________________
४७८ ] सिद्धान्तकौमुदी। [तद्धितेषु प्राग्घितीयस्वापतेयं धनम् । १६५७ सभाया यः। (४-४-१०५) सभ्यः । १६५८ समानतीर्थे वासी । (४-४-१०७ ) 'साधुः' इति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः । १६५६ समानोदरे शयित
ओ चोदात्तः। (४-४-१०८) समाने उदरे शयितः स्थितः समानोदर्यो भ्राता । १६६० सोदराद्यः । (४-४-१०६ ) सोदर्यः, अर्थः प्राग्वत् ।
इति तद्धितेषु चतुर्थस्य चतुर्थपादे प्राग्घितीयप्रकरणम् । स्पष्टम् । समानतीर्थे वासी । समानतीर्थशब्दात्सप्तम्यन्ताद् वसतीत्यर्थे यत्स्यादित्यर्थः। वसतीति वासीति । ग्रह्यादेराकृतिगणत्वारिणनिः । तीर्थशब्दस्य विवरणं 'गुरौ' इति । सतीर्थ्य इति । समानतीर्थशब्दाद्यति 'तीर्थे ये' इति समानस्य सभावः। समानोदरे शयितः। समानोदरशब्दात् सप्तम्यन्तात् शयित इत्यर्थे यत्स्याद् श्रोकारश्च उदात्त इत्यर्थः । शयित इत्यस्य विवरणं 'स्थितः' इति । कुशेशयं जलेशयम् इत्यादी तथा दर्शनादिति भावः । समानोदर्य इति । समानमुदरमिति विग्रहे 'पूर्वापरप्रथम-' इत्यादिना समासाद्यति कृते तित्स्वरापवाद अोकारस्योदात्तः। 'विभाषोदरे-' इति सभावे असति रूपम् । लोदराद्यः। सप्तम्यन्तात् शयित इत्यर्थ इति शेषः। तित्त्वाभावात्प्रत्ययस्वरेखपतिराज्यस्तस्मिन्साधु खापतेयम् । सभाया यः । यति तु तित्स्वरः स्यात् 'क्रतु. र्भवत्युक्थ्यः ' इतिवत् । न च 'यतो नावः' इत्यायुदात्तता शङ्कया। 'यदुत्पत्तिवेलायां द्वपच्कस्य यदन्तस्यादिरुदात्तः' इति वेदभाष्ये स्थापितत्वात् । पक्षान्तरे तु 'नमः शष्प्याय च फेन्याय च' इत्यादिवदायुदात्तः स्यात् । एवं च व्याख्यानद्वयस्याप्यावश्यकत्वे लक्ष्यानुरोधेन क्वचित्किंचियाख्येयमिति तत्त्वम् । समानतीर्थे वासी। निपातनारिणनिः, ग्रहादेराकृतिगणत्वान्नन्दिग्रहीत्यनेन वा । सतीर्थ्य इति । 'तीर्थे ये' इति समानस्य सभावः । तरन्त्यनेनेति तीर्थम् । 'तरतेस्थक् । 'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । योनौ जलावतारे च' इति विश्वः । इह तूपाध्यायवाचिन एवं ग्रहणं नान्यस्य, संज्ञाधिकारात् । शयितः स्थित इति । शीधातुः स्थित्यर्थे वर्तते । 'जलाशयः' 'कुशेशयम्' इति प्रयोगादिति भावः । समानमुदरमिति 'पूर्वापरप्रथम-' इत्यादिना तत्पुरुषः, ततो यत्, तित्स्वरापवाद ओकारस्योदात्तः । सोदराद्यः। 'श्रो चोदात्तः' इति नानुवर्तते । 'विभाषोदरे' इति समानस्य सभावः । तत्र 'तीर्थे ये' इत्यतोऽनुवृत्तं ये इत्येतद्विषयसप्तमी । तेन सोदर इत्यस्माद्यः प्रत्ययः । प्राग्वदिति । समानोदरे शयित इत्येवार्थ इत्यर्थः । कथं तर्हि 'अपन्यानं तु गच्छन्तं सोदरोऽपि विमुञ्चति' इति मुरारिरिति चेत् । अत्राहुः-सह समानमुदरं यस्य सोदरः।