________________
४८४ ]
सिद्धान्तकौमुदी । [तद्धितेषु यद्विधि.
>
पितृभोगीणः । राजभोगीनः । 'श्राचार्यादयस्वं च' (ग सू १८४) श्राचार्य भोगीनः । १६७२ सर्वपुरुषाभ्यां गढञौ । ( ५- १ - १० ) ' सर्वाण्यो वेति वक्तव्यम्' ( वा २६६ ) । सर्वस्मै हितं सार्वम्, सर्वीयम् । 'पुरुषाद्वधविकारसमूहतेन कृतेषु' ( वा ३००० ) भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेश: । पुरुषस्य वधः पौरुषेयः । ' तस्येदम्' ( सू १५०० ) इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः, 'प्राणिरजतादिभ्योऽञ्' ( सू १५३२ ) इत्यभि प्राप्ते । समूहेऽप्ययि प्राप्ते । एकाकिनोsपि परितः पौरुषेयवृता इव' इति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते, स्योदाहरति- मातृभोगीण इति । मातृभोगाय हित इत्यर्थः । आचार्यादिति । आचार्यशब्दात्परस्य भोगीनशब्दस्य नस्य णत्वाभावो वाच्य इत्यर्थः । नच श्रसमानपदस्थत्वादेवात्र गत्वस्याप्रसक्लेस्तनिषेधो व्यर्थ इति वाच्यम्, मातृभोगणादौ णत्वज्ञापनार्थत्वात् । सर्वपुरुषाभ्यां गढ । सर्व, पुरुष अभ्यां चतुर्थ्यन्ताभ्यां क्रमाद् यस्तो हितमित्यर्थे इत्यर्थः । सर्वारण इति । अत्र सर्वशब्दस्य स्वरूपपरत्वान्न सर्वनामकार्यम् । पुरुषाद्वधेति । वार्तिकमिदम् । पुरुषशब्दाद्वधादिष्वेवार्थेषु ढञ् स्यात् न हितार्थ इत्यर्थः । ननु तेन कृतमिति समुदायस्य असुबन्तत्वात् कथं समासे निवेश इत्यत आह- भाष्येति । प्रणि प्राप्त इति । अनेन ढमिति शेषः । प्राणीति । रजतादित्वादनि प्राप्त अनेन ढञित्यर्थः । समूहे ऽप्यणि प्राप्त इति । पुरुषाणां समूह इत्यर्थे 'तभ्य समूहः' इत्यणि प्राप्ते 'अनेन ढमित्यर्थः । पौरुषेयवृता इवेति । पुरुषसमूहनृत इवेत्यर्थः । परित आदर्शप्रतिफलनादिति भावः । तेन कृत इति । पुरुषेण कृतो ग्रन्थ इत्यर्थे ‘प्रतिजनादिभ्यः खञ्' इति खजि सार्वजनीनवेश्वजनीनशब्दौ युत्पादितौ । मातृभोगीण इति । इहाखण्डपदत्वाभावेऽपि 'अकुप्वाङ् -' इत्यनेन यथा णत्वं भवति तथा प्रागेवोपपादितम् । मातुर्भोगः शरीरं तस्मै हित इति विग्रहः । यद्यपि 'भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरेण अहेरित्युक्तम्, तथापि प्रयोगबाहुल्याभिप्रायं तत् शक्तिस्तु शरीरमात्र इत्याकरः । मातृपितृशब्दाभ्या गौत्सर्गिकश्छ एव । मात्रीयः । पित्रीयः । राजाचार्याभ्यां त्वौत्सर्गिकः छोsपि न भवत्यनभिधानात् । किंतु राज्ञे हितम्,आचार्यांय हितमिति वाक्यमेवेत्याकरः । सर्वपुरुषाभ्याम् । श्रभ्यां शब्दाभ्यां यथासंख्यं णढञौ स्तस्तस्मै हितमित्यर्थे 'प्राक्क्रीतात् -' इति छत्यापवादादिति सूत्रार्थः । सर्वादिति । अनुकरणत्वा सर्वनामकार्याभावः पुरुषाद्वधवि-कारेति । योग्यताबलादिह षष्ठी समर्थविभक्तिर्लभ्यते, 'तेन कृते' इत्यत्र तु उपात्तैव तृतीया, तदाह - पुरुषस्य वध इति । समूहे ऽप्यणीति । 'तस्य समूहः '
>