________________
प्रकरणम् ३२] बालमनोरमा तस्वबोधिनीसहिता।
[४८५
अप्रन्ये तु प्रासादादावप्रास एवेति विवेकः । १६७३ माणवचरकाभ्यां खम् । (५-१-११) माणवाय हिवं माणवीनम् । चारकीणम् । १६७४ तदर्थ विकृतेः प्रकृतौ । (५-१-१२) विकृतिवाचकाचतुर्थ्यन्तात्तदायां प्रकृती वाध्यायां प्रत्ययः स्यात् । प्रकारेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कण्यं दारु । १६७५ छदिरुपधिबलेढम् । (५-१-१३) 'कृते ग्रन्थे' इत्यणि प्राप्ते, पुरुषेण कृतः प्रासाद इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढनित्यर्थः । माणव । श्राभ्यां चतुर्थ्यन्ताभ्यां हितमित्यर्थे खञ् स्यादित्यर्थः । माणवीनमिति। मनोः कुत्सितमपत्यं माणवः, 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोऽण् स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः' । इत्यपत्याधिकारवातिकात् । माणवाय हितमिति विग्रहः। चारकीणमिति । चरतीति चरः पचाद्यच् । ततः स्वार्थिकः कः, चरकाय हितमिति विग्रहः। तदर्थ विकृतेः प्रकृतौ। तदर्थमिति सामान्ये नपुंसकम् । तस्मै इदं तदर्थम् । तच्छब्देन विकृतिः परामृश्यते । सप्तम्यर्थे प्रथमा । विकृत्यर्थायां प्रकृताविति लभ्यते । एवं च तच्छन्देन चतुर्थ्यन्तेन विकृतिरेव प्रथमं निर्दिश्यते । तथा च चतुर्थ्यन्ताद् विकृतिवाचकादिति लभ्यते। तदाह-विकृतिवाचकादित्यादिना । प्रत्ययः स्यादिति । यथाविहितमिति शेषः । अङ्गारेभ्य एतानीति । अङ्गारार्थानीत्यर्थः । अर्थेन नित्यसमासविधानादस्वपदविग्रहः । अत्र काष्ठानि प्रकृतिद्रव्याणि, अङ्गारा विकृतयः। तद्वाचकारदारशब्दाच्छप्रत्यये अङ्गारीयाणीति रूपम् । प्राकारीया इत्यनेन । ग्रन्थेऽणीति । 'कृते प्रन्ये' इत्यनेन । अप्राप्त इति । पौरुषेयः प्रासाद इत्यादौ न कस्याप्यपवादोऽयं ढमिति भावः। माणव। खञो मित्करणं वृद्ध्यर्थे खरार्थ च । यद्यपि माणवे पृद्धिः खतःसिद्धव, तथापि माणवीनाभार्य इत्यत्र 'वृद्धिनिमित्तस्य च.' इति पुंवद्भावप्रतिषेधार्थमिति ज्ञेयम् । माणवायेति । मनोः कुत्सितमपत्यं माणवः । 'अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः ॥' इत्यपत्याधिकारस्थवार्तिकारणत्वम् , तच्च वार्तिकमेतसूत्रस्थनिर्देशसिद्धार्थकथनपरमित्याहुः। चारकीणमिति । चरतीति चरः पचाद्यच् । 'चरिचलिपतिवदीनाम्-' इति द्विर्वचनं विकल्पितत्वादिह न भवति । ततः संज्ञायां कनि चरकः । तदर्थ विकृतेः। तस्मै हितम्' इत्यतस्तस्मा इत्यनुवर्तते तदाहचतुर्थ्यन्तादिति । तदर्यम्' इति 'सामान्ये नपुंसकम्' व्यत्ययेन सप्तमीस्थाने प्रथमेत्याशयेनाह-तदर्थायामिति । विकृत्यर्थायामित्यर्थः । तदिति सर्वनाम्ना हि विकृतिः परामृश्यते । एवं च विकृविरेव प्रथमानिर्देष्टेति 'समर्थानां प्रथमात्-'