SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४८२ ] सिद्धान्तकौमुदी । [तद्धितेषु यद्विधि शिरः शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । ' तद्धिते' किम्-शिर इच्छति शिरस्यति । 'वा केशेषु' (वा ३४६३) । शीर्षण्याः शिरस्या वा केशाः । 'अचि शीर्ष इति वाच्यम्' ( वा ३४६४ ) श्रजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् । १६६८ खलयवमाषतिलवृषब्रह्मणश्च । ( ५-१-७ ) खलाय हितं खल्यम् । यव्यम् । माध्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या । १६६६ अजाविभ्यां थ्यन् । ( ५-१-८ ) अजथ्या हितमित्यर्थः । नाभिरत्र शरीरावयवः । रथावयवत्वे तु नभादेश उक्तः । ये च तद्धिते । शीर्षन्नादेश इति । 'शीर्षन् छन्दसि' इत्यतः तदनुवृत्तेरिति भावः । शीर्षण्य इति । शिरसे हित इत्यर्थः । शरीरावयवत्वाद्यति शीर्षन्नादेशे 'ये चाभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः । शिरस्यतीति । शिर आत्मन इच्छतीत्यर्थे 'सुप आत्मनः -' इति क्यचि, 'नः क्ये' इति नियमात् पदत्वाभावान्न रुत्वम् । वा केशेषु । केशेषु वाच्येषु यो यकारादिस्तद्धितः तस्मिन्परे शिरसः शीर्षन्नादेशो वा स्यादित्यर्थः । प्रसङ्गादह - अचीति । खलयव । खलाः देभ्यश्चतुर्थ्यन्तेभ्यो हितमित्यर्थे यत्स्यादित्यर्थः । वृषशब्दोऽत्र अकारान्त एव गृह्यते नतु नकारान्तः । तेन वृष्णे हितमिति वाक्यमेव । ब्रह्मन्शब्दो ब्राह्मणवाच्येव गृह्यते, नतु वेदादिवाची । तेन ब्रह्मणे वेदाय हितमिति वाक्यमेवेति भाष्ये स्पष्टम् । ब्रह्मण्यमित्यत्र 'ये चाभावकर्मणोः' इति प्रकृतिभावान्न टिलोपः । चाद्रथ्येति । चकारस्यानुक्तसमुच्चयार्थत्वादिति भावः । अजाविभ्यां ध्यन् । अजश्च श्रविश्वेति द्वन्द्वः । श्रविशब्दस्य नासिकायाः क्षुद्रो नःक्षुद्रः । 'सुप्सुपा' इति समासः । नाभ्यमिति । 'नाभि नभं च' इति नभादेशो रथनाभावेव प्रवर्तते । तस्य गवादियता संनियोगशिष्टत्वादिति भावः । 'शीर्षश्छन्दसि' इत्यतोऽनुवर्तनादाह - शीर्षन्नादेश इति । शीर्षण्य इति । 'ये चाभाव -' इति प्रकृतिभावः । शिरस्यतीति । 'नः क्ये' इति नियमेन पदत्वाभावाद्रुत्वाभावः । खलयव । अत्र वृषशब्दोऽकारान्तो गृत्यते न तु नकारान्तः । अन्यथा ह्यसन्देहार्थं नलोपमकृत्वैव निर्दिशेत् । 'आत्मविश्वजन -' इति यत् । वृषाय हितम् वृष्यम् । नान्ताद्यति तु वृषण्यमिति स्यात् । ब्रह्मण्यमिति । ब्रह्मन्शब्दो ब्राह्मणपर्यायः । प्रकृतिभावस्तु 'ये चा-' इत्यनेन पूर्ववत् । इह वृष शब्दाद्राह्मणशब्दाच्च यतः प्राप्तिरेव नास्ति । छोऽप्यनभिधानान्नेत्याकरः । तेन वृष्णे हितं ब्राह्मणेभ्यो हितमिति वाक्यमेव । चाद्रथ्येति । गवादिषु रथशब्दो न पठितः । हितार्थ एव रथ्येति यथा स्यात् अर्थान्तरे मा भूदिति । अजाविभ्याम्। अज , शब्द इह पुंल्लिङ्ग उपात्तः, अतएव 'द्वन्द्वे घि' इत्यविशब्दस्य पूर्वनिपातं बाधित्वा
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy