SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ३२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४८१ यत्स्यात् । कम्बल्यमूर्णापलशतम् । 'संज्ञायाम्' किम्-कम्बलीया ऊर्जा । १६६४ विभाषा हविरपूपादिभ्यः । ( ५-१-४) आमिषयं दधि, श्रमितीयम् । पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः । अपूप्यम्, अपूपीयम् । १६६५ तस्मै हितम् । ( ५-१-५) वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शक्तव्यं दाद । गव्यम् । हविष्यम् । १६६६ शरीरावयवाद्यत् । (५-१-६ ) दन्स्यम् । कण्ठ्यम् । 'नस्त्रासिकाया:' ( वा ३४३७ ) । नस्यम् । नाभ्यम् । १६६७ ये च तद्धिते । ( ६-१-६१ ) यादी तद्धिते परे कम्ब्ल्यम् ऊर्णापलशतमिति । कम्बलाय हितमित्यर्थः । विभाषा हविः । हविर्विशेषवाचिभ्यः अपूपादिभ्यश्च प्राक्क्रीतीयेष्वर्थेषु यद्वा स्यादित्यर्थः । पते छः । आमिक्ष्यं दधीति । श्रमिक्षायै हितमित्यर्थः । तप्ते पयसि दनि निक्षिप्ते सति यद् घनीभूतं निष्पद्यते सा आमित्युच्यते । तस्मै हितम् । अस्मिन्नर्थे चतुर्थ्यन्ताद्यथाविहितं प्रत्ययाः स्युः । वत्सीय इति । छे रूपम् । यो गोधुग् वत्सेभ्यः पयः शिष्वा दोग्धि स एवमुच्यते । शङ्कव्यमिति । शङ्कवे हितमित्यर्थः । उवर्णान्तत्वाद्यत् । गव्यमिति । गोभ्यो हितं तृणादिकमित्यर्थः । गवादिलक्षणो यत् । हविष्यमिति । हविषे हितमित्यर्थः । हविःशब्दो गवादिः । 'विभाषा हविः -' इत्यत्र तु हविर्विशेषवाचिनामेव ग्रहणम्, व्याख्यानात् । शरीरावयवाद्यत् । शरीरावयदविशेषवाचकात् चतुर्थ्यन्ताद् हितमित्यर्थे यत्स्यादित्यर्थः । छस्यापवादः । नस्यमिति । नासिकायै हितमित्यर्थः । ' पद्दन् -' इति नस्, प्रमृतिप्रहणस्य प्रकारार्थत्वात् । भाष्ये तु 'नासिकाया यत्तस्तुद्रेषु नस्' इति पठितम् । नाभ्यमिति । नाभये छस्यापवादः । विभाषा हविरपूपादिभ्यः । गवादिषु हविः शब्दस्य पाठादिह हविर्विशेषाणां ग्रहणम् । न च गवादिष्वेव हविर्विशेषाणां ग्रहणं किं न स्यादिति वाच्यम्, असंजातविरोधित्वेन तत्र स्वरूपग्रहणस्य न्याय्यत्वात् । अपूप्यमिति । अपूपेभ्यो हितं चूर्णमित्यर्थः । श्रपूप, तण्डुल, पृथुक, मुसल, कर्णवेष्टकेत्याद्यपूपादिगणे ‘अन्नविकारेभ्यश्च' इति पठ्यते । अन्नविकारा प्रकारा अदनीय विशेषास्तेभ्यो यद्वा स्यादिति तदर्थः । श्रदन्या श्रोदनीयास्तण्डुलाः । एवं चानेनैव गणसूत्रेण सिद्धे अपूपादीनां केषांचिद्रणे पाठः प्रपचार्थः । ' हविरपूपादिभ्यो विभाषया उगवादिभ्यो यत्पूर्वविप्रतिषेधेन' । सक्तभ्या धानाः । चरव्यास्तण्डुलाः । चरुर्नाम हविरिति काशिका । स्थालीवचनस्य चरुशब्दस्य तत्रत्ये हविषि उपचाराद् वृत्तिरिति कैयटादयः । नस्य - मिति । नासिकायै हितम् । 'नासिकायां भवम्' इति विग्रहे तु 'शरीरावयवाच्च' इति यत् । नस्यम् । तस्युदाहरणं नस्तः । 'अपादाने चाहीयरुहो:' इति तसिः । क्षुद्रे तु
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy