________________
४८० ] सिद्धान्तकौमुदी। [तद्धितेषु छयद्विधि(ग सू १५) । नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् । 'शुनः सम्प्रसारणं वा च दीर्घस्वम्' (ग सू ६६ ) शून्यम् , शुन्यम् । 'ऊधसोऽनङ् च' ( ग सू १७ )। ऊधन्यः। १६६३ कम्बलाच संज्ञायाम् । (५-१-३) विशेषणत्वात् तदन्तविधिः । 'उगिद्वर्णप्रहणवर्जम्' इत्युक्तेः प्रत्ययविधावपि तदन्तविधिरिति भावः । इदमपि सूत्रं प्राक्क्रीताद्वक्ष्यमाणसूत्रेषु प्रत्ययविशेषानुपादान उपतिष्ठते । नाभि नभं चेति । गवादिगणसूत्रम् । नाभिशब्दो नभादेशं यत्प्रत्ययं च प्राप्नोतात्यर्थः। नभ्योऽक्ष इति । यत्र अक्षदण्डः प्रवेश्यते तच्चक्रमध्यगतच्छिद्रं नामिरित्युच्यते । तस्मै हितः अक्षदण्डः, न हि अनुगुणत्वाद् नाभये हितः। नभ्यमञ्जनमिति । अञ्जनं तैलसेकः । नाभेजने कृते तत्र प्रोतं चक्रं सुपरिवर्तनं भवतीति नाभेः परिवर्तनात्मककार्यक्षमताधायकत्वादर्जन नाभये हितम् । अत्र शरीरावयवविशेषवाचिनाभिशब्दो न गृह्यते, भाष्ये रथनाभेरेव ग्रहणादित्यभिप्रेत्य आह-रथनाभाववेदमिति । शरीरावयवविशेषवाचिनाभिशब्दात्तु 'शरीरावयवाद्यत्' इति वक्ष्यमाणः केवलो यत् नतु नभादेश इति भावः । शुनः संप्रसारणमिति । गवादिगणसूत्रम् । श्वनशब्दाद्यत्स्यात् प्रकृतेः संप्रसारणम् , तम्य संप्रसारणस्य पाक्षिकं दीर्घत्वमित्यर्थः । शून्यम् , शुन्यमिति । शुने हितमित्यर्थः । ऊधसोऽनङ् चेति । इदमपि गणसूत्रम् । ऊधश्शब्दाद् यत्स्यात् प्रकृतेरनादेशश्चेत्यर्थः । आदेशे ढंकार इत् , नकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः । कम्बलाच्च । कम्बलशब्दाद् यत्स्यात् प्राक्क्रीतीयेष्वर्थेषु संज्ञायामित्यर्थः । र्गणसूत्राण्याह-नाभि नभं चेति । नाभिशब्दो यतं लभते नभादेशं चैत्यर्थः । नभ्योऽक्ष इति । रथाङ्ग सच्छिद्रं नाभिः । तदनुप्रविष्टः काविशेषोऽक्षः । स च तदनुगुणत्वात्तस्मै हितः । अञ्जनं तैलाभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम् । रथना. भाववेति । शरीरावयवे तु नाभ्यमित्येव, परेण 'शरीरावयवाद्यत्' इत्यनेनास्य बाधादिति भावः । शून्यमिति । चकारस्यानुक्तसमुच्चयार्थत्वाद् 'नस्तद्धिते' इति टिलोपो न भवति । 'ये चाभावकर्मणोः' इति प्रकृतिभावस्तु दुर्लभः, संप्रसारणे पूर्वरूपे च कृते अन्रूपाभावात् । दीर्घपक्षे तु तद्विधानसामर्थ्यादपि टिले पाभाव सुपरिहरः । नङ् चेति । चाद्यत् । 'नश्च' इति सुवचमिति मनोरमा। आये त्वाहुः-ऊधन्यशब्दात् 'तत्करोति तदाचष्टे' इति णिचि ‘णाविष्टवत्' इति टिलोपे गिजन्तात्कर्तरि क्विपि हिलोपयलोपयोः कृतयोः 'अनुनासिकस्य क्वि-' इति दीर्घ ततः स्विबन्तादाचारक्विपि ऊधानते इत्यादव नेपदार्थ नडो छित्करणमावश्यकमिति । ऊधन्यमिति । 'ये चा-' इति प्रकृतिभावः । कम्बलाच्च संज्ञायाम् । प्राक्क्रीतीयेष्वर्थेषु यत्स्यात् ।