________________
प्रकरणम् ३१] बालमनोरमा-तत्त्वबोधिनीसहिता। [४७६
अथ तद्धितेषु छयद्विधिप्रकरणम् । ३२ ।
१६६१ प्राक् क्रीताच्छः । (५-१-१) 'तेन क्रीतम्' (सू १७०२) इत्यतः प्राक्छोऽधिक्रियते । १६६२ उगवादिभ्यो यत् । (५-१-२) 'प्राक् क्रीतात्' इत्येव । उवर्णान्तावादिभ्यश्च यत्स्याच्छस्यापवादः । 'नामि नभं च' णान्तोदात्तोऽयम् । 'विभाषोदरे-' इति सभावः । 'अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति' इत्यत्र तु समानपर्यायसहशब्दस्य बहुव्रीही 'वोपसर्जनस्य' इति सभावो बोध्यः । एवं 'यत्र भ्राता सहोदरः' इत्याद्यपि सिद्धम् ।
इति तद्धितेषु चतुर्थस्य चतुर्थः पादः । अथ पञ्चमाध्यायः । प्राक्क्रीताच्छः । क्रीतशब्दस्तद्धटितसूत्रपरः । तदाह-तेनक्रीतमिति । 'तेन क्रीतम्' इत्यतः प्राग येषु सूत्रेषु अर्था एव निर्देष्यन्ते नतु प्रत्ययाः, तेषु छ इत्युपस्थितं भवतीति यावत् । उगवादिभ्यो यत्। उश्च गवादयश्च इति द्वन्द्वात् पञ्चमी । उवर्णान्तादिति । प्रातिपदिक'वोपसर्जनस्य' इति सहस्य सभावः । तस्य च वैकल्पिकत्वाद् 'यत्र भ्राता सहोदरः' इत्याद्यपि सिद्धमिति ।
इति तत्त्वबोधिन्या प्राग्घितीयप्रकरणम् । प्राक् क्रीताच्छः। इत्यतः प्रागिति । इहार्थोऽवधित्वेन गृह्यते, न तु प्रत्ययः प्रकृतिर्वा । तेनार्था एवावधिमन्त इति प्राक्क्रीतायेऽर्था हितादयस्तेष्वस्योपस्थानम् । अवधिसजातीयो यवधिमान् भवति । यथा 'मासान्त्यः' इति कालः प्रतीयते, 'प्रामात्पूर्वः' इति देशः, 'अलोऽन्त्यात्पूर्व-' इत्यलेव । एवं च समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानो यदादिः प्रकृत्यन्तरे सावकाशं छं तक्रकौण्डिन्यन्यायेन बाधते । अन्यथा छस्य यदादेश्व संनिधानाविशेषात्तव्यत्तव्यानीयरामिव पर्यायः स्यात् । अतोऽत्रार्थोऽवाधत्वेन गृह्यते । ननु यदादिविषये छो न भविष्यति 'विभाषा हविरपूपादिभ्यः' इति विभाषाग्रहणालिमात् । तथा च प्रत्ययस्य प्रकृतेर्वा अवधित्वखीकारेऽपि न क्षतिः । उक्तज्ञापकेनोगवादिप्रभृतिभ्यश्छस्यातिप्रसङ्गनिरासादिति चेत् । अत्राहुः-एवं सति 'छः' इत्येवाधिकारोऽस्तु नार्थोऽवधिनिर्देशेन । 'प्राग्वतेष्ठम्' इत्यादिके तु प्रकरणे नास्याधिकारः, अधिकारान्तरेणोपष्टब्धत्वात् । स्पष्टप्रतिपत्त्यर्थमवधिनिर्देशः । अन्यथा प्रतिपत्तिगौरवं स्यादिति चेत् । तर्हि विभाषा हवि-' इत्यादिज्ञापकाश्रयणे प्रतिपत्तिगौरवादर्य एवावधित्वेन निर्देष्टुमुचित इति । उगवादिभ्यो। उवर्णादेर्गवशब्दादेश्च यत्स्यादित्यर्थो न भवति, गवादिगणपाठात् । गवाद्यन्त