SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३२] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५३ पृथिः । अविथ्या । १६७० आत्मन्विश्वजनभोगोत्तरपदात्खः । (५-१-६) १६७१ आत्माध्वानी खे। (६-४-१६६ ) एतौ खे प्रकृत्या स्तः । प्रात्मने हितमात्मनीनम् । विश्वजनीनम् । कर्मधारयादेवेष्यते। षष्ठीतत्पुरुषाबहुव्रीहेब छ एव । विश्वजनीयम् । 'पञ्चजनादुपसंख्यानम् (वा २९६६) पञ्चजनीनम् । 'सर्वजनाहरू खच' (वा २६६७) । सार्वजनिकः, सर्वजनीनः । 'महाजनाहम्' (वा २९६८)। माहाजनिकः । मातृभोगीणः । घित्वेऽपि 'अजाद्यदन्तम्' इत्यजशन्दस्य पूर्वनिपातः । अजथ्या यूथिरिति । अजेभ्यः अजाभ्यो वा हितेत्यर्थः । लिङ्गविशिष्टपरिभाषया अजाशब्दादपि थ्यन् । 'तसिलादिषु-' इति पुंवत्त्वम् । अविथ्येति । अविभ्यो हितेत्यर्थः । स्त्रीत्वं लोकात् । आत्मन्विश्वजन । आत्मन् । विश्वजन, भोगोत्तरपद एभ्यो हितमित्यर्थे खः स्यादित्यर्थः । आत्मनीनमित्युदाहरणं वक्ष्यति । तत्र टिलोपे प्राप्तेआत्माध्वानी खे । प्रकृत्या स्त इति । 'प्रकृत्यैकाच्' इत्यतस्तदनुवृत्तेरिति भावः । कर्मधारयादेवेति । विश्वजनशब्दादिति शेषः । अत्र व्याख्यानमेव शरणम् । विश्वजनीयमिति । विश्वस्य जनो विश्वजनः साधारणो वैद्यादिः । विश्वो जनो यस्येति बहुव्रीहिर्वा, तस्मै हितमिति विप्रहः । पञ्चजनीनमिति । ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वारो वर्णा रथकारजातिश्चेत्येते पञ्च जनाः । तेभ्यो हितमिति विग्रहः । सवैजना? खश्चेति । वक्तव्य इति शेषः । 'समानाधिकरणादिति वक्तव्यम्' इति वार्तिकं भाष्ये स्थितम् । महाजनाहजिति। वक्तव्य इति शेषः । विश्वजनप्रङ्गादिदं दार्तिकद्वयमुपन्यस्तम् । अथ भोगोत्तरपद'अजाद्यदन्तम्' इति अजशब्दस्य पूर्वनिपातः कृतः। 'प्रातिपदिकग्रहणे लिविशिष्टस्यापि- इति स्त्रीलिङ्गादपि थ्यन् । तसिलादिषु थ्यनः परिगणनात्पुंवद्भावे रूपं तुल्यम् । अजथ्येति । अजेभ्यो प्रजाभ्यो वा हितेति विग्रहः । कर्मधारयादेवेति। व्याख्यानादिति भावः । विश्वजनीमिति। विश्वस्य जनः सर्वसाधारणो वेश्यादिः, विश्वो जनोऽस्येति बहुव्रीहावपि स एवान्यपदार्थस्तस्मै हितमिति विग्रहः । पञ्चजनीनमिति । रथकारपञ्चमाश्चत्वारो वर्णाः पञ्चजनास्तेभ्यो हितम् । 'दिक्संख्ये संज्ञायाम्' इति समासः 'पञ्चजनात्' इत्येतत्प्रभृति वार्तिकत्रयमपि कर्मधारयविषयमेव, तेन षष्ठीसमासाद्बहुव्रीहेश्छ एव, पञ्चजनीयः । सर्वजनीन इति । सर्वो जनः सर्वजनः । 'पूर्वकालैक-' इति तत्पुरुषः, तस्मै हितमिति विग्रहः । साध्वर्थे तु १ तेन 'सर्वेषां जनाय (सर्वसाधारणाय वेश्यादिजनाय) हितः सर्वजनीयः' इत्यादौ न । इति भा०।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy