इति । तदेतदाह प्रत्याख्यातमाकर इति । कठ इति । कतमो भवतामध्यापकः शूरो देवदत्तो वेत्यप्युदाहतेव्यम् । यकः। सक Page #629 -------------------------------------------------------------------------- ________________ ६२६ ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकउतरजपि । कतरः । २०४६ एकाच प्राचाम् । (५-३-६४) डतरच् डतमय स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः । २०५० अवक्षेपणे कन् । (५-३-६५) व्याकरसकेन गर्वितः । येनेतरः कुस्सते तदिहोदाहरणम् । स्वतः कुत्सितं तु 'कुरिसते' (सू २०२५) इत्यस्य । इति तदिवेषु प्रागिवीयप्रकरणम् । अथ तद्धितेषु स्वार्थिकप्रकरणम् । ४१ । २०५१ इवे प्रतिकृती। (५-३-६६) कन्स्यात् । अश्व इव प्रतिकृतिः पूर्वस्त्रे इति ज्ञापनार्थत्वात् । अतो उतरज्विषये नाकच् । महाविभाषयेति । अत एव 'अवक्षेपणे' इति सूत्रे भाष्ये 'क एतयोरर्थयोर्विशेषः' इति प्रयोगः संगच्छते। तमबादयः प्रागवक्षेपणकनो नित्याः प्रत्ययाः' इति तु प्रायिकमिति भावः । किमोऽ. स्मिन्निति । 'वा बहूनाम्-' इति प्रकृतसूत्रविषयेऽपीत्यर्थः, बहुष्वासीनेषु इत्याद्युदाहृतभाष्यप्रयोगादिति भावः । एकाच प्राचाम् । शेषपूररोन सूत्रं व्याचष्टेउतरच् डतमञ्च स्यादिति । पूर्वसूत्रद्वयविषये इति शेषः । 'महाविभाषयैव सिद्ध प्राचांग्रहणं न कर्तव्यम्' इति भाष्यम् । अत एव नाकजथं तत् । अवक्षेपणे कन् । व्याकरणकन गर्वित इति । व्याकरणं हि स्वतो न कुत्सितम् , किंतु अधीतं सदध्येतृकुत्साहेतुभूतगर्वमावहदवक्षेपणम् । नन्ववक्षेपणं कुत्सा, तस्कथं व्याकरणमवक्षेपणं स्यात् , 'कुत्सिते' इत्यनेन गतार्थ चेदमित्यत आह येनेतर इति । भवक्षपणशब्दः करणे ल्युडन्त इति भावः । इति ताद्धतेषु प्रागिवीयप्रकरणम् । अथ तद्धिते स्वार्थिकप्रकरणं निरूप्यते । इवे प्रतिकृतौ । कन् स्यादिति । 'अवक्षेपणे कन्' इत्यतः तदनुवृत्तेरिति भावः । इवार्थ उपमानत्वम् । तद्वति वर्तमानात्प्रातिपदिकात्कन् स्यात्प्रतिकृतिभूते उपमेये इति फलितम् । मृदादिनिइति । कक इति तु नोक्तम् , अकच्सहितस्यापि 'किमः झः' इत्ययमादेश इति व्याख्यातत्वात् । महाविभाषयेति । 'प्राग्दिशः-' इति सूत्रे समर्थप्रथमग्रहणयोनिवृत्तत्वेऽपि वाग्रहणमनुवर्तते इत्युक्तत्वादिति भावः । 'किंयत्त :-' इति सूत्रे द्वयोरित्यस्य प्रत्याख्यानादाह किमोऽस्मिन्निति । एकाच । गचांग्रहणं पूजार्थम् । विकल्पोऽनुवर्तत एव । अवक्षेपणे कन् । कुत्सिते तु कः । खरे विशेषः । येनेतर इति । अवक्षिप्यते येनेत्यवक्षेपणशब्दः करणे ल्युडन्त इति भाः । इति तत्त्वबोधिन्यां प्रागिवीयप्रकरणम् । Page #630 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२७ भश्वकः । 'प्रतिकृती' किम्-गौरिव गवयः। २०५२ संज्ञायां च । (५-३-६७) इवार्थे कन् स्यात्समुदायश्चेत्संज्ञा। अप्रतिकृस्पर्थमारम्भः । अश्वसशस्य संज्ञा प्रश्वकः । उष्ट्रकः । २०५३ लुम्मनुष्ये । (५-३-६८) 'संज्ञायां च' इति विहि. तस्य कनो लुप्स्यान्मनुष्ये वाच्ये । 'चज्ञा तृणमयः पुमान् । च व मनुष्यश्रया। वधिका । २०५४ जीविकार्थे चापण्ये । (५-३-६६ ) जीविकार्थ यदवि. क्रीयमाणं तस्मिन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां मिता प्रतिमा प्रतिकृतिः। अश्वक इति । प्रतिकृतेः स्त्रीऽत्वेऽपि 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति पुंल्लिङ्गत्वम् । संज्ञायां च । कनिति शेषः। समुदायश्चदिति । प्रकृतिप्रत्ययसमुदायश्चत्प्रकृत्यर्थसहशस्य संज्ञेत्यर्थः । पूर्वसूत्रणैव सिद्धे किमर्थमिदमित्यत आह अप्रतिकृत्यर्थमारम्भ इति । तथा च 'प्रतिकृतौ' इति निवृत्तम् । 'इव' इति त्वनुवर्तत एव । तदाह अश्वसदृशस्यति । अवसदृशस्य अमनुष्यस्य कस्यचित्संज्ञेषा । अश्वसदृशोऽयमश्वकसंज्ञक इति बोधः । लुम्मनुष्ये । संज्ञायां चेति विहितस्येति । नतु 'इवे प्रतिकृतौ' इति विहितस्य, मनुष्यस्य प्रतिकृतित्वासंभवादिति भावः। चश्चेव मनुष्यः चचा इत्युदाहरणं वक्ष्यन् चश्चाशब्दं व्याचष्टे चञ्चा तृणमयः पुमानिति । चश्चेति । चञ्चातल्यो मनुष्योऽयं चञ्चासंज्ञक इत्यर्थः। वकिति। वर्धिका चर्ममयी प्रतिकृतिः । तत्तुल्यो मनुष्योऽयं वर्धिकासंशक इत्यर्थः । लुपि युक्तवत्वात् स्त्रीत्वम् । वचनं तु विशेष्यवदेव, 'हरीतक्यादिषु व्यक्तिः' इत्युक्तेः । तेन चञ्चे इव मनुष्यौ इत्यत्र चश्चा इति न भवति । जीविकाथै चापराये । परयं विक्रीयमाणम् । तदाह अविक्री. यमाणमिति । वासुदेव इति । वासुदेवतुल्या जीविका अविक्रेया प्रतिकृतिरि अश्वक इति । अश्वशब्दोऽश्वे एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति नायं खार्थिक इत्येके । अन्ये तु सादृश्यनिबन्धनादभेदोपचारागौर्वाहीक इतिवदश्वशब्द एव प्रतिकृतौ वर्तते । प्रत्ययस्तु तस्येवौपचारिकत्वस्य बोधक इत्याहुः । प्रतिकृतौ किम् , गौरिव रावयः । तृणचर्मकाष्ठादिनिर्मितं प्रतिमापरपर्यायं वस्तु प्रतिकृतिः । गवयस्तु नैवम् । समुदायश्चेदिति । प्रकृतिप्रत्ययसमुदाश्चेदश्वसदृशस्य संज्ञेत्यर्थः । चञ्चा । वधिकेति । लुपि युक्तवद्भावात् नीलिङ्गता । वासुदेवः। शिव इत्यादि । याः प्रतिमाः प्रतिगृह्य गृहाद् गृहं भिक्षमाणा अटन्ति ता एवमुच्यन्ते । देवलका अपि । त एव भिक्षवोऽभिप्रेताः । यास्त्वायतनेषु प्रतिष्ठाप्यन्ते पूज्यन्ते च तासूत्तरसूत्रेण लुप् । तदुक्तम्-'अर्चासु पूजनार्हासु चित्रकर्मध्वजेषु च । इवे प्रतिकृती लोपः कनो देवपयादिषु' इति । अर्चासु प्रतिमासु । प्रतिमासु कीदृशीषु, Page #631 -------------------------------------------------------------------------- ________________ ६२८ ] [तद्धितेषु स्वार्थिक सिद्धान्तकौमुदी । जीविकार्थासुदेवप्रतिकृतिष्विदम् । 'श्रपण्ये' किम् - हस्तिकान्विक्रीणीते । २०५५ देवपथादिभ्यश्च । ( ५-३ - १०० ) कनो लुप्स्यात् । देवपथः । हंसपथः । श्राकृतिगणोऽयम् । २०५६ बस्तेर्ढञ् । ( ५-३ - १०१ ) 'इवे' इत्यनुवर्तत त्यर्थः । एवं शिव इत्यादि । कथं प्रतिकृतेरविक्रेयाया जीविकार्थत्वमित्यत श्राह देवल कानामिति । प्रतिमां गृहीत्वा भिक्षार्थं प्रतिगृहमटता मेत्यर्थः । तत्तदायतनेषु 1 प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसूत्रेण लुब्वदयते । हस्तिकान्विक्रीणीत इति । जीविकार्थं हस्तितुल्यप्रतिकृती: विक्रीणीत इत्यर्थः । अत्र पण्यत्वप्रतीतेः कनो न लुक् । 'संज्ञायां च' इति विहितस्य नायं लुप्, किन्तु 'इवे प्रतिकृतौ ' इति विहितस्यैव, भाष्ये प्रतिकृतावेव तदुदाहरणात् । पठन्ति चाभियुक्ताः 'रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्त च धिग् धिक् । अस्मिन्पद्ये योऽपशब्दं न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धि धिक् ॥ इति । अत्र रामादिशब्दाः प्रतिकृतिषु वर्तन्ते । तासां चत्र पण्यतया कनो लुप् दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः । देवपथादिभ्यश्च । कनो लुप् स्यादिति । शेषपूरणमिदम् । 'इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुप् स्यादिति यावत् । देवपथ इति । देवानां पन्था देवपथः । तत्प्रतिकृतिरित्यर्थः । 'इवे प्रतिकृतौ' इति कनो लुप् । एवं हंसपथः । अत्र वृत्तौ पठितम् - 'अर्चा पूजनार्था चित्रकर्मध्वजेषु च । वे प्रतिकृत लोपः कनो देवपथादिषु ॥ इति । अर्चाः प्रतिमाः । पूजार्थासु तासु चित्रकर्मसु ध्वजे देवपथादिगणपठितेषु इवे प्रतिकृतौ' इति विहितस्य कनो लुबित्यर्थः । ' तद्राजस्य -' इति सूत्रे कैयटोऽप्येतं श्लोकं पपाठ । अर्चासु यथा— शिवो विष्णुर्गणपतिरित्यादि : चित्रकर्मसु यथा---- रावणः कुम्भकरी इन्द्रजिदित्यादि । ध्वजेषु यथा— कपिः रुडो वृषभ इत्यादि पूजनासु गृहेष्वायतनेषु वा याः पूज्यन्ते तासु । चित्रकर्मध्वजाभ्यां तद्गताः प्रतिक्रतयो लक्ष्यन्ते। श्रर्चासूदाहरणम् - शिवः, विष्णुः । चित्रकर्म णि अर्जुनः, दुर्योधनः । ध्वजेषु—कपिः, गरुडः, सिंहः । सुवर्णसिंहमकरादयो राज्ञां ध्वजेषु सन्ति । हस्तिकानिति । ईदृशमेव विषयमभिप्रेत्य पठन्ति - 'रामं संतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिक् । अस्मिन्पद्ये योऽपशब्दान्न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धिग्धिक्' इति । अयं भावः -- ' अपण्ये' इत्युक्तत्वात्पराये हस्तिकानितिवत् रामकं सीतिका लक्ष्मणकमिति प्रयोगा एव साधव इति । देवपथ इत्यादि । देवपथ 1 Page #632 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२६ एव । 'प्रतिकृतौ' इति निवृत्तम् । बतिरिव बास्तेयम् , बास्तेयी । २०५७ शिलाया ढः । (५-३-१०२) शिलेव शिलेयम् । योगविभागाद् ढमपीत्येके । शैलेयम् । २०५८ शाखादिभ्यो यः। (५-३-१०३) शाखव शाख्यः। मुख्यः । जघनमिव जघन्यः । अभ्यः । शरण्यः । २०५६ द्रव्यं च भव्ये । (५-३-१०४) द्रव्यम् अयं ब्राह्मणः । २०६० कुशाग्राच्छः । (५-३-१०५) कुशाग्रमिव कुशाग्रीया बुद्धिः । २०६१ समासाच तद्विषयात् । (५-३-१०६) इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य बस्तेढम् । निवृत्तमिति । अस्वरितत्वादिति भावः। 'संज्ञायां च' इत्यादिपूर्वसूत्रेषु कापि प्रतिकृतावित्यस्यानिवृत्तेः न लुब्बिधिषु तेषु तदनुवृत्तिरपेक्षिता । बस्तिरिवेति । 'बस्ति भेरधो द्वयोः' इत्यमरः। शिलाया ढः। इवे इत्येव । शिलेव शिलयमिति । दध्यादीति शेषः। योगेति । 'शिलायाः' इत्येको योगः। 'ढञ्' इत्यनुवर्तते, 'इवे' इति च । शैलेयमिति । अित्त्वादादिवृद्धिः, स्त्रियां लीप च फलम् । 'ढः' इति द्वितीयो योगः। 'शिलायाः' इत्यनुवर्तते । उक्तोऽर्थः । शाखादिभ्यो यः। 'यत्' इति त्वपपाठः। तैत्तिरीये 'मुख्यो भवति' इत्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात् , उगवादिसूत्रभाष्यविरुद्धत्वाच्च । द्रव्यं च भव्ये । द्रुशब्दादिवार्थवृत्तेः यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये । 'भव्य आत्मवान् । अभिप्रेतानामर्थानां पात्रभूतः' इति वृत्तिः। द्रव्यम् अयमिति । दुः वृक्षः, स यथा पुष्पफलादिभाग् एवमभिमतफलपात्रभूत इत्यर्थः । यद्वा दुः कल्पवृक्षोऽत्र विवक्षितः, स इव अभिमतार्थभागित्यर्थः। यप्रत्यये ओर्गुणः अवादेशः । कुशाग्राच्छः। इवे इत्येव : कुशाग्रमिवेति । सूक्ष्मत्वेन सादृश्यम् । कुशाग्रवत् सूक्ष्मेत्यर्थः । समासाश्च । तच्छब्देन प्रकृत इवार्थः परामृश्यते । तदाह इवार्थविषयादिति । इवार्थः सादृश्यमुपमानोपमेयभावात्मकम् , तद्विषयकादित्यर्थः । सादृश्यवदर्थबोधकात् समासादिति यावत् । यद्यपि घनश्याम इति समासोऽपि साहश्यवदर्थबोधकः, तथापि सादृश्यवदर्थबोधकसमस्यमानयावत्पदावयवकात् समासादिति विवक्षितमिति न दोषः । छः स्यादिति । चकारेण पूर्वसूत्रोपात्तच्छस्यानुकर्षादिति भावः । इवार्थे इति शेषः । 'पूगाभ्यः-' इत्यतः प्रागिवाधिकारात् । ततश्च इवार्थकइव प्रतिकृतिः । इंसपथ इव प्रतिकृतिरिति विग्रहः । बस्तिरिति । 'बस्ति भेरधो द्वयोः' इत्यमरः । द्रव्यं च भव्ये । द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते । समा. साञ्च तद्विषयात् । तच्छन्देन प्रकृत इवार्थो निर्दिश्यते इत्याह इवार्थविषया. दिति । छः स्यादिति । इवार्थे इति बोध्यम् । 'पूगाळ्यः-' इत्यतः प्रागिवेत्य Page #633 -------------------------------------------------------------------------- ________________ ६३० ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकवधः । इह काकतालसमागमसदृशश्चोरसमागम इति समानार्थः । तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः । समस्यमानयावत्पदकात्समासादिवाथै छः स्यादिति लभ्यते । काकतालीयो देवदत्तस्य वध इति । काकः कश्चिदकस्मात् तालवृक्षस्य मृलं गतस्तालफलपतनान्भृतः । तथैव कश्चिद्देवदत्तः अकस्मानिर्जनप्रदेशे क्वचिद्गत चोरेण हतः, तत्रेदं वाक्यं प्रवृत्तम् । अत्र समासार्थगतं सादृश्यमेकम् , प्रत्ययार्थ गतम् अन्यत्सादृश्यं च भासते । तथाहि-काकागमनमिव तालपतनमिव काकतालमिति समासस्य विग्रहः । अत्र काकशब्दः काकागमनसदृशे देवदत्तागमने लाक्षणिकः । तालशब्दस्तु तालपतनसदृशे चोरागमने लाक्षणिकः । काकागमनसदृशं देवदत्तागमनं तालपतनसदृशं चोरागमनमिति च काकतालमिति समासाद्बोधः । यद्यप्यत्र काकतालशब्दयोः मिलितयोरेकत्रान्वयाभावाद् द्वन्द्वसमासो न संभवति, परस्परान्वयाभावेन असामर्थ्याच्च । तथापि अस्मादेव विधिबलात् 'सु सुपा' इति समासः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागम इति समासार्थः, तदाह इह काकतालसमागमसदृशश्चोरसमागम इति समासार्थ इति । अत्र चोरसमागम इत्यस्य चोरेण देवदत्तस्य समागम इत्यर्थः । तदेवंविधात्समासात् काकतालशब्दादिवान्तरार्थे सादृश्यान्तरे छप्रत्ययः । तत्र समासात्मककाकतालशब्दभूतप्रकृत्यर्थरूपकाकतालसमागमसदृशदेवदत्तचोरसमागमे सति तालपतनकृतकाकमरणे उपस्थिते उपमानत्वम् , देवदत्तवधे चोरागमनकृरे उपमेयत्वं च छप्रत्ययेन गम्यते । ततश्च तादृशचोरसमागमे सति तालपतनकृतकाकगरणसदृशो देवदत्तस्य चोरकृतो वध इति छप्रत्ययेन लभ्यते । तदाह तत्प्रयुक्त इति । तादृशतालपतनप्रयुक्त इत्यर्थः। सदृश इत्यनन्तरं देवदत्तवध इति शेषः । तथा च काकतालसमागमसदृशो देवदत्तचोरसमागमः, तद्धेतुकस्तालपतनकृतकाकमरणसदृशश्चोरकृतो देवदत्तवध इत्येवं काकतालीयो देवदत्तवध इति समासाद्वोधः। एतदेवाभिप्रेत्योक्तं भाष्ये 'काका. गमनमिव तालपतनमिव काकतालम् । काकतालमिव काकतालीयम्' इति । अत्र काकतालमिति इवार्थगर्भितकेवलद्वन्द्वाद् न भवति इवान्तरार्थस्य सादृश्यान्तरस्याप्रतीतेरित्यलम् । अजाकृपाणीय इति । अजागमनमिव पाणपतनमिव अजाधिकारात् । शस्त्रीश्यामत्यादौ तु एक एव इवार्थः । स च समासान्तर्भूत इति छो न भवत्युक्तार्थानामप्रयोगात् । काकतालीय इति । प्रकृत सूत्रादेव ज्ञापकादिवार्थे समासः । सुप्सुपेति वा । उभयथापि विशेषसंज्ञाविनिर्मुक्तः । स च छप्रत्ययविषय एव । तेनेह स्वातन्त्र्यमुपाध्यन्तरयोगो विग्रहश्च नेत्याकरः । इह काकतालेत्यादि । Page #634 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३१ २०६२ शर्करादिभ्योऽण् । (५-३-१०७) शर्करेव शार्करम् । २०६३ अङ्गल्यादिभ्यष्ठक् (५-३-१०८) मङ्गलीव प्राङ्गलिकः । भरुजेव भारु. जिकः । २०६४ एकशालायाष्ठजन्यतरस्याम् । (५-३-१०६) एकशालाशब्दादिवाथै ठन्वा । पो ठक् । एकश्शालेव एकशालिकः, ऐकशालिकः । २०६५ कर्कलोहितादीकक् । (५-३-११०) कर्कः शुक्लोऽश्वः । स इब कार्कीकः । लौहितीकः स्फटिकः । २०६६ पूगायोऽग्रामणीपूर्वात् । (५-३-११२) इवार्थो निवृत्तः। नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगाः । तद्वाचकारस्वार्थे न्यः स्यात् । लौहितध्वज्यः। 'बातच्फमोरखियाम्' कृपाणम् , तदिव अज कृपाणीयः । अजाकृपाणसमागमसदृशो देवदत्तचोरसमागमः समासार्थः कृपाणपतनप्रयुक्ताजामरणसदृशो देवदत्तवधश्चोरकृतः प्रत्ययार्थः । अत्र सर्वत्र अतर्कितोपनतत्वं साधारणो धर्म इत्याह अतकितेति । शर्करादिभ्योऽण । इवे इत्येव । शार्करमिति । 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यति. वर्तन्ते' इति विशेष्यनिघ्नतेति भावः । अंगुल्यादिभ्यष्ठक् । इवे इत्येव । अंगुलीवेति । अलिशब्दात् 'कृदिकारादक्तिनः' इति डीए । आंगुलिक इति । पूर्ववद्विशेष्यनिघ्नता । भरुजेव भारुजिक इति । पूर्ववद्विशेष्यनिघ्नता । एकशालायाः। पक्षे ठगिति । 'अन्यतरस्याम्' ग्रहणम् अनन्तरठकः समुच्चयार्थमिति भावः । ठज्वेत्येव सुवचम् । कर्कलोहितादीका । कर्कः शुक्लोऽश्व इति । अश्वपर्यायेषु 'सितः कर्कः' इत्यमरः । लौहितीका स्फटिक इति । जफपुष्पादिसंपर्कवशाल्लोहित इवेत्यर्थः । पूगाध्यः । इवार्थो निवृत्त इति। व्याख्यानादिति भावः । अनियतवृत्तय इति । उद्वृत्ता इत्यर्थः। तद्वाचकादिति । पूगेति न स्वरूपग्रहण , व्याख्यानात् । ग्रामणीवाचकपूर्वावयवकभिन्नात् पूगवाचकादित्यर्थः । लोहितध्वज्य इति । लोहिता ध्वजा यस्य पूगस्य स एव लोहि. तध्वज्यः । व्रातच्फोरस्त्रियामिति । इदं सूत्रम् 'गोत्रे कुजादिभ्यः-' इत्यत्र आगच्छतः काकस्याऽकस्मात्तालफलपतनाद्यथा वधः, तथैव चाकस्मिकचोरसमागमाहेकदत्तवधः । एवमजाया श्रागच्छन्त्याः कृपाणपतनाद् यथा वधः, तत्सादृशं मरणमिति फलितोऽर्थः । अतर्कितोपनत इति । अचिन्तितोपपन्नः, यादृच्छिक इत्यर्थः। पूगायो । स्वरूपग्रहणं तु न भवति, 'अप्रामणीपूर्वात्' इति वचनात् । पूर्वशब्दो ह्यवयववचनः । अग्रामणीपूर्वादिति किम् , देवदत्तो प्रामणीर्येषां ते देवदत्तकाः । 'स एषां प्रामणीः' इति कन् । अत्र समुदायः पूगवचनः । लीहितध्वज्य इति । लोहितो ध्वजो यस्य संघस्य स लोहितध्वजः, स एव लौहितध्वज्यः । वातच. Page #635 -------------------------------------------------------------------------- ________________ ६३२] सिद्धान्तकौमुदी। द्वितेषु स्वार्थिक (सू ११०० ) व्रातः । कापोतपाक्यः । कफञ् । को जायन्यः । प्रामायन्यः । २०६७ आयुधजीविसङ्घायडू बाहीकेष्वब्राह्मणराजन्यात् । (५.३.११४) बाहीकेषु य प्रायुधजीविसङ्घस्तद्वाचिनः स्वार्थे न्यट् । तौः क्यः ? मालव्यः । टिक्वान्डीप । क्षौद्रकी । 'श्रायुध' इति किम्-मल्लाः । 'क्ष' इति किम्सम्राट । 'बाहीकेषु' किम्-शबराः । 'अब्राह्मण' इति केम्-गोपालकाः । सालङ्कयनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् । २०६८ वृकादेण्यम् । (५-३-११५) प्रायुधजीविसङ्घवाचकात्स्वार्थे । तरयः । 'आयुध' इति किम्-जातिविशेषान्मा भूत् । २०६६ दामन्यादित्रिगर्तधष्ठाच्छः । (५-३-११६ ) दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घपचिभ्यः स्वार्थे छः स्यात् । त्रिगतः षष्ठो वर्गो येषां ते विगतषष्ठाः । प्रसङ्गादुपादाय व्याख्यातम् । वात इति। उदाहरणसूचनमि म् । भारोद्वहनादिशरीरायासजीवनाद नानाजातीयानामनियतवृत्तीनां सङ्घो व्रातः। कागतपाक्य इति। कपोतान् पक्षिविशेषान् भक्षणाय पचतीति कपोतपाकः, स एव क पोतपास्यः । चेः कर्तरि घञ् , 'चजोः कु घिराण्यतोः' इति कुत्वम् । फजिति। उदाहरणसूचन. मिदम् । कौायन्य इति । 'गोत्रे कुञादिभ्यः-' इति च्फञ् । प्रायन्नादेशः । ततः स्वार्थे अनेन ज्यः । एवं ब्रानायन्यः । आयुधजीवि । बाहीकेविति । बाहीकाख्यग्रामविशेषेष्वित्यर्थः । क्षौद्रक्य इति। क्षुदको नाम कश्चिद युधजीविना बाहीकदेशवासिनां सङ्घः, स एव क्षौद्रक्यः। मालव्य इति । मालवो नाम कश्चिद्वाहीकेषु आयुधजीविनां सङ्घः, स एव मालव्यः। टित्त्वाद् डीबिति । एवं च 'अस्त्रियाम्' इति नात्र संबध्यत इति भावः । तद्विशेषेति । व्याख्यानादिति भावः वृकाहेरायण । वृको नाम कश्चिदायुधजीविसंघः, स एव वाण्यः । आदिव द्वेः । रपरत्वम् । जातिविशेषादिति । वृको नाम कश्चिन्मनुष्यखादी चतुष्पाजातिविशेषः प्रसिद्धः । तस्मान्नेत्यर्थः । दामन्यादि । दामनिः श्रादिर्यस्य दामन्यादिः। विगतः षष्ठो यस्य वर्गस्य स त्रिर्गतषष्ठः । दामन्यादिश्च त्रिगर्तषष्ठश्चेति समाहारद्वन्द्वात्पञ्चमी। फलितमाह दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चेति । आयुधजीविनां हि षड्वर्गाः, तत्र षष्ठस्निगर्तः वर्गः, तेभ्यः षड्वर्गभ्य इति यावत् । के ते त्रिग षष्ठा इत्यत आह फोः । उत्सेधजीवित्वं वातस्य पूगाद्विशषेः । उत्सेधः शरीरायसः । कौञ्जायन्य इति । 'गोत्रे कुजादिभ्यः-' इति च्फञ् । दामन्यादित्रिगर्तषष्ठात् । समाहारद्वन्द्वात्पश्चमी। त्रिगर्तषष्ठेभ्य इति । येषामायुधजीविनां षड तर्वर्गाः । षष्ठवर्गस्तु Page #636 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता । 'हुत्रिगर्तषष्ठस्तु कौएडोपरथदाण्डकी । कौष्टुकिजलमानिश्च ब्राह्मगुप्तोऽथ जालकिः ॥' दामनीयः । दामनीयौ । दामनयः । श्रलपि - श्रौलपीयः । त्रिगर्त - कौण्डोपरथीयः । दाण्डकीयः । २०७० पर्श्वादियौधेयादिभ्यो ऽत्र । (५-३-११७) आयुधजीविसंघवाचिभ्य एभ्यः क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः । २०७१ अभिजिद्विदभृ 1 1 [ ६३३ आहुरिति । कौण्डोपरथः, दाण्डकिः, क्रोष्टुकिः, जालमानिः, ब्राह्मगुप्तः, जालकिः इत्येतान् त्रिगर्तषष्ठान् आहुरित्यर्थः । जालकिरिति त्रिगर्तस्य नामान्तरम् । एतेषु षट्सु कौराडोपरथब्राह्मगुप्तशब्दौ शिवाद्यन्तौ । शेष इवन्तः । दामादिगणमुदाहरति दामनीय इति । दामनिरेव दामनीयः । श्रलपीति । प्रकृतिप्रदर्शना । पीय इति । श्रलपिशब्दात् स्वार्थे छः । त्रिगर्तेति । त्रिगर्तषष्ठानामुदाहरणसूचनमिदम् । कौण्डोपरथीय इति । कौण्डोपरथशब्दात्स्वार्थे छः । दाण्डकी इति । दाडकिशब्दात् स्वार्थे छः । क्रोष्टुकीयः, जालमानीयः, ब्राह्मगुप्तीयः, जालकीय इत्यप्युदाहार्यम् । पर्श्वादियौधेयादि । एभ्य इति । पर्श्वादिभ्यो यौधेयादिभ्यश्चेत्यर्थः । पार्शव इति । पर्शुशब्दाज्जनपदक्षत्रियविशेषयोर्वाचिकादपत्येष्वर्थेषु ‘यमगध-' इत्यण् । ततोऽपत्यसङ्घविवक्षायामनेन प्रणिति भावः । पर्शव इति । अपत्य सङ्घबहुत्वविवक्षायां प्रकृतस्याणोऽपि तद्राजत्वाल्लुक्, 'ज्यादयस्तद्राजा ः ' इति वक्ष्यमाणत्वादिति भावः । यौधेय इति । युधाशब्दादपत्येऽर्थे 'द्व्यचः' इति त्रिगर्तस्तेभ्य इत्यर्थः । त्रिगर्तवर्गषष्ठकाः के इत्याकाङ्क्षायामाह आहुत्रिगर्तषष्ठांश्चेति । अत्र जानकयस्त्रिगर्तवर्गः तेषु च त्रिगर्तषष्ठेषु प्रथमपञ्चमौ कौण्डोपरथब्राह्मगुप्तशब्दौ शिवाद्यन्तौ शेषास्त्वियन्ताः । केचित्तु तद्धितान्तमेव पञ्चमं ब्रह्मगुप्तशब्दं पठन्ति । कौण्डोपरथीय इति । बहुवचने तु कौराडोपरथा दाण्डकय इत्यादि । पार्शव इति । पर्शुरिति जनपदशब्दस्ततोऽपत्ये 'द्यमगध-' इत्यण् । बहुत्वे तद्राजत्वाल्लुक् । पुनः संघविवक्षायामनेनाग् । अस्याप्यणो बहुत्वे तद्राजत्वाल्लुक् । तदाह पर्शव इति । ननु पर्शुरिति यो जनपदशब्दस्तस्मादेवानेन स्वार्थेऽ विधीयताम्, अपत्यवाचिपर्शुशब्दात्संघविवक्षायामण्विधौ तु स्वार्थिकत्वं न सिध्येदिति चेत् । अत्राहुः - केवलः पर्शुशब्द एव जनपदवाची, न त्वणन्त इति जनपदवाचिनः स्वार्थेऽण् न विधीयते, किं तु 'धमगध-' इत्यणः 'तद्राजस्य बहुषु -' इत्यादिना लुकि बह्वपत्यवाचिपर्शशब्दादेव स्वार्थे विधीयते स्वार्थश्चात्र संघ एव । न च पशुशब्दस्य संघवाचित्वं नेति शङ्खयम्, बहुपत्यवाचित्वे संघवाचित्वध्रौव्यादिति न 1 Page #637 -------------------------------------------------------------------------- ________________ ६३४ ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक च्छालावच्छिखावच्छमीवदूर्णावच्छ्रमदणो यञ् । (५-३-११८) अभिजिदादिभ्योऽएणन्तेभ्यः स्वार्थे यम्स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शालावस्यः । शेखावत्यः । शामीवत्यः । और्णावत्यः । श्रीमत्यः । २०७२ ज्यादयस्तद्राजाः। (५-३-११६) 'पूगाम्भ्यः -' (सू २०६६) इत्यारभ्य उना एतस्संज्ञाः स्युः। तेनास्त्रियां बहुषु लुक् । खोहितध्वजाः, कपोतपाकाः, कौआयनाः, ग्राभायना इत्यादि । २०७३ पादशतस्य संख्यादेवींढक् । तदन्तादपत्यसङ्घविवक्षायामनेन अञ् । अित्त्वम् अायुदात्तत्वफ नकम् । यौधेया इति । अपत्यसङ्घबहुत्वविवक्षायां 'तद्वाजस्य -' इत्यत्रो लुक् । 'क्तिः' इत्यन्तोदात्तं फलम् । अभिजिद्विदभृत् । अभिजित्, विदभृत् , शालावत् , शिखावत्, शमीवत्, ऊर्णावत्, श्रुमद् एषां समाहारद्वन्द्वात् पञ्चम्या लुक् । 'अण' इति प्रत्ययत्वात् तदन्तग्रहणम् , तदाह अभिजिदादिभ्य इति । अत्र 'श्रा युधजीविसङ्घादिति निवृत्तम्' इति वृत्तिः। श्राभिजित्य इति । अभिजितोऽपत्यं शाभिजितः । अपत्येऽण् । श्राभिजित एव आभिजित्यः । वैदभृत्य इति । विदमृतोऽपत्यं वैदभृतः। स एव वैदभृत्यः । शालावत्य इति । शालावतोऽपत्यं शालावतः, स एव शालावत्यः। शैखावत्य इति । शिखावतोऽपत्यं शेखावतः, स एव शेखावत्यः । शामीवत्य इति । शमीवतोऽपत्यं शामीवतः, स एव शामीवत्यः । और्णावत्य इति । ऊर्णावतोऽपत्यमौर्णावतः, स एव और्णावत्यः। श्रीमत्य इति । श्रुमतो. ऽपत्यं श्रीमतः, स एव श्रीमत्यः । अत्र अभिजिदित्यादिशब्देषु यत्रः स्वार्थिकतया गोत्रार्थकत्वादाभिजित्यस्यायमिति विग्रहे 'गोत्रचरणात्-' इति वुजि 'आपत्यस्य च । इति यलोपे आभिजितक इति भवति । 'अपत्याणन्तेभ्य एवायं यः । तेन आभिजितो मुहूर्त इत्यादौ न यञ्' इति भाष्ये स्पष्टम् । ज्यादयस्तद्राजाः। लोहितध्वजा इति । 'पूगात्-' इति विहितस्य व्यस्य तद्राजत्वाद् बहुत्वे लुक् । कपोत. पाकाः, कौश्चायनाः, ब्राध्नायना इति । 'बातच्फओ:-' इति विहितस्य व्यस्य लुक् । इत्यादीति । क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः। श्रायुधजीवी ते ज्यटो लुक् । काप्नुपपत्तिरिति । यौधेय इति । युध्यतेऽसौ युधा । युधेरिर पधलक्षणः कः । युधाया अपत्यं 'यचः' इति ढक् । तदन्तात्संघविवक्षायामनेनाञ् । तेन यौधेय इति आद्युदात्तं भवति । किं च यौधेयस्याङ्को लक्षणं वा यौधेयः । 'संघ कलक्षण-' इत्यअन्तादण् । एवं यौधेयादिषु ये ढगन्ताः शौकेयादयस्तेषु सर्वेषु प्रयोजनद्वयमूह्यम् । यौधेया इति । अलो लुक् , अन्तोदात्तम् । न च 'न प्राच्यभर्ग-' इत्यादिना निषेधः शङ्कयः, स्त्रियामेव तनिषेधात् । प्राभिजित्य इति । श्राभिजितश् ब्दादणन्ताद्यञ् । Page #638 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३५ प्सायां वुन्लोपश्च । (५-४-१) लोपवचनमनैमित्तिकत्वार्थम् । भवो न स्थानिवत् । 'पादः पत्' (सू ४१४)। तद्धितार्थ-' (सू ७२८) इति समासे कृते प्रत्ययः । बुधयं सियामेव । द्वौ पादौ ददाति द्विपदिकाम् । द्विशतिकाम् । 'पादशतग्रहणमनर्थकम् , अन्यत्रापि दर्शनात्' (बा ३१४)। द्विमोदकिकाम् । वार्केण्यः, वार्केण्यौ, वृकाः । वृकाट्टेण्यणो लुक् । दामनीयः, दामनीयौ, दामनयः, कौण्डोपरथा इत्यादौ 'दामन्यादित्रिगर्तषष्ठात्' इति छस्य लुक् । पार्शवः, पार्शवी, पर्शवः, यौधेया इत्यत्र पर्वादियौधेयाषणमोलृक् । श्राभिजित्यः, आमिजित्यो, अभिजितः, विदभृत इत्यादौ अभिजिद्विदमृदित्यादिविहितस्य यो लुगिति भावः । __ इति तद्धितेषु पञ्चमाध्यायस्य तृतीयपादः समाप्तः। अथ पञ्चमाध्यायस्य चतुर्थपादप्रारम्भः । पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च । पादश्च शतं चेति समाहारद्वन्द्वाद् लोपापेक्षया षष्ठी । वुन्प्रत्ययापेक्षया तु सा पञ्चम्यर्थे । संख्यावाचकशब्दपूर्वकात् पादशब्दात् शतशब्दाच वीप्साविशिष्टार्थवृत्तः स्वार्थे वुन्प्रत्ययः स्यात् , प्रकृतेरन्त्यस्य लोपश्चेत्यर्थः। ननु वुनः अकादेशे सति 'यस्येति च' इत्येव लोपसिद्धेरिह लोपविधिर्व्यर्थ इत्यत आह लोपवचनमनैमित्तिकत्वार्थमिति । 'यस्येति च' इति लोपस्य परनिमित्तकतया तस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वात् 'पादः पत्' इति पदादेशो न स्यात् । अस्य तु लोपस्य परनिमित्तकत्वाभावेन स्थानिवत्त्वाप्रसक्तेः पद्भावो निर्बाध इति भावः । तद्धितार्थ इति। नच वीप्सायाः प्रकृत्यर्थविशेषणतया वुनोऽर्थाभावात्कथमिह 'तद्धितार्थ-' इति समास इति वाच्यम् , वुनो द्योतकतया द्योत्यार्थेनैवार्थवत्त्वात् । वुन्नयं स्त्रियामेवेति । स्वभावादिति भावः । द्विशतिका. मिति । द्वे द्वे शते ददातीति विग्रहः। पादशतेत्यादि । वार्तिकमिदम् । अनर्थकमिति कथम् , पादशतभिनव्यावृत्त्यर्थत्वादित्यत आह अन्यत्रापि दर्शनादिति । एवं विदमृत्प्रभृतिभ्योऽणि तदन्तेभ्यो वैदमृत-शालावत-शैखावतादिभ्यो यञ् । पादशतस्य संख्यादेः। पादशतस्य किम् , द्वौ द्वौ माषौ ददाति । संख्यादेरिति किम् , पादं पादं ददाति। वीप्सायामिति किम् , पादौ ददाति । अनैमित्तिकत्वार्थमिति । निमित्ते भवो नैमित्तिकः, अध्यात्मादित्वाठञ् । तद्धितार्थ इति । यद्यपि प्रकृत्युपाधिर्वीप्सा, तथापि वुना द्योत्येऽति तद्धितार्थो भवत्येवेति भावः । ददातीति । समर्पणमात्रमिह ददातेरर्थः, न तु परखत्वापादनपर्यन्तम् । तथात्वे हि उत्तरसूत्रविषयत्वं स्यात् । केचित्तु व्यवसृजतेर्धातोः प्रयोगे सत्येव उत्तरसूत्रस्य प्रवृत्तिमाहुः । अन्यत्रापि दर्शनादिति । द्वौ द्वौ माषौ ददातीत्यादौ त्वनभिधानाभातिप्रसङ्ग इति Page #639 -------------------------------------------------------------------------- ________________ ६३६ ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक२०७४ दण्डव्यवसर्गयोश्च । (५-४-२) वुनस्यात् । अयोप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकां व्यवसृजति ददातीरथैः । २०७५ स्थूलादिभ्यः प्रकारवचने कन् । (५-४-३) जातीयरोऽपवादः । स्थूल कः । अणुकः । 'चञ्चबृहतोरुपसंख्यानम्' (वा ३३१५) । चञ्चरकः । बृहत्कः । 'सुराया अहौ' (ग स् १३०) । सुरावर्णोऽहिः सुरकः । २०७६ अनत्यन्तगतो तात् । (५-४-४) छिन्नकम् । भिन्नकम् । अभिन्नकम् । २००७ न सामितदुदाहृत्य दर्शयति द्विमोदकिकामिति । द्वौ द्वौ मोदको ददातीति विग्रहः । दण्डव्यवसर्गयोश्च । वुन् स्यादिति । संख्यादेः पादशताद् दण्डव्यवसगेयोर्गम्ययोर्वन् स्यात्प्रकृतेरन्तलोपश्चेत्यर्थः । दण्डनं दण्डः । बलात्कृल द्रव्यग्रहणम् । व्यवसर्गो दानम् । ननु पूर्वेण सिद्धे किमर्थमिदमित्यत आह अवीपमामिति । द्वी पादौ दण्डित इति । बलात्कृत्य प्राहित इत्यर्थः । स्थूलादिभ्यः । प्रकारो भेदः सादृश्यं च, व्याख्यानात् । तद्वति वर्तमानाद्यथायोगं कन्नित्यर्थः । जातीयरोऽपवाद इति । एतेन अयमपि तद्वदेव प्रकारवति भवति, तु प्रकारमात्रे इति सूचितम् । चञ्चत्क इति । चञ्चधातुश्चलने। अचञ्चन्नपि यश्च चन्निव दृश्यते स चञ्चत्कः । यथा स्पन्दमानस्वच्छजलमध्यवर्ती मणिः । बृहत्क इति। अबृहनपि बृहन्निव दृश्यते स बृहत्कः, बृहदाख्यासामविशेषो वा । सुराया अहाविति । गणसूत्रमिदम् । प्रकारवचने कन्निति शेषः । सुराया अहावेवेति निमार्थमिदम् । सुरक इति । "केऽणः' इति ह्रस्वः । अनत्यन्तगतौ क्तात् । अत्यन्तगतिः भावः । दण्डव्यवसर्ग । दण्डनं दण्डः । दण्डश्चुरादित्वाद्भावे घ।। अत्राप्युदा. हरणे 'तद्धितार्थ-' इति समासः।स्त्रीलिङ्गं च तद्धितार्थः । यद्वा प्रकृत्यर्थ एव तद्धितार्थः, खार्थिकत्वाद् वुनः। द्वौ पादौ दण्डित इति । देवदत्तेन यज्ञदत इति शेषः । दण्डेरप्रधाने कर्मणि क्त इति यज्ञदत्त इत्यत्र प्रथमा । द्वौ पादावि यत्र द्विपदिकामित्यत्र च द्वितीया भवति । 'दराडेग्रहणार्थे' इति तु द्विकर्मकेयूक्तम् । त्था च द्विपदिकाकर्मकर्मकग्रहणविषयीभूतो यज्ञदत्त इत्यादिरर्थ इति नव्याः । स्थूलादिभ्यः। प्रकारो भेदः सादृश्यं च । उभयत्रापि यथासंभवं कन् । जातीयरोऽपवाद इति । तेनायमपि तद्वदेव प्रकारवति भवति, न तु प्रकारमात्रे इत्युक्तं भवति । चञ्चदबृहतो. रिति । एतावपि स्थूलादिष्वेव पठितव्याविति भावः । चञ्चत्क इति । चञ्चति. श्चलनकर्मा । चञ्चन्नेव कश्चिञ्चच्चत्कः । एवं बृहद्विशेषो बृहत्कः । यद्वा अचञ्चन्नबृहन्नपि प्रभाविशेषाच्चञ्चन्निव बृहन्निव मणिविशेषो लक्ष्यते स चञ्चत्कः, बृहत्मः । सुरक इति । 'केऽणः' इति हखः । छिन्नकमिति । ईषच्छिन्नमित्यर्थः । क्तप्रकृति Page #640 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ६३७ वचने । ( ५-४-५ ) सामिपर्याय उपपदे क्लान्तान कन् । सामिकृतम् । अर्धकृतम् । अनस्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन्न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् । २०७८ बृहत्या आच्छादने । ( ५-४ - ६ ) कन्स्यात् । ' द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा' इत्यमरः । ‘आच्छादने' किम्- बृहती छन्दः । २०७६ षडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाभ्युत्तरपदात्खः । ( ५-४-७ ) स्वार्थे । श्रषडक्षीणो अशेषावयवसंबन्धः, तदभावः अनत्यन्तगतिः, तस्यां गम्यमानायां क्लान्तात्कन्नित्यर्थः । छिन्नकमिति । किश्चिदवयवावच्छेदेन छिन्नमित्यर्थः । न सामिवचने । वचनग्रहणं पर्यायलाभार्थमिति मत्वा आह सामिपर्याय उपपद इति । सामिकृतमिति । सामीत्यव्ययमर्थे । ' सामि' इति समासः । श्रर्धकृतमिति । अर्धं कृतमिति कर्मधारयः । सामीत्यस्य क्रियाविशेषणत्वेन कारकत्वात् समुदायस्य क्लान्तत्वम्, कृद्ग्रहणे गतिकारकपूर्वस्यापि प्रहणात् । नन्विह अनत्यन्तगतेः प्रकृत्यैवाभिहितत्वाद् 'उक्तार्थानामप्रयोगः' इति न्यायेन पूर्वसूत्रविहितस्य कनः प्रसक्तेरिह तन्निषेधो व्यर्थ इति शङ्कते अनत्यन्तगतेरिति । परिहरति इदमेवेति । तथापीति पूर्वमध्याहार्यम् । ज्ञापयतीति । न ह्ययमनत्यन्तगताविति कनः प्रतिषेधः, किं तर्हि, अत्यन्तस्वार्थिकस्य कनः, तत्र च इदमेव ज्ञापकम् । अन्यथा तद्वैयर्थ्यादिति भावः । बहुतरकमिति । बहुतरमेव बहुतरकम् । भाष्ये तु इदं सूत्रं प्रत्याख्यातम् । 'तमबाद्यन्तात् स्वार्थे कन् वक्तव्यः' इति वचनेन यावादित्वाद्वा स्वार्थे कना बहुतरकं सुकरतरकमित्यादि सिद्धमिति तदाशयः । बृहत्या श्राच्छादने । कन् इति शेषः । बृहत्येव बृहतिका, उत्तरीयं वासः, तदाह द्वौ प्रावारेति । अमरवाक्यमिदम् । षडक्ष | स्वार्थ इति । शेषपूरणमिदम् । श्रषडक्ष, आशितङ्ग, अलङ्कर्मन् वाच्यया क्रियया कप्रत्ययवाच्यस्य साधनस्य व्याप्तिरत्यन्तगतिः, सेह नास्ति । न सामिवचने । सामि श्रर्थ उच्यते येन तत्सामिवचनमिति व्युत्पत्त्या 'वचनग्रहणं पर्यायार्थम्' इत्याह सामिपर्याय इति । सामिकृतमिति । 'सामि' इति समासः । अर्धकृतमिति । विशेषणसमासो बहुव्रीहिर्वा । प्रकृत्यैवेति । सामिवचनेनैवेत्यर्थः 1 ज्ञापयतीति । अयं भावः - 'न सामिवचने' इत्यनेन 'अनत्यन्तगतौ -' इति कनो न निषेधः । सामिकृतादिभ्यस्तस्य प्राप्त्यभावात् तेभ्योऽसमासे सामिपदेनैव अनत्यन्तगतेर्योतनात् समासेभ्यस्तु क्लान्तत्वाभावाच्च । न च कृद्ग्रहणपरिभाषया समासस्य क्लान्तत्वमस्तीति शङ्कयम्, सामिशब्दस्य गतिकारकत्वाभावात् । तस्मात् स्वार्थिक एव कन् निषिध्यत इति । इदमेव निषेधवचनं क्वचित्स्वार्थिकं कनं ज्ञापयतीति । , , 6 Page #641 -------------------------------------------------------------------------- ________________ ६३८] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकमन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । प्राशिता गावोऽस्मिमिति प्राशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । प्रलं कर्मणे अलङ्कर्मीणः । अलम्पुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् । 'अन्येऽपि केचित्स्वाथिकाः प्रत्यया नित्यमिष्यन्ते'। 'तमबादयः प्राक्कनः । म्यादयः प्राग्वुनः। प्रामाअलम्पुरुष एभ्यः अध्युत्तरपदाच स्वार्थे खः स्यादित्यर्थः । अषडक्षीणो मन्त्र इति । मन्त्रणं मन्त्रः । रहसि राजतदमात्यादिभिः युक्तिभिः क्रियमाणं निधोरणम् । अविद्यमानानि षड् अक्षीणि श्रोत्रेन्द्रियाणि यस्मिन्निति बहुव्रीहिः । 'बहुव्री हौ सक्थ्यक्ष्णोः' इति षच् । तदन्तादनेन स्वार्थ खः। द्वाभ्यामेवेति । पुरुषाभ्यामिति शेषः । आशिता इति । 'अश भोजने' इत्यस्माद् ‘ाशितः कर्ता' इति ज्ञापकाकर्तरि क्तः । पूर्वस्य मुमिति । आशितशब्दस्येत्यर्थः । अलङ्कर्मीण इति । 'र्यादयो ग्लानाद्यर्थे' इति चतुर्थीसमासात्खः, टिलोपः । अलम्पुरुषीण इति । अलं पुरुषायेति विग्रहः । मातृभोगीण इत्यादाविव अषडक्षीणादौ णत्वम् । ‘पदव्यवायेऽपि' इति निषेधस्तु न, पदे परतो यत्पदं तेन व्यवाये इत्याश्रयणात् । ईश्वराधीन इति । 'यस्मादधिकम्-' इति ईश्वरशब्दात्सप्तमी । शौण्डादित्वादधिशब्देन समासः। ततः स्वार्थे खः । 'समर्थानाम्-' इत्यतो वाग्रहणानुवृत्त्या अस्य खस्य वैकल्पिकत्वभ्रमं वारर ति नित्योऽयं ख इति । उत्तरेति । 'विभाषाच्चेः-' इत्युत्तरसूत्रे 'समर्थानाम्-'इल तो वाग्रहणानुवृत्त्यैव सिद्धे विभाषाग्रहणादिह पूर्वसूत्रे वाग्रहणानुवृत्त्यभावो ज्ञा यत इत्यर्थः । नचैवं सति आशिता गावोऽस्मिन्निति, अलं कर्मण इति च विग्रहप्रदर्शनमनुपपन्नमिति वाच्यम् , तस्य खप्रत्ययप्रकृतिकथनार्थत्वेन अलौकिकविग्रहवा म्यप्रायत्वात् । प्रसङ्गादाह अन्येऽपीति । इण्यन्त इति । भाष्यकृतेति शेष । तमबादयः प्राकन इति । 'अतिशायने तमप्-' इत्यारभ्य 'अवक्षेपणे कन्' इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । ज्यादयः प्राग्वुन इति । 'पूग ज्योऽयामणीअषडक्षीण इति । अविद्यमानानि षडक्षीणि यस्मिन्निति बहुव्रीहिः । अक्षिशब्दोऽत्र श्रोत्रेन्द्रिये वर्तते । 'बहुव्रीही सक्थ्यक्ष्णोः-' इति षच्, तदन्तादनेन खः । मन्त्रो मन्त्रणम् । आशितंगवीनमिति । आपूर्वादश्नोतेः 'आशितः कत' इति ज्ञापकाकर्तरि क्तः, ण्यन्तात्कमणि वा । उभयापि प्रभूतयवसमिति फलितोऽर्थः । अलंकर्मीण इति । अलंकर्म अलंपुरुषेति 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' इति समासः । अलंपुरुषीण इति । प्रतिमल्लादिः । ईश्वराधीन इति । अधिश दः शौण्डादिरित्युक्तम् । तमबादय इति । 'अतिशायने तमप्-' इत्यादयः । पाकन इति । 'अवक्षेपणे कन्' इति विहितात् । ज्यादय इति । 'पूगाभ्यो ग्रामणीपूर्वात्' Page #642 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१] बालमनोरमा-तत्वबोधिनीसहिता। [६३६ दयः प्राङ्मयटः । 'बृहतीजात्यन्ताः समासान्ताच' इति भाष्यम् । २०८० विभाषाञ्चरदिक् स्त्रियाम् । (५-४-८) अदिक्सीवृत्तरत्रस्यन्ताप्रातिपदि. कास्खः स्याद्वा स्वार्थे । प्राक-प्राचीनम् । प्रत्यक्-प्रतीचीनम् । अवाक्-प्रवाची. नम् । 'निकृष्टप्रतिकृष्टावरेफयाप्यावमाधमाः' इत्यमरः । भवन्तमवतीति अर्वाक, पूर्वात्' इत्यारभ्य 'पादशतस्य संख्यादेर्वीप्सायां वुन्' इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । आमादयः प्राङ्मयट इति । 'किमेत्तिक व्ययघादाम्-' इत्यारभ्य 'तत्प्रकृतवचने मयट्' इत्यतः प्राग्विहिता इत्यर्थः । वृहतीजात्यन्ता इति । बृहतीशब्देन 'बृहत्या आच्छादने' इति कन् लक्ष्यते । जात्यन्तशब्देन तु 'जात्य- . न्ताच्छ बन्धुनि' इति छो लक्ष्यते । बहुवचननिर्देशात् पाशबादयोऽपि 'षष्ठया रूप्य च' इत्यन्ता गृह्यन्त इति कैयटः । वस्तुतस्तु परिगणिता एव नित्याः, नतु पाशबादयोऽपि । 'बृहतीजात्यन्ताः' इति बहुवचनं तु 'बृहत्या आच्छादने' इति 'जात्यन्ताच्छ बन्धुनि' इति च सूत्रयोर्मध्यगतेन 'अषडक्ष-' इति सूत्रेण विहितं खप्रत्ययमभिप्रेत्येति न दोषः । 'विभाषाचेः' इति उत्तरसूत्रे - खविधौ विभाषाग्रहणं तु तस्यापि बृहतीजात्यन्तरालवर्तित्वाविशेषाद् नित्यत्वे प्राप्ते विकल्पार्थम् । अनित्योऽयं खः, उत्तरसूत्रेषु विभाषाग्रहणादिति मूलं तु अभ्युच्चययुक्तिरिति शब्देन्दुशेखरे स्थितम् । विभाषाञ्चेरदिनियाम् । अदिस्त्रियामिति कर्मधारयगर्भो नञ्तत्पुरुषः । तदाह अदिक्लीवृत्तेरिति । प्रागिति । 'अञ्चलृक्' इति लुप्ता. स्तात्यन्तमिदम् । प्राचि देशे इत्यर्थे प्राचीनमिति खान्तमिदं स्वभावादाधेयपरम् । स्वभावादेव सामान्ये नपुंसकमेकवचनान्तत्वं च । इदं तु पदसंस्कारपक्षे । वाक्यसंस्कारपक्षे तु प्रागादिशब्देभ्यः समभिव्याहृतदेशकालस्थवृक्षादिबोधकेभ्यः खः । तत्र उपस्थितविशेष्यलिङ्गत्यागे मानाभावात् प्राचीना अाम्राः, प्राचीना वाटी, प्राचीनं इत्यादयः । प्राग्वुन इति। 'पादशतस्य संख्यादेः' इति विहितात् । आमादय इति । 'किमेत्तिव्ययघादामु-' इत्यादयः। प्राङ्मयट इति । 'तत्प्रकृतवचने मयट्' इत्यतः प्रागित्यर्थः । बृहतीजात्यन्ता इति । बृहतीशब्देन 'बृहत्या श्राच्छादने' इति विहितः कन् उपलक्ष्यते । जात्यन्तशब्देन 'जात्यन्ताच्च-' इति च्छः। बहुवचननिर्देशात्पाशबादयो गृह्यन्ते । यो हि वैयाकरणपाशादिशब्दैरर्थः प्रतीयते नासौ प्रकृतिमात्रेण प्रतीयत इति तेऽपि तमबादिवन्नित्या एवेति स्थितमाकरे । कन्छौ मुक्त्वा मूले बृहतीमात्रप्रयोगो जात्यन्तमात्रप्रयोगश्च कृतः, स तु अवाचकोऽप्यार्षग्रन्थानुवादकत्वान्न दोषाय । विभाषाश्चेर । दिक् चासौ स्त्री चेति दिक्स्त्री, तत्र प्रतिषेधः, न तु दिशि स्त्रियां च, स्त्रीलिङ्गकवचननिर्देशात् । प्राचीनमिति । 'अचः' Page #643 -------------------------------------------------------------------------- ________________ ६४० ] सिद्धान्तकौमुदी । [तद्धितेषु स्वार्थिक 1 अर्वाचीनम् । 'श्रदिस्त्रियाम्' किम्-प्राची दिक्, उदीची दिक् । 'दिग्ग्रहणम्' किम् - प्राचीना ब्राह्मणी । 'स्त्रीग्रहणम्' किम् - प्राचीनं ग्रामादाम्राः | २०८१ जात्यन्ताच्छ बन्धुनि । ( ५-४-६ ) ब्राह्मणजातीयः । 'बन्धुनि' किम्ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु । २०८२ स्थानान्ताद्विभाषा सस्थानेनेति चेत् । ( ५-४ - १०) सस्थानेन तुल्येन चेरस्थानान्तमर्थवदित्यर्थः । वनमिति भवतीत्याहुः | अर्वन्तमञ्चतीति वक्ष्यन् अर्वच्छन्दं विवृगोति निकृष्टेति । अमरवाक्यमिदम् । प्राची दिगिति । लिङ्गविशिष्टपरिभाषया प्राप्तिः । दिग्ग्रहणं किमिति । स्त्रियामित्येतावतैव प्राची दिगित्यत्रातिप्रसङ्गनिरासात्किं तेनेति प्रश्नः । व्याप्तिपरिहारार्थमित्याह प्राचीना ब्राह्मणीति । नेयं दिग्रपा स्त्री, किंतु तद्भिन्ना स्त्रीति खो भवत्येवेति भावः । स्त्रीग्रहणं किमिति । प्रदिर्श त्येतावतैव प्राचीना ब्राह्मणीत्यत्राव्याप्तिनिरासात्प्रश्नः । इदमप्यव्याप्तिपरिहारार्थमित्याह प्राचीनं ग्रामादाम्रा इति । स्थानिवत्सूत्रभाष्ये श्रयं प्रयोगः स्थितः । अत्र प्राच्यां दिशीत्यर्थे लुतास्तात्यन्ता प्रागिति प्रकृतिः । स च अव्ययत्वाद् अस्त्रीति खो भवेत्येवेति भावः । जात्यन्ताच्छ बन्धुनि । छति लुप्तप्रथमाकम् । जातिशब्दान्तात् प्रातिपदिकाद्वन्धुनि वर्तमानात् स्वार्थे छप्रत्ययः स्यादित्यर्थः । बन्धुनाब्दो द्रव्यवाचीति वक्ष्यति । तथा च बन्धुनि वर्तमानादित्यनेन जात्याश्रयद्रव्यलक्षणादिति फलितम् । ब्राह्मणजातीय इति । ब्राह्मणत्वजात्याश्रयो व्यक्तिविशेष इत्यर्थः । ब्राह्मणजातिः शोभनेति । ब्राह्मणत्वजातिरित्यर्थः । बध्यते ब्राह्मणवादिजातिर्व्यज्यतेऽस्मिन्निति बन्धु द्रव्यम् । 'शृस्वस्निहि-' इत्यादिना श्रधिकरणे उप्रत्ययः । तदाह जातेर्व्यञ्जकं द्रव्यं बन्ध्विति । श्राप्तपर्यायस्तु बन्धुशब्दो नेह गृह्यते, बन्धुनीति इत्यकारलोपे कृते 'चौ' इति दीर्घः । एवमग्रे क्वचिदूह्यम् । प्राचीना ब्राह्मणीति । प्रकर्षेणाञ्चतीति प्राचीनेत्येवं क्रियानिमित्तको वा देशकालनिमित्तको वा श्रयं शब्दो ब्राह्मण्यां वर्तते, न तु दिशीति प्रतिषेधाभावः । प्राचीनमिति । प्राच्यां दिर्शात्यर्थे ‘दिक्शब्देभ्यः-’ इत्यस्तातिः 'अञ्चेर्लुक्' इति लुक् । 'लुक्तद्धितलुकि ' इति ङीपो लुक् । 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वात् स्त्रीत्वाभावः । खे तु कृते स्व भावान्नपुंसकत्वम् । ब्राह्मणजातीय इति । कयोरितिवद्भावप्रधानो ब्राह्मणशब्दः, तस्य जातिशब्देन सह बहुव्रीहिः । ब्राह्मणत्वजात्याधारभूतः पिण्ड इत्यर्थः । ब्राह्मणजातिरिति । षष्ठीतत्पुरुषः । भावप्रधानेन सह कर्मधारयो वा । जातेर्व्यञ्जकमिति । बध्यते जातिरस्मिन्निति बन्धुः । ‘स्वस्तिहि - ' इत्यादिना श्रधिकरणे प्रत्ययः । रूढोऽपि बन्धुशब्द आप्तपर्यायः पुंल्लिङ्गोऽस्ति, तथापि स नेह गृह्यते । 'बन्धुनि' इति नपुंसक Page #644 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१] बालमनोरमा-तत्त्वबोधिनीसहिता। [६४१ पित्रा तुल्यः पितृस्थानीयः, पितृस्थानः । 'सस्थानेन' किम्-गोस्थानम् । २०५३ अनुगादिनष्ठक् । (५-४-१३) अनुगदतीत्यनुगादी । स एव भानुगादिकः । २०८४ विसारिणो मत्स्ये । (५-४-१६) अपस्यात् । वैसारिणः । 'मत्स्ये' इति किम्-विसारी देवदत्तः । २०८५ संख्यायाः क्रियाभ्यावृत्तिगणने नपुंसकनिर्देशादिति भावः। स्थानान्तात् । सस्थानेनेत्यस्य विवरणं तुल्येनेति । इतिशब्दादर्थवदिति लभ्यते। तुल्यरूपेणार्थेन यदि स्थानान्तं शब्दस्वरूपमर्थव. द्भवति, तदा स्थानान्तात् छो वा स्यादित्यर्थः । तुल्यरूपार्थे वर्तमानात् स्थानान्तात् छो वा स्यादिति यावत् । पितृस्थानीय इति । स्थानं पूज्यत्वादिपदम् । पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः । पितृनिष्ठपूज्यत्वादितुल्यपूज्यत्वादिमानित्यर्थः । गोस्थानमिति । गवां निवास इत्यर्थः। अत्र तुल्यत्वाप्रतीतेन च्छः। "किमेत्तिङव्यय-' इत्युत्तरसूत्रं प्रसङ्गात्पूर्वमेव व्याख्यातम् । 'अमु च च्छन्दसि' इति तु वैदिकप्रक्रियायां व्याख्यास्यते । अनुगादिनष्ठक् । स्वार्थ इति शेषः । 'आमादयः प्राङ्मयटः' इत्युक्तेः ठगादयो नित्या एंव प्रत्ययाः। अनुगादीति । 'सुप्यजातो-' इति णिनिः । प्रकृति प्रदर्शनमिदम् । ठको नित्यत्वात्स एवेत्यस्वपदविग्रहप्रदर्शनम् । प्रानुगादिक इति। 'नस्तद्धिते'इति टिलोपः। इह क्रमेण च 'स्त्रियाम्' इति अणिनुणः' इति च सूत्रद्वयं पठितं कृदधिकारे व्याख्यास्यते। विसारिणो मत्स्ये । 'अणिनुणः' इति पूर्वसूत्राद् अरिणत्यनुवर्तते, तदाह अण् स्यादिति । मत्स्ये विद्यमानाद् विसारिन्शब्दात् स्वार्थे अण् स्यादित्यर्थः। वैसारिण इति। 'इनण्यनपत्ये' इति प्रकृतिभावाडिलोपोन।संख्यायाःअभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिगृह्येत, तदा चतु. निर्देशादिति भावः । संस्थानेनेत्यस्यैव व्याख्यानं तुल्येनेति । पितृस्थानीय इति । स्थानमत्र संबन्धविशेषः । पदमिति यस्य प्रसिद्धिः। पितुरिव स्थानमस्य पितृस्थानः । पितृतुल्य इत्यर्थः । गोः स्थानमिति । तिष्ठन्त्यस्मिन्निति स्थानं देशः । इतिकरणं दिक्षार्थम् । तेन तत्पुरुषो बहुव्रीहिर्वा यस्तुल्यस्थानशब्दस्तस्माच्छो न भवति । अनुगादिनः । प्रकृतिस्वरूपप्रदर्शनपरं चैतद् न त्वयं केवलः प्रयोगार्हः, ठको नित्यत्वादिति हरदत्तः । 'सुप्यजाती-' इति णिनि । विसारिणो । पूर्ववदिहापि णिनिः। हरदत्तस्तु-'सुप्यजातौ-' इति णिनिरुपसर्गभिन्न एव सुप्यपपदे भवतीत्याशयेन पूर्वसूत्रेऽस्मिंश्च अतएव निपातनाद् णिनिरित्याह । तदयुक्तम् , 'स बभूवोपजीविनाम्' 'अनुयायिवर्ग:' 'न वञ्चनीयाः प्रभवोऽनुजीविभिः' इत्यादिप्रयोगानुरोधेन उपसर्गे सुप्युपपदेऽपि णिनेरवश्यखीकर्तव्यतया निपातनाश्रयणस्य व्यर्थत्वात् । 'अणिनुणः' इत्यतोऽनुवर्तनादाह अण् स्यादिति । वैसारिण इति । 'इनण्यनपत्ये' इति Page #645 -------------------------------------------------------------------------- ________________ ६४२ ] सिद्धान्तकौमुदी । [तद्धितेषु स्वार्थिक. कृत्वसुच् । (५-४-१७ ) अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः संख्याशब्दात्स्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो भुङ्गे । 'संख्यायाः ' किम्--भूरिवारान्भुङ्क्ते । २०८६ द्वित्रिचतुर्भ्यः सुच् । ( ५-४ -१८) कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः। 'रात्सस्य' (सू २८०) । चतुः । २०८७ एकस्य सकृच्च । ( ५-४-१६) वरं पाकप्रवृत्तौ त्रिः पचतीति स्यादित्यत आह अभ्यावृत्तिर्जन्मेति । उपसर्गवशाद् 'वृतु वर्तने' इति धातोरुत्पत्तौ वृत्तिरिति भावः । कृत्वसुचि चकार इत् । उकार उच्चारणार्थः । ‘तद्धितश्चासर्वविभक्तिः' इत्यत्र तसिलादिषु परिगणनात् कृत्वोऽर्थानामव्ययत्वम् । पञ्चकृत्वो भुङ्क्त इति । पश्चत्वसंख्याकोप तविशिष्टा भोजनक्रियेत्यर्थः । संख्यायाः किमिति । गणने वृत्तिः संख्याशब्दानामेवेति प्रश्नः । भूरिवारान् भुङ्क्त इति । भूरिशब्दो बहुशब्दपर्यायः । वारशब्देस्तु समभिव्याहृतक्रियापर्याप्ते काले वर्तते । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । बहुकालेषु कात्स्न्र्त्स्न्येन व्याप्ता भोजनक्रियेत्यर्थः । भोजनबहुत्वं त्वर्थाद्गम्यते । तथा च वारशब्दोऽयं न गणनवाची | भूरिशब्दोऽपि न संख्याशब्देन गृह्यते । 'बहुगणवतुडति संख्या' इत्यत्र बहुप्रहणेन तत्पर्यायस्य श्रसंख्यात्वबोधनात् । श्रतोऽत्र न कृत्वसुच् । द्वित्रिचतुर्भ्यः । 'क्रियाभ्यावृत्ति गणने' इत्येव । सुचि चकार इत्, उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति । भुङ्क्ते इत्यनुषज्यते । रादिति । चतुरशब्दात् सुचि चतुर् स् इति स्थिते 'रात्सस्य' इति सकारस्य लोपे चतुरिति प्रकृतिभावः । संख्यायाः । श्रभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्यते, तदा षट्कृत्वः प्रवृत्तौ पञ्चकृत्व इति स्यात्, अतोऽत्र विवक्षितमर्थमह अभ्यावृत्तिजन्मेति । भूरिवारानिति । भूरिशब्दस्य लौकिकसंख्यावाचित्वेऽपि नेह ग्रहणम् । 'बहुगण - ' इति सूत्रे बहुग्रहणस्य नियमार्थत्वाद् 'अनियतसंख्यावाचिनां चेद्भवति बहोरेव' इति नियमशरीरमिति मनोरमा । बहुगणयेोरेवेति नियमशरीरमित्यन्ये । वारशब्दस्य क्रियोत्पत्त्या धारकालवाचित्वात् 'कालाध्वनो:-' इति द्वितीयेति हरदत्तः । ननु वारशब्दस्य कालवाचित्वे भूरिशब्दोऽपि तत्समानाधिकरणत्वात्काल एव वर्तत इति कथमत्र प्रसङ्ग इति चेत् । अत्राहुः — कालवाचित्वेऽपि क्रियः भ्यावृत्तेरपि गम्यमानत्वात्प्रसङ्ग इति । श्रभ्यावृत्ति गणने किम्, पञ्चपाका दशपाका इत्यत्र क्रियामात्रगणने माभूत् । क्रियाग्रहणं किमर्थम् यावताभ्यावृत्तिः क्रियाया एव भवति, साध्यार्थविषयत्वात्तस्याः, न द्रव्यगुणयोः । तयोस्तु सिद्धस्वभावतया शब्दाभिधानात्। पुनःपुनर्दण्डः, पुनःपुनः स्थूलः, इत्यत्रापि गम्यमानाया भवतिक्रियाया एवाभ्यावृत्तिर्न तु द्रव्यगुणयो१ एतद 'वस्तुतः' इत्यधिकम् क। > Page #646 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ६४३ 'सकृत्' इत्यादेशः स्यात्, चात्सुच् । सकृद् भुङ्क्ते । 'संयोगान्तस्य -' (सू ५४) इति सुचो लोपः । न तु 'हल्याप्-' ( सू २५२ ) इति । श्रभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् । २०८८ विभाषा बहोर्धा ऽविप्रकृष्टकाले । (५-४-२०) अविप्रकृष्ट श्रसन्नः । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते । 'श्रासन्नकाले' किम्बहुकृत्वो मासस्य भुङ्क्ते । २०८६ तत्प्रकृतवचने मयट् । ( ५-४-२१ ) प्राचुर्येण प्रस्तुतं प्रकृतम्, तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । रूपमित्यर्थः । अत्र भुङ्क्ते इत्यनुषज्यते । एकस्य सकृच्च । शेषपूरणेन सूत्रं व्याचष्टे सकृदित्यादेशः स्यादिति । सकृद् भुङ्क्त इति । एकशब्दात् सुच्, प्रकृतेः सकृदित्यादेशश्च । श्रत्र एकशब्दः क्रियाविशेषणम् । एकत्वविशिष्टा भुजिक्रियेत्यर्थः । स्वादु पचति इत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः । एको भुङ्क्ते इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत् । ननु 'संयोगान्तस्य -' इति सुचो लोप इत्यनुपपन्नम् । ‘हल्ङ्याब्भ्यः -' इत्येव हि सुलोपोऽत्र युक्तः । तस्मिन् कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्यासिद्धत्वादित्यत श्राह नतु हल्डयाबितीति । सिच इवेति । श्रभैत्सीदित्यत्र सिचो लोपनिवृत्तये हल्डयाबित्यत्र सिग्रहणेन सिचो न ग्रहणम्, तत्साहचर्यात् सुग्रहणेनापि सुजयं न गृह्यत इति भावः । विभाषा बहोविप्रकृष्टकाले । अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्तेर्बहुशब्दाद् धाप्रत्ययो वा स्यात् । पक्षे कृत्वसुच् । बहुधा बहुकृत्वो वा दिवसस्य भुङक्त इति । दिवसे प्रातःसङ्गवाद्यव्यवहितकालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । ' कृत्वोऽर्थ प्रयोगे कालेऽधिकरणे' इति दिवसात्षष्टीति हरदत्तः । शेषत्वविवक्षायां षष्ठी इति तु नवीनाः । · रिति चेत् । मैवम्, उत्तरार्थं क्रियाग्रहणस्यावश्यकत्वात् । एकस्य सकृश्ञ्च । अभ्यावृत्तिरिति न संबध्यते । एकशब्देन ह्येकैव क्रियाव्यक्तिराख्यायते, तस्यास्त्वात्तेरसंभवात् । क्रियाग्रहणमिहार्थमावश्यकम् । अन्यथा 'आ दशतः संख्याः संख्येये वर्तन्ते' इत्येको भुङ्क्ते इत्यत्रापि स्यादिति । इह साधु पचतीत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते सकृच्छब्दप्रयोगार्थमिदं सूत्रमिति कैयटः । एकः पाक इत्यत्र तु अनभिधानान्नेति काशिका। संयोगान्तस्येति । इल्ब्यादिना सुलोप इति प्राचो ग्रन्थोऽयुक्त इत्याह न त्विति । सुतिसीति साहचर्याद्विभक्तय एव तत्र गृह्यन्त इत्यभिप्रेत्याह सिच इवेति । बहुधा दिवसस्य भुङ्क्त इति । शेषत्वविवक्षायां षष्ठी । 'कृत्वोऽर्थप्रयोगे कालेऽधिकरणे' इत्यनेन षष्ठीति हरदत्तोक्तिस्तु नादर्तव्या । शेषाधिकार बलेनाष्टसूत्र्याः समासनिवृत्तिफलकतया तिङन्तेनोदाहरणमिति प्रागुक्तनिष्कर्षविरोधादित्याहुः । Page #647 -------------------------------------------------------------------------- ________________ ६४४] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक भाये प्रकृतमममममयम् । अपूपमयः । यवागूमयी। द्वितीयेऽनमयो यज्ञः। अपूपमयं पर्व । २०६० समूहवञ्च बहुषु । (५-४-२२) सामूहिकाः प्रत्ययाः तत्प्रकृतवचने । तदिति प्रथमान्तनिर्देशः । प्राचुर्येणेति । बहुलतया उपस्थितं प्रकृतशब्देन विवक्षितमित्यर्थः । उपसर्गबलादिति भावः । प्रतिपादनमिति । बोधनमित्यर्थः । भाव इति । तथा च प्रकृतस्य बोधने सतीत्यर्थः । प्राचुर्यविशेषणकवस्तुवृत्तेः प्रथमान्तात्स्वार्थे मयडिति फलति । अत्र प्राचुर्यविशिष्टं वस्तु प्रकृतेरर्थः । प्रत्ययस्तु तद्द्योतकः । अधिकरणे वेति । तथा च प्राचुर्यविशेषणकं यद्वस्तु यस्मिन्नुच्यते तदधिकरणे वाच्ये तादृशवस्तुवृत्तेः शब्दाद् मयडिति फलितम् । अत्र पक्षे प्राचुर्यविशिष्टमुच्यमानं वस्तु प्रकृत्यर्थः । तदधिकरणं प्रत्यय र्थः । तन्त्रेणार्थद्वये सूत्रतात्पर्यम् , व्याख्यानात् । यद्यप्याद्यपक्षे स्वार्थिकप्रकरणपातः समासः, नतु द्वितीयपक्षे । तथापि 'अथ स्वार्थिकाः' इति मूलं प्रायिकाभिप्रायमिति न दोषः । आद्य इति । भावल्युट्पक्षे इत्यर्थः । प्रकृतमन्नमन्नमयमिति । प्रचुरमन्नमित्यर्थः । स्वार्थिकत्वात्प्रकृतिलिङ्गता । अपूपमय इति । प्रचुरोऽप इत्यर्थः । यवागू. मयीति । प्रचुरा यवागूरित्यर्थः। टित्त्वाद् डीबिति भावः । द्वितीय इति । अधिकरणल्युट्पक्षे इत्यर्थः। अन्नमयो यज्ञ इति । 'इष्टिषु दशौदनाः पशौ तं सोमसहस्रम्' इत्यादिवाक्यैरुच्यमानानि प्राचुर्यविशिष्टान्नानीत्यर्थः । अस्वार्थिकत्वेन प्रकृतिलिङ्गत्वाभावाद्विशेष्यनिघ्नता । अपूपमयं पर्वेति । पर्वणि प्रचुर। अपूपाः कार्या इत्याधुच्यमानापूपाधिकरणं पर्वेत्यर्थः । अस्वार्थिकत्वाद्विशेष्यनिघ्नता। केचित्तु द्वितीयपक्षे वचनशब्दोऽधिकरणल्युडन्तः, प्रकृत्यर्थो न विवक्षित इत्याहुः । तथा सति प्राचुर्यविशिष्टान्नाद्यधिकरणं यज्ञ इत्येव बोधः, नतु उच्यमानत्वस्य बोधः। समूहवश्च बहुषु । 'तत्प्रकृतवचने' इत्येव । सामूहिका इति । 'तस्य समूहः' इत्यधिकारविहिताः प्रत्यया इत्यर्थः । बहुषु प्राचुर्यविशिष्टेषु वर्तमानाच्छब्दात् स्वार्थे तत्प्रकृत । प्राचुर्येण प्रस्तुतमिति । यद्यपि प्रकृतशब्दः प्रस्तुतमात्रे रूढः, तथापि वचनग्रहणादयं विशेषो लभ्यते । वचनप्रहणं हि यादृशस्य प्रकृतस्य लोके मयटा वचनं प्रत्यायनं तत्र यथा स्यादित्येवमर्थम् । आद्य इति । प्रथमान्तात्प्रकृते द्योत्ये प्रत्ययः । खार्थिकत्वात्प्रकृतितो लिङ्गवचनम् । अपूपमयमित्यपि क्वचित्पठ्यते । प्रस्तुतोऽपूपोऽपूपमयम् । क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते । अस्मिन्पक्षे तद्ग्रहणं व्यर्थम् । द्वितीये त्वावश्यकं प्रथमान्तादेव प्रत्ययलाभार्थम् । द्वितीय इति । अस्मिन्पक्षे उच्यमानता प्रकृतता च प्रकृत्यर्थविशेषणम् । ल्युटोलमधिकरणं तु मयडर्थः । अतएव विशेष्यनिन्नता, तदाह अन्नमयो यक्ष इति । Page #648 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१] बालमनोरमा तत्त्वबोधिनीसहिता। [६४५ प्रतिदिश्यन्ते, चान्मयट् । मोदकाः प्रकृता मौदकिकम् , मोदकमयम् । शाकु. लिकम्, शकुलीमयम् । द्वितीयेऽर्थे मौदकिको यज्ञः, मोदकमयः। २०६१ अनन्तावसथेतिहभेषजाम्न्यः । (५-४-२३) अनन्त एव आनन्स्यम् । भावसथ एव पावसथ्यम् । इतिह इति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् । २०६२ देवतान्तात्तादर्थ्य यत् । (५-४-२४) तदर्थ एव तादर्थ्यम्। स्वाथै व्यस् । अभिदेवतायै इदमाभिदेवस्यम् । पितृदेवत्यम् । २०६३ पादार्घासमूहवत्प्रत्ययाः स्युरित्यर्थः । यद्वा बहुत्वविशिष्टानि प्राचुर्यविशिष्टानि वस्तूनि यस्मिनधिकरणे उच्यन्ते, तदधिकरणे वाच्ये तद्वस्तुवृत्तेः शब्दात् समूहवत्प्रत्ययाः स्युरित्यर्थः । आये उदाहरति मोदकाः प्रकृताः मौदकिकमिति । 'अचित्तहस्तिधेनोः-' इति सामूहिकष्ठक् । स्वार्थिकत्वेऽपि प्रकृतिलिङ्गातिक्रमः कुटीरवत् । शाकुलिकमिति । शकुल्यः प्रचुरा इत्यर्थः । पूर्ववट्ठक्, प्रकृतिलिङ्गातिक्रमश्च । द्वितीयेऽर्थे मौदकिको यज्ञ इति । मोदका अस्मिन्यज्ञे उच्यन्त इति विग्रहः । अनन्तावसथेतिह । अनन्त, श्रावसथ, इतिह, भेषज एभ्यः स्वार्थे ध्यप्रत्ययः स्यादित्यर्थः। अनन्त एवेति । अन्तो नाशः। तस्याभावः अनन्तः । अर्थाभावे नस्तत्पुरुषः, अभाव अव्ययीभावेन तद्विकल्पस्योकत्वात् । अानन्त्यमिति । खार्थिकत्वेऽपि प्रकृतिलिङ्गव्यतिक्रमः । श्रावसथो गृहम् । निपातसमुदाय इति । सच उपदेशपारम्पर्य वर्तते । तस्मात्स्वार्थे ज्यः । 'पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ।' इत्यमरः । भैषज्यमिति । भेषजम् औषधम् , तदेव भैषज्यम् । 'भेषजौषधभैषज्यानि' इत्यमरः । देवतान्तात्तादयें यत् । तदर्थ एवेति । तच्छब्देन देवतान्तस्यार्थ उच्यते, तस्मै अयं तदर्थः, ततः खार्थे चतुर्वर्णादित्वात् ष्यमित्यर्थः । देवतान्तात्प्रातिपदिकाद् यत्स्यात्प्रकृत्यर्थार्थे वस्तुनि वाच्य इत्यर्थः । त्यज्यमानद्रव्ये उद्देश्यविशषो देवता मन्त्रस्तुत्या चेत्युक्तं 'सास्य देवता' इत्यत्र । अतः पितृदेवत्यं रक्षोदेवत्यमित्यादौ नाव्याप्तिः, तदाह पितृदेवत्यमिति । देवताशब्दस्य देवा मनुष्या पितरः असुरा रक्षांसि पिशाचा इत्यादि श्रुतिपुराणादिप्रसिद्धजातिविशेषपरत्वे तु अत्राव्याप्तिः स्यादिति भावः । भाष्ये तु पितृदेवत्यमिति न अनं प्रकृतमुच्यते अस्मिन्नित्यर्थः । मौदकिकम् । शाकुलिकमिति । 'अचित्तहस्तिधेनोष्ठक्' । आवसथ इति । 'उपसर्गे वसे:' इत्यथप्रत्ययः । निपातसमु. दाय इति । उपदेशपारम्पर्ये वर्तते वचनाचाप्रातिपदिकादेव प्रत्ययः। ऐतिह्यमिति । 'इतिहाव्ययम्' इति कोशः । भेषजमिति । मिषज्यतेः कण्ड्वादियगन्तात्विवप् । भिषजामिदं भेषजम् । अस्मादेव निपातनादेकारः । पितृदेवत्यमिति । पितरश्च Page #649 -------------------------------------------------------------------------- ________________ ६४६ ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकभ्यां च । (५-४-२५) पादार्थमुदकं पाद्यम् । अयम् । 'नवस्य नू आदेशो बसनप्खाश्च प्रत्यया वक्तव्याः ' (वा ३३२७) । नूनम् , नूतनम् , नवीनम् । 'नश्च पुराणे प्रात्' ( 1 ३३२८)। पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः, चात्पूर्वोक्ताः। प्रणम् ,प्रत्नम् , प्रतनम् , प्रीणम् । 'भागरूपनामभ्यो धेयः' (वा ३३३०)। भागधेयम् । रूपधेयम् । नामधेयम् । 'प्राग्नीध्रसाधारणादम्' (वा ३३३४ )। श्राग्नीध्रम् । साधारणम् । स्त्रियां डीप । श्राग्नीधी। साधारणी । २०६४ अति. थेय॑ः। (५-४-२६ ) 'तादर्थे' इत्येव । अतिथये इदमातिथ्यम् । २०६५ देवात्तल् । (५-४-२७ ) देव एव देवता । २०६६ अवेः कः। (५-४-२८) सिध्यतीत्याक्षिप्य दिवेरैश्वर्यकर्मणो देवः, तस्मात्स्वार्थे तलिति सम हितम् । हविः प्रति पित्रादीनामीश्वरत्वं स्वामित्वम् । हविस्तु यजमानस्य स्वम् । तच्च यजमानेन अग्न्याद्युद्देशन त्यक्तं चेत्तदाग्न्यादिस्वामिकं भवितुमहति । अतो देवतात्वं त्यज्यमानद्रव्योद्देश्यत्वविशेषात्मकमेव भाष्यरीत्यापि पर्यवस्यतीत्यलम् । पादा_भ्यां च । तादर्य यदिति शेषः । अय॑मिति । अर्घार्थमुदकमिति विग्रहः । अर्थः पूजा। 'मूल्ये पूजाविधावर्घः' इत्यमरः । नवस्येति । वार्तिकमिदम् । एते प्रत्यया अत्यन्तस्वार्थिकाः। नवीनमिति । नवशब्दात् खप्रत्यये, तस्य ईनादेशे, प्रकृतेर्नूभावे, ओर्गुणः, अवादेशः। नश्च पुराण प्रादिति । वार्तिकमिदम् । चात्पूर्वोक्ता इति । नप , तनप , ख इत्यर्थः । प्रीणमिति । खे रूपम् । भागरूपेति । वार्तिकमिदम् । प्राग्नीधेति । वार्तिकमिदम् । आग्नीध्रमिति । अग्नीधः शरणम् श्राग्नीध्रम् । ततः स्वार्थे अनि अाग्नीध्रमेव । अनेक प्रत्यविशिष्टसम्बन्धं साधारणमुच्यते । ततः स्वार्थे अनि साधारणमित्येव । अविधेः प्रयोजनमाह स्त्रियां डीविति । अतिथेयः। तादर्थ्ये इत्येवेति । अतिथये इदमित्यर्थे अतिथिशब्दाच्चतुर्थ्यन्ताद् ण्यः स्यादित्यर्थः । देवात्तल् । 'तादर्थ्य' इति निवृत्तम् । अत्यन्तस्वार्थिकोऽयं तत् । ता देवताश्च पितृदेवताः । पितृदेवताभ्य इदमिति विग्रहः । अर्ध्यमिति । 'मूल्ये पूजाविधावर्घः' इत्यमरः । पूर्वोक्ता इति । नप्तनपखप्रत्यया इत्यर्थः । प्राग्नीध्रमिति । 'अग्नीधः शरण रण भं च' इति शैषिकेषु व्युत्पादितम् , तच्चान्तोदात्तम् , ततः खार्थेऽनेनाञ् । आधुदात्तत्वं फलम् । फलान्तरमप्याह स्त्रियामिति । प्राग्नी. ध्रीति । शालेति विशेष्यम् । समानं धारणमस्याः साधारणी । अनेकं प्रत्यधिशिष्टसम्बन्धो भूम्यादिः । पृषोदरादित्वात्समानस्य सभावः । विभाषाप्रकरणादअभावे टाप् । प्राग्नीध्रा शाला । साधारणा भूभिः । नन्वअभावपक्षे समानस्य मभावेऽपि साधारण इत्येव स्यान्न त्वत्रादिवृद्धिरिति चेद् अत्राहुः-'साधारणादन' इत्यत एव निपातनात् Page #650 -------------------------------------------------------------------------- ________________ . प्रकरणम् ४१ ] बालमनोरमा तत्त्वबोधिनीसहिता। [६४७ अविरेवाविकः । २०६७ यावादिभ्यः कन् । (५-४-२६) याव एव यावकः । मणिकः । २०६८ लोहितान्मणौ। (५-४-३०) लोहित एव लोहितको मणिः । २०६६ वर्णे चानित्ये। (५-४-३१) लोहितकः कोपेन । 'लोहिताल्लिङ्गबाधनं वा' (वा ३३२२) । लोहितिका, लोहिनिका कोपेन । देवतेति । स्वार्थिकत्वेन प्रकृतिलिङ्गातिकमात् स्त्रीत्वम् । अवः कः । अयमपि केवलस्वार्थिकः । 'अवयः शैलमेषार्काः' इत्यमरः । यावादिभ्यः कन् । यावक इति । यवानामयं याव अोदनादिः, स एव यावकः । अलक्लकवृक्ष वा यावः, स एव यावकः ‘यावोऽललो द्रुमालयः' इत्यमरः । लोहितान्मणी । मणौ वर्तमानाद् लोहितशब्दात्स्वार्थे कन् स्यादित्यर्थः। माणिक्यमयो मणिरेवेह मणिविवक्षितः । यस्तु जपाकुसुमादिनिमित्तलौहित्यवान् स्फटिकमणिस्तस्य तु 'रक्ते' इत्युत्तरसूत्रेण सिद्धम् । वर्णे चानित्ये । अनिये वर्णे विद्यमानाद् लोहितशब्दात्स्वार्थे कन् स्यादित्यर्थः । अमएयर्थमिदम् । लोहितकः कोपेनेति । देवदत्तादिरिति शेषः । कोपनिमित्तकं देवदत्तादेौहित्यमनित्यमेव, कोपाभावे तदभावात् । यद्यपि माणिक्यमणिलौहित्यमपि अनित्यमेव, माणिक्ये नष्टे तन्नाशात् । तथापि आश्रयद्रव्यस्य उत्पत्तिप्रभृति नाशपर्यन्तं यो वर्णो वर्तत, सवर्णो नित्य इत्यभिमतमिति न दोषः ।स्यादेतत् , लोहिनिका लोहितिका वा कोपेनेति स्त्रियां रूपद्वयमिष्यते । तत्र लोहितशब्दाद् 'वर्णादनुदात्तात्-' इति नत्वसंनियोगशिष्टं डीपं परत्वात् स्वार्थिकतया अन्तरङ्गत्वाच्च बाधित्वा कनि कृते सति नत्वसंनियोगशिष्टछीपो न प्रसक्तिः, कोपधत्वेन तोपधत्वाभावात् । ततश्च लोहितकशब्दाद् 'अजाद्यतः-' इति टापि 'प्रत्ययस्थात्-' इति इत्त्वे लोहितिकेत्येव स्यात् , नतु तत्र लोहिनिकेति, अत श्राह लोहिताल्लिङ्गबाधनं वेति। वार्तिकमिदम् । लोहितशब्दात्परस्य स्त्रीलिङ्गबोधकप्रत्ययस्य कना बाधो वा स्यादित्यर्थः । असति तु कना लीपो बाधे लोहिनीशब्दात् कनि समानस्य साभावविधानाद्वा इष्टसिद्धिरिति। देवतेति । तलन्तं स्त्रियाम् । वर्णे चानित्ये । अनित्से किम् , लोहितं रुधिरम् । लोहिता लाक्षा । अनित्यत्वमिह समानाधिकरणध्वंसप्रतियोगित्वम् । अतएव 'रक्ते' इत्युत्तरसूत्रे सार्थकम् । लाक्षादिना रक्ते लौहित्यस्य यावदाश्रयमवस्थानेन नित्यतया पूर्वेणासिद्धेः । लोहितक इति । कोपेन लोहितो यः पुरुषस्तस्मिन्नेव क्षणादूर्ध्व कोपशान्तौ लौहित्य नश्यतीति भवत्यत्रानियो वर्णः । 'प्रातिपदिकात्तद्धिताः' इति पक्षस्य प्रतिपदविधानमात्रेणापवादत्वमिति पक्षस्य चाश्रयणे 'वर्णादनुदात्तात्-' इत्यतः प्रागेव कनि कृते लोहितिकेति रूपं न स्यादित्याशङ्कायामाह लिङ्गबाधनं वेति । लोहितादित्युपलक्षणम् । एतिका Page #651 -------------------------------------------------------------------------- ________________ ६४८] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक२१०० रक्त। (५-४-३२) लाक्षादिना रक्ने यो लोहितशब्दस्तस्मात्कन्स्यात् । 'लिङ्गबाधनं वा' (३३२२) इत्येव । लोहितिका, खोहिनिका शाटी। २१०१ कालाच्च । (५-४-३३ ) 'वणे चानित्ये' (सू २०१६ ) रक्त' (सू २१००) इति सूत्रद्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी। २१०२ विनयादिभ्यष्ठक । (५-४-३४) विनय एव वैनयिकः । सामयिकः। उपायाद्धस्वत्वं च' (ग सू १४४)। औपयिकः । २१०३ वाचो व्याहृता याम् । (५-४-३५) सन्दिष्टायां वाचि विद्यमानाद्वाक्छब्दास्वार्थे ठक् 'केऽणः' इति ह्रखे कन्नन्ताहापि लोहिनिकेति सिध्यति । सति तु कना डीपो बाधे लोहिताशब्दात् कनि 'केऽणः' इति ह्रस्वे टापि लोहितिकेति भवति । ननु 'ड्याप् प्रातिपदिकात्' इत्यत्र लिङ्गविशिष्टपरिभाषयैव सिद्ध व्याग्रहणं ड्यावन्तादेव तद्धिता भवन्ति, नतु ङयाम्भ्यां प्रागियेवमर्थमित्युक्तम् । एवं च डीपः प्राक् कनः प्रसक्केरेवाभावादिदं वार्तिकं व्यर्थमिति चेत्, अत एव वार्तिकाल्लिङ्गात्स्वार्थिकतद्धितेषु ड्याब्ग्रहणं न संवध्यते । न च सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तात् 'कुत्सिते' इति सूत्रस्थभाष्यरीत्या स्वार्थद्रव्यलिङ्गसंख्याकारककुत्सादिप्रयुक्त कार्याणां ऋमिकतया यावन्तादेव सुपि ततः कनि रूपसिद्धवचनमिदं व्यर्थमिति वाच्यम् , अत एव स्वार्थिकतद्धितानां प्रातिपदिकादेव प्रवृत्तिविज्ञानादित्यन्यत्र विस्तरः। रक्ते । लाक्षादिना रक्ते पटादौ लौहित्यस्य यावद्रव्यमवस्थानेन नित्यतया पूर्वेणाप्राप्तौ वचनम् । कालाच्च । द्वयमनुवर्तत इति । अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम् । अनित्ये वर्णे उदाहरति कालकं मुखं वैलदयेणेति । लज्जासूयादिनेत्यर्थः । रक्त उदाहरति कालकः पट इति । नील्यादिनेति शेषः । विनयादिभ्यः। उपायाद ध्रस्वत्वं चेति । गणसूत्रमिदम् । उपायशब्दात्स्वार्थे क् । प्रकृतेर्दीघस्य ह्रस्वत्वं चेत्यर्थः । ह्रस्वस्य ह्रस्वविधौ वैयर्थ्यादीर्घस्येति गम्यते। बाचो व्याहृतार्थायाम । इदम् अस्य वक्तव्यमिति दूतं प्रति योऽर्थ उच्यते स व्याहृतः, व्याहृतः एनिकेत्यादेरपि संग्राह्यत्वात् । 'सुबन्तात्तद्धिताः' इति पक्षस्य 'निरवकाशत्वमपवादत्वम्' इति पक्षस्य च मुख्यत्वात्तदाश्रयणे तु 'वर्णादनुदात्तात्-' इत्यस्यानन्तरमेव कनः प्रवृत्तेः कन्प्रत्ययस्य पुंल्लिङ्गे सावकाशतया निरवकाशत्वाभावाच्च वार्तिकमिदं न कर्तव्यम् । अतएव ड्याबग्रहणं व्यर्थमिति स्वाम्पीति रूपं प्रबलमिति च ननोरमादावुक्तमिति दिक् । उपाय इति । उपायशब्दष्टकं लभते हखत्वं चेत्यर्थः । अकस्माच्छब्दोऽत्र पठ्यते स तु दान्तो न तु तान्तः । तेन कादेशो न. । 'अव्ययानां भमात्रे टिलोपः' । आकस्मिकम् । वाचो व्याहृता । व्याहृतार्थायां किम् , मधुरा वाग्देवदत्तस्य । Page #652 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६४९ 1 । स्यात् । ‘ सम्देशवाग्बाचिकं स्यात्' इत्यमरः । २१०४ तद्युक्तात्कर्मणोऽण् । ( ५-४-३६ ) कर्मैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः । २१०५ श्रोषधेर जातौ । (५-४-३७ ) स्वार्थेऽण् । औषधं विवति । 'अजातो' किम्श्रोषधयः क्षेत्रे रूढाः । २१०६ प्रशादिभ्यश्च । ( ५-४-३८ ) प्रज्ञ एव प्राज्ञः । प्राशी स्त्री । दैवतः । बाम्धवः । २१०७ मृदस्तिकन् । ( ५-४-३६) मृदेव मृत्तिका । २१०८ सनौ प्रशंसायाम् । ( ५-४-४०) रूपपोऽपवादः । प्रशस्ता मृत् मृस्सा मृत्स्ना । उत्तरसूत्रे श्रन्यतरस्यांग्रहणावित्योऽयम् । २१०६ अर्थो यस्या इति विग्रहः, तदाह संदिष्टार्थायामिति । तद्युक्तात् । संदिष्टाया दूतवाचा यत्प्रयुक्तं कर्म तदभिधायिनः कर्मन्शब्दात्स्वार्थे श्ररित्यर्थः । कर्मैव कार्मणमिति । अन्निति प्रकृतिभावान टिलोपः । दूतवाक्यं श्रुत्वा तथैव यत्क्रियते कर्म तत्कार्मणमुच्यते, तदाह वाचिकं श्रुत्वेति । ओषधेरजातौ । औषधं पिबतीति । शुण्ठीमरीचादिचूर्णमबादिद्रव्यसंसृष्टं विवक्षितम् । तस्य न जातिवचनत्वमिति भावः । क्षेत्रे रूढा इति । उत्पन्ना इत्यर्थः । शाल्यादिसस्यात्मका इति फलितम् । प्रज्ञादिभ्यश्च । स्वार्थे अरिणति शेषः । प्राज्ञ इति । प्रजानातीति प्रज्ञः, 'इगुपधज्ञा-' इति कः । प्रज्ञशब्दात्स्वार्थे अण् । प्राशीति । श्ररणन्तत्वाद् ङीप् । प्रज्ञा अस्यास्तीति विग्रहे तु 'प्रज्ञाश्रद्धाचभ्यः -' इति णान्तात् टापि प्राज्ञेति रूपम् । मृदस्तिकन् । मृदशब्दात्स्वार्थे तिकन्नित्यर्थः । सस्त्रौ । प्रशस्तायां मृदि वर्तमानाद् मृच्छदात्स्वार्थे स न एतौ प्रत्ययौ स्त इत्यर्थः । रूपप इति । 'प्रशंसायां रूपपू' इति विहितस्येत्यर्थः । नित्योऽयमिति । सस्नविधिरित्यर्थः । वाचिकमिति । 'स्वार्थिकाः क्वचिल्लिङ्गमतिवर्तन्ते' इति नपुंसकत्वम् । प्रज्ञ एवेति । प्रजानातीति प्रज्ञः । ' इगुपधज्ञा -' इति कः । ततः स्वार्थेऽण्, प्राज्ञः । प्राशीति । 'टिड्ढा -' इति ङीप् । प्रज्ञानं प्रज्ञा । ' श्रतश्चोपसर्गे -' इत्यङि टाप् । प्रज्ञा विद्यते यस्याः सा तु प्राज्ञा भवति । 'प्रज्ञाश्रद्धाचभ्यः -' इति णः । मृदस्तिकन् । 'प्रत्ययस्थात्-' इत्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थम्, टापो लुक्यपि श्रवणार्थं च । पञ्चभिर्मृत्तिकाभिः क्रीतः पञ्चमृत्तिकः पटः । सस्त्रौ । इह 'प्रशंसायां रूपप्' इत्यस्यानन्तरं 'वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि' | 'मृदः सनौ' 'तिकंश्च' इति वक्तुगुचितम् । न चैवं सनाविव तिकन् प्रत्ययोsपि प्रशंसायामेवेत्यतिप्रसङ्गः । 'तिकंश्च' इत्यत्र 'प्रशंसायाम्' इति निवृत्तमिति कल्पनायां मानाभावादिति वाच्यम्, सम्नतिकनः' इति वक्तव्ये तिकनः पृथक्करणस्यैव तत्र मानत्वात् । प्रशस्ता मृदिति । 'भृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका' इत्यमरः । नित्योऽयमिति । 'मृदः Page #653 -------------------------------------------------------------------------- ________________ ६५० ] सिद्धान्तकौमुदी । [तद्धितेषु स्वार्थिक । ब्रह्वल्पार्थाच्छस्कारकादन्यतरस्याम् । ( ५-४-४२) बहूनि ददाति बहुशः । श्रल्पानि अल्पशः । 'बह्वल्पार्थान्मङ्गलामङ्गलवचनम् ' ( वा ३३३८ ) । नेह – बहूनि ददात्यनिष्टेषु, अल्पं ददात्याभ्युदयिकेषु । २११० संख्यैकचनाच्च वीप्सायाम् । ( ५-४-४३ ) द्वौ द्वौ ददाति द्विशः । माषं माषं माषशः । वस्तुतस्तु 'ज्यादयः प्राग्वुनः' इत्यादिपरिगणितेषु अनयोः प्रत्यययोरनन्तर्भावादनित्यत्वमेवानयो रुचितमित्याहुः । बह्वल्पार्थाच्छस्कारकादन्यतस्याम् । बह्वल्पार्थाच्च कारकाभिधायिनः शब्दात्स्वार्थे शस्प्रत्ययो वा स्यादित्यर्थः । बह्वल्पार्थादिति । वार्तिकमिदम् । मङ्गलामङ्गले गम्ये एवायं शसित्यर्थः । बहूनि ददात्यनिप्रेष्वितिं । भयादिनिमित्तेष्वित्यर्थः । श्रयं ददात्याभ्युदयिकेष्विति । श्रभ्युदयः श्रेयः, तत्प्रयोजनकेष्विष्टापूर्तेष्वित्यर्थः । श्रभ्युदयिकेषु बहुदानं अनि अल्पदानं च मङ्गलम् । तद्विपरीतदानं तु श्रमङ्गलमिति भावः । अर्थग्रहणाद् भूरिशे ददाति, स्तोकशो ददाति इत्याद्यप्युदाहार्यम् । संख्यैकवचनाच्च । सङ्ख्या च एकवचनं चेति समाहारद्वन्द्वात्पञ्चमी । एकत्वविशिष्टोऽर्थ उच्यतेऽनेनेत्येकवचनः । एकत्वविशिष्टस्यार्थस्य वचन इति विग्रहः । सङ्ख्यावाचकात्तदन्यस्माच्चैकत्वविशिष्टवाचक त्कारकाभिधायिनः प्रातिपदिकाद् वीप्सायां शस् वेत्यर्थः । सङ्ख्यावाचिन उदाहरति द्वौ द्वौ ददातीति । 'नित्यवीप्सयोः' इति द्विर्वचनम् । द्विश इत्यत्र तु न । शसैव वीप्साया उक्तत्वात् । ‘तद्धितश्चासर्वविभक्तिः' इत्यत्र 'शस्प्रभृतयः प्राक् समासान्तेभ्यः' इति परिगणनात् शसादीनां डाच्पर्यन्तानामव्ययत्वम् । एकत्वविशिष्टवाचिन उदाहरति माषं माषं माषश इति । माषं माषमित्यनन्तरं ददातीति शेषः । माषमृदित्येतावदुक्ते प्रशस्तत्वानवगमाद्विभाषात्र नानुवर्तत इति सम्स्ना वेत्ययं विधिर्नित्य एव। उत्तरसूत्रस्थान्यतरस्यांग्रहणात्तु सुतरामिति भावः । बह्वल्पार्थात् । बहूनीति । बहुभ्यो ददाति बहुशः, अल्पेभ्योऽल्पश इत्याद्यपि बोध्यम् । बहु ल्पार्थात्किम्, गां ददाति । श्रवं ददाति । अर्थग्रहणात्पर्ययेभ्यो विशेषेभ्यश्च । भूरिशो ददाति । त्रिशः । कारकात्किम्, बहूनां स्वामी, अल्पानां स्वामी । मङ्गलवचनमिति । 'बहुषो ददात्याभ्युदयिकेषु कर्मसु । अल्पशो ददात्यनिष्टेषु' । श्रभ्युदयिकेषु बहुदानम् श्रनिष्टेष्वल्पदानं च मङ्गलम् । तद्वैपरीत्येन दानं तु मङ्गलं न भवतीत्याशयेनाह नेहेति । श्रनिष्टेष्विति । भयादिनिमित्तेषु दानेषु । श्रभ्युदयिकेष्विति । अभ्युदयप्रयोजनेष्वग्न्याधेयादिषु । मूलपुस्तके तु 'मङ्गलामङ्गलवचनम्' इति प्रायेण पठ्यते । तत्रामङ्गलग्रहणं वृथेत्याहुः । प्रायिकं चैतन्मङ्गलवचनमन्यत्र पि हि दृश्यते - 'अपेतापोढमुक्तपतितापत्रस्तैरल्पशः' इति । कारकत्वं तु समसनत्रियां प्रति पञ्चम्याः Page #654 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमात्तत्वबोधिनीसहिता। [६५१ प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । 'संख्यैकवचनात्' किम्-घटं घटं शब्दः परिमाणविशेषवाची । प्रस्थश इति । प्रस्थं प्रस्थं ददातीति विग्रहः । ननु घटं घटं ददातीत्यत्रापि घटश इति स्यात् , घटशब्दस्याप्येकत्वविशिष्टार्थवाचकत्वात् । न च एकत्वविशिष्टस्यैवार्थस्य वाचक एकवचनशब्देन विवक्षितः । घटशब्दस्तु नैवम् । घटी घटा इत्यादौ द्वित्वबहुत्वविशिष्टवाचकत्वादिति वाच्यम् , एवं सति माषशः प्रस्थश इत्यत्रापि शसभावप्रसङ्गादित्यत आह परिमाणशब्दा वृत्तावेकार्था एवेति । अयमाशयः-समासादिवृत्तौ एकत्वविशिष्टस्यैवार्थस्य वाचका एकवचनशब्देन विवक्षिताः । तथाविधाश्च परिमाणशब्दा एव, नतु घटादिजातिशब्दा अपि । माषदातेत्युक्ते हि माषपरिमितस्य हिरण्यादेर्दातेति प्रतीयते, नतु माषाणामिति । अतो माषशब्दोऽयं भवति वृत्तावेकत्वविशिष्टार्थनियतः । एवं प्रस्थादिशब्दोऽपि । घटशब्दस्तु नैवम् , घटदातेत्युक्ते घटानां दातेत्यपि प्रतीतेः। एतदेवाभिप्रेत्य प्रत्युदाहरति घटं घटमिति । एतत्सर्वं जयादित्यमतम् । वामनस्तु उक्तनियमे प्रमाणाभावाद् जातिशब्देभ्योऽपि शस् भवत्येव, एकवचनग्रहणं तु घटौ घटौ ददातीत्यादौ शसभावार्थमित्याह । एकैकशः पितृसंयुक्तानित्यत्र तु शसैव वीप्साया उक्तत्वाद् द्विवचनमार्षमिति हरदत्तः। प्रत्याहाराह्निकभाष्ये “एकैकशः सहस्रकृत्वः' कर्मत्वात्तदभिधायकत्वाचाल्पशब्दस्य । तथा च व्याचक्षते-अल्पा पञ्चमी समस्यत इति । आचार्येणेति शेषः । परिमाणशब्दा इति । तथा चैकवचनग्रहणेन एकोऽर्थ उच्यते येनेत्यर्थकेन वृत्तावेकार्थतानियताः परिमाणशब्दा एव गृह्यन्त इति भावः । माष माषमिति । माषदातेत्युक्त माषमात्रस्य हिरण्यादेर्दातेति प्रतीयते, न तु माषाणामिति प्रतीतिरिति भवत्ययं वृत्तावेकार्थतानियमः। एवं प्रस्थादिरपि। घटादयस्तु नैवम् । घटदातेत्युक्ते तु घटानां दातेत्यर्थस्यापि प्रतीयमानत्वात् । अतएव च प्रत्युदाहरति घटं घटमिति । घटादयो हि जातिशब्दा नैकार्था भवन्ति, जातियोगस्यैकाने. कसाधारणत्वात् , किं त्वभेदैकत्वसंख्यामुपाददते । एतच्च सर्व जयादित्यमतानुसारेणोक्तम् । वामनमते जातिशब्देभ्योऽपि भवत्येव । तथा च 'जश्शसोः' इति सूत्रे तेनोक्तम् 'जसा सह चरितस्य शसो ग्रहणादिह' न भवति । 'कुण्डशो ददाति वनशः प्रविशति' इति, तस्यायमाशयः-जातिशब्दोऽपि यद्यर्थप्रकरणादिना वृत्तावेकार्थो भवति, तदा भवत्येव ततोऽपि शसिति । अथ कथम् 'एकैकशः पितृसंयुक्वान्' इति द्विवचनशसोः सह प्रयोग इति चेत् । छन्दोवदृषयः कुर्वन्तीति हरदत्तः । अतएव 'सुपः' इति सूत्रे एकैकश इति प्राचो प्रन्यः प्रामादिक इत्यवोचामेति मनोरमाया स्थितम् । वस्तुतस्तु एकैकमेव एकैकशः । स्वार्थे शस्, न तु वीप्सायाम् , एकां कपिला Page #655 -------------------------------------------------------------------------- ________________ ६५२ ] सिद्धान्तकौमुदी। [तद्धितषु स्वार्थिक ददाति । 'वीप्सायाम' किम्-द्वौ ददाति । 'कारकात्' इत्येव । द्वयोर्द्वयोः स्वामी । २१११ प्रतियोगे पश्चम्यास्तसिः । (५-४-४४) प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति । 'श्राद्यादिभ्य उपसंख्यानम् (वा ३३३३)। श्रादौ श्रादितः । मध्यतः। अन्ततः । पृष्ठतः। पार्श्वतः । प्राकृतिगणोऽयम् । स्वरेण स्वरतः। वर्णतः । २११२ अपादाने चाहीयरुहोः । (५-४-४५) अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः । 'प्रहीयरुहोः' किम्स्वर्गाद्धीयते । पर्वतादवरोहति । २११३ अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः। (५-४-४६) अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यानतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । इति भाष्यप्रयोगात् स्वार्थिकशसा समाधेयमित्यन्ये । प्रतियोगे । विहितेति । 'प्रतिः प्रतिनिधिप्नतिदानयोः' इति प्रतेः कर्मप्रवचनीयत्वे तद्योगे 'प्रतिनिधिप्रतिदाने च यस्मात्' इति पञ्चमी विहितत्यर्थः । प्रद्यनः कृष्णतः प्रतीति । कृष्णस्य प्रति. निधिरित्यर्थः । आद्यादिभ्य इति । अयं सार्वविमक्तिकस्तसिः। अपादाने चाहीयरुहोः। अहीयरहोरिति छेदः । हीयते इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्य हीयेत्यनुकरणम् । हीयरुहोः संबन्धि यन्न भवति तस्मिन्नपादाने इत्यर्थः । अतिग्रहाव्यथन । अतिक्रम्य ग्रह इति । लोकवृत्तमतिकम्य तद्विलक्षणतया प्रतीयमानत्वमित्यर्थः । चारित्रेणेति । चरित्रमेव चारित्रम् , तेन हेतुना इतर. विलक्षणत्वेन दृश्यत इत्यर्थः । फलितमाह अन्यानतिक्रम्य वर्तत इति । 'व्यथ मेकैकशः सहस्रकृत्वो दत्त्वा' इति भाष्यादिति 'तान्येकवचन-' इत्यादिसूत्रे वक्ष्यामः । द्वौ ददातीति । कथं तर्हि-'अवतानाममन्त्राणां जातिमात्रोपजोविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते' इति । न ह्यत्र वीप्सास्ति, नापि कारकत्वमिति चेत् । अत्राहुः-सहस्रं सहस्रं ये समेतास्तेषामपि परिषत्त्वं नेत्यर्थः । तथा च समवायक्रियां प्रति कर्तृत्वं वीप्सा चास्त्येवेति । एतेन 'एकश एकवचनादिसंज्ञानि म्युः' इति व्याख्यातम् । एकशब्दार्थस्यास्तिक्रियां प्रति कर्तृत्वात् । कृष्णतः प्रतीति । 'प्रतिः प्रतिनिधिप्रतिदानयोः' इति कर्मप्रवचनीयसंज्ञायां 'प्रतिनिधिप्रतिदाने च यस्मात्' इति पञ्चमी । आद्यादिभ्य इति । 'तस्यादित उदात्तमर्धह्रस्वम्' इत्येतदत्र लिङ्गम् । ग्रामत इति । एवम् अध्ययनात्पराजयते अध्ययनत इत्याद्यपि बोध्यम् । अतिगृह्यत इति । अन्यातिक्रमेण लौकह्यत इत्यर्थः । फलितमाह अन्यानतिक्रम्य Page #656 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५३ वृत्तेन न चलतीत्यर्थः । क्षेपे-वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । 'प्रकर्तरि' इति किम्-देवदत्तेन चिप्सः । २११४ हीयमानपापयोगाश्च । (५-४-४७) हीयमानपापयुकादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । 'अकर्तरि' इति किम्-देवदत्तेन हीयते । २११५ षष्ठया व्याश्रये । (५-४-४८) षष्ठयन्ताद्वा तसिः स्यामानापक्षसमाश्रयणे । देवा अर्जुनतोऽ. भवन् । श्रादित्याः कर्णतोऽभवन् । अर्जुनस्य कर्णस्य पचे इत्यर्थः। 'व्याश्रये' किम्-वृक्षस्य शाखा । २११६ रोगाश्चापनयने। (५-४-४६) रोगवाचिनः षष्ठयन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकात: कुहा प्रतीकारमस्याः कुर्वित्यर्थः । 'अपनयने' किम्-प्रवाहिकायाः प्रकोपनं करोति । २११७ कृभ्वस्तियोगे संपद्यकर्तरि च्विः । (५-४-५०) 'प्रभूतततद्भाव इति वक्तव्यम्' (वा३३४०) भयसंचलनयो.' इति चलनार्थाद् ल्युटि व्यथनशब्दः, तदाह अव्यथनमचलनमिति । क्षेप इति । उदाह्रियत इति शेषः । क्षेपो निन्दा । हीयमानपापयोगाच। हीयमानेति । हीयमानयुक्तात् पापयुक्ताश्चेत्यर्थः । ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्ध किमर्थमिदमित्यत आह क्षेपस्याविवक्षायामिति । तत्त्वकथन इत्यर्थः । षष्ठया व्याश्रये । नानापक्षसमाश्रयण इति । सर्वसाधारण्यं विहाय एकपक्षाश्रय इति यावत् । पक्षः स्वीयत्वेन परिग्रहः । देवा अर्जुनतोऽभवन्निति । अर्जुनस्य पक्षे देवा आसमित्यर्थः। आदित्याः कर्णतोऽभवन्निति । सूर्याः कर्णस्य पक्षे आसन्नित्यर्थः। रोगाश्च । रोगस्य प्रतीकारः चिकित्सा । प्रवाहिकात इति । विषूचिकाप्रतीकारमित्यर्थः । कृभ्वस्तियोगे । अभूतेति । येन रूपेण प्रागभूतं यद्वस्तु तस्य तद्रूपप्राप्तावित्यर्थः । एवं च यत्र प्रकृतिखरूपमेव विकाररूपमापद्यमानं विकाराभेदेन विवक्ष्यते, तत्रैवायं प्रत्यय इति लभ्यते । संपद्यकर्तरीत्येकं पदम्। संपदनं सम्पद्यः। संपूर्वकात्पदधातोरत एव निपातनाद् भावे कृत्संज्ञः शः, दिवादित्वात् श्यन् । संपद्यस्य कर्तेति षष्ठीसमासः । संपद्यमाने वर्तमानादिति यावत् । केन रूपेण कस्य संपत्तिरित्याकाङ्क्षायाम् , 'अभूततद्भावे-' इति वार्तिकात् प्रकृतेर्विकाररूपेण संपत्तिरिति लभ्यते । तत्र विकारवाचकादेव प्रत्ययः, नतु प्रकृतिवाचकात् , व्याख्यानात् । तथा वर्तत इति । प्रवाहिकात इति । प्रच्छर्दिकातः कुर्वित्याद्यप्युदाहरणम् । प्रवाहिका विषूचिका । प्रच्छर्दिका तु वमनव्याधिः । कृभ्वस्तियोगे । योग इति किम्, अशक्तः शुक्लो जायते । संपद्यकर्तरीति । संपद्यश्चासौ कर्ता चेति विग्रहः । 'पाघ्राध्माधेदृशः' इति विहितः शप्रत्ययोऽस्मादेव निपातनात्सम्पदोऽपि भवति । Page #657 -------------------------------------------------------------------------- ________________ ६५४ ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकविकारारमतां प्राप्नुवत्या प्रकृतौ वर्तमानाद्विकारशब्दारस्वार्थे विर्वा स्यात्करोत्यादिभिर्योगे । २११८ अस्य च्वौ। (७-४-३२) अवर्णस्य ईत्स्यात् चौ। वेर्लोपः। च्यन्तस्वादव्ययस्वम् । अकृष्णः कृष्णः संपद्यते, तं करोति, कृष्णीकरोति। ब्रह्मीभवति । गङ्गीस्यात् । 'अव्ययस्य च्चावीत्वं नेति वाच्यम्' ( वा ५०५२ )। दोषाभूतम् अहः। दिवाभूता रात्रिः। एतच्च 'अव्ययीभावश्च' (सू ४५१) च फलितमाह विकारात्मतामित्यादिना । वर्तमानादिति । विकारवाचकशब्दस्य प्रकृती गौण्या वृत्त्या विद्यमानत्वं बोध्यम् । करोत्यादिभिरिति । 'डुकृञ् करणे, भू सत्तायाम , अस भुवि' इति धातुभिर्योगे सतीत्यर्थः । चिप्रत्यये चकार इत्, इकार उच्चारणार्थः । अस्य च्वौ। ईत्स्यादिति । 'ई घ्राध्मो.' इत्यतः तदनुवृत्तेरिति भावः । वेर्लोप इति । 'वेरपृक्तस्य' इत्यनेनेति शेषः । च्व्यन्तत्वादव्ययत्वमिति । 'ऊर्यादिविडाचश्च' इति निपातत्वात् स्वरादिनिपातमित्यव्ययत्वमित्यर्थः । तद्धितश्चासर्वविभक्तिः' इत्यत्र 'शस्त्रभृतयः प्राक् समासान्तेभ्यः' इति परिगणितेष्वन्तर्भावादव्ययत्वमिति केचित् । कृज्योगे उदाहरति कृष्ण इति । वस्तुतः अकृष्णः सन् वेषादिना कृष्णभावं प्राप्नोतीत्यर्थः। तं करोतीति । अकृष्णं कृष्णरूपेण संपद्यमानं करोतीत्यर्थः। कृष्णीकरोतीति । अत्र वस्तुतः अकृष्णो नटः प्रकृतिभूतः । स तावत्कृष्णभावं विकारं प्राप्नुवन् सम्पद्यमानत्वात् सम्पद्यकर्ता भवतीति तत्राभेदारोपमवलम्ब्य वर्तमानो विकारभूतकृष्णवाचकः शब्दः । तस्मात् विप्रत्ययः, चकार इत्, इकार उच्चारणार्थः । तस्मिन्परे अकारस्य ईत्त्वम् । 'वेरपृक्तस्य' इति कारलोपः। कृष्णीति इकारान्तमव्ययम् । ब्रह्मीभव. तीति । अब्रह्म ब्रह्म संपद्यमानं भवतीत्यर्थः। ब्रह्मशब्दात् च्वः । अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वान्नलोपः। ईत्वमिति भावः । अत्यन्तस्वार्थिकानामेव प्रातिपदिकादुत्पत्तिः, नतु सुबन्तादिति नियमः। अतो न च्वेः प्रातिपदिकादुत्पत्तिः। किंतु सुबन्तादेवेति बोध्यम् । अत एव अगौ!ः समपद्यत गोऽभवदित्यत्र च्यन्तस्य गोशब्दस्य 'एङः पदान्तात्-' इति पररूपमुदाहृतं भाष्ये संगच्छत इत्यलम् । गङ्गी. स्यादिति । अगङ्गा गङ्गात्वेन संपद्यमाना स्यादित्यर्थः । 'अस्य च्वौ' इति ईत्त्वम् । दोषाभूतम् अहरिति । दोषेत्याकारान्तमव्ययं रात्रावित्यर्थे वर्तते । इह तु रात्रिरित्यर्थे वर्तते । अदोषाभूतमहः बहुलमेघावरणान्धकाराद् दोषाभूतमित्यर्थः । दिवाभूता रात्रिरिति । दिवेत्याकारान्तमव्ययम् अहनीत्यर्थे । इह तु अहरित्यर्थे वर्तते । चन्द्रिकातिशयवशाद् अहर्भूतेत्यर्थः। ननु 'अव्ययस्य च्वावीत्त्वं न' इति दिवादित्वात् श्यन्निति हरदत्तः। वक्तव्यमिति । वृत्तिकारस्तु 'अभूततद्भावे' इति Page #658 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५५ इति सूत्रे भाष्ये उनम्। २११६ क्यच्च्योश्च । (६-४-१५२ ) हलः परस्यापत्ययकारस्य लोपः स्यात्क्ये च्वौ च परतः। गार्गीभवति । २१२० च्वौ च । (७-४-१६) च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । 'अव्ययस्य दीर्घत्वं न' इति केचित् , तन्निर्मूलम् । 'स्वस्ति स्यात्' इति तु महाविभाषया वेभावात्सिद्धम् । 'स्वस्तीस्यात्' इत्यपि पक्ष स्यादिति चेदस्तु । यदि नेष्यते तीनभिधानात् घिरेव नोत्पद्यत इत्यस्तु । 'रीतः' (सू १२३४)। मात्रीकरोति । २१२१ अर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च । (५-४-५१) एषां लोपः स्यात् च्चि श्व । अरूकरोति । उन्मनीस्यात् । उच्चस्करोति । उच्चती. वार्तिकम् 'अस्य च्यौ' इति सूत्रभाष्ये न दृश्यत इत्यत आह एतच्चेति । गार्गीभवतीति वक्ष्यन्नाह क्यच योश्च । 'अल्लोपोऽनः' इत्यस्माद् 'लोप' इति, 'हलस्तद्धितस्य' इत्यस्माद् 'हलः' इति, 'सूर्यतिष्य-' इत्यतः 'य' इति, 'आपत्यस्य च-' इत्यस्माद् 'यापत्य स्य' इति चान वर्तते, तदाह हलः परस्येति । गार्गीभवतीति । अगार्यो गार्यः संपर मानो भवतीत्यर्थः । यजन्तात् च्यौ यकारस्य लोपः । वेर्लोपः। यकारस्य तु 'आपत्यस्य च-' इति लोपो न संभवति, ईकारेण व्यवधानात् । 'हलस्तद्वितस्य' इत्यपि न स भवति। तस्य इति अर्थवत्येव विधानात् । अतो वचनमिति भावः । अथ शुचीभव गीति वक्ष्यन्नाह च्वौ च । दीर्घः स्यादिति । 'अकृत्सार्वधातुकयो:-' इत्यतः तदनुवृत्तेरिति भावः । अव्ययस्येति । अव्ययस्य 'च्वौ च' इति दी| नेत्यर्थः । न स्वस्ति स्यादित्यत्र च्चौ न दीर्घ इति भावः। तन्निर्मलमिति । भाष्यादावदृष्ट वादिति भावः। तर्हि स्वस्ति स्यादिति न स्याद् दीर्घप्रसङ्गादित्यत आह स्वस्तियादिति त्विति । ननु महाविभाषया दीर्घाभावे स्वस्ति स्यादिति सिद्धावपि कदाचित् स्वस्तीस्यादिति दी| दुर्वार इति शङ्कते स्वस्ती. स्यादित्यपि पक्षे सादिति । इष्टापत्तिरित्याह अस्त्विति । दीर्घतदभावाभ्यां रूपद्वयमिति शेषः । प्र माणिकत्वादुभयमप्यादर्तव्यमिति भावः । ननु शिष्टानङ्गीकारात् कथं दीर्घपाठादर इत्य। श्राह यदि नेष्यत इत्यादि। मातृशब्दात् विप्रत्यये विशेष माह रीत इति । अरुर्मनश्चक्षुः । एषामिति । अरुस् , मनस्, चक्षुस् , चेतस् , रहस् रजस् इत्येतेषामित्यर्थः। पूर्वेणैव प्रत्ययसिद्धस्तत्संनियोगेन सूत्रमध्ये प्रचिक्षेप । व्यन्तत्वादिति । तस्य निपातत्वात् 'स्वरादिनिपातमव्ययम्' इत्यनेनेत्यर्थः । गार्गीभवतीति । इह यान्तात् सुपि ततः विप्रत्यये कृते 'आपत्यस्य च तद्धितेऽनाति' इति यलोपो न भवति, ईकारेण व्यवधानादिति बोध्यम् । अरुमनः । विश्वेति । पूर्वेण सिद्धस्यापि च्वेरयमनुवादः । लोपस्तु तत्संनियोग Page #659 -------------------------------------------------------------------------- ________________ ६५६ ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिक करोति । विरहीकरोति । विरजीकरोति । २१२२ विभाषा साति कात्स्न्थें । (५-४-५२) विविषये सातिर्वा स्वारसाकल्ये । २१२३ सात्पदाद्योः। (८-३-१११) सस्य षत्वं न स्यात् । दधि सिञ्चति । कृरखं शस्त्रमग्निः संपद्यतेऽनि. सागवति । अग्नीभवति । महाविभाषया वाक्यमपि । 'कास्न्ये किम्-एकदेशेन शुक्लीभवति पटः । २१२४ अभिविधौ संपदा च । (५-४-५३) संपदा कृभ्वस्तिभिश्च योगे सातिर्वा स्याध्याप्तौ । पक्षे कृम्वस्तियोगे चिः । संपदा तु वाक्यमेव । अग्निसारसंपद्यते, अग्निसाद्भवति शस्त्रम् , अनीभवति । जलसात्अन्त्यलोप इह विधीयते। अरूकरोतीति । अनरुः अरुः संपद्यते तत् करोतीत्यर्थः । प्रकृतेरन्त्यलोपे उकारस्य 'च्चौ च' इति दीर्घः। उन्मनीकरोतीति । अनुन्मना उन्मनाः संपद्यते तं करोतीत्यर्थः । च्चौ अन्यलोपः, ईत्त्वं च । उच्चतू. करोतीति । अनुच्चक्षुः उच्चक्षुः संपद्यते, तं करोतीत्यर्थः। च्वौ अन्त्यलोपो दीर्घश्च। उच्चतीकरोतीति । अनुच्छेता उच्चताः संपद्यते, तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । विरहीकरोतीति । रहो विजनप्रदेशः, विशिष्टं रहो विरहः । अविरहो विरहः संपद्यते तत् करोतीत्यर्थः । च्चौ अन्त्यलोपः, ईत्त्वं च । विरजीकरो तीति। अविरजा विरजाः संपद्यते तं करोतीत्यर्थः । अन्त्यलोपे 'अस्य च्चौ' ईत्त्वं च । विभाषा साति। सातीति लुप्तप्रथमाकम् । विविषय इति । अभूततद्भावे संपद्यकर्तरि कृभ्वस्तियोग इत्यर्थः । सात्पदाद्योः । शेषपूरणेन सूत्रं व्याचष्टे सस्य षत्वं न स्यादिति । सातेरवयवस्य पदादेश्च सस्य षत्वं न स्यादित्यर्थः । 'न रपरसृपि-' इत्यतो 'न' इति 'अपदान्तस्य-' इत्यतो 'मूर्धन्य' इति चानुवर्तत इति भावः । पदादेरुदाहरति दधि सिञ्चतीति । षिचिधातोः 'धात्वादेः षः सः' इति षस्य सः। तस्य 'आदेशप्रत्यययोः' इति षत्वे प्राप्ते अनेन निषेधः । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः । अग्निसादित्यत्र प्रत्ययावयवसकारत्वात् षत्वे प्राप्ते अनेन निषेधः। अग्नीभवतीति । च्चिप्रत्यये 'चौ च' इति दीर्घः । महाविभाषयेति । 'समर्थानाम्-' इत्यतो वाग्रहणानुवृत्तरित्यर्थः। महाविभाषया सिद्धे इह विभाषाग्रहणं तु अपवादेन मुक्ते औत्सर्गिकच्चेः समावेशार्थम् । अभिविधौ संपदा च । चकारः कृभ्वस्तिसमुच्चयार्थः। तदाह संपदा कृभ्वस्तिभिश्चेति । अभिविधावित्यस्य विवरणं व्याप्ताविति । पक्ष इति । सातिप्रत्ययाभावपक्षे कृभ्वस्तियोगे पूर्वेण शिष्टत्वार्थः । विभाषा साति । विभाष्यते विकल्प्यत इति विभाषा । 'गुरोश्च हलः' इत्यकारप्रत्ययः। ततः टाप्। न त्विदमव्ययम् , 'द्वयोर्विभाषयोर्मध्ये' ‘पयसस्तु विभाषया' इत्यादौ विभक्तेर्दर्शनात् । कृत्स्नमिति । सर्वावयवोपेतमित्यर्थः । अग्निसाद्भवति Page #660 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५७ संपद्यते, जलीभवति लवणम् । 'एकस्या व्यक्तः सर्वावयवावच्छेदेनान्यथाभावः कास्यम्' । 'बहूनां व्यक्तीनां किशिदवयवावच्छेदेनान्यथात्वं त्वमिविधिः'।२१२५ तदधीनवचने । (५-४-५४ ) सातिः स्थास्कृभ्वस्तिभिः संपदा च योगे। राजसास्करोति, राजसास्संपद्यते । राजाधीनमित्यर्थः। २१२६ देये त्रा च। (५-४-५५) तदधीने देये वा स्यात्सातिश्च कृभ्वादियोगे। विप्राधीनं देयं करोति । विप्रनाकरोति । विप्रनासंपचते । पक्षे विप्रसास्करोति । 'देये' किम्राजसाद्भवति राष्ट्रम् । २१२७ देवमनुष्यपुरुषपुरुमत्र्येभ्यो द्वितीयासप्तम्योबहुलम् । (५-४-५६) एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा। बहुलोकेरन्यत्रापि । बहुना जीवतो मनः। २१२८ अव्यक्तानुकरणाद यजवरार्धादनिती डान् । (५-४-५७) यच् अवरं न्यूनम् , न तु ततोन्यूनम् , 'अनेकाच्' इति यावत् । तादृशमधं यस्य तस्माड्डाच् चिः, संपदा योगे तु सातेरभावे वाक्यमेव, नतु च्विः, कृभ्वस्तियोग एत तद्विधानादित्यर्थः । सम्पदा योगे उदाहरति अग्निसात्संपद्यत इति । कृभ्वस्तियोगे उदाहरति अग्निसाद्भवति शस्त्रमिति । अग्निसात्करोति अग्निसात्स्यादित्यप्युदाहार्यम् । कात्याभिविध्योर्विशेषमाह एकस्या व्यक्तरित्यादिना । तदधीन. वचने। शेषपूरणेन सूत्रं व्याचष्टे सातिः स्यादित्यादिना । 'अभूततद्भावे' इति निवृत्तमिति भावः । देये त्रा च । 'तदधीनवचने' इत्येवानुवर्तते। कृभ्वादियोग इति । कृभ्वस्तिभिः संपदा च योगे इत्यर्थः । देवमनुष्यपुरुषपुरुमर्येभ्यो द्वितीयासप्तम्योर्बहुलम् । एभ्य इति । देव, मनुष्य, पुरुष, पुरु, मर्त्य इत्येतेभ्य इत्यर्थः । अत्यन्तस्वार्थिकोऽयम् । 'साति' इति 'कृभ्वस्तियोगे' इत्यपि निवृत्तम् । देवत्रा वन्दे रमे वेति,। देवान् वन्दे, देवेषु रमे वेत्यर्थः । मनुष्यत्रा पुरुषत्रा । पुरुशब्दो बहुलपर्यायः । पुरुत्रा, मयंत्रा । अन्यत्रापीति । देवादिभ्यो. ऽन्यत्रापीत्यर्थः । बहुत्रा जीवतो मन इति । जीवतो जन्तोर्मनः बहुषु विषयेषु गच्छति बहून् व्याप्नोतीत्यर्थः । अव्यक्तानुकरणात् । यत्र ध्वनौ अकारादयो वर्णेविशेषा न व्यज्यन्ते सः अव्यक्तो ध्वनिः । तस्यानुकरणम् अव्यक्तानुकरणम् । धजवरार्धशब्दं व्याचष्टे द्यजिति । द्वावचौ यस्येति विग्रहः । अवरशब्दं व्याचष्टे शस्त्रमिति । जातावेकवचनम् । सर्वाणि शस्त्राणीत्यर्थः । वन्दे रमे वेति । देवान् वन्दे देवत्रा वन्दे । देवेषु रमे देवत्रा रमे इत्यर्थोऽत्र पयेवसन्नः । एवं मनुष्यान् गच्छति मनुष्यत्रा गच्छति। मनुष्येषु वसति मनुष्यत्रा वसति। पुरुषान् गच्छति पुरुषत्रा गच्छति । पुरुषेषु वसति पुरुषत्रा वसति । पुरुशब्दो बहुपर्यायः । पुरून् गच्छति पुरुषु वसति वा Page #661 -------------------------------------------------------------------------- ________________ ६५८ ] सिद्धान्तकौमुदी । 1 [तद्धितेषु स्वार्थिक. स्यात्कृभ्वस्तिभिर्योगे । 'डाचि विवक्षिते द्वे बहुलम् ' ( वा ४६६७) 'नित्यमाग्रेडिते डाचीति वक्तव्यम्' ( वा ३६३८ ) । डारूपरं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । 'श्रव्यक्तानुकरणात्' किम् - ईषत्करोति । 'यजवराधत्' किम् - श्रत्करोति । 'अवर' इति किम् - घरटघरटाकरोति । त्रपटनपटाकरोति 'श्रनेकाचः' इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । न्यूनमिति । यजेव अवरं न्यून संख्याकमिति सामानाधिकरण्येनान्वयः । न तु ततो न्यूनमिति । एकाच्कमित्यर्थः । फलितमाह अनेकाजिति यावदिति । तादृशमर्धमिति । अनेकाच्कम् अर्ध भागो यस्य तद् व्यजवरार्धम् । तस्मादित्यर्थः । कृभ्वस्तिभिर्योग इति । मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । तथा च अनेकाच्कभागयुक्तादव्यक्तानुकरणात् शब्दात् कृभ्वस्तियोगे डाच् स्यादिति फलितम् । अथ पटच्छब्दादव्यक्तानुकरणाद् डाचमुदाहरिष्यन् पटच्छब्दस्य द्विर्वचनमाह डाचि विवक्षिते द्वे बहुलमिति । यद्यपि 'सर्वस्य द्वे' इति प्रकरणे 'डाचि द्वे भवत इति वक्तव्यम्' इत्येव भाष्ये वार्तिकं पठितम् । तत्र डाचि परत इति नार्थः, तथा स डाचि सति पटच्छब्दस्य द्विर्वचनम्, सति च द्विर्वचने अर्धस्यानेकाच्त्वाद् डाजित्यन्योन्याश्रयापत्तेः । अतः डाचि विवक्षिते इत्याश्रितम् । एवं च डाचि विवक्षिते पटच्छब्दस्य द्विर्वचने सति पटत् पटत् इत्यस्यानेकाच्कार्धभागयुक्तत्वाद् डाच् सूपपादः । पटत् पटत् करोतीति स्थिते प्रक्रियां दर्शयति नित्यमाम्रेडिते डाचीति । ‘एकः पूर्वपरयोः' इत्यधिकारे पररूपप्रकरणे 'नाम्रेडितस्यान्त्यस्य तु वा' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । डाच्परमिति । डाच् परं यस्मादिति विग्रहः । पकार इति । तथा च पटपटत् आ करोति इति स्थिते डित्वाट्टिलोपे पटपटा करोतीति रूपमित्यर्थः । अवरेति किमिति । यजर्धादित्येवास्त्वित्यर्थः । घरटघरटाकरोतीति । घरटत् इत्यव्यक्तानुकरणाद् डाचि द्विर्वचने पररूपे टिलोपे रूपम् । द्यर्धादित्युक्ते तु अर्धभागस्य घरटत् इत्यस्य बह्वच्कत्वाड्डाच् न स्यादित्यर्थः । अनेकाच इत्येवेति । द्यजवरार्धादित्यपनीय 'अव्यक्तानुकरणादनेकाचोऽनितौ डाच्' इत्येव सूत्रयितुमुचितमित्यर्थः । एवं हीति । 'अनेकाचोऽनितौ' इति पाठे सति पटच्छब्दस्य द्वित्वात्प्रापुरुत्रा । मर्त्यान्मर्त्येषु वा मर्त्यत्रा । डाचिविवक्षित इति । परसप्तम्यां त्वन्योन्याश्रयः स्यात् । डाचि कृते द्वित्वे सति व्यजवरार्धता, तस्यां च सत्यां डाजिति भावः । खरटखरटाकरोतीति । द्वित्वपररूपादि प्राग्वत् । व्यजर्घादित्युक्ते त्वत्र डाच् न स्यात् । न ह्यत्रार्धं यच् किं तु त्र्यच् । श्रनेकाच इत्येवेति । 'द्यजवरार्धात्' इत्य Page #662 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५६ 'अनितौ' किम्-पटिति करोति । २१२६ को द्वितीयतृतीयशम्बबीजात्कृषौ । (५-४-५८) द्वितीयादिभ्यो डास्यास्कृत एव योगे कर्षणेऽर्थे । बहुलोनेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति । द्वितीयाकरोति । तृतीयाकरोति । शंबशब्दः प्रतिलोमे । अनुलोमं कृष्ट क्षेत्रं पुनः प्रतिलोमं कर्षति, शंबाकरोति । बीजेन सह कर्षति, बीजाकरोति । २१३० संख्यायाश्च गुणान्तायाः । (५-४-५६) कृमो योगे कृषौ डास्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः । २१३१ समयाञ्च यापनायाम् । (५-४-६०) 'कृषौ' इति निवृत्तम् । कृमो योगे डास्यात् । समयाकरोति । कालं यापयतीत्यर्थः। २१३२ सपत्त्रनिष्पत्त्राद. गेव अनेकाच्कत्वाद् डाच् संभवतीति 'डाचि परतो द्वित्वम्' इति वक्तुं शक्यमिति भावः । पटितीति । 'अव्यक्तानुकरणस्य' इति पररूपम् । कृओ द्वितीय । द्वितीयादिभ्य इति । द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्य इत्यर्थः । कृन एव योग इति । कृग्रहणात् कृभ्वस्ति नुवर्तत इति भावः । 'मद्रात्परिवापणे इति यावत् कृत्र इत्यनुवर्तते । बहुलोनेरिति । 'डाचि बहुलं द्वे भवतः' इति बहुलग्रहणाद् अव्यक्तानुकरणस्यैव डाचि द्वित्वम् । नतु तदन्यस्येत्यर्थः । शम्बशब्दः प्रतिलोम इति । वर्तत इति शेषः। बीजेन सह कर्षतीति । श्रादौ कृष्टक्षेत्र कुलत्थादिबीजानां वापे कृते पुनः बीजैः सह कर्षणं प्रसिद्धम् । 'कर्षात्वत-' इति सूत्रभाष्यप्रामाण्यात् कृषधातुः शब्विकरणोऽस्ति, तेन शविकरणत्वात् कृषतीत्येव युक्तमिति न शङ्कयम् । संख्यायाश्च । शेषपूरणेन सूत्रं व्याचष्टे कृतो योग इति। समयाच्च । 'कृषौ' इति निवृत्तम् । समयशब्दाद् यापनायां गम्यमानायां डाजित्यर्थः। समयाकरोतीति । करोतिरिह यापनायामित्याह यापयतीति । अतिक्रान्तं करोतीत्यर्थः। अद्येदं कर्तव्यमित्युक्ते विघ्नं कश्चिदागद्य कालक्षेपं करोतीति यावत्। सपत्र । सपत्त्रशब्दाद् निष्पत्त्रशब्दाच्च अतिव्यधने डाजित्यर्थः । 'व्यध ताडने' पनीयेत्यर्थः । पटितीति । 'अव्यक्तानुकरणस्यात इतौ' इति पररूपम् । नन्वत्र करोतिना योगो दुर्लभः, इतिशब्देन व्यवधानात् । तथा चानिताविति व्यर्थमिति चेत् । अत्राहुः-इतिशब्देन करोत्यर्थगतप्रकार एव परामृश्यते इत्येवंप्रकारेण करोतीति । तथा च पटच्छब्दस्यार्थद्वारा योगोऽस्त्येवेति । बीजेन सहेति । ननु बीजेन सह भूतलस्य कर्षणे बीजानामपि कर्षणप्रसङ्गाद्विवक्षितार्थो न सिध्यतीति चेत् । अत्राहुः-वृत्तिविषये बीजशब्दो बीजावापसहिते विलखने वर्तते। तथा च बीजावापसहितं विलेखनं करोतीत्यर्थ इति । समयाञ्च । कालं यापयतीत्यर्थ इति । Page #663 -------------------------------------------------------------------------- ________________ ६६० ] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकतिव्यधने । (५-४-६१) सपस्त्राकरोति मृगम् । सपुङ्खशरप्रवेशेन सपत्त्रं करोतीत्यर्थः । निष्पत्त्राकरोति । सपुङ्खस्य शरस्यापरपावं निर्गमनानिष्पत्त्रं करोतीत्यर्थः । प्रतिव्यधने' किम्-सपस्त्रं निष्पत्त्रं वा करोति भूतलम् । २१३३ निष्कुलानिष्कोषणे । (५-४-६२) निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहिर्डाच् । २१३४ सुखप्रियादानुलोम्ये । (५-४-६३ ) सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणे. नानन्दयतीत्यर्थः । २१३५ दुःखात्प्रातिलोम्ये। (५-४-६४) दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः । २१३६ शूलात्पाके । (५-४-६५) शूला. करोति मांसम् । शूलेन पचतीत्यर्थः । २१३७ सत्यादशपथे। (५-४-६६) सस्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं चतुर्थान्तः। अतिक्रम्य वेधः अतिव्यधनम् । लक्ष्ये शराः पतन्त्यनेनेति पत्त्रम् , शराणां पुतगतो बर्हः । भूतलमिति । पुतपर्यन्तं पुजवर्ज वा शरप्रवेशनेन सपत्त्रं निष्पत्त्रं वा भूतलं करोतीत्यर्थः । निष्कुलान्निष्कोषणे । डाजिति शेषः । निष्कोषणम् अन्तर्गतावयवानां बहिःकरणम् । निष्कुलाकरोति दाडिममिति । निर्गत कुलं यस्मादिति बहुव्रीहिः । कुलशब्दश्च अन्तरवयवसमूहे वर्तते । तदाह निर्गत. मित्यादि । सुखप्रियादानुलोम्ये । सुखशब्दात्प्रियशब्दाच आनुलोम्ये गम्ये डाच् स्यादित्यर्थः । आराध्यगुर्वादिचित्तानुवर्तनमानुलोम्यम् । सुखाकरोति । प्रिया. करोति गुरुमिति । चित्तानुवर्तनेन गुरुं सुखसंपन्नं प्रियसंपन्नं च करोतीत्यर्थः । तदाह अनुकूलेति । दुःखात् । डाजिति शेषः। आराध्यप्रतिकूलाचरणं प्रातिलोम्यम् । अन्यत्पूर्ववत् । शूलात्पाके । डाजति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते। तदाह शूलेन पचतीत्यर्थ इति । सत्यादशपथे । 'कर्तव्यस्यावसरप्राप्तिः समयस्तस्यातिक्रमणं यापना' इति वृत्तिप्रन्थमुपादाय हरदत्त आह–'अद्य मे पारवश्यम् , श्वः परश्वो वा अस्य समय इत्येवं बहुषु दिवसेषु य आह स एवमुच्यते' इति । सपत्त्रनिष्पत्त्रात् । लक्ष्ये शराः पतन्त्यनेनेति पत्त्रम् , शराणां पुतगतो बर्हः । सपत्नं निष्पत्त्रं वा करोतीति । पत्त्राणि पनि तत्सहितं तद्रहितं वेति यथासम्भवमर्थः । निष्कुलात् । निष्कोषणमन्तरवयवानां बहिनिष्कासनम् । निष्कोषणे किम् , निष्कुलं करोति शत्रुम् । शूलापाके । पाके किम् , शूलं करोति कदन्नम् , शूलमुदररोगः । सत्यादशपथे । सासु साधु सत्यम् । 'तत्र साधुः' इति प्राग्घितीयत्वाद्यति प्राप्ते अतएव निपातनाद् यः। अन्तोदात्तोऽयम् । १'अतिव्यथने' इति बहुत्र पाठः । Page #664 -------------------------------------------------------------------------- ________________ प्रकरणम् ४१] बालमनोरमा-तस्वबोधिनीसहिता। [६६१ करोति विप्रः । २१३८ मद्रात्परिवापणे । (५-४-६७) मद्रशब्दो मावार्यः । परिषापणं मुण्डनम् । मद्राकरोति । मानल्यमुण्डनेन संस्करोतीत्यर्थः । 'मद्राति वक्तव्यम्' (वा ३३४४)। भद्राकरोति । अर्थः प्राग्वत् । 'परिवापणे' किम्मद्रं करोति । भद्रं करोति । इति स्वार्थिकप्रकरणम् । इति तद्धिताः ॥ डाजिति शेषः । सत्याकरोति भाण्डमिति । रत्नादिद्रव्यजातमित्यर्थः। सत्यशब्दोऽत्र तथ्ये वर्तते। 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । क्रेतव्यमितीति । एतावतैव मूल्येन इदं क्रयणाई नातोऽधिकमूल्येनेत्येवं यथाभूतार्थ वदतीत्यर्थः । सत्यं करोति विप्र इति । शपथं करोतीत्यर्थः । मद्रात्परिवापणे । डाजिति शेषः । मद्रशब्दो मङ्गलार्थ इति । मङ्गलपर्याय इत्यर्थः । परिवापणं मुण्डनमिति । केशान्वपते इत्यादौ तथा दर्शनादिति भावः । माङ्गल्यमुण्डनेनेति । चौलेनेत्यर्थः । मद्रं करोति । भद्रं करोतीति । क्षेमं करोतीत्यर्थः । अत्र परिवापणस्याप्रतीतेने डाजिति भावः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां तद्धितप्रकरणं समाप्तम् । 'सत्येनोत्तभिता भूमिः' । 'ऋतं च सत्यं च' इत्यत्र तथा दर्शनात् । सत्याकरोतीति । भाण्डं रत्नादिद्रव्यजातम्। केतव्यमिति । मयैवैतद् प्रात्यमिति बुद्ध्या परीक्षादिना सत्यंकारद्रव्यप्रदानेन च दृढं करोतीत्यर्थः । तथ्यमिति । तथैव तथ्यम्। 'पादार्घाभ्यां च' इति चकारस्यानुक्समुच्चयार्थत्वात्स्वार्थे यत् । परिवापणमिति । कर्मव्यापारमात्रवाचिनो वपेहेतुमरिणचि ल्युडिति हरदत्तः। कर्मव्यापारः फलं तस्य कर्मनिष्ठत्वात् । यथा च फलमात्रवाचिन इत्यर्थः फलित इत्याहुः । माङ्गल्यमुण्डनेनेति । चौलदीक्षादौ । भद्राश्चेति । भद्रादित्यर्थग्रहणमिति व्याख्याने तु मङ्गलादिभ्योऽपि स्यादिति बोध्यम् । इति तद्राजाः । इति तत्त्वबोधिन्या तद्धितप्रक्रियाप्रकरणम् । Page #665 -------------------------------------------------------------------------- ________________ ६६२ ] सिद्धान्तकौमुदी। [द्विरुक्तअथ द्विरुक्तप्रकरणम् । ४२ । २१३६ सर्वस्य द्वे। (८-१-१) इत्यधिकृत्य । २१४० नित्यः अथ द्विरुक्तप्रकरणम् । सर्वस्य द्वे। इत्यधिकृत्येति । द्विवचनविधयोऽनुकं सर्वस्य द्वे । सर्वशब्दस्य द्वे भवत इति विधिस्तु न शङ्कयः । किंतु 'नित्यवीप्सयोः' इत्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षवात्स्वरितत्वाच्चाधिकारोऽयं तदाह इत्यधिकृत्येति । एतदर्थरूपमधिकृत्येत्यर्थः । स्वरूपग्रहणं तु न भवति 'नामेडितस्यान्त्यस्य तु वा' इति लिङ्गात् स्वरूपग्रहणे हि सति द्विरुक्कसर्वशब्दस्यैव परमानेडितं स्यात् , न तु द्विरुक्तस्याव्यक्तानुकरणशब्दस्य परमिति 'नानेडितस्य-' इति पररूपनिषेधोऽन्त्यस्य तकारस्य विकल्पविधिश्च कथं संगच्छेत । ननु 'नित्यवीप्सयोः' इत्यादौ 'पदस्य' इति वक्ष्यमाणमपकृष्य पदस्यैव द्वित्वं विधीयत इति किमनेन सर्वस्येति ग्रहणेनेति चेत् । अत्राहुः-'स्वादिषु-' इति पदसंज्ञामादाय वृक्षाभ्यामित्यादौ प्रकृतिभागमात्रस्य द्विवेचनं स्यात् । कृते तु 'सर्वस्य' इति ग्रहणे 'सर्वशब्दोऽवयवकात्स्न्ये वर्तते' इति 'सर्वावयवोपेतस्य द्वित्वम् , न तु कश्चिदवयवो वय॑ते' इत्यर्थलाभादिष्टसिद्धिरिति । इह 'द्वे' इत्यस्य संख्येयापेक्षायां शब्दरूपे गृह्येते, शब्दानुशासनप्रस्तावात् । 'सर्वस्य' इति स्थानषष्ठी । सोऽयं स्थानेद्विवचनपक्षः। यदि तु उच्चारणे संख्येये, तदा स्थान्यादेशभावो न संभवति, निवृत्तिधर्मा हि स्थानी भवति, सर्व चेद् निवृत्तं कस्योचारणं स्यात् , अतः 'सर्वस्य' इत्यध्याहृतोचारणशब्दापेक्षया 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । 'सर्व द्विरुच्चारयेत्' इति फलितोऽर्थः । सोऽयं 'द्विःप्रयोगो द्विवचनम्' इति पक्षः । ननु आद्यपक्षे स्थानिवद्भावेन समुदायस्यैव पदत्वं स्यात् , न त्ववयवयोस्ततश्च पदकार्याणि न स्युः । न चेष्टापत्तिः । 'अपचन्नपचन्' इत्यत्र ङमुट्, 'वृक्षान् वृक्षान्' इत्यत्र 'पदान्तस्य' इति णत्वनिषेधः, 'अग्रेऽग्रे' इत्यत्र 'एडः पदान्तात्-' इति पूर्वरूपत्वं च न सिध्येत् । किं चापदान्तत्वप्रयुक्तकार्याणि स्युः । तद्यथा 'पयः पयः' इत्यत्र 'सोपदादौ' इति सत्वं स्यात् , 'पपीः पपीः' इत्यत्र 'इणः षः' इति षत्वं स्यात् । 'पाशकल्पककाम्येषु-' इति वृत्तिग्रन्थमवष्टभ्य कथंचित्सत्वषत्वपरिहारेऽपि 'अनीताश्नीत' इत्यत्र 'अतो गुणे' इति पररूपं स्यादिति चेत् । अत्राहुः-यदि प्रत्यस्तमितावयवभेदः समुदाय एक एवादेशः स्याद् द्वे इति द्विवचनमनुपपमं स्यात्, अतो वे इति वचनादेकस्य पदस्य स्थान द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते तत्र स्थानिवद्भावेन समुदायस्य पदत्वं स्वत एव चावयवयो. रपीति न कश्चिद्दोष इति । स्यादेतत्-द्विःप्रयोगपक्षे प्रत्येकं पदसंज्ञायां सिद्धायामपि Page #666 -------------------------------------------------------------------------- ________________ प्रकरणम् ४२] बालमनोरमा-तत्त्वबोधिनीसहिता। [६६३ वीप्सयोः। (--१-४) भाभीचण्ये वीप्सायां च द्योत्ये पदस्य द्विवचनं स्यात् । स्यन्त इति शेषः । नित्यवीप्सयोः। नित्यशब्देन नित्यत्वं विवक्षितम् । तच्च आभीदण्यमिति भाष्यम् । व्याप्तुमिच्छा वीप्सा, व्याप्तिप्रतिपादनेच्छा, सा च प्रयोक्तृधर्मः । व्याप्तिरेव तु शाब्दबोधविषय इति भाष्यस्वरसः । तथा च नित्यव्याप्योरित्येव सुवचम् । व्याप्तिश्च कात्स्न्येन संबन्धः, उपसर्गबलात् । पदस्येत्यधिकरिष्यमाणमिहापकृष्यते । सर्वस्येति स्थानषष्ठी। द्वे इति त्वादेशसमर्पकम् । तस्य च शब्दरूपे इति विशेष्यमल्लिभ्यते. शब्दानुशासनप्रस्तावात् । ते च शब्दरूपे स्वरूपतः अर्थतश्चान्तरतमे पदे इति स्थानऽन्तरतमपरिभाषया लभ्यते। ततश्च पौनःपुन्ये कात्स्न्ये च गम्ये कृत्स्नावयवविशिष्टस्य पदस्यार्थतश्च शब्दतश्चान्तरतमे द्वे पदे भवत इति फलितम् । तदभिप्रेत्याह आभीदण्ये वीप्सायां च द्योत्य इति । द्योत्यं च द्योत्या च द्योत्यम् । तस्मिन्नित्यर्थः । 'नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम्' इति नपुंसकैकशेष एकत्वं च । नित्यवीप्से च प्रकृतिगम्ये । द्विर्वचनं तु द्योतकम् । सत्यपि प्रकृतेर्द्वित्वे द्विरुक्तयोः प्रकृत्यनतिरेकादिति बोध्यम् । द्विर्वचनं स्यादिति । द्वे पदे समुदायस्य सा न सिध्यति । ततश्च देवदत्तः पचतिपचतीत्यादौ 'तिङतिङः' इति सर्वस्य पदस्य निघातो न सिध्यतीति चेत् । अत्राहुः-पचतिपचतीत्यादौ हि स एव धातुः प्रत्ययश्चात्र द्विः पठ्यते । ततश्च यो यस्मात् प्रत्ययो विहितस्तदादितदन्तमिति 'वधीयमाना पदसंज्ञा समुदायस्यापि प्रवर्तते । तेनावग्रहादिः सिध्यतीति । नित्यवीप्सयोः । नित्यमिह पौनःपुन्यमित्याह । आभीक्ष्ण्य इति । द्योत्य इति । 'नपुंसकमनपुंसकेन-' इत्येकशेषः, एकवद्भावश्च बोध्यः। पदस्येति । तेन नित्यताया विधीयमानं द्विवचनं धातुमात्रस्य न भवति । किं च क्रियासमभिहारे धातोर्विहितो यङन्तरङ्गः, पदस्योच्यमानं द्विवचनं तु बहिरङ्गमिति यऊ न बाधते । अन्यथा हि पौनःपुन्यं भृशार्थश्च क्रियासमभिहारे इति भृशार्थे सावकाशोऽयं यङ् पौनःपुन्ये परेण द्विवचनेन बाध्येत । न च पदस्य द्विवचनाभ्युपगमे सगतिकस्य प्रपचति प्रपठतीत्यादेविचनं न स्यादिति वाच्यम् , वार्तिककारवचनात्तत्सिद्धेः। अत्र वदन्ति-सगति. कस्य द्वित्वे ऐकपद्यं नास्त्येव, स्थानिनः पदत्वाभावन आदेशेऽपि तस्य दौर्लभ्यात् । द्विःप्रयोगपक्षे तु प्रथमगति विहायावशिष्टस्य समुदायस्य पदत्वं प्राप्तं तस्मिन् सत्यपि न क्षतिः । वस्तुतस्त्विह स्थान द्विवचनपक्ष एव मुख्यः । स्थानिनः सुबन्तत्वेनादेशस्यापि सुबन्तत्वात्सुबन्तात्तद्धित इति पक्षे समुदायात् ष्यञ्ठओः संभवेन पौनःपुन्यं पौनःपुनिक इति रूपसिद्धेः । 'प्रातिपदिकात्तद्धितः' इति पक्षाभ्युपगमेऽपि भ्रूयमाणप्रत्ययान्तस्यैव प्रातिपदिकत्वनिषेधात्पुनरित्यस्यैव प्रातिपदिकत्वेनादेशस्यापि प्रातिपदि Page #667 -------------------------------------------------------------------------- ________________ ६६४ ] सिद्धान्तकौमुदी। [ द्विरुक्त भाभीषण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्स्वा । आदेशौ स्त इत्यर्थः । तत्रावयवयोः पदत्वं स्वतःसिद्धम् । समुदायस्य तु पदद्वयात्मकस्य स्थानिवत्त्वात् सुबन्तत्वम् । तेन अपचन्नपचन्नित्यत्र मुट् , वृक्षान्वृक्षानित्यत्र 'पदान्तस्य' इति णत्वनिषेधः। अग्रेऽग्रे इत्यत्र 'एडः पदान्तात्-' इति पूर्वरूपं चेत्यादीन्यवयवानां पदकार्याणि सिध्यन्ति । पुनः पुनरिति समुदायस्य स्थानिवत्त्वेन सुबन्तत्वाद् भावे यत्रि, भवे ठमि च पौनःपुन्यम् , पौनःपुनिक इति च सिध्यति । द्वे उच्चारणे स्त इत्याश्रयणे तु सर्व पदं द्विरुच्चारयेदित्यर्थः फलितः स्यात् । ततश्च पुनरित्येकस्यैव द्विरुच्चार्यमाणस्य पुनः पुनरित्यादेशत्वाभावेन स्थानिवत्त्वाप्रसक्त्या सुबन्तत्वविरहात् तद्धितोत्पत्तिर्न स्यात् । तस्मादादेशपक्ष एव श्रेयानित्यास्तां तावत् । भाभीदायं तिङन्तेष्विति । भाभीक्ष्ण्यं पौनःपुन्यम् । तच्चेह प्रधानभूतकियाया एव । क्रियाप्राधान्यं चाख्यातेष्वस्तीति 'प्रशंसायां रूपप्' इति सूत्रे भाष्ये स्पष्टम् । अव्ययकृत्स्वपि क्त्वातुमुन्नादिषु क्रियाप्राधान्यम् , 'अव्ययकृतो भावे' इत्युक्तेः । तथा च तिङन्तेषु अव्ययसंज्ञककृदन्तेषु च पौनःपुन्यनिमित्तकद्विवचनं नान्यत्रे. कत्वात्पौनःपुन्यमित्यादि सिध्यत्येव । द्विःप्रयोगपक्षे त्वन्तरङ्गत्वादव्ययात्सुपो लुकि द्वित्वं प्रवर्तत इति समुदायस्य सुबन्तत्वाभावात् प्रातिपदिकत्वाभावाच्च यो न भवतः। न च 'अर्थवदधातुः-' इत्यादिना समुदायस्य प्रातिपदिकत्वे सोरुत्पत्तौ तस्य लुकि च सुबन्तत्वं प्रातिपदिकत्वं च संभवत्येवेति वाच्यम् , 'यत्र संघात पूर्वी भागः पदं तस्य चेद्भवति समासस्यैव' इति नियमेन प्रीतिपदिकत्वस्यासंभवेन सुवन्तत्वस्याप्य सम्भवात् । न च द्विःप्रयोगपक्ष स एव धातुः प्रत्ययश्च द्विः पठ्यते इति समुदायस्यापि पदसंज्ञा प्रवर्तते इत्यधुनैवोकत्वात्पुनःपुनरिति समुदायस्य सुबन्तत्वमस्त्येवेति शङ्कयम् अन्तरङ्गत्वात्सोलुकि प्रकृतिभागस्य द्विवचने सति यस्मात्प्रत्ययो विहितस्तदादि तदन्तमिति विधीयमानायाः पदसंज्ञायाः समुदायस्य दुर्लभत्वात् । ततश्चैकपद्याभावे 'पुनःपुनर्जायमाना पुराणी' इत्यादाववग्रहोऽपि न सिध्येदिति । अाभीदण्यमिति । तद्धि क्रियानिष्ठधर्मः। तेन तद्दयोतनार्थ द्वित्वं क्रियाप्रधानानामेव न्याय्यम् । क्रियाप्राधान्यं चाख्यातेऽस्ति, कृद्विशेष च, 'अव्ययकृतो भावे' इति वक्ष्यमाणत्वादिति भावः । केचित्तु क्रियाप्रधानानामेव द्वित्वे परिगृहीतसाधनाया एव क्रियाया व्यवहारोपयोगित्वात्तदभिधानाच धातुमात्रस्य द्वित्वं न भवति किंतु तादृशक्रियाभिधायिनः पदस्यैव स्यादिति पदस्यापकर्षणाभावेऽपि न क्षतिरित्याहुः । तचिन्त्यम् । उक्तरीत्या नानाकारकविशिष्टक्रियासमर्पकस्य वाक्यस्यैव द्वित्वापत्तेः । किं च भावार्थकलकारान्तानामव्ययकृतां व भवदुक्तरीत्या द्वित्वं न स्यात् । ननु तत्र नित्यतावगत्यनन्तरं पदान्तरैः साधनाकाक्षा Page #668 -------------------------------------------------------------------------- ________________ प्रकरणम् ४२] बालमनोरमा तत्त्वबोधिनीसहिता। [६६५ वीप्सायाम्-वृक्षं वृक्ष सिञ्चति । ग्रामो ग्रामो रमणीयः। २१४१ परेवर्जने त्यर्थः । तथैवोदाहरति पचति पचति, भुक्त्वा भुक्त्वेति । वीप्सायामिति । उदाह्रियत इति शेषः। वृक्षं वृक्षमिति । कृत्स्नं वृक्षमित्यर्थः । अत्र प्रकृततद्वाटिकागतवृक्षकात्स्न्यै गम्यते । जगतीतलस्थितकृत्स्नवृक्षसचनस्य अशक्यत्वात् । सर्वशब्दस्य काय॑वाचित्वेऽपि न द्वित्वमित्यनुपदमेव 'यथास्वे-' इत्यत्र वक्ष्यते । वृक्षं वृक्षमित्यत्र कात्यावगमेऽपि प्रत्येकनिष्ठमेकत्वमेव भासते, नतु बहुत्वम् । अतो न बहुवचनम् । 'एकैकस्य प्राचाम्' इति लिङ्गाच्च । सर्वस्येत्यभावे वृक्षाभ्यामित्यादौ स्वादिषु-' इति पदत्वमवलम्ब्य प्रकृतिभागमात्रस्य द्विवचनं परिपूर्यत इति भूयते पक्केल्यादिपदानां द्वित्वं स्यादेवेति चेत् तर्हि तत्रैव धातुमात्रस्य द्वित्वं केन वार्यताम् । किं च तद्वदेव कर्तृकर्मलकारस्थलेऽपि धातुमात्रद्वित्वं दुर्वारमिति पदस्थेत्यपकर्षणमावश्यकमेवेति दिक् । वीप्सायामिति । व्याप्तुमिच्छा वीप्सा । व्याप्तिप्रतिपिपादयिषति यावत् । सा च प्रयोक्तुर्धर्म आबाधवत् । गतगत इत्युक्त प्रियस्य चिरगमनादिना पीडितो वाक्यं प्रयुङ्क्ते इति यथा प्रतीयते तथा वृक्षवृक्ष सिञ्चतीत्यादावपि व्याप्तिं बुबोधयिषोरिदं वाक्यमित्यवगमात् । शाब्दबोधविषयस्तु व्याप्तिरेव । तथा च 'नित्यव्याप्त्योः' इत्येव सूत्रयितुं शक्यम् । व्याप्तिरिह कात्य॑म् , तच्चाधिकारिकम् । 'सर्वे ब्राह्मणा आमन्त्रिताः' इत्यादौ यथा । 'न हि जगतीतले निद्यमाना ब्राह्मणाः सर्वेऽपि केनचिदामन्त्रयितुं शक्यन्ते' इति खग्रामस्थखजातीयब्राह्मणपरतया यत्र संकोचो यद्यभ्युपेयते तयत्रापि सकलवृक्षसेचनसामर्थ्य कस्यापि मनुष्यस्य नास्तीति यत्र वाटिकादौ वृक्षसेचनार्थमधिकारस्तद्वाटिकास्थवृक्षाणामेव कात्स्य वृक्षं वृक्षं सिञ्चतीस्यादौ गम्यते इत्यभ्युपेयम् । यत्र तु संकोचे कारणं नास्ति, तत्रासंकोच इष्ट एव 'जातोजातो निधनमुपैति' इति यथा । न चैवं वृक्षं वृक्षमित्यादौ बहुवचनप्रसङ्गः, बहूनां भानेऽपि बहुत्वसंख्यायास्तत्राभानात् । प्रत्येकनिष्ठमेकत्वमेव हि तत्र भासत इत्यादि मनोरमायां स्थितम् । वृक्षं वृक्षमिति समुदायस्य तु प्रातिपदिकत्वाभावाद्बहुवचनस्य प्रसङ्ग एव नास्ति । न च 'अर्थवदधातुः-' इत्यनेन प्रातिपदिकत्वं शङ्कयम् , 'यत्र संघात पूर्वो भागः पदं तस्य चद्भवति समासस्यैव' इति नियमात् । न चाष्टमिकं द्विवचनमादेशरूपमिति संघातो न भवतीत्यपि शङ्कयम् , द्वे इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयते इति प्रागुतत्वात् । नन्वेवमपि 'सरित्सरित्' 'योषायोषा' इत्यादी बहुवचनोत्पत्तिर्दुरिव । सरिदिति स्थानिनः प्रातिपदिकत्वसम्भवेन तदादेशस्यापि सरित्सरिदित्यादेः स्थानिवद्भावेन प्रातिपदिकत्वसम्भवादिति चेत् , अत्राहुः-अन्तरजैकत्वसंख्यावरुद्धो द्विरुक्कार्थः संख्यान्तरे Page #669 -------------------------------------------------------------------------- ________________ ६६६ ] सिद्धान्तकौमुदी। [द्विरुक्त (८-१-५) परि परि वङ्गेभ्यो वृष्टो देवः। वङ्गान्परिहृत्येत्यर्थः । 'परेर्वर्जने वावचनम्' । ( वा ४६८३) परि वङ्गेभ्यः । २१४२ उपर्यध्यधसः सामीप्ये। (८-१-७) उपर्युपरि ग्रामम् । ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः। अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् । लोकस्याधस्तास्समीपे देशे इत्यर्थः । २१४३ वाक्यादेरामन्त्रितस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु । (८-१-८) प्रसूयायाम्-सुन्दर सुन्दर वृथा ते स्यात् । कृते तु सर्वग्रहण पदावयवत्वानाक्रान्तस्यैव कृत्स्नावयवोपेतस्य पदस्य द्वित्वमित्यर्थलाभान्न दोषः । 'पदस्य' इति किम् ? वाक्यस्य मा भून । परेर्वर्जने । वर्जने वर्तमानस्य परीत्यस्य द्वे स्त इत्यर्थः। परि परि वनेभ्यो वृष्ट इति । पर्जन्य इति शेषः । 'अपपरी वर्जने' इति परिः कर्मप्रवचनीयः । 'पञ्चम्यपापरिभिः' इति पञ्चमी । परि हरेः संसार इत्यत्र तु, 'परेरसमासे इति वक्तव्यम्' इति वार्तिकाद् न द्विवचनम् । उपर्यध्यधसः। उपरि, अधि, अधः एतेषां द्वे स्तः सामीप्ये गम्य इत्यर्थः । सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तु कालत इति ज्ञेयम् । वाक्यादेः। द्वे स्त इति शेषः । यद्यपि कोपाद्भर्त्सनम् , असूयया कुत्सनम् , तथापि विनापि कोपासूये भर्त्सनकुत्सनयोः शिष्यादौ संभवात्पृथग् ग्रहणम् इति भाष्ये निराकाङ्क्ष एव । न हि वस्तुगत्या बहुत्वमस्तीत्येतावतैव तस्य शाब्दबोध पापादरितुं शक्यते । असत्त्वार्थकेष्वपि तदापत्तेः । न हि शयनबाहुल्याभिप्रायेण 'देवदत्तेन शय्यते' इति भावे कश्चित्प्रयुङ्क्ते। तत्रायोग्यं तदिति चेत् समं प्रकृतेऽपि । अत्र च लिङ्गम् 'एकैकस्य प्राचाम्' इति निर्देश इति । परेर्वर्जने । अत्र वार्तिकं 'परेरसमासे' । नेह–परित्रिगतं वृष्टो देवः । 'वेति च वक्तव्यम्' तथा च अप हरेः परि हरेः संसार इति कारकेषूदाहृतम् । परिपरि वङ्गेभ्य इति । 'अपपरी वर्जने' इति कर्मप्रवचनीयसंज्ञायां 'पञ्चम्यपापरिभिः' इति पञ्चमी । उपर्यध्य । सामीप्यं प्रत्यासत्तिः, तच्च कालकृतं देशकृतं वा । अध्यधि सुखमिति । कालकृतस्योदाहरणमिदम् । सामीप्य इति किम् , उपरि चन्द्रमाः। उपरि शिरसो घटं धारयतीत्यत्र तु वस्तुतो विद्यमानमपि सामीप्यं न विवक्षितम् , किं त्वौत्तराधर्यमेव केवलं विवक्षितमिति द्विवचनं न भवति । विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणम् । अत्र च 'उपज्ञोक्रमं तदाद्याचिख्यासायाम्' इति सन्नन्तप्रयोगो ज्ञापक इत्याहुः । वाक्यादेः । सुन्दरसुन्दरेत्यादि । 'खरितमानेडितऽसूयासंमतिकोपकुत्सनभर्त्सनेषु' 'आमेडितं भर्त्सने' इति सूत्राभ्यां यथायथं प्राप्तः प्लुतो वैकल्पिकत्वान्नेह कृतः । उक्तं हि प्राक् ‘सर्वः प्लुतो वैकल्पिकः' इति । Page #670 -------------------------------------------------------------------------- ________________ प्रकरणम् ४२] बालमनोरमा-तत्त्वबोधिनीसहिता। [६६७ सौन्दर्यम् । संमतौ-देव देव वन्योऽसि। कोपे-दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि। कुत्सने-धानुष्क धानुष्क वृथा ते धनुः । भर्सने-चोर चोर घातयिष्यामि त्वाम् । २१४४ एकं बहुव्रीहिवत् । (८-१-६) द्विरुक्त एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपपुंवद्भावी। एकैकमक्षरम् । इह द्वयोरपि सुपोलुंकि कृते बहुव्रीहिवना. वादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकया पाहुत्या। इह पूर्वभागे पुंवद्रावाद. स्पष्टम् । सुन्दरेति । सौन्दर्यमसमानस्येदं वाक्यम् । देवेति । तव वन्दनं संमतमित्यर्थः । दुर्विनीतेति। क्रोधाविष्टस्य वाक्यम् । शास्यसीति । दुर्विनयस्य फलमिति शेषः । धानुष्केति । युद्धासमर्थ प्रति निन्देयम् । चोरेति । चोरं प्रति अवाच्यवादोऽयम् । एकं बहुव्रीहिवत् । द्विरुक्त इति । द्विर्वचनं प्राप्त इत्यर्थः । एतच्च प्रकरणाल्लभ्यते, 'वीप्सामात्रविषयमिदम्' इति भाष्याच्च । तेनेति । बहुव्रीहिवत्त्वेन सुब्लोपपुंवद्भावौ सिध्यत इत्यर्थः। तत्र सुब्लोपमुदाहरति एकैकमिति । इहेति । एकैकमित्यत्र एकमित्यस्य द्विवंचने सति, एकमेकमिति स्थिते सुपो लुकि, समुदायात् सुबित्यन्वयः। ननु 'यत्र संघाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव' इति नियमेन समुदायस्य प्रातिपदिकत्वाभावात् कथमिह सुपो लुक्, कथं वा समुदायात् सुबित्यत आह बहुव्रीहिवद्भावादेव प्रातिपदिकत्वादिति । एतच्च सुपोलकीत्यत्र समुदायात्सुबित्यत्र च मध्यमणिन्यायेनान्वेति । 'प्रथ पुंवत्त्वेऽप्युदाहरति एकैकया आहुत्येति । एकयेत्यस्य द्विवंचने सति एकया एकयेति स्थिते, बहुव्रीहिवत्त्वेन समुदायस्य प्रातिपदिकत्वात्सुपोलुंकि, पूर्वखण्डस्य पुंवत्त्वे कृते, समुदायात्पुनस्तृतीयोत्पत्ती, एकैकयेति रूपम् । बहुव्रीहिवत्त्वाभावे तु इह समुदायस्य प्रातिपदिकत्वाभावात् सुपोर्लुक् पूर्वखण्डस्य पुंवत्त्वं च न स्यात् , उत्तरपदपरकत्वाभावात् समासचरमावयवस्यैव उत्तरपदत्वादिति भावः । एकैकामित्यत्र उत्तरखण्डस्य 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वं बहुव्रीहिवत्त्वे सत्यपि न प्रवृत्तिमर्हति, नन्वत्र कोपासूयाभ्यां पृथक्कुत्सनभर्सनग्रहणमपार्थकम् । न ह्यसूयां विना कुत्सयते, न वा अकुपितो भर्त्सयत इति चेत् । अत्राहुः-गुरवो हि हितैषित्वादकुपिता अपि भर्त्सनं कुर्वते, विनाप्यसूर्या कुत्सां कुर्वन्तीति पृथक्तया निर्देशः सूत्रकारेण कृतः। 'सामृतैः पाणिभिर्मन्ति गुरवो न विषोक्षितैः । लालनायिणो दोषास्ताडनाश्रयिणो गुणाः' इति । एकं बहुव्रीहिवत् । द्वे इत्यनुवर्तते । तच्चानुवाद्यसमर्पकम् , तदाह द्विरुक्त इति । तेनेति । यद्यप्येतो बहुव्रीही विशिष्य न विहिती, तथापि तत्र दृष्टावित्येतावतैवातिदिश्यते इति भावः। सुब्लोपपुंवद्भावाविति । पूर्वपदप्रकृतिस्वरश्च बोध्यः । समुदायात्सुबिति। तचैकवचनमेवेति अन्तरजकत्वसंख्यावरुद्धो Page #671 -------------------------------------------------------------------------- ________________ ६६८ ] सिद्धान्तकौमुदी । [ द्विरुक्त वग्रहे विशेषः । 'न बहुव्रीहौ ' ( सू २२२ ) इत्यत्र पुनर्बहुधीहिग्रहणं मुख्य बहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्स्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकम्, न तु बहुव्रीहावितीहातिदेशशङ्कव नास्ति । एकैकस्मै देहि । २१४५ श्रबाधे च । पूर्वस्यैवेदम्, 'नत्रैषाद्वा-' इति लिङ्गादित्युक्तत्वादिति बोध्यम् । नन् सुपोर्लुकि पूर्वखण्डस्य एकाशब्दस्य पुंवत्त्वे सत्यसति वा वृद्धौ एकैकयेति सिध्यत्येवेत्यत आह इह पूर्व . भाग इति । श्रवग्रह इति । समस्तपदम्य द्विधा करणे पूर्वखण्डः श्रवग्रहः । 'तस्य पूर्वोऽवग्रहः' इति प्रातिशाख्यम् । एकैकयत्येक एकया इतीष्यते पूर्वखण्डस्य पुंवत्त्वम् । बहुव्रीहिवत्त्वाभाव तु एकैकयेत्येका एकयेति स्यादिति भावः । तैत्तिरीयास्तु एकैकयेत्येका एकया इत्येवावगृह्णन्ति । एक समासवदित्येव सिद्धे बहुव्रीहिग्रहणं बहुव्रीहौ प्रकृत्या पूर्वपदमिति स्वरार्थम् । ननु बहुव्रीहिवत्त्वे सति 'न बहुव्रीहौ' इति सर्वनामत्वनिषेधादेकैकस्मै देहीत्यादौ कथं सर्वनामकार्यमित्यत प्राह न बहुव्रीहा वित्यत्रेति । 'विभाषा दिक्समासे बहुव्रीहौ' इत्यतो बहुव्रीहिग्रहणानुवृत्त्यैव सिद्धे 'न बहुव्रीहौ' इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । अतो बहुव्रीहिवदित्यदितिष्टबहुव्रीहौ सर्वनामत्वनिषेधो नेत्यर्थः । तदाह तेनेति । तदेवं प्राचीनोक्लं परिहारमुक्त्वा सिद्धान्तिमतेनाह वस्तुतस्त्विति । एतदिति । 'न बहुव्रीहौ ' इति सूत्रमित्यर्थः । एवं च बहुव्रीहावपि सर्वनामत्वस्य भाष्यसंमत्तया बहुव्रीहिवत्त्वातिदेशे सत्यपि सर्वनामत्वं निर्बाधमिति भावः । सूत्रमतेऽपीति । उपसर्जनत्वादेव बहुव्रीहौ सर्वनामत्वनिषेधे सिद्धे 'न बहुव्रीहौ' इति बहुव्रीह्यर्थ के अलौकिक विग्रहवाक्ये एव समासात् प्राक् सर्वनामत्वं निषिध्यत इति प्रागेवोक्तम् । तस्मादिह बहुव्रीह्यतिदेशप्रयुक्तसर्वनामकार्याभावशङ्कैव नास्तीत्यर्थः । एकैकस्मै देहीति । इह द्वयोरपि द्विरुक्तार्थः संख्यान्तरे निराकाङ्क्ष इति प्रागेवोक्तत्वात् । पूर्वभाग इति । नतूत्तरभागेऽपि । तथाहि—द्विधात्र पुंवद्भावः 'सर्वनाम्नो वृत्तिमात्रे -' इति वा 'स्त्रियाः पुंवत् - ' इति वा । तत्राद्यः पूर्वभागस्यैव 'भत्रैषा -' इति ज्ञापकादित्युक्तम् । द्वितीयस्तु समानाधिकरणे परे विधीयते, न चोत्तरभागस्य समानाधिकरणपरत्वमस्तीति भावः । अवग्रहे विशेष इति । एकैकयेत्येकएकयेति भवतीत्यर्थः । एकैकस्मै इति । ननु सुब्लोपपुंवद्भावाविव बहुव्रीहौ सर्वनामसंज्ञाभावोऽपि दृष्ट इत्ययमपि बहु हिवद्भावेनातिदिश्यताम् । तथा च स्मायादेशोऽत्र दुर्लभ इति चेत् । अत्राहुः — मुब्लोपपुंवद्भावाविव सर्वनामसंज्ञाभावः शास्त्रेण न दृष्टः । किं तु बहुव्रीहे गौणत्वात्सर्ववाचकत्वं न संभवतीति तदभावो दृष्ट इति नायमतिदिश्यते । 'न बहुव्रीहौ' इति शास्त्रं त्वलौकिकवाक्ये Page #672 -------------------------------------------------------------------------- ________________ प्रकरणम् ४२] बालमनोरमा-तस्वबोधिनीसहिता। [६६६ (८-१-१०) पीडायां योत्यायां द्वे स्तो बहुव्रीहिवच । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्रावात्सुब्लुक् । गतगता । इह पुंवद्भावः । २१४६ कर्मधारयवदुत्तरेषु । (८-१-११) इह उत्तरेषु द्विवचनेषु कर्मधारयवत्कार्यम् । 'प्रयोजनं सुब्लोपवद्भावान्तोदात्तस्वानि' (वा ४६८६)।२१४७ प्रकारे गुणवचनस्य । (८-१-१२) सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच कर्मधारय. सुपो कि पुनः सर्वादिपठितैकशब्दान्ततया सर्वनामत्वात् स्मैभाव इति भावः । आबाधे च । आबाधः पीडा। तदाह पीडायामिति । गतगत इति । प्रियां विना काल इति शेषः । श्राबाधं दर्शयितुमाह विरहादिति । स्त्रीवियोगादित्यर्थः। वहुव्रीहिवद्भावादिति । गत इत्यस्य द्विवंचने सति बहुव्रीहिवत्त्वात् समुदायस्य प्रातिपदिकत्वेन सुपोर्चुकि समुदायात् सुबुत्पत्तिरित्यर्थः । गतगतेति । प्रियेति शेषः । इयमपि स्त्रीविरहात् पीड्यमानस्योक्तिः । एकस्या एव गमनकाः द्विः कथनात् समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमिति 'स्त्रियाः पुंवत्-' इति पुंवत्त्वम् , बहुव्रीहिवत्त्वादुत्तरपदत्वस्यापि सत्त्वात् । तदाह इह पुंवद्भाव इति । कर्मधारयवदुत्तरेषु । कार्य स्यादिति शेषः । कर्मधारयवत्त्वस्य फलमाह प्रयोजनमिति । सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमकवचनम् । अन्तोदात्तत्वानीति । अनुदात्तं चेत्यधिकृतमपि भाष्यप्रामाण्यान्नात्र सम्बध्यत इति भावः । प्रकारे गुणवचनस्य । निषेधकम् , न तु बहुव्रीहावित्युक्तत्वादिति । आबाधे च । इहेति । बहुव्रीहिवद्भावादित्यनुषज्यते । तथा च स्त्रियाः पुंवत्-' इति प्रवर्तते । न च द्विरुक्तस्य परमुत्तरपदं नेति वाच्यम् , बहुव्रीहिवदित्यतिदेशबलेनैव उत्तरपदत्वस्यापि लाभात् । ननु बहुव्रीहिवद्भावेनोत्तरपदत्वलाभे सति ननेत्यत्र 'नलोपो नमः' इति कस्मान्न भवति । उच्यते'नलोपो नञः' इत्यत्र उत्तरपदे इति प्रवर्तते, नन इति च कार्यिणो निदशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नो निमित्तभावो बाध्यते । यथा मद्रहृदो भद्रह्रद इति । अत्र रेफस्य 'अचो रहाभ्याम्-' इति द्वित्वप्रसङ्गे आकरे उक्तं 'नमौ रहौ कार्यिणौ किं तु निमित्तमेतौ द्विवचनस्य' इति । नन्वेवमपि 'धूधूः' 'पन्थाःपन्थाः' इत्यादी 'ऋक्पूरब्धूर-' इति समासान्तः स्यादिति चेत् । न, 'समासाच्च तद्विषयात्' इत्यतः समासादित्यनुवर्तमाने 'समासान्ताः' इति पुनः समासग्रहणं हि समासाधिकारविहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तानामप्रवृत्तिरिति दिक। कर्मधारयवदुत्तरेषु । अधिकारेणैव सिद्धे 'उत्तरेषु' इति वचनं विस्पष्टार्थमिति वृत्तिः । प्रकारे गुणववनस्य । यद्यपि प्रकारशब्दो भेदे सादृश्यै च वर्तते । बहुभिः प्रकारैर्भुते, बहुभिर्भेदैविशेषैरित्यवगमात् । ब्राह्मणप्रकारोऽयं माणवकः, Page #673 -------------------------------------------------------------------------- ________________ ६७० ] सिद्धान्तकौमुदी। [द्विरुक्तवत् । 'कर्मधारयवदुत्तरेषु-' (सू २१४६) इत्यधिकारात् । तेन पूर्वभागस्य वद्भावः 'समासस्य' (स् ३७३४ ) इत्यन्तोदात्तत्वं च । पटुपट्वी। पटुपटुः । प्रकारशब्दः सादृश्ये वर्तते व्याख्यानादित्यभिप्रत्याह सादृश्ये द्योत्य इति । गुणवचनशब्देन 'श्रा कडारात्-' इति सूत्रस्थभाष्यपरिगणिताः शब्दा गृह्यन्त इति 'वोतो गुणवचनात्' इत्यादौ प्रपञ्चितमिदम् । तेनेति । कर्मधारयवत्त्वेनेत्यर्थः । पुंवद्भाव इति । 'पुंवत्कर्मधारय-' इत्यनेनेति शेषः । पटुपट्वीति । पट्वीशब्दस्य द्विर्वचने कर्मधारयवत्त्वात् 'पुंवत्कर्मधारय-' इति पूर्वखण्डस्य पुंवत्त्वे रूपमिति भावः । यद्यपि बहुव्रीहिवत्त्वेऽपि 'स्त्रियाः पुंवत्-' इति पुंवत्त्वादिदं सिद्धम् , तथापि कारिकेत्यादिकोपधादिष्वपि पुंवत्त्वार्थ कर्मधारयवदिति वचनमिति भावः । पटुपटुब्राह्मणसदृश इत्यवगमाच्च । तथापीह विवक्षितमाह सादृश्य इति । व्याख्यानमेवात्र शरणम् । पुंवदभाव इति । 'पुंवत्कर्मधारय-' इति सूत्रात् । तच्च कोपधादिष्वपि कालककालिकेत्यादिषु प्रवर्तते । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावोक्तिर्व्यथेति शङ्काया निरवकाश इति बोध्यम्। पटुपटुरिति । इह द्वित्वेन जातीयरो बाधो नेष्यते पटुजातीय इति वामनः। अन्यथा ब्राह्मणजातीय इत्यादावगुणवचनेऽपि भेदरूपेऽर्थे सावकाशो जातीयर् गुणवचनेषु सादृश्यपरेण द्वित्वेन बाध्येतेति भावः । गुणवचनस्येति किम् , अनिर्माणवकः, सिंहो माणवकः । यद्यपीहाग्निसिंहशब्दाभ्यां गौण्या वृत्त्या तैक्षण्यक्रौर्यादिगुणो गम्यते, तथापि प्रकारे वर्तमानस्येत्येव सिद्धे गुणवचनग्रहणसांम •द् मुख्यवृत्त्या गुणपराणामेव द्वित्वम् , न त्वन्येषामित्याकरः । 'नवं नवं प्रीतिरहा करोति' इत्यत्र वीप्सायां द्विवचनम् । अनेन तु द्विवचने सुब्लुक् स्यात् । 'नवनवा वनवायुभिराददे' इत्यत्र त्वनेनैव द्विवचनम्, न तु वीप्सायामिति पुंवद्भावः । कथं 'भीतभीत इव शीतमयूखः' इति भारविः । इवशब्देन सादृश्यस्योलतया इह प्रकारे द्वित्वायोगात् । सत्यम् , भीतेभ्यो भीत इति कथंचिद्याख्येयम् । तेनातिभीत इति फलितम् । 'आधिक्ये द्वे वाच्ये' इति वार्तिकेन भीतभीतादौ द्वित्वमिति दुर्घटादिभिरुक्तं समाधानं नादर्तव्यम् । तादृशस्य वार्तिकस्याप्रसिद्धत्वात् । अथ कथं 'खिन्नःखिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र। क्षीणःक्षीणः परिलघुपयः स्रोतसां चोपयुज्य' इति मेघदूतः । पदार्थभेदस्याभावेन वीप्सार्थस्यासंभवादिति चेत् । अत्राहुःएकस्यापि खेदावस्थासु क्षयावस्थासु च भेदं परिकल्प्य वीप्सा बोध्येति । अथ कथं 'मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्' इति मेघदूतः। वीप्सार्थस्यासंभवादनेनैव द्विवंचने कृते 'मन्दमन्दमुदितः प्रययौ खम्' इतिवत्सुब्लुक् स्यादिति चेत् । सत्यम् , खतो मन्दगामिनं त्वां पवनो मन्दं नुदतीति कथंचियाख्येयम् । सिद्धस्य गतेश्चिन्त Page #674 -------------------------------------------------------------------------- ________________ प्रकरणम् ४२] बालमनोरमा तत्त्वबोधिनीसहिता। [६७१ पटुसहराः, ईषल्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः । 'मानुपूर्ये द्वे वाच्ये' (वा ४६६२)। मूले मूले स्थूलः । 'संभ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः' ( वा ५०५६) । सर्पः सर्पः, बुध्यस्व बुध्यस्व । सर्पः सर्पः सर्पः, बुध्यस्व बुध्यस्व बुध्यस्त्र । 'क्रियासमभिहारे च' (वा ४६६५) । लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' (सू २१४० ) इति सिद्धे भृशार्थे रिति । 'वोतो गुणवचनात्' इति ङीषभावे पुंसि च द्विवंचने रूपम् । पटुसदृश इति । इत्यर्थ इति शेषः । फलितमाह ईषत्पटुरिति । इह गुणवचनशब्दस्य गुणोपसर्जनद्रव्यवाचित्वमेवेति भ्रमं निरस्यति गुणोपसर्जनेति । शुक्लशुक्लं रूपमिति । शुक्लसदृशमित्यर्थः। ईषच्छुक्लमिति यावत् । एवं शुक्लशुक्लः पट इति बोध्यम् । आनुपूर्ण इति । अत्र वार्तिके कर्मधारयवदिति न संबध्यते, तदुदाहरणे भाष्ये सुब्लोपादर्शनादित्यभिप्रेत्योदाहरति मूले मूल इति । पूर्वपूर्वो मूलभाग उत्तरोत्तरमूलभागापेक्षया स्थूल इति यावत् । संभ्रमेणेति । वार्तिकमिदम् । संभ्रमो भयादिकृता त्वरा, तेन प्रवृत्ती गम्यमानायां यथेष्टम् इच्छानुसारेण अनेकधा शब्दः प्रयोक्तव्य इति वक्तव्यमित्यर्थः । अनेकधेत्युक्ते इति निवतेते। यथेष्टमित्युक्तेरसकृत्त्वेऽप्येकस्य प्रयोगः स्यादिति शङ्को निरस्यति न्यायसिद्ध इति । यावद्वारं प्रयोगे सति बोद्धा अर्थ प्रत्येति, तावद्वारमेव प्रयोगः । बोधात्मकफलपर्यवसायित्वाच्छन्दप्रयोगस्येत्यर्थः । एतच्च भाष्ये स्पष्टम् । अत्रापि कर्मधारयवत्त्वानतिदेशान्न सुब्लुक्, भाष्ये तथैवोदाहरणात् । क्रियासमभिहारे चेति । वार्तिकमिदम् । द्वे स्त इति शेषः । पौनःपुन्यं भृशत्वं च क्रियासमभिहारः । लोडन्तविषयमेवेदम्। 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इति सूत्रभाष्ये क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्वे भवत इति वक्तव्यमिति पाठमभिप्रेत्योदाहरति लुनीहिलुनीहीत्येवायं लुनातीति । 'लूम् छेदने' अस्मात् 'क्रियासमभिहारे लोट नीयत्वात् । शुक्लशुक्लमिति । केवलगुणवाचिन उदाहरणमिति ध्वनयति रूपमिति । आनुपूर्व्य इति । वीप्साभावादयमारम्भः । मूले मूल इति । अग्रेअग्रे सूक्ष्मा इत्यप्युदाहर्तव्यम् । एकस्य वस्तुनो वेणुदण्डादेरेकमेव मुख्यं मूलमग्रं च । इतरेषां भागानामापेक्षिकोऽप्रमूलव्यपदेशः । स्थौल्यसौक्ष्म्ये अपि नैकरूपे, किं तर्हि यथामूलमुपचीयते स्थौल्यम् , यथा अप्रं सौचम्यं तथा नेतरे भागा इति वीप्साया असंभवः । 'मूले मूले पथि विटपिनाम्' इत्यत्र तु वीप्सायां द्विवचनम् । एतच्च हरदत्तप्रन्ये स्पष्टम्। न्यायसिद्ध इति । यावद्भिः शब्दैः संबोध्योऽर्थमवगच्छति तावतां प्रयोकव्यत्वा Page #675 -------------------------------------------------------------------------- ________________ ६७२] सिद्धान्तकौमुदी। [द्विरुक्तद्वित्वामिदम् । पौनःपुन्येऽपि लोटा सह समुचित्य द्योतकतां लब्धं वा । 'कर्मव्यतिहारे सर्वनानो द्वे वाच्ये, समासवच बहुलम्' (वा ४७००)। बहुलग्रहणादन्यपरयोन समासवत् । इतरशब्दस्य तु नित्यम् । असमासवगावे पूर्वलोटो हिखौ-' इति लोट् । तस्य हि इत्यादेशः नाविकरणः । लुनीहीत्यस्य अनेन द्विवचनम् । 'यथाविध्यनुप्रयोगः पूर्वस्मिन्' इत्यनुप्रयोगः । तस्माल्लडादयः। अति. शयेन पुनर्वा लवनं लुनीहीति द्विरुक्तस्यार्थः । एककर्तृकं लवनमनुप्रयोगस्यार्थः । इतिशब्दस्त्वभेदान्वये तात्पर्य ग्राहयतीत्यादि मूल एव लकारार्थप्रकियागं स्फुटीभविष्यति । तथा च अतिशयितमेककर्तृकं लवनमिति फलितोऽर्थः । नित्येति।। 'नित्यवीप्सयोः' इति पौनःपुन्ये द्विवचने सिद्धऽपि भृशार्थे द्विवचनार्थमिदं वार्तिकमित्यर्थः। नन्वस्य भृशार्थ एव द्विवचनफलकत्वे 'भृशे च' इत्येव सेद्धे 'क्रियासमभिहारे' इति व्यर्थमित्यत आह पौनःपुन्येऽपीति । लुनीहिलुनीही यत्र पौनःपुन्ये लोटो द्विवचनस्य च समुच्चयार्थमिति यावत् । अन्यथा लोटैव पौनःपुन्यस्य द्योतितत्वात्तत्र नित्यवीप्सयोर्विचनस्य प्रवृत्तिर्न स्यादित्यर्थः । एवं च 'धातोरेकाचः-' इति पौनःपुन्ये यङन्ते पापच्यते इत्यादौ न द्विवचनमित्यन्यत्र विस्तरः। कर्मव्यतिहार इति । क्रियाविनिमयः कर्मव्यतिहारः, तस्मिन् गम्ये सर्वनानो द्वे स्तः । ते च द्विरुक्के पदे बहुलं समासवदित्यर्थः । अत्र 'बहुलम्' इति समासवदित्यत्रैवान्वेति । द्विवचनं तु नित्यमेव। अन्यपरयोरिति । अन्यशब्दपरशब्दयोरेव बहुलं समासवत्त्वम् । इतरशब्दस्य तु नित्यमेवेत्यर्थः । अत एव अन्यशब्दस्य समास्वत्त्वरहितमेव इतर. शब्दस्य तत्सहितमेवोदाहरणं भाष्ये दृश्यते । तथा 'परस्परोपादाच्च' इति वार्तिकप्रयोगात् परशब्दस्यापि समासवत्त्वाभावो गम्यत इति भावः। एवं च क्रियासमभिहारे अन्यशब्दस्य परशब्दस्य च नित्यं द्विवचनम् । द्विरुक्तयोस्तु सभासवत्त्वं बहुलम्। इतरशब्दस्य तु तदुभयमपि नित्यम् । एतत्त्रयव्यतिरिक्तसर्वनामशब्दस्य तु नेदं दिति भावः । पौनःपुन्य इति । पुनःपुनर्भवितरि वर्तमानात्पुनःपुनःशब्दाद् भावे प्रत्ययः । लोटा सह समुच्चित्येति । नन्वत्र लोटा सह समुच्चित्य यथा द्विवचनं भवति, तथा क्रियासमभिहारे यङि यडा सह समुच्चित्य द्विवचनं स्यात् पापच्यते पापच्यते, बोभूयते बोभूयते इति अत्राहुः-लोट् क्रियासनभिहारं व्यभिचरति। समुच्चयेऽपि जायमानत्वात् । ततश्च लोड्विर्वचनयोरेव तद्योतकत्वम् , न त्वेकैकस्येति युक्तं लोडन्तस्य द्विवचनम् । यङ् तु क्रियासमभिहारं न व्यभिचरतीति द्विवचनं विनव तस्य द्योतकत्वम् । तेन तदन्तस्य न द्विवचनमिति । कर्मव्यतिझर इति । क्रियाविनिमय इत्यर्थः । द्वे इति । नित्यमेवेदं द्वित्वम् , बाहुलकं तु समासवद्भावस्यैव। Page #676 -------------------------------------------------------------------------- ________________ प्रकरणम् ४२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६७३ पदस्थस्य सुपः सुर्वक्तव्यः' ( वा ४७०० ) श्रन्योन्यं विप्रा नमन्ति । अन्योन्यौ । अन्योन्यान् । अन्योन्येन कृतम् । अन्योन्यस्मै दत्तमित्यादि । 'अन्योन्येषां पुष्करैरामृशन्तः' इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरेतरेणेत्यादि । 'स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्लेराम्भावो वा वक्तव्यः' (वा ४७०१) श्रन्योन्याम्, अन्योन्यम् । परस्पराम्, परस्परम् । इतरेतराम्, द्वित्वम्, बहुलग्रहणादिति स्थितिः । असमासवद्भाव इति । इदमन्यपरशब्दयोरेव । इतरशब्दस्य समासवत्त्वस्यैवोक्तत्वात् । सुपः सुरिति । सुबिति प्रत्याहारः। सप्तानामपि विभक्तीनां पूर्वपदस्थानां प्रथमैकवचनं सु इत्यादेशो वाच्य इत्यर्थः । इदं द्वित्वादिविधानं प्रथमैकवचनमात्रविषयमिति केचित् । तदेतद्भाष्यविरुद्धम्, भाष्ये द्वितीयादिविभक्तेरुदाहृतत्वादित्यभिप्रेत्य द्वितीयादिविभक्ती रुदाहरति अन्योन्यं विप्रा नमन्तीत्यादि । इह अन्यम् अन्य इत्यादीनां द्वित्वे पूर्ववत्सुपः सुः । प्रथमैकवचनस्यैवेदं द्वित्वादीत्येतद् न कविसंमतमित्याह अन्योन्येषामित्यादि माघ इत्यन्तम् । परस्परमित्यत्र विसर्गस्य सत्त्वापवादमुपध्मानीयमाशङ्कय ह कस्कादित्वादित्यादि । इतरेतरमिति । इतर इतरावित्यादीनां द्वित्वे समासवत्त्वात् सुपोर्लुकि समुदायात् पुनः सुबुत्पत्तिरिति भावः । स्त्रीनपुंसकयोरिति । स्त्रीनपुंसकयोर्विद्यमानानाम् अन्यपरेतरपदानां कर्मव्यतिहारे द्वित्वे उत्तरपदस्थविभक्तेः आम् इत्यादेशो बहुलं वक्तव्य इत्यर्थः । अन्योन्यामित्यादि । अन्योन्याम् अन्योन्यं वा इमे ब्राह्मण्यौ कुले वा भोजयतः, परस्परां परस्परं वा इमे ब्राह्मण्यौ कुले वा भोजयतः, इतरेतराम् इतरेतरं वा इमे ब्राह्मरायौ कुले वा भोजयत इत्यन्वयः । तत्र अन्यामित्यस्य द्वित्वे दलद्वये टाबभाव इति वक्ष्यमाणतया पुंवत्त्वात् टापो निवृत्तौ समासवत्त्वाभावात्सुपोर लुकि पूर्वपदस्थविभक्तेः सुभावे रुत्वे 'अतो रोरप्लुतात् -' इत्युत्वे सुपः सुर्वक्तव्य इति । श्रत्र कैश्चिदुक्तं द्वितीयादीनामेवेदं स्वादेशविधानम् । अतएवोत्तरदलेsपि द्वितीयादय एव न तु प्रथमा, तत्राप्येकवचनमेव न तु वचनान्तरमिति । तदपाणिनीयम् भाष्यादावनुक्तत्वात् । तदेतद्ध्वनयन् वचनान्तरमुदाहरति अन्योन्यावन्योन्यानिति । माघ इति । स च भाष्यानुगुण एवेति भावः । एतेनार्वाचीनमतं कवयोऽपि नाद्रियन्त इत्युक्तं भवति । भारविश्वाह 'क्षितिनभः सुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः' इति । अत्रादृष्टः परस्परो यैरिति विग्रहः । यदि तु द्वितीयादीनामेव स्वादेशविधानं न तु प्रथमायाः, तर्ह्ययं प्रयोगो न सिध्यदिति दिक् । अन्योन्यमिति । न चात्र आमभावेऽपि टाप् स्यादिति शङ्कम्, 'बहुलग्रहणााबभावः' इत्यनुपदमेव बक्ष्यमाणत्वात् । स्त्रीनपुंस 2 Page #677 -------------------------------------------------------------------------- ________________ ६७४ ] सिद्धान्तकौमुदी । [ द्विरुक्त इतरेतरं वा इमे ब्राह्मण्यौ कुले वा भोजयतः । श्रत्र केचित् - श्रामादेशो द्वितीयाया एव, भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । श्रन्ये तूदाहरणस्य दिया । म्रत्वात्सर्वविभक्तीनामामादेशमाहुः । "दलद्वये टावभावः क्लीबे चाविरहः स्वमोः । समासे सोरलुक्चेति सिद्धं श्राद्गुणे उत्तरपदस्थविभक्तेरनेन आम्भावे अन्योन्यामिति रूपम् । श्रभावविरहे तु पुंवत्त्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे पुंल्लिङ्गवदेव अन्योन्यमिति रूपम् । इयं ब्राह्मणी अन्य ब्राह्मणीं भोजयति, अन्या त्विमामित्येवं विनिमयेन ब्राह्मण्यौ भोजयत इत्यर्थः । इदं कुलं कर्तृ अन्यत्कुलं भोजयति, अन्यत्कुलं कर्तृ इदं कुलमित्येवं विनिमयेन कुले भोजयत इत्यर्थः । अत्रान्यच्छब्दस्य नपुंसकलिङ्गस्य द्वित्वे पूर्वपदस्थाया विभक्तेः सुभावे उत्तरपदस्थविभक्तेः श्रभावे अन्योन्यामिति रूपम् । श्रभावविरहे तु 'क्लीबे चाविरहः स्वमोः' इति वक्ष्यमाणतया पुंवत्त्वाद् अादेशाभावे अन्योन्यमिति पुंवदेव रूपमिति बोध्यम् । एवं स्त्रीत्वे परामिति पदस्य द्वित्वे दलद्वयेऽपि पुंवत्त्वात्टापो निवृत्तौ पूर्वोत्तरपदस्थविभक्त्योः क्रमेण सुभावे श्रम्भावे च परस्परामिति रूपम् । आम्भावविरहे तु द्वित्वे पुंवत्वाट्टापो निवृत्तौ पूर्वपदस्थविभक्तेः सुभावे परस्परमिति रूपम् । नपुंसकत्वे तु परमित्यस्य द्वित्वे पूर्वपदस्थविभक्तेः सुभावे उत्तरपदस्थविभक्तेराम्भावे परस्परामिति रूपम् । श्रामभावे तु द्वित्वे पूर्वपदस्थविभक्तेः सुभावे परस्परम् इति रूपम् । इतरामित्यस्य द्वित्वे पुंवत्त्वाट्टापो निवृत्तौ उत्तरपदस्थ - विभक्तराम्भावे समासवत्त्वात् पूर्वपदस्थविभक्तेर्लुकि इतरेतरामिति रूपम् । ग्राम्भा विरहे तु इतरेतरमिति रूपम् । नपुंसकस्य तु इतरच्छब्दस्य द्वित्वे पुंवत्त्वादद्डादेर विरहे पूर्वपदस्थविभक्तेर्लुकि उत्तरपदस्थविभक्तेराम्भावतदभावाभ्यां रूपद्वयम् । अत्र भाष्यादौ द्वितीयाविभक्त्यन्त स्योदाहर णादितरविभक्तिषु श्राम्भावो न भवतीति प्राचीनमतमाह केचिदिति । तेनेति । द्वितीयेतर विभक्तिषु श्राम्भावविरहेणेत्यर्थः । पुंवदेवेति । श्रभावविरहे सति बहुलग्रहणात् पुंवत्त्वे टाबभावे प्रथमतृतीयादिविभक्तिषु पुंवदेव रूपम् । नपुंसकत्वे प्रथमतृतीयादिविभक्तिषु श्राम्भावविरहात् प्रथमैकवचनस्य इदं पुंवदेव रूपमित्यर्थः । सिद्धान्तमाह अन्ये त्विति । दिङ्मात्रत्वादिति । दिक्प्रदर्शनमात्रत्वादित्यर्थः । उपलक्षणत्वादिति यावत् । अथान बहुलग्रहणानुवृत्तेः प्रयोजनकथनपर प्राचीन श्लोकमाह दलद्वय इति । स्त्रीलिङ्गेष्वन्यपरेतरशब्देषु कर्मव्यतिहारे द्वित्वे सति पूर्वोत्तरखण्डयोः पुंवत्त्वाट्टान्निवृत्तिरित्यर्थः । यद्यपि इतरेतरमित्यत्र समासवत्त्वात् 'सर्वनाम्नो वृत्तिमात्रे -' इति पुंवत्त्वादेव पूर्वखण्डे टाबभावः सिद्धः, तथाप्युत्तरखण्डे टाबभावार्थं बाहुलकाश्रयणमिति भावः । क्लीब कयोस्तृतीयादिषु पुंवदिति प्राचो प्रन्थं परिष्कुर्वन्नाह श्रत्र केचिदिति । वस्तुस्थिति Page #678 -------------------------------------------------------------------------- ________________ प्रकरणम् ४२] बालमनोरमा तत्त्वबोधिनीसहिता। [६७५ बाहुलकास्त्रयम्" । तथा हि-अन्योन्यं परस्परमित्यत्र दलद्वयेऽपिटाप्राप्तः।न च 'सर्वनानो वृत्तिमात्रे-' (वा) इति पुंवद्रावः, अन्यपरयोरसमासवद्भावात् । न च द्विवचनमेव वृत्तिः। 'यां यां प्रियः प्रेक्षत कातराती सा सा' इत्यादावतिप्रसङ्गात् । अन्योन्यमितरेतरम् इत्यत्र च 'अङ्तरादिभ्यः-(सू ३१५) इत्यड् प्राप्तः । 'अन्योन्यसंसक्कमहस्त्रियामम्' 'अन्योन्याश्रयः' 'परस्पराक्षिसादृश्यम्' 'अपरस्परैः' इति । अन्योन्यमित्यादौ अडादेशविरह इत्यर्थः । समासे सोरिति । कृतद्वित्वस्य अन्येन समासे पूर्वखण्डस्थस्येत्यर्थः । तथा हीति । यथेदं स्पष्टं भवति तथा उदाहृत्य प्रदर्यत इत्यर्थः। ननु पूर्वदले 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वेनैव टानिवृत्तेः सिद्धत्वात् तद्विषये बहुलग्रहणं नादर्तव्यमित्याशङ्कय निराकरोति न चेति । 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वस्यात्र न प्रसक्तिरित्यर्थः । कुत इत्यत आह अन्यपरयोरिति । 'समासवच्च बहुलम्' इति समासवत्त्वम् इतरशब्दमात्रविषयम् , न त्वन्यपरशब्दविषयमिति प्रागुतमित्यर्थः। ननु मास्तु समासवत्त्वम् , तथापि 'सर्वनाम्नो वृत्तिमात्रे-' इति पुंवत्त्वं दुर्वारम् । द्विवचनस्य वृत्तित्वादित्याशङ्कय निराकरोति नच द्विवचनमेव वृत्तिरिति । 'कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः' इति परिगणनादिति भावः। द्विवचनस्य वृत्त्यन्तर्भावे बाधकमाह यां यामिति । द्विवचनस्य वृत्त्यन्तर्भावे 'यां यां प्रियः प्रेक्षत कातराक्षी सा सा ह्रिया नम्रमुखी बभूव' इत्यत्र श्लोके यांया मित्यत्र सासेत्यत्र च 'सर्वनाम्नो वृत्तिमात्रे-' इति पूर्वखण्डस्य पुंवत्त्वं स्यादित्यर्थः । क्लीने चाड्विरह इत्यस्योदाहरति अन्योन्यमिति । ननु समासे सोरलुक् चेति कथम् , अन्यपरशब्दयोः समासवत्त्वाभावादित्याशङ्कय कृतद्वित्वस्यान्येन समासे पूर्वखण्डस्थस्य सोरलुगिति तदर्थमभिप्रेत्य तथैवोदाहरति अन्योन्यसंसक्त. मिति । अन्योऽन्येन संसक्तमिति तृतीयासमासः। अहश्च त्रियामा चेति समाहारद्वन्द्वः। अहश्च रात्रिश्च अन्योन्येन संयुक्तमित्यर्थः । अन्योन्याश्रय इति । अन्योऽन्यस्य आश्रय इति षष्ठीसमासः। परस्यराक्षिसादृश्यमिति । अक्षणा सादृश्यमक्षिसादृश्यम् । परस्परस्याक्षिसादृश्यमिति विग्रहः । अपरस्परैरिति । न परस्परे अपरस्परे तैरिति विग्रहे एषु कृतद्वित्वेषु समासावयवेषु पूर्वखण्डस्थस्य सुबादेशस्य माह अन्ये विति। अतिप्रसङ्गादिति। तथा च एकशेषप्रतिबन्धाद् द्विर्वचनस्यापि वृत्तित्वमाश्रित्य तद्वलेन पुंवद्भावो न शङ्कयो लक्ष्यविरोधात् । 'कारक चेद्विजानीयाद्यां यां मन्येत सा भवेत्' इति 'अकथितं-' सूत्रस्थ 'यांयाम्' इति भाष्यप्रयोगविरोधाच्चेति भावः । नव्यास्तु-'यांयां प्रियः प्रेक्षत-' इत्यादिमाघप्रयोगे 'सासा-' इति द्विवचनमयुक्तम् । द्विरुक्तार्थस्य सेत्यनेनैव परामष्टुं शक्यत्वात् । अत एव Page #679 -------------------------------------------------------------------------- ________________ ६७६ ] सिद्धान्तकौमुदी। [द्विरुक्तइत्यादौ सोलुंक्च प्राप्तः । सर्व बाहुलकबलेन समाधेयम् । प्रकृतवार्तिकभाष्यो. दाहरणम्, 'स्त्रियाम्' (सू ४५३) इति सूत्रे 'अन्योन्यसंश्रयं स्वेतद्' इति भाष्यं चात्र प्रमाणमिति । २१४८ अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । (८-१-१३) प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विवंचने कर्मधारयवद्भावात्सुपो लुकि तदेव वचनम् । अतिप्रियमपि वस्वनायासेन ददातीत्यर्थः । २१४६ यथास्वे यथायथम् । (८-१-१४) यथास्वम् इति वीप्सायामव्ययीभावः । योऽयमात्मा यश्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपास्यते । यथायथं ज्ञाता । यथास्वभावसोलुक् प्राप्त इत्यर्थः। सुभावविधानं तु अन्योन्यमित्यादावसमासे चरितार्थमिति भावः । ननु बहुलग्रहणादेतत् समाधयमित्यत्र किं प्रमाणमित्यत आह प्रकृतवार्तिकेति । 'स्त्रीनपुंसकयो:-' इति प्रकृतवार्तिके अन्योन्यमिमे ब्राह्मण्याविति, इतरेतरमिमे कुले इति चोदाहरणाद् 'दलद्वये टावभावः क्लीवे चाङ्विरहः स्वमोः' इति विज्ञायते । 'स्त्रियाम् इति सूत्रे अन्योऽन्यसंश्रयं त्वेतदिति भाष्यप्रयोगात् समासे सोरलुगिति विज्ञायत इत्यर्थः । प्रकृच्छे । कृच्छं कष्टम् । अकृच्छ्रम् अनायासः । तस्मिन्वर्तमानयोः प्रिय-सुख इत्यनयोः द्वे वा स्तः । कर्मधारयवद्भावादिति 'कर्मधारयवदुत्तरेषु' इत्यधिकारादिति भावः । 'समासवच्च बहुलम्' इत्यतः समासवदित्यनुवृत्तिस्तु न शङ्कया, तस्य वार्तिकस्थत्वात् । एवं च प्रियेणेत्यस्य सुखेनेत्यस्य च द्वित्वे सति कर्मधारयवत्त्वात् सुपोस्तृतीयैकवचनयो कि पुनः समुदायात् तृतीयैकवचनमिति फलितम । यथास्वे यथायथम् । वीप्सायामिति । कात्स्येन संबन्धो वीप्सेत्युक्तम् । स्वशब्दार्थगतकात्स्न्ये द्योये यथाशब्दस्य स्वशब्देनाव्ययीभाव इत्यर्थः । कृत्स्नश्वासौ स्वश्चेत्यस्वपदविग्रहः, नित्यसमासत्वात् । स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची। इह तु आत्मात्मीयवाच्येव गृह्यते, नतु ज्ञातिधनवाची, व्याख्यानादित्यभिप्रेत्य विग्रह. वाक्यस्य फलितमर्थमाह द्वे इति । स्त इति शेषः। निपातनादिति भावः । न च 'नित्यवीप्सयोः' इत्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्कयम् , द्वित्वविषयस्य शब्दस्य लक्षणया कामविशिष्टे वृत्तावेव वीप्साया द्विवचनविधानात् । अन्यथा सर्वो घट इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः । क्लीबत्वमिति । यथायथा इति समुदायस्येति शेषः । अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः । एवं च कृतद्वित्वस्य भाष्ये 'यां यां मन्येत सा भवत्' इत्येवोक्कमि त्याहुः । सोलुंक्च प्राप्त इति । सुपः खादेशविधानस्यान्योन्यं परस्परमित्यत्र केवले चरितार्थत्वादिति भावः । योऽयमात्मेत्यादि । आत्मात्मीययोरपि स्वशब्दवाच्यत्वात् । यथायथमिति । Page #680 -------------------------------------------------------------------------- ________________ प्रकरणम् ४२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६७७ मित्यर्थः । यथात्मीयमिति वा । २१५० द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण्यज्ञपात्र प्रयोगाभिव्यक्तिषु । ( ८-१-१५) द्विशब्दस्य द्विर्वचनं पूर्वपदस्य श्रम्भावोऽस्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः । द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । श्राचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति, पौत्रेण प्रपौत्रेणापीति मर्यादार्थः । व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ता द्विवर्गसंबन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञ 1 नपुंसकह्रस्वत्वं च फलितम् । यथायथं ज्ञातेति । अत्र ज्ञातेति तृन्नन्तम् । तद्योगे 'न लोक -' इति षष्ठीनिषेधात्कर्मणि द्वितीया । तृजन्तत्वे तु यथायथस्य ज्ञातेत्येव । द्वन्द्वं रहस्य | पूर्वपदस्येति । द्वौ द्वाविति द्वित्वे कर्मधारयवत्वात् सुब्लुकि समुदायात् पुनः सुपि पूर्वपदावयवस्य इकारस्य अम् इति मकारान्तादेश इत्यर्थः । अत्वमिति । उत्तरपदस्य कारोऽन्तादेश इत्यर्थः । न च त्यदाद्यत्वमुत्तरपदान्तस्य सिद्धमिति वाच्यम्, संज्ञात्वात्तदप्राप्तेरित्याहुः । नपुंसकत्वं चेति । चकारः अनुक्तसमुच्चये । कृतद्वित्वस्य नपुंसकत्वं द्विवचनाभावश्चेत्यर्थः । श्राचतुरं हीति । आङभिविधौ । 'आमर्यादा -' इत्यव्ययीभावः । शरत्प्रभृतित्वात् टच् । चतुर्थान्तमिति फलितोऽर्थः । पशवः स्वप्रभृति चतुर्थपर्यन्तं द्वन्द्वं मिथुनीयन्ति इत्यन्वयः । मिथुनशब्देन मैथुनं विवक्षितम् । मिथुनस्य कर्म मैथुनम् । तदिच्छतीत्यर्थे 'सुप आत्मनः-' इति क्यच् । फलितमर्थमाह मिथुनं गच्छतीति । मिथुनत्वं प्राप्नोतीत्यर्थः । मिथुनायन्ते इति क्यङ्पाठस्तु प्रामादिकः । मर्यादीकृत्येति । स्वप्रभृति चतुरोऽभिव्याप्येत्यर्थः । श्रत्यन्तसहचरितत्वेन लोकविज्ञानमभिव्यक्तिरिति 'न लोका -' इत्यनेन कृद्योगषष्ठीनिषेधो ज्ञातेत्यस्य तृन्नन्तत्वात् । 'योयम् आत्मा' इत्यर्थे विद्यमानयथायथशब्दस्यार्थमाह यथास्वभावमिति । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । पूर्वपदस्येति । द्विद्विश्रौ इति स्थिते कर्मधारयवद्भावात्सुब्लुकि कृते पूर्वपदावयवस्ये कारस्येत्यर्थः । त्वमुत्तरपदस्येति । उत्तरपदावयवस्येकारस्येत्यर्थः । नपुंसकत्वं चेति । चकारादेकवद्भाव इत्यपि बोध्यम् । तेन 'अतोऽम्' इत्यमादेशे द्वन्द्वमिति सिध्यति । रहस्यं द्वन्द्वशब्दवाच्यमिति । द्वाभ्यां निर्वृत्ते रहस्ये योगरूढिरेवेत्यर्थः । द्वन्द्वं मन्त्र - यते इति । द्वौ द्वौ भूत्वा मन्त्रयेते इत्यर्थः । एवं हि तद् रहस्यं भवति । श्रच - तुरमिति । श्राङ् मर्यादाभिविध्योः' इत्यव्ययीभावः । 'अव्ययीभाव शरत्प्रभृतिभ्यः’ इति टच् । चतुःशब्दोऽत्र चतुर्णां पूरणे द्रष्टव्यः । श्रा चतुर्थादित्यर्थः । द्वन्द्वं Page #681 -------------------------------------------------------------------------- ________________ ६७८ ] सिद्धान्तकौमुदी । [ द्विरुक्त पात्राणि प्रयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ । श्रभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वम् इष्यते । इति द्विरुक्तप्रकरणम् । इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां पूर्वार्ध समाप्तम् । भाष्याल्लभ्यते । तदाह साहचर्येणेत्यर्थ इति । अत्र द्वन्द्वं न्यञ्चीत्यत्र वीप्सायां द्वित्वम् । अन्यत्र स्वार्थे इति बोध्यम् । अन्यत्रापीति । द्वन्द्वानि सहते इत्यादावित्यर्थः । शीतमुष्णं च एकं द्वन्द्वम् । सुखं दुःखं चापरम् । क्षुत्तृष्णा चान्यत् । इह स्वार्थे द्वन्द्वः । श्रम्भावादि पूर्ववत् । 'चार्थे द्वन्द्वः' इति निपातनादन्यत्रापीति सिद्धम् । इति द्विरुक्तप्रकरणम् । इति श्रीमत्सन्ततसन्तन्यमानश्येनकूर्म षोडशाररथचक्राकारादिबहुगुणविराजमानप्रौढापरिमितमहाध्वरस्य श्रीशाहजी शरभतुकोजी भोसलचोलमहीमहेन्द्रामात्यधुरन्धरस्य श्रीमत आनन्दराय विद्वत्सार्वभौमस्याध्वर्युणा पञ्च पुरुषी पोष्येण बाल्य एव तद्द्यानिर्वर्तितापरिमिताग्निविजृम्भितवाजपेय सर्वपृष्टाप्तोर्यामप्रमुखमखसन्तर्पितशतमखप्रमुखबर्हिर्मुखेन पदवाक्यप्रमाणपारावारपारीणाग्रजन्मविश्वेश्वरवाजपेययाजितो लब्धविद्यावैशद्येन अध्वर मीमांसा कुतूहल वृत्तिनिर्माण प्रकटित सर्व तन्त्रस्वातन्त्र्येण बौधायनापस्तम्ब सत्याषाढ भारद्वाज कात्या- . यनाश्वलायनद्राह्यायणादिकल्पसूत्रतद्भाष्यपारीणमहादेववाजपेययाजिसुतेन अन्नपूर्णाम्बा गर्भजातेन वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां पूर्वार्ध सम्पूर्णम् । यज्ञपात्राणीति । 'स्फ्यश्च कपालानि च' इत्यादीनि पात्राणि द्वन्द्वं प्रयुनक्ति । श्रासादयतीत्यर्थः । अभिव्यक्तौ साहचर्येणेत्यर्थ इति । अत्र द्वन्द्वमित्यत्र स्वार्थे द्विर्वचनम् । एकवद्भावादिकं तु पूर्ववत् । अन्यत्रापीति । 'द्वन्द्वं युद्धं प्रवर्तते ' इह वीप्सायां द्विर्वचनम् । द्वयोर्द्वयोर्युद्धमित्यर्थः । 'द्वन्द्वानि सहते' शीतमुष्णमेकं द्वन्द्वं सुखदुःखे चापरं क्षुत्तृष्णे चापरम् । इह स्वार्थे द्विर्वचनमेकवद्भावादि पूर्ववत् । बहुत्वं त्वशेषवशात् । इति तत्त्वबोधिनीव्याख्यायां द्विरुक्तप्रक्रियाप्रकरणम् । सिद्धान्तकौमुदीव्याख्या या कृता तत्त्वबोधिनी । समाप्तं तत्र पूर्वार्धं तेन तुष्यतु शंकरः ॥ इति श्रीपरमहंसपरिव्राजकाचार्य वामनेन्द्रस्वामिचरणारविन्दसेवकज्ञानेन्द्रसरस्वतीकृतौ सिद्धान्तकौमुदीव्याख्यायां तत्त्वबोधिन्याख्यायां पूर्वार्धं संपूर्णम् ॥ Page #682 -------------------------------------------------------------------------- ________________ अकाराद्यनुक्रमेण कौमुद्यव्ययीभावप्रभृतिपूर्वार्धपर्यन्तसूत्रसूचिका सूत्रम् | पृष्ठम् ६४५ पृष्ठम् सूत्रम् ४११ अणौ च ४ । ३ । ३३ । ५६३ अंशं हारी ५ । २ । ६६ ३ ३१ अणो यचः ४।१।१५६ ६७६ अकृच्छे प्रियसु ८।१ । १३ , ४५७ अराकुटिलिकायाः ४ । ४।१८ १८ अक्षशलाकासं० २।१।१० ५७८ एच ५।२।१०३ २२२ अक्षणोऽदर्शनात् ५। ४ । ७६ / ३३६ अणिजोरनार्षयो० ४ । ११ ७८ ४६६ अगारान्तान् ४ । ४ । ७० ४२३ अग्रगयनादिभ्यः ४ । ३ । ७३ २०३ अग्नेः स्तुत्स्तोम० ८।३।८२ ४६४ अरामहिष्यादिभ्यः ४ । ४। ४८ ३५४ अग्नेढक् ४ । २।३३ ३०२ अत इञ ४॥ १। ६५ ११० अप्राख्यायामुर० ५।४ । १३ | ५८२ अत इनिठनौ ५।२। ११५ १७५ अग्रान्तशुद्धशु० ५।४ । १४५ ३३८ अतश्च ४ । १। १७५ १६३ अङ्गुलेरुणि ५।४। ११४ ६५२ अतिग्रहाव्यथन० ५। ४ । ४६ अगुल्यादिभ्यष्ठक् ५।३।१०८ | अतिथेयः ५ । ४ । २६ ४११ अच ४ । ३ । ३१ ६.३ प्रतिशायने तम० ५।३। ५५ २२२ अचतुरविचतु० ५।४। ७७ | १११ अतः शुनः ५ । ४।६६ ३६२ अचित्तहस्तिधे० ४ । २ । ४७ ३६ अत्यन्तसंयोगे च २।१।२६ ४२६ अचित्ताददेशका ४ । ३ । ६६ / ३२२ अत्रिमृगुकुत्सव० २।४ । ६५ ६३ अच्छगत्यर्थवदेषु ११४ । ६६ ३७४ अदूरभवश्च ४ । २ । ७० २२१ अच्प्रत्यन्ववपूर्वा० ५।४ । ७५/६३ प्रदोऽनुपदेशे १।४। ७० ६०७ अजादी गुणवच० ५। ३ । ५८ ५४२ अद्यश्वीनावष्टब्धे ५। २। १३ १८६ अजाद्यदन्तम् २ । २। ३३ । ५६४ । अधिकम् ५। २ । ७३ ४८२ अजाविभ्यां थ्यन् ५। १८ ५१ अधिकरणवाचिना २।२।१३ ६२३ अजिनान्तस्योत्त० ५। ३ । ८२ ६०० अधिकरणविचाले ५।३। ४३ ६१५ अज्ञाते ५। ३ । ७३ १६६ अधिकरणैतावत्त्वे २१११५ ५६६ अश्वेर्लुक् ५।३। ३० ४२७ अधिकृत्य कृते ४ । ३ । ८७ १६४ अञ्नासिकायाः ५ । ४ । ११८ ५६४ अधुना ५ । ३। १७ Page #683 -------------------------------------------------------------------------- ________________ ६८०] सूत्रसूचिका। पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् १६. अध्ययनतो २।४। ५ १ १०. अनोश्मायस्सरसां ५।४।६४ ४६४ अध्यर्धपूर्वद्विगो ५।१।२८ ४१६ अन्तःपूर्वपदाट्ठञ् ४ । ३ । ६० ५६१ अध्यायानुवाकयोः ५।२।६० ६२ अन्तरपरिग्रहे १ । ४ । ६५ ४६६ अध्यायिन्यदेशका ४।४।७१ १६३ अन्तर्बहिर्त्यां च ५। ४ । ११७ ४२२ अध्यायेष्वेवर्षेः ४ । ३ । ६६६.t अन्तिकबाढयो ५ । ३।६३ ५४३ अध्वनो यत्खौ ५ । २ । १६ ४७३ अन्नाराणः ४।४।८५ १६. अध्वर्युक्रतुरनपुं० २।४।६ अनेन व्यञ्जनम् २ । १।३४ ३२४ अन् ६ । ४ । १६७ २६ अन्यपदार्थ च २ । १।२, ६३६ अनत्यन्तगतौ ५। ४।४ २२६ अन्ववतप्ताद्रह ५।४।८१ ६४ अनत्याधान १।४। ७५ अपत्यं पौत्र० ४।१।१६२ ५६५ अनद्यतने हिल ५ । ३ । २१ । १२१ अपथं नपुंसकम् २।४ । ३० ६४५ अनन्तावयथेतिह ५। ४ । २३ । ३६७ अपदातौ ४ । २ । १३५ २६ अनश्च ५।४।१०८ २० अपपरिबहिरश्चवः २।१।१२ ६१७ अनुकम्पायाम् ५ । ३ । ७६ ४५८ अपमित्ययाचि० ४ । ४ । २१ ६१ अनुकरणं १।४। ६२ अपरस्पराः ६।१।१४४ ५६४ अनुकाभिका ५ । २ । ७४ अपस्करो ६।१।१४६ २२६ अनुगवमायामे ५। ४ । ८३ ६५२ अपादाने चाही ५ । ४ । ४५ ६४१ अनुगादिनष्ठक् ५ । ४ । १३ अपूर्वपदादन्यत ६।१।१४० ५४३ अनुग्वलङ्गामी ५ ।२। १५ ४३ अपेतापोढमुक्त० २।।। ३८ ३६१ अनुदात्तादेरञ् ४ । २ । ४४ ३५३ अपोनप्त्रपानप्तृ• ४।२।२७ ४४४ अनुदात्तादेश्च १।३। १४० १३८ अप्पूरणीप्रमा० ५।४।११६ ५२६ अनुपदसर्वाना ५। २ । ४२८ अभिजनश्च ४ । ३।६० ५६६ अनुपद्यन्वेष्टा ५।२।६. अभिजिद्विदभृ ५। ३ । ११८ ५२३ अनुप्रवचनादि ५। १।११३ ४२७ अभिनिष्क्रामति ४ । ३।८६ ३६१ अनुब्राह्मणादिनिः ४।२।६२/ ६५६ अभिविधौ ५। ४ । ५३ २१ अनुयेत्समया २।१।१५५४४ अभ्यमित्राच्छ ५।२।१७ १८६ अनुवादे चरणानाम् २।४।३ ४१० अमावास्याया ३ । ३।३. ४१६ अनुशतिकादी ७।३।२० । २३४ अमूर्धमस्तकात् ६।३।१२ ३०७ अनुष्यानन्तर्ये ४।११.४ १.. अमैवाव्ययेन २।२।२० १२६ अनेकमन्यपदार्थे २।२।२४ ५६५ अयःशूलदण्डा ५।२।०६ ३२७ Page #684 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रसूचिका [६८१ सूत्रम् | पृष्ठम् सूत्रम् ३६६ अरण्यान्मनुष्ये ४।२।१२६१० अव्ययीभावश्च २ । ४ । १८ ६५५ अर्मनश्चक्षुश्चेतो ।।४।५१ ४१६ अव्ययीभावाच ४ । ३ । ५६ २५५ अर्थे विभाषा ६।३। १०० १५ अव्ययीभावे चा ६ । ३ । ८१ ५७ अर्ध नपुंसकम् २ । २ । २ । २७ अव्ययीभावे श ५।४। १०७ १२१ अधेर्चाः पुंसि २।४।३१ ४२० अशब्दे यत्खा ४ । ३ । ६४ ११२ अर्धाच ५।४।१०. अशाला च २।४ । २४ ४६१ अर्धात्परिमाणस्य ७३।२६ २७५ अश्वपत्यादि ४ । १।८४ ४.१ अर्धाद्यत् ४।३।४ ५४४ अश्वस्यैकाहगमः ५ । २।१६ ५८६ अर्शश्रादिभ्यो ५।२। १२७ ३१० अश्वादिभ्यः ४।१।११० २२६ अलुगुत्तरपदे ६।३।१ ६३७ अषडक्षाशितङ्ग्वल ५ । ४ । ७ १७३ अल्पाख्यायाम् ५ । ४ । १३६ २५५ अषष्टयतृतीयास्थ ६ । ३ । ६६ १८७ अल्पाच्तरम् २ । २। ३४ | २६२ अष्टनः संज्ञायाम् ६।३ । १२५ ६२३ अल्पे ५।३।८५ असंज्ञायां तिल ४।३। १४६ ४६५ अवक्रयः ४ । ४ । ५० ४८६ असमासे ५ । १।२० ६२६ अवक्षेपणे ५। ३ । ६५ ४०१ असांप्रतिके ४ । ३ । ४०८ अवयवाहतोः ७।३ । ११ ___६३ अस्तं च ।। ४ । ६८ ४४३ अवयवे च ४ । ३ । १३५ ५६७ प्रस्ताति च ५।३। ४० ५१५ अवयसि ठंश्च ५। १।८४ ४६६ 'अस्तिनास्तिदिष्टं ४ । ४ । ६. २२५ अवसमन्धेभ्य ५। ४ । १२२ अस्मदो १।२। ५६ ५४८ अवात्कुटारच्च ५। २ । ३० ५८४ अस्मायामे ५ । २। १२१ ५४१ अवारपारात्यन्ता ५ । २ । ११ ६५४ अस्य च्वौ ७ । ४ । ३२ ३६५ अवृद्धादपि ४ । २ । १२५ १०४ अहःसवैकदेशसं ५।४।८७ ३११ अवृद्धाभ्यो ४।१।११३ ५९ अहंशुभमोर्युस ५।२।१४० ६४६ अवः कः ५। ४ । २८ १०५ अष्टखोरेव ६ । ४ । १४५ ६५७ अव्यक्तानुकरणा ५ । ४ । ५७ १०७ अहोऽदन्तात् ८ । ४ । ७ ६ अव्ययं विभक्ति २।१।६ । १०६ अहोऽह्न एतेभ्यः ५ । ४ । ८८ ६१५ अव्ययसर्वनाम्ना ५ । ३ । ७१ श्रा ३८६ अव्ययात्त्यप् ४ । २ । १०४ । ४५५ आकर्षात्ष्टल ४।४।१ ६ अव्ययीभावः २।१।५ ५६२ आकर्षादिभ्यः ५। २ । ६४ ४४७ Page #685 -------------------------------------------------------------------------- ________________ ६८२] सूत्रसूचिका पृष्ठम् . सूत्रम् | पृष्ठम् सूत्रम् ५२४ आकालिक ५।१।११४ ५७३ अासन्दीवदष्ठी ८।२।१२ ४६३ श्राकन्दाढञ्च ४ । ४ । ३८ । २७० श्रास्पदं प्रतिष्ठा ६ । १ । १४६ ५४३ श्रागवीनः ५।२।१४ ६०. प्राहि च दूरे ५। ३ । ३७ ३२३ आगस्त्यकौण्डि० २।४ । ७० ३५० आग्रहायण्यश्व ४ । २ । २२ । | २६२ इकः काशे ६ । ३ । १२३ २० श्राङ्मर्यादाभि २।१।१३ | २६२ इको वहेऽपीलोः ६।३ । १२१ ५२७ श्रा च त्वात् ५।११ १२० २४४ इको ह्रस्वोऽडयो• ६१३ । ६१ २३१ प्राज्ञायिनि च ६।३।५ ५३४ इगन्ताच्च लघुपू ५।१।१३१ ५०५ आढकाचित ५। १ । ५३ १७० इच्कर्मव्यतिहारे ५। ४ । १२७ २३१ आत्मनश्च ६ । ३।६ २८५ इनः प्राचाम् २।४।६० ४८३ आत्मन्विश्व ५। १९ ३६२ इनश्च४।२।११२ ४८३ आत्माध्वानौ ६ । ४ । १६६ ५६४ इतराभ्योऽपि १०।५।३।१४ ४४१ प्राथर्वणिक ४ । ३ । १३३ ३१५ इतश्चानिमः ४।१। १२२ ११ आदरानादर ।।४। ६३ २५३ इदकिमोरीश्की ६।३।६. २०० श्रानबृतो ६ । ३ । २५ ५६. इदम इश् ५। ३ । ३ ११३ प्रान्महतः६।३। ४६ ५६६ इदमस्थमुः ५। ३ । २४ २८२ आपत्यस्य ६ । ४ । १५१ ५६४ इदमो हिल ५।३।१६ १७८ श्रापोऽन्यतर ७।४।१५ ५६३ इदमो हः ५। ३ । ११ ५३६ प्राप्रपदं प्राप्नोति ५ | २८ ५०० इद्गोण्याः १।२। ५० ६६८ श्राबाधे च ८।।१० | २०३ इवृद्धौ ६।३।२८ ४२८ आयुधजीविभ्यः ४ । ३ । ६१ | १७६ इनः स्त्रियाम् ५। ४ । १५२ ६३२ आयुधजीविसं ५ । ३ । ११४ / ५४६ इनच्पिटच्चिकचि च ५। २।३३ ४५७ श्रायुधाच्छ च ४ । ४ । १४ | ३५८ इनण्यनपत्ये ६ । ४ । १६४ ३१८ पारगुदीचाम् ४ । १।१३० ३६२ इनित्रकट्यचश्च ४ । २। ५१ ४८६ अदिगोपुच्छ ५। १। १६ ५६६ इन्द्रियमिन्द्रलिङ्ग ५ । २।६३ ५८६ भालजाटचौ ५।२।१२५ । ६२६ इवे प्रतिकृतौ ५ । ३ । ६६ ४७० आवसथात्टल ४।४। ७४ २४७ इष्टकेषीकामालानां ६ । ३। ६५ २७१ आश्चर्यमनित्ये ६।१। १४७ ५६८ इष्टादिभ्यश्च ५। २।८८ ४१५ श्राश्वयुज्या ४ । ३। ४५ ६ ११ इष्ठस्य यिट् च ६।४।१५६ Page #686 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [६८३ ___E८ ४ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ३४६ इसुसुक्तान्तात्कः ७।३। ५१ ३२२ उपकादिभ्योऽन्य २। ४ । ६६ ४१४ उपजानूपको ४ । ३ । ४० २०२ ईदनेः सोमवरुण ६।३ । २७, ४३६ उपज्ञाते ४ । ३ । ११५ १७६ ईयसश्च ५ । ४।१५६ | १२६ उपज्ञोपक्रम तदा २।४ । २१ इषदकृता २।२।७ उपपदमति २।२।१६ २५६ ईषदर्थे ६ । ३ । १०५ १७३ उपमानाच्च ५।४।१३७ ६१२ ईषदसमाप्तौ कल्पप् ५।३। ६७ १११ उपमानादप्राणिषु ५ । ४ । १७ उपमानानि सा० २।१। ४७६ उगवादिभ्यो यत् ५।१।२ उपमितं व्या० २ १।५६ २४० उगितश्च ६ । ३। ४५ उपर्यध्यधसः ८ । १७ ४६१ उञ्छति ४ । ४। ३२ ५६६ उपयुपरिष्टात् ५ । ३ । ३१ उत्क उन्मनाः ५। २८० २६२ उपसर्गस्य घ०६।३। १२२ ३८३ उत्करादिभ्यः ४ । २ . १६५ उपसर्गाच्च ५ । ४। ११६ १०६ उत्तमैकाभ्यो ५।४।१० २२७ उपसर्गादध्वनः ५। ४ । ८५ उत्तरपथेनाहृतं ५। १। ७७ | १६५ उपसर्गादनोत्परः ८।४।२८ ४०८ उत्तरपदस्य ७।३।१० ७ उपसर्जनं २।२। ३० १११ उत्तरमृगपूर्वाच्च ५। ४ । १८६४ उपाजेऽन्वाजे १।४।३० उत्तराच ५ । ३ । ३८ ५५. उपाधिभ्यां ५। २ । ३४ ५६६ उत्तराधरदक्षिणा ५ । ३ । ३४ ४१५ उप्ते च ४।३ । ४४ २७६ उत्सादिभ्योऽञ् ४ । १।८६ । ५५५ उभादुदात्तो ५ । २॥ ४४ २४३ उदकस्योदः ६ । ३ । ५७ ४४६ उमोर्णयोर्वा ४ । ३ । १५८ ३७५ उदक्च विपाशः ४।२। ७४ १७६ उरःप्रभृतिभ्यः ५ । ४ । १५१ ५७३ उदन्वानुदधौ च ८।२। १३ ४७६ उरसोऽएच ४।४।६४ ५६३ उदराठगायूने ५ । २। ६७ ४३६ उरसो यच्च ४ । ३ । ११४ ३४६ उदश्वितोऽन्य ४।२।१६ २०५ उषासोषसः ६।३। ३१ ३३२ उदीचां वृद्धा ४।१।१५७ - ४४६ उष्ट्राद्वञ् ४ । ३ । १५७ ३३० उदीचामिञ् ४ । १।१५३ । ३६१ उदीच्यग्रामाच्च ४ । २ । १०६ २२. ऊदनोर्देशे ६।३।१७ १७५ उद्विभ्यां काकु० ५।४।१४८ ५८६ ऊर्णाया युस् ५। २। १२३ ५१४ Page #687 -------------------------------------------------------------------------- ________________ सूत्रसूचिका ६८४ ] पृष्ठम् १७१ ऊर्ध्वाद्विभाषा ५ | ४ | १३० ६० ऊर्यादिचिवडा १ । ४ । ६१ ५७६ ऊषसुषिमुष्क ५ । २ । १०७ सूत्रम् पृष्ठम् ५६१ २५४ ५६० २१८ ऋक्पुरब्धूः ५ | ४ | ७४ २४२ ऋचः शे ६ । ३ । ५५ ४२४ ऋतष्ठञ् ४ | ३ | ७८ ४६५ ऋतोऽञ् ४ । ४ । ४६ ५२२ ऋतोरण ५ । १ । १०५ २३७ ऋतो विद्यायोनि ६ । ३ । २३ ४८६ ऋषभोपानहो ५ । १ । १४ ३११ ऋष्यन्धकवृ० ४ । १ । ११४ ए ५८३ एकगोपूर्वा ५ । २ । ११८ २४५ एक तद्धिते ६ । ३ । ६२ ४७१ एकधुराल्लुक्च ४ । ४ । ७६ ६६७ एकं बहुव्रीहिवत् ८ । १ । ६ ७ एकविभक्ति १ । २ । ४४ ६३१ एकशालाया ५ । ३ । १०६ ६४२ एकस्य सकृच्च ५ । ४ । १६ २४३ एकहलादौ ६ । ३ । ५६ ६२६ एकाच्च प्राचाम् ५ । ३ । ६४ ६०२ एकादाकिनिच्चास ५ । ३ । ५२ ११७ एकादिश्चैकस्य ६ । ३ । ७६ ६०० एकाद्धो ध्यमु ५ ३ । ४४ २६६ एको गोत्रे ४ । १ । ६३ ३६३ एड् प्राचां १ । १ । ७५ एण्या ढञ् ४ । ३ । १५६ ५६४ एतदस्त्रतसोत्र २ । ४ । ३३ ૪૪૨ ६०१ ५६६ ५२३ ३६० ४५६ २३० ३७४ ४४४ १५६ ३६४ ६४६ श्ररञ् ४ । २ । ७१ ओरञ् ४ । ३ । १३६ श्रोर्गुणः ६ । ४ । १४६ श्रर्देश ठञ् ४ । २ । ११६ श्रोषधेरजातौ ५ । ४ । ३७ श्रौ ३२६ श्रौक्षमनपत्ये ६ । ४ । १७३ ५८६ ४६४ ४५२ १७५ ३६६ ३६७ सूत्रम् ४३४ ४६६ ५११ ५४ एतदोऽन् ५ । ३ । ५ एति संज्ञायाम ८ । ३ । ६६ एतेतौ रथोः ५ | ३ | ४ एधाच्च ५ । ३ । ४६ एनबन्यतरस्यां ५ । ३ । ४५ ऐ ऐकागारिकट् ५ । १ । ११३ ऐषमोत्यः ४ । २ । १०५ श्रो श्रजः सहोऽम्भसा ४ । ४ । २७ श्रोजः सहोऽम्भः ६ | ३ | ३ क कंशभ्यां ५ / २ १३८ कंसाट्टिठन् ५ । १ । २५ कंसीयपरश ४ । ३ । १६८ ककुदस्याव ५ | ४ | १४६ कच्छानिवक्त्र ४ । २ । १२६ कच्छादिभ्यश्च ४ । २ । १३३ कठचरका ४ । ३ । १०७ कठिनान्तप्रस्ता ४ । ४ । ७२ कडकरदक्षि ५ । १ । ६६ कडाराः २ । २ । ३८ Page #688 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [६८५ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ६२ कणेमनसी १ । ४ । ६६ २५६ कवं चोष्णे ६ । ३ । १०७ ३६१ करवादिभ्यो ४ । २ । १११ ६१५ कस्य च दः ५ । ३ । ७२ ७८ कतरकतमौ २।१।६३ ३५२ कस्येत् ४ । २ । २५ ३८६ कत्त्यादिभ्यो ४ । २ । ६५ ५८१ काराडाराडादीर ५ । २ । १११ ४७७ कथादिभ्यः ४ । ४ । १०२ २५६ का पथ्यक्षयोः ६ । ३ । १०४ ३६६ कन्थापलदन ४ । २। १४२ ३८७ कापिश्याः फक् ४ । २।६६ ३८८ कन्थायाष्ठक् ४ । २ । १०२ २३३ कारनानि च प्राचां ६ । ३।१० ३१३ कन्यायाः ४।१।११६ २७२ कारस्करो वृक्षः ६।१। १५६ ५३२ कपिज्ञात्योर्ड क् ५। १। १२७ २४८ कारे सत्यागदस्य ६।३ । ७० ३०६ कपिबोधादाङ्गिरसे ४ । १। १०७ ४६७ कार्मस्ताच्छील्ये ६ । ४ । १७२ ४८० कम्बलाच्च ५। १।३ ५६६ कालप्रयोजनाद्रोगे ५ । २८१ ३३७ कम्बोजाल्लुक् ४ । १ । १७३ कालाः २।१।२८ ६३१ कर्कलोहितादी ५ । ३ । ११. कालाः परिमाणिना २।२। ५ ४२० कर्णललाटात्क ४ । ३ । ६५ । कालाच ५। ४ । ३३ २५८ कर्णे लक्षणस्या ६ । ३ । ११५ ४०२ क.लाहञ् ४ । ३ । ११ ५४ कर्तरि च २।२। १६ ५१४ कालात् ५। १ । ७८ ३६ कर्तृकरणे कृता २।१।३२ ४१५ कालात्साधुपुष्प्यत् ४ । ३ । ४३ ५२२ कर्मण उकञ् ५। १।१०३ । ६४८ कालाद्यत् ५।१।१०७ ५५० कर्मणि घटोऽठच् ५ । २। ३५ ३५५ कालेभ्यो भववत् ४।२।३४ ५२ कर्मणि च २ । २ । १४ ३७६ कालापसजन च कालोपसर्जने च १२॥ ५७ । ६६६ कर्मधारयवदुत्तरेषु ८ । १।११ ४३२ काश्यपकौशिका ४।३। १०३ ४३५ कर्मन्दकृशाश्वा ४ । ३ । १११ ३६३ काश्यादिभ्यः ४।२।११६ ५२१ कर्मवेषाद्यत् ५। १।१०. ६२३ कासूगोणीभ्यां ष्टरच् ५३६. ४६७ कर्माध्ययने वृत्तम् ४ । ४ । ६३/ २७२ कास्तीराजस्तु ६।१।१५५ ४३४ कलापिनोऽण् ४ । ३ । १०८ । ६२४ कियत्तदो निर्धारणे ५।३।१२ ४३२ कलापिवैशम्पाय ४।३। १०४ ५६० किंसर्वनामबहुभ्यो ५ । ३।२ ४१६ कलाप्यश्वत्थयव ४ । ३ । ४८ ७६ किं क्षेपे २।१।६४ . ३४६ कलेढक् ४ । २।८ २७६ किति च ७।२ । ११८ ३१६ कल्याण्यादीना ४।।१२६ । २२८ किमः क्षेपे ५ । ४।७. Page #689 -------------------------------------------------------------------------- ________________ ६५३ ३२० ६८६ ] सूत्रसूचिका पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ५५४ किमः संख्यापरि ५ । २।४१ ३६६ कृकणपर्णाद्भार ४।२। १४५ ५६७ किमश्च ५ । ३ । २५ ६५६ कृमो द्वितीयतृतीय ५।४।५८ ५५३ किमिदंभ्यां वो घः ५। २।४० ४१४ कृतलब्धकीत ४ । ३ । ३८ ६०५ किमेत्तिकव्ययघा ५।४।११ ४३६ कृते प्रन्थे ४ । ३ । ११६ ५६३ किमोऽत् ५ । ३ । १२ . ८३ कृत्यतुल्याख्या २।।।६८ ४६५ किसरादिभ्यःष्ठन् ४।४ । ५३ ३६ कृत्यैरधिकार्थवचने २।१।३३ ६. कुगतिप्रादयः २।२।१८।। ६३ कृत्यैर्ऋणे २ ।। ४३ ६२३ कुटीशमीशुण्डा ५। ३ । ८८ कृभ्वस्तियोगे ५। ४ । ५० ५६१ कु तिहोः ७।२।१०४ केकयमित्रयुप्रलया ७ । ३ । २ ६२३ कुत्वा डुपच् ५ । ३८९ १४. केऽणः ७।४ । १३ ७२ कुत्सितानि कुत्सनैः२।१।५३ ३६० केदारायञ्च ४ । २ । ४० ६१७ कुत्सिते ५। ३ । ७४ केशाद्वोऽन्यतर ५।२।१०६ २६७ कुमति च ८।४ । १३ ३६२ केशाश्वाभ्यां यञ् ४ । २ । ४८ ११३ कुमहद्भयामन्य ५ । ४।१०५ २५५ कोः कत्तत्पुरुषे ६।३।१०१ ८४ कुमारश्रमणादिभिः २।१।७० कोपधाच्च ४ । २ । ७६ ३०१ कुमुदनडवेतसे ४।२।८७ कोपधाच्च ४ । ३ । १३७ १७४ कुम्भपदीषु च ५। ४ । १३६ ३६७ कोदधादण ४ । २ । १३२ ३३५ कुरुनादिभ्यो एयः ४१११७० कुर्वादिभ्यो एयः ४।१।१५१ ३३० ४१५ कोशाड्ढञ् ४ । ३। ४२ ३८७ कुलकुक्षिग्रीवाभ्यः ४।२।६६ कौपिजल ४ । ३ । १३२ ३१. कुलटाया वा ४।१।१२७ | ३४८ कौमारापूर्ववचने ४ । २।१३ ३२६ कुलात्खः ४।१।१३६ ३३१ कौसल्यकार्मा ४ । १।१५५ ४३६ कुलालादिभ्यो ४ । ३। ११८५१ तेन च पूजायाम् २।२।१२ ५०६ कुलिजाल्लुक्खौ च ५।११५५ ७६ केन नविशिष्टे २।१।६. ४५४ कुलत्थकोपधादण ४।४।४ ६४ लेनाहोरात्रावयवा २ ॥ १॥ ४५ ५६७ कुल्माषादब् ५।२।८३ १०३ क्त्वा च २ । २ । २२ ६२७ कुशाग्राच्छः ५। ३ । १०५ १४८ क्यङ्मानिनोश्च ६ । ३ । ३६ ४६. कुशीददशैकादशा ४ । ४।३१ ६५५ क्यच्च्योश्च ६ । ४ । १५२ २७० कुस्तुम्बुरूणि ६।१।१४३ | ४२१ ऋतुयज्ञेभ्यश्च ४ । ३ । ६८ ३७६ ४४३ ४४१ Page #690 -------------------------------------------------------------------------- ________________ ४२५ सूत्रसूचिका [६८७ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ३६६ ऋतूक्थादिसूत्रान्ता ४।२।६० | ५८० गाण्ड्यजगात्सं ५।२। ११० ३६८ क्रमादिभ्यो वुन् ४ । २०६१ ३६६ गाथिविदथिके ६ । ४ । १६५ ४४८ क्रीतवत्परिमाणात् ४।३। १५६ ३० गिरेश्च सेन. ५ । ४ । ११२ ३४२ क्रौड्यादिभ्यश्च ४ । १८० ४७७ गुडादिभ्यष्ठञ् ४ । ४ । १०३ ५६३ काति ७।२। १०५ ५२६ गुणवचन १।१।१२४ ३२६ क्षत्राद्धः ४।१ । १३८ ३१६ गृष्ट दिभ्यश्च ४ । १। १३६ ३५० क्षीराड्ढन् ४ । २। २० ४७४ गृहपतिना ४ । ४।६० १६३ द्रजन्तवः २।४।८।। ४३० गोत्रक्षत्रियाख्ये ४ । ३ ६६ ३१८ क्षुद्राभ्यो वा ४ । १।१३१ 1५३५ गोत्रचरणाच्छ्ला ५।१।१३४ ४३६ क्षुद्राभ्रमरवटर ४ । ३।११६ | ४३६ गोत्रचरणाद्वञ् ४ । ३ । १२६ १०८ शुभ्रादिषु च ८।४ । ३६ ३२८ गोत्रस्त्रियाः ४।१।१४७ ५६६ क्षेत्रियच्पर ५।२।१२। गोत्रादङ्कवत् ४।३। ८० ६४ क्षेपे २।१।४७ ३०. गोत्राबून्यन्त्रि ४ । १। ६४ ३४१ गोत्रावयवात् ४ । ११ ७६ ४७१ खः सर्वधुरात् ४ । ४ । ७८ ३०४ गोत्रे कुञ्जादि ४ । १।६८ ३४ खड्वा क्षेप २। १।२६ २८२ गोत्रेऽलुगचि ४ । १८९ ३६१ खण्डिकादि ४ । २। ४५ ३५६ गोत्रोक्षोष्ट्रोर ४ । २ । ३६ ३६२ खलगोरथात् ४ । २ । ५० ५.० गोद्यचोऽसंख्या ५।१।३६ ४८२ खलयवमाष ५। १।७ ३१८ गोधाया ढक् ४।१।१२६ ४६७ खार्या ईकन् ५।। ३३ ४४६ गीपयसोयेत् ४ । ३ । १६० ११२ खार्याः प्राचाम् ५।४।१०१ ४५४ गोपुच्छादृञ् ४ । ४ । ६ ३६७ गोयवाग्वोश्च ४ । २ । १३६ १७१ गन्धस्येदुत्पूति ५।४।१३५ ६६ गोरतद्धितलुकि ५ । ४ । ६२ ४१८ गम्भीरायः ४ । ३ । ५८ ४४६ गोश्च पुरीषे ४ । ३ । १४५ ३०७ गर्गादिभ्यो ४।१।१०५ ५६२ गोषदादिभ्यो ५ । २। ६२ ३६७ गर्गोत्तरपदा ४ । २ । १३७ । ५४४ गोष्ठात्खन्भूत ५। २।१८ १६४ गवाश्वप्रभू २।४।११ | २७० गोष्पदं सेवि ६।१।१४५ २३३ गवियधिभ्यो ८।३।६५ | ८ गोत्रियोरुप १।२। ४८ ३६७ गहादिभ्यश्च ४।२। १३८ । २५० प्रन्थान्ताधिके ६ । ३ । ७६ Page #691 -------------------------------------------------------------------------- ________________ ६८८ ] सूत्रसूचिका पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् ११. ग्रामकोटाभ्यां ५ । ४ । ६५ ६५५ च्वौ च ७ । ४ । २६ ४०१ ग्रामजनपदैक ४।३।७ ३६. ग्रामजनबन्धु ४ । २ । ४३ ४३४ छगलिनो ४ । ३ । १०६ ४२. ग्रामात्पर्यनु ४ । ३ । ६१ ३५३ छ च ४ । २ । २८ ३८६ ग्रामाद्यखौ ४।२।६४ . ४६६ छत्रादिभ्यो णः ४ । ४ । ६२ २१२ ग्राम्यपशुसङ्घ १। २। ७३ | ४८५ छदिरुपधिबलेढञ् ५।१।१३ ४१८ ग्रीवाभ्योऽरच ४ । ३ । ५७ | ५६८ छन्दसि परि ५। २ । ८६ ४१६ ग्रीष्मवसन्तादन्य ४।३।४६ ४७५ छन्दसो निर्मिते ४ । ४ । ६३ ४१६ ग्रीष्मावरसमाद्वञ् ४ । ३ । ४६ ४२३ छन्दसो यदणौ ४ । ३ । ७१ ४४. छन्दोगौक्थिक ४ । ३ । १२६ २३५ घकालतनेषु ६ । ३ । १७३७३ छन्दोब्राह्म ४ । २ । ६६ ३६५ घनः सास्यां क्रिया ४ । २।५८ १२६ छाया बाहुल्ये २।४ । २२ ६१८ वनिलचौ च ५। ३ । ७६ ५१० छेदादिभ्यो।५।१।६४ २३६ घरूपकल्प ६।३ । ४३ ४१८ जङ्गलधेनुवलजा ७।३।२५ २४५ ब्यापोः संज्ञाछन्द ६ । ३ । ६३ ३६५ जनपदतदव ४ । २। १२४ जनपदशब्दात् ४।१।१६६ ३१८ चटकाया ऐरक् ४ । । १२८ जनपदिनां ४ | ३। १०० ४१ चतुर्थी तदर्था २।३।३६ ३७७ जनपदे लुप् ४ । २८१ ८५ चतुष्पादो गर्मि २।१।७१ ४५० जम्ब्वा वा ४ । ३ । १६५ ३१६ चतुष्पाद्भयो ४।१।१३५ १६६ जम्मा सुहरित ५। ४ । १२५ २५२ 'चरणे ब्रह्मचा ६।३।८६ ४४७ जातरूपेभ्यः ४ । ३। १५३ ३६२ चरणेभ्यो धर्म ४।२।४६ ६२१ जातिनाम्नः कन् ५ । ३१ ४५५ चरति ४।४।८ १६१ जातिरप्राणिनाम् २ । ४।६ ४८७ चर्मणोऽञ् ५।१।१५ १५३ जातेश्च ६।३ । ४१ १५३ चार्थे द्वन्द्वः २॥ २॥ २६ ६४० जात्यन्ताच्छ ५। ४ । २६२ चितः कपि ६ । ३ । १२७ | १२२ जात्याख्यायामे १।२। ५८ ५१८ चित्तवति ५ ९ जायाया निङ् ५। ४ । १३४ ४५८ चूर्णादिनिः ।।४।२३ ४२० जिह्वामूलागलेश्छः ४ । ३ । ६२ | १७१ Page #692 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [६८९ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् २१३ जीवति तु वंश्ये ४।१।१९३ ६२७ जीविकार्थे चापराये ५३ ४२४ तत मागतः ४।३।७४ ts जीविकोपनिषदा १।४। १। तत्पुरुषः ।।१।२२ ४१३ जे प्रोष्ठपदानाम् ७।३।१८ तत्पुरुषः समाना।२।४२ ६०८ ज्य च ५।३।६. १.३ १.३ तत्पुरुषस्या ५।४1८६ ६.६ ज्यादादीयसः ६।४।१६. १३४ तत्पुरुषे कृति-। ।१४ २५४ ज्योतिरायुषः ।।८३ १२६ तत्पुरुषोऽनष्कर्म २।४।११ २५१ ज्योतिर्जनपद ३५ तत्प्रकृतवचने ५।४।११ 1८१ ज्योत्मातमि ५। १४ | ४५६ तत्प्रत्यनुपूर्व ४।४।२५ तत्प्रत्ययस्य ।।३।२६ ३. मयः ५।४। " ६४ तत्र २।१।४६ ५७२ मयः ८।२।१. ५६१ तत्र कुशलः ।।२।१३ तत्र च दीयते । ।१६ ४४८ मितश्च तत्प्र ४।३।११ तत्र जातः ४।३।२५ ६३४ व्यादयस्त ५।३।११ ११५ . तत्र तस्येव ५।१११६ १५७ तत्र तेनेदमिति २।२।२० ५२६ टेः ६।४।१५५ ४६६ तत्र नियुक्तः । ४१७ तत्र भवः ४।३।३ ३८१ ठक्छौ च ४।२।८४ ५.१ तत्र विदितः ५१.४३ ४२४ ठगायस्थानेभ्यः ४।३ । ७५ ४७६ तत्र साधुः ४।४।६८ ३६. ठम्कवचिनश्च ४।२।४१ ३४८ तत्रोखतममत्रेभ्यः ४।२।१४ ३२८ ठस्येकः ७।३। ५० to तत्रोपपदं ३।१।१२ ६१८ ठाजादावूज़ ५।३।३ ५३९ तत्सर्वादिः पथ्या ५।२।७ तदधीते ४।२। ६ ३१६ ढकि लोपः ४।१।१३३ | ६५७ तदधीनवचन ५।४।१४ ३१४ ढक्च मण्डूकात् ४।१।११६ ४५ तदर्थ विकृतेः ।।१२ ३१६ ढे लोपोऽकद्रवाः ।४।१४७ ५१० तहति ।। ६५ ५१५ तहम् ५।। ३७० एयक्षत्रियार्षमितो २।४।५८ ३७८ तदशिष्यं संशा १।२।५३ Page #693 -------------------------------------------------------------------------- ________________ सूत्रम् ६६०] सूत्रसूचिका पृष्ठम् सूत्रम् | पृष्ठम् ५५६ तदस्मिनधिकमि ५। २१४५५१२ तसेश्च ५।३।८ ५६७ तदस्मिननं ५।२ २ ५७१ तसौ मत्वर्थे ।।४।१६ ३७४ तदस्मिन्नस्ती ४।२।६७ ८७ · तस्मान्नुडचि ६।३।७४ ५०२ तदस्मिन्वृद्धया ||४७ ४०० तस्मिमणि च ४।३।२ ४६८ तदस्मै दीयते ४।४। ५२२ तस्मै प्रभवति ५। ५। १०१ ४८७ तदस्य तदस्मिन् ५ ४ ८१ तस्मै हितम् ५।१।५ ५६५ तदस्य पण्यम् ४।४।१ ५२० तस्य च दक्षिणा ५।१।६५ ५.६ तदस्य परिमाणम् ५।। ५७ ४६४ तस्य धम्र्यम् ४।४।४७ ५१६ तदस्य ब्रह्मचर्यम् ||४१.. तस्य निमित्तम् ५।१।३८ ५५१ तदस्य सजातम् ।। २।३६ ३७४ तस्य निवासः ४।२।६६ ४१७. तदस्य सोढम् ४ । ३ । ५२ ५४६ तस्य पाकमूले ५।२।२४ ३६. तदस्यां प्रहर ४।२।५७ ५५८ तस्य पूरणे ५।२।४८ ५७. तदस्यास्त्य ५। २।३४ ५२६ तस्य भावस्त्व ५।१।११६ ५६४ तदो दा च ५।३। । १०१ तस्य वाप: ५।१।४५ ४२७ तद्गच्छति पथि ४।३।८५ ४४२ तस्य विकारः ४।३। १३४ ५.४ तद्धरति वहत्या ।१।५० ४२. तस्य व्याख्यान ४।३।६६ ६७ तद्धितार्थोत्तर २।१।१ । ३५७ तस्य समूहः ४ । २ । ३७ २७५ तद्धितेष्वचा ७।२।११७ | २८६ तस्यापत्यम् ४।१।६२ .. ६४६ ताक्लात्कर्म ५।४।३६ | ४१६ तस्येदम् ४।३। १२० ३३६ तद्राजस्य २।४।६२ तस्येश्वरः ५।१।४२ ४०१ तहति रथयुग ४|४| | ४४७ तालादिभ्यो ४।३। १५२ ५६३ तन्त्रादचिराप ५।२।० ६५ तावतिथं प्रहणमि ५। २ । ७७ ५७७ तपःसहस्राभ्यां ५।२।१.२ १२२ तिककितवादिभ्यो २।४।६८ ५१५ तमधीष्टो भृतो ।।१।५० ३३१ तिकादिभ्यः फिा ४११1१५४ ४५४ तरति ४।४। । ६०४ तिकश्च ५।३।५६ ६.४ तरप्तमपौ १।१।२२ । ४३२ तित्तिरिवरतन्तु ४ । ३ । १०२ ४.. तवकममका ४।३।३ ६३ तिरोऽन्तौ १।४।७१ १४१ तसिलादिष्वा ६।३।३५ १५५ ति विंशर्डिति ६।४।१४२ ४३६ तसिश्च ४।३।१३ । २३ . तिष्ठव गुप्रभृतीनि च ।।१।१७ Page #694 -------------------------------------------------------------------------- ________________ सूत्रसूचिका पृष्ठम् सूत्रम् | पृष्ठम् १२३ तिष्यपुनर्वस्वोर्न १ । २ । ६३ ४०६ ३६० तीररूप्योत्तरपदा ४ । २ । १०६ १७५ ५५६ ४५७ ११६ २४५ २ | १३६ २५२ तीर्थे ये ६ । ३ । ८७ ५८३ तुन्दादिभ्य इलच ५ | २ | ११७ ५८६ तुन्दिवलिवटेर्भः ५ | ६०८ तुरिष्ठेमेयः सु ६ | ४ | १५४ ६०७ तुश्छन्दसि ५ । ३ । ५६ ४२६ तुदीसलातुरवर्मती ४ । ३ । ६४ ५६६ ५२ तृजकाभ्यां कर्तरि २ । २ । १५ ३८७ १६६ ५३८ ६३६ ५११ ३४६ २५५ तृणे च जातौ ६ । ३ । १०३ ३६ तृतीया तत्कृतार्थेन २ । १ । ३० १०२ तृतीयाप्रमृतीन्यन्य २ । २ । २१ ६ तृतीया सप्तम्योर्बहु २ | ४ | ६४ ३३६ ते तद्राजाः ४ । १ । १७२ ४६६ तेन क्रीतम् ५ । १ । ३७ ५२५ तेन तुल्यं क्रिया ५।१।११५ तेन दीव्यति खनति ४ । ४ । ३७४ तेन निर्वृत्तम् ४ । २ । ६८ ५१४ ૪૪ तेन निर्वृत्तम् ५ | १ | ७६ तेन परिजय्यलभ्य ५ । १ । ६३ तेन प्रोक्तम् ४ । ३ । १० ५१८ ४३१ ५७६ ५८१ ३२० दन्त उन्नत उरच् ५ । २ । १०६ दन्तशिखात्संज्ञा ५ | २ | ११३ दाण्डिनायन ६ । ४ । १७४ दानीं च ५ । ३ । १८ दामन्यादित्रि ५ । ३ । ११६ दिक्छब्देभ्यः सप्त ५ ३ । २७ दिक्पूर्वपदाट्ठञ्च ४ । ३६ दिक्पूर्वपदादसं ४ । २ । १०७ ५२१ तेन यथाकथाच ५ | १ | ६८ ३४३ तेन रक्तं रागात् ४ । २ । १ ५४६ तेन वित्तश्चुचुप् ५ | २ | २६ १६० तेन सहेति तुल्ययो २ । २ । २८ ४३५ तेनैकदिक् ४ । ३ । ११२ दिक्संख्ये संज्ञाय २ ।१ । ५० दिगादिभ्यो यत् ४ । ३ । ५४ दिङ्नामान्यन्तरा २ । २ । २६ दित्यदित्यादित्य ४ । १ । ६५ दिवसश्च पृथिव्याम् ६ । ३ । ३० २०५ ३६३ त्यदादीनि च १ । १ । ७४ २११ त्यतादीनि सर्वैर्नि १ । २ । ७२ २०४ दिवो द्यावा ६ । ३ । २६ ४४४ पुजतुनोः ४ | ३ | १३८ ૪૦& दिशोऽमद्राणाम् ७ । ३ । १३ ५६५ ६३२ ५६७ [ ६६१ ४०१ ३६० ६६ ४१७ १५६ २७६ सूत्रम् त्रिंशचत्वारिंशतो ५ । १ । ६२ त्रिककुत्पर्वते ४ । ४ । १४७ त्रः सम्प्रसारणश्च ५। २ । ५५ त्रेर्मनित्यम् ४ । ४ । २० त्रेयः ६ । ३ । ४८ त्वे च ६ । ३ । ६४ द दक्षिणादाच् ५ । ३ । ३६ दक्षिणापश्चात्पुरस ४ । २ । ६६ दक्षिणेर्मा लुब्ध ४ । ४ । १२६ दक्षिणोत्तराभ्या ५ । ३ । २८ दण्डव्यवसर्गयोश्च ५ । ४ । २ दण्डादिभ्यः ५ । १ । ६६ दधष्ठक् ४ । २ । २८ Page #695 -------------------------------------------------------------------------- ________________ ६९२] सूत्रसूचिका पृष्ठम् सूत्रम् | पृष्ठम् ६४ ३५६ दीर्घाच्च वरुणस्य ७।३। २३ १८६ द्वन्द घि २।२।३२ ६६. दुःखात्प्रातिलोम्ये ५।४।६४ ५८७ द्वन्द्वोपतापग ५। २। १२८ ३२७ दुष्कुलाड्ढक् ४।१।१४२४०३ द्वारादीनां च ।३।४ २५५ दृग्शवतुषु ६।३ १ ७. द्विगुरेकवचनम् २।४।१ ४१८ दृतिकुचिकलशि ४।३। ५६ ३१ द्विगुश्च २।।। २३ ३४६ दृष्टं साम ।।२।७ ५०५ द्विगोः ठंश्च ।। ५४ ४१६ देयमृणे ४ । ३।४७ ५१५ द्विगोर्यप् ५।५।२ ६५७ देये त्रा च ५।४।४५ २८१ द्विगोलुंगनपत्ये ४।१।८८ २०२ देवताद्वन्द्वे च ६।३।२६ द्विगोर्वा ५।१।८६ ३५५ देवताद्वन्द्वे च ७।३। २१ ५६ द्वितीयतृतीयच २।२।३ देवतान्तात्तादथ्ये ५।४।२४ ३. द्वितीया श्रिता २।१।२४ ६२८ देवपथादिभ्यश्च ५।३ । १०० द्वितीये चानुपा ६।३।८. ६५७ देवमनुष्यपुरुष ५।४।५६ द्वित्रिचतुर्व्यः ५।४।१६ ६४६ देवात्तल ५। ४।२७ ४६८ द्वित्रिपूर्वादरच ५।१।३६ ४२. देविकाशिशपा ७।३।१ ४६६ द्वित्रिपूर्वानिष्कात् ।। ३. देशे लुबिलचौ च ५।२।१०५ | १६३ द्वित्रिभ्यां षमू० ५।४। ११५ ३४२ दैवयज्ञिशौचि ४।१।१ द्वित्रिभ्यां तय ५। २।४३ द्यावापृथिवी ४ । २ । ३२ ११२ द्वित्रिभ्यामज ५।४।१०२ [दुभ्यां मः ५१२।१०८ | ६.१ द्वियोश्च धमुञ् ५। ३। ४५ ३८८ प्रागपागुदा ४ । २।११ १७० द्विदराज्यादि ५।४ । १२८ ६२६ द्रव्यं च भव्य ५।३।१०४ | ६०६ द्विवचनविभ ५ । ३ । ५७ द्रोणपर्वतजीव ४ । १।१०३ द्विस्तावा विस्ता ५।४।८४ ४४६ द्रोश्च ४।३।१६१ ४०२ द्वीपादनुसमुद्रं ४ । ३।१० द्वन्द्वं रहस्यमर्या ८।१।१५ ५५६ द्वेस्तीयः ५। २ । ५४ ५३५ द्वन्द्वमनोज्ञादि ।१।१३३ ३४७ द्वैपवैयाघ्रादर ४ । २ । १२ १८८ द्वन्द्वश्च प्राणि २।४।२।। बचः ४।१।१२१ २०५ द्वन्द्वाच्चुदष ५।४।१०६ । ४२३ धजुद्राह्मणप्र ४ । ३ । ७२ ३४५ द्वन्द्वाच्छः ४।२।६ ३३५ . धम्मगधक ४।१।१६८ ४३६ द्वन्द्वाद्वन्वैरमैथु ४।३।१२५ २१६ व्यन्तरुपसर्गेभ्यः ६ । ३ । १७ ५७८ ५५५ ३५४ ५८० २२६ ६७७ ३१५ Page #696 -------------------------------------------------------------------------- ________________ पृष्ठम् ११६ यष्टनः संख्या ६ । ३ । ४७ ध ४७३ धनगणं लब्धा ४ | ४ | ६४ ५६२ धनहिरण्यात्कामे ५ | २ | ६५ १७१ धनुषश्च ५ । ४ । १३२ ३६४ धन्वयोपधाद्वुञ ४ । २ । १२१ ४६३ धर्म चरति ४ । ४ । ४१ ४७५ धर्मपथ्यर्थन्याया ४ । ४ । ६२ ५६६ धर्मशीलवर्णा ५ । २ । १३२ १६७ धर्मादनिच्केव ५ | ४ | धन्यानां भवने ५ | २ | १ १२४ धुरो यड्ढकौ ४ । ४ धूमादिभ्यश्च ४ । २ । ११७ ध्वाङ्क्षेण क्षेपे २ । १ । ४२ ५३७ ४७१ ३६६ ६३ सूत्रसूचिका सूत्रम् | पृष्ठम् ३०३ ५४६ २८५ ૪૪૦ १६६ ३० २५ ४२५ २२८ १६६ ७७ न न कपि ७ । ४ । १४ न कोपधायाः ६ । ३ । ३७ १४० १४६ २५५ नक्षत्राद्वा ६ । ३ । १०० ३४४ नक्षत्रेण युक्तः ४ । २ । ३ ४१४ नक्षत्रेभ्यो बहु ४ । ३ । ३७ ३६६ ३२२ ६० ८७ नगरात्कुत्स ४ । २ । १२८ न गोपवनादि २ । ४ । ६७ नगोऽप्रणिष्व ६ । ३ । ७७ नव् २ । २ । ६ नञः शुचीश्वर ७ । ३ । ३० नमस्तत्पुरु ५ | ४ । ७१ नञ्दुः सुभ्यो ५ । ४ । १२१ ३८२ नडशादाड् ४ । २ । ८६ ३०५ नडादिभ्यः ४ | १ | ६६ २४० ३८७ ३८ १ १४० ३२ ४२७ ૪ २१० २६ २२७ ३३८ ४७१ ८६ [ ६६३ ३२५ ३०४ ३६३ ६७ सूत्रम् नडादीनां कुक्च ४ । २ । ११ नते नासिकायाः ५ । २ । ३१ न तौल्वलिभ्यः २ । ४ । ६१ न दण्डमारणवा ४ । ३ । १३ न दधिपया २ । ४ । १४ नदीपौर्णमा ५ | ४ | ११० नदीभिश्च २ । १ । २० नद्याः शेषस्यान्य ० ६ | ३ | ४४ नद्यादिभ्यो ढक् ४ । २ । ६७ नद्य मतुप् ४ | २ | ८५ नघृतश्च ५ । ४ । १५३ न व्यचः प्राच्य ४ । २ । ११३ न नम्पूर्वात्तत्पु ५ । ५ । १२१ न निर्धारणे २ । २ । १० नपुंसकमनपुंसकेन १ । २ । ६६ नपुंसकादन्य ५ | ४ | १०६ न पूजनात् ५ । ४ । ६६ न प्राच्य ४ । १ । १७६ न भकुर्छु ८ | २ | ७६ नभ्राण्नपान ६ । ३ । ७५ न मपूर्वोऽप ६ । ४ । १७० १०६ न स्वाभ्यां पदा ७ । ३ । ३ नरे संज्ञायाम् ६ । ३ । १२६ नलोपो नमः ६ । ३ । ७३ न संख्यादेः ५ | ४ | ८६ न संज्ञायाम् ५ । ४ । १५५ न सामिवचने ५ | ४ | ५ नस्तद्धिते ६ । ४ । १४४ १७८ ६३६ २६ २५६ नहिवृतिवृषि ६ । ३ । ११६ Page #697 -------------------------------------------------------------------------- ________________ ४७७ ६६४ ] खूबसूचिका पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् १ve नाडीतन्यो। ५।४।१५६ ४॥ पञ्चमी भयने २।१।३७ ४४१ नातः परस्य ७।३।२७ २२६ पञ्चम्याः स्तोका ६।३।२ ५५८ नान्तादसंख्या ५।२।४॥ ५६१ पञ्चम्यास्तसिल् ५। ३ । ७ ११ नावो द्विगो: ५।४। पणपादमाष ५।१।३४ नाव्ययीभावा २।४।८३ ५३२ पत्यन्तपुरोहि ५। ।१२८ ४६६ निकटे वसति ४ । ४ । ७३ ४३८ पत्रपूर्वाद ४ । ३ । १२२ ४४६ नित्यं धृद्धशरा ४ । ३ । १४४ ४३८ पत्राध्वर्युपरि ४।३। १२३ ५६. नित्यं शतादि ५। २ । ५७ पथः पन्थ च ४।३।२६ ६५ नित्यं हस्ते १।४।७ ५१४ पथः कन् ५ । ७५ ५४ नित्यं क्रीडाजीवि २।२।१७ २२८ पथो विभाषा ५ । ४ । ७२ १६७ नित्यमसिच्प्रजा ५।४।१२२ पथ्यतिथिव ४।४।१०४ ६६२ नित्यवीप्स्योः ८।१४ | ४७३ पदमस्मिन्दृश्यम् ४।४।८७ ४५७ निवृत्तेऽक्षयूता ४।४।१६ | २६८ पदव्यवायेऽपि ८।४।३८ .४.३ निशाप्रदोषाभ्यां ४।३। १४ | ४५६ पदान्तस्यान्य ७।३।। ६६. निष्कुलालिको ५।४।६२ ४६३ पदोत्तरपदं ४ । ४ । ३६ १२ निष्ठा २।२।३६ २४२ पद्यत्यतदर्थे ६।३।५३ १८० निष्प्रवाणिश्च ५।४।१६० ५१४ पन्यो ण नित्यम् ५ । ७६ ६१७ नीतौ च तद्यु ५। ३ । ७७ । ११८ परवल्लि द्वन्द्व २।४।२६ ३५५ नेनरस्य परस्य ७।३ । २२ ४६६ परश्वधाव ४।४ । ५८ २३६ नेन्सिद्धबध्नातिषु ।।३।१६ २३२ परस्य च ६।३। ५४. नेडिज्विरी ५।२।३२ परावराधमोत्तम ४ । ३ । ५ ४५४ नौद्यवष्ठन् ४।४।७ ४८८ परिखाया ठञ् ५।११७ ४७४ नौवयोधर्मविष ४।४।११ ४६२ परिपन्यं च ४।४ । ३६ ४५० न्यग्रोधस्य च ४।४।" ४६. परिमाणान्तस्या ७।३। १७ परिमुखं च ४।४ । २६ ५४६ पक्षात्तिः ५।२।२५ ३४७ परिवृतो रथः ४।२।१० ४६१ पक्षिमत्स्यमृगा ।।।३५ १६४ परिषदो एयः ४।४।४ १०८ पक्किविंशतित्रिं ५ | | ४७७ परिषदो एयः ४।४।१.१ ५०८ पञ्चदशती वर्ग ५।१।६. | ६६५ परेर्वज॑ने । १५ milli Page #698 -------------------------------------------------------------------------- ________________ ४४४ [ ६५ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ५४. परोवरपरम्पर ।।२१. | पुंवत्कर्मधारय ६।३। ४१ ४५५ पर्यादिभ्यः छन् ४।४1. .. पुत्राच्छ च ५111४० ५६२ पर्यमिभ्यां च । | ३३२ पुत्रान्तादन्य ४।१।१५६ ३६६ पर्वताच ४।२ ४३ | २१७ पुत्रेऽन्यतर ६।३ । २२ पर्धादियौधे ।।३।११७ | २०६ पुमान्प्रिया ।२।६७ पलाशादिभ्यो ४।३।४१ | ४३३ पुराणमोकेषु ४।३।१०५ ५.६६ पश्चात् ५।३।३२ ५१२ पुरुषहस्तिभ्या ५।२।३८ ३४७ पाण्डुकंबला ४ । २ १ १२ पुरोऽव्ययम् १।४।६७ ५.२ पात्रातष्ठन् ५।१।४६ ५८८ पुष्करादिभ्यो ५।२।१३५ ५११ पात्राद्धश्च ५।१।६८ पूगायोऽप्रा५।३११२ पात्रेसमितादयश्च २। ११४८ - पूरणगुणसुहिता २।२।११ पादशतस्य ५।४।। ६.१ पूरणादागे तीया ५।३। ४८ २४१ पादस्य पदा ६।३। ५२ पूरणार्धाट्ठन् ५।१४८ १७३ पादस्य लोपो ५।४।१३८ १७५ पूर्णाद्विभाषा ५।४।१४६ ६४५ पादार्घाभ्यां ५।४।२५ पूर्वकालैकसर्व २१४६ २६४ पानं देशे ८।४। पूर्वपदात्संज्ञाया ८।४।३ ७२ पापाणके २।१।५४ पूर्ववदश्ववडवी २।४ । २० २७२ पारस्करप्रमृ ६।१।१५७ पूर्वसदृशसमोना २।१।३१ ५१३ पारायणतुरा ५।१।७२ ५६ पूर्वादिनिः ।।२।८६ पाराशर्यशि ४।३।११० ५६७ पूर्वाधरावराणा ५।३। ३६ २३ पारे मध्ये षष्ठया २।११.१८ ७५ पूर्वापरप्रथम २।१।५८ .. ५६५ पार्श्वनान्विच्छति ५। २ । ७५ | पूर्वापराधरोत्तर २१२१ ३६२ पाशादिभ्यो यः ४ । २ ४६ पूर्वाहापराहा ४।३।२९. २१० पिता मात्रा १।२।७.. ५२८ पृथ्वादिभ्य।१।१२२ ४२५ पितुर्यच्च ४।३। २५६ पृषोदरादीनि ६।३।१०॥ ३५६ पितृव्यमातुल ४।२। ३६ २४३ पेवासवाह ६।३।५८ पितृष्वसुश्छण ४।१।१३२ | २८४ पैलादिभ्यश्च २०४६ ४४६ पिष्टाश्च ४।३।१४६ | पोटायुवतिस्तोक २। ३१. पीलाया वा ।१।११ ४ २३ पौरोडाशपुरो ४।३।.. Page #699 -------------------------------------------------------------------------- ________________ ६६६ ] सूत्रसूचिका पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ६१४ प्रकारवचने जा ५३ | ४६६ प्रहरणम् ४ । ४ । ५७ ५६६ प्रकारवचने थाल् ५। ३१२३ ३ प्राकडारात्स २।१।३ ६६६ प्रकारे गुणवच । । १२ प्राक् कीताच्छः ५ ।१।१ १६. प्रकृत्याशिषि ६।३।८३६१४ प्रागिवात्कः ५। ३ । ७० ६०८ प्रकृत्यैका ६।४।१६३ ६०२ प्रागेकादशभ्यो ५।३।४ ६४६ प्रज्ञादिभ्यश्च ।४।३८ । ४७१ प्राग्घिताद्यत् ४ । ४ । ७५ ५७७ प्रज्ञाश्रद्धार्चा ५२।१०१ १० प्राग्दिशो विभक्तिः ५।३।१ ४६३ प्रतिकण्ठार्थल ४|४|४. २४ प्राग्दीव्यतोऽण ४।१।८३ ४७७ प्रतिजनादिभ्यः ४।४।६६ ४८८ प्राग्वतेष्ठम् ५।१।१८ ४६३ प्रतिपथमेति ४।४।४२. ४५२ प्राग्वहतेष्ठक् ४।४।१ ६५२ प्रतियोगे पञ्च ५।४।४ ३६८ प्राचा कटादेः ४ । २। १३६ २७२ प्रतिष्कशश्व ६।१।१५२ प्राचां ग्रामनगरा ७।३ । १४ २२६ प्रतेरुरसः सप्तमी ५।४।२ ४१७ प्राचां नगरान्ते ७ । ३ । २४ ४०० प्रत्ययोत्तरपद ७।२।६८ प्राचामवृद्धा ४।१।१६० ६ प्रथमानिर्दिष्टं ।।२।४३ प्राचामुपादे ५।३।० ३७६ प्रधानप्रत्ययार्थ ।।२।५६ ५३३ प्राणभृजाति ५।।१२६ २६३ प्रनिरन्तःशरेतु ८।४।५ ४२६ प्रभवति ४।३।८३ ४४८ प्राणिरजतादि ४ । ३ । १५४ ५७३ प्राणिस्था ५ । २ । ६६ ५५१ प्रमाणे यस ५।२।३० प्रातिपदिकान्त ८।४।" ४६. | २६५ प्रयच्छति गर्यम् ४ । ४।३० ५२९ प्रयोजनम् ५। ११.t प्राध्वं बन्धने १।४ । ७८ ३१५ प्रवाहणस्य ढे ७।३।२८ ६. प्राप्तापने च २ । २ । ४ ६१२ प्रशंसायां रूपप् ५।३।६६ ४१४ प्रायभवः ४।३।१६ ८२ प्रशंसापचनैश्च २।१।६६ २३४ प्राकृटशरत्काल ६।३ । १५ ६.८ प्रशस्यस्य श्रः ५।३।६. ४.४ प्रावृष एण्यः ४।३।१७ १५० प्रसंभ्यां जानु ५।४। १२६ प्राषष्ठप् ४ । ३।२६ २७२ प्रस्कररवहरिश्च ६।१।१५३ | प्रियस्थिरस्फिर ६।४ । १५७ ३६५ प्रस्थपुरवहा ।२।१२२ । ३६६ ' प्रोक्ताल्लुक ४।२।६४ ३.१ प्रस्थोत्तरपद ४।३ . ४५. प्रक्षादिभ्योऽण ४।३।१६४ ६५ ४०८ Page #700 -------------------------------------------------------------------------- ________________ सूत्रसधिका [६६७ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ५३६ ब्रह्मणस्त्वः ५ । ।१३६ २८६ फक्फिमोरन्य ४।।" ११२ ब्रह्मणो जानपदा ।।१०४ ४५० फले लुक्४।३।१६३ २२५ ब्रह्महस्तिभ्यां ५।४।७६ १२२ फल्गुनीप्रोष्ठपदा ।।२।६. ५६४ ब्राह्मणकोष्णिके ।२।१ ३२६ फाण्टाहृतिमि ४।१।१५. ३६. ब्राह्मणमाणव ४।२।४२ ५७५ फेनादिलच ५।२।११ ३२५ ब्रामोऽजाती ६।४।१७१ ३२६ फेश्छ च ४।१४ ४७७ मक्काराण: ४।४।१.. ४७६ बन्धने चर्षी ४।४।६६ ४६६ भक्तपदणन्य ४॥४॥ २४७ बन्धुनि बहु ६।१।१४ ४२६ भक्तिः ४।३।१५ २३४ बन्धे च विभाषा ६।३।१३ ४. भक्ष्येण मिश्रीकर २।१।३५ ५८८ बलादिभ्यो मतु ५।२।१३६३१. भत्रिगर्ते ४।१।१११ ६२८ बस्तेढेञ् ५।३।१०१ ३६३ भवतष्ठक्छसौ ४।३।११५ ५५६ बहुपूगगणस ५।३।५१ ४५७ भनादिभ्यः ४।४।१६ १६२ बहुव्रीही सक्थ्य ५।४।११३ ५०३ भागायच ५।१४६ १६१ बहुव्रीही संख्येये ५।४।७३ ३५७ भिक्षादिभ्योऽण ४।२।३८ ६१ बहोर्लोपो भू । ४ । १५८ | २५४ भीरोः स्थानम् ८।३।१ ३२२ बहुच इम प्राच्य ३।४।६६६.३ भूतपूर्व चरत् ।।३।५३ ३७५ बहुचः कूपेषु ४।२।७३ | १२ भूषणेऽलम् ।।४।६४ ४२१ बह्वचोऽन्तोदात्ता ४।३। ३६४ भौरिक्यायेषुका ४१२५४ ६१८ बचो मनुष्य ५।३। । २६३ भ्रातरि च ज्याय ४ १६४ ४६८ बहुच्पूर्वपदा ४।४।६४ १२७ भ्रातुऱ्याच ४।१।१४४ ६५. बहुल्पाच्छ ५।४।४२ २०. भातपुत्री स्वसदु।।२।६८ ३.३ बाहादिभ्यश्च ४ ।।६६ ३३५ ध्रुवो बुक्व ।।१२५ ३६४ बाहीकप्रामेभ्यः ४।२।११ ३८३ बिल्वकादि ।।४।१५३ | ४६६ मड्डुकमर्मरावण ४|४|१६ ४४३ बिल्वादिभ्यो ४।३।१३६ | ४७६ मतजनहलात्करण || ४१७ बिलाच ५।१।१ । ३७५ मतोब बहुजनात् ४।२।७२ ६३७ बृहत्या आच्छादने ।।४। ४६१ मतोलः सहसानो ५।२६ Page #701 -------------------------------------------------------------------------- ________________ ६९८] सूत्रसूचिका पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् २६२ मतौ बह्वचोऽन ६।३।११६ ६.१ मानवायोः क ५। ३।५१ ३१७ मद्रवज्योः कन् ४।२।१३१/४४४ माने वयः ४।३। १६२ ६६१ मद्रात्परिवापणे ५। ४ । ६७ १५ मासाद्वयसि यत्खनौ ५१११ ३६१ मद्रेभ्योऽञ् ४।२।१०८ २६३ मित्रे चर्षों ६ । ३।१३० ३.६ मधुबभ्रवोर्लाह्मण ४।१।१०६ ४५६ मुद्रादण् ४।४।२५ २३४ मध्याद्गरौ ६ । ३।११ ४७३ मूलमस्याबर्हि ४।४।२८ ४.१ मध्यान्मः ४।३।८ ६४६ मृदस्तिकन् ५। ४ । ३६ ६५ मध्येपदेनिवचने १।४ । ७६ ३८१ मध्वादिभ्यश्च ४।२।८६ ५१२ यज्ञविग्भ्यां घख ५। १।७१ २३१ मनसः संज्ञायाम् ६ । ३।४ ३०८ यममोश्च २।४।६४ ३६७ मनुष्यतत्स्थयोः ४।२।१३४ ३.६ यमियोश्च ४।१।१०१ ३३३ मनोर्जातावश्यतौ ।।। ५५३ यत्तदेतेभ्यः परिमा ५ । २।३६ २४४ मन्यौदनसक्तुबि ६।३।६० ५३० यथातथायथापुर ७।३।३१ ४२६ मयट् च ४ । ३ । २ | ५३८ यथानुखसंमुखस्य ५।२६ ४४५ मयड्वैतयोर्भाषा ४।३।१४३ १६ यथाऽसादृश्ये २।१।७ ८५ मयूरव्यंसकादयश्च २।।।७२/ ६७६ यथास्वे यथायथम् ८।१।१४ २७२ मस्करमस्करिणी ६।११५४ ५३७ यवयवकषष्टिकाद्यत् ५।२।३ ३२७ महाकुलादखबौ४।१।१४१ ३२१ यस्कादिभ्यो गोत्रे २।४।६३ ३५५ महाराजप्रोष्ठपदा ४।२।३५ २२ यस्य चायामः २ ।।१६ ४२६ महाराजा?ञ् ४।३।१७ ४४ याजकादिभिश्च २।२।। ३५३ महेन्द्राद्वाणौ च ४।२।२६६.१ याप्ये पाशप् ५। ३ । ४७ ४८५ माणवचरकाभ्यां ५।१।" यावदवधारणे २।१।८ २०५ मातरपितरावुदीचा ६।३।१२/ ६४७ यावादिभ्यः कन् ५।४।२६ २३८ मातु:पितुामन्य ८।३।५ ६२ युवा खलतिपलित २।।६. ३१२ मातुरुत्संख्यासं ४।१।११५, ६.१ युवाल्पयोः कनन्य ५।३।६४ २३८ मातृपितृभ्यां स्वसा 1३1८४ ३५६ युवोरनाको ७।।" ३१९ मातृष्वसुश्च ४।१।१३४३६६ युष्मदस्मदोरन्यतर ४।३।१ ४६२ मायोत्तरपदपदव्य ४।४।३७ २६३ यूनि लुक् ।।.. ५७१ मादुपधायाश्च मतो ८।२ ४१ ये च तद्धिते ।।६१ Page #702 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [६६६ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ३२४ ये चाभावकर्मणोः ६।४।१६८६५३ रोगाचापनयने ५।४।४ १६३ येषां च विरोधः ३।४ | ३७६ रोणी ।।२। ७८ ३७८ योगप्रमाणे च तदः१।२१५५ ३६५ रोपधेतोः प्राचां ४।२।१२३ ५२२ योगायच ५।१।१०२ ५१३ योजनं गच्छति ।।७४ २१ लक्षणेनाभिप्रती २।।१४ ५३५ योपधाद्गुरूपोत्त ५।१।१३२ ४६५ लवणाट्ठञ् ४।४। ५२ ४५६ लवणाल्लुक ४।४।२४ ५२६ रऋतो हलादेले ६।४।११ लाक्षारोचनाट्ठा ४।२।२ ६४८ रक्त ५। ४ । ३२ ४१२ लुकद्धितलुकि ।।२।४६ ४६. रक्षति ४।४। ३३ | ३०६ लुक्खियाम् ४।१।१०६ ३८७ रहोरमनुष्येऽएच ४।२१.० ३७७ लुपि युक्तवधक्ति ।।२।५१ ५८१ रजःकृष्यासुतिप ५।२।११२ १५. लुप्च ४।३।१६६ २५५ रथवदयोश्च ६।३।१०२ । ३४४ सुबविशेषे ४ । २४ ४३८ रथावत् ४।३।१२१ |३७८ लुब्योगाप्रख्याना।२। ५४ ५७१ रसादिभ्यश्च ५।२।६५ ६२७ लुम्मनुष्ये ५।३।१८ १८५ राजदन्तादिषु परम् २।२।३१५०२ लोकसर्वलोकाटु ५।१।४४ ३६३ राजन्यादिभ्यो वुम् ४।२।५३ १७१ लोपो व्योर्वलि ।।६६ ५.३ राजन्वान्सौराज्ये ८।२।१४ ५७६ लोमादिपामादि ५।२।१०० ३२४ राजश्वशुरायत् ।।१३७ | ६४. लोहितान्मणौ ५।४।३० १०५ राजाहःसखिभ्यष्टच् ५।४।११ ११८ राशः क च ४।२।१४० ३. बतण्डाच ४।१।१०८ १२. रात्राहाहाः पुंसि २।४।२६४१३ वतोरिड्वा ५।।२३ २४६ रात्रः कृति विभाषा ६।३।७२ ५५६ वतोरिथुक् ५ । २।५३ . ५१६ रात्र्यहःसंवत्सराच ५ ७ ४१५ वत्सशालाभिजि ४।३।३६ ३८५ राष्ट्रावारपाराद्धखौ ४।२।३ ५७५ वत्सांसाभ्यां काम ५।२।१८ ३५४ रीतः ७।४।२७ ६ २३ वत्सोक्षावर्षमेभ्यः ५।३।११ ५८४ रूपादाहतप्रशंस ५ ।२।१२० २६. वनगिर्योः संज्ञा ६।३।११७ ३२८ रेवत्यादिभ्यष्ठक १४६ २६. वनं पुरगामिश्रका |४|४ ४१ रेवतिकादिभ्यः ४।३।१३१/ १७६ वन्दिते धातुः ।४।१५७ Page #703 -------------------------------------------------------------------------- ________________ सूत्रम् ७०० सूत्रसूचिका पृष्ठम् सूत्रम् | पृष्ठम् १७४ वयसि दन्तस्य ५।४।१४१ २४१ वा शोकष्यरोगेषु ६।३। ५१ ५८७ वयसि पूरणात् ५।२।१३० १७१ वा संज्ञायाम् ५।४।१३३ ३८० वरणादिभ्यश्च ४।२।२ । ४२६ वासुदेवार्जुनाभ्यां ४ । ३ । १८ ४२० वर्गान्ताच ४।३।३ । ५६३ वा ह च छन्दसि ५।३।१३ २७१ वर्चस्केऽवस्करः ।।१४८ २६४ वाहनमाहितात् ८।४।८ ५२६ वर्णदृढादिभ्यः ५।१।१२३ १८३ वाहिताग्न्यादिषु २।२। ३७ ५८८ वर्णाद्ब्रह्मचारिणि ५।२।१३४ १७ विशतिकात्खः ५।। ३२ ६४७ वर्णे चानित्ये ५।४।३. ४३ विंशतित्रिंशयां ५।१।२४ २३ वर्णो वर्णेन २ ६९५६. विंशत्यादिभ्यस्त ५।२।५६ ३८८ वर्णी वुक् ४ । २।१०३ विकर्णकुषीतका ४ । १।१२४ ५१७ वर्षस्याभविष्यति ७।३।१६३१३ विकर्णशुमच्छग ४।१।११. ४०५ वर्षाभ्यष्ठक् ४।३।१८ ४२६ विदूराम्भ्यः ४।३।२४ ५१७ वर्षाल्लुक च ५।१।८ ४२४ विद्यायोनिसम्बन्धे ४ । ३ । ७७ २६१ वले ।।३।११८ ४७२ विध्यत्यधनुषा ४।४।८३ ४७३ वशं गतः ४।४।८६ | ५४७ विनम्भ्यां नानामा ५।२।२७ ३६१ वसन्तादिभ्यष्ठक् ४।२।६३ | विनयादिभ्यष्ठक् ५। ४ । ३४ ४५६ वनक्रयविक्रयाट्ठन् ४।४।१३ ६१२ विन्मतोला ५।३।६५ ५०४ वन्नद्रव्याभ्यां ५।१।१ १६८ विप्रतिषिद्ध चान २।४।१३ ३२ वाकिनादीनां ४१।१५८ १९ विभाषा २।।" ६६६ वाक्यादेरामन्त्रित ८111४६६ विभाषा कार्षापण ५।१।२६ २४३ वा घोषमिश्रशन्दे ६।३।५६ ३५७ विभाषा कुरुयुगं ४ । २ । १३. ५८६ वाचो ग्मिनिः ५।२।१२४ ६४ विभाषा कृषि || ७२ ६४८ वाचो व्याहतार्था ५।४।३५ ११७ विभाषा चत्वारिंश ६।३।। ५८७ वातातीसाराभ्यां ।।२।१२६६३६ विभाषाधेर दिक्किा ।। २६४ वान्यस्मिन्सपि ४।१।१६५ ५३७ विभाषा तिलमाषो ५।२।४ ६२४ वा बहूनां जाति ५।३।३। ५१ विभाषा परावरा ।।३।२९ २६५ वा भावकरणयोः ।। २५६ विभाषा पुरुषे ।।३।१०६ ३४७ वामदेवात्यायो ४।२।। | ४.७ विभाषा पूर्वालाप ४ । ३ । १४ ३५३ वातपित्रुषसो ४।२३, ३५१ विभाषा फाल्गुनी ४ । २ । २३ Page #704 -------------------------------------------------------------------------- ________________ सूत्रसूचिका सूत्रम् पृष्ठम् ३२६ Tr ३६८ पृष्ठम् ६४३ विभाषा बहोर्धावि ५ | ४ | २० ३६६ विभाषा मनुष्ये ४ । २ । १४४ ४०३ विभाषा रोगातप ४ । ३ । १३ ५६८ विभाषाऽवरस्य ४ | ३ | ४१ २३५ विभाषा बर्षक्षर ६ । ३ । १६ विभाषा विवधात् ४ | ४ | १७ १६५ विभाषा वृक्षमृग २ ।४ । १२ १७५ विभाषा श्यावारो ५ | ४ | १४४ विभाषा समीपे २ ४ । १६ ४५७ २०० ६५६ विभाषा साति का ५ । ४ । २१ ६१२ विभाषा सुपो बहु ५ । ३ १२८ विभाषा सेनासुरा २ । ४ । २५ २३८ विभाषा स्वस ६ । ३ । २४ ४८१ विभाषा हविरपूपा ५ । १ । ४ २५३ विभाषोदरे ६ | ३ | ८८ ३४४ विभाषोशीनरेषु ४ । २ । ११८ २६३ विभाषैौषधि ८ | ४ | ६ ५६२ विमुक्तादिभ्यो ५ । २ । ६१ ५२३ विशाखाषाढाद ५ । १ । ११ १६२ विशिष्टलिङ्गो २ । ४ । ७ ७४ विशेषणं विशे २ । १ । ५७ ३७६ विशेषणानां १ । २ । ५२ ३६३ विषयो देशे ४ । २ । ५२ २७१ विष्किरः ६ । १ । १५० ६४१ विसारिणो ४ । ४ । १६ ३७६ वुञ्चराकठजि ४ । २ । ८० ६३२ वृकाट्टेण्या ५ | ३ | ११५ ६०६ वृद्धस्य च ५ । ३ । ६२ ३६३ वृद्धाच्छः ४ । २ । ११४ १५१ ३६२ १४७ ४४६ ६८ २३२ १६० ४५६ ३३५ २०७ ७६ ३२७ ४१६ ५२१ ३०५ ४५ ५३७ ४४७ ५८३ ४७२ ४६६ ૪૨૨ ૪૨૪ ५८ ३ ४६२ ५५६ . [ ७०१ सूत्रम् वृद्धाट्ठक्सौवी ४ । १ । १४८ द्वात्प्राचाम् ४ । २ । १२० वृद्धादकेकान्त ४ । २ । १४१ वृद्धिनिमित्तस्य च ६ । ३ । ३६ वृद्धिर्यस्याचा १ । १ । ७३ बुद्धेत्कोसला ४ | १ | १६६ त्रुद्धो यूना तझ १ । २ । ६५ वृन्दारकनाग २ । १ । ६२ वेः शालच्छ ५ | २ | २८ बेतनादिभ्यो ४ । ४ । १२ वैयाकरणाख्यायां ६ । ३ । ७ वोपसर्जनस्य ६ । ३ । ८२ व्यञ्जनैरुप ४ । ४ । २६ व्यन्सपने ४ । १ । १४५ व्याहरति मृग: ४ । ३ । ५१ व्युष्टादिभ्योऽय् ५ । १ । १७ व्रातच्फमोर ५ । ३ । ११३ व्रातेन जीवति ५ । २ । २१ व्रीहिशाल्योर्ढक् ५ । २ । २ व्रीहेः पुरोडाशे ४ | ३ | १४८ व्रीह्यादिभ्यश्च ४ । २ । ११६ श शकटादण ४ । ४ । ८० शक्तियष्टयोरी ४ । ४ । ५६ शण्डिकादिभ्यो ४ | ३ | ६२ शतमान विंशतिक ५ । २७ शतसहस्रा ५ । २ । ११६ शताच ठन्यताव ५ । । २१ शदन्तविंशतेश्च ४ । २ । ४६ Page #705 -------------------------------------------------------------------------- ________________ सूत्रसूचिका ७०२] पृष्ठम् ४६१ शब्ददर्दुरं करोति ४ । ४ । ३४ ४४५ शम्याः ब्लञ् ४ । ३ । १४२ २३५ शयवासवासि ६ । ३ । १८ ३०६ शरद्वच्छुनक ४ । १ । १०२ २६२ शरादीनां च ६ । ३ । ११० ४१७ शरीरावयवाच ४ | ३ | ५५ ४८१ शरीरावयवाद्यत् ५ । १ । ६ ६३१ शर्करादिभ्योऽय्ग् ४ । ३ । १०७ ४११ ३६५ ३८० शर्कराया वा ४ । २ । ८३ ४६५ शलालुनोऽन्य ४ । ४ । ५४ शाकलाद्वा ४ । ३ । १२८ ४४० ६२६ शाखादिभ्यो ५ । ३ । १०३ सूत्रम् पृष्ठम् ५६६ ६२२ १७७ ૪૬ शाणाद्वा ५ । १ । ३५ ५४४ शालीनकौपीने ५ । २ । २० ३८३ शिखाया वलच् ४ | २ | ८६ ६२६ शिलाया ढः ५ | ३ | १०२ ४६५ शिल्पम् ४ । ४ । ५५ ३१० शिवादिभ्योऽण् ४ । १ । ११२ ४२७ शिशुक्रन्दयम ४ | ३ | ८८ ५६४ शीतोष्णाय ५ । २ । ७२ ५११ शीर्षच्छेदायच ५ | १ | ६५ ४६६ शीलम् ४ । ४ । ६१ ३५२ शुक्राद्धन् ४ । २ । २६ ४२४ शुण्डिकादिभ्योऽया ४ । ३ । ७६ ३१५ शुभ्रादिभ्यश्च ४ । १ । १२३ १६४ शूद्राणामनिर २ । ४ । १० ४६४ शूर्पादन्यतर ५ । १ । २६ ६६० शूलात्पाके ५ । ४ । ६५ ३४६ शूलोखाद्यत् ४ । २ । १७ ३८४ १२६ ४३४ ४६८ ५६७ ४०३ ७६ ५६७ ४५५ २१० ४०३ २२५ ४५५ ५१८ ५६१ ६०२ ४४ सूत्रम् शृङ्गलमस्य ५ । २ । ७६ शेवलसुपरिवि ५ | ३ | ८४ शेषाद्विभाषा ५ | ४ | १५४ शेषे ४ । २ । ६२ शेषो बहुव्रीहिः २ । २ । २३ शौनकादिभ्यः ४ । ३ । १०६ २३६ ६०३ ६५३ श्येनतिलस्य ६ । ३ । ७१ श्रविष्ठाफल्गु ४ | ३ | ३४ श्राणामसौ ४ । ४ । ६७ श्राद्धमनेन ५ | २ | ८५ श्राद्धे शरदः ४ । ३ । १२ श्रेण्यादयः २ । १ | ५६ श्रोत्रियश्छन्दो ५ | २ | ८४ श्वगणाट्ठञ्च ४ । ४ । ११ श्वशुरः श्वश्र्वा १ । २ । ७१ ५१५ ५५६ षट्कतिकतिपय ५ । २ । ५१ षण्मासारारायच्च ५ | १ | ८३ ३२६ षपूर्वहन्धृत ६ ४ । १३५ षष्टिकाः षष्टि ५ । १ । ६० षष्टयादेश्वासं ५ | २ ५८ षष्टाष्टमाभ्यां ५ । षष्ठी २ । २ । ६ षष्ठया को श्वसस्तुट् च ४ । ३ । १५ श्वसोवसीयः ५ | ४ | ८० श्वादेरिनि ७ । ३ । ८ ष | ५० । ३ । २१ षष्ठया रूप्य ५ । ३ । ५४ षष्ठया व्याश्रये ५ | ४ | ४८ Page #706 -------------------------------------------------------------------------- ________________ [७०३ ४५८ सूत्रसूचिका पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् २४५ ष्यः सम्प्रसार ६।१।१३ | १७२ संज्ञायाम् ४ । ३ । ११७ संशावाम् ८।२।" ५६१ स एषां प्रामणी: ५। २ ७८ संज्ञायां ललाटकु ४।४।४६ ३३४ संयोगादिश्च ६।४।१६६ संज्ञायां शरदो ४।३।२७ ४०६ संवत्सराप्रहायणी ४।३। ५. ३४. संज्ञायां श्रवणाव ४।२।५ ५१३ संशयमापनः ५। । ३ __ संज्ञायां कन् ४ । ३ । १४७ संसृष्ट ४।४ । २२ ६१७ संज्ञायां कन् ५।३। ७५ ४५४ संस्कृतम् ४।४।३ ६२३ संज्ञायां कन् ५।३।८७ ३४६ संस्कृतं भक्षाः ४।२।१६। १२६ संज्ञायां कन्थोशी २।४।२० २५८ संहितायाम् ६ । ३ । ११४ संज्ञायां च ५।३।६७ ५३२ मख्युर्यः ५। १ । १२६ ४७२ संज्ञायां जन्याः ४ । ४ । ८२ ३७५ सङ्कलादिभ्यश्च ४।२। ७५ संज्ञायां धेनुष्या ४।४।८६ १५४ संख्ययाव्यया २।२।२५ संज्ञायां मन्मा ५ । २।१३७ संख्यापूर्वी २।१। ५२ . ६६. सत्यादशपथे ५ । ४ । ६६ ४६२ संख्याया अतिश ५।१।२२ ५६५ सद्यःपरुत्परायें ५ । ३ । २२ ५५५ संख्याया अव ५। २ । ४२ । १२३ स नपुंसकम् २ । ४ । १७ ६४१ संख्यायाः क्रिया ५।४।१७ ४०४ संधिवेलायतु ४ । ३ । १६ ५१७ संख्यायाः संवत्सर ७।३।१५ ७७ सन्महत्परमो २ ।।६१ ५०७ संख्यायाः संज्ञासं ५।१।५८ ६५६ सपत्रनिष्पत्रा ५।४।६१ ५५६ संख्याया गुणस्य ५ । २। ४७ ५६८ सपूर्वाच्च ५।२७ ६.. संख्याया विधार्थे ५। ३। ४२ १८. सप्तमीविशेषणे २।२।३५ ६५६ संख्यायाश्च गुणा ५।४।५६ ६२ सप्तमी शौण्डैः २।।४. २५ संख्या वंश्येन २ १६५६३ सप्तम्यास्त्रल५।३।१० १७४ संख्यासुपूर्वस्य ५।४।१४० | ४७८ सभाया यः ४।४।१०५ ६५० संख्यैकवचनाच ५।४।४३ । १२७ सभा राजाऽमनुष्य २ ४१२३ ३६४ संग्रामे प्रयोजन ४ । २। ५६ ५२२ समयस्तदस्य ५१) १०४ ४३६ सङ्घाङ्कलक्षणेव ४।३।१२७६५६ समयाञ्च यापना ।४।६. १५० संज्ञापूररयोश्च ६।३। ३८ समर्थः पदविधिः २।।१ ६४ संज्ञायाम् २॥ १॥ ४४ २७४ समर्थानां प्रथ ४।१।२ ५८ Page #707 -------------------------------------------------------------------------- ________________ २७ समास ५७ ७०४] साचिका पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ४६४ समवायान्सम ४।४।४३ ६५६ सात्पदायोः ।।११ ५४१ समासमां विजा ५।।१२ ५४५ साप्तपदीनं सख्यं ५। २। २२ YUS समानती वासी ४।४।१०७ ३५ सामि ।।।२७ २५१ समानस्य च्छ ६।३।४ ४०५ सायश्विरम्प्राहे ४।३ । २३ समानोदरे शयि ४।४।१०८ | १३५ साल्वावयव ४।१।१७१ ५२३ समापनात्सपूर्वप।।१२ | १४ साल्वेयगा ४।१।१६७ १६ समायाः खः ।।५ | ३५० सास्मिन्पौर्णमा ४।२।२१ ६२६ समासाच तद्वि ५।३।१०६ सास्य देवता ४१२।२४ समासान्ताः।।४।६ सिकताशकं ।।२।१०४ २५४ समासेऽङ्गुलेः ८।३।० सिति च ।।४।१६ समूहवश्च बहुषु ।। ४ । २२ ६. सिद्धशुष्कपक २।१४१ १२१ सम्पादिनि ५।१६ ५७४ सिध्मादिभ्यश्च ।।२।६७ २४५ सम्प्रसारणस्य ६।३।१३६ | ४२६ सिन्धुतक्षशि ४।३।३ सम्प्रोदश्च कटच् ५। ३।२६ ११ सिन्ध्वपकराभ्यां ४।३।२ ५.४ सम्भवत्यवहरति ।।१।२६६. सुखप्रियादानुलो ।।४।६३ ४१५ सम्भूते ४।३। १ ५ ८७ सुखादिभ्यश्च ५।२।१३१ ५३८ सर्वचर्मणः कृतः ५। २।५ । ३०३ सुधातुरकङ् च ४।१।६७ ४.५ सर्वत्रारच तलोपश्च ॥३॥ २२ ५ सुपो धातुप्राति २।४।। ४८४ सर्वपुरुषाभ्यां ।।. १७ सुष्प्रतिना मात्रार्थे २।। ५०१ सर्वभूमिपृथिवी ५।।। । १६६ सुपातसुश्वसुदि ५। ४ । १२० ६६२ सर्वस्य द्वे ८।११ । ३७५ सुवास्त्वादिभ्यो ४।२। ७ ५६१ सर्वस्य सोऽन्यतर ५।३।६ २५४ सुषामादिषु च ८।३। ६८ ५६४ सबैकान्यकियत्तदः ५।३। १५ ४०६ सुसर्वार्धाजनपद ७।३।१२ ६४६ सनौ प्रशंसायाम् ५। ४ । ४.१७६ सुहृद्दुहृदौ मित्रा ।।४।१५० ५६३ सस्थेन परिजातः ५।२।६८ ३७१ सूत्राच कोपधात् ४ । २०६५ ३ सह सुपा २।१।४ ३३० सेनान्तलक्षण ४।। १५२ २५. सहस्य सः संज्ञा ६ । ३ । ७८ ४६४ सेनाया वा ४|४|४५ १४ साक्षात्प्रभृतीनि च । ४।७४ ४७८ सोदरायः ४॥ ४११०६ ५६१ साक्षाद्दष्टरि ५।२।१ ३५३ सोमायण ४।२।३० Page #708 -------------------------------------------------------------------------- ________________ वार्तिकसूचिका [७०५ पृष्ठम् सूत्रम् पृष्ठम् सूत्रम् ४२८ सोऽस्य निवासः ४ । ३ । ८६ | १५३ स्वाङ्गाचेतः ६।३ । ४० ५०६ सोऽस्यांशवनमृत ५।। ५६ ५६२ स्वाभ्यः प्रसिते ५। २०६६ ३६४ सोऽस्यादिरिति ४ । २ । ५५ ५८६ स्वामिन्नैश्वर्ये ५ । २। १२६ ५३१ स्तेनाद्यन्नलोप ५। । १२५ हरत्युत्सङ्गादिभ्यः४|४|१५ ४४ स्तोकान्तिकदूरार्थ २ । १। ३६ ३०६ हरितादिभ्यो ४ ॥ १।१०० १३३ स्त्रियाः पुंवद्भाषित ६ । ३ । ३४ ४५१ हरीतक्यादिभ्यश्च ४३।१६७ १७४ स्त्रियां संज्ञायाम् ५ । ४ । १४३ २३३ हलदन्तात्सप्तम्याः ६।३।६ ३३७ स्त्रियामवन्तिकु ४।१।१४४ | हलसीराटुक्४।३।१२४ २०८ स्त्री वच्च १।२ । ६६ ४७२ हलसीराद्वक् ४।४।८१ २८० स्त्रीपुंसाभ्यां नन ४ । । ८७ ५८८ हस्ताज्जातौ ५।२। १३३ ३१४ स्त्रीभ्यो ढक् ४ । । १२० । ५३३ हा हायनान्तयुवा ५।१।१३० ३७५ स्त्रीषु सौवीरसाल्व ४ । २ । ७६ ४६८ हितं भक्षाः ४ । ४।६५ ३४८ स्थण्डिलाच्छयि ४।२ । १५ । २४२ हिमकाषिहति ६।३। ५४ ४१३ स्थानान्तगोशाल ४ । ३ । ३५ ६५३ हीयमानपापयो । ४ । ४७ ६४० स्थानान्ताद्विभाषा ५ । ४।१० ४७६ हृदयस्य प्रियः ४।४।६५ ५१२ स्थालीबिलात् ५।१।७० २४१ हृदयस्य हृल्लेख ६ । ३। ५० ६०६ स्थूलदूरयुवह्रस्व ६ । ४। १५६) ३१६ हृद्भगसिन्ध्वन्ते ७।३।११ ६३६ स्थूलादिभ्यः प्रका ५। ४ । ३ | ४२६ हेतुमनुष्येभ्यो ४ । ३ । ८१ २३६ स्थे च भाषायाम् ६ । ३ । २०५४६ हैयङ्गवीनं संज्ञा ५।२ । २३ ३४ स्वयं क्लेन २।१।२५ ५ ३६ होत्राभ्यश्छः ५।१।१३५ ३२७ स्वसुश्छः ४।१।१४३ ३८१ ह्रस्वात्तादौ तद्धि ८।३ । १.१ ४५३ स्वागतादीनाच्च ७ । ३ । ७ । ६२३ ह्रस्वे ५ । ३।८६ समासप्रभृतिपूर्वार्धपर्यन्तवार्तिकसूचिका । वार्तिकम् सूत्रम् । वार्तिकम् सूत्रम् अग्नीधः शरणे १५.० अकच्प्रकरणे तूष्णीमः २०२८ अग्रादिपश्चाडिमच् १३६१ अकारान्तोत्तरपदो द्विगु: अङ्गक्षत्रधर्मत्रिपूर्वा १२७० अगोवत्सहलेविति ८५० अचि शीर्ष इति वाच्यम् १६६७ अग्निकलिग्यां ढग्वक्तव्यः १०७८ अञ्जस उपसंख्यानम् अमिपदादिम्य उप १७६१ | अण संज्ञायाम् 925 Page #709 -------------------------------------------------------------------------- ________________ सूत्रम् १८३० ६६३ ६४१ ७८. ७५८ १३१३ " ० १२४२ २०१८ १३२४ १५१४ ६३६ २१४७ १००७ १६१६, १२०८ ७०६ ] वार्तिकसूचिका वार्तिकम् सूत्रम् | वार्तिकम् अतद्धित इति वाच्यम् १०५७ अलाबूतिलोमाभङ्गाभ्यः अत्यादयः कान्ताद्यर्थे ७८० वरस्योपसंख्यानम् अद्रुतायामसंहितम् अवर्णान्ताद्वा अद्वन्द्वतत्पुरुषविशेष १३८ अवादयः क्रुष्टायर्थे अधर्माचेति वक्तव्यम् १५६१ अवारपाराद्विगृहीतादपि अध्यात्मादेष्ठमिष्यते १४३७ अवेर्दुग्धे अनजादौ च विभाषा २०३५ अव्ययस्य च्वावीत्वं अनेकप्राप्तावेकत्र ६०३ अव्ययानां भमात्रे अनेकशफेष्विति अश्मनो विकारे अनो नलोपश्च ता ८२१ अष्टनः कपाले अन्ताच्च १३६१ | असमासवद्भावे अन्ताच्च ६६६ अस्तोश्चेति वक्तव्यम् अन्येभ्योऽपि दृश्यते अस्मिन्नर्थेऽण डिद्वा १६१६, १९२७ अहहणं द्वन्द्वार्थम् अपरस्यार्धे पश्चभावो ७३७ अह्नः खः क्रतो अपील्वादीनामिति | স্মা अपो योनियन्मतुषु आकर्षात्पदे अभितःपरितः अाकालाटुंश्च अभूततद्भाव इति २११७ आख्यानाख्यायिकेतिहास अभ्यर्हितञ्च आनीध्रसाधारणादञ् अभ्रकूसादीनामिति आद्यादिभ्य उपसंख्यानम् अमानिनीति वक्तव्यम् आबन्तो वा अमेहक्वतसित्रेभ्य १३२४ आमयस्योपसंख्यानम् अरण्यारणः १३२५, १३५३ श्रामुष्यायणामुष्यपुत्रिका अर्णसो लोपश्च १९१६ प्राहृतप्रकरणे वारि अर्थाच्चासनिहिते १६४१ पाही प्रभूतादिभ्यः अर्थेन नित्यसमासो ६६८ अर्धाचेति वक्तव्यम् १६६० इकन्पदोत्तरपदाच्छतषष्टेः अहतो नुम् च १७५८ | इकारादाविति वाच्यम् ७८७ १२५१ १०४३ १६२५ म 2 ८४१ १२७० २०६३ २१११ ८२१ १६२८ ६७६ १७४१ १५४६ १२७० Page #710 -------------------------------------------------------------------------- ________________ वार्तिकम् इके चरतावुपसंख्यानम् इत्येऽनभ्यासस्य इदम इश् सम्स इदमोऽश भावो इयङ्ङुवङ्भाविनाम इरिकादिभ्यः प्रति इन समासो यसो बहुव्रीि ईषद्गुणवचनेनेति ई उत्तरपदं यत्प्राति उत्तरपदस्य चति उत्तरपदेन परिमाणिना उपधिशब्दात् स्वार्थे उवर्णाक्ल्ब्ल इलस्य च उष्णभद्रयोः करणे वा ऋ ऋतुनक्षत्राणां समाक्षरा ऋतोर्वृद्धिमद्विधा ऋवर्णादपि एकाचो नित्यम् एतदो वाच्यः ए एकविभक्तावषष्ठयन्त एका पूर्व श्रो कारकारभकारादौ सुपि वार्तिकसूचिका सूत्रम् | वार्तिकम् ६६१ १००७ १६७० १६७० ६६६ १०५१ ६५० १०७७ ८६४ ७५५ १०५५ ६६५ ७१६ १६७५ २०३५ १००७ ६०५ १३६७ २०३५ कच्छ्वा ह्रस्वत्वं च कप्रत्ययचिकादेशौ कम्बोजादिभ्य इति कर्मप्रवचनीयानां कर्मव्यतिहारे कल्पब्देशीय रौ कारके छे च नायं कार्षापणान् २०२८ कुक्कुय्यादीनामण्डादिषु कृद्योगा च षष्ठी कृन्नद्या न कृष्णोदक्पाण्डुसंख्या केवलायाश्चति कोपधप्रतिषेधे कौपिञ्जल क क्रोशशतयोजनशतयो क्लिन्नस्य चिल् पिल्लश्च क्षत्रिय समानशब्दा ७१३ २०३७ १५२४ गज सहायाभ्यां १६७२ | गड्वादेः परा सप्तमी गणिकाया यमिति गन्धस्येत्त्वे तदेकान्त खप्रत्ययानुत्पत्तौ खलतिकादिषु खलादिभ्य इनिः खुरखराभ्यां वा णस् ख्यश्व ग [ ७०७ सूत्रम् १६१४ १८३४ ११६४ ७८० २१४७ ८३६ १०२५ १६६० ८३६ ७०३ ८६ ४३ १६६८ ८३८ १५१२ १७३८ १८३४ ११८६ १८१३ १३०० १२६० ८५७ ८५६ १२५१ ८६ १२४८ ८७४ Page #711 -------------------------------------------------------------------------- ________________ वार्तिकसूचिका सूत्रम् | वार्तिकम् सूत्रम् ८.७ १०५४ १४११ ७०८] वार्तिकम् गवि च युक्त गिरिनद्यादीनां वा गिलगिले च गिलेऽगिलस्य गुणवचनेभ्यो मतुपो गुणात्तरेण तरलोप गोरजादिप्रसङ्गे गोष्ठजादयः १००७ जाताथै प्रतिप्रसूतो जातिकालसुखादि ज्योत्स्नादिभ्य उपसंख्यानम् १६१० १००७ १८६६ ७०३ ठक्छसोश्च ८३६ १०७७ १८३० डाचि विवक्षिते २१२८ घोषग्रहणमपि कर्तव्यम् ध्यन्तादजायदन्तम् १७३८ १७१८ १६४१ १२४१ १५४८ १६६८ १०७१ १६२८ चनदहतोरुप चटकादिति वाच्यम् चतुरश्छयतावाद्यक्षरस्य चतुर्थादच चतुर्थादनजादौ चतुर्थ्यर्थ चतुर्मासारण्यो चतुर्वर्णादीनां चतुष्पाज्जातिरिति चरद्जातीयरौ चरणाद्धर्माम्नाययोरिति चित्रारेवती चिरपरुत्परारिभ्यः १५०७ ततोऽभिगमन तत्पचतीति तदन्ताच २०७५ तदस्मिन्वर्तते ११३४ तदाहेति १८५१ तदो दावचनमनर्थक २०३५ तबृहतोः करपत्यो २०३५ तप्पर्वमरुद्भयाम् १७१३ तरप्तमपौ. १७५८ तस्येदमित्यपत्येऽपि १७८६ तावतिथेन गृह्णाति ७५३ तिलानिष्फला तिल्थ्यनी १५०६ तीयादीकक् खार्थे १४०८ त्यदादितः शेषे पुनपुंसक ११ त्यदादीनां फिश्वा १८३४ त्यदादीनां मिथः ___७७५ त्यसोध्रुव इति त्रतसौ ११७५ त्रौ च १.८८ १८७७ १२४२ ११८. व्यर्थ इति वाच्यम् १३२४ छागवषयोरपि १०२७ Page #712 -------------------------------------------------------------------------- ________________ वार्तिकम् त्र्युपाभ्यां चतुरो त्वतलोर्गुणवचनस्य थाल् थ द दिक्छब्देभ्यस्तीरस्य विश्व दा दुरो दाशनाशदभ दूरादेत्यः दृशे चेति वक्तव्यम् दृशिग्रहणाद्भवदादि देवाद्यञ देवानां प्रिय इति दोष उपसंख्यानम् युवोभयाद्वक्तव्यः द्वन्द्वतत्पुरुषयोरुत्तरपदे द्विगुप्राप्तापन्ना लम्पूर्वगति द्विगोर्नित्यम् द्वितीयं सन्ध्यक्षरं द्वित्वे गोयुगच् व्यच्त्रयज्भ्यामेव धमुनन्तात्खार्थे धर्मादिष्वनियमः नोर्भव्यायाम् ध न नगपां सुपाण्डुभ्यश्च art नलोपस्तfe नमोsस्त्यर्थानां वाच्यो वार्तिकसूचिका सूत्रम् | वार्तिकम् नराच्चेति ६४५ ८३६ ८३६ १०३४ ६७६ १६६१ ३०२ १००७ नवस्य नू आदेशः न विद्यायाः नश्च पुणे प्रात् ननासिकायाः १६१४ ७५६ ८३० नान्तस्य टिलोपे नित्यमाम्रेडिते डाचीति १०३४ १३२५ १०१७, १०१८ १६६३ नील्या अन्वक्तव्यः १०७७ | नेतुर्नक्षत्रे अब्वक्तव्यः ७६७ प १२२१ १६७० ७२८ ८१२ १८३८ पथ्यध्यायन्याय २०३७ |परस्मादेद्यव्यहनि १८३० परिमुखादिभ्यः परेर्वर्जने वावचनम् १०५१ पर्यायस्यैवेष्यते पर्यादयो ग्लानाद्यर्थे पर्श्वा णस् वक्तव्यः पल्यराजभ्यां चेति पाण्डो निरादयः कान्ताद्यर्थे निष्के चेति वाच्यम् नसो ग पञ्चजनादुपसंख्यानम् पञ्चजनादुपसंख्यानम् पत्त्राद्वा पथः संख्ययादेः पात्राद्यन्तस्य न पादशतग्रहणम् पिजश्छन्दसि डिच [ ७०६ सूत्रम् १५६६ २०६३ १६६४ २०६३ १६६६ १४८८ २१२८ ७८० ६६४ १३२४ १२०३ ६५४ १४३५ १६७१ १५०३ ८२१ १३५३ १६७० १४३६ २१४१ ८२६ ७८० १२५१ *૪૬ ११८६ ८२१ २०७३ १२४२ Page #713 -------------------------------------------------------------------------- ________________ सूत्रम् १५४५ १६२८ ११६ १४०८ १६२८ १०७७ २१.६ १६४१ १७०५ ६५६ ७१० ] वार्तिकम् पितुतिरि व्यत् पिशाचाच पीतात्कन् पुण्यसुदिनाभ्यामह्न पुरुषावधविकार पुंवद्भावप्रतिषेधोऽप्र पुष्पमूलेषु पुंसानुजो जनुषान्ध पूरण इति वक्तव्यम् पूरोरण्वक्तव्यः पूर्णमासादरवक्तव्यः पूर्वपूर्वतरयोः पूर्वान्यान्यतर पृच्छतौ सुनातादिभ्यः पृथिव्या आलो पृथुमृदुभृशकृश पृष्ठादुपसंख्यानम् प्रकृतिप्रत्ययार्थ प्रकृत्या अके प्रतिपदविधाना प्रमाणपरिमाणा प्रमाणे लः प्रयोजनं सुब्लोप प्रहरणार्थेभ्यः परे प्राक्शताद्वक्तव्यम् प्राण्यङ्गादेव प्रादयो गताद्यर्थे प्रादिभ्यो धातुजस्य प्रायस्य चित्तिचित्तयोः वार्तिकसूचिका सूत्रम् । वार्तिकम् १२४२ १६३५ फलपाकशुषामुप १२०३ । फलपहभ्यिामिनच् ८२१ फलसेनावनस्पति १६७२ फल्गुन्याषाढाभ्यां ८३२ १५४५ बलादूलः ६६० बहिषष्टिलोपो यन्न बहुपूर्वाञ्चेति ११८६ बह्वल्पार्थान्माला १२४१ बाहूरुपूर्वपदावलात् १६७. ब्रह्मवर्चसादुप १६७. ब्राह्मणाच्छंसिन १५४६ भ १०७७ भद्राचेति वक्तव्यम् १७८७ भयभीतिभी १२५० भवने क्षेत्रे शाकट १८४६ भवार्थे तु लुग्वाच्यः १२४७ भस्याढे तद्धिते भागरूपनामभ्यो १८३८ भावप्रत्ययान्ता १९३८ भूमनिन्दाप्रशंसासु २१४६ भ्रातुण्यस ६.. भ्राष्ट्राग्न्योरिन्धे ८.८ १९०६ मनुष्यलुपि ७८० महत प्रात्त्वे घासकर ८३० महाजनाञ् १०७१ / महानाम्न्यादिभ्यः २१३८ ६६६ १८३० १०७७ ८३६, ८४२ २०६३ १५७० १८६४ ६०५ १००७ १३०० ८०७ १६७१ १७५८ Page #714 -------------------------------------------------------------------------- ________________ [७११ वार्तिकम् महिषाच्चति मातञ्मातृकमातृषु वा मातरि षिच्च मातुईलच् मातृपितृभ्यां पितरि मिथोऽनयोः समासे सूत्रम् ८६८ ६२२ ११५७ १८१ १२७० २०३५ १५६६ १२४२ यज्ञविग्भ्यां १५६६ युवादेर्न यूनश्च कुत्सायां १०६२ ६२५ १९०७ १८३. १६१४ रप्रकरणे खमुख राज्ञो जातावेवेति रूपप्पाशपौ वृत्तेश्च س वार्तिकसूचिका सूत्रम् । वार्तिकम् १३०६ वा प्रियस्य १००५ वायुशब्दप्रयोगे ४६६, १२४२ वा हितनाम्न इति १२४२ विद्यायोनिसम्बन्धेभ्यः विद्यालक्षण ८६८ विनापि प्रत्ययं विभाजयितुर्णि १७३५ विशसितुरिड्लोप १०५५ विष्णौ न विष्वगित्युत्तर विस्तारे पटच वृक्षादौ विशेषाणामेव ११५३ ८३६ वृद्धस्य च पूजायां वृद्धाच्चेति वक्तव्यम् ६०५ वृद्धवृधुषिभावो २१०० वेर्को वक्तव्यः वैरे देवासुरादिभ्यः व्यासवरुडनिषाद १०७७ शकलकर्दमाभ्यां १८८२ शतरुद्राद्ध च १९३८ शसि बह्वल्पार्थस्य १०५ शाकपार्थिवादीनां १५०० शिखामालासं शीतोष्णतृप्रेभ्य शीले को मलोपश्च १७०४ शुनो दन्तदंष्ट्राकर्ण १६२८ शृङ्गबृन्दाभ्यामारकन् १३३८ । शेफपुच्छलाङ्गलेषु و लघ्वक्षरं पूर्वम् लिङ्गबाधनं वा लोकस्य पृणे लोपः पूर्वपदस्य लोम्नोऽपत्येषु बहु १६०८ १०६२ १२४७ १५८० ८५६ १५०५ १०६७ १००७ و وس २०३५ १२०३ १२३० ८ ہ वटकेभ्य इनिर्वाच्यः वत्वन्तात्स्वार्थे वर्णानामानुपूर्येण वहेस्तुरणि च वा गोमयेषु वाग्दिक्पश्यद्भ्यो वातपित्तश्लेष्मभ्यः वातात्समूहे वा नामधेयस्य १३५३ १६२३ १६२८ २०२८ १०४६ १६२८ ६७६ Page #715 -------------------------------------------------------------------------- ________________ १४०८ २०३७ ७१२] परिभाषासूचिका वार्तिकम् सूत्रम् । वार्तिकम् सूत्रम् श्रविष्ठाषाढाभ्यां सर्वादेश्च १६४१ श्रेण्यादिषु व्यर्थवचनं ७३८ | सर्वादेः सादेश्च १२७०, १७८९ श्रोत्रियस्य यलोपश्च १७६५ सर्वोभयार्था १६५६ सविशेषणस्य प्रतिषेधः ८१८ षट्वे षङ्गवच् १८३० सहायाद्वा १७६७ षष उत्त्वं दतृदशधा ८११ सामान्ये नपुंसकम् ८२१ षषष्टाजादिवचना सुसधिदिक्छब्देभ्यः १३६६ सूत्रान्तात्त्वकल्पा १२७० संख्यापूर्वपदानां स्तोमे डविधिः १७२४ संख्याया अल्पीयस्याः १८ स्त्रियामपत्य संख्याया नदीगोदा ६४३ स्त्रीनपुंसकयोरुत्तर २१४७ संख्यायास्तत्पुरुषस्य ८५१ स्थाम्नोऽकारः १०७४ सङ्घाते कटच् १८३० स्थेणोलुंडीति वक्तव्यम् संज्ञायां स्वार्थे १७२४ स्नेहे तैलच १९३० सम्भ्रमेण प्रवृत्ती २१३७ । स्वतिभ्यामेव समानस्य १६७० स्वरूपस्य १५८५ समाहारे चायमिष्यते ६७४ स्वार्थ उपसंख्यानम् १२६४ समिधामाधान १५०० सर्वजनाढल् १६७१ हरिद्रामहार सर्वत्राग्नि १२२६ हरीतक्यादिषु १३०० सर्वनामसंख्ययोरुप ____८९८ हिमाचलुः १६२८ सर्वनाम्नो वृत्तिमात्रे ७२८, २१४७ | हृदयाच्चालुरन्यतरस्याम् १६२ सर्वारणो वेति १६७२ हृद्युभ्यां च ६६७ समासप्रभृतिपूर्वार्धपर्यन्तपरिभाषासूचिका । परिभाषा सूत्रम् | परिभाषा सूत्रम् अनिनस्मन्ग्रहणा ८६० लक्षणप्रतिपदोक्तयोः ५०७ उत्तरपदाधिकारे तदन्त ६८८ संज्ञापूर्वको विधिरनित्यः कृद्ग्रहणे गतिकारक ६६४ सन्नियोगशिष्टानाम् १३११ गतिकारकोपपदानां ७५२ । स्त्रीप्रत्यये चानुपसर्जने न १०.४ १२०३ Page #716 -------------------------------------------------------------------------- ________________ व्याकरणचन्द्रोदय पं० चारुदेव शास्त्री व्याकरणचन्द्रोदय अब सम्पूर्ण पाँच खण्डों में प्रकाशित हो चुका है। प्रथम खण्ड कारक-निरूपणात्मक है। द्वितीय कृत्तद्धित-विषयक है। तृतीय तिङव्याख्यान-परक है और चतुर्थ स्त्रीप्रत्यय-सुप्-अव्ययार्थ-निदर्शक है। पञ्चम खण्ड शिक्षा-संज्ञा-परिभाषा-सन्धि-लिङ्ग-निरूपक है। प्रक्रिया-ग्रंथ होते हुए भी यह कृति व्याक्रियाप्रधान है। लक्ष्यलक्षणे व्याकरणम्--यह सर्वसम्मत व्याकरण का स्वरूप माना जाता है। तो भी पूर्व विद्यमान व्याकृतिग्रंथों में लक्ष्य का अत्यल्प उपादान है। पुरानी शैली से लिखे गये वृत्ति आदि ग्रंथों में एक-दो लक्ष्यों में लक्षण (सूत्र) की प्रवृत्ति को दिखाने से वृत्तिकारादि अपने को कृतार्थ मानते हैं। नूतन रीति से लिखे गये व्याकरण ग्रंथों में प्रयोगों के उदाहरण देने का प्रयत्न तो है, पर वे उदाहरण या तो स्वयं घटित होते हैं, या भट्टिकाव्यादि से उठाये जाते हैं, जहाँ व्याकरण सिखाने के लिये वे घड़े गये हैं और जिनमें अनेकानेक ऐसे हैं जो साहित्य में कहीं भी प्रयुक्त नहीं हुए, अतः अव्यवहार्य हैं। इस वर्ग के विद्वान् भूल जाते हैं कि व्याकरण अन्वाख्यान-स्मृति है-व्याक्रियन्ते पदानीह क्रियन्ते नूतनानि न। इस कृति का वाग्व्यवहार सिखाना प्रधान लक्ष्य है। प्रक्रिया इस साध्य में साधनमात्र है। व्यवहार उपकार्य है, प्रक्रिया उपकारक / अतः इस कृति में जहां सूत्रादि की विशद व्याख्या की गई है, सूत्रादि की प्रवृत्ति द्वारा सरल, शङ्कासमाधान सहित, क्रम-बद्ध रूपसिद्धि दी गई है, वहां वैदिक-लौकिक उभयविध वाङमय से शतशः वाक्य उद्धृत किये हैं जो व्याकरण-व्युत्पादित उस-उस लक्ष्य को प्रयोगावतीर्ण दिखाते हुए उसकी साधुता को यथेष्ट रूप से प्रमाणित करते हैं और व्यवहार सिखाने में अत्यन्तोपकारक हैं। ___स्थान-स्थान पर अपेक्षित नूतनार्थोपन्यास, पूर्वमतसमीक्षा, संक्षिप्त वैयाकरणोक्तिविशदीकरण, यथासंभव अष्टाध्यायीगतसूत्रक्रमाश्रयण, आदि असामान्य धर्म इस कृति को अन्य कृतियों से पृथक् करते हैं और इसकी मौलिकता की ओर संकेत करते हैं। प्रथम खण्ड (कारक व समास) 8.00 द्वितीय खण्ड (कृत व तद्धित) 22.50 तृतीय खण्ड (तिङन्त) 40.00 चतुर्थ खण्ड (स्त्रीप्रत्यय-सुप्-अव्ययार्थ) 20.00 पंचम खण्ड (संज्ञा-परिभाषा-सन्धि-लिङ्गानुशासन) 55.00 आकार डिमाई : : कुल पृष्ठ 2,332 : : कपड़े की जिल्द सहित मोती लाल बनारसी दास दिल्ली 0 वाराणसी / पटना